१० अध्यायः

अथ दशमोऽध्यायः

पौष्कर उवाच

विश्वास-प्रस्तुतिः

प्रथमानं 1 जगन्नाथ त्वया प्रोक्तं नवात्मनि ।
ऐहिकामुष्मिकं 2 सिद्ध्यै यष्टव्यं तत् कथं वद ॥ १ ॥

मूलम्

यागः किं लक्षणस्तस्य भेदतस्संस्थितस्य च ।
कानि 3 ते नवपद्मानि * * * * * * * ॥ २ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

यो वै ब्रह्माधिपत्येन चातुर्व्यूहव्यवस्थितः ।
वासुदेवादिभेदेन त्वनिरुद्धावसानतः ॥ ३ ॥

ततो नारायणो मूर्तिर्विराडात्माधि ? पौष्कर ।
स्थितावधिपतिर्विष्णु 4 र्मूर्तायुधधरः 5 * * * * 6 ॥ ४ ॥

प्। ६२)

विश्वास-प्रस्तुतिः

सत्त्वरूपावधाद्देवः ? 7 नृसिंहधरणीधरौ ।
नवप्रकृतयस्त्वेताश्शक्तित्वेन 8 व्यवस्थिताः ॥ ५ ॥

अचिन्त्यस्याप्रमेयस्य व्यापकस्यामलस्य च ।

विश्वास-प्रस्तुतिः

अनुग्रहपराश्चेमं ? मग्नानां च भवोदधौ ।
महापावकवद्यावत् 9 स्फुलिङ्ग निचयो 10 महान् ॥ ७ ॥

स्फुर * * * * 11 दीप्ताभ्यां तस्माद्यच्छक्तयस्तथा ।
अक्षुब्धस्याम्भसो यद्वद्बुद्बुदास्सम्भवन्ति हि ॥ ८ ॥

तव * * * * 12 यस्तस्य शक्तीशस्य महात्मनः ।
शक्तिं व्यञ्जन्ति तासां ते त्वजारूपास्तु शक्तयः ॥ ९ ॥

सर्वास्ता वासुदेवाद्या रूपैर्नानाविधैर्द्विज ।
अतस्स्वाभीष्टसिद्ध्यर्थं सम्पूज्यास्संयतैस्सदा ॥ १० ॥

13 त्वाधारं विना पूजां गृह्णन्ति व्यक्तयस्तदा ।
तस्मादादौ प्रयत्नेन कुर्यादासन कल्पनम् 14 ॥ ११ ॥

आसनं सर्वसामान्यमम्बुजं पीठमध्यगम् ।
नवात्मनि विशेषेण बिम्बौघं पीठसङ्घगम् ॥ १२ ॥

कृत्वा चैव सपद्मं तु तत्रावाह्य 15 यजेत् क्रमात् ।
पद्माधारं तु यद्बिम्बं तानि मे गदतश्शृणु ॥ १३ ॥

व्यक्तौ वा वासुदेवाख्या सर्ववृत्तं प्रकीर्तितम् ।
ज्ञानरूपक गोलत्वात् 16 सर्वदिग्व्यापको यतः ॥ १४ ॥

व्यक्त्या सङ्कर्षणाख्यं तु पुण्डरीकनिभेक्षणा ।
पद्मस्रग्धारिणी 17 सा च नित्यं पद्मासनप्रिया ॥ १५ ॥

भवन्ति वृत्तये सर्वं तदिच्छातः 18 प्रवर्तते ।
पङ्कजात् पङ्कसख्यं च सूक्ष्मं विभवलक्षणम् ॥ १६ ॥

पञ्चपद्मान्विते तात स्रग्वरे कमलोदरे ।
ध्यायेद्दृष्ट्वा 19 ततस्स्तुत्वा ह्यश्नु ? ब्रह्मन् न मोक्षयेत् ॥ १७ ॥

द्योतस्सर्वभवानां वा कालादीनां तु सर्वदा ।
आधारे कालकालाख्ये * * * तदः प्रपूज्यते ॥ १८ ॥

प्रद्युम्नरूप 20 * * * * त्पत्तिर्यतोर्वी द्योतलक्षणा ।
सर्वतश्चानुरुद्धत्वादथाधारे तदात्मके ॥ १९ ॥

गतौ चैव हि सूर्याख्ये बिम्बे तदुपलक्षणे 21
शक्तितत्त्वेऽनिरुद्धाख्ये 22 पूजितस्सम्प्रमोचयेत् ॥ २० ॥

