०८ अध्यायः

अथ अष्टमोऽध्यायः

पौष्कर उवाच

विश्वास-प्रस्तुतिः

चक्राब्जे देवदेवेश न श्रुतं लक्षणं मया ।
यत् त्वया पूर्वनिर्दिष्टं तदिदानीं वदस्व मे ॥ १ ॥

मूलम्

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

चक्राब्जं बहुधा ख्यातमेतच्छतसहस्रकम् 1
एकं त्वनेकधा यातं यथा तन्मे निबोधतु ॥ २ ॥

यमोचकाराश्शतशो 2 द्विरात्मादौ तु देवता ।
यातास्सन्ति भविष्यन्ति येषां सङ्ख्या न विद्यते ॥ ३ ॥

मोक्षमार्गाः 3 प्रवर्तन्ते लोकानां हितकाम्यया ।
सन्तारयति भूतानि ते घोराद्भवसागरात् ॥ ४ ॥

भक्तानामाश्रितानां च तथा शुद्धावलम्बिनाम् ।
कुर्वन्त्यनुग्रहं चैव नित्यं सन्मार्गसेविनाम् ॥ ५ ॥

ममांशाश्शक्तिरूपास्ते षाङ्गुण्यविभवान्विताः ।
हितास्तेषु प्रपन्नास्ते पूजयन्ति जयन्ति च ॥ ६ ॥

स्तुवन्नुच्चैर्नमन् ध्यायन् सततं संस्मरन्ति च ।
ते पद्मोदरचक्रेषु पूजिताभिमतप्रदाः ॥ ७ ॥

हेतुनाऽनेन विप्रेन्द्र त्वस्माच्चक्रवरादहम् ।
सर्वाधाराच्च 4 विकारात् ? प्रलीनाराच्च कारणात् ॥ ८ ॥

सहस्ररविसङ्काशात् तद्बिम्बवरवर्तुलात् ।
अष्टवायदचां ? नित्यात् साक्षादवयवोज्झितात् 5 ॥ ९ ॥

द्वारकादीनि चक्राणि स्वेच्छया संसृजामि च ।
यत्रस्थास्सम्प्रपूज्यन्ते भक्तैश्च व्यूहकादयः ? ॥ १० ॥

त्रिद्व्येका नाभिसंसक्तास्तद्वन्नेमिविभूषिताः ।
प्रधिभिश्चावृतास्सर्वे प्रतिभिश्चाक्षशोभिता ॥ ११ ॥

नानारूपाणि च मया क्रमाद्यान्युदितानि च ।
चक्रमद्यं पुरस्कृत्य सर्वेषां साधनं शृणु ॥ १२ ॥

वक्ष्ये नवविधं विप्र भेदं चैवोत्तमादयः ।
रूपभेदं समासेन मानवृद्धिं तथैव च ॥ १३ ॥

सूत्रपातविधिं चैव ततश्चैवांशकल्मनाम् ।
संसाधनमराणां च रजसा पूरणं ततः ॥ १४ ॥

मूलम्

सूत्रपातविधिं चैव ततश्चैवांशकल्मनाम् ।
संसाधनमराणां च रजसा पूरणं ततः ॥ १४ ॥

विश्वास-प्रस्तुतिः

चक्रावयवदैवत्यं तथा निर्वचनं द्विज ।
अक्षादौ नेमि ? विन्यस्य पूजनं देवतास्वपि ॥ १५ ॥

चक्रं पूजाफलं चैव सर्वमेतन्निबोध मे ।
यस्त्वि 6 दं चरणं चक्रं मार्यार ? मभिपूजने ॥ १६ ॥

साम्प्रतं सम्प्रवक्ष्यामि यथा तल्लिख्यते द्विज ।
भद्रादीनां हि सर्वेषां मण्डलानां समासतः ॥ १७ ॥

मध्यभूमौ ततस्सर्वं ससरोजं समुज्ज्वलम् ।
क्षेत्राभ्यां द्वादशांशं तु त्वागापीठोपगं 7 सदा ॥ १८ ॥

भ्रामितं व्योमवृत्तं तद्बहिश्चक्रसरोरुहात् ।
व्योमवृत्तान्तरे तद्वद्द्वितीयं भागमुत्सृजेत् ॥ १९ ॥

ततस्संविभजेच्छेषं पद्मं वै चक्रपङ्कजम् ।
केवलानां च पद्मानामाख्यातं लक्षणं मया ॥ २० ॥

प्रोक्तं संसक्तपत्राणां त्रिदलादौ समासतः ।
तथा संसक्तपत्राणां यथा वै कमलोद्भव ॥ २१ ॥

