२० अध्यायः

अथ विंशोऽध्यायः

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

पूजितेषु च मन्त्रेषु तर्पितेषु विशेषतः ।
विधाम्नि 1 विनियुक्तेषु गणनाथं द्विजोत्तम ॥ १ ॥

मूलम्

पूजितेषु च मन्त्रेषु तर्पितेषु विशेषतः ।
विधाम्नि 1 विनियुक्तेषु गणनाथं द्विजोत्तम ॥ १ ॥

विश्वास-प्रस्तुतिः

विष्वक्सेनाभिधानं यद्विधिदृष्टेन कर्मणा ।
तदर्चने च सम्पन्ने तर्पणे सविसर्जने ॥ २ ॥

मूलम्

विष्वक्सेनाभिधानं यद्विधिदृष्टेन कर्मणा ।
तदर्चने च सम्पन्ने तर्पणे सविसर्जने ॥ २ ॥

विश्वास-प्रस्तुतिः

प्राक्सेवनं तदा कुर्यात् तेषां वृत्तसमन्वितम् ।
तथाऽभिमतसिद्ध्यर्थमर्घ्यपात्रं तु पौष्कर ॥ ३ ॥

मूलम्

प्राक्सेवनं तदा कुर्यात् तेषां वृत्तसमन्वितम् ।
तथाऽभिमतसिद्ध्यर्थमर्घ्यपात्रं तु पौष्कर ॥ ३ ॥

पौष्कर उवाच

विश्वास-प्रस्तुतिः

किमर्थमाह भगवन् विघ्नच्छेदकरं प्रभुम् ।
समस्तविघ्ननाथानां परमं कारणं च यत् ॥ ४ ॥

मूलम्

किमर्थमाह भगवन् विघ्नच्छेदकरं प्रभुम् ।
समस्तविघ्ननाथानां परमं कारणं च यत् ॥ ४ ॥

विश्वास-प्रस्तुतिः

विष्वक्सेनस्तु यष्टव्यो भोगभूमौ 2 गतेऽच्युते ।
कैर्द्रव्यैर्विधिना केन कि करोत्यभिपूजितः ॥ ५ ॥

मूलम्

विष्वक्सेनस्तु यष्टव्यो भोगभूमौ 2 गतेऽच्युते ।
कैर्द्रव्यैर्विधिना केन कि करोत्यभिपूजितः ॥ ५ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

भविनां बहवो विघ्नास्सद्धर्मविनिवारकाः ।
न यागयज्ञधर्माद्यैर्मन्ये संसारिणां शुभम् ॥ ६ ॥

मूलम्

भविनां बहवो विघ्नास्सद्धर्मविनिवारकाः ।
न यागयज्ञधर्माद्यैर्मन्ये संसारिणां शुभम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

तत्प्रवृत्तौ तु ये विघ्नाः प्रोत्साहविनिवारकाः ।
व्यपयान्ति च ते सर्वे चक्रज्वालाभयार्दिताः ॥ ७ ॥

मूलम्

तत्प्रवृत्तौ तु ये विघ्नाः प्रोत्साहविनिवारकाः ।
व्यपयान्ति च ते सर्वे चक्रज्वालाभयार्दिताः ॥ ७ ॥

विश्वास-प्रस्तुतिः

मध्ये नावसरे 3 तेषां भूते वाप्यचये ? सति ।
तत्सन्निधानसामर्थ्यात् 4 क्क दोषः क्व विनायकः ॥ ८ ॥

मूलम्

मध्ये नावसरे 3 तेषां भूते वाप्यचये ? सति ।
तत्सन्निधानसामर्थ्यात् 4 क्क दोषः क्व विनायकः ॥ ८ ॥

प्। ८८)

विश्वास-प्रस्तुतिः

क्षुद्राश्छिद्रपरा विघ्नास्सुकर्मनियमे स्थिताः ।
याजिनां फलकालं च प्रवीक्षन्ते बहिर्जिताः ॥ ९ ॥

मूलम्

क्षुद्राश्छिद्रपरा विघ्नास्सुकर्मनियमे स्थिताः ।
याजिनां फलकालं च प्रवीक्षन्ते बहिर्जिताः ॥ ९ ॥

विश्वास-प्रस्तुतिः

प्रागार्जितेन किनापि कर्मणा द्विज साम्प्रतम् ।
अनुभुङ्क्ते 5 फलं यागाद्विविधञ्चाग्रतस्स्वकम् 6 ॥ १० ॥

मूलम्

प्रागार्जितेन किनापि कर्मणा द्विज साम्प्रतम् ।
अनुभुङ्क्ते 5 फलं यागाद्विविधञ्चाग्रतस्स्वकम् 6 ॥ १० ॥

विश्वास-प्रस्तुतिः

तस्य संरक्षणार्थं तु विष्वक्सेनं तदैव हि ।
काले यागावसानाख्ये द्वितीये वासरेऽथवा ॥ ११ ॥

मूलम्

तस्य संरक्षणार्थं तु विष्वक्सेनं तदैव हि ।
काले यागावसानाख्ये द्वितीये वासरेऽथवा ॥ ११ ॥

विश्वास-प्रस्तुतिः

कृत्वा निर्व्याकुलं चित्तं यष्टव्यं फलसिद्धये ।
यागनिर्वर्तनाच्छेषैरासनैरर्घ्यपूर्वकैः 7 ॥ १२ ॥

मूलम्

कृत्वा निर्व्याकुलं चित्तं यष्टव्यं फलसिद्धये ।
यागनिर्वर्तनाच्छेषैरासनैरर्घ्यपूर्वकैः 7 ॥ १२ ॥

विश्वास-प्रस्तुतिः

उपचारमयैर्भोगैस्सर्वैराभरणादिकैः ।
नैवेद्यैर्मधुपर्काद्यैर्मुख्यमूर्तेर्निवेदितैः ॥ १३ ॥

मूलम्

उपचारमयैर्भोगैस्सर्वैराभरणादिकैः ।
नैवेद्यैर्मधुपर्काद्यैर्मुख्यमूर्तेर्निवेदितैः ॥ १३ ॥

विश्वास-प्रस्तुतिः

द्विजप्रदानशिष्टैस्तु स्वयं प्राशनवर्जितैः ।
तथा चर्वन्तरस्थैश्च ह्यपरेद्युर्निवेदितैः ॥ १४ ॥

मूलम्

द्विजप्रदानशिष्टैस्तु स्वयं प्राशनवर्जितैः ।
तथा चर्वन्तरस्थैश्च ह्यपरेद्युर्निवेदितैः ॥ १४ ॥

विश्वास-प्रस्तुतिः

संस्कृतैरूष्मणोपेतैर्मधुराज्यपरिप्लुतैः ।
तस्मान्मण्डलमध्ये तु प्राग्दत्वा कमलासन ॥ १५ ॥

मूलम्

संस्कृतैरूष्मणोपेतैर्मधुराज्यपरिप्लुतैः ।
तस्मान्मण्डलमध्ये तु प्राग्दत्वा कमलासन ॥ १५ ॥

विश्वास-प्रस्तुतिः

धर्माद्य्-अनन्त-पर्यन्तं
पञ्चकं नवकं तु वा ।
सत्त्वेनाच्छादितं पश्चात्
केवलम् अम्बुजं स्मरेत् ॥ १६ ॥

मानसतरङ्गिणीकृत्

One may meditate on the pentad or nonad of deities, Dharma etc., until Ananta. Thereafter, one may meditate on the One lotus enveloped by sattva.

मूलम्

धर्माद्यनन्तपर्यन्तं पञ्चकं नवकं तु वा ।
सत्त्वेनाच्छादितं पश्चात् केवलानम्बुजं ? स्मरेत् ॥ १६ ॥

विश्वास-प्रस्तुतिः

ऐशान-सोम-दिङ्-मध्ये
चतुर्-अश्र-पुरे ऽथवा ।
द्वार-शोभाग्र-निर्मुक्ते 8
रेखा-त्रितय-भूषिते …॥ १७ ॥

मानसतरङ्गिणीकृत्

[Then one worships Viṣvaksena] between the northeastern and the northern directions or in a square yantra. It lacks doors and flanges (typical of other square yantra-s), and [its periphery is] marked with triple lines.

मूलम्

ऐशानसोमदिङ्मध्ये चतुरश्रपुरेऽथवा ।
द्वारशोभाग्रनिर्मुक्ते 8 रेखात्रितयभूषिते ॥ १७ ॥

विश्वास-प्रस्तुतिः

तद्-अन्तरे ऽर्ध-चन्द्र-स्थे
कमलेऽष्ट-दलान्विते ।
साम्राज्ये विनियुक्तं यद्
विघ्नानाम् अच्युतेन 9 तत् ॥ १८ ॥

मानसतरङ्गिणीकृत्

Inside it, stationed atop a lunar crescent, is a lotus with eight petals. [In it is stationed] he who is appointed as the overlord of obstacles by Acyuta himself.

