अथ चतुर्विंशोऽध्यायः
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
पूर्वापराभ्यां द्वाराभ्यां सुपर्णं 1 सत्यविक्रमम् ।
न्यसेद्वै सर्व * * * * थानां 2 तत्र पृष्ठगते 3 विभोः ॥ १ ॥
मूलम्

ईषत् तद्द्वारमाश्रित्य हेमदण्डं 4 * * * * मन्दिरे ।
सम्मुखं सम्मुखे द्वारि भूगतं विधृताञ्जलिम् ॥ २ ॥

दक्षिणोत्तरभागाभ्यां द्वाराभ्यां कमलोद्भव ।
गदाचक्रे ज्वलद्रूपे विन्यस्ते तत्परायणे ॥ ३ ॥

चण्डादीनां पुराष्टानां चतुर्द्वारगतौ 5 स्थितः ।
प्रकाशितावगस्थानां ? सेवयागेषु भूगताः ॥ ४ ॥

क्रमेण तु गतं तेषां शोभाष्टगणमष्टकम् 6 ।
शोभाष्टकयुते यागे वज्रनाभादिकं हि यत् ॥ ५ ॥

उपशोभाष्टकार्थानां यागानामथ तद्गतम् ।
न्यस्तव्यमष्टकमिदं तृतीयं क्रमशो द्विज ॥ ६ ॥

लोहिताक्षो महावीर्यस्त्वप्रमेयस्सुशोभनः ।
वीरहा विक्रमो भीमश्शतावर्तस्तु चाष्टमः ॥ ७ ॥

त्रयोऽपि शोभानुगतमन्यशोभाष्टकं 7 द्विज ।
तत्राष्टकमिदं चान्यच्चतुर्थं क्रमशो न्यसेत् ॥ ८ ॥

अनिवार्ती महावतोनागहा 8 सर्वजित् स्थिरः ।
जयन्तो भयकूर्मादि 9 त्वष्टमं कमलोद्भव ॥ ९ ॥
विश्वास-प्रस्तुतिः
उपद्वारेषु यागानामिदं षोडशकं क्रमात् ।
प्रदक्षिणेन प्राग्भागाद् द्वौ द्वौ चण्डप्रचण्डवत् ॥ १० ॥

दृढव्रतो बहुशिरा महाकायो महाबलः ।
जितक्रोधो दुराधर्षो महोत्साहस्त्रिविक्रमः ॥ ११ ॥

अनिलो दुष्टहाऽर्चिष्मान् सर्वदृग्दुरतिक्रमः 10 ।
विषमो गहनो मेघष्षोडशैतैः भयोदिताः ॥ १२ ॥

चतुरश्रेषु यागानां वह्नेरीशपदावधि ।
चतुष्टयमिदं विप्र न्यसनीयं यथाक्रमम् ॥ १३ ॥

ऊर्जितश्चामृताङ्गस्तु 11 सर्वाङ्गस्सर्वतोमुखः ।
कोणानामेकबिम्बानामित्युक्तं कमलेक्षण ॥ १४ ॥

द्विबिम्बानां 12 सदुद्देशात् तत्पादान्तं बहिः पुनः ।
चतुष्टयं योजनीयं न्यासकाले द्विजं ? महत् ॥ १५ ॥

शुभाङ्गो वरदश्चैव वागीशश्शब्दविक्रमः ।
विद्धि शङ्खविशेषास्ते सूक्ष्मस्थूला यथाक्रमम् ॥ १६ ॥

इदमुक्तं यदुद्दिष्टं मण्डलानां पुरा मया ।
आधारदेवताव्यूहं पीठामरगणान्वितम् ॥ १७ ॥

द्वारेशानुगते सार्धं ? श्रीणानाथ ? गणं हि यत् ।
सर्वेषामर्चनं विप्रा ? 13 दाराध्या हृदयान्वितः ॥ १८ ॥

स्वसञ्ज्ञाप्रणवोपेता नमस्कारपदानुगाः ।
या पुनस्थूलसूक्ष्माख्या 14 युक्ताऽन्येषां पदेन तु ॥ १९ ॥

आत्मनेतिपदोपेतास्स्वाहान्ता होमकर्मणि ।
चित्तसम्प्रतिपत्त्यर्थमाराधारादथाब्जज 15 ॥ २० ॥

