अथ षड्विंशोऽध्यायः
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
यद्वृत्तौ विहितं यद्वै देशकालवशाद्द्विज ।
अखण्डितं भोगजालं पावनं प्रितिवर्धनम् ॥ १ ॥
मूलम्

मात्रान्तमर्घ्यपूर्वं तु वस्त्रालङ्कारसञ्ज्ञकम् ।
सुसम्पूर्णं च तद्भक्त्या श्रद्धया विनिवेद्य च ॥ २ ॥

पुरुषाशनमात्रं तु व्यञ्जनेन समन्वितम् ।
प्रापणं परमान्नाद्यमन्नाद्यमतिभूतये 1 ॥ ३ ॥

विहितं शुद्धशालिभ्यस्तद्वदेव हि पौष्कर ।
लक्षणं लेह्यपेयाख्यशोष्यधानाभिधायिनाम् ॥ ४ ॥

विधिवत् षड्रगसोत्थानां पावनानामथाध्वतः ।
भक्तिश्रद्धावशाच्चैव प्रत्येकस्य त्वनेकता 2 ॥ ५ ॥

विशेषयागे विहिता नित्ये वा सति सम्भवे ।
यस्मात् प्रागात्मसात् कुर्याद्भोगशक्तिमनश्वरीम् ॥ ६ ॥

व्यक्तां गुर्वादिवक्त्रेण 3 भुनक्ति तदनन्तरम् ।
भोगत्वमुपचारस्य 4 भोजनाद्विहितं त्वितः ॥ ७ ॥
विश्वास-प्रस्तुतिः
तस्यां नित्ये यथाशक्ति निमित्ताराधने तु वा ।
श्रद्धापूतेन मनसा प्रीतयेऽतिजगत्प्रभोः ॥ ८ ॥

निवेदनीयमेकैकं भोगं भोगाप्तयेऽब्जज ।
तत्रासनादिभिर्भोगैर्व्यक्तैर्व्यक्तिस्थमर्चयेत् ॥ ९ ॥

द्विरष्टाष्टकसङ्ख्यैस्तु क्रमशो नरनाथवत् ।
मण्डलादौ तु वाऽन्यत्र स्मृत्वा मन्त्रमयं वपुः ॥ १० ॥

व्यक्तोपयोगभोगोपमूर्तं संयोज्य चेतसा ।
कृत्वा पाणितलस्थं च त्वर्घ्यस्रक्चन्दनादिभिः ॥ ११ ॥

विलेपनैरलङ्कारैर्नेत्रवस्त्रैर्विनाऽब्जज ।
एतानि कर्णिकोर्ध्वे तु योजनीयानि वै विभोः ॥ १२ ॥

विनिवेद्य निधायान्ये बलिभूमेर्बहिर्द्विज ।
योक्तव्यमग्निमध्ये तु समिद्भिस्सह सर्वदा ॥ १३ ॥

सर्वाण्यन्नविशेषाणि चन्दनादीनि यान्यपि 5 ।
सदन्तकाष्ठताम्बूल मुत्कटक्षारवर्जितम् 6 ॥ १४ ॥
विश्वास-प्रस्तुतिः
दाप्यानि लक्षहोमे तु आसनादीनि यानि च ।
मधुलवणपानाम्बु कटुतैलोज्झितानि 7 च ॥ १५ ॥

कृत्वा 8 यागं यथा शात्रमग्नौ मन्त्रार्चनं पुरा ।
आज्येन तर्पयेत् पश्चात् घृताक्तैस्सतिलैः फलैः ॥ १६ ॥

वापीह्रदनदीदेवखातादिषु जलान्तरे ।
फलस्रगर्ध्य 9 गन्धैस्तु सतोयाञ्जलिभिर्द्विज 10 ॥ १७ ॥
विश्वास-प्रस्तुतिः
अर्चनीयं 11 यथा कामं मन्त्रनाथमतन्द्रितैः ।
सङ्ग्रहे 12 पात्रगं कृत्वा घटे वा गर्जितं ? जलम् ॥ १८ ॥

तत्र मण्डलवत् पूज्य श्रद्धया सम्भधे 13 सति ।
वस्त्रालङ्कारनेत्रादि विनिवेद्य बहिर्न्यसेत् ॥ १९ ॥

प्। १०९)
विश्वास-प्रस्तुतिः
कर्पूरचन्दनक्षोदं 14 कुङ्ङ्कुमागुरुभावितम् ।
विविधं 15 पुष्पजालं च तत्र 16 साध्यं तु निक्षिपेत् ॥ २० ॥