मूलम्

तदन्तरेऽर्धचन्द्रस्थे कमलेऽष्टदलान्विते ।
साम्राज्ये विनियुक्तं यद्विघ्नानामच्युतेन 9 तत् ॥ १८ ॥

विश्वास-प्रस्तुतिः

पूजयेद्विधिना शश्वदभीष्टं साधकोऽश्नुते ।
तस्मान्मन्त्रैस्तदीयैस्तु स्नात्वा पूर्वविधानतः ॥ १९ ॥

मूलम्

पूजयेद्विधिना शश्वदभीष्टं साधकोऽश्नुते ।
तस्मान्मन्त्रैस्तदीयैस्तु स्नात्वा पूर्वविधानतः ॥ १९ ॥

विश्वास-प्रस्तुतिः

प्रक्षाल्य पाणिपादौ वा त्वाचम्य न्यासमाचरेत् ।
तदधिष्ठातृकत्वेन धारणाभिस्स्वविग्रहम् ॥ २० ॥

मूलम्

प्रक्षाल्य पाणिपादौ वा त्वाचम्य न्यासमाचरेत् ।
तदधिष्ठातृकत्वेन धारणाभिस्स्वविग्रहम् ॥ २० ॥

विश्वास-प्रस्तुतिः

शोधयित्वा पुनर्न्यस्य षडङ्गाद्यङ्कुरादितः ।
प्राग्वदानन्दधामा ? च ह्यवतार्य तथा प्रभुम् ॥ २१ ॥

मूलम्

शोधयित्वा पुनर्न्यस्य षडङ्गाद्यङ्कुरादितः ।
प्राग्वदानन्दधामा ? च ह्यवतार्य तथा प्रभुम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

इष्ट्वा हृत्-पुण्डरीके तु
स्वापेक्षा-निष्कलात्मकम् ।
तम् एव 10 सकलत्वेन
यातं ध्यात्वा यजेद् बहिः ॥ २२ ॥

मानसतरङ्गिणीकृत्

Having worshiped him in the heart-lotus, verily in his independent, undifferentiated form, visualizing him as having gone forth in his differentiated form, one may then worship him externally [visualizing him thus:]

मूलम्

इष्ट्वा हृत्पुण्डरीके तु स्वापेक्षानिष्कलात्मकम् ।
तमेव 10 सकलत्वेन यातं ध्यात्वा यजेद्बहिः ॥ २२ ॥

विश्वास-प्रस्तुतिः

नव-दूर्वाङ्कुराभं च
त्व् ईषत्-पीतल-कान्ति-धृत् 11
चतुर्-दंष्ट्रं चतुर्-बाहुं
चतुर्-मुष्कं चतुर्-गतिम् ॥ २३ ॥

मानसतरङ्गिणीकृत्

Having the complexion of newly-sprouted Durva grass tinted with a slight yellowish luster; having four fangs, four arms, four testes and four gaits;

मूलम्

नवदूर्वाङ्कुराभं च त्वीषत्पीतलकान्तिधृत् 11
चतुर्दंष्ट्रं चतुर्बाहुं चतुर्मुष्कं चतुर्गतिम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

पूर्णाङ्गं केसरि-स्कन्धं
पृथूरस्-स्थल-राजितम् ।
दक्षिणावर्त-निम्नेन
नाभि-रन्ध्रेण शोभितम् 12 ॥ २४ ॥

मानसतरङ्गिणीकृत्

with a full body, lion-shoulders and flaunting a broad torso, endowed with a navel cavity bearing a clockwise spiral whorl;

मूलम्

पूर्णाङ्गं केसरिस्कन्धं पृथूरस्स्थलराजितम् ।
दक्षिणावर्तनिम्नेन नाभिरन्ध्रेण शोभितम् 12 ॥ २४ ॥

विश्वास-प्रस्तुतिः

आजानुबाहुं श्रीमन्तं
पिङ्गलार्चिर्-जटाधरम् 13
द्रवत्-कनक-पिङ्गाक्ष-
चुबुकं पृथु-नासिकम्(→muzzle) ॥ २५ ॥

मानसतरङ्गिणीकृत्

having arms reaching to his knees, opulent and bearing dread-locks with a tawny blaze; having eyes and chin like molten gold and with a broad muzzle;

मूलम्

आजानुबाहुं श्रीमन्तं पिङ्गलार्चिर्जटाधरम् 13
द्रवत्कनकपिङ्गाक्षचुबुकं पृथुनासिकम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

सित-दीर्घ-नख-श्रेणि-
शोभितं कुटिल-भ्रुवम् ।
मुक्ता-विभूषितं मध्ये
महा-रत्नोपसंस्कृतम् 14 ॥ २६ ॥

मानसतरङ्गिणीकृत्

with an array of white, long nails, and with curved brows; with a pearl-decked necklace decorated with a great gem in the middle.

मूलम्

सितदीर्घनखश्रेणिशोभितं कुटिलभ्रुवम् ।
मुक्ताविभूषितं मध्ये महारत्नोपसंस्कृतम् 14 ॥ २६ ॥

विश्वास-प्रस्तुतिः

कुर्याच्च दक्षिणे पक्षे 15
कृत-श्रीवत्स-मङ्गलम् ।
असासि 16 * * * * * * * *
तन्मध्ये कमलालयम् 17 ॥ २७ ॥

मानसतरङ्गिणीकृत्

He should be made to bear the auspicious Śrīvatsa on his right side. [—corrupt+lacuna—] in the midst of a lotus pond(→लक्ष्मीनिवासः??);

मूलम्

कुर्याच्च दक्षिणे पक्षे 15 कृतश्रीवत्समङ्गलम् ।
असासि 16 * * * * * * * * तन्मध्ये कमलालयम् 17 ॥ २७ ॥

विश्वास-प्रस्तुतिः

द्वि-गुणं ब्रह्म-सूत्रं स्यान्
नाभेश् चाभिप्रदक्षिणम् ।
विस्तीर्ण-गण्ड-वदनं
बालेन्दु-कुटिलोपमैः …॥ २८ ॥

मानसतरङ्गिणीकृत्

with a two-fold ritual thread wound clockwise around the navel; with broad cheeks and face;

मूलम्

द्विगुणं ब्रह्मसूत्रं स्यान्नाभेश्चाभिप्रदक्षिणम् ।
विस्तीर्णगण्डवदनं बालेन्दुकुटिलोपमैः ॥ २८ ॥

विश्वास-प्रस्तुतिः

नवकिंशुकारुणाभैर्
लोमैस् सम्पूर्ण-विग्रहम् ।
शोभनेन प्रलम्बेन
पृथुना प्रोन्नतेन च ॥ २९ ॥

मानसतरङ्गिणीकृत्

with a form covered completely covered with ruddy hair of the color fresh kiṃśuka flowers;
endowed with a beautiful, broad, well-stretched, and tall [form];

मूलम्

नवाकशुकारुणाभैर्लोमैस्सम्पूर्णाविग्रहम् ।
शोभनेन प्रलम्बेन पृथुना प्रोन्नतेन च ॥ २९ ॥

विश्वास-प्रस्तुतिः

माणिक्य-कुण्डलाढ्येन
युक्तं श्रोत्र-द्वयेन तु ।
मुकुटेनोन्नतेनैव
हाराद्यैर् उपशोभितम् ॥ ३० ॥

मानसतरङ्गिणीकृत्

with two ears joined to ornaments of ruby; ornamented with a tall crown, garlands and the like;

मूलम्

माणिक्यकुण्डलाढ्येन युक्तं श्रोत्रद्वयेन तु ।
मुकुटेनोन्नतेनैव हाराद्यैरुपशोभितम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

चित्र-कौशेय-वसनं
विचित्र-स्रग्-विमण्डितम् ।
प्रलय-द्वादशादित्य-
सहस्र-गुण-दीधितिम् ॥ ३१ ॥

मूलम्

चित्रकौशेयवसनं विचित्रस्रग्विमण्डितम् ।
प्रलयद्वादशादित्यसहस्रगुणदीधितिम् ॥ ३१ ॥

प्। ८९)

विश्वास-प्रस्तुतिः

ईषद्-ऊर्ध्वे तथा तिर्यग्
विनिपातित-लोचनम् ।
कुन्देन्दु-कान्ति-दशनं
किञ्चिद्-विहसिताननम् ॥ ३२ ॥

मानसतरङ्गिणीकृत्

with eyes slightly upturned and cast obliquely; with teeth white as jasmine and the moon, and a face bearing a slight smile;

मूलम्

ईषदूर्ध्वे तथा तिर्यग्विनिपातितलोचनम् ।
कुन्देन्दुकान्तिदशनं किञ्चिद्विहसिताननम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

स्व-भाव-सौम्यम् अमलं 18
माया-क्रोधोपरञ्जितम् ।(5)
सविलास-चलत्-पाद-
न्यास-स्थानक-संस्थितम् ॥ ३३ ॥

मानसतरङ्गिणीकृत्

though pacific and mild by nature, he displays the tint of mock anger. He stands with one foot stepping forth in a playful manner.

