२२ अध्यायः

अथ द्वाविंशोऽध्यायः

पौष्कर उवाच

विश्वास-प्रस्तुतिः

सम्यग्वेदितुमिच्छामि त्वत्तोऽहममरार्चित ।
हिताय साधकेन्द्राणां तदध्याराहिचासनम् 1 ॥ १ ॥

मूलम्

सरहस्यमसङ्कीर्णं साधितैव ? 2 यथास्थितम् ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

आधेयमब्जसम्भूत स्वेऽविकारे 3 स्वरूपिणि ।
स्वयमाद्यन्तयोरुद्धं 4 सूत्रे मणिगणा 5 यथा ॥ २ ॥

प्रागाधारात्मना चैव विश्वाकारतया ततः ।
नानामन्त्रात्मना ह्यूर्ध्वे निस्तरङ्गो हि तत्त्वतः ॥ ३ ॥

अभ्यस्तवासनानां च कर्मिणां कर्मशान्तये ।
तदिच्छाविष्कृतानां च भोगकैवल्यसिद्धये ॥ ४ ॥

प्। ९६)

विश्वास-प्रस्तुतिः

अनाद्यविद्याविधानामियत् तेषां हि वस्तुनि ।
नाथोर्ध्वे न त्वदृष्टीनां तत्त्वतो वाऽथ पौष्कर ॥ ५ ॥

6 तिर्यग्ब्रह्मपूर्वे च न हेयादिविकल्पना ।
या विशेषविकल्पैस्तु प्रत्यस्तमितलक्षणा ॥ ६ ॥

शक्तिर्भगवतो विष्णोस्साधाराख्याऽभिधीयते ।
प्राग्वदासनसामर्थ्यं बीजमादाय चेच्छया ॥ ७ ॥

अव्यक्तव्यक्तरूपा च यथाऽदित्यकदम्बकम् ।
बाविप्रसरधर्मत्वाद्विश्वबीजचयस्य च ॥ ८ ॥

साम्प्रतं सम्भृताङ्गस्य 7 कूर्मसञ्ज्ञाऽभिधीयते ।
यो विश्वं निर्दहत्यन्ते कालवैश्वानरात्मना ॥ ९ ॥

दैवतं यस्य भगवान् कूर्मात्मा लोकपूजितः ।
अजहद्भगवच्छक्तिस्सामर्थ्यं पुनरेव तत् ॥ १० ॥

अनन्तं सविल्पानां यद्विश्वाङ्कुरमव्ययम् ।
नयत्यूर्ध्वं यथा कूर्मो ग्रीवां स्वात्मनि संहृतम् ॥ ११ ॥

शेषाख्यं फणिदैवत्यं 8 तदनन्तं हि गीयते ।
आश्रयं बीजभूतानां चतुर्णां च महामते ॥ १२ ॥

तद्गन्धविटपस्तस्माद्व्यक्तिमभ्येति पूर्ववत् ।
भूरात्मा भगवान् यस्मिन्नभिमानाख्यदेवता ॥ १३ ॥

फलं रसात्मकं तस्माद्व्यज्यत्यमृतलक्षणम् ।
यस्याभिमानिकं रूपं क्षीरार्णवमनश्वरम् ॥ १४ ॥

तस्मादनन्तरत्नोत्थं कान्तिं कमलमब्जज ।
व्यक्तं यस्य च वै शक्तिर्नित्या दहनलक्षणा ॥ १५ ॥

तदनन्तदलं विद्धि दिव्यं विकसितं सितम् ।
परपूर्वेण भेदेन चैकद्वित्रिगुणात्मना 9 ॥ १६ ॥

स्थित्वा वृद्धिर्विकारैस्तु 10 सह चाष्टाभिरब्जज ।
यत्राथ देवतात्वेन वाग्विकारा मृगादयः 11 ॥ १७ ॥

तथा कालविकारा ये चत्वारः कृतपूर्वकाः ।
तत्र रूपं हि सर्वेषां सत्तामात्रपरं स्मृतम् ॥ १८ ॥

