१५ अध्यायः

अथ पञ्चदशोऽध्यायः

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

वैराजीया विभोश्शकिर्ब्रमतत्त्वेति कीर्त्यते ।
त्रिस्कन्धलक्षणं यागं तस्य वक्ष्यामि तेऽधुना ॥ १ ॥

मूलम्

कृत्वा ब्रह्मपदे सूत्रं चतुरश्रस्य सत्तम ।
क्षेत्रार्धं पश्चिमाद्भागाल्लाञ्छयेदर्धचन्द्रवत् ॥ २ ॥

ततो वै पूर्वदिङ्मध्यं सूत्रं कृत्वाऽत्मयत्नतः ।
नयेत् पश्चिमदिङ्क्मध्ये तेन सूत्रेण लाञ्छयेत् ॥ ३ ॥

समीपाद्यातुदिग् 1 वायोश्चतुरश्रपुरं ह्ययम् ।
सूत्रद्वयमुदग्याम्ये संस्थितं कमलोद्भव ॥ ४ ॥

दिग्यात्वन्ते 2 तु तत् सूत्रं त्रिकोणं व्यजने ततः ।
प्राग्वदुत्पाद्य मध्ये 3 तु * * * * कोणपर ? ॥ ५ ॥

ताभ्यामभ्यन्तरं कुर्यात् तृतीयभ्रमसिद्धये ।
यथा सूत्रत्रयोपेतं स्यात् त्रिकोणचतुष्टयम् ॥ ६ ॥

स्कन्धत्रयक्रमेणैव सोम्ययाम्यं तु पश्चिमे ।
सूत्रपातं ततः कुर्याच्छिन्ने क्रुद्धे ? तु तन्तुना ॥ ७ ॥

स्कन्धाभ्यां सौम्ययाम्याम्यां सौम्यापाभ्यां 4 तथैव च ।
याम्यापाभ्यां 5 तु संस्थाभ्यां सूत्राणां तु तेन तु ॥ ८ ॥

एवमास्फालितैस्सूत्रैरंशकानां शतद्वयम् ।
शतार्धं च शतान्येष जायते त्र्यंशरूपिणाम् ॥ ९ ॥

प्। ७१)

विश्वास-प्रस्तुतिः

शोभान्वितानि द्वाराणि कोणानि त्रीणि पौष्कर ।
भागपङ्क्तिद्वयेनैव वक्ता ? तु भ्रमणीशुभम् ॥ १० ॥

पङ्क्त्या तु साधयेत् पीठं सांशपङ्क्त्या तु पङ्कजम् ।
इत्येतां कल्पनां कृत्वा लोपयेत्तदनन्तरम् ॥ ११ ॥

दशकांशं दशानां तु दिङ्मध्याचारसिद्धये ।
बाह्यपङ्क्तौ तु वै सप्त त्रेधा 6 च * * * * चतुर्दश ॥ १२ ॥

त्रीण्यन्ये योनिरूपाणि लोपयेदंशकानि च ।
सप्तैतानि बहिः पङ्क्तौ लोपनीयान्यतोऽन्तरात् ॥ १३ ॥

कर्णार्थं त्रीणि कोणस्थानि 7 द्वे योन्येकोऽग्नि ? च द्विज ।
एवमाग्नेयपुरवदित्येते चांशकां दश ॥ १४ ॥

संशोध्य द्वारसिद्ध्यर्थं कुर्याच्छोभाद्वयं ततः ।
पश्चात् द्वये तु द्वारस्य त्रिंशत् 8 षट्कोण ? पौष्कर ॥ १५ ॥

योनिवद्बाह्यपङ्क्तौ तु एवं पङ्चदशान्तरात् 9
त्रीण्यग्निपुररूपाणि मार्जयेद् द्वेऽथ योनिवत् ॥ १६ ॥

व्यज्यते शोभनं शोभं ततः कोणं तु शोधयेत् ।
स बाह्याभ्यन्तराभ्यां तु 10 पङ्क्तिभ्यां त्रिंशदंशकम् ॥ १७ ॥

द्वारद्वयं वा कृत्वाऽन्यत् प्राग्वच्छोभोपगं 11 द्विज ।
अंशकानां 12 तु दशकं शेषं कोणं तु शोधयेत् ॥ १८ ॥

वीधीसंसिद्धये चैव पङ्क्त्येका या प्रकल्पिता ।
भागास्तत्रैव पञ्चा म ? लोपयेत् परितो द्विज ॥ १९ ॥

वीथ्यन्तर्गतपङ्क्तौ तु कुर्यात् पीठं सुलक्षणम् ।
पञ्चत्रिकोणानि दिक्षु ? * * * * ब्र त्तत्र मार्जयेत् ॥ २० ॥

हुताशपुरवत् 13 त्रीणि द्वेऽन्त्ययोन्योपमानि 14 च ।
अंशषट्कं तु वै ब्रह्मन् प्रतिकोणं तु मार्जयेत् ॥ २१ ॥

पद्मपीठान्तरे कुर्याच्छिष्टैष्षोडशकोष्ठकैः ।
पृथक् सम्पूजनार्थं तु ह्येतल्लक्षणलक्षितम् ॥ २२ ॥

कुर्याद् द्वारा च शक्तौ तु मण्डलं यन्मयोदितम् ।
स लुप्तश्चतुरश्रं तु युक्तं रेखात्रयेण तु ॥ २३ ॥

नवाध्वरस्य यागस्य यदाऽङ्गत्वेन वै व्रजेत् ।
लुप्तवीथिं तथा कुर्याद्द्वारादिपरिभूषितम् ॥ २४ ॥

मुक्तारेखात्रयेणैव चतुरश्रं पुरान्वितम् ।
त्रिकोणं पूर्ववत् पूर्वं क्षेत्रं कृत्वा द्विसप्तधा ॥ २५ ॥

विभज्य सुसमैर्भागैस्सूत्राण्यस्फाल्य पूर्ववत् ।
अथ मन्त्रविशेषस्स्यादंशकानां तु मार्जयेत् ॥ २६ ॥

शोभान्वितानि द्वाराणि भागैः पूर्वोदितैर्द्विज ।
15 * * * * न्यंशकसव्येन कुर्यात् कोणत्रयं ततः ॥ २७ ॥

पूर्ववत् पीठकोणेषु भागषट्कं तु मर्दयेत् ।
दिक्त्रयादवशेषेण शोधयेदंशकानि 16 च ॥ २८ ॥

पीठान्तर्वर्तिनिश्वासैरवशिष्टैस्तु पङ्कजम् ।
लक्षणाढ्यं समं कुर्यात् कुर्याद्वा पीठवर्जितम् ॥ २९ ॥

अथवा षोडशांशोत्थां पीठवत्युज्झितां 17 लिखेत् ।
यथा तु सङ्कटं न्यस्य पञ्चानां चाथ वक्ष्यते ॥ ३० ॥

द्वाराणि सुसितेनैव पाण्डुरक्तेन चोत्तरम् ।
कृष्णवर्णोन्तः ? 18 दिग्भागं रञ्जनीयं च तेन वा ॥ ३१ ॥

रक्तारुणेन तद्बाह्यमीशादौ वा सितादिना ।
हुतभुङ्मारुतस्सूर्यः पीठकोणत्रये स्थिते ॥ ३२ ॥

प्। ७२)

विश्वास-प्रस्तुतिः

पूर्वमारुतविप्रेन्द्रदिक्त्रयेऽथ श्रुतित्रयम् ।
सौम्ये 19 च दक्षिणे चैव ऋग्यजुस्सामसञ्ज्ञितम् ॥ ३३ ॥

सम्पाद्यैवं तदन्तस्थं ब्रह्मतत्त्वं तु योजयेत् ।
परिवारावृतं ब्रह्मन् भक्त्या भोगैश्च याज्ञिकैः ॥ ३४ ॥

तदर्पितं मनः कृत्वा सुवाचैव परिग्रहम् ।
समाप्नोति शुभान् कामान् मोक्षार्थीं च परं पदम् ॥ ३५ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां

त्रिकोणबिम्बलक्षणो नाम

पञ्चदशोऽध्यायः ॥ १५ ॥

  1. क्, ख्: दिक् साधो ↩︎ ↩︎

  2. ग्, घ्: दिश्यात्वङ्के कृतम् ↩︎ ↩︎

  3. ग्, घ्: मध्येतु त्रिकोणं * * * * वरम् ↩︎ ↩︎

  4. क्, ख्: सोम्यावाभ्याम् ↩︎ ↩︎

  5. क्, ख्: याम्यावाभ्याम् ↩︎ ↩︎

  6. ग्, घ्: त्रेधानि च ↩︎ ↩︎

  7. ग्, घ्: कोणस्थानि (कोणानि ?) ↩︎ ↩︎

  8. क्, ग्, घ्: त्वंशत् षट् ↩︎ ↩︎

  9. ग्, घ्: पञ्चतदन्तरात् ↩︎ ↩︎

  10. क्, ख्: सबाह्याभ्यन्तरं तं तु ↩︎ ↩︎

  11. क्, ख्: प्राग्वत् शोभावकम् ↩︎ ↩︎

  12. क्, ख्: अंशकानां इत्याद्यर्धत्रयं गलितम् ↩︎ ↩︎

  13. क्, ख्: हुताशपुरश्च ↩︎ ↩︎

  14. ग्, घ्: देन्ये योन्योपमानि ↩︎ ↩︎

  15. क्, ख्: श * * * * न्यंश; ग्, घ्: शयशेन्यंश ↩︎ ↩︎

  16. ग्, घ्: शोषयेदंशकानि ↩︎ ↩︎

  17. क्, ख्: पीठवदुज्झिताम् ↩︎ ↩︎

  18. क्, ख्: तूर्णवर्णोन्त ↩︎ ↩︎

  19. ग्, घ्: सौम्याप्यदक्षिण ↩︎ ↩︎