मूलम्

स्वभावसौम्यममलं 18 मायाक्रोधोपरञ्जितम् ।
सविलासचलत्पादन्यासस्थानकसंस्थितम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

स्वेनान्तःकरणेनैव 19
भावयन्तं परं पदम् ।
अङ्गुष्ठेन कनिष्ठान्तम्
अङ्गुलैस् तु 20 लता-त्रयम् ॥ ३४ ॥

मानसतरङ्गिणीकृत्

He is seen as meditating upon the supreme state (Viṣṇu) as his inner consciousness.

मूलम्

स्वेनान्तः करणेनैव 19 भावयन्तं परं पदम् ।
अङ्गुष्ठेन कनिष्ठान्तमङ्गुलैस्तु 20 लतात्रयम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

नामयित्वोन्नता 21 चैका
घ्राणेन विनियोजिता ।
सद्-विघ्न-भीति-प्रदया
त्व् अनया मुद्रयाऽन्वितम् ॥ ३५ ॥

मानसतरङ्गिणीकृत्

Having bent three of his creeper-like fingers from the thumb to the little finger, holding one erect, he unites it with his nose (This mudra might indicate prāṇāyāma).

His other [hand] assumes the mudra of causing fear to the obstacles [faced] by the good. (अत्र “अनया” → “अन्यया” इति प्रमादः कृतो वा??)

मूलम्

नामयित्वोन्नता 21 चैका घ्राणेन विनियोजिता ।
सद्विघ्नभीतिप्रदया त्वनया मुद्रयाऽन्वितम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

रथाङ्ग-शङ्ख-हस्तं च
लम्बमान-गदा-धरम् ।
श्रोणी-तट-निविष्टेन
सावहेलेन पाणिना ॥ ३६ ॥

मानसतरङ्गिणीकृत्

His hands hold a wheel, a conch and a mace hanging downwards; One of his arms rests on the side of the hip in a warning(→ mocking) pose.

मूलम्

रथाङ्गशङ्खहस्तं च लम्बमानगदाधरम् ।
श्रोणीतटनिविष्टेन सावहेलेन पाणिना ॥ ३६ ॥

विश्वास-प्रस्तुतिः

इत्थं रूपधरं देवम्
अनेकाद्भुत-विक्रमम् ।
कर्णिका-मध्य-गं तस्य
हृदाद्यामुख्यमन्त्रवत् ?? ॥ ३७ ॥

मानसतरङ्गिणीकृत्

One should worship the god with such a form with many a miraculous power in the midst of the pericarp [of the lotus maṇḍala].

मूलम्

इत्थं रूपधरं देवमनेकाद्भूतविक्रमम् ।
कर्णिकामध्यगं तस्य हृदाद्यामुख्यमन्त्रवत् ? ॥ ३७ ॥

विश्वास-प्रस्तुतिः

पद्मच्-छदान्तर-स्थां च
तद्-आकर-द्युतिं विना ।
किन् त्व् अङ्गानां च सर्वत्र
ध्यानम् उक्तं सितादिकम् ॥ ३८ ॥

मानसतरङ्गिणीकृत्

Within the bounds of the lotus [maṇḍala] and without the [central] radiance of rays (this part is unclear to us, but it apparently refers to the petals of the yantra outside the central region where the radiance of Viṣvaksena is situated) but with all limbs [aṅga mantra-s] the meditation of the retinue gods is specified, colored white etc (mantravādin-s state that these are white, red, yellow and black).

मूलम्

पद्मच्छदान्तरस्थां च तदाकरद्युतिं विना ।
किन्त्वङ्गानां च सर्वत्र ध्यानमुक्तं सितादिकम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

गजाननो, जयत्-सेनो,
हरिवक्त्रो, महाबलः ।
काल-प्रकृति-सञ्ज्ञश् च
चतुर्थः 22 कमलोद्भव ॥ ३९ ॥

मानसतरङ्गिणीकृत्

Gajānana, Jayatsena, Harivaktra and Kālaprakṛti of great might, these together are known as the tetrad, o lotus-born one.

मूलम्

गजाननो जयत्सेनो हरिवक्त्रो महाबलः ।
कालप्रकृतिसञ्ज्ञश्च चतुर्थः 22 कमलोद्भव ॥ ३९ ॥

विश्वास-प्रस्तुतिः

गण-राजेश्वरा ह्य् एते
चत्वारश् चण्ड-विग्रहाः ।
आज्ञा-प्रतीक्षकाश् चास्य
सुश्वेत-चमरोद्यताः ॥ ४० ॥

मानसतरङ्गिणीकृत्

These four king-lords of the gaṇa-s [of Viṣṇu] of fierce forms attend to [Viṣvaksena’s] orders, with good white yak-tail fly-whisks held aloft.

मूलम्

गणराजेश्वरा ह्येते चत्वारश्चण्डविग्रहाः ।
आज्ञाप्रतीक्षकाश्चास्य सुश्वेतचमरोद्यताः ॥ ४० ॥

विश्वास-प्रस्तुतिः

विनायकादयश् चैव
विघ्नेश-प्रवरास् तु ये ।
अमीषां गणनाथानां
नित्यम् आज्ञानुपालिनाम् ॥ ४१ ॥

मानसतरङ्गिणीकृत्

Then there are Vināyaka, etc., those who have Vighneśa as their chief, ever obedient to the orders of those lords of the gaṇa-s (The aforesaid tetrad of Gaṇarājeśvara-s).

मूलम्

विनायकादयश्चैव विघ्नेशप्रवरास्तु ये ।
अमीषां गणनाथानां नित्यमाज्ञानुपालिनाम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

ईशानादिषु कोणेषु
पद्म-वाह्य-स्थितान् न्यसेत्
वीक्षमाणा विभोर् वक्त्रं
तत्-तुल्य-स्थानकास्थिताः 23 ॥ ४२ ॥

मानसतरङ्गिणीकृत्

These should be placed in the Northwest etc corners (i.e., at the interstitial directions) outside the lotus.

They should look towards their [respective gaṇa] lord, adopting a stance equivalent to them.

मूलम्

ईशानादिषु कोणेषु पद्मवाह्यस्थितान्न्यसेत् ।
वीक्षमाणा विभोर्वक्त्रं तत्तुल्यस्थानकास्थिताः 23 ॥ ४२ ॥

विश्वास-प्रस्तुतिः

तद्वत् कराङ्कितास् सर्वे
किन्तु मुद्रा-विवर्जिताः ।
ध्यानम् एषां पृथग्-भूतं
शरीरम् अवधारय ॥ ४३ ॥

मानसतरङ्गिणीकृत्

Their hands are equipped with the same implements, but they do not display any mudra.
Please pay attention [now] to the visualization of the embodied forms assumed by each [Gaṇarājeśvara].

मूलम्

तद्वत् कराङ्कितास्सर्वे किन्तु मुद्राविवर्जिताः ।
ध्यानमेषां पृथग्भूतं शरीरमवधारय ॥ ४३ ॥

विश्वास-प्रस्तुतिः

भीमं द्विपेन्द्र-वदनं
चतुर्-दंष्ट्रं त्रि-लोचनम् ।
कम्बु-ग्रिवं चतुर्-बाहुं
पूर्ण-चन्द्रायुत-द्युतिम् ॥ ४४ ॥

मानसतरङ्गिणीकृत्

With the face of a terrible elephant-lord, with four tusks and three eyes, having a neck [smooth as a] shell, with four arms and the radiance of a 10,000 full moons;

मूलम्

भीमं द्विपेन्द्रवदनं चतुर्दंष्ट्रं त्रिलोचनम् ।
कम्बुग्रिवं चतुर्बाहुं पूर्णचन्द्रायुतद्युतिम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

हार-नूपुर-केयूर-
मेखला-दाम-मण्डितम् ।
नाना-स्रग्-गन्ध-वस्त्राढ्यम्
अनौपम्य-पराक्रमम् ॥ ४५ ॥

मानसतरङ्गिणीकृत्

ornamented with garlands, anklets, armlets, a girdle and a necklace; decorated with various garlands, perfumes and vestures, and having unequaled valor;

मूलम्

हारनूपुरकेयूरमेखलादाममण्डितम् ।
नानास्रग्गन्धवस्त्राढ्यमनौपम्यपराक्रमम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

ध्यायेद् गजाननम् अतो
जयत्सेनंसंस्मरेत्
महत्-तुरङ्ग-वदनं
पद्म-रागाचल-प्रभम् ॥ ४६ ॥