शक्तिर्नारायणाख्या या स्वमूर्तिः परमेश्वरी ।
भूत्वा चाग्रमदे ? भावैस्सर्वमाप्याययेज्जगत् ॥ २१ ॥

अतोत्मयेतु ? चाधारे ह्यर्धेन्दुसदृशे सिते ।
सम्पूजितानि गृह्णानि ? पारे ? धामनि योजयेत् ॥ २२ ॥

ब्रह्मदानक्षमा शक्तिर्वैराजधनुधारिणी ? ।
त्रिस्कन्धे मण्डले पूज्या यतो ज्ञेया त्रयीमयी ॥ २३ ॥

वितते * * * * स्थिते सर्वामुपसङ्गृह्णते तथा ।
कूर्मोऽङ्गानीव भयतो ह्यतस्सम्पूजितः 23 प्रभुः ॥ २४ ॥

प्। ६३)

विश्वास-प्रस्तुतिः

कूर्मादरगते पद्मनियुते * * * * क्रियापरे ।
शक्त्यात्मा भगवान् विष्णुश्शङ्खचक्रगदाधरः ॥ २५ ॥

या च सैहि ? विभोश्शक्ति मूर्तिर्ज्ञानापदेशिनी 24
मयैर्गभीरनिर्घोषशब्दो येन तु लीलया ॥ २६ ॥

सम्यक् प्रणवरूपेण तस्माच्छङ्खोदरे सदा ।
साधर्म्यलक्षणे बिम्बे पूजिता कमलोदरे ॥ २७ ॥

भवत्यहरिकी 25 श्रीघ्रं क्षयत्रं कल्मषस्य च ।
यज्ञाङ्गतेव्ययाशक्ति कुम्भोदरगताम्बुजे 26 ॥ २८ ॥

इष्टा फलप्रदा सम्यग्भवते विधिनाशना ? ।
विस्तारं तेऽथ तत्त्वस्य लक्षयित्वा प्रकल्प्य च ॥ २९ ॥

बहिराग्नेयमाधारमग्नेर्व * * * * स्तथैव च ।
एवं ध्रुवस्वरूपं च स्थिरं कृत्यज तद्विज ? ॥ ३० ॥

ततः प्रविश्य तन्मध्यं क्षमातत्त्वं तपस्थितम् ।
ऊरूकृतां स्ववीर्येण जले निवसतां सती ? ॥ ३१ ॥

निहत्य जलजाद्दोषाद्भूमिसृष्टिं चकार च ।
प्राजापत्येन विधिना ततः करणमाश्रयेत् ॥ ३२ ॥

एतस्मात् कारणाद्ब्रह्मन् पूज्य कुम्भोदराम्बुजे ।
वाराही भगवद्व्यक्तिर्नीलजीमूतसन्निभा ॥ ३३ ॥

एवं स्त ?शक्तयः 27 पूज्या परिवारसमन्विताः ।
नवपीठे महायागे तं च कृत्स्नं वदामि ते ॥ ३४ ॥

येन सन्दृष्टमात्रेण भवबन्धक्षयो भवेत् ।
क्षेत्रं द्विरष्टधा कृत्वा समैर्भागैस्तु पूर्वदिक् ॥ ३५ ॥

एते संविभजेत् पश्चाद्भागं षोढा तु लाञ्छयेत् ।
यथा जायन्ति भागानां सहस्राणि निवारवम् ? ॥ ३६ ॥

शतद्वयं शतामन्ये ? मन्ये षोडश कोष्ठगा 28
एवं सम्पूजयित्वा तु क्षेत्रं स्वं विततं द्विज ॥ ३७ ॥

चतुर्विंशत्यत्रकरं ? यजनार्थं नवात्मनि ।
साधनीयात्ममध्ये तु मण्डलानवकक्रमात् ॥ ३८ ॥

द्वारशोभाश्रियुक्तानि तानि वीर्ये युतानि च ।
मध्ये 29 तत्र च युक्तानि समानि विषमाणि च ॥ ३९ ॥

शतार्धेन षडूनेन त्वंशकानां 30 शतेन तु ।
कल्पयेत् क्षेत्रमध्ये तु मण्डलं प्रथमं द्विज ॥ ४० ॥

चतुर्द्वाराणि पीठाढ्यं 31 बैम्बक्षेत्रविभूषितम् ।
मध्यषट्त्रिंशदंशानि प्रथमं परिमार्जयेत् ॥ ४१ ॥