यथाक्रमेण सर्वेषां ध्यानमार्गक्रियामलम् 16 ।
शान्त मुज्झितततच्छेषं 17 स्थितमन्तर्मुखं स्थितम् ॥ २१ ॥

आधेयोल्लिखिताकारमाधाराख्यं स्मरेत् प्रभुम् ।
कूर्ममुद्रान्वित्तं कूर्मवक्त्रं निष्टप्तरुक्मभम् ॥ २२ ॥

शङ्खपद्मधरं कूर्मं स्वस्तिकेन स्थितं स्मरेत् ।
मुञ्चन्तमनिशं तेजो देहाद्भीषणमुत्कटम् ॥ २३ ॥

तिर्यगूर्ध्वं तदाधारं ज्वालामालमिवोज्ज्वलम् 18 ।
अनन्तशशिसङ्काशमनन्तमथ संस्मरेत् ॥ २४ ॥

प्। १०४)
विश्वास-प्रस्तुतिः
सहस्रफणमालाढ्यं सहस्रफणभूषितम् ।
स्वपाणिसम्पुटेनैव शोभवत् ? स्वाङ्ग भूतलम् 19 ॥ २५ ॥

सितारविन्दशङ्खाक्षसूत्र चक्रकरान्वितम् 20 ।
पतनाशङ्कबुद्धेर्वै 21 वित्रस्तमनसस्तु च ॥ २६ ॥
विश्वास-प्रस्तुतिः
मा भैरित्यभयं 22 यच्छन्नाब्रह्मभुवनस्य च ।
निश्शेषरक्तहेमाभां 23 प्रावृट्श्रियमिवोज्ज्वलाम् 24 ॥ २७ ॥

पद्मासनेनोपविष्टां ध्यायेद्बद्धाञ्जलिं धराम् ।
फुल्लकुन्दावदातं च सितस्निग्धजटाधरम् ॥ २८ ॥

ध्यायमानं सितं शङ्खं मुक्तादामैरलङ्कृतम् ।
विस्तीर्णसर्वावयवं विक्षिप्तोरुद्ययस्थितम् ॥ २९ ॥

विक्षिप्तजानुपादं च संस्मर्तव्यं पयोनिधिम् ।
स्पीताम्रफलश्यामपाणिपादतलोज्ज्वलम् 25 ॥ ३० ॥

रक्ताक्षं च तदा विप्र कीर्णकेशं सिताननम् ।
पद्मासनेनोपविष्टमक्षमालासमाकुलम् ॥ ३१ ॥

पद्ममुद्रान्वितं पद्मं सूदीर्घचरणं स्मरेत् ।
तुहिनाच्छोपलस्वच्छमुक्ताफलशशिप्रभाः ॥ ३२ ॥

मृगेन्द्रस्कन्धवदना धर्म ज्ञानादयश्चतुः 26 ।
पद्मरागप्रवालादिसद्दाडिमफलोज्ज्वलाः ॥ ३३ ॥

अन्तर्दयोपरक्ताश्च राजराजेश्वरोपमाः ।
द्विरष्टवर्षवद्विद्धि चत्वारो धर्मपूर्वकाः ॥ ३४ ॥

हेमचम्पकखद्योतहरितालदलोज्ज्वलाः ।
वाजिवक्त्रा स्मृताः वेदास्सम्पूर्णनरलक्षणाः ॥ ३५ ॥

एवं 27 वृषेन्द्रवदनां युगा ब्रह्मन् कृतादयः ।
सुपक्वाम्रातसीपुष्पनीलाब्जशुकसन्निभाः ॥ ३६ ॥

सर्वे सद्वस्त्रसत्पुष्पसदलङ्करणान्विताः ।
शङ्खपद्मधरास्सर्वे वराभयकरास्तु वै ॥ ३७ ॥

आधेयचक्रविन्यस्तमस्तकास्स्वात्मसिद्धये ।
समर्पितान्तः करणा परस्मिन् मन्त्रकारणे ॥ ३८ ॥

युगान्तार्काग्निसङ्काशखगोमण्डलमध्यगम् ।
स्वमुद्राव्यग्रपाणिं च वल्गन्तं हेतिराट् स्तरेत् ॥ ३९ ॥