धातुपाषाणमृत्काष्ठरत्नौषधिचितेषु च ।
सपद्मेषु च पीठेषु चक्रयुक्तेषु वाऽब्जज ॥ २१ ॥

द्वितयेनोपरिष्टात्तु उषितेषु तथैव हि ।
द्वारार्धाश्रतया वीथीपीठैरेवान्वितेषु च ॥ २२ ॥

चतुरश्रादिभेदोत्थनानाकृतिधरेषु च ।
एवं वा भद्रपीठेषु केवलेषु द्विजोत्तम ॥ २३ ॥

ध्यात्वा मण्डलवद्देवमर्चनीयं यथाविधि ।
मानसैस्सूर्यबिम्बस्थं तद्वद्धृत्पुष्करान्तरे ॥ २४ ॥

किन्तु तत्र विशेषो यस्तन्मे निगदतश्शृणु ।
द्रव्याणां भूतजातानां 17 ह्यसम्पत्तिर्यदा बहिः ॥ २५ ॥

तदा सङ्कल्पसम्भूतमृद्व * * * रर्चनं 18 कृतम् ।
विलक्षणचिदानन्दप्रकाशवपुषो विभोः ॥ २६ ॥

मूर्तिमन्त्रात्मकं रूपं ध्यात्वा सङ्कल्पसिद्धिदम् ।
सम्भवे सति भोगानां चिदानन्दकदम्बवत् ॥ २७ ॥

स्मृत्वोच्चरेद्द्विधा मन्त्रम् सुविशुद्धेन चेतसा ।
सदृशैरर्चयेद्भोगैरमूर्तैश्शब्दलक्षणैः 19 ॥ २८ ॥

वृद्धिं समुपयातं तैस्स्मरेत्तद्भावितैः क्रमात् ।
ध्यातृध्येयविभागेन 20 त्विष्टे वै तदनन्तरम् ॥ २९ ॥

विलाप्य स्वं मनोबुद्धौ तद्युक्ता सा परात्मनि ।
आत्मानं तन्मयीकुर्यान्निरस्तकरणैस्स्वयम् ॥ ३० ॥

केवलेनास्य रूपेण सर्वशक्तिमयेन च ।
चिद्विशिष्टनरेणैव ततोऽब्जज शनैश्शनैः ॥ ३१ ॥

निस्तरङ्गस्थितेनैव स्वतन्त्रत्वं मह * * * * ये 21 ।
स्वचैतन्यं पृथक्कुर्यादिच्छया 22 पुनरेव हि ॥ ३२ ॥

बहिर्यागप्रसिद्ध्यर्थं शश्वद्भोगफलाप्तये ।
प्राप्त्यर्थं त्वणिमादीनां तथा मन्त्रात्मनाऽप्तये ॥ ३३ ॥

प्राग्वदाकारवत् स्मृत्वा सप्तलोकसमुद्भवैः ।
महद्रूपैः प्रभूतैस्तु 23 चोत्कृष्टतरलक्षणैः ॥ ३४ ॥

भोगैर्नृत्त्तैर्गीतवाद्यैर्जयशब्दाद्यलङ्कृतैः ।
समर्चयित्वा तदनु संस्मृते 24 संस्मृतेऽर्चिते ॥ ३५ ॥

बहिस्त्वभिमताधारे विभाव्यः प्रतिरूपितः ।
मन्त्रनाथो महद्धाम दर्पणो वृत्तिरन्तगे ? ॥ ३६ ॥

इत्येतत् 25 श्रद्ध वै * * * * र्विषयं नैष्ठिकस्य च ।
सुपदे ? पूर्ववद्ध्यानं विलाप्यं चारुलक्षणम् ॥ ३७ ॥

वाच्यवाचकयोगेन स्वमन्त्रं तेजसां निधिम् ।
अपसव्येन मार्गेण त्वाऽकृष्य हृदयं 26 न्यसेत् ॥ ३८ ॥

सह स्ववायुना सम्यक् सद्धामाधिष्ठितासने ।
सुलक्षणेऽर्चादेशे वा द्रव्यार्थे सर्वतोऽब्जज ॥ ३९ ॥

तद्विनाऽन्यत्र मन्त्रेशं तस्मादभ्युदितं 27 स्मरेत् ।
व्यक्ताकृतिधरं चैव साङ्गं सावरणं द्विज ॥ ४० ॥