सचक्राणामथो वच्मि लक्षणं लक्ष्मिवर्धनम् ।
विभज्य पञ्चधा क्षेत्रं यदुक्तं प्राङ्मया तव ॥ २२ ॥

प्। ४५)

विश्वास-प्रस्तुतिः

भ्रामक्रमेण विधिवद्विभागेनाक्षमयम् ।
चक्रभ्रमद्वयेनाथ भागैकं चक्रभूमिका ॥ २३ ॥

एवं च विविधं भङ्क्त्वा भ्राम्य वृत्तं भयं ? ततः ।
सितादि रत्नजेनैव 8 धातुजेनाथवा द्विज ॥ २४ ॥

(पवित्रेणोज्ज्वलेनैव धातुजेनाथवा द्विज) 9
पवित्रेणोज्ज्वलेनैव रजसा पूरयेत्ततः ॥ २५ ॥

अक्षक्षेत्रे लिखेत् पद्मं सम्यगुच्छ्रितकर्णिकम् ।
सुशुद्धं कर्णिकाबीजं स्फटिकामलसन्निभम् ॥ २६ ॥

श्यामं बीजान्तरं कुर्यात् कर्णिकाकनकप्रभम् ।
प्रशान्तपावकाकारं कुर्यात् केसरसन्ततिम् ॥ २७ ॥

पद्मपत्रसमूहं तु सुसितं च सितादिकम् ।
इन्द्रनीलनिभं कुर्यात् पङ्कजेऽस्मिन् दलान्तरे ॥ २८ ॥

सितेन चक्रवृत्तेन सर्वाणि परिरञ्जयेत् ।
अयस्कान्तसमानेन राजोपलनिभेन 10 वा ॥ २९ ॥

रजसा पूरयेच्चक्रं समन्तात् सुशुभेन च ।
दर्पणोदरवद्विप्र तीक्ष्णाग्रं भ्राजयेत्तथा ॥ ३० ॥

रञ्जयेच्चक्रभूमिं च रविरश्मिचयोपमम् ।
रोचनाभेन रजसा पद्मरागनिभेन च ॥ ३१ ॥

मूलम्

रञ्जयेच्चक्रभूमिं च रविरश्मिचयोपमम् ।
रोचनाभेन रजसा पद्मरागनिभेन च ॥ ३१ ॥

विश्वास-प्रस्तुतिः

पीनपिष्टोपमेनाथ 11 हुतभुक्सदृशेन वा ।
पूरयित्वा तु पीतेन रश्मिपुञ्जं समालिखेत् ॥ ३२ ॥

चक्रभूमौ तु विप्रेन्द्र या पूर्वं परिकल्पयेत् ।
ज्ञात्वा तु मण्डलं चैव पूर्ववत् परिरञ्जयेत् ॥ ३३ ॥

इति ते वर्तुलश्शुभ्र चक्रधाम 12 मम प्रियात् ।
पद्मगर्भाभिधानं च विधिवत् कथितं मया ॥ ३४ ॥

वासुदेवाभिधानेनमद्रूपश्शब्दविग्रहः 13
अस्मिन् मध्येऽष्टपत्राब्जे पूज्ये चैकोपरोपरि ? ॥ ३५ ॥

भक्त्या जनत्रिधामो ? वा त्रिधामोपरि सत्त्वभाक् ।
पूर्ववच्चाङ्गषट्कं तु न्यसेत् पद्मदलान्तरे ॥ ३६ ॥

ममापरं च यद्रूपं पौरुषं हि यदब्जज ।
तं चक्रोपरि सम्पूज्य स्वनाम्ना प्रणवादिना ॥ ३७ ॥

नमस्कारान्तयुक्तेन कर्मणा मनसा गिरा ।
पूजनं परिवारं च विज्ञातव्यं हि पूर्ववत् ॥ ३८ ॥

पद्मयागप्रणीतं च कर्माधारादिपूजनम् 14
इति तं पूर्वचक्राब्जं यथावत् समुदाहृतम् ॥ ३९ ॥

ब्रह्मेन्द्ररुद्रदेवानामस्य रश्मिचयश्च यः ।
आपा 15 * * * * वै सुदूराच्च निरीक्षणात् ॥ ४० ॥

तेन चक्रं तु विख्यातं नाम्ना दुर्दर्शनं द्विज ।
प्रणतानां च भक्तानां यस्माच्च सुलभं सदा ॥ ४१ ॥

ददाति दर्शनं तेषां स्मृतं तस्मात् सुदर्शनम् ।
आसप्तमात्तु पातालात् सत्यान्तं यावदेव हि ॥ ४२ ॥