बिम्बायापि तु सा ज्ञेया पीठपङ्क्त्या तु तद्बहिः ।
तस्मादविगमांशानां 32 मध्यतो दिक्षु लोपयेत् ॥ ४२ ॥

ईशाग्नियातुसामीरकोणेष्वत्र 33 त्रयं त्रयम् ।
द्वाराणि च सकोणभागं ? पद्मपङ्क्तिद्वयेन तु ॥ ४३ ॥

चतुर्दिक्ष्वन्तरा 34 पङ्क्तौ कर्णार्थं कोष्ठकद्वयोः ।
उपकर्णप्रसिद्ध्यर्थं तद्बाह्यं तु चतुष्टयम् ॥ ४४ ॥

शोभं चतुर्थकोणस्थमंशकानां त्रिकद्वयम् ।
कृत्वैवं मण्डलं मध्ये बाह्यतस्तस्य 35 मार्जयेत् ॥ ४५ ॥

वीथ्यर्थं पङ्क्तिषट्कं तु प्रागुदग्याम्यपश्चिमम् 36
अथ क्षेत्रस्य पूर्वात्ममण्डलं 37 मध्यते ? परम् ॥ ४६ ॥

भागैः पूर्वोक्तसङ्ख्यैस्तु मार्जयेत्तद्वदेव हि ।
तस्य शोभान्वितं तत् स्याच्चतुर्दिक्ष्वब्जसम्भव ॥ ४७ ॥

प्। ६४)

विश्वास-प्रस्तुतिः

स्थानं संसाधयन्नेषां 38 शोभानामवधारय ।
द्वारपार्श्वद्वयं कुर्याच्छुभं शोभाद्वयं द्विज ॥ ४८ ॥

तदर्थं बाह्यपङ्क्तौ तु एकांशं त्रिण्यतोऽन्तरात् ।
साम्पकोष्ठकमायातु 39 पर्यस्तद्वद्भवद्भवेत् 40 ॥ ४९ ॥

समीपवर्तिशोभस्य कोणं चापथकः 41 पयेत् ।
उभाभ्यामपि पङ्क्तिभ्यामंशषट्कोणपूर्ववत् ? ॥ ५० ॥

मार्जयेद्वीथिसिद्ध्यर्थं दिक्त्रयात् पूर्वमेव तु ।
पङ्क्तिषट्कं तुकाभानां ? याम्योदक्पूर्वदिक्त्रयम् ॥ ५१ ॥

अनेन विधिना कुर्यादंशां (न्) 42 कुर्याच्च लोपयेत् ।
यथा न हीयते सङ्ख्या नवपीठेति या स्थिता ॥ ५२ ॥

प्रकल्प्य विधिनाऽनेन विधियुक्तानि पौष्कर ।
तल्लङ्घनं स्यादस्त्रस्य तद्द्वारोपगतस्य च ॥ ५३ ॥

अंशपङ्क्तिद्विषट्कोणदिक्षु द्वारचतुष्टयम् ।
कुर्याच्छोभाष्टकं चैव तूपशोभाष्टकं तहा ॥ ५४ ॥

चतुष्टयं च कोणानां रेखाणां त्रितयं बहिः ।
शतमष्टाधिकं चैव द्वारं द्वारात्तु लोपयेत् ॥ ५५ ॥

अशीत्येकाधिकाद्भगात् प्रतिशोभात्तु मार्जयेत् ।
उपशोभप्रसिद्ध्यर्थं तावत्तच्चांशकं स्मृतम् ॥ ५६ ॥

एकैकं मार्जयेत् कोणं क्रमशोनं च तत्त्रयम् ।
प्रागेव कल्पनं कृत्वा ततस्साधनमाचरेत् ॥ ५७ ॥

द्वारस्य वीथिबाह्यात्तु शोध्यः पङ्क्तित्रयाद्विति ? ।
षडंशमंशकानां तु स्याद्यथाऽष्टादशांसकात् 43 ॥ ५८ ॥

जायते द्वारकर्णं तु चतुरश्रायतं समम् ।
कर्णबाह्ये ततो ब्रह्मन्नुपकर्णप्रसिद्धये ॥ ५९ ॥

पङ्क्तित्रयं मार्जनीयं भागद्वादशकान्वितम् ।
यथा षट्त्रिंशदंशानि मार्जितानि भवन्ति हि ॥ ६० ॥

अथोपकर्णबाह्ये तु द्वाराधारं प्रकल्पयेत् ।
उपकर्णोपमं रम्यं तदाऽन्यत् 44 कमलोद्भव ॥ ६१ ॥