आराधनक्रमेणैव प्रविलाप्य यथा पुरा ।
युगपत् सह सर्वेषां सम्प्रवेशक्रमेण च ॥ ४१ ॥

कृत्वा चनुगतां बुद्धिं स्वदेहस्थेन वायुना ।
शश्वदाकृष्य बुद्धिस्थं मध्यमार्गेण पौष्कर ॥ ४२ ॥

प्। ११०)
विश्वास-प्रस्तुतिः
कुर्याच्चैतन्यविश्रान्तं हृदब्जगगनोदरे ।
एवं हि त्रिविधं यागं हार्दान्ते समुदाहृतम् ॥ ४३ ॥

द्रव्यैर्ज्ञलक्षणैः पूर्वं चिदचित्सदृशैः परम् ।
दुर्गतैस्सुशुभैस्स्वल्पैरञ्जितैस्स्थापितैर्बहिः ॥ ४४ ॥

तृतीयमब्जसम्भूत क्रमात् 28 तत्प्रातिभावनात् ।
हृद्यागो 29 यस्तु भोगेषो संयोगान्मोक्षमृच्छति ॥ ४५ ॥

सम्भोगमपवर्गं च तद्बहिर्व्यञ्जनं पुनः ।
कर्मसन्यासिनां विप्र कर्मिणां प्रददाति च ॥ ४६ ॥

आहूतः प्रविशेद्यत्र 30 मन्त्रनाथो 31 हि सम्मुखः ।
तत्प्रागपेक्षया 32 कार्यं धर्मादीनां निवेशनम् ॥ ४७ ॥

साम्मुख्यं भजते यस्मात् साध (स ?) नः परमेश्वरः ।
तदासनं हि चिद्रूपं सिद्धमेतत् स्ववाहनात् ॥ ४८ ॥

तत्पीठवसुधोद्देशं मण्डलादिषु वृत्तिषु ।
आत्मनः प्राग्वशाद्वायुकोणादारभ्य पूजनम् ॥ ४९ ॥

कार्यं विघ्नेशपूर्वाणां तत्पदाराग्रभूः 33 पदम् ।
वीथौ ? सविधिकानां तु यागानामेतदाचरेत् ॥ ५० ॥

बहिर्वारणरेखानां 34 मुक्तानां तु महामते ।
युक्तानां न बहिर्दोषैर्निर्यते चार्चने 35 सति ॥ ५१ ॥

एवं रक्षःपदे कुर्यात् स दक्षिणवशात्तु 36 वै ।
पुजनं कालनाथानामन्येषां भगवद्वशात् ॥ ५२ ॥

आद्वार्स्थेभ्यस्तु 37 पूजानां पैठीयानां यथाक्रमम् ।
लाञ्छनाह ? श्रियादीनां * * * * दिक्पतीन् 38 हितान् ॥ ५३ ॥

दिक्पालकत्वादासृष्टेर्यतस्तेषां स्थितिस्स्थिरा ।
भगवन्मन्त्रमूर्तीनामनन्तानां महामते ॥ ५४ ॥

स्वस्थानस्था नमस्यन्ति पूजयन्ति जपन्ति च ।
ध्वजाद्यैरुपचारैस्तु सम्यक् परिचरन्ति च ॥ ५५ ॥

कैवल्यसिद्धये शश्वद्बहुभिस्सानुगैस्सह ।
पालयन्ति च भक्तानां बलमोजो ददन्ति च ॥ ५६ ॥

ध्वंसयन्ति च विघ्नौघमनिशं मन्त्रयोजिनाम् ।
संरक्षन्ति फलं मान्त्रं वर्धमानं विलक्षणम् 39 ॥ ५७ ॥

अधिकारमनादिं यच्छक्तिभूतं जगत्प्रभोः ।
दिक्सिद्धये दशात्मत्वं तद्वत्येषा 40 दशात्मका ॥ ५८ ॥

कदाचिद्दिक्परिज्ञाने बहिर्भ्रष्टेऽथ हृद्गृहे ।
आराध्य पृष्ठतः प्राग्वत् तेषां कुर्यात् समर्चनम् ॥ ५९ ॥

एवं दिगन्तरे देशे योगज्ञे तु कृते सति ।
सविशेषेऽथ वै नित्ये विष्वक्सेनार्चनं हितम् ॥ ६० ॥

इति श्रीपाञ्चरारे पौष्करसंहितायां भोगभेदो नाम
षड्विंशोऽध्यायः ॥ २६ ॥
यहा तक भेजा जा चुका है