१८ अध्यायः

अथ अष्टादशोऽध्यायः

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

अथ ते सम्प्रवक्ष्यामि यागे तु कलशोदरम् ।
यत्र यज्ञाङ्गभृद्देवं 1 पूजयन्तीह साधकाः ॥ १ ॥

मूलम्

आचत्वारिंशधा क्षेत्रं भङ्क्त्वा 2 सूत्राणि पातयेत् ।
अंशकानां सहस्रं तु विद्धि 3 तत्र शतानि च ॥ २ ॥

षडंशमानं 4 कथितं सूत्रपातं निबोधतु ।
प्राक्प्रत्यक्संस्थिता सूत्रा ? चत्वारिंशत् तथा परम् ॥ ३ ॥

सूत्रमेकमुदग्याम्ये तद्वदेव प्रकीर्तितम् ।
सौम्ययाम्यैकविंशत्या 5 मध्यसूत्रस्य पञ्चकम् ॥ ४ ॥

निधाय सम्भ्रमेत् सूत्रं मध्यात् सप्तदशं नयेत् ।
तस्मात् स्थानादर्धचन्द्रम् लाञ्छयेत् सौम्यदिग्गतम् ॥ ५ ॥

मध्यमात् पञ्चमाख्यस्य याम्योदङ्नवमस्य 6 च ।
शृङ्गैकमर्धचन्द्रस्य 7 तस्मिन् बन्धो ? निरोधयेत् ॥ ६ ॥

दोस्त्रयस्त्रिंशसङ्ख्यस्य पद्म 8 * * * * मध्यस्य च ।
सन्ध्यंशे 9 चापरं शृङ्गं निरोध्यं दक्षिणे तथा ॥ ७ ॥

निधाय सङ्गमे सूत्रं तस्मात् तत्तत् प्रसार्य च ।
यावन्मध्याद् 10 द्विसप्तस्य सन्धितो दशमस्य च ॥ ८ ॥

इत्युक्तं लाञ्छनं पूर्वमपरं कथयामि ते ।
मध्याद्यागन्तसूत्रस्य ? अंशी तच्चाष्टमस्य च ॥ ९ ॥

कृत्वा सन्धिगतं सूत्रं तस्मात् स्थानात् प्रसार्य च ।
शरवद्दां ? द्वितीयस्य समीपं चैव पौष्कर ॥ १० ॥

तस्मात्तु लाञ्छ्यमानं तु नीलत्वाम्भस्य ? मीलयेत् ।
लाञ्छनद्वितये सिद्धे विधिनाऽनेन सत्तम ॥ ११ ॥

वक्त्रं करिकराकारं सिध्यते जलनिर्गतम् ।
वृत्तं तस्याग्रतः कुर्याद्भागेनास्ती 11 स्ति ? तेन च ॥ १२ ॥

रुचिमन्त्रेण वस्त्रेण सर्वमन्त्रगणेन वा ।
सर्वध्वो ध्वानयेत् ? तस्मान्मध्यसप्तदशां नयेत् ॥ १३ ॥

तस्मात् तदर्धचन्द्रं तु लाञ्छयेत् सौम्यदिग्गतम् ।
मध्यात् पञ्चमसङ्ख्यस्य याम्योदङ्नवमस्य च ॥ १४ ॥

शृङ्गेद ? मर्धचन्द्रस्य तस्मिन् सन्धौ निरोधयेत् ।
दोस्त्रयस्त्रिंशसङ्ख्यस्य पञ्चमे मध्यमस्य च ॥ १५ ॥

सन्ध्यंशे परिशृङ्गानि निरोध्यं दक्षिणे तथा ।
सा लाञ्छ्यमर्धचन्द्रं तु कुम्भस्स्यात् कलशस्य वै ॥ १६ ॥

कल्पनीयास्तथा वारः 12 पश्चादस्याप्यनिर्गतः ।
मध्यान्नवमसूत्रस्य सप्तविंशस्य दोर्द्विज ॥ १७ ॥

सन्धौ कृत्वा प्रसार्येदं मध्याद्वै पञ्चमं स्पृशेत् (स्फृशेत्)।
मत्स्यवल्लाञ्छ्यमानं तु नीत्वा तस्यास्तु सङ्गमम् ॥ १८ ॥

