२१ अध्यायः

अथ एकविंशोऽध्यायः

पौष्कर उवाच

विश्वास-प्रस्तुतिः

देव त्वया शक्तिचयः 1 पुरा तु समुदीरितः ।
तस्याहं श्रोतुञ्च्छामि सविन्यासं च लक्षणम् ॥ १ ॥

मूलम्

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

सर्वसम्पत्प्रदा लक्ष्मीः पुष्टिः परमसिद्धिदा ।
कान्तिः प्रभा मतिश्शक्तिः 2 क्रियेच्छा महिमोन्नतिः ॥ २ ॥

स्वधा विद्याणिसा माया 3 मूर्तिह्रींश्श्रीः 4 कला द्युतिः ।
निष्ठा ऋज्वी रुचिश्चेष्टा शोभा शुद्धिर्विभूत्यतः ॥ ३ ॥

वृत्तिर्व्याप्तिर्गतिस्सुप्तिर्भागा वागीश्वरी रतिः ।
सिद्धिर्नतिः 5 प्लुतिः क्रीडा सम्पत् कीर्तिश्शिखा मतिः ॥ ४ ॥

गायत्री चापि मर्यादा सृष्टिश्चेत्यब्जसम्भव 6
पूर्वमात्मगुणत्वेन मन्त्रदेहं स्मरेद्धिया 7 ॥ ५ ॥

आभिरापूरितं कृत्स्नममूर्ताभिस्सदैव हि ।
एतत् सामान्य संयोगं 8 शक्तिश्चक्रस्य पौष्कर ॥ ६ ॥

सह मन्त्रगणेनैव विशेषमधुनोच्यते ।
आदि मूर्तिन्नसन्तुष्टं ? 9 दक्षिणोत्तरविन्यसेत् ॥ ७ ॥

लक्ष्मी पुष्टिद्वयाख्यं 10 यद्यत्नेनावकराश्रयम् 11
अष्टदिक्ष्वष्टकं न्यस्येत् केसराग्रात् श्रुतक्रमात् ॥ ८ ॥

दलमध्ये हृदादीनां बहिर्वा सिद्ध्यपेक्षया ।
आसां मुख्यांशमध्ये 12 तु * * * * 13 परं पदम् ॥ ९ ॥

यथेष्टं लभते भोगमङ्गसङ्गाद्बहिः स्थितम् ।
शेषव्योमावृतादूर्ध्वे बद्धपद्मासनात्तु 14 वै ॥ १० ॥

पर्येयाः परियोगेन वीक्षमाणाः परं प्रभुम् ।
पृथग्यागावतीर्णानां मन्त्राणामेवमेव हि ॥ ११ ॥

शक्त्यष्टकं च न्यस्तव्यं लक्ष्मीपुष्टिद्वयं विना ।
तच्छिष्टदेवता व्यूहं 15 मप्राप्तिपरिवृत्तकम् ॥ १२ ॥

अष्टपत्रं विनाऽन्यस्मिन् पद्मे 16 केसरसन्तते ।
मूलदेशे यथा याति कर्णिकोपममष्टकम् ॥ १३ ॥

एवं चाखिलयागानां न्यासस्स्याद्देवतासु च ।
मुक्तवैकं मिश्रचक्रं तु शारदं कमलोद्भव ॥ १४ ॥

तत्राष्टकं तु कह्लारे शेषाचक्रे भिःस्ववत् ।
ध्यानमन्त्रं क्रमाद्ब्राह्मन् कथयामि यथास्थितम् ॥ १५ ॥

रक्तपङ्कजवर्णाभा 17 लक्ष्मीर्नीलाम्बुजेक्षणा ।
दुग्धौघधवला पुष्टिरानन्दकलितानना ॥ १६ ॥

प्। ९५)

विश्वास-प्रस्तुतिः

कान्त्याद्युन्नतिपर्यन्तमष्टकं 18 स्फटिकामलम् ।
यच्चतुस्त्रिंशकं विप्र शक्तीनां शुभलक्षणम् ॥ १७ ॥

अन्तरान्तरयोगेन ध्यायेत् कनकसन्निभम् ।
पद्मरागोद्धतमं 19 किञ्चिदनौपम्यगुणान्वितम् ॥ १८ ॥

प्रसन्ननयनास्सर्वाः प्रसन्नवदनाम्बुजाः ।
रूपलावण्यसौभाग्यैरन्योन्येन समन्विताः ॥ १९ ॥

सर्वा 20 माल्याम्बरधरास्सर्वालङ्कारमण्डिताः ।
चन्द्ररश्मिप्रतिकाशवालव्यजनचिह्निताः ॥ २० ॥

वामहस्तेन 21 चान्येन ध्यायेदभिमतार्थदाः ।
मन्त्रवत् 22 क्रमचारिण्यस्तद्वत् सर्वफलप्रदाः ॥ २१ ॥

समाराधनकाले तु भक्तानामनुकम्पया ।
वैश्वरूप्यं समाश्रित्य दिक्षु 23 दृक्पातयन्ति च ॥ २२ ॥

एवं बहिर्व्यापृतयो सहमन्त्रार्चनाब्जज 24
विन्यासमर्चनं ध्यानं देवीसंसिद्धमन्त्रिणम् ॥ २३ ॥

इति श्रीपाञ्चरात्रे पौष्करसंहितायां परिवारलक्षणो नाम

एकविंशोऽध्यायः ॥ २१ ॥

  1. क्, ख्: शक्तितया; ग्: शक्तितयो; घ्: शक्तितयोपरासकृस ↩︎ ↩︎

  2. ग्, घ्: प्रभामितिश्शक्तिः ↩︎ ↩︎

  3. क्, ख्: विद्यारणीमया ↩︎ ↩︎

  4. क्, ख्: मूर्तिह्रीम्ः श्रीस्तुलाद्युती ↩︎ ↩︎

  5. क्, ख्: सिद्धि * * * * क्रीडा ↩︎ ↩︎

  6. ग्, घ्: सृष्टिश्चेत्यब्ज ↩︎ ↩︎

  7. क्, ख्: स्मरेच्छ्रिया ↩︎ ↩︎

  8. क्, ख्: संयोगं * * * पौष्कर ↩︎ ↩︎

  9. ग्, घ्: मूर्तिन्नसंसृष्ट ↩︎ ↩︎

  10. क्, ख्: दाच्छयाख्यम् ↩︎ ↩︎

  11. क्, ख्: यत्नेनावत्तरा; घ्: यत्नेनावत् कराश्रियम् ↩︎ ↩︎

  12. क्, ख्: आसां मुख्येंशमध्ये ↩︎ ↩︎

  13. ग्, घ्: विनासं स्यात् ↩︎ ↩︎

  14. क्, ख्: व्योमाहृतादूर्ध्वे शुद्धपद्मा ↩︎ ↩︎

  15. ग्, घ्: व्यूहं प्राग्वदम् ↩︎ ↩︎

  16. क्, ख्: पत्रे ↩︎ ↩︎

  17. क्, ख्: रक्तपद्मनिभा लक्ष्मीः ↩︎ ↩︎

  18. कान्ताद्युन्निति ↩︎ ↩︎

  19. ग्, घ्: पद्मरागेर्धतम् ↩︎ ↩︎

  20. ग्, घ्: सर्वमल्या ↩︎ ↩︎

  21. ग्, घ्: वामहस्ते च सर्वासां ध्यायेदभिमतान्वितम् ↩︎ ↩︎

  22. क्, ख्: मन्त्रवक्त्रमचारिण्ण्यः ↩︎ ↩︎

  23. क्, ख्: दिक्षु द्रवत्यन्ति ↩︎ ↩︎

  24. क्, ख्: सहमन्त्राब्जराब्जज ↩︎ ↩︎