धारयत्येष वीर्यात्मा सृष्टिसंहारकृत् 16 सदा ।
संसारश्च भ्रमत्यस्मिन् 17 सदेवासुरमानुषैः ॥ ४३ ॥

भ्रामयत्यपि सर्वेषां नित्यं ह्यविदितात्मनाम् ।
संसारचक्रं तेनेदं वदन्ति विबुधादयः ॥ ४४ ॥

कालेन संहरत्येषां मयोद्दिष्टेन तेजसा ।
सर्वं कल्पावसाने वै भूतसङ्घं द्विजोत्तम ॥ ४५ ॥

क्रमाच्चक्राब्जधारां 18 वै कलाचक्रं चतशृति ? 19
इत्येतत् कारणं चक्रमव्याकृतमनुस्मृतम् ॥ ४६ ॥

प्। ४६)

विश्वास-प्रस्तुतिः

सविकाराणि कार्याणि द्वारकादीन्यतश्शृणु ।
चक्रस्यानेकरूपाणि नानासिद्धिप्रदानि च ॥ ४७ ॥

इदं क्वचित्क्रमं चक्रं वायातं ? 20 बहुधा द्विज ।
अस्य 21 भेदस्तु प्रथमो द्व्यरकस्समुदाहृतः ॥ ४८ ॥

तथैव त्र्यरकस्त्वन्यो भेदः पश्चात् सुकीर्तितः ।
अन्यं द्विद्विगुणाकारं पञ्चारं षडरं तथा ॥ ४९ ॥

सप्तारमथवाऽष्टारं नवारं च दशारकम् ।
अस्य चक्रद्वयस्यान्तर्यानि चक्राणि सन्ति वै ॥ ५० ॥

तानि चक्राणि पूज्यन्ते त्रैलोक्ये विबुधादिभिः ।
चक्रत्रयं च सामान्यं ज्येष्ठमध्यकनिष्ठकम् ॥ ५१ ॥

त्रिधागतमथैकैकं यथा 22 मे तन्निबोधतु ।
भेदेन चक्रसङ्ङ्घं च प्रवदामि पृथक् पृथक् ॥ ५२ ॥

प्रथमं चोत्तमं विद्धि चक्रं चक्रगणस्य च ।
अन्यच्चोत्तममध्याख्यं चक्रं च समुदाहृतम् ॥ ५३ ॥

तथोत्तमकनीयं च तृतीयं परिकीर्तितम् ।
मध्यमोत्तमचक्रं 23 तु तथा मध्यममध्यमम् ॥ ५४ ॥

तथा 24 मध्यकनीयो हि मध्यमत्रितयं त्विदम् ।
तृतीयस्य त्रिकं 25 सम्यक् कनीयञ्च करास्मृतम् ॥ ५५ ॥

कनीयो ? मध्यमं ज्ञेयं कनीयस्यकनीयसा ।
एकैकस्य 26 च वक्ष्यामि ज्ञापकं शुभलक्षणम् ॥ ५६ ॥

त्रिनाभि चोत्तमं चक्रं त्रिनेमि द्विजसत्तभ ।
त्रिनाभिचक्रं द्विर्नेमि द्वितीयं तृतियं शृणु ॥ ५७ ॥

ज्ञेयं त्रिनाभ्येकनेमिं तृतीयं प्रथमं स्मृतम् ।
द्विनाभिचक्रं कथितं युक्तं नेमित्रयेण च ॥ ५८ ॥

त्रिचक्रस्य द्वितीयं 27 स्यादित्युक्तं द्वितयं शृणु ।
द्विनाभिसंयुतं तच्च नेमी च परिकीर्तितम् ॥ ५९ ॥

अतो द्विनाभ्येकनेमि 28 द्वितीयं त्रितयाञ्चितम् 29
तृतीयं च प्रवक्ष्यामि चक्रेण त्रितयं च यत् ॥ ६० ॥

आद्यं स्मृतं चैकनाभि वृत्तनेमित्रयेण 30 तु ।
ज्ञेयं द्विनेम्येकनाभिरूपं हि द्वितयस्य च ॥ ६१ ॥

स्यादेकनाभ्येकनेमि तृतीयस्य तृतीयकम् ।
इति तच्चक्रनवकं व्यापकं कथितं मया ॥ ६२ ॥

विभवेच्छानुरूपेण 31 प्रमाणं परिकल्पयेत् ।
स्याद्विप्र षडरं यावद्दिव्यं चक्रं 32 सुलक्षणम् ॥ ६३ ॥

