अथ षोडशोऽध्यायः
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
शृणु ब्रह्मन् प्रवक्ष्यामि यागं कूर्मोदरं तु यत् ।
सप्तमं नवनाभस्य विष्णोस्सम्पूजनाय च ॥ १ ॥
मूलम्

ऐशान्यां दिशि 1 वा कुर्याच्चक्रं कूर्मस्य सर्वदा ।
रजसा चोल्लिखेत्तस्माद्विभागोद्योतितेन च ॥ २ ॥

विभज्य दशधा क्षेत्रं सूत्राण्यास्फालयेत् ततः ।
साध्यते 2 शतमेकं तु कोष्ठकानां द्विजोत्तम ॥ ३ ॥

वायव्यांशं समारभ्य यावदीशानगोचरम् ।
पङ्क्त्येका कोष्ठकानां तु ऐन्द्रीदिक्स्थां तु मार्जयेत् ॥ ४ ॥

कृत्वा ब्रह्मावधौ सूत्रं सम्प्रसार्य क्रमेण तत् ।
उदग्याम्यतृतीयस्य 3 यावत्सूत्रस्य सन्निधिम् ॥ ५ ॥

स्थानं तस्मान्नयेच्चोदग्लाच्छ्यमानं तु 4 सङ्गमम् ।
अस्य मध्याच्चतुर्थस्य यद्येतत् पञ्चमस्य च ॥ ६ ॥

अनेन विधिना कुर्यात् * * * * पृष्ठलाञ्छनम् ।
याम्योदक् सप्तमस्याथ मध्मसूत्रस्य सङ्गमे ॥ ७ ॥

निधाय सूत्रम्मप्रग्वत्तया ? 5 स्तृतीयोपगं न्यसेत् ।
तत् सूत्रं लाञ्छयेद्याम्ये यावन्मध्यस्य पञ्चमे ॥ ८ ॥

भुजात् षष्ठे तु साध्यांशे कूर्मपृष्ठं तदा भवेत् ।
अथ षष्ठस्य वै मध्यादंशाख्यात् 6 सप्तमस्य तु ॥ ९ ॥

निधाय सङ्गमे सूत्रं मीलयेद्ब्रह्मलाञ्छने ।
समास्फाल्य तु लाङ्गूलं संसिद्ध्यर्थं तु पौष्कर ॥ १० ॥

लाङ्गूलस्य ततश्चार्धं सूत्रं कुर्यात्तु सङ्गमे ।
आधारात् पञ्चसङ्ख्यस्य भुजादष्टमकस्सुकैः ? 7 ॥ ११ ॥

प्रसार्य ऋग्यजुस्सामबाहुस्सप्तक्रमस्पृशेत् ।
लाञ्छ्यमानं नयेत्तस्मान्मध्यात् तुर्यस्य मीलयेत् ॥ १२ ॥

अथ पुच्छाग्रकं सूत्रं कृत्वा सिद्धिं 8 समानयेत् ।
चतुर्थस्य तु वै मध्याद्भुजादष्टमकस्य च ॥ १३ ॥

तस्मान्नयेल्लाञ्छितेन 9 मयम् बद्धस्य पञ्चकम् ।
कृत्वैवं च ततः कुर्याल्लाञ्छनं कर्णदेशतः 10 ॥ १४ ॥

प्। ७३)
विश्वास-प्रस्तुतिः
मध्यते सौ ? तृतीयस्य पञ्चमस्य भुजाभिधात् ।
सूत्रमन्तस्थितं कृत्वा सम्मुखं सम्प्रसार्य च ॥ १५ ॥

मध्यमापञ्चकं यावल्लाञ्छ्यमानं नयेत्ततः ।
अतो भागे तु कर्णस्य नोर्ध्वे तु कमलासन ॥ १६ ॥

यावन्मध्यचतुर्थस्य लाञ्छनं लयमेति तत् ।
आधाराधारदष्टस्य ? प्रद्योतत् सप्तमस्य च ॥ १७ ॥

सूत्रमन्तर्गतं कृत्वा तन्मानेन प्रसार्य च ।
यावन्मध्याच्चतुर्थं तु तस्मात् 11 सञ्चाल्य मीलयेत् ॥ १८ ॥

ब्रह्माभिधात् 12 पञ्चमस्य सूत्रस्याधान ? 13 चोद्धृतम् ।
कर्णसिद्धिर्भवत्येषां पातसिद्धिमतश्शृणु ॥ १९ ॥

द्वयं पादार्धयेनैव ? ग्रस्तं जानुद्वयं द्वयम् ।
पार्श्वस्य 14 साधनार्थं च विधिं वक्ष्याम्यतः परम् ॥ २० ॥

मध्यसूत्रत्रयं यस्य याम्योदग्दशमस्य च ।
कुर्यात् सन्ध्यंशगं सूत्रं तेने 15 ध्वानं च मस्पृशेत् ॥ २१ ॥

प्रेरयेल्लाञ्छ्यमानं तु मम यत्तन्निबोधतु ।
ध्रुवाभिधाच्चतुर्थस्य स्कन्धाख्याद्दशमस्य च ॥ २२ ॥

अग्रवत् पश्चिमं जानुं तत्सङ्ख्येषु च तन्तुषु ।
एतच्चित्तद्वये सिद्धे क्रोडजान्वेकता 16 भवेत् ॥ २३ ॥

जानोरधस्स्थिते कोष्ठे चरणं तत्र कल्पयेत् ।
संसूत्र्य तच्चतुर्धा वै भक्त्या पूर्वं द्विजोत्तम ॥ २४ ॥

अर्धेषु 17 प * * * * कास्त्राणि तत्र पञ्च तु साधयेत् ।
भागपङ्क्तौ ह्यधस्थायां 18 मध्यभागद्वयेन तु ॥ २५ ॥

अर्धेन्दुं प्रथमं कुर्यादधो वक्त्रं च पौष्कर ।
बाह्यैकादशसूत्रस्य शृङ्गे द्वे तस्य मीलयेत् ॥ २६ ॥

तत्समौ द्वावर्धचन्द्रौ विधिनाऽनेन लाञ्छयेत् ।
ताभ्यां वै लाञ्छ्यमानाभ्यां विशेषोऽयं प्रदर्श्यते ॥ २७ ॥

सूत्रदात् पादकोष्ठात्तु 19 सद्यमध्यबहिर्भवेत् ? ।
पादपार्श्वस्थसूत्राभ्यां मध्ये 20 ताभ्यां द्विजान्तरे ॥ २८ ॥

नस्वद्वयत्र येणैव 21 ग्रस्तमग्नान्न दृश्यते ।
पादादूर्ध्व स्थिते मह्ये ? 22 विलेख्यं नस्वसम्मितम् ॥ २९ ॥

अर्धेन्दुजानुसिद्ध्यर्थं ध्रुवासूत्रं तु पञ्चमे ।
साधनं पादजानुभ्यामुक्तं शृणु मुखस्य च ॥ ३० ॥

षोढा कर्णोर्ध्वगं भागं कृतं सर्वत्र सूत्रयेत् ।
भागपङ्क्त्या च ते ध्वस्ते ह्यर्धचन्द्रद्वयं लिखेत् ॥ ३१ ॥

भागद्वयद्वयस्यान्ते ह्यधो वक्त्रसमं द्विज ।
ताभ्यां भागद्वयं मध्ये चन्द्राभ्यां सम्परित्यजेत् ॥ ३२ ॥

अधस्स्थिते भागपङ्क्त्यामंशाभ्यां तु द्वयेन तु ।
अर्धेन्दुमूर्ध्ववक्त्रं च पूर्ववल्लाञ्छयेत् समम् ॥ ३३ ॥

अर्धेन्दुचिह्नशेषेषु भागेषु मुखमध्यतः ।
दर्शयेत् सुसमां रम्यां सता श्रोणिद्विजाभिधाम् ? ॥ ३४ ॥

वक्त्रमध्यगतेनैव सूत्रेण रसनां 23 लिखेत् ।
दन्तान्तर्वर्तिनीं चैव नातिदीर्घां न वामनाम् ॥ ३५ ॥

वक्त्रादन्तस्स्थभागस्य वर्तिमुल्लिख्य 24 मानतः ।
तद्भागात् तुर्यभागेषु तन्तुना नेत्र सिद्धयेत् ॥ ३६ ॥

लोचनांशस्य यो 25 भागस्समीपे चैव वर्तते ।
श्रवणस्य तु तत् स्थानं यथा सिध्यति तच्छृणु ॥ ३७ ॥

प्। ७४)
विश्वास-प्रस्तुतिः
तुर्यसूत्रस्य वै मध्यान्मध्ये सूत्रं निबोधयेत् ।
सम्मुखं लोचनस्थास्थ ? तद्वदे त्रितयस्य 26 च ॥ ३८ ॥

सूत्रं कृत्वाऽर्धभागेन * * * * * * * * ।
विविधान्विज ? मित्येतच्छ्रोत्रमास्फालनाद्भवेत् ॥ ३९ ॥

बदरीपत्रवत् तूष्णीं विधिनाऽनेन जायते ।
कह्लारं षोडशांशैस्तु मध्येऽस्य परिकल्पयेत् ॥ ४० ॥

कृत्वैवं मार्जयेत् पश्चादङ्गावयववर्जितम् 27 ।
अधस्ताल्लोचनस्याथ त्विषै काले ? तु निर्मिते ॥ ४१ ॥

क्षेत्रान्तं विततं पश्चाद्रागजालेन रञ्जयेत् ।
पाण्डुरक्तेन रागेण सूत्रयुक्तं तु लाञ्छनात् ॥ ४२ ॥

पूरणीया च रेखाभिर्व्यक्तयेऽभ्येति तत् तथा ।
तत्तद्भागकरूपेण रागेणात्युज्ज्वलेन च ॥ ४३ ॥

पूरयेदर्धचन्द्राणामन्तरं परितः क्रमात् ।
सितासितेन सूत्रं तु सुसितेन द्विजालिखेत् ॥ ४४ ॥

सन्ध्याभ्यां तुल्यरागेण जिह्वामास्यं च रञ्जयेत् ।
द्विजान्तराणि रक्तेन रागेण व्यक्तमानयेत् ॥ ४५ ॥

सन्दर्शयेच्चासितेन तस्य नासापुटद्वयम् ।
वैडूर्यतुल्यरागेण कुड्यबाह्यं तु छादयेत् ॥ ४६ ॥

शकि ? नीलोपमेनाथ वीथ्योद्यं ? तु प्रदर्शयेत् ।
सर्वं 28 तुर्याश्रपर्यन्तं प्राग्वत् सम्पूर्य पङ्कजम् ॥ ४७ ॥

एवं सम्पाद्य सम्पूज्य मध्ये तु गरुडासनम् ।
भोगमोक्षप्रसिद्ध्यर्थं विभवेन विपश्चितः ॥ ४८ ॥

इति श्रीपाङ्चरात्रे महोपनिषदि पौष्करसंहितायां
कूर्मबिम्बलक्षणो नाम
षोडशोऽध्यायः ॥ १६ ॥