भागपङ्क्तित्रयं चैव युक्तमष्टादशांशकैः ।
तर्दनीयं यदा 45 यस्या पञ्चाशच्चतुराधिका ॥ ६२ ॥

लुप्त्वैवं तु भवेद्द्वारं त्रिपुनन्त्वादिशन्त्वतः 46
द्वारपार्श्वोपगं कुर्याच्छोभात्तस्मात्तु लोपयेत् ॥ ६३ ॥

द्वारकर्णसमीपाच्च अंशपञ्चदशान्वितम् 47
पङ्क्तित्रयं तु वै ब्रह्मंश्चत्वारिंशद्यथाक्रमात् ॥ ६४ ॥

पञ्चाधिकाश्च 48 जायन्ते सङ्ख्यामानं तु पौष्कर ।
ततोपकर्णनिकटान्नवभागसमन्वितम् ॥ ६५ ॥

त्रितयं चैव पङ्क्तिभ्यां लोपनीयं प्रयत्नतः ।
जायते सङ्ख्यमानं तु * * * * सप्तविंशत्यंशका ? ॥ ६६ ॥

तद्वाधारसमीपात्तु अंशकत्रयसंयुतम् ।
पङ्क्तित्रयं शोधनीयं यथाऽस्य 49 * * * * ष्टयम् ॥ ६७ ॥

शोभं बाह्याद्यालप्तमुपशोभा * * * * न्तरात् ।
सम्पाद्य चोपशोभं वै कोणशुद्धिं समाचरेत् ॥ ६८ ॥

प्रतिपङ्क्तित्रयाच्चैवमादिमध्यबहिर्मता ।
नवाधिकानि नवतिकोष्ठकानि तु मार्जयेत् ॥ ६९ ॥

यावद्भवन्ति भागानां त्रिभिरूनं शतत्रयम् ।
द्वाराधारं बहिस्तेन भागं पङ्क्तित्रयेण तु ॥ ७० ॥

प्। ६५)

विश्वास-प्रस्तुतिः

प्रतिवारणरेखाणां त्रितयं पञ्चकं तु वा ।
अथवा पट्टिकानां तु सम्पाद्य वै परानना ॥ ७१ ॥

भवन्तमपरद्वारे कुर्यात् क्षेत्रस्य पौष्कर ।
रेखागणं तु तद्बह्यान्मार्जं ? वा पट्टिकात्रयम् ॥ ७२ ॥

विस्तीर्णमस्त्रविविधा यदिवेच्छसि पौष्कर ।
तदर्धं पङ्क्तिनवकं मार्जयित्वाऽधिकल्पयेत् ॥ ७३ ॥

द्वारादीन् पदषट्कोणान् प्रागुक्तेन तु ।
पङ्क्तिद्वयं द्वयेनैव द्वारकर्णादिको ? द्विज ॥ ७४ ॥

सङ्ख्यानामंशकानां तु मण्डलं द्वियवेषु च ।
त्रिपङ्क्तिह्रासाद्बोद्धव्यं स्वयं किं कथये न तु ॥ ७५ ॥

संशोध्य मण्डलानां तु प्राङ्मध्ये बिम्बसन्ततिम् ।
द्विकप्रमाणे रेखासु समासु सुसितानि च ॥ ७६ ॥

कृत्वा चैव परिच्छिन्ने बिम्बबाह्यात् क्रमेण तु ।
रञ्जयेद्विविधानेन 50 क्षेत्रं वै ह्यनलान्वितम् ॥ ७७ ॥

बिम्बैर्विना बता ? बाह्यं पाण्डुरक्तेन चात्र वै ।
राजपाषाण तुल्येन 51 पैठीयं चरणावलम् ? ॥ ७८ ॥

शतधारनिभेनाथ 52 तद्गात्रं कवचं च यत् ।
तुषारारुणभेदेन नृपोपलनिभेन वा ॥ ७९ ॥

मूलम्

शतधारनिभेनाथ 52 तद्गात्रं कवचं च यत् ।
तुषारारुणभेदेन नृपोपलनिभेन वा ॥ ७९ ॥

विश्वास-प्रस्तुतिः

पूरयेद्रागपीतेन पीठकोणचतुष्टयम् ।
समारभ्य तु चैशानाद्यावत् कोणं तु मारुतम् ॥ ८० ॥

