१४ अध्यायः

अथ चतुर्दशोऽध्यायः

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

सुधारसमयारं 1 तु ? तुषारनिचयाकृतिम् ।
हारपञ्जलसारस्य ? बहिस्थश्चारु राजते ॥ १ ॥

मूलम्

तामिदानीं प्रवक्ष्यामि बिम्बार्थेषु च सञ्ज्ञितः ।
अङ्कयित्वाऽष्टधा क्षेत्रं दिग्द्वयाद्दक्षिणोत्तरम् ॥ २ ॥

क्षेत्रं सूत्रद्वयेनैव युक्तानि नवसङ्ख्यया ।
एवं पूर्वापरं सूत्रं क्षेत्रमध्ये तु पातयेत् ॥ ३ ॥

द्वे वाऽन्ये क्षेत्रजे सूत्रे त्रिण्येवं पूर्वपश्चिमे ।
प्राच्यादौ सङ्ख्यमानं यत् पौष्करांशं तृतीयकम् ॥ ४ ॥

संविभज्य चतुर्धा तत् ब्रह्मस्थानावधेस्समम् ।
सुपत्यैरङ्कयेच्चिह्नैस्त्रिभिः 2 कमलसम्भव ॥ ५ ॥

त्यक्त्वा तस्माच्चतुर्थांशं प्राग्दिग्भागद्वयोपमम् ।
सूत्रं कृत्वा तदङ्गस्थमनेन विधिना ततः ॥ ६ ॥

प्रवासा ऋग्यजुत्या च ? 3 यावत् सूत्रं तु सप्तकम् ।
तस्मात्तल्लाञ्छयमानं तु दक्षिणे तु समानयेत् ॥ ७ ॥

यावद्द्वे द्वितयं सूत्रमुदग्दिग्दलाञ्छनं तथा ।
एवं मध्येन्दुवच्चिह्नं प्रथमं परिकल्पयेत् ॥ ८ ॥

प्। ७०)

विश्वास-प्रस्तुतिः

सिद्ध्यर्थमर्धचन्द्राख्यं बिम्बस्यावरमुच्यते ।
अंसाभिधाच्चतुर्थस्य * * * * र्थ * * * * ते * * मस्य च ? ॥ ९ ॥

तं तु कृत्वा नयेत् पश्चाच्छृङ्गं प्राग्वञ्चनस्य च ।
एकं तस्माल्लाञ्छ्यमानं द्वितीयं शृङ्गमानयेत् ॥ १० ॥

कृत्वैवमिन्दुलेखेन त्वर्धेन्दुर्जायतेऽधिकम् ।
सुपूरणीयं रजसा यथा तदधुनोच्यते ॥ ११ ॥

सितपीतेन रागेण समं रेखासु पूरयेत् 4
लाञ्छनद्वितयं चन्द्रं किञ्चित् स्थूलासु मध्यतः ॥ १२ ॥

कृशासु शृङ्गदेशाच्च क्रमाद्गोपुच्छरूपवत् ।
प्रसार्य 5 मध्याच्छुक्लेन तद्गर्भेऽम्बुरुहं लिखेत् ॥ १३ ॥

ब्रह्मस्थानाच्च यत् सूत्रं कृत्वा सं ? सम्प्रसार्य च ।
चन्द्रोदयसमीपं 6 तु यथा चन्द्रं तु संस्पृशेत् ॥ १४ ॥

तद्भ्राम्य पद्मसिद्ध्यर्थं पद्मपत्रायतेक्षणम् ।
यजेच्चन्द्रोदरस्थं च नारायणमनामयम् ॥ १५ ॥

भवबन्धक्षयकरं मोक्षलक्ष्मीप्रदं विभुम् ।

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां

चन्द्रबिम्बलक्षणो नाम

चतुर्दशोऽध्यायः ॥ १४ ॥

  1. ग्, घ्: सुधारसामियाकामा ↩︎ ↩︎

  2. ग्, घ्: सुवक्यैरङ्क ↩︎ ↩︎

  3. ग्: प्रवासा ऋग्यजात्या च; घ्: प्रवासा ऋश्यजात्या च ↩︎ ↩︎

  4. ग्, घ्: पूजयेत् ↩︎ ↩︎

  5. ग्, घ्: प्रसूर्यमर्धात् ↩︎ ↩︎

  6. क्, ख्: चन्द्रोथ * * * समीपम् ↩︎ ↩︎