मानसतरङ्गिणीकृत्

thus, one should meditate on Gajānana.
Jayatsena should be visualized with a great horse-face, the radiance of a ruby mountain,

मूलम्

ध्यायेद्गजाननमतो जयत्सेनं च संस्मरेत् ।
महत्तुरङ्गवदनं पद्मरागाचलप्रभम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

द्रवच्-चामीकराक्षं च
अनेकाद्भुत-विक्रमम् ।
हरि-वक्त्रम् अतो ध्यायेत्
सटाच्-छुरित-मस्तकम् ॥ ४७ ॥

मानसतरङ्गिणीकृत्

with eyes like molten gold, endowed with many miraculous powers. Then one meditates on Harivaktra with a head strewn with manes,

मूलम्

द्रवच्चामीकराक्षं च अनेकाद्भुतविक्रमम् ।
हरिवक्त्रमतो ध्यायेत् सटाच्छुरितमस्तकम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

निष्टप्त-कनक-प्रख्यं
घोर-घर्घर-निस्वनम् ।
मृग-राड्-वदनं विप्र
कल्पान्तानिल-वेगिनम् ॥ ४८ ॥

मानसतरङ्गिणीकृत्

resembling heated gold and roaring like a terrible musical instrument (gharghara is an old Indo-Aryan musical instrument accompanying Vedic recitations and singing). O vipra, he has the face of the kings of the animals and the velocity of the wind at the end of the kalpa.

मूलम्

निष्टप्तकनकप्रख्यं घोरघर्घरनिस्वनम् ।
मृगराड्वदनं विप्र कल्पान्तानिलवेगिनम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

कालप्रकृति-नामानं
भावयेद् अञ्जनाद्रिवत् ।
दंष्ट्रा-कराल-वदनं
पिङ्गल-श्मश्रु-लोचनम् ॥ ४९ ॥

मानसतरङ्गिणीकृत्

He, Kālaprakṛti by name, should be visualized as [resembling] a mountain of collyrium; with a terrifying face displaying fangs; with tawny mustache and eyes;

मूलम्

कालप्रकृतिनामानं भावयेदञ्जनाद्रिवत् ।
दंष्ट्राकरालवदनं पिङ्गलश्मश्रुलोचनम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

झष-कुण्डलिनं 24 रौद्रं
मीनवन् निम्न-नासिकम् ।(5)
गण-राजेश्वरा ह्येते
महा-पुरुष-लक्षणैः ॥ ५० ॥

मानसतरङ्गिणीकृत्

wearing shark-earrings, fierce and having a fish-like deep snout. O vipra, all these king-lords of the gaṇa-s possess all the marks of the great persons from the feet to their necks.

मूलम्

झषकुण्डलिनं 24 रौद्रं मीनवन्निम्ननासिकम् ।
गणराजेश्वरा ह्येते महापुरुषलक्षणैः ॥ ५० ॥

विश्वास-प्रस्तुतिः

संयुक्ताश् चाखिलैर् विप्र
त्वापादात् कन्धरावधि ।
यत् किञ्चिन् मण्डनं वस्तु
तद्-आद्योक्तं स्मरेत् त्रिषु ॥ ५१ ॥

मानसतरङ्गिणीकृत्

Whatever item of ornamentation was described for the first (Gajavaktra) should also be visualized for the [other] three.

मूलम्

संयुक्ताश्चाखिलैर्विप्र त्वापादात् कन्धरावधि ।
यत्किञ्चिन्मण्डनं वस्तु तदाद्योक्तं स्मरेत् त्रिषु ॥ ५१ ॥

विश्वास-प्रस्तुतिः

एतेषाम् अर्चनं कुर्यात्
स्व-नाम्ना प्रणवादिना ।
नमोन्तेनाब्ज-सम्भूत
नाना-सिद्धि-फलाप्तये ॥ ५२ ॥

मानसतरङ्गिणीकृत्

O lotus-born one, the worship of all these should be performed with their respective names starting with the praṇava and ending in ‘namaḥ’ for the attainment of various siddhi-s.

मूलम्

एतेषामर्चनं कुर्यात् स्वनाम्ना प्रणवादिना ।
नमोन्तेनाब्जसम्भूत नानासिद्धिफलाप्तये ॥ ५२ ॥

पौष्कर उवाच

विश्वास-प्रस्तुतिः

क एषो ऽतुलवीर्यो हि
यस्य दूराद् द्रवन्ति च ।
विघ्ना निमेष-मात्रेण
त्रैलोक्योन्मूलन-क्षमाः ॥ ५३ ॥

मानसतरङ्गिणीकृत्

Who is this, indeed of unequaled heroism, by whose mere wink obstacles capable of uprooting the triple-word melt away in the distance?

मूलम्

क एषोऽतुलवीर्यो हि यस्य दूराद् द्रवन्ति च ।
विघ्ना निमेषमात्रेण त्रैलोक्योन्मूलनक्षमाः ॥ ५३ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

(प्रलय-)काल-वैश्वानराख्या या
मूर्तिस् तुर्यात्मनो विभोः ।
स एष द्विज देवः स्याद्
विष्वक्सेनः प्रकीर्तितः ॥ ५४ ॥

मानसतरङ्गिणीकृत्

He is known as Kālavaiśvānara (the fire of the end of time), who is an emanation of the four-fold lord (i.e., the Vāsudeva with the 3 other vyūha-s).

मूलम्

कालवैश्वानराख्या या मूर्तिस्तुर्यात्मनो विभोः ।
स एष द्विज देवः स्याद्विष्वक्सेनः प्रकीर्तितः ॥ ५४ ॥

प्। ९०)

विश्वास-प्रस्तुतिः

स्थित आहवनीयादि-
भेदेन मख-याजिनाम् ।
पतितं 25 हुतम् आदाय
तर्पयत्य् अखिलं जगत् ॥ ५५ ॥

मानसतरङ्गिणीकृत्

O twice-born one, he is that god who is known as Viṣvaksena. He is situated in the types of fire altars viz. Āhavanīya and the like of the Vedic ritualists. Having taken the oblations sanctified by ṛk-s, he satisfies the entire universe.

मूलम्

स्थित आहवनीयादिभेदेन मखयाजिनाम् ।
पतितं 25 हुतमादाय तर्पयत्यखिलं जगत् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

एवं मन्त्रमयाद् यागात्
सात्त्विकात् ब्रह्म-भावितात् 26
सम्प्राप्य गुरु-मूर्तेर् वै 27
प्रापणं मन्त्र-सत्कृतम् 28 …॥ ५६ ॥

मानसतरङ्गिणीकृत्

Thus, obtaining [the essence] from the rituals filled with incantations, from purity, proper ritual intention and the form of the teacher, he verily gains the good deeds of the mantra [deployment].

मूलम्

एवं मन्त्रमयाद्यागात् सात्त्विकात् ब्रह्मभावितात् 26
सम्प्राप्य गुरुमूर्तेर्वै 27 प्रापणं मन्त्रसत्कृतम् 28 ॥ ५६ ॥

विश्वास-प्रस्तुतिः

अनाहूतामराणां च
सर्वलोक-निवासिनाम् ।
स्वयं संविभजत्य् आशु
तद्-अनुग्रह-काम्यया ॥ ५७ ॥

मानसतरङ्गिणीकृत्

And he himself quickly apportions these to the uninvoked gods dwelling in all the worlds with the intention of gaining their favor.

मूलम्

अनाहूतामराणां च सर्वलोकनिवासिनाम् ।
स्वयं संविभजत्याशु तदनुग्रहकाम्यया ॥ ५७ ॥

पौष्कर उवाच

विश्वास-प्रस्तुतिः

सर्वासां मन्त्रमूर्तीनां मध्ये मुख्यपरा त्वया ।
मूर्तिरेका समुद्दिष्टा वासुदेवाख्यलक्षणा ॥ ५८ ॥

मूलम्

सर्वासां मन्त्रमूर्तीनां मध्ये मुख्यपरा त्वया ।
मूर्तिरेका समुद्दिष्टा वासुदेवाख्यलक्षणा ॥ ५८ ॥

विश्वास-प्रस्तुतिः

तद्दत्तशिष्टैर्निर्दिष्टं विष्वक्सेनस्य चार्चनम् ।
यथा पृथक्पृथग्यागो 29 मूर्तीनां साधकः प्रभो ॥ ५९ ॥

मूलम्

तद्दत्तशिष्टैर्निर्दिष्टं विष्वक्सेनस्य चार्चनम् ।
यथा पृथक्पृथग्यागो 29 मूर्तीनां साधकः प्रभो ॥ ५९ ॥

