२३ अध्यायः

अथ त्रयोविंशोऽध्यायः

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

एवमाधारसंस्थानं कृत्वा तदनु विन्यसेत् ।
आकजक्षेत्रदेशाद्वै यावद्द्वारावनि क्रमात् ॥ १ ॥

मूलम्

आधेयाधारकत्वेन 1 तदधिष्ठातृदेवता ।
अपेक्षाप्राग्वशेनैव दिग्विदिक्षु यथाक्रमम् ॥ २ ॥

ऐश्वरं पौरुषं प्राच्यां प्राजापत्यं तृतीयकम् ।
तत्राद्यमपवर्गादिसाधने कर्मिणां 2 हितम् ॥ ३ ॥

तत्सिद्धिसाधनत्वेन सर्वेषां चाकरं स्मृतम् ।
प्रयाति चाङ्गभावं तु मन्त्रिणामप्यमन्त्रिणाम् ॥ ४ ॥

प्रसिद्धं सिद्धकामानां तृतीयममलेक्षण ।
स्वबुद्धिशक्त्यो हृद्यागसिद्धये उक्तमब्जज ॥ ५ ॥

स्वमन्त्रं व्यक्ततां नीतं यत्तत्वे नित्यसम्मुखम् ।
भूतसामर्थ्यमूर्तेर्वै चित्तेस्सकरणस्य च ॥ ६ ॥

वस्तुत्वेन फलत्याशु त्वसमाम्मात्रवेदिनः ? ।
भक्तिश्रद्धावशेनैव सन्निरुद्धो भवानि 3 यत् ॥ ७ ॥

एवं मन्त्रार्क दृग्रश्मिजालेनाभासितं 4 हि यत् ।
ततस्सङ्कल्पमाद्यं हि नित्यनिश्चयचेतसाम् ॥ ८ ॥

मन्त्रैकशरणानां तु बहिरप्यर्चने 5 हितम् ।
अन्तर्वा बहिरब्जोत्थ आधाराद्दिगुदक् स्थितम् ॥ ९ ॥

निपतत्यंशुजालं च यत्र तत् पौरुषं स्मृतम् ।
भगवान् भूतभावानामात्मदैवत्ययाजिनाम् 6 ॥ १० ॥

गुणा बहुभिदश्चासु 7 बहिरन्तर्यथैश्वरम् ।
यान्निश्चयीकृतं पूर्वं तत्प्रसिद्धिवशात्त्वपि ॥ ११ ॥

सुप्रसिद्धं च तद्वृत्ति तृतीयं हि महामते ।
रुचिदिग्वीक्षमाणानामेकद्वारादिकात्मनाम् ॥ १२ ॥

प्। १००)

विश्वास-प्रस्तुतिः

देवतायतनानां च नमतानां महामते ।
शेषादिशयनानां च धूपादीनां निवेशने ॥ १३ ॥

धर्मादिलक्षणे कार्या तद्वशादासनी स्थितिः ।
इन्द्रादिलोकपालानां यज्ञादीनां तथैव च ॥ १४ ॥

प्रयोजनवशेनैव मन्दमध्यपरायणैः ।
कलशस्थं च कुण्डस्थं यन्त्रस्याराधनस्य च ॥ १५ ॥

एवमेवमनुष्ठेयं लोकेशानस्य पूजनम् ।
वनेऽत्र गहने विप्र सद्भूधरगुहान्तरे ॥ १६ ॥

भूगृहे बलिभूमौ वा लोकधर्मरतात्मनाम् ।
लोके शासन शास्त्रार्थं 8 मन्त्राणां संस्थितिं सदा ॥ १७ ॥

सममन्त्रस्य 9 दृष्ट्या वै कार्या कमलसम्भव ।
अतत्व * * * * वदब्जोत्थ 10 मन्त्रतत्त्वज्ञमाचरेत् ॥ १८ ॥

नगरायतनादीनां सुस्थिराणां च सर्वदिक् ।
एवं ज्ञात्वा पुरा सम्यग्दिग्विदिङ्नियमं तथा ॥ १९ ॥

सुयोग्यतावशेनैव स्वस्यान्तः 11 करणाय च ।
समाचरेत् ततो न्यायं मण्डलानां यथा शृणु ॥ २० ॥

सदैव शक्तिभावेन सद्रूपात्मनि वर्तते ।
स्थूलसूक्ष्मद्वयं विप्र त्वेवं सत्वात्मना सह ॥ २१ ॥

व्यक्तिशक्तिसमूहं तु सूक्ष्मात्मन्यनुवर्तते ।
सत्ताख्येन स्वरूपेण 12 संयुक्ता सूक्ष्मदेहिनाम् ॥ २२ ॥

स्थूलात्मन्यब्जसम्भूत 13 संस्थिता सर्वदैव हि ।
ऊह्येऽत्र विहितो वाऽपि बहिरन्तर्व्यपेक्षया ॥ २३ ॥

पद्मावनिसमीपे तु पक्षन्यासो विधीयते ।
द्विधा सत्तात्मकं रूपं रूपं सर्वस्य देवहि ? ॥ २४ ॥

समीपे यागभूमौ तु विहिता न्यासकर्मणि ।
बृहद्रूपं तु सर्वेषामन्योन्यारागता ? द्विधा ॥ २५ ॥

मण्डलीयेषु पीठेषु यस्मादब्जसमुद्भव ।
वादगात्रकबिम्बानाम् द्विविधा वर्तते स्थितिः ॥ २६ ॥

स्वेनोपदान्वितस्पष्टा ? सुस्पष्टाऽन्या च केवला ।
एवं ज्ञात्वा पुरा सम्यग् यथावदमलेक्षण ॥ २७ ॥

पूर्ववन्मण्डलानां तु पर्यन्तन्यासमाचरेत् ।
सर्वदा सर्वयागानां दलाद्व्योमदलान्तरे ॥ २८ ॥

शब्दे प्रकाशमात्रं तु स्वदैत्यं न्यसेद्ध्रुवम् ।
व्योमबाह्ये त्वपीठानामग्निकोणादितो न्यसेत् ॥ २९ ॥

युगस्वभावमूर्तिं 14 च धर्माद्यं हि चतुष्टयम् ।
तन्निविष्टं तथा भूतं तद्व्यत्ययगुणं 15 हि यत् ॥ ३० ॥

सह 16 ऋक्पूर्वसामान्यं कालभेदेन चान्वितम् ।
ततो देशे सपीठानां तदुद्देशं 17 तथैव च ॥ ३१ ॥

तदैव शब्दाकाशं 18 तु चतुर्था त्वेक एव हि ।
शरदिन्दुकलासारकान्तिभूतं तु विन्यसेत् ॥ ३२ ॥

पीठानामष्टबिम्बानां प्रादक्षिण्येन योजयेत् ।
आग्नेयादौ चतुष्कार्थे 19 ईशकोणावसानकम् ॥ ३३ ॥

धर्मं ज्ञानं च वैराग्यमैश्वर्यं कमलोद्भव ।
प्रागादावुत्तरान्तं तु त्वधर्मममलेक्षण ॥ ३४ ॥

अज्ञानं 20 च त्ववैराग्यमनैश्वर्यमनन्तरम् ।
चतुःखण्डे तु वै पीठे केवले पूर्ववन्न्यसेत् ॥ ३५ ॥

प्। १०१)

विश्वास-प्रस्तुतिः

धर्माद्यैश्वर्यमूलं 21 तु यथोद्दिष्टक्रमेण तु ।
बाह्यतश्चोपपीठे तु व्योमभावोपलक्षणैः ॥ ३६ ॥

चतुष्टयभ्रमाद्यं तु पादन्यासादनन्तरम् 22
पीठानामेकबिम्बोत्थं गात्राणां कमलोद्भव ॥ ३७ ॥

द्विबिम्बचरणानां तु तत्र चाभ्यन्तरे क्रमात् ।
व्यत्ययैस्सहधर्माद्यैः प्राग्वद्वेद्यास्ततो बहिः ॥ ३८ ॥

गात्रकेषु 23 कृताद्याश्च चत्वारश्च यथाक्रमम् ।
साङ्घ्रिणा गात्रकाणां तु बिम्बमध्यात् तदात्मनाम् ॥ ३९ ॥

पूर्वापराभ्यां बिम्बाभ्यामाग्नेयै तदनु न्यसेत् ।
परापरविभागेन धर्मस्तत्रैव तद्बहिः ॥ ४० ॥

दक्षिणोत्तरभागाभ्यामैश्वर्यं द्विज 24 शक्तिदम् ।
उदग्दक्षिणयोस्तत्र ह्यधर्माख्यं च रूपभृत् ॥ ४१ ॥

प्राचीपूर्वापराभ्यां तु अधर्मं 25 च द्विरात्मवत् ।
युगं 26 हि कृतनामाख्यमात्मना दक्षिणोत्तरे ॥ ४२ ॥

याम्ये प्राक्पश्चिमे त्रेता ह्यज्ञानं दक्षिणोत्तरे ।
वारुणे त्वप्यवैराग्यं द्विधा प्राक्पश्चिमे न्यसेत् ॥ ४३ ॥

सोत्तरे दक्षिणे भागे द्वापरं विनिवेश्य च ।
उत्तरे तु ह्यनैश्वर्यं दिग्द्वये 27 दक्षिणादितः ॥ ४४ ॥

बिम्बद्वये तु प्रागाद्यैर्वि धान्यकलिकं 28 ततः ।
त्रिबिम्बचरणे पीठे पञ्चबिम्बे तु गात्रके ॥ ४५ ॥

अभ्यन्तरेषु पादानां धर्मास्तद्बहिरस्य च ।
सूक्ष्म * * * * * * * * साधारास्तु कृतादयः ॥ ४६ ॥

गात्रकेषु त्वधर्माद्या न्यस्तव्या मूर्तिलक्षणाः ।
अथैकबिम्बपीठाग्रे पञ्चबिम्बे तु गात्रकम् ॥ ४७ ॥

यथा तदनु सार्धेन एकाग्रमवधारय ।
स्वक्षेत्रेषु च धर्माद्या न्यस्तव्या व्यक्तलक्षणाः ॥ ४८ ॥

मध्यतो गात्रबिम्बानामधर्माद्यास्तथाविधाः ।
तस्य सव्यापसव्याभ्यां बिम्बाभ्यां कमलोद्भव ॥ ४९ ॥

एक एव द्विधा चैव ऋग्वेदं सूक्ष्मलक्षणम् ।
ततस्सत्तास्वरूपं तु कृतं तदुपपक्षयोः ॥ ५० ॥

एवं दक्षिणदिग्भागे यजुस्त्रेतायुगान्वितम् 29
प्रत्यक् प्राग्द्वापरं ह्युदक् साथर्वयुगः 30 कलिः ॥ ५१ ॥

द्विबिम्बचरणानां तु पीठानां कमलोद्भव ।
द्विबिम्बगात्रकाणां तु विन्यासमथ मे शृणु ॥ ५२ ॥

मन्त्रबिम्बेषु पादानामग्ने रीशपदावधि 31
परस्वरूपा धर्माद्या बहुस्थूला 32 कृतादयः ॥ ५३ ॥

मध्ये बिम्बेषु गात्रानां धर्माद्या परमात्मकाः ।
तत्पक्षयोस्तु साकाराः श्रुतिसङ्घा द्विधाद्विधा ॥ ५४ ॥

द्विबिम्बचरणे पीठे तदन्यत् पञ्चबिम्बके ।
परस्थलीविभेदेन 33 धर्माद्यास्वायतेषु च ॥ ५५ ॥

ततोऽधर्मादयस्स्थूला मध्यतो गात्रभूमिषु ।
पद्मावनिसमीपे तु मध्यबिम्बस्य पक्षयोः ॥ ५६ ॥

सत्तास्वरूपद्वित्वेन न्यसनीया ऋगादयः ।
एवमाकृतिमन्येऽपि 34 बहिः प्राग्वद्द्वयोरपि ॥ ५७ ॥

कृतादयस्तु साकाराश्चात्मनाद्व्यात्मना 35 न्यसेत् ।
चतुर्बिम्बेषु पादेषु पीठेष्वेव महामते ॥ ५८ ॥

प्। १०२)

विश्वास-प्रस्तुतिः

अन्यत्रपञ्च 36 बिम्बेषु * * * * * * * * न्यासक्रममथोच्यते ।
तत्र धर्मादयस्तावत् परसूक्ष्ममयाः क्रमात् ॥ ५९ ॥

सर्वान्तरस्थतद्बाह्ये प्रत्यग्रे तु पदेपदे ।
ताभ्यां तदनु बाह्यस्थां बिम्बाभ्यां विनिवेश्य च ॥ ६० ॥

स्थूलत्वेन 37 ततो भूयस्तथारूपा युगास्तथा ।
न्यस्तव्या युग्मयोगेन स्याच्चतुर्णां यथाऽष्टधा ॥ ६१ ॥

साकारस्तु ह्यधर्मात्मा गात्रकाणां हि मध्यतः ।
समं 38 व्यूह्य क * * * * सम्यक् पक्षबिम्बमपि स्थितम् ॥ ६२ ॥

वासाभावद्विधैकैकं 39 पुनरप्यत्र पूर्ववत् ।
त्रि 40 प्रकारा द्विधावस्था ऋग्वेदाद्यास्ततो न्यसेत् ॥ ६३ ॥

गात्रकेष्वष्टबिम्बेषु चतुर्बिम्बेषु चाश्रिषु ।
विन्यासं 41 * * * * चाब्जोत्त्थ यथा तदवधारय ॥ ६४ ॥

आरभ्यान्तरबिम्बाद्यैर्बाह्यबिबान्तमङ्घ्रिषु ।
परसूक्ष्मविभक्तेन ततो धर्मादयः क्रमात् ॥ ६५ ॥

तत्रैव पक्षदेशाभ्यां कृता युग्मयुतो गतः ? ।
मुखसेनावहा मूर्तिलक्षणा विनिवेश्य च ॥ ६६ ॥

स्थूलभूतस्वधर्माद्या गात्रकाणां तु मध्यतह् ।
पत्रसूक्ष्मात्मना तेषां बिम्बमध्यबहिस्स्थिते ॥ ६७ ॥

स्थूलात्मा सर्व-ऋग्वेदमेकं तत्पक्षयोर्द्विधा 42
पुनस्सूक्ष्मात्मना चैव न्यसेत्तदुपपक्षयोः ॥ ६८ ॥

भूतस्तद्बाह्यसंस्थाभ्यां ? पादाभ्यां 43 तत्पदात्मनाम् ।
एष एव हि तद्विप्र न्यसनीयं प्रयत्नतः ॥ ६९ ॥

एवं दक्षिणदिग्भागादुदङ्निष्टं द्विजोत्तम ।
अथर्ववेदपर्यन्तं यजुर्वेदादिकं न्यसेत् ॥ ७० ॥

दृकृश्रोत्रपाणिपादानां 44 करणानां यथैव हि ।
सत्वैवाकातुश्च ? 45 वै विश्व तथैतेषां द्विते ? ततः ॥ ७१ ॥

इति श्रीपाञ्चरात्रे पौष्करसंहितायां आसनदेवतान्यासो नाम

त्रयोविंशोऽध्यायः ॥ २३ ॥

  1. ग्, घ्: आर्याचारकत्वेन ↩︎ ↩︎

  2. ग्, घ्: कर्मणाम् ↩︎ ↩︎

  3. ग्, घ्: भवादिवत् ↩︎ ↩︎

  4. क्, ख्: दृग्वह्निज्वालेन ↩︎ ↩︎

  5. ग्, घ्: बहिरव्यच्यते ↩︎ ↩︎

  6. ग्, घ्: भावभूतानाम् ↩︎ ↩︎

  7. ग्, घ्: गुणाबहि तिहाच्चाशु ↩︎ ↩︎

  8. क्, ख्: शास्त्राख्य ↩︎ ↩︎

  9. ग्, घ्: सद्यमन्त्रस्य ↩︎ ↩︎

  10. क्, ख्: दब्जार्यम् ↩︎ ↩︎

  11. क्: स्वस्यान्त्य ↩︎ ↩︎

  12. क्: स्वरूपेण * * * * * ↩︎ ↩︎

  13. क्, ख्: स्थूलात्मनि इत्यादि दैवत्यन्न्यसेद्ध्रुवम् इत्यन्तं सार्धं श्लोकषट्कं गलितम् ↩︎ ↩︎

  14. ग्, घ्: ज्ञानस्वभाव * * * ↩︎ ↩︎

  15. ग्, घ्: तद्व्यत्ययगणम् ↩︎ ↩︎

  16. ग्, घ्: सहान्यत्पूर्व ↩︎ ↩︎

  17. ग्, घ्: तदुद्देशे ↩︎ ↩︎

  18. ग्, घ्: शब्दकोशै ↩︎ ↩︎

  19. ग्, घ्: चतुष्कं तु ↩︎ ↩︎

  20. क्, ख्: अज्ञानं च अवैराग्य ↩︎ ↩︎

  21. ग्, घ्: धर्माद्यैश्वर्यनिष्कम् ↩︎ ↩︎

  22. क्, ख्: पादा * * * * दनन्तरम् ↩︎ ↩︎

  23. क्, ख्: गात्रक्षेषु ↩︎ ↩︎

  24. क्, ख्: त्विचशक्ति ↩︎ ↩︎

  25. क्, ख्: म्यां तु * * * ↩︎ ↩︎

        • नामाख्य
     ↩︎ ↩︎
  26. ग्, घ्: दिश्यये ↩︎ ↩︎

  27. ग्, घ्: विधानकलिकम् ↩︎ ↩︎

  28. क्, ख्, ग्, घ्: यदुस्त्रेता ↩︎ ↩︎

  29. ख्, घ्: त्वथर्वायुगनीकलिः एनमाकृतिमन्त्येपि ↩︎ ↩︎

  30. क्, ख्: मग्नेः श्रीश ↩︎ ↩︎

  31. क्, ख्: बहु * * * * ला ↩︎ ↩︎

  32. ग्, घ्: परस्थूलीविभेदेन ↩︎ ↩︎

  33. क्, ख्: एनमाकृतिमन्त्येपि ↩︎ ↩︎

  34. क्, ख्: -द्वामनाच्चात्मना ↩︎ ↩︎

  35. क्, ख्: अन्यपत्रं च ↩︎ ↩︎

  36. क्, ख्: * * * लस्सोततो ↩︎ ↩︎

  37. ग्, घ्: * * * समं व्यूहकासम्यक् पक्षबिम्बमधिस्थितः ↩︎ ↩︎

  38. ग्, घ्: द्वाहवभाव ↩︎ ↩︎

  39. क्, ख्: त्रि * * * काराद्विधाव्यवस्था * * * वेद्यास्ततो ↩︎ ↩︎

  40. क्, ख्: विन्यासं * * * * चाब्ज * * * यथा ↩︎ ↩︎

  41. क्, ख्: तच्चक्रयोः ↩︎ ↩︎

  42. क्, ख्: पाद्याभ्याम् ↩︎ ↩︎

  43. क्, ख्: दिक्श्रोत्र ↩︎ ↩︎

  44. सर्वत्र विकृतान्यक्षराणि ↩︎ ↩︎