त्रितयं 33 त्रितयं विद्धि अङ्गुल्यनामतो नयेत् ।
द्वादशारं भवेद्यावन्मासाख्यं चक्रमुज्ज्वलम् ॥ ६४ ॥

अतोऽर्धद्वितयं विद्धि अङ्गुलानां नयेत् क्रमात् ।
षट्त्रिंशसङ्ख्यया यावत् सङ्ख्या भवति चक्रराट् ॥ ६५ ॥

संवत्सराख्यचक्रस्य 34 इत्येषाऽङ्गुलिकल्पना ।
भक्तानां च 35 विभक्तानां सममानं प्रकल्पयेत् ॥ ६६ ॥

एकहस्तात् समारभ्य षडंशं वर्धयेत् क्रमात् ।
सहस्रारविधिं यावदित्येषामंशकल्पना ॥ ६७ ॥

प्। ४७)

विश्वास-प्रस्तुतिः

प्रोक्ता युगाख्यकल्पस्य सिद्धेस्सम्पूजितस्य च ।
समाङ्गुलोत्थितानां वै चक्राब्जानां तु सर्वदा ॥ ६८ ॥

पीठादिकल्पना कार्या बहिर्द्वारावसानिका ।
सपादगात्रगार्थ ? ञ्च विंशं वा परिकल्पयेत् ॥ ६९ ॥

तुर्याग्रं पञ्चरेखं च पादगात्रकवर्जितम् ।
पुरं प्रकल्पयेद् यत्नात् पञ्चरङ्गोज्ज्वलं समम् ॥ ७० ॥

प्राक् प्रसिद्धेस्तु दिक्सूत्रैः पूर्वयाम्याप्यसौम्यगैः ।
संसाध्य कण्ठनिचयं सूत्रैश्चैव बहिस्स्थिरैः ॥ ७१ ॥

चक्रक्षेत्रार्द्धतो यावत् प्रमाणेन प्रकल्पयेत् ।
प्रतिवारणरेखानां क्षेत्रपीठस्य तत्समम् ॥ ७२ ॥

वीध्यर्थं 36 द्विगुणं तस्माद्द्वाराणां वीधिसम्मितम् ।
षष्ठेन वाऽष्टमांशेन तत्र त्वेतानि कल्पयेत् ॥ ७३ ॥

यूनया 37 विप्रसामान्या युवत्या सविशेषया ? ।
पीठभागं तथा सम्यक् कृत्वा सूत्राष्टकं क्षिपेत् ॥ ७४ ॥

दिक्षु मध्यस्थितैर्भागैर्गात्राण्यङ्घ्रीन् 38 विदिक्स्थितैः ।
द्वारवैपुल्यमानं तु द्विधाकृत्य त्रिधाय तत् ? ॥ ७५ ॥

समानेन 39 विभागेन चतुरश्रङ्ग ? सिद्धयेत् ।
विभज्य सूत्रयेत् पश्चाद्द्वारशोभाश्रिसाधने ॥ ७६ ॥

इच्छयाऽलोकयेद्बाह्य ? यथाशोभानुरूपतः ।
सद्वाराणि सकोणानि सशोभान्यथतो ? रिव ॥ ७७ ॥

उपशोभसमानानि सोपचारं त्रिपूर्ववत् ? ।
न ह्यप्राप्तिरसङ्ख्यानामंशानां मार्जनाश्रिषु ॥ ७८ ॥

कण्ठदेश्शो * * * * * * * * क पदादिना ।
क्रमेण सन्तु विप्रेन्द्र पुरुषाणां * * * * ॥ ७९ ॥

यागमेकं तु सूत्राणां तुर्याश्रीकृत्य बाह्यतः ॥ ८० ॥

विश्वास-प्रस्तुतिः

रुचिमण्डलकह्लारक्षेत्रवत् तस्य कल्पनम् ।
कृत्वाऽथ सर्वदिक् तस्य तत्समैर्वभजैः ? पदैः ॥ ८१ ॥

वीतभागप्रमाणेन * * * * * * * * ।
तस्यैवाब्जकल्पा वै मण्डलस्य तु विस्तरः ॥ ८२ ॥

चतुरश्रं पुरा ब्रह्मंस्त्वेकसूत्रं बहिः क्षिपेत् ॥ ८३ ॥

विश्वास-प्रस्तुतिः

सूत्रेण चापभेदेन पादयित्वाऽङ्क्य पूर्ववत् ।
नानाविधेन रूपेण पीठादीन् परिलोपयेत् ? ॥ ८४ ॥