विश्वास-प्रस्तुतिः

कुर्याद्वा व्यूहभेदेन मन्त्रसङ्घस्य पूजनम् ।
अन्योन्याङ्गानि फालेन मुख्यतन्त्रत्रिकस्य च ॥ ६० ॥

मूलम्

कुर्याद्वा व्यूहभेदेन मन्त्रसङ्घस्य पूजनम् ।
अन्योन्याङ्गानि फालेन मुख्यतन्त्रत्रिकस्य च ॥ ६० ॥

यदि येनार्चितं तस्य कुर्यात् पुष्पादिकेन वै ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

सर्वत्र सर्वदा विप्र केवलस्य प्रदास्य च ? ।
आराध्य मन्त्रनाथस्य प्रागाभूतस्य ? मध्यतः ॥ ६१ ॥

मूलम्

सर्वत्र सर्वदा विप्र केवलस्य प्रदास्य च ? ।
आराध्य मन्त्रनाथस्य प्रागाभूतस्य ? मध्यतः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

बहिर्व्याहृतये तस्य मुख्यत्वान्नापरस्य 30 च ।
परत्वमेव सर्वत्र त्वाराधनवशात् स्थितम् ॥ ६२ ॥

मूलम्

बहिर्व्याहृतये तस्य मुख्यत्वान्नापरस्य 30 च ।
परत्वमेव सर्वत्र त्वाराधनवशात् स्थितम् ॥ ६२ ॥

विश्वास-प्रस्तुतिः

भावांशकवशाच्चैव नानाकर्मवशादपि ।
मन्त्राणां मन्त्रमूर्तीनां व्यूहानामब्जसम्भव ॥ ६३ ॥

मूलम्

भावांशकवशाच्चैव नानाकर्मवशादपि ।
मन्त्राणां मन्त्रमूर्तीनां व्यूहानामब्जसम्भव ॥ ६३ ॥

विश्वास-प्रस्तुतिः

तथैवाखिलतत्त्वानामौपाधिकमुदाहृतम् 31
परत्वमब्जसम्भूत न कश्चित्तत्त्वतः परम् ॥ ६४ ॥

मूलम्

तथैवाखिलतत्त्वानामौपाधिकमुदाहृतम् 31
परत्वमब्जसम्भूत न कश्चित्तत्त्वतः परम् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

मुक्त्वैकं वासुदेवाख्यमध्यक्षान्तं सदोदितम् ।
सद्विरूपं चतुर्व्यूहं प्रभवाप्ययलक्षणम् ॥ ६५ ॥

मूलम्

मुक्त्वैकं वासुदेवाख्यमध्यक्षान्तं सदोदितम् ।
सद्विरूपं चतुर्व्यूहं प्रभवाप्ययलक्षणम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

समत्वं सति भेदे वै चतुर्णां येऽत्र सर्वदा ।
यद्ब्रह्मण्याधिपत्येन पिण्डीकृत्येथ ? 32 पत्रवत् ॥ ६६ ॥

मूलम्

समत्वं सति भेदे वै चतुर्णां येऽत्र सर्वदा ।
यद्ब्रह्मण्याधिपत्येन पिण्डीकृत्येथ ? 32 पत्रवत् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

चित्ते ते पूर्णषाड्गुण्यसलक्षण * * * * 33
प्रवृत्तिकालादारभ्य त्वात्मकालावसानकम् ॥ ६७ ॥

मूलम्

चित्ते ते पूर्णषाड्गुण्यसलक्षण * * * * 33
प्रवृत्तिकालादारभ्य त्वात्मकालावसानकम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

यत्रावकाशे विघ्नानां तद्विद्या ? न कदाचन ।
वैभवं देवताचक्रं दूरे तिष्ठति यत्र वै ॥ ६८ ॥

मूलम्

यत्रावकाशे विघ्नानां तद्विद्या ? न कदाचन ।
वैभवं देवताचक्रं दूरे तिष्ठति यत्र वै ॥ ६८ ॥

विश्वास-प्रस्तुतिः

समाराधनकाले तु तत्रेन्द्रादिषु को कथा 34
तत्र दायान्वयं ? 35 सिद्धमनिच्छातोऽपवर्गदम् ॥ ६९ ॥

मूलम्

समाराधनकाले तु तत्रेन्द्रादिषु को कथा 34
तत्र दायान्वयं ? 35 सिद्धमनिच्छातोऽपवर्गदम् ॥ ६९ ॥

विश्वास-प्रस्तुतिः

आमूलाद्ब्रह्मनिष्ठं च निर्मुक्तमखिलैः परैः ।
अन्त एव हि तद्व्यूहे नार्चना विहिता 36 द्विज ॥ ७० ॥

मूलम्

आमूलाद्ब्रह्मनिष्ठं च निर्मुक्तमखिलैः परैः ।
अन्त एव हि तद्व्यूहे नार्चना विहिता 36 द्विज ॥ ७० ॥

विश्वास-प्रस्तुतिः

ईषद्रागा तु विद्यानां देवतानां कदाचन ।
तथैव विष्वक्सेनस्य गणवृन्दावृतस्य च ॥ ७१ ॥

मूलम्

ईषद्रागा तु विद्यानां देवतानां कदाचन ।
तथैव विष्वक्सेनस्य गणवृन्दावृतस्य च ॥ ७१ ॥

विश्वास-प्रस्तुतिः

अस्मात् परतराद्व्यूहात् सुसूक्ष्माद्वा सविग्रहः ।
गत्यै नित्योदिता * * * * स्तु संयुक्तात् सर्वसिद्धिदा ॥ ७२ ॥

मूलम्

अस्मात् परतराद्व्यूहात् सुसूक्ष्माद्वा सविग्रहः ।
गत्यै नित्योदिता * * * * स्तु संयुक्तात् सर्वसिद्धिदा ॥ ७२ ॥

विश्वास-प्रस्तुतिः

मोक्षाद्यभीष्टसिध्यर्थमेकैकं यदि पूज्यते ।
द्वितयं त्रितयं वाऽपि भिन्नभावनया द्विज ॥ ७३ ॥

मूलम्

मोक्षाद्यभीष्टसिध्यर्थमेकैकं यदि पूज्यते ।
द्वितयं त्रितयं वाऽपि भिन्नभावनया द्विज ॥ ७३ ॥

प्। ९१)

विश्वास-प्रस्तुतिः

तत्र न्यासादिकैर्भागैर्विघ्नारियजनान्तिकैः ।
विना न सिद्धिं यद्यज्ञं जायते युगकोटिभिः ॥ ७४ ॥

मूलम्

तत्र न्यासादिकैर्भागैर्विघ्नारियजनान्तिकैः ।
विना न सिद्धिं यद्यज्ञं जायते युगकोटिभिः ॥ ७४ ॥

पौष्कर उवाच

विश्वास-प्रस्तुतिः

अस्य व्यूहत्रयस्य स्यात् सकाशाच्च सनातनः ।
भेदनित्योदितान्यायं ? श्रोतुमिच्छामि साम्प्रतम् ॥ ७५ ॥

मूलम्

अस्य व्यूहत्रयस्य स्यात् सकाशाच्च सनातनः ।
भेदनित्योदितान्यायं ? श्रोतुमिच्छामि साम्प्रतम् ॥ ७५ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

यदिदं च समुद्दिष्टमनौपम्यमतीन्द्रियम् ।
संशान्तपरमानन्दं स्वरूपं च सदोदितम् ॥ ७६ ॥

मूलम्

यदिदं च समुद्दिष्टमनौपम्यमतीन्द्रियम् ।
संशान्तपरमानन्दं स्वरूपं च सदोदितम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

सौदामिनीचयार्काग्निपूर्णचन्द्रायुतद्युति ।
सूक्ष्मसञ्ज्ञं द्वितीयं स्यात् 37 तदुदेत्यस्तमेति च ॥ ७७ ॥

मूलम्

सौदामिनीचयार्काग्निपूर्णचन्द्रायुतद्युति ।
सूक्ष्मसञ्ज्ञं द्वितीयं स्यात् 37 तदुदेत्यस्तमेति च ॥ ७७ ॥

विश्वास-प्रस्तुतिः

लाञ्छनाम्बरवर्णाद्यैर्यदन्योन्यैः पृथक् पृथक् ।
कालेन 38 कृतकृत्यत्वं ? 39 मुक्तो रोगादिकैर्मलैः ॥ ७८ ॥

मूलम्

लाञ्छनाम्बरवर्णाद्यैर्यदन्योन्यैः पृथक् पृथक् ।
कालेन 38 कृतकृत्यत्वं ? 39 मुक्तो रोगादिकैर्मलैः ॥ ७८ ॥

विश्वास-प्रस्तुतिः

प्रभवेन 40 समायुक्ता ? प्रत्यस्तमितसर्वदा ? ।
मुनिसङ्गे परे धाम्नि विकल्पगगना द्विज ? ॥ ७९ ॥