दोरेकचत्वारिंशस्य मध्याद्वै नवमस्य यत् ।
वायुवारुणदिङ्मध्ये लाञ्छनं सम्प्रकीर्तितम् ॥ १९ ॥

प्। ७८)

विश्वास-प्रस्तुतिः

तत्तद्वारुणनैर्-ऋत्यां मध्ये कुर्याच्च लाञ्छनम् ।
आधारस्सिध्यते चास्य 13 कण्ठमानेन चोच्छ्रितः ॥ २० ॥

साधनीयं ततः कण्ठं भारयुक्तं मनोहरम् ।
मध्याद्दशमसूत्रस्य प्रत्योदक्प्रथमस्य च ॥ २१ ॥

निधाय सङ्गमे सूत्रं मध्यादेकादशं स्पृशेत् ।
लाञ्छ्यमानं नयेत् सिद्धिं द्वितीयस्य भुजाविधा 14 ॥ २२ ॥

मध्याद 15 * * * * * * * * तत्सूत्रं कमलेक्षण ।
अथ यूपान्नवाख्यस्य याम्योदग्द्वितयस्य च ॥ २३ ॥

कृत्वा वै सङ्गमं तेन मध्याद्वै दशमं स्पृशेत् ।
मत्स्यवत्तन्नयेत् सूत्रं सन्ध्यांशात्तन्निबोध मे ॥ २४ ॥

मध्यान्नवमसञ्ज्ञस्य 16 सत्वस स्त्रियस्य च तत् ।
अनेन विधिना तेन मुखमस्य तु सिध्यति ॥ २५ ॥

नवमस्य च वै स्तम्भाद्बाहुतप्तैकमस्य च ? ।
निधाय सङ्गमे सूत्रं स्पर्शं मध्यात्तु पञ्चमम् ॥ २६ ॥

मत्स्यवल्लाञ्छ्यमानं 17 यन्मत्स्यवत् सङ्गमं नयेत् ।
यद्वे ? भुजतृतीयं स्यान्नवमस्य तु वै ध्रुवम् ॥ २७ ॥

एवमुत्तरदिक्कुर्याल्लाञ्छनं दक्षिणे तु वा ।
सुव्यक्तं 18 सिध्यते कण्ठं कुम्भस्य साललोचनम् 19 ॥ २८ ॥

अस्याम्बुवाहमस्यैव ? कार्यमाग्नेयदिग्गतम् ।
दोस्त्रयोदशसङ्ख्यस्य मध्यात् सप्तदशस्य च ॥ २९ ॥

निधाय सङ्गमे सूत्रं तस्मात् तत् सम्प्रसार्य च ।
यवमध्याद् द्विसप्तस्य सन्धितो दशमस्य च ॥ ३० ॥

पातयित्वा तु तत् सूत्रं ततो लाञ्छनमारभेत् ।
संवोत् ? सप्तदशाख्यस्य सप्तमस्य भुजाविधात् ॥ ३१ ॥

कृत्वा सूत्रं सन्धिदेशे सङ्गमं तत् समानयेत् ।
यत्र बाहुत्रये यत्र ध्रुवात् सप्तदशस्य च ॥ ३२ ॥

स्थानं 20 तत् स्याल्लाञ्छ्यमानं सम्मील्यास्फालितस्य च ।
इत्युक्तं लाञ्छनं पूर्वमपरं कथयामि ते ॥ ३३ ॥

मध्यात् प्रागुक्तसूत्रस्य अंशतश्चाष्टमस्य च ।
कृत्वा सन्धिगतं सूत्रं तस्मात् स्थानात् प्रसार्य च ॥ ३४ ॥

शरद्वौघ ? 21 द्वितीयस्य समीपं चैव पौष्कर ।
तस्मात्तु लाञ्छ्यमानं तु तिलत्वाभस्य ? मीलयेत् ॥ ३५ ॥

लाञ्छनद्वितये सिद्धे विधिनाऽनेन सत्तम ।
वक्त्रं करिकराकारं सिध्यते जलनिर्गमम् ॥ ३६ ॥

वृत्तं तस्य ततः कुर्याद्भागेनोर्ध्वस्थितेन च ।
रुचिमन्त्रेण वाऽस्त्रेण सर्वमन्त्रगणेन वा ॥ ३७ ॥

सर्वध्वेध्वाप्तये स्मानं ? 22 ज्ञातुमिच्छति योऽर्थिषु ।
समस्तविन्धुतप्रात ? सशीयां लब्धयेऽस्य 23 च ॥ ३८ ॥