व्योमवृत्तसमं 40 भागं नेमिवृत्तात् त्यजेत् पुनः ।
एवं हि व्योमवृत्तादौ भक्त ? भ्राम्य प्रमाणतः ॥ ८५ ॥

यदा यच्च लिखेच्चक्रं * * * * याव * * * * ररकैर्युतम् ।
नद्यादौ पूर्वदिग्भागे * * * * * * * * ॥ ८६ ॥

एवं चक्रारबिन्दानां प्रमाणं कथितं मया ।
सुसाधनमथो वक्ष्ये साधकानां हिताय वै ॥ ८७ ॥

चक्रक्षेत्रात् षडंशेन नेमिक्षेत्रं प्रकल्पयेत् ।

प्। ४८)

विश्वास-प्रस्तुतिः

नद्यादौ पूर्वदिग्भागे ससाध्ये मरकद्विज ? ।
क्षेत्रद्वारसमं भङ्क्त्वा व्यक्तं चैवाङ्कयेत्ततः ॥ ८९ ॥

भाजितानाभरांशानां कुर्यात्तु दलनां पुरः ।
दले कृतेऽथ सर्वेषां मध्यसूत्रं तु पातयेत् ॥ ९० ॥

पतितैर्विभजेत् पश्चाद्दलैकैकं 41 द्विरष्टधा ।
स्पष्टसूत्रक्रमेणैव सूत्रमास्फालयेत्ततः ॥ ९१ ॥

सम्भज्य 42 भागमेकैकमराणां पार्श्वयोर्द्वयोः ।
सिद्धिं कुर्यात् तथाऽराणामंशषट्केण सर्वदा ॥ ९२ ॥

इत्येषाऽध्वरगादीनां चक्राणां भागकल्पना ।
आख्याता द्विजशार्दूल त्वराणां साधनं शृणु ॥ ९३ ॥

अराख्यमध्यस्तत्राभ्यामराख्याभं तथैव च ।
शृङ्गमानान्तरसमं कृत्वा सूत्रं तु तेन वै ॥ ९४ ॥

भ्रामयेत् पूर्णचन्द्रौ द्वौ भावयोरुभयोरपि ।
तस्यातिशायकौ 43 यस्य पूर्णा यैः परिधावतः ॥ ९५ ॥

सिद्धिस्थानाद्भ्रमं कुर्यात् सूत्रे ब्रह्मपदे स्थिते ।
प्रागाद्याद्युपसङ्ख्यैर्वा क्षेत्रं सूत्रैर्विभज्य च ॥ ९६ ॥

द्वाभ्यां द्वाभ्यां ततः कुर्यात् सप्तधा सप्तधाऽन्तरम् ।
षट्कं षट्कमथो बाह्या ? सूत्राणां प्रत्यरांशके ॥ ९७ ॥

मध्यसूत्रैररासिद्धि ? प्राक्छदं चारमानतः ।
द्वाभ्यामराभ्यामेकांशमन्तरेवं विशिष्यते ॥ ९८ ॥

अनेन विधिना विप्र क्रियमाणेन सर्वदा ।
इदं त्वराणां सन्धानं चक्राणां कथितं मया ॥ ९९ ॥

वरसीकी ? च सञ्ज्ञानं केवलानां समासतः ।
कर्तरीयन्तरीयाणा * * * * ञ्च ? लक्षणं प्रवदाम्यहम् ॥ १०० ॥

यदष्टधा कृतं पूर्वं मराङ्गस्तु ? द्विषट्कधा ।
विभज्य भागषट्केन पूर्वकं द्वारकं स्मृतम् ॥ १०१ ॥

स्थापितेष्वरकेष्वेवं कुर्यात् कर्तरि सञ्चयम् 44
उभाभ्यामप्यराभ्यां च शिष्टं यत्त्रितयद्वयम् ॥ १०२ ॥

अंशकानां च पार्श्वे तु संसाध्या तेन कर्तरी ।
प्रदक्षिणाग्रहा 45 चोरा परशोरद्वरूपिणी ? ॥ १०३ ॥

प्रोद्धृत्य चोत्तरे भागे प्रागाकारस्य दिग्वशात् ।
परिषात्व ? 46 नयत्येषामरकाणां तु साधयेत् ॥ १०४ ॥

प्रदक्षिणक्रमेणैव कर्तरीणां च साधनम् ।
तत्साधनार्थं सूत्राणां सङ्ख्यातं वागमस्मृतम् ॥ १०५ ॥

पूर्वापरं मध्यपूर्व * * * * वृत्तस्य सङ्गमे ।
निधायान्यन्नयेत् सूत्रमध्याद्वