अथ एकादशोऽध्यायः
पौष्कर उवाच
विश्वास-प्रस्तुतिः
वृत्तादीनां च बिम्बानामज्ञातं लक्षणं मया ।
आशम्स त्वं जगन्नाथ यदि सानुग्रहोऽसि मे ॥
मूलम्

श्रीभगवानुवाच
[^1] * * * * * * * * * ।
विश्वास-प्रस्तुतिः
लुप्ते विविक्तयागानामाधारं लक्षणान्वितम् ।
मण्डलानामतो मध्ये बिम्बसङ्घं प्रकल्पते ॥ १ ॥

अधमं क्षेत्रमध्ये तु मण्डलं यत् पुरोदितम् ।
तन्मध्येऽन्यं परित्यज्य षोडशार्धं च भ्रामयेत् ॥ २ ॥

ज्ञानादिगुणषट्कस्य ज्ञापकं रञ्जयेत् क्रमात् ।
सितेनारुणरक्तेन जाम्बूनदनिभेन च ॥ ३ ॥

नृपशैलप्रवालाभ्यां शतं नीलोपमैन तु ।
एतत्पादस्य मुख्यत्वं तुल्ये पीठादिके सति ॥ ४ ॥

तादृग्वा तत्र मध्ये तु कुर्याच्छोभाविवर्जितम् ।
चतुरश्रं चतुर्द्वारं चापादस्य तु वृत्तता ॥ ५ ॥

तद्ब्रह्मदेशमध्ये तु सूत्रं कृत्वा प्रसार्य च ।
सीमन्त पीठवाग्वाभ्यां ? 1 भ्रामयित्वा समन्ततः ॥ ६ ॥

भूयो वै द्वारवेद्यां तु मन्तरा ? सूत्रमानयेत् ।
भ्रामं तु पूर्ववत् कुर्यात् तेन सूत्रेण पौष्कर ॥ ७ ॥

प्रसार्य द्वारपर्यन्तं वृत्तं पूर्ववदाचरेत् ।
वृत्तानामन्तरस्थानां निर्वर्ण्य 2 श्री * * * * माश्रयेत् ॥ ८ ॥

द्वारोपगानि बाह्यं तु कोणानि परिशोभयेत् ।
व्यजने 3 मण्डलं वृत्तं यत् पूर्वं सूचितं मया ॥ ९ ॥

व्यूहमध्यं भवत्येवं यदि व्यूहं विना यजेत् ।
कुर्याद्द्वितीयमेकं तु * * * * कृतं चैव वृत्तये ॥ १० ॥

प्। ६७)
विश्वास-प्रस्तुतिः
द्विसप्तधा कृतं क्षेत्रं जायते मण्डलक्रमत् ।
राज्या ? सितेन रागेण सितपुष्पैस्तु पूजयेत् ॥ ११ ॥

मध्येऽत्र कमलं कुर्यात् सुसितं लक्षणान्वितम् ।
कृत्वैवं वासुदेवाख्यं शक्तित्वं सम्प्रपूज्य च ॥ १२ ॥

[^5] * * * * ।
इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां
वृत्तबिम्बलक्षणो नाम
एकादशोऽध्यायः ॥ ११ ॥