यागक्रमेणानेनैव त्वाप्योदक्पूर्वदक्षिणम् 53
दिक्चतुष्कं तु वैरस्वं ? 54 द्वाराणि सुसितेन च ॥ ८१ ॥

रक्तोज्ज्वलेन रागेण पूरयित्वा कजं द्विज ।
अन्तरात् पाण्डुरक्तेन होमद्भोनोपशोभकम् 55 ॥ ८२ ॥

मध्यात्मन्तात ? 56 भेदेन पूरयेत्तदनन्तरम् ।
हेमाभेनाथ वै मध्याद्बाह्यान्मरतकेन तु ॥ ८३ ॥

रक्तोज्ज्वलेन कोणानि केवलेनाथवा 57 द्विज ।
सह वै पाण्डरक्तेन रञ्जनीयानि तेन वा ॥ ८४ ॥

यथा विभागसंस्थेन तन्मे निगदतश्शृणु ।
अंशपङ्क्तित्रयोत्थेन कोणमानस्य 58 मध्यतः ॥ ८५ ॥

पाण्डरोज्ज्वलरागेण पूरणीयं तदन्तरात् ।
रक्तोज्ज्वलेन रजसा रक्तेन च विभूषयेत् ॥ ८६ ॥

रक्तोज्ज्वलेन वा मध्याद्रागेण परिपूरयेत् ।
आद्यन्तात् पाण्डुरक्तेन रजसा कमलेन च ॥ ८७ ॥

कर्णात् कर्णा * * * * पासूत्रा ? दत्वा कोणाद्विमाजयेत् ।
रक्तोज्ज्वलेन भागैकं पाण्डुरक्तेन चापरम् ॥ ८८ ॥

प्राग्वद्वा 59 वैपरीत्येनाप्यर्धमर्धेन रञ्जयेत् ।
रजसा तु यथार्थार्थमसदृश्येन राजते ॥ ८९ ॥

नग्नाश्रिविधिनाऽनेन 60 बाह्यं रेखास्वतादिता ? ।
रेखानां चैव रागस्य स्थानभेदस्थितस्य च ॥ ९० ॥

व्यवधानविधिं कुर्यादन्योन्यरजसा 61 तु वै ।
यागोचितेन 62 कुसुमैः पीठादि परिपूरयेत् ॥ ९१ ॥

त्यक्त्वा परार्धमाभं तु ह्येकैकस्मिंस्तु मण्डले ।
बाह्यतो द्विजरेखार्थी कुङ्कुमाद्यैरनन्तरम् ॥ ९२ ॥

प्। ६६)

मण्डलभ्रमणीं 63 सर्वामुपलिप्य सितादिना ।

[^64] * * * * * * * * * * * * * * * * ।

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां

नवपद्मविधानलक्षणो नाम

दशमोऽध्यायः ॥ १० ॥

  1. ख्: प्रथिमानम्; ग्, घ्: प्रथमान्यं तु ↩︎ ↩︎

  2. ग्, घ्: ऐहिकामुष्मिको सिद्धो ↩︎ ↩︎

  3. क्, ख्: कानि ते नवमत्यानि सान्त्यनीवच सिद्धि ?; ग्, घ्: कानि ते नवमन्वानि सान्यनीवचं शंसिद्ध ? ↩︎ ↩︎

  4. क्, ख्: स्थितावधीवतिः ↩︎ ↩︎

  5. क्, ख्: मूर्तायुध * * * * रः ↩︎ ↩︎

  6. क्, ख्, ग्, घ्: प्रभा ↩︎ ↩︎

  7. ग्, घ्: सत्वारूपावधाद्देवी ↩︎ ↩︎

  8. क्, ख्: नयप्रकृत * * * स्वेता * * * क्ति; ग्, घ्: नयप्रकृततेस्वेन्तात् त क्तित्त्वेन ↩︎ ↩︎

