अथ द्वादशोऽध्यायः
श्रीभगवानुवाच 1
विश्वास-प्रस्तुतिः
कृत्वैवं मध्यतो बिम्बं वृत्ताख्यं कमलासन ।
प्राग्दिङ्मण्डलमध्ये तु पद्मस्रग्बिम्बवल्लिखेत् ॥ १ ॥
मूलम्

अग्निदिङ्मण्डलं चक्रं सूर्यबिम्बं तु दक्षिणे ।
ततोद्य ? चात्र रूपं तु क्षेत्र ? नै-ऋतमण्डले ॥ २ ॥

अथ पश्चिमदिक्कुर्याद्बिम्बं त्रिस्कन्धसञ्ज्ञकम् ।
मण्डले वायुकोणं तु मध्यबिम्बं तु तत्पदे ॥ ३ ॥

परत्वेन च सर्वेषामर्चनं वा करोति यः ।
वत्सरं मासषट्कं तु मासत्रयमथाब्जज ॥ ४ ॥
मूलम्
परत्वेन च सर्वेषामर्चनं वा करोति यः ।
वत्सरं मासषट्कं तु मासत्रयमथाब्जज ॥ ४ ॥
विश्वास-प्रस्तुतिः
मासमेकं तु मासार्धं 2 नवांशदिनसङ्ख्यया ।
प्राग्वत्तस्यापि विहितं क्रमशः परिवर्तनम् ॥ ५ ॥

एतेषामधुना ब्रह्मन् शृणु संसाधनं क्रमात् ।
प्रथमं पञ्चपद्मस्य बिम्बस्य कथयामि ते ॥ ६ ॥

यदुक्तं मण्डलं क्षेत्रं तच्चतुर्विंशधा द्विज ।
विभज्य वृत्तन्यायेन * * * * संस्थावधेः क्रमात् ॥ ७ ॥

पीठसूत्रावधिर्यावन्मध्ये बिन्दुं त्रि ? कल्पयेत् ।
भागैकादशमानेन भागः पद्माद्बहिर्भवेत् ॥ ८ ॥

भ्राम्यवृत्तद्वयेनैव भागमष्टादशं ततः ।
यच्चतुर्विंशतो भागास्सुपीठनिकटे त्यजेत् ॥ ९ ॥

एवं सम्यग्यथा कुर्यात् पङ्कजं पद्मपङ्कजम् ।
यथा तत् कथयिष्यामि समासादब्जसम्भव ॥ १० ॥

यत् प्रवृत्तं द्वयं दत्तं मध्यात् तत् पञ्चधाऽङ्कयेत् ।
पूर्वदिक्संस्थितं कृत्वा चिह्नं तु प्रथमं त्वथ ॥ ११ ॥

तच्चिह्नदेशादारभ्य कुर्यादन्यच्चतुष्टयम् ।
यथागं ? पञ्चगस्यान्ते समं स्याद्भागपञ्चकम् ॥ १२ ॥

तेषु चिह्नेषु संस्थाप्य सूत्रं पञ्चाङ्गसम्मितम् ।
सिद्ध्यर्थं कमलानां तु भ्रामयेत् पूर्ववत् क्रमात् ॥ १३ ॥

एवं स्यात् पञ्चपत्राणां पद्मानां क्षेत्रपञ्चकम् ।
मध्यपद्मं भवेच्छुक्लं पञ्चकं पाण्डुरोज्ज्वलम् ॥ १४ ॥

पीता स्यात् कर्णिका तेषां रक्तरागेण केसराः ।
प्रतिपत्रान्तरे तेषु पद्मेषु केसरत्रयम् ॥ १५ ॥

प्। ६८)
विश्वास-प्रस्तुतिः
पद्मानां साधनार्थ तु यत् प्राग्वृत्तत्रयं 3 द्विज ।
भ्रामितं तस्य मध्यं तु रजसा परिपूरयेत् ॥ १६ ॥

इन्द्रनीलोपमेनैव तन्नालं पद्मसन्ततेः ।
दलान्तराणि सर्वेषां मध्यभागादितः 4 क्रमात् ॥ १७ ॥

नृपाश्मरुचिरागेण क्षेत्रान्तं परिपूरयेत् ।
मध्यवत् सर्वपद्मानां व्योमवृत्तं न कल्पयेत् ॥ १८ ॥

निष्पाद्य मध्यपद्मे तु बिम्बेशं सम्प्रपूजयेत् ।
सर्वारकर्णिकामध्यात्तदेव विधिवद्यजेत् ॥ १९ ॥

पञ्चकं पुरुषाद्यं यत् पूर्वपद्मे प्रपूजितम् ।
क्रमेण पूर्वपद्माभ्यां 5 यावदीशानगोचरम् ॥ २० ॥

प्रादक्षिण्येन सर्वेषां क्षंअं 6 तत्त्वगणं न्यसेत् ।
न्यस्य सम्पूज्य पाद्यार्घ्यपुष्पधूपविलेपनैः ॥ २१ ॥

अनन्तरूपो भगवान् 7 वनमाली तु यस्स्मृतः ।
अभीप्सितैरतः 8 कुर्यादरकैर्बीजचक्रकम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
उत्तमं द्वादशारं तु तच्च 9 ते विदिता पुरा ।
कालक्रमाभिधास्सर्वा 10 सृक्षादौ ? च क्रमं यजेत् ॥ २३ ॥

षटसु चाङ्गेषु विधिवन्नेम्यन्तेषु च सत्तम ।
स्थूलसूक्ष्मविभागेन यथा तत् ते ब्रवीम्यहम् ॥ २४ ॥

प्राणो 11 ह्यक्षस्थितो सिद्धं ? ताभिस्स्यात्तु विनाडिका ।
ब्रह्मन् विद्धि वा व स्वरागता * * * * ॥ २५ ॥

प्रधिषु 12 प्रस्थितो मासो नेमिभागेषु वत्सराः ।
स्थूलमेतत् समाख्यातं सूक्ष्मकालमथ शृणु ॥ २६ ॥

उपोष्टको ? निमेषश्च ततस्त्रुटिलवौ द्विज ।
लक्षणं च तथा काष्ठात् पक्षादोपरिसंस्थिता ? 13 ॥ २७ ॥

एतस्मिन् कालचक्रे तु प्रवर्तकनिवर्तके ।
पद्ममध्ये यजेत् साङ्गं प्रद्युम्नं परिमार्जितम् ॥ २८ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां
पञ्चपद्मचक्रबिम्बलक्षणो नाम
द्वादशोऽध्यायः ॥ १२ ॥