२५ अध्यायः

अथ पञ्चविंशोऽध्यायः

पौष्कर उवाच

विश्वास-प्रस्तुतिः

वृत्तिस्थानानि भगवन् त्वच्छासनरतात्मनाम् ।
हितार्थं ज्ञातुमिच्छामि त्वत्सकाशाच्च साम्प्रतम् ॥ १ ॥

मूलम्

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

सत्यव्यूहं 1 च तद्भेदैस्सहमूर्त्यन्तरैस्तथा ।
प्रादुर्भावैर्द्विजश्रेष्ठ प्रादुर्भावान्तरैर्विना ॥ २ ॥

यदन्यदेवताकारं 2 तदा सारसलाञ्छनम् ।
निषिद्धं वैष्णवानां च सामान्यानां सदाऽर्चने ॥ ३ ॥

प्। १०६)

विश्वास-प्रस्तुतिः

किं पुनर्मन्त्रतत्त्वज्ञ तत्पारम्यरतात्मनाम् ।
तदाराधनसिध्यर्थे 3 दीक्षितानां महात्मनाम् ॥ ४ ॥

नमस्कुर्याद्विभूत्यंशं दृष्टं वा संश्रुतं 4 स्मृतम् ।
पूजनीयमनुज्ञानमाराध्यानां बहिः क्वचित् ॥ ५ ॥

कदाचिद्दृष्टसिद्ध्यर्थं स्वाङ्गमौभि ? 5 रचर्चितम् ।
स्वातन्त्र्येणोपचारैस्तु शुद्धस्येषां ? न दोषकृत् ॥ ६ ॥

त्वत्तोऽहं ज्ञातुमिच्छामि विशेषेण जगत्प्रभो ।
उपादेयादिकं भेदमाश्रयाणां यथार्चितम् ॥ ७ ॥

मूलम्

त्वत्तोऽहं ज्ञातुमिच्छामि विशेषेण जगत्प्रभो ।
उपादेयादिकं भेदमाश्रयाणां यथार्चितम् ॥ ७ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

उपादेयानि विप्रेन्द्र वृत्तिस्थानानि मे शृणु ।
सवाचकानां वाच्यानां सदाराधनसिद्धये ॥ ८ ॥

भूतेभ्यस्त्रितयं 6 पूर्वं तत्प्राक् सामान्यलक्षणम् ।
चलाचलविभागेन पीठवत् पृथिवी पुनः ॥ ९ ॥

हेमादिनानापत्राणां मृत्काष्ठोपलजन्मनाम् ।
खड्गास्थिघटितानां च कलशानां तथैव हि ॥ १० ॥

शुभपर्णपुटानां 7 च गालितं संस्थितं जलम् ।
स्थलमल्लककुण्डानां स्थिरसञ्चाररूपिणाम् ॥ ११ ॥

प्रदीप्तो धूमनिर्मुक्तो 8 सेन्धनश्शस्यतेऽनलः ।
पूर्वोक्तद्रव्यभेदोत्थे चतुरश्रादिलक्षणे ॥ १२ ॥

केवले भद्रपीठे वा पद्माद्यैर्मध्यतो ? 9 दिते ।
एवं रूपेषु पीठेषु प्रमाणोनेषु चाब्जज ॥ १३ ॥

विविधेष्वप्रणालेषु 10 काश्रयेषूज्झितेषु च ।
बृहत्प्रवालसद्रत्नमहामुक्ताफलोपरि ॥ १४ ॥

सूक्ष्मे तन्निकरे वाऽथ सम्भवे सति पद्मज ।
क्षौमकार्पासकौशेयवस्त्रजाले सितेऽहते ॥ १५ ॥

मार्गे 11 चर्मणि भूमिष्ठे कम्बले कुतपेऽब्जज ।
पृथग्भूतेऽथवा चाभि * * * क्तलक्ष्मीप्रसारिते ॥ १६ ॥

ग्राम्यैर्वृद्धगणैः 12 कृत्स्नैस्त्वारण्यैस्तण्डुलैस्तथा ।
क्षोदितैर्गन्धसम्मिश्रैर्विधिवत् 13 सम्प्रसारितैः ॥ १७ ॥

गन्धक्षोदैस्तु विविधैस्स्थूलैर्धूपाधिवासितैः ।
गर्भैर्वा 14 स्थगितै 15 स्थाना ? 16 पुष्पैः पत्रैश्च शाड्गलैः ॥ १८ ॥