सम्मार्ज्य मध्ये मन्त्रे तु सर्ववस्तुषु सर्वदा ।
हिंसका ध्वंसते सप्त पातालगतिसिद्धये ॥ ३९ ॥

समयानां तु दोषाणामखिलानां तु शान्तये ।
साम्बुवाहमदं विप्र कुर्यान्न 24 ह्यत्र पूजयेत् ॥ ४० ॥

स्थितं सूत्रद्वयं वक्त्रे याम्योत्तरगतं तु यत् ।
प्रथमामपि भुवं च स्थापनीयेन मार्जयेत् ॥ ४१ ॥

प्। ७९)

विश्वास-प्रस्तुतिः

पूर्वाद्यारभ्य भागस्य * * * * पङ्क्ति द्विजाधिप ।
तया वृत्तद्वयं कुर्यात् कण्ठसूत्रं 25 यथा भवेत् ॥ ४२ ॥

कुर्याच्छतचतुष्केण कोष्ठकानां तु मध्यतः ।
दलाष्टकयुतं पद्मं नवशिष्टं तु शोधयेत् ॥ ४३ ॥

भागपङ्क्तित्रये बाह्याद्द्वारदिक्कल्प्य शङ्खवत् ।
द्वे चतुष्षट् क्रमादंशौ द्वाराच्छोभोपशोभयोः ॥ ४४ ॥

एकांशस्त्रीण्यतः पश्चात् सप्तविंशत्यथ शृणु ।
चतुष्कमुपशोभान्या विदिक् शोभगणं 26 तथा ॥ ४५ ॥

जायतेऽनेन विधिना द्वारैः पूर्वापरं विना ।
सम्पूर्य रजसा पश्चादथ तत् कथयाम्यहम् ॥ ४६ ॥

लाञ्छनानि सवृत्तानि पत्राण्यत्युज्ज्वलेन च ।
रजसा रक्तवर्णेन हेमाभेन तदन्तरम् ॥ ४७ ॥

नृपोपलनिभेनैव त्वरुणेन सितेन च ।
प्रपूरणीयं कण्ठस्थं 27 क्रमाद्वृत्तगणं ततः ॥ ४८ ॥

ऊर्ध्वस्थं जलजातस्य वृत्तविद्रुमरूपिणा ।
रागेण रञ्जयेत् सर्वं कृत्वैवं लक्षणान्वितम् ॥ ४९ ॥

चतुरश्रस्य मध्ये तु वराहं संयजेत् ततः ।
सप्तद्वीपाधिपत्यार्थी निष्कामो ह्यथ शक्तिमान् ॥ ५० ॥

वृत्तादीनां च बिम्बानां या मध्ये परिकल्पना ।
भागैरम्बुजसिद्ध्यर्थं नवपीठं विना 28 तु सा ॥ ५१ ॥

यद्येकस्मिन् द्विज क्षेत्रे वृत्तादीन् परिकल्पयेत् ।
तेषामन्तर्गतं कुर्यात् कुर्यात् कमलसञ्चयम् ॥ ५२ ॥

प्राक् परिज्ञाय 29 चात्यल्पं बिम्बं निर्वृतिपङ्कजम् ।
पश्चाद्वै 30 तेन मानेन शेषं पद्मगणं लिखेत् ॥ ५३ ॥

इत्युक्तमरविन्दाक्ष यत् त्वया चोदितो ह्यहम् 31
नवमण्डलगर्भं च नवद्वारपुरोपमम् ॥ ५४ ॥

भक्तानामारुरुक्षूणां प्रायश्श्रेयस्करो नृणाम् ।
नैतस्मादपरं चान्यदस्माच्चाहं तु मन्यते ॥ ५५ ॥

यागानां चैव सर्वेषां प्राधान्यत्वेन वर्तते ।
तदवाच्यमभक्तानां शठानां चात्मवैरिणाम् ॥ ५६ ॥

नास्तिकानां तु पापानामन्यदर्शनसेविनाम् ।
क्रमक्रियोज्झितानां 32 च द्विजातेर्द्विषतामपि ॥ ५७ ॥

एषामन्यतमानोपि ? वक्तव्यं वै प्रजापते ।
नवगर्भस्य यागस्य विधानं शास्त्रचोदितम् ॥ ५८ ॥