मूलम्

प्रभवेन 40 समायुक्ता ? प्रत्यस्तमितसर्वदा ? ।
मुनिसङ्गे परे धाम्नि विकल्पगगना द्विज ? ॥ ७९ ॥

पौष्कर उवाच

त्वया मण्डलयागेषु विष्वक्सेनार्चनादिकैः ।

नामनाशागणं सर्वं ध्वंसयन्ति सदैव हि ॥ ८० ॥

विश्वास-प्रस्तुतिः

तस्माद्ददाति योऽन्येषां स्वयमश्नाति वाऽधमः 41
मोहादुपेक्षते वाऽपि स याति नरकेऽधमः ॥ ८१ ॥

मूलम्

तस्माद्ददाति योऽन्येषां स्वयमश्नाति वाऽधमः 41
मोहादुपेक्षते वाऽपि स याति नरकेऽधमः ॥ ८१ ॥

विश्वास-प्रस्तुतिः

आश्रयोर्थतनाकार्यः ? परिवारस्सदैव हि ।
तस्या द्विदेवतेन्द्रस्य तद्देवस्य ? तथैव हि ॥ ८२ ॥

मूलम्

आश्रयोर्थतनाकार्यः ? परिवारस्सदैव हि ।
तस्या द्विदेवतेन्द्रस्य तद्देवस्य ? तथैव हि ॥ ८२ ॥

विश्वास-प्रस्तुतिः

स्वयं सङ्कल्पितस्य प्राक् शासनेनापि तस्य वा ।
कृतस्य श्रद्धयाऽनन्दनानारूपस्य पौष्कर ॥ ८३ ॥

मूलम्

स्वयं सङ्कल्पितस्य प्राक् शासनेनापि तस्य वा ।
कृतस्य श्रद्धयाऽनन्दनानारूपस्य पौष्कर ॥ ८३ ॥

दधिभक्षफलाद्यस्य 42 देवान्नस्य विशेषतः ॥

पौष्कर उवाच

विश्वास-प्रस्तुतिः

देवद्रव्यं तु किं नाथ देवस्वं च किमुच्यते ।
गणान्नं 43 च निषिद्धं च भक्तानं भक्तवत्सल ॥ ८४ ॥

मूलम्

देवद्रव्यं तु किं नाथ देवस्वं च किमुच्यते ।
गणान्नं 43 च निषिद्धं च भक्तानं भक्तवत्सल ॥ ८४ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

यत् कोषे विद्यते किञ्चित् पत्रालङ्कारपूर्वकम् ।
लग्नं च भवमूर्तौ तत् प्रसादेन ममान्तरे ॥ ८५ ॥

मूलम्

यत् कोषे विद्यते किञ्चित् पत्रालङ्कारपूर्वकम् ।
लग्नं च भवमूर्तौ तत् प्रसादेन ममान्तरे ॥ ८५ ॥

विश्वास-प्रस्तुतिः

विपणे वा तदीये च देवद्रव्यं तु विद्धि तत् ।
नगरग्रामपर्यन्तविषये गोगजादयः ॥ ८६ ॥

मूलम्

विपणे वा तदीये च देवद्रव्यं तु विद्धि तत् ।
नगरग्रामपर्यन्तविषये गोगजादयः ॥ ८६ ॥

विश्वास-प्रस्तुतिः

शालिसस्येक्षुपुष्पाद्या दासीदासाः कुटुम्बिनः ।
सत्सम्बन्धं च वाणिज्यं 44 सपुत्रपशुबान्धवम् ॥ ८७ ॥

मूलम्

शालिसस्येक्षुपुष्पाद्या दासीदासाः कुटुम्बिनः ।
सत्सम्बन्धं च वाणिज्यं 44 सपुत्रपशुबान्धवम् ॥ ८७ ॥

प्। ९२)

विश्वास-प्रस्तुतिः

देवस्वं च विरुद्धं यत् सिद्धानामपि पापकृत् ।
स्वदत्तं परदत्तं वा यत्नात् तत् परिवर्जयेत् ॥ ८८ ॥

मूलम्

देवस्वं च विरुद्धं यत् सिद्धानामपि पापकृत् ।
स्वदत्तं परदत्तं वा यत्नात् तत् परिवर्जयेत् ॥ ८८ ॥

विश्वास-प्रस्तुतिः

दोषदं चापि माद्यस्मा ? 45 दक्षय्यनरकप्रदम् ।
प्राक् प्रवृत्तमतस्तस्मिन् निबन्धा ? देवतागृहे ॥ ८९ ॥

मूलम्

दोषदं चापि माद्यस्मा ? 45 दक्षय्यनरकप्रदम् ।
प्राक् प्रवृत्तमतस्तस्मिन् निबन्धा ? देवतागृहे ॥ ८९ ॥

विश्वास-प्रस्तुतिः

प्रयत्नात् पोषणीयं च योति ? नूनमथा यथा ? ।
प्रवृत्तकार्याकरणाद्वैष्णवायतनेषु च ॥ ९० ॥

मूलम्

प्रयत्नात् पोषणीयं च योति ? नूनमथा यथा ? ।
प्रवृत्तकार्याकरणाद्वैष्णवायतनेषु च ॥ ९० ॥

विश्वास-प्रस्तुतिः

प्राप्नोति सुमहद्दोषं राजा राजपदेषु च ।
यथा तद्बिपुला 46 कीर्तिस्तथा चेहाक्षयं सुखम् 47 ॥ ९१ ॥

मूलम्

प्राप्नोति सुमहद्दोषं राजा राजपदेषु च ।
यथा तद्बिपुला 46 कीर्तिस्तथा चेहाक्षयं सुखम् 47 ॥ ९१ ॥

देहान्ते शुभमाप्नोति प्राक्प्रवृत्तस्य पालनात् ॥

पौष्कर उवाच

विश्वास-प्रस्तुतिः

दानं सम्प्राशनं प्रोक्तं देवान्नस्य 48 पुरा त्वया ।
तस्याधुना जगन्नाथ निषेधः कथ्यते कथम् ॥ ९२ ॥

मूलम्

दानं सम्प्राशनं प्रोक्तं देवान्नस्य 48 पुरा त्वया ।
तस्याधुना जगन्नाथ निषेधः कथ्यते कथम् ॥ ९२ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

प्राक्साधितं च यागार्थं देवतानां प्रयत्नतः ।
तत्सन्तर्पणपर्यन्तं यावद्देवान्नमुच्यते ॥ ९३ ॥

मूलम्

प्राक्साधितं च यागार्थं देवतानां प्रयत्नतः ।
तत्सन्तर्पणपर्यन्तं यावद्देवान्नमुच्यते ॥ ९३ ॥

विश्वास-प्रस्तुतिः

अन्यथा भक्षणं तस्य यदि मोहात् कृतं द्विज ।
प्रायश्चित्तशतैश्चीर्णैश्शुद्धिर्भवति मानवः ॥ ९४ ॥

मूलम्

अन्यथा भक्षणं तस्य यदि मोहात् कृतं द्विज ।
प्रायश्चित्तशतैश्चीर्णैश्शुद्धिर्भवति मानवः ॥ ९४ ॥

विश्वास-प्रस्तुतिः

मन्त्रसन्तर्पणादन्ते याजिनां यजतां वर ।
गर्वबुद्धिविमुक्तानां भक्षणं सर्वशुद्धिकृत् ॥ ९५ ॥

मूलम्

मन्त्रसन्तर्पणादन्ते याजिनां यजतां वर ।
गर्वबुद्धिविमुक्तानां भक्षणं सर्वशुद्धिकृत् ॥ ९५ ॥

विश्वास-प्रस्तुतिः

पावनं शुद्धिदं पुण्यं भूतिभृत्यभिवृद्धिदम् 49
भक्षणं यद्यपि प्राप्तं नैवेद्यस्य च सर्वदा ॥ ९६ ॥

मूलम्

पावनं शुद्धिदं पुण्यं भूतिभृत्यभिवृद्धिदम् 49
भक्षणं यद्यपि प्राप्तं नैवेद्यस्य च सर्वदा ॥ ९६ ॥

विश्वास-प्रस्तुतिः

गुर्वादीनां तथाऽन्येषां भक्तानां तत्त्वतोऽब्जज ।
तत्रापि साधकानां च निषिद्धं वन्दनं विना ॥ ९७ ॥

मूलम्

गुर्वादीनां तथाऽन्येषां भक्तानां तत्त्वतोऽब्जज ।
तत्रापि साधकानां च निषिद्धं वन्दनं विना ॥ ९७ ॥

अथ वासादृतेऽन्यत्र नित्यनैमित्तिकार्चने ॥

पौष्कर उवाच

विश्वास-प्रस्तुतिः

हेतुना केन भगवन् निषिद्धं साधकस्य च ।
मन्त्रपूतं तु नैवेद्यमत्र मे संशयो महान् ॥ ९८ ॥

मूलम्

हेतुना केन भगवन् निषिद्धं साधकस्य च ।
मन्त्रपूतं तु नैवेद्यमत्र मे संशयो महान् ॥ ९८ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

नाप्रार्थितं गृहीतव्यं पुष्पमात्रं कदाचन ।
स वै ? मन्त्रेण विभवाद्ग्राह्यं 50 केचिद्दिगाजिना ? ॥ ९९ ॥

मूलम्

नाप्रार्थितं गृहीतव्यं पुष्पमात्रं कदाचन ।
स वै ? मन्त्रेण विभवाद्ग्राह्यं 50 केचिद्दिगाजिना ? ॥ ९९ ॥

विश्वास-प्रस्तुतिः

नैवेद्याद्यखिलानां च भोगानां भावितात्मनाम् ।
गुरुणा प्रार्थना 51 कार्या मन्त्रेशस्य पुनः पुनः ॥ १०० ॥

मूलम्

नैवेद्याद्यखिलानां च भोगानां भावितात्मनाम् ।
गुरुणा प्रार्थना 51 कार्या मन्त्रेशस्य पुनः पुनः ॥ १०० ॥

विश्वास-प्रस्तुतिः

स सर्वतस्स्वतन्त्रत्वात् तत्सिद्धत्वान्न दोषभाक् ।
लब्धान्तरे यथा मन्त्री नृपेन्द्रात् सर्व मध्यगे 52 ॥ १०१ ॥

मूलम्

स सर्वतस्स्वतन्त्रत्वात् तत्सिद्धत्वान्न दोषभाक् ।
लब्धान्तरे यथा मन्त्री नृपेन्द्रात् सर्व मध्यगे 52 ॥ १०१ ॥

विश्वास-प्रस्तुतिः

स न रुप्यति वै तस्य एवं मन्त्रेश्वरो गुरोः ।
फलपर्यवसानं च सेवार्थं यस्समुद्यतः ॥ १०२ ॥

मूलम्

स न रुप्यति वै तस्य एवं मन्त्रेश्वरो गुरोः ।
फलपर्यवसानं च सेवार्थं यस्समुद्यतः ॥ १०२ ॥

विश्वास-प्रस्तुतिः

न तेन प्रार्थना कार्या स्वल्पेऽप्यर्थे नृपस्य च ।
सम्प्रयच्छेत् प्रसन्नश्चेत् स्वयं तुष्टमयो ? यदि ॥ १०३ ॥

मूलम्

न तेन प्रार्थना कार्या स्वल्पेऽप्यर्थे नृपस्य च ।
सम्प्रयच्छेत् प्रसन्नश्चेत् स्वयं तुष्टमयो ? यदि ॥ १०३ ॥

प्। ९३)

विश्वास-प्रस्तुतिः

प्रसादमिति 53 वै ब्रूयात् शिरसा चाभिनन्दयन् 54
नाभिं ? कुर्याच्च मेधावी महार्थफललम्पका ? ॥ १०४ ॥

मूलम्

प्रसादमिति 53 वै ब्रूयात् शिरसा चाभिनन्दयन् 54
नाभिं ? कुर्याच्च मेधावी महार्थफललम्पका ? ॥ १०४ ॥

विश्वास-प्रस्तुतिः

एवं मन्त्रव्रतपरो 55 यमाचरति साधकः ।
अचिरात् सिद्धिमाप्नोति मन्त्रमूर्तेः प्रसादतः ॥ १०५ ॥

मूलम्

एवं मन्त्रव्रतपरो 55 यमाचरति साधकः ।
अचिरात् सिद्धिमाप्नोति मन्त्रमूर्तेः प्रसादतः ॥ १०५ ॥

पौष्कर उवाच

विश्वास-प्रस्तुतिः

आराध्यमूर्तेर्मन्त्रस्तु नैवेद्यस्य 56 जगत्पते ।
विनियोगं महाज्ञानमपि 57 शिष्टस्य का गतिः ॥ १०६ ॥

मूलम्

आराध्यमूर्तेर्मन्त्रस्तु नैवेद्यस्य 56 जगत्पते ।
विनियोगं महाज्ञानमपि 57 शिष्टस्य का गतिः ॥ १०६ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

मण्डलावयवेशानां बाह्याधारसशक्तिषु 58
गुर्वादिकालनाथानां दत्तं यद्विभवे सति ॥ १०७ ॥

मूलम्

मण्डलावयवेशानां बाह्याधारसशक्तिषु 58
गुर्वादिकालनाथानां दत्तं यद्विभवे सति ॥ १०७ ॥

विश्वास-प्रस्तुतिः

दद्यात् 59 तद्ब्रह्मचारीणां भक्तानां भावितात्मनाम् ।
हृदयादिदृगन्तानामङ्गानां यन्निवेदितम् ॥ १०८ ॥

मूलम्

दद्यात् 59 तद्ब्रह्मचारीणां भक्तानां भावितात्मनाम् ।
हृदयादिदृगन्तानामङ्गानां यन्निवेदितम् ॥ १०८ ॥

विश्वास-प्रस्तुतिः

श्रियादि मूर्तिकान्तानां 60 तथा व्यूहाख्यमूर्तिषु ।
विहितं पुत्रकाणां तद्दानकर्मणि सर्वदा ॥ १०९ ॥

मूलम्

श्रियादि मूर्तिकान्तानां 60 तथा व्यूहाख्यमूर्तिषु ।
विहितं पुत्रकाणां तद्दानकर्मणि सर्वदा ॥ १०९ ॥

विश्वास-प्रस्तुतिः

चक्राद्यायुधजातस्य मन्त्रोपकरणस्य च ।
भोगस्थानावतीर्णस्य यत्तत् सामाधिना 61 स्मृतम् ॥ ११० ॥

मूलम्

चक्राद्यायुधजातस्य मन्त्रोपकरणस्य च ।
भोगस्थानावतीर्णस्य यत्तत् सामाधिना 61 स्मृतम् ॥ ११० ॥

विश्वास-प्रस्तुतिः

गणचक्रदिगीशास्त्रद्वार्स्थानां क्षेत्रियस्य 62 यत् ।
दत्तं तत् क्षेत्रियादीनां वैष्णवानां विभज्य च ॥ १११ ॥

मूलम्

गणचक्रदिगीशास्त्रद्वार्स्थानां क्षेत्रियस्य 62 यत् ।
दत्तं तत् क्षेत्रियादीनां वैष्णवानां विभज्य च ॥ १११ ॥

विश्वास-प्रस्तुतिः

एतद्विसर्जनात् पूर्वं विहितं कमलोद्भव ।
प्रतिषिद्धं च सर्वेषां मन्त्र चक्रे विसर्जिते 63 ॥ ११२ ॥

मूलम्

एतद्विसर्जनात् पूर्वं विहितं कमलोद्भव ।
प्रतिषिद्धं च सर्वेषां मन्त्र चक्रे विसर्जिते 63 ॥ ११२ ॥

विश्वास-प्रस्तुतिः

यस्मादायान्ति भूतानि कोटिशस्समनन्तरम् ।
विष्णुपार्षदपूर्वाणां तादर्थ्येनाब्जसम्भव ॥ ११३ ॥

मूलम्

यस्मादायान्ति भूतानि कोटिशस्समनन्तरम् ।
विष्णुपार्षदपूर्वाणां तादर्थ्येनाब्जसम्भव ॥ ११३ ॥

विश्वास-प्रस्तुतिः

पवित्रता न तद्वीर्या 64 भ्रात्वा ? सम्भूषयन्ति च ।
जलजानां परीवारसत्त्वानामनुकम्पया ॥ ११४ ॥

मूलम्

पवित्रता न तद्वीर्या 64 भ्रात्वा ? सम्भूषयन्ति च ।
जलजानां परीवारसत्त्वानामनुकम्पया ॥ ११४ ॥

विश्वास-प्रस्तुतिः

दत्तशिष्टमतस्सर्वं दत्तं वाऽप्यव्ययाक्षयम् ।
समभृत्य ? च निष्पिष्य ह्यगाधेऽम्भसि यत्नतः ॥ ११५ ॥

मूलम्

दत्तशिष्टमतस्सर्वं दत्तं वाऽप्यव्ययाक्षयम् ।
समभृत्य ? च निष्पिष्य ह्यगाधेऽम्भसि यत्नतः ॥ ११५ ॥

विश्वास-प्रस्तुतिः

अर्चासंरुद्धमन्त्राणां 65 दत्तस्य विहितं सदा ।
दानं तदाश्रितानां वै भूतानां पूर्वरूपिणाम् ॥ ११६ ॥

मूलम्

अर्चासंरुद्धमन्त्राणां 65 दत्तस्य विहितं सदा ।
दानं तदाश्रितानां वै भूतानां पूर्वरूपिणाम् ॥ ११६ ॥

विश्वास-प्रस्तुतिः

तत्सेवकानां च तथा नृत्तगेयरतात्मनाम् ।
प्रार्थयन्त्यपि 66 भक्तानां विप्रग्रामनिवासिनाम् ॥ ११७ ॥

मूलम्

तत्सेवकानां च तथा नृत्तगेयरतात्मनाम् ।
प्रार्थयन्त्यपि 66 भक्तानां विप्रग्रामनिवासिनाम् ॥ ११७ ॥

विश्वास-प्रस्तुतिः

तस्मान्मन्त्रेश दृक्पूतं 67 नैवेद्यं पावनं परम् ।
कुरुते कायशुद्धिं च तच्छुद्ध्या काललाघवम् 68 ॥ ११८ ॥

मूलम्

तस्मान्मन्त्रेश दृक्पूतं 67 नैवेद्यं पावनं परम् ।
कुरुते कायशुद्धिं च तच्छुद्ध्या काललाघवम् 68 ॥ ११८ ॥

विश्वास-प्रस्तुतिः

निर्मुक्तवित्तदोषाणामचिराद्भवते शुभम् ।
यदप्येवं महत् तस्य तथाऽपि कमलोद्भव ॥ ११९ ॥

मूलम्

निर्मुक्तवित्तदोषाणामचिराद्भवते शुभम् ।
यदप्येवं महत् तस्य तथाऽपि कमलोद्भव ॥ ११९ ॥

विश्वास-प्रस्तुतिः

प्रदानाच्चोदनाच्चैव श्रेयांस्त्यागो हि पूर्वात् ।
न येन लोभो लोकस्य दोषस्योपरि सम्भवेत् ॥ १२० ॥

मूलम्

प्रदानाच्चोदनाच्चैव श्रेयांस्त्यागो हि पूर्वात् ।
न येन लोभो लोकस्य दोषस्योपरि सम्भवेत् ॥ १२० ॥

विश्वास-प्रस्तुतिः

भवेत् तल्लोभमुक्तानामतीव विमला मतिः ।
या या वेत्ति परप्राप्तिफलदं 69 कर्म शाश्वतम् ॥ १२१ ॥

मूलम्

भवेत् तल्लोभमुक्तानामतीव विमला मतिः ।
या या वेत्ति परप्राप्तिफलदं 69 कर्म शाश्वतम् ॥ १२१ ॥

इति श्रीपाञ्चरात्रे पौष्करसंहितायां विष्वक्सेनार्चनो नाम विंशतितमोऽध्यायः ॥ २० ॥

(समुदितश्लोकसङ्ख्या १२३ )


  1. ग्, घ्: स्वधाम्नि ↩︎ ↩︎

  2. ग्, घ्: भोगभूमि ↩︎ ↩︎

  3. ग्, घ्: मध्ये नाक्सरेत् ↩︎ ↩︎

  4. क्, ख्, ग्, घ्: सत्सन्निधान ↩︎ ↩︎

  5. तद्भुक्ते न ↩︎ ↩︎

  6. ग्, घ्: चाग्रतः स्थितम् ↩︎ ↩︎

  7. क्, ख्: निर्वर्तनोच्छोषैरम्लानैः ↩︎ ↩︎

  8. ग्, घ्: द्वारशोभाश्र ↩︎ ↩︎

  9. ग्, घ्: मच्युतेन तु ↩︎ ↩︎

  10. ग्, घ्: तेनैव ↩︎ ↩︎

  11. क्, ख्: त्विषट्पतल ↩︎ ↩︎

  12. क्, ख्: पूजितम् ↩︎ ↩︎

  13. क्: प * * * * जटा; ख्: अपिश्मश्रु जटा ↩︎ ↩︎

  14. क्, ख्: रत्नोपसंस्थितम् ↩︎ ↩︎

  15. ग्: दक्षिणे वर्षं तपश्रीवत्स ↩︎ ↩︎

  16. (ख) अमासिकोणि * * * तन्मध्ये; ग्, घ्: अमासितक्योमणि * * * चितन्मध्ये ↩︎ ↩︎

  17. घ्: कमलातहाम् ↩︎ ↩︎

  18. क्, ख्: मुन्मिन्नम् ↩︎ ↩︎

  19. ग्, घ्: करणैरेव ↩︎ ↩︎

  20. ग्, घ्: त वामपाणौ लता ↩︎ ↩︎

  21. ग्, घ्: नमयित्वाम् ↩︎ ↩︎

  22. क्, ख्: चत्वारः ↩︎ ↩︎

  23. क्, ख्: तत्तुल्यस्यानके- ↩︎ ↩︎

  24. क्, ख्: मिषत्कुण्डलिनम् ↩︎ ↩︎

  25. ग्, घ्: ऋक्पूतम् ↩︎ ↩︎

  26. क्, ख्: सात्विका ब्रमभविनः ↩︎ ↩︎

  27. ग्, घ्: गुरुदत्तेर्वै ↩︎ ↩︎

  28. ग्, घ्: संस्कृतम् ↩︎ ↩︎

  29. यागः साधकः इति साधु ↩︎ ↩︎

  30. क्, ख्: मुख्यत्वेनापरस्य ↩︎ ↩︎

  31. क्, ग्: -मेवादिक ↩︎ ↩︎

  32. क्, ख्: पिण्डीकृत्येत पवतः ↩︎ ↩︎

  33. क्: तक्षण * * *; ख्: लक्षणम * * *; ग्, घ्: लक्षणमनेश्वरम् ↩︎ ↩︎

  34. क्, ख्: तत्रेन्द्रादि * * * तथा ↩︎ ↩︎

  35. ग्, घ्: तत्तदाधामयम् ↩︎ ↩︎

  36. क्, ख्: नानाविहितता ↩︎ ↩︎

  37. ग्, घ्: यत्तदुदेत्यस्तमेति च ↩︎ ↩︎

  38. क्, ख्: कूलेन ↩︎ ↩︎

  39. ग्, घ्: कृतकृत्यर्थम् ↩︎ ↩︎

  40. ग्, घ्: विभवेन ↩︎ ↩︎

  41. क्, ख्: वाधमम् ↩︎ ↩︎

  42. क्, ख्: पदपक्ष; ग्, घ्: दधिपक्ष ↩︎

  43. क्, ख्: गणं च न ↩︎ ↩︎

  44. क्, ख्: तत्सम्बन्धं च व * * * पुत्र पशुबान्धवाः ↩︎ ↩︎

  45. क्, ख्: दोषा * * * ञ्चापि * * * माद्यस्मात्; ग्, घ्: कामस्मात् ↩︎ ↩︎

  46. ग्, घ्: यद्धनविपुला ↩︎ ↩︎

  47. घ्: शुभम् ↩︎ ↩︎

  48. ग्, घ्: देवतास्य ↩︎ ↩︎

  49. ग्, घ्: भूमिभृत्यभि ↩︎ ↩︎

  50. ग्, घ्: विभवोदग्रात् ↩︎ ↩︎

  51. क्, ख्: प्रार्थनां कुर्यात् ↩︎ ↩︎

  52. ग्, घ्: मध्यते ↩︎ ↩︎

  53. क्, ख्: प्रस * * * वै ब्रूया * * * चाभि ↩︎ ↩︎

  54. ग्, घ्: चाभिनन्द्य यत् ↩︎ ↩︎

  55. क्, ख्: एवं मन्त्रावृत ↩︎ ↩︎

  56. क्, ख्: नैवेद्यस्तु ↩︎ ↩︎

  57. क्, ख्: महा * * * नमपि ↩︎ ↩︎

  58. ग्, घ्: बाह्या * * * शशक्तिषु ↩︎ ↩︎

  59. क्, ख्: विद्यात् ↩︎ ↩︎

  60. ग्: मूर्तकान्तानाम् ↩︎ ↩︎

  61. ग्: सम्मर्थिनाम्; घ्: विभूतिनाम् ↩︎ ↩︎

  62. क्, ख्: क्षेत्रियस्य इत्याद्यर्धचतुष्टयं गलितम् ↩︎ ↩︎

  63. क्, ख्: * * * क्षेत्रविसर्जने ↩︎ ↩︎

  64. ग्, घ्: पवित्रतान्ततद्वीर्या ↩︎ ↩︎

  65. ग्, घ्: सं रुद्र ↩︎ ↩︎

  66. क्, ख्, ग्: प्रार्थयन्त्यभि ↩︎ ↩︎

  67. क्, ख्: दिक्पूतम् ↩︎ ↩︎

  68. क्, तच्छूध्या * * * ख ↩︎ ↩︎

  69. ग्, घ्: यथा वेत्ति फलप्राप्ति ↩︎ ↩︎