त्रयोदशोऽध्यायः
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
चण्डानदीधियन् ? बिम्बमनन्तकरभासुरम् ।
सुरासुरेन्द्रनिमितं शृणु तामप ? सोदरम् ॥ १ ॥
मूलम्

पञ्चपद्मप्रसिद्ध्यर्थं क्षेत्रं प्राग्भाजितं यथा ।
संविभज्य तथा ब्रह्मन् सूर्यबिम्बप्रसिद्धये ॥ २ ॥

पङ्कजद्वादशांशेन भागं पद्मबहिस्त्यजेत् ।
द्वे वृत्ते भ्रामयेत् पश्चाद्भागीकृत्वांशपञ्चकम् ॥ ३ ॥

प्। ६९)
विश्वास-प्रस्तुतिः
प्रतप्तकरबिम्बं तद्बहिर्भार्गवपञ्चकम् ।
संस्थाप्य रश्मिसिद्ध्यर्थं भ्राम्य वृत्तं तृतीयकम् ॥ ४ ॥

रश्मिपुञ्जस्य पीठस्य भागमध्ये परित्यजेत् ।
पर्यन्ते सूर्यबिम्बस्य सूत्रं कृत्वाऽथ सत्तम ॥ ५ ॥

प्रसार्य रश्मिपर्यन्तं यावदास्थालकं तु तत् ।
एकांशं दद्यमानं ? तु त्यक्त्वा सूत्रस्य चान्तरे ॥ ६ ॥

सम्प्रसार्य तथा सूत्रं पातयित्वा द्विजापरम् ।
क्रमेणानेन वै दद्याद् रध्यर्थं 1 सूत्रपञ्चकम् ॥ ७ ॥

यं 2 अं सूर्यस्य बिम्बस्य माल्प * * * * रववज्ज ।
ततः प्रसार्य रजसा रविवद्राजते यथा ॥ ८ ॥

रक्तारुणेन रागेण हितैर्मध्यान्तमेव 3 च ।
बिम्बं भाति यथा सम्यक् तेजोगोलकरूपवत् ॥ ९ ॥

पाण्डुरारुणरागेण सूक्ष्मरेखाचयेन च ।
चक्रेण यत्ततं ? 4 कुर्याद्गोपुच्छादिव गोणकम् ॥ १० ॥

रश्मीनामन्तरं सर्वं रश्मिबाह्यात् तथैव च ।
छायेन्द्ररजसा ब्रह्मन् विघनाम्बररूपिणीम् ॥ ११ ॥

प्राग्वत्तदुत्तरे कुर्यात् कमलं शुभलक्षणम् ।
न मध्यै धरया 5 भक्त्या यः पूरयति जह्वगम् ? ॥ १२ ॥

सोऽचिरात् 6 परमं ब्रह्म प्रविशत्यजमव्ययम् ।
यद्गत्वा न निवर्तन्ते भूयोऽस्मिन् भवपङ्जरे ॥ १३ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां
सूर्यबिम्बलक्षणो नाम
त्रयोदशोऽध्यायः ॥ १३ ॥