अथ सप्तदशोऽध्यायः
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
शृणु ब्रह्मन् प्रवक्ष्यामि तवानह * * * * चाष्टकम् ।
शङ्खोदरमहायागं यजनार्थं नृकेसरेः ॥ १ ॥
मूलम्

क्षेत्रं द्वात्रिंशधाल्पान्यं ? 1 सर्वदिग्गह्य ? 2 तत्समम् ।
पत्रयेदर्धसूत्राणि 3 त्रिंशद् 4 द्व्येकाधिकानि च ॥ २ ॥

सूत्रसङ्ख्याकृतान्येषां 5 त्वंशसङ्ख्यां निबोधतु ।
सहस्रे तत् तथा विंशत्यपरं च चतुष्टयम् ॥ ३ ॥

तन्मध्ये 6 पाञ्चजन्याख्यं बिम्बं कुर्यात् सुलक्षणम् 7
सूत्राणि कुर्यत् प्रागादौ भक्त्या पूर्वं द्विजोत्तरम् ॥ ४ ॥

अर्धेन्दुवन्नखस्त्रीणि ? तत्र पश्चात्तु साधयेत् ।
भागपङ्क्त्या ह्यधस्स्थाया मध्मभागपथेन तु ॥ ५ ॥

अर्धेन्दुं प्रथमं कुर्यादधोवक्त्रं च पौष्कर ।
मध्यसूत्राच्च सङ्गस्यान्याति ? प्राक्पश्चिमानि च ॥ ६ ॥

उक्तानुक्तेषु बिम्बेषु ह्येष एवमिति स्मृतः ।
प्रसङ्ख्यानेव ? सूत्राभ्यां सर्वेषां सत्यविक्रमम् 8 ॥ ७॥

प्। ७५)
विश्वास-प्रस्तुतिः
उत्तराद्दक्षिणा यैस्तु स्पृष्टसूत्रैस्तु सेतुवत् ।
तान्युदग्दक्सिणामध्यप्राक्प्रत्यक्स्थानि तद्बहिः ॥ ८ ॥

उदग्भ्राम्यमृतं ? यस्य मध्यसूत्रस्य सङ्गमे ।
निधाय सूत्रमध्येऽरं पूर्वदिश्यां च वै द्विज ॥ ९ ॥

द्व्यङ्गमानेन सूत्रेण चाच ? शृङ्गद्वयं तु तत् ।
लयं नयेत् तृतीयस्य सूत्रस्यात् ? सापिधस्य 9 च ॥ १० ॥

सिध्यमुखम * * * * स्येवं येन चासौ लयं व्रजेत् ।
भवेच्छब्दोदयं येन सम्यरस्ते ? समीरणे ॥ ११ ॥

पश्चात् संसाधनीयं च सुशुभं भुवनत्रयम् ।
मध्यसूत्राच्चतुर्थस्य याम्योदक्पश्चिमस्य च ॥ १२ ॥

मध्येंशे 10 प्रेरयेत् सूत्रं मध्याक्षा षो ? दकं नयेत् ।
लाञ्छयित्वाऽर्धचन्द्रं तु दिग्भागे चोत्तरोत्तरम् ॥ १३ ॥

मध्यसूत्राच्च षष्ठस्य याम्योदङ्नवमस्य च ।
सङ्गमे स्थापयेत् सूत्रं नयेन्मध्याष्टदष्टगम् 11 ॥ १४ ॥

सञ्चं ? 12 तदर्धे द्वितयं * * * * सौम्य दिग्द्विज ।
याम्योत्तरेषु सूत्रेषु यच्चतुर्दशमं तथा ॥ १५ ॥

मध्यमान्नवसङ्ख्या स्यात् सूत्रं संस्थाप्य सङ्गमे ।
तत् स्थानादानयेत्तद्वै यद्वा दशममध्यमात् ॥ १६ ॥

ततोऽर्धशशिनं दद्यात् तृतीयं सोमदिग्गता ? ।
सूत्रवापमतः 13 कुर्याद् द्विविधं येन तच्छृणु ॥ १७ ॥

यत् 14 स्मृतं पञ्चदशमं सूत्रं याम्योत्तरं तथा ।
मध्याद् द्वदशमं 15 यच्च ताभ्यां संरोध्य सङ्गमे ॥ १८ ॥

सूत्रं नयेद्वारुणाशामध्यमास्फालयेत् ततः ।
भूयस्त्वनेन विधिना दक्षिणस्यां दिशि द्विज ॥ १९ ॥

अर्धचन्द्रत्रयं कुर्यात् सूत्रं सम्पातयेत् तथा ।
अतश्चाभ्यन्तरे 16 भागे सानम ? शृणु सत्तम ॥ २० ॥

यागदक्षिणदिग्भागे 17 शङ्खाकृतिक्रमात् भवेत् ।
शुभाय पञ्चदशमं सूत्रं याम्येऽन्तगं 18 तथा ॥ २१ ॥

मध्यमान्नवमं नाभ्यां 19 सूत्रं कृत्वा तु सङ्गमे ।
तस्मात् प्रसार्य तत् सूत्रं यावन्मध्याच्च सत्तम ? 20 ॥ २२ ॥

मत्स्यवल्लाञ्छना 21 कार्या वादीका ? तत्र तेन च ।
प्राक् सिद्धं चन्द्रशृङ्गाभमस्य शृङ्गं तु मीलयेत् ॥ २३ ॥

बाहुपञ्चदशाख्येन मध्यसूत्रस्य चाष्टमे ।
सन्धानौ ? स्थापयेत् सूत्रं क्रमात् तेन चतुर्दशी ॥ २४ ॥

संस्पृशेद्बाहुसूत्रं 22 च तस्मात् स्थानात्तु लाञ्चयेत् ।
अर्धचन्द्रमधोवक्त्रं मध्ये सूत्रद्वयस्य च ॥ २५ ॥

तदीयमुत्तरं शृङ्गं मत्स्यशृङ्गस्य मीलयेत् ।
अनेन विधिना सम्यङ्नाभ्यावर्तं भवेत् स्फुटम् ॥ २६ ॥

नाभेरधोगतं कुर्यात् करग्रहं सुलक्षणम् ।
तत् साधनं समासेन शृणु वक्ष्याम्यतः परम् ॥ २७ ॥

सप्तमस्य तु वै मध्याद्बाहुपञ्चदशस्य च ।
कृत्वा मध्यगतं सूत्रं तत्क्रमेण प्रसार्य च ॥ २८ ॥

यावन्मध्यमसूत्रस्य निषादाः ? 23 पश्चिमे दिशि ।
आस्फलयेच्च 24 तत् सूत्रं पाणिग्राहप्रसिद्धये ॥ २९ ॥

प्। ७६)
विश्वास-प्रस्तुतिः
भुजात् सप्तदशस्याथ स्तम्भादष्टक्रमस्य च ।
सन्धौ 25 संरोध्य वै सूत्रं प्राग्वन्नीत्वा तु पातयेत् ॥ ३० ॥

मध्ये सूत्रद्वयं स्यात्तु कुर्यादर्धेन्दुसञ्चयम् ।
प्रमाणं भासते तेषां तस्मात् क्षेत्रक्रमेण तु ॥ ३१ ॥

नाभावधस्तु 26 शशिना लाञ्छनेन द्विजोत्तम ।
यवभागेऽर्धचन्द्रेन्दु ? भ्रामयेद्भागसन्निधिम् ॥ ३२ ॥

येनातिकृष्णं न भवेत् पतकं ? वृद्धिबिम्बकम् 27 ।
सम्पन्नं लाञ्छनस्याथ शृणु सङ्ख्यस्य कल्पनम् ॥ ३३ ॥

पञ्चकं चोल्लिखेन्मध्ये कोष्ठकानां शतानि तु ।
भुवनत्रयसंलग्नदक्षिणोत्तरगं तु यत् ॥ ३४ ॥

यत् सूत्रत्रितयं 28 यत्नान्मुखमर्धेन्दुवद्भवेत् ।
भुवनद्वितयं चास्य क्रमस्स्याद्वर्तुलायतम् ॥ ३५ ॥

स बाह्याभ्यन्तरस्यातो मार्जनीयं तु कोष्ठकम् ।
अव्यक्तं व्यज्यते येन चतुरश्रस्य मध्यमम् ॥ ३६ ॥

व्यूहं यदा 29 विना कुर्यात् तदाऽस्य परिकल्पयेत् ।
द्वारशोभोपशोभानि द्विद्विकेनांशपङ्क्तिता ॥ ३७ ॥

द्वे चतुष्षट् तथा चाष्टौ द्वारसर्वाङ्गलादिका ? 30 ।
सप्तपञ्चत्रिरेखं च लुम्पेच्छोभोपशोभयोः ॥ ३८ ॥

द्व्यंशात्यष्टाधिकां चैव कोणात् कोणं तु वै ततः ।
ग्रस्तौ पूर्वापरौ द्वारौ किञ्चिछोभासमन्वितौ ॥ ३९ ॥

अखण्डितं भवेच्छेषं प्रागुक्तं विधिना तव ।
कुर्याद्वीध्यादिकं सर्वं लुप्तचक्रचये सति ॥ ४० ॥

रागेण रञ्जयेत् पश्चाद्यथा तदिह कथ्यते ।
पाण्डरारुणकेनैव लाञ्छनात् सूत्रमिश्रिताः ॥ ४१ ॥

क्रमेण पूरणीयाश्च संरेखासु 31 च सर्वदिक् ।
पाण्डरेण तु रागेण गोक्षीरसदृशेन तु ॥ ४२ ॥

दर्पणोदरवन्मध्यात् पूर्य पद्मं यथा पुरा ।
वक्त्रमध्येऽस्य वेधं तु कृष्णेन रजसा समम् ॥ ४३ ॥

स्वेच्छया 32 विधिवत् कुर्यात् सुवृत्तं सुन्दराकृति ।
वैडूर्यसदृशेनाथ कृष्णेन परिरञ्जयेत् ॥ ४४ ॥

बिम्बमद्य 33 द्विजश्रेष्ठ एवं कृत्वा तु पूजयेत् ।
शङ्खकोदरमध्ये तु ध्यानसक्तो नृकेसरिम् ॥ ४५ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां
शङ्खबिम्बलक्षणो नाम
सप्तदशोऽध्यायः ॥ १७ ॥