  9. ग्, घ्: यद्यद्वत् ↩︎ ↩︎

  10. क्, ख्: निचयं महत् ↩︎ ↩︎

  11. ग्, घ्: स्फुरत्कर * * * * ↩︎ ↩︎

  12. ग्, घ्: तवास्तिशक्त्य ↩︎ ↩︎

  13. ग्, घ्:नान्यधारं विना ↩︎ ↩︎

  14. ग्, घ्: कल्पनाम् ↩︎ ↩︎

  15. ग्, घ्: तत्र बाह्ये ↩︎ ↩︎

  16. ग्, घ्: गोलत्वं सर्वदीर्घापगो ↩︎ ↩︎

  17. क्, ख्, ग्, घ्: पद्मस्रग्वारिणी ↩︎ ↩︎

  18. क्, ख्: तदिच्छान्ततवर्ततम्; ग्, घ्: तदश्चान्त ↩︎ ↩︎

  19. क्, ख्: ध्यायं ष्वा तस्तुत्या मह्यमश्नु ब्रह्मन् हि मोक्षयेत् ↩︎ ↩︎

  20. क्, ख्, ग्, घ्: प्रद्युम्नरूपग्रत्वक्तिर्विदो विद्योत ↩︎ ↩︎

  21. ग्, घ्: तद्रूपलक्षणे ↩︎ ↩︎

  22. क्, ख्: शक्तितश्चानिरुद्धाख्यं पूजितस्यम् ↩︎ ↩︎

  23. ग्, घ्: स्सम्पूज्यते ↩︎ ↩︎

  24. क्, ख्, ग्, घ्: मूर्तिर्ज्ञानपदाशनं नी ↩︎ ↩︎

  25. ग्, घ्: भवत्य हरि खी ? ↩︎ ↩︎

  26. क्, ख्: कूर्योदरगतं भजे ↩︎ ↩︎

  27. ग्, घ्: एवमस्त्रशक्तयः ↩︎ ↩︎

  28. क्, ख्: गोष्ठका ↩︎ ↩︎

  29. ग्, घ्: ध्येतक्षेत्रयुक्तानि ↩︎ ↩︎

  30. क्, ख्: अंशकेनांशकेन तु ↩︎ ↩︎

  31. क्, ख्: पीठोद्यम् ↩︎ ↩︎

  32. ग्, घ्: तस्माद् द्वि द्विगमांशानाम् ↩︎ ↩︎

  33. क्, ख्: ईशाग्नेय तुसारो ↩︎ ↩︎

  34. क्, ख्: * * * * क्ष्वन्तरा ↩︎ ↩︎

  35. क्, ग्, घ्: बाह्यास्तस्त ↩︎ ↩︎

  36. ग्, घ्: प्रागुदग्यम् ↩︎ ↩︎

  37. ग्, घ्: पूर्वत्र मध्यशो ↩︎ ↩︎

  38. ग्, घ्: संसाधनं नेषाम् ↩︎ ↩︎

  39. ग्, घ्: साम्पकोष्ठक्रमायां तु ↩︎ ↩︎

  40. सर्वत्र समान्यक्षराणि ↩︎ ↩︎

  41. क्, ख्, ग्, घ्: समान्यक्षराणि ↩︎ ↩︎

  42. क्, ख्: कुर्याद्दशाम् ↩︎ ↩︎

  43. क्, ख्: सन्यधा ↩︎ ↩︎

  44. ग्, घ्: तदद्य ↩︎ ↩︎

  45. ग्, घ्: यथाग्रस्य ↩︎ ↩︎

  46. ग्, घ्: त्रपुरन्त्वादृशं ततः ↩︎ ↩︎

  47. क्, ख्: अंशपञ्चदश * * * * * * * * ↩︎ ↩︎

  48. क्, ख्: पञ्चाशत्वाश्च ↩︎ ↩︎

  49. ग्, घ्: यथास्युर्नचकोष्ठयं ? ↩︎ ↩︎

  50. द्विधिना इति स्यात् ↩︎ ↩︎

  51. ग्, घ्: तुल्येन * * * वैधें चारणा ↩︎ ↩︎

  52. ग्, घ्: शतधामनिभेना ↩︎ ↩︎

  53. क्, ख्: त्वा * * * * व्यो * * * पूर्व ↩︎ ↩︎

  54. ग्, घ्: वैरस्थ ? ↩︎ ↩︎

  55. सर्वत्रैकरूपं हेमाभेनोप इति स्यात् ↩︎ ↩︎

  56. ग्: मध्यात्थताताभेदेन; घ्: मध्यात्मताता ↩︎ ↩︎

  57. क्, ख्: केवलानि * * * * ↩︎ ↩︎

  58. ग्, घ्: कोणमानेन ↩︎ ↩︎

  59. क्, ख्: प्राग्वद्वा चैव नित्येना ↩︎ ↩︎

  60. क्, ख्: नग्नाश्री * * * धिना ↩︎ ↩︎

  61. क्, ख्: दन्योन्यारञ्जसा ↩︎ ↩︎

  62. ग्, घ्: यागोत्थितेन ↩︎ ↩︎

  63. क्, ख्: मण्डल इत्यर्धं गलितम् ↩︎