स्वतन्त्रैस्सितरक्ताद्यै रागै रेखाविवर्जितैः ।
मधुक्षीराज्यदध्यन्नभक्षैः पात्रस्थले स्थितैः ॥ १९ ॥

फलमूलैस्तथा सिद्धैश्शाकैः खण्डैश्च 17 तानितैः ।
निवृत्तौ 18 चैत्यसञ्ज्ञे तु मण्डले सप्तमेखले ॥ २० ॥

चतुश्शृङ्गेन मे वीख्ये 19 न लिङ्गे कुलिशोदरे ।
न शूलशृङ्गकोटीनां 20 दिनत्र्यक्षाफलेषु ? च ॥ २१ ॥

प्। १०७)

विश्वास-प्रस्तुतिः

करञ्जाद्येष्वपूज्येषु त्वन्येष्वेव 21 हि पद्मज ।
पुष्पेषून्मत्तकाद्येषु त्वज्ञातेषु विशेषतः ॥ २२ ॥

निन्दितेषु च पत्रेषु कमण्डलुगतेऽम्भसि ।
तत्र श्रेयोनि ? 22 संस्थाप्य संस्थिते मण्डलादिके ॥ २३ ॥

विना शङ्खदलं 23 विप्र तथा शुक्तिकवाटकम् ।
न कपालाकृतौ पत्रे करवे ? भावदूषिते ॥ २४ ॥

शब्ददुष्टो 24 वमत्यस्मिन् ? रक्ते 25 वै स्थण्डिलादिके ।
स्वाश्रयेषु यथा देवैश्चातुरात्म्यादयोऽर्चिताः ॥ २५ ॥

निराश्रर्यैनरैर्भक्तैर्नासाद्यास्तेऽर्चनाय च ।
विनोदितैर्विशेषा (ख्यै) र्हृच्चक्रकमलैस्सह ॥ २६ ॥

हितं हितानुज्ञानानामाधाराणां परिग्रहम् ।
कर्मिणां फलकामानां मन्त्रात्मा सम्प्रयच्छति ॥ २७ ॥

सद्यो वृत्तवशाद् ब्रह्मन्ननुरूपफलं 26 हि यत् ।
सामान्यादप्यसामान्यादामायाद्भूतलक्षणात् 27 ॥ २८ ॥

अचलप्राप्ति 28 वा भूतिप्राप्ति ? विप्राविनश्वरीम् ? ।
परिवर्तनरूपा 29 च सा पुनश्चललक्षणा ॥ २९ ॥

सप्रभूताञ्जलाद् ? वृष्टिलाभस्समुपजायते ।
वृष्टिरल्पतरा 30 चैव यावज्जीवं 31 तु पौष्कर ॥ ३० ॥

नित्यं 32 निरामयत्वं च वह्नेर्वृत्तौ तु मन्त्रिणाम् ।
हेमाद्युत्थेषु पीठेषु मन्त्री कमलसम्भव ॥ ३१ ॥

प्रतिपत्तिगणं श्रेष्ठं नृपेभ्यस्सरमाप्नुयात् ? ।
प्रवालाद्यैरधिष्ठानैस्तेजोवृत्तिमनुत्तमाम् 33 ॥ ३२ ॥

धृतिं समृद्धिं 34 पूजां च साजिताद्वस्त्रसञ्चयात् ? ।
प्राप्नोत्यारधनाच्छश्वदाराध्या कमलेक्षण ॥ ३३ ॥

ध्यानवृत्तौ सदा वृत्तिर्वर्धते कुलवर्धनी ।
अक्षय्या कमला नॄणां जायान्नं तण्डुलाश्रयात् ॥ ३४ ॥

गन्धाधाराच्च सौभाग्यं कुलाधारान्महत् सुखम् ।
सम्पूजनात् कुशादीनां पृष्ठे वै मन्त्रराट् सदा ॥ ३५ ॥

ददाति मनसः प्रीतिमतुलाममलेक्षण ।
रागाधारगतो मन्त्रः कामभोगमनुत्त्तमम् ॥ ३६ ॥

संयच्छत्यविरुद्धं च द्रविणेन समन्वितम् ।
मधुक्षीराज्यपूर्वेषु त्वाश्रयेष्वखिलेषु च ॥ ३७ ॥

पूजनं 35 मन्त्रनाथस्य दीर्घायुष्यं प्रयच्छति ।
तथैव विपुलां कीर्तिं 36 * * * * धर्मनिश्चयक्षमाम् ? ॥ ३८ ॥

एतानि पुनरब्जोत्थ सम्भवानां 37 फलानि च ।
भजन्ति नूनं नानार्थमुद्यमाद्यन्महामते 38 ॥ ३९ ॥

देशं कालं तथा द्रव्यं महत्त्वादिव्यपेक्षया 39
याति मोक्षाङ्गभाववं नैष्ठिकानां महात्मनाम् ॥ ४० ॥

सदेव जीवमुक्तानां भक्तानां 40 भावितात्मनाम् ॥

इति श्रीपाञ्चरात्रे पौष्करसंहितायां वृत्तिविचारो नाम पञ्चविंशोऽध्यायः ॥ २५ ॥

(समुदितश्लोकसङ्ख्या ४० ॥ )

  1. क्, ख्: * * * भेदैः ↩︎ ↩︎

  2. क्, ख्: यदद्यदेवताकारं तदा * * * * लाञ्चनम् ↩︎ ↩︎

  3. क्, ख्: महात्मनाम् ↩︎ ↩︎

  4. क्, ख्: सन्धुतम्; ग्, घ्: संशृतम् ↩︎ ↩︎

  5. क्, ख्: स्वाङ्गमौ * * * तम् ↩︎ ↩︎

  6. क्, ख्: स्त्रितयं * * * * तत्प्राक् ↩︎ ↩︎

  7. क्, ख्: शुभवर्णपटूनाञ्च * * * * संस्थिताञ्जलिम् ↩︎ ↩︎

  8. क्, ख्: यूपनिर्मुक्तो ↩︎ ↩︎

  9. क्, ख्: पद्माद्यै * * * ↩︎ ↩︎

  10. क्, ख्: ष्वप्रमाणेषु ↩︎ ↩︎

  11. मार्गे चर्मणि = कृष्णाजिने ↩︎ ↩︎

  12. ग्: ग्राम्यैर्वृद्धागणैः; घ्: ग्राम्यैर्वृद्धान् गणैः ↩︎ ↩︎

  13. ग्, घ्: क्षौमितैः ↩︎ ↩︎

  14. दर्भैः इति स्यात् ↩︎ ↩︎

  15. घ्: स्थगिते ↩︎ ↩︎

  16. क्, ख्: स्थाना ↩︎ ↩︎

  17. क्, ख्: कण्डैश्चतादितैः; ग्, घ्: खण्डेश्चशाद्वलेः इति लिखित्वा पश्चात् खण्डैश्च तानितैः इति लिखितमस्ति ↩︎ ↩︎

  18. क्, ख्: निवृत्तौचे * * * सञ्ज्ञे ↩︎ ↩︎

  19. क्, ख्: * * * मे कुलि ↩︎ ↩︎

  20. क्, ख्: न शूल * * * ↩︎ ↩︎

  21. क्, ख्: त्वद्येष्वेव ↩︎ ↩︎

  22. क्, ख्: -श्रोयोनि ↩︎ ↩︎

  23. क्, ख्: विनाशवदलम् ↩︎ ↩︎

  24. क्, ख्: शब्दमुष्टोवमन्यस्मिन् ↩︎ ↩︎

  25. क्, ख्: नृत्ते ↩︎ ↩︎

  26. क्, ख्: वशात् * * * ब्रह्मरूपफलम् ↩︎ ↩︎

  27. क्, ख्: -न्यानामायात् ↩︎ ↩︎

  28. क्: अर्धद्वयं लुप्तम् ↩︎ ↩︎

  29. ख्: परिवर्तनपाश्च ↩︎ ↩︎

  30. ग्, घ्: पुष्टिरल्पतरा ↩︎ ↩︎

  31. क्, ख्: यावज्जीवं तु * * * ↩︎ ↩︎

  32. क्, ख्: * * * वृत्तौ तु ↩︎ ↩︎

  33. ग्, घ्: तेजोवृत्ति * * * ↩︎ ↩︎

  34. ग्, घ्: धृतिस्समृद्धि ↩︎ ↩︎

  35. ग्, घ्: पूजानान् ↩︎ ↩︎

  36. ग्, घ्: विफलां कीर्तिमधमं निचय ↩︎ ↩︎

  37. क्, ख्: सम्पान्ननाम् ↩︎ ↩︎

  38. ग्, घ्: नानार्थमुत्तमाद्यं महा ↩︎ ↩︎

  39. क्, ख्: भाव्यं महत्वादव्यपेक्षया ↩︎ ↩︎

  40. क्, ख्: मुक्तानां भावि ↩︎