चिन्त्यमव्यक्तपद्मं 28 तं हिमहेमाग्निभास्वरम् ।
शान्तमष्टभुजं सौम्यं संस्थितं स्वस्तिकेन तु ॥ ४० ॥

स्फटिकोपलकान्तिं च चिद्धनानव ? मव्ययम् ।
सर्वशक्तिनिधिं ध्यायेदमूर्तिं चित्प्रभाकरम् ॥ ४१ ॥

सर्वेष्वपि 29 भवान्तस्थं तत्राधारात्मना विभोः ।
स्वसत्ताभासितं सत्त्वं गुणसत्त्वाद्विलक्षणम् ॥ ४२ ॥

विभवं विद्धि विप्रेन्द्र ज्वालौघं 30 कच्छपात्मनः ।
स्वभोगं नाग नाथस्य 31 * * * * क्षितकाञ्चनित्यया ? ॥ ४३ ॥

आसारमामृतं दिव्यं वीच्यौघैस्तु समन्वितम् ।
क्षीरोदकीयं विभवं परिज्ञेयमनश्वरम् ॥ ४४ ॥

बीजकोशं 32 सकिरासं ? कमलस्य दलान्वितम् ।
स्वशक्तिनी ? 33 प्रवृतीनां मया विभवमप्रकृत् ? ॥ ४५ ॥
विश्वास-प्रस्तुतिः
विमलादिकलाजालं पौरुषं विभवं स्मृतम् ।
विभोर्मन्त्रात्मनश्चेदमशेषममरार्चितम् 34 ॥ ४६ ॥

प्। १०५)
विश्वास-प्रस्तुतिः
आमहन्मन्त्रनाथेभ्यो 35 नानामन्त्रगणं हि यत् ।
स्वशक्तिनिचयोपेतं तद्विष्णोः परमात्मनः ॥ ४७ ॥

विभवं कमलोद्भूतं ज्ञात्वैवं स्वं यजेत्तदा ।
पीठवेदिबहिष्ठानां प्रागुक्तानां द्विजोत्तम ॥ ४८ ॥

लोहिताक्षादिकानां तु ध्यानस्यातः 36 परं शृणु ।
लोहिताक्षादयश्चाष्टौ वर्णतस्वपतोज्वलाः ? ॥ ४९ ॥

ज्वलत्परशुहस्ताश्चाप्यस्तं ? 37 मुदितमानसाः ।
चतुर्थमष्टकं यद्वै ह्यनुवर्तिपुरस्सरम् ॥ ५० ॥

तदाऽनन्तकरं विद्धि स्वस्य 38 नद्युदया ? करम् ।
दृढव्रतादयस्सर्वे षोडशोपप्रवेशकाः 39 ॥ ५१ ॥
विश्वास-प्रस्तुतिः
महामुद्गरहस्ताश्च स्वाश्रयद्युतिलक्षणाः ।
ऊर्जिताद्यास्तथैश्रीरा ? गृहीतमुसलास्तुते ॥ ५२ ॥

कान्तितः कोणभूभागा ? लक्षणात् कमलोद्भव ।
सर्वे चार्वम्बराश्चैव द्विभुजाश्चारुकुण्डलाः ॥ ५३ ॥

प्रसन्नवदनास्सौम्यास्त्रैलोक्योद्धरणक्षमाः ।
हारनूपुरकेयूरपूर्वैर्द्वा * * * * 40 शविद्युताः ॥ ५४ ॥

तदाज्ञाप्रेक्षकाश्चैव दुष्टदोषोपशान्तिदाः ।
बलेन महता क्षिप्तदेवासुरमहोरगाः ॥ ५५ ॥

एकवीरासहायाश्च त्वप्रयत्नेन लीलया ।
आब्रह्मभुवनं शश्वत् परिवर्तनकृत्क्षमाः ॥ ५६ ॥

गदागरुडचक्राणां चण्डादीनां महामते ।
यथावदुक्तं हि पुरा भूयः किं कथनेन हि ॥ ५७ ॥

इति श्रीपाञ्चरात्रे पौष्करसंहितायां आधारासनदेवतालक्षणो नाम
चतुर्विंशोऽध्यायः ॥ २४ ॥