यस्त्विमं पूजयेत् पश्चात् स्वशक्त्या विभवेन वा ।
सोऽनन्तं फलमाप्नोति ऐहिकामुष्मिकं शुभम् ॥ ५९ ॥

पठ्यमानस्य वै यस्य याति वाग्वि 33 भवक्षयम् ? ।
येनापि च सकृद्दृष्टो महायागश्च पूजितः ॥ ६० ॥

तस्य जन्मसहस्रोत्थ मेनसं 34 विलयं व्रजेत् ।
क्रमाद्यास्यसि देहान्तं तेनेत्थं 35 स्थागणस्य च ? ॥ ६१ ॥

तस्मात् पूज्यमिदं शक्त्या द्रष्टव्यं पूजनं विना ? ।
यागसञ्ज्ञं शुभं ब्रह्म्न् ब्रह्मप्राप्तिफलप्रदम् ॥ ६२ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां

नवनाभलक्षणो नाम

अष्टादशोऽध्यायः ॥ १८ ॥

  1. ग्, घ्: यज्ञाङ्गहृद्देवम् ↩︎ ↩︎

  2. क्: अचत्वारिंशते क्षेत्रे भक्ते; ग्, घ्: अचत्वारिंशधा क्षेत्रे भक्ते ↩︎ ↩︎

  3. क्: विधिम् ↩︎ ↩︎

  4. क्: षडङ्गमानम् ↩︎ ↩︎

  5. क्: विंशस्य ↩︎ ↩︎

  6. ग्, घ्: याद्योतं नवम ↩︎ ↩︎

  7. ग्, घ्: शृङ्गै… मध्य ↩︎ ↩︎

  8. ग्, घ्: पद्ममे मध्य ↩︎ ↩︎

  9. क्: सद्व्यंशेचावरम् ↩︎ ↩︎

  10. घ्: यावन्मध्य इत्युक्तं मध्याद्याग इत्याद्यर्धत्रयं गलितम् ↩︎ ↩︎

  11. ग्, घ्: भागेनोस्तिसितन च ↩︎ ↩︎

  12. ग्, घ्: पारः ↩︎ ↩︎

  13. क्, ख्, ग्, घ्: चस्य कर्ण ↩︎ ↩︎

  14. ख्, ग, घ्: भुजाभिधा ↩︎ ↩︎

  15. क्: मध्याद इत्याद्यर्धं गलितम् ↩︎ ↩︎

  16. ग्, घ्: न्नवमसञ्ज्ञस्त्वसंस्त्रृतीयस्य * * * वत् ↩︎ ↩︎

  17. ग्, घ्: समास्याल्लाञ्छ्यमानम् ↩︎ ↩︎

  18. सर्वत्र स्वत्तं इत्यस्ति सुव्यक्तं इति स्यात् ↩︎ ↩︎

  19. ख्, ग्, घ्: स्याललोचनम् ↩︎ ↩︎

  20. क्: स्थानात् ↩︎ ↩︎

  21. क्: शरदौ * * * * ↩︎ ↩︎

  22. क्, ख्: * * * ध्वोध्वाप्तये * * * स्मानम् ↩︎ ↩︎

  23. ख्, ग्: वशिद्धा; घ्: वशिथालब्धये ह्यथ ↩︎ ↩︎

  24. ग्, घ्: कुर्यान्यन्यत्र ↩︎ ↩︎

  25. क्: कर्णसूत्रम् ↩︎ ↩︎

  26. ग्, घ्: शोभा * * * गणम् ↩︎ ↩︎

  27. क्: कर्णस्य ↩︎ ↩︎

  28. क्: विना * * * ↩︎ ↩︎

  29. क्: ज्ञाय चा * * * * बिम्बानिवृत्त; ग्, घ्: बिम्बा निर्वृत्ति ↩︎ ↩︎

  30. ख्: पश्चाद्वैतानि ↩︎ ↩︎

  31. ख्: चोदितोस्म्यहम् ↩︎ ↩︎

  32. क्: कि * * * * कियो ↩︎ ↩︎

  33. अत्र वाग्मित्वमक्षयं इति चेत् साधु ↩︎ ↩︎

  34. क्, ख्: मेनसाम् ↩︎ ↩︎

  35. ग्, घ्: तेन त्वम् ↩︎ ↩︎