व्यक्तिकारणध्यानाभि ? 12 स्साङ्गाभिरपरं तु तत् ।
तृतीयमभिमानाख्यं देवतादेहलक्षणम् ॥ १९ ॥

तस्माद्वै वायुदैवत्यं स्पर्शतन्मात्रमेव च ।
जाता यस्य स्फुटा व्यक्तिर्नानाचक्राङ्गलक्षणम् ॥ २० ॥

तस्मादाकाशदैवत्यं शब्दमुत्पन्नमब्जज ।
सर्वाङ्गसंहृता चक्र व्यक्तिर्यस्यामलं वपुः ॥ २१ ॥

गीयते व्योमवृत्तं तत् प्रधानकमलालयम् ।
यस्यान्तस्थानि भूतानि यस्मिन् सर्वं प्रतिष्ठितम् ॥ २२ ॥

तस्मादुन्मेषपूर्वं हि महत्प्रलयपश्चिमम् ।
प्रवर्तते कालतानं भेदकृत् सर्ववस्तुषु ॥ २३ ॥

वाङ्मात्रेणैव भिन्नस्य ह्यभिन्नस्यैव तत्त्वतः ।
ज्ञानादिगुणबृन्दस्य ब्रह्मणश्चतुरात्मनः ॥ २४ ॥

नित्योदितत्वान्नित्यत्वाद्व्यापकत्वात् परं पदम् ।
पूर्णत्वात् षड्गुणत्वाच्च न कालो लब्धगोचरः ॥ २५ ॥

शब्दादादित्यदैवत्यमहङ्कारं महामते ।
मनश्चादित्यदैवत्यमहङ्कारमभूत् 13 ततः ॥ २६ ॥

बुद्धिप्रकाशदैवत्या व्यक्तानन्दात्मनो विभोः ।
दलादिकर्णिकान्ता या सूर्यपूर्वादिकल्पना ॥ २७ ॥

प्रधानकमलस्यैषा मूर्तिर्गुणमयी स्मृता ।
बुद्ध्यादीनां च तत्त्वानां कारणं यदनश्वरम् ॥ २८ ॥

अव्यक्ताख्यं महाबुद्धे ह्यभिन्नगुणमूर्तिभृत् ।
स्वगुणानधरीकृत्य स्वप्रतिष्ठं प्रवर्तते ॥ २९ ॥

प्। ९७)

विश्वास-प्रस्तुतिः

अध्यात्मलक्षणा वृत्तिस्सर्वास्संहृत्य वै हृदि ।
उत्पद्यन्ते हि चैतस्माद्भावास्सर्वे द्विजोत्तम ॥ ३० ॥

विपद्यन्तेऽत्र वै भूतास्तस्मात् पद्मं परं त्विदम् ।
चिदादित्यकलाजालं ग्राह्यग्राहकलक्षणम् ॥ ३१ ॥

सङ्क्रान्तं यत्र स्वं धाम स्वसामर्थ्यं च चेत्यपि 14
विमलाख्या विमलता ज्ञानशक्तिर्ज्ञताब्जज 15 ॥ ३२ ॥

प्रभवाख्या प्रभवता सत्यसञ्ज्ञा च सत्यता ।
नित्याख्या नित्यता वैव प्रकाशाख्या प्रकाशता ॥ ३३ ॥

अनन्तता ह्यनन्ताख्या कला कमलसम्भव ।
सहानुग्रहशक्त्या वै ज्ञेयाऽनुग्रहता परा ॥ ३४ ॥

द्विचतुष्कं कलानां यत् स्वप्रतिष्ठं हि वर्तते ।
संवर्तते 16 परं चैव पुनरेव निवर्तते ॥ ३५ ॥

परापरविभागेन कलास्त्वेतार्चितात्मनः ? 17
प्रोक्ताः कमलसम्भूत यासामानन्त्यमुत्तमम् ॥ ३६ ॥

स्वशक्त्याधिष्ठितं कृत्वा स्वस्वभावस्वभावया ।
ग्राह्यग्राहकरूपाय ? एवमव्यक्तपुष्करम् ॥ ३७ ॥

समास्ते केवलं शुद्धमीषत्काललवं द्विज ।
सामान्येनैव यो भूत्वा साम्प्रतं शक्तयः कलाः ॥ ३८ ॥

अस्मितालक्षणं 18 धर्मं स्विकं सम्यङ्गिरस्य च ।
प्रवर्तते तन्निरासादानन्दमतुलं द्विज ॥ ३९ ॥

स्वप्रकाशमनौपम्यं तमिच्छेन्मन्त्रमव्ययम् ।
परिच्छेद्या दिगाद्यैस्तु 19 प्रकाशाकाशवर्तिनी ॥ ४० ॥

कृत्वाऽश्रित्य कलामूर्तिं समनन्तरमब्जज ।
विहाय मध्यदेशं च प्रकाशगगनात् ततः ॥ ४१ ॥

धृतिशक्त्यासने स्वेऽथ उपविश्य यथासुखम् ।
विद्यादेहेन सूक्ष्मेण भूतदेहानुकारिणा ॥ ४२ ॥

अथानन्दकदम्बं तद्यत् स्वरूपं पृथक्कृतम् ।
रञ्जयेच्छास्त्रदृष्टेन व्यवहारं गतेन च ॥ ४३ ॥

स्वकेनालम्बनेनैव देवतालक्षणेन च ।
ज्ञानानात् ? 20 सुस्थितान् पश्येदुदितान् सुहृदादिषु 21 ॥ ४४ ॥

लाञ्छनाभरणादीनि यथा न्यस्यानि विग्रहे ।
स्वस्थानेष्वथ 22 वै तस्मादवदाता हृदादयः ॥ ४५ ॥

यथाशास्त्रक्रमेणैव यजेत् विधिना ततः ।
एवमासनदाने तु परस्मात्तत्त्वसन्ततिम् ॥ ४६ ॥

उदितां प्रलयं कुर्यात् करणे तदधिष्ठिते ।
निवृत्ते पुरुषार्थे तु चान्तर्वा बहिरब्जज ॥ ४७ ॥

क्रमान्मन्त्रगणं स्मृत्वा यातं मन्त्रेश्वरे लयम् ।
मन्त्रशक्तिं स्वसङ्कल्पशक्त्या वाऽथ शमं नयेत् ॥ ४८ ॥

सह सङ्कल्पशक्त्या वै विद्यामूर्तिं स्वकां ततः ।
स्वकलासु लयीकुर्यात् कलाजालं तथाऽत्मनि ॥ ४९ ॥

प्राग्वदानन्दसन्दोहपरिपुष्टस्तु जायते ।
सृष्टिक्रमेण संहृत्य त्वाधारं यत् पुरोदितम् ॥ ५० ॥

ज्ञानिनां विगलन्त्येषां स्वभावात् तत्त्ववेदिनाम् ।
निष्कलानां महाबुद्धे निष्पन्नानां सुकर्मणि ॥ ५१ ॥

विकासमेति चान्येषां नित्याकाररतात्मनाम् ।
मन्त्रक्रियारतानां च नानात्वेन समात्मनाम् ॥ ५२ ॥

घृतमच्युतशक्त्या वै ह्यपरि च्युतसत्तया 23
सद्विकल्पस्वरूपं च विश्वासनमिदं द्विज ॥ ५३ ॥

प्। ९८)

विश्वास-प्रस्तुतिः

विधृतं विभुना व्याप्तं स्वसामर्थ्येन यद्यपि ।
तत्रापि तच्छरीराणां जिवानां तन्निवासिनाम् ॥ ५४ ॥

स्वशक्त्याऽनुगृहीतानां तमाक्रम्य महामते ।
नानामन्त्रात्मना त्वास्ते तस्मिन् नानाविधात्मनि ॥ ५५ ॥

सम्पूर्यमवि (पि) तानां ? वै व्रजत्यर्चार्धसिद्धये ।
कर्मणा स्वल्पबुद्धीनां स्वरूपं 24 न जहाति वै ॥ ५६ ॥

व्रहयज्ञोत्पलाद्यस्तु 25 दनावृन्दन्तु 26 पौष्कर ।
प्रभवज्ञोपलाद्यद्वि * * * * * * * * * * * * ** * * ॥ ५७ ॥

अनुग्रहपरो मन्त्रस्त्वेवमब्जज चाप्युत ? ।
निजयत्स्वमहत्सत्तं ? ज्ञानादिगुणलक्षणाम् ॥ ५८ ॥

निश्रेयसपदप्राप्तिपर्यन्तं कालवर्तिनाम् ।
विनियोगावसाने तु तेऽपि चायान्ति वै सह ॥ ५९ ॥

विलयं वासुवे * * * * तेषां क्रीडार्थमेव च ।
समारोप्य स्वविज्ञानमन्येषां भवशान्तये ॥ ६० ॥

एवं परा मन्त्रिविभो ? स तु सर्वेश्वरस्य च ।
स्थिता कमलसम्भूत भूतयोनिविमुक्तये ॥ ६१ ॥

निष्क्रियस्य विभोर्नाथ त्वच्युत स्याव्ययात्मनः 27
कथं मन्त्रात्मभावेन विविक्तमुपपद्यते ॥ ६२ ॥

मूलम्

निष्क्रियस्य विभोर्नाथ त्वच्युत स्याव्ययात्मनः 27
कथं मन्त्रात्मभावेन विविक्तमुपपद्यते ॥ ६२ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

तृणानां हि यथाऽदाने नारीश्चासं ? 28 प्रवर्तते ।
स्वशक्तिः पुष्यरागस्य मणेर्विकसनेऽपि 29 च ॥ ६३ ॥

तद्वद्भगवतो विष्णोः परस्य परमात्मनः ।
प्रवर्तते शक्तिचयो यस्य मन्त्रस्य गं वपुः ॥ ६४ ॥

कर्मात्मकत्वाद्यादाय पुनरेव निवर्तते ।
साऽच्युताख्या महाशक्तिश्शान्तसंविन्मया पुरा ॥ ६५ ॥

एवं कर्मात्मतत्त्वस्य विद्यासम्पालितस्य च ।
स्थितिस्सम्प्रतिबुद्धस्य इन्द्रियार्थासु 30 शक्तिषु ॥ ६६ ॥

यथा ह्यनिल पूर्णानां 31 द्रुतौ स्थित्वा सुशिक्षितः ।
प्रतरत्यतिसङ्क्षिस्था ? नष्टमव्याकुलेन्द्रियः ॥ ६७ ॥

सत्त्वशिक्षितबुद्धेर्वै व्यक्षुब्धे हसि ? पौष्कर ।
वर्तते त्वधरीकृत्य व्यूर्ध्वे त्वाकुलचेतसः ॥ ६८ ॥

एवं सम्प्रतिबुद्धस्तु ? 32 शक्तयश्चेन्द्रियान्तराः 33
भावमन्त्रक्रियाणां च समर्था न्यक्करोति च ॥ ६९ ॥

शुद्धसंविन्मयश्चास्ते निस्तरङ्गसमुद्रवत् ।
आमूढत्वाद्विजानन्दपरिस्पन्दं स्वकं पुनः ॥ ७० ॥

शक्तिभिस्तु समारोप्य वेद्यवेदकृतां भजेत् ।
एत्येवमुत्तमाधारस्वरूपं हि धरास्थितिः ॥ ७१ ॥

जायते तत्परिज्ञानात् 34 कर्मणां कर्मसङ्क्षयः ।
उदयाव्ययसंस्थानमन्तर्यागत्वमेव च ॥ ७२ ॥

प्। ९९)

विश्वास-प्रस्तुतिः

नित्यमेवं हि मन्त्राणां * * * * वायुमूर्तिनां 35
मध्यदेशं समावृत्य मध्यमार्गेण संविशेत् ॥ ७३ ॥

सुव्यक्तो ? रन्तरीभूतमात्मानं खे पुरोदितम् ।
ध्रिये घृतविधिं ? यावदेतद्वै शासनं पुरा ॥ ७४ ॥

बहिस्तदनु सा वृत्तिर्भेदानां यजनाय च ॥

विश्वास-प्रस्तुतिः

इति श्रीपाञ्चरात्रे पौष्करसंहितायां आधारासनलक्षणो नाम
द्वाविंशोऽध्यायः ॥ २२ ॥

(समुदितश्लोकसङ्ख्या ७५ )

  1. ग्, घ्: मदध्याराहिचासनम् ↩︎ ↩︎

  2. साधिदैवम् इति साधु ↩︎

  3. ग्, घ्: स्वे विकारोर्ध्वरूपिणि ↩︎ ↩︎

  4. क्, ख्: सधर्माद्यन्तयोरुद्धम् ↩︎ ↩︎

  5. ग्, घ्: मणिगणो ↩︎ ↩︎

  6. ग्: नतिर्यक वृष्ट्?वपूर्वे च ↩︎ ↩︎

  7. क्, ख्: साम्प्रत प्रहृताङ्गस्य ↩︎ ↩︎

  8. पणिदैवत्यम् ↩︎ ↩︎

  9. ग्, घ्: वैकद्वित्रि ↩︎ ↩︎

  10. ग्, घ्: स्थित्वाबुद्धिर्विकारैस्तैः ↩︎ ↩︎

  11. ग्, घ्: यत्राहि- -वाग्विकारान्मृगादयः ↩︎ ↩︎

  12. क्: व्यक्तिकरण * * * नश्रिः; ख्: व्यक्तिकरणथानाभिः ↩︎ ↩︎

  13. अनन्त ↩︎ ↩︎

  14. ग्, घ्: चैव हि ↩︎ ↩︎

  15. क्, ख्: ज्ञानशक्त्यब्जता ↩︎ ↩︎

  16. ग्, घ्: संवर्तने ↩︎ ↩︎

  17. क्, ख्: कल्पास्त्वेतार्चिता ↩︎ ↩︎

  18. क्, ख्: अस्मिन् विलक्षमन्धर्मात्मकम् ↩︎ ↩︎

  19. ग्, घ्: परिच्छेद्यदिगाद्यैः ↩︎ ↩︎

  20. (घ) ज्ञानानान् ↩︎ ↩︎

  21. ग्, घ्: स्वहृदादिषु ↩︎ ↩︎

  22. ख्: स्वस्थानेष्वधि ↩︎ ↩︎

  23. क्, ख्: च्युतशक्त्या ↩︎ ↩︎

  24. ग्, घ्: स्वरूपं तं जहाति ↩︎ ↩︎

  25. ग्, घ्: प्रहयज्ञोपलाद्यस्तु ↩︎ ↩︎

  26. ग्: तनावृन्दं तु; घ्: दन्विवृन्दं तु ↩︎ ↩︎

  27. क्, ख्: स्याप्यथात्मनः ↩︎ ↩︎

  28. घ्: नारीश्चसम् ↩︎ ↩︎

  29. ग्, घ्: प्रणेर्विकर्षणेपि ↩︎ ↩︎

  30. क्, ख्: इन्द्रियासु च ↩︎ ↩︎

  31. अनिलपूर्णायां दृतौ इति साधु ↩︎ ↩︎

  32. क्, ख्: स एवं प्रति- ↩︎ ↩︎

  33. ग्, घ्: -श्चेन्द्रियान्तरः ↩︎ ↩︎

  34. क्, ख्: ज्ञायमेतत्परिज्ञानात् ↩︎ ↩︎

  35. क्, ख्: चद्यनोवायु; ग्: च ऋतेवायु; घ्: चरुतोवायु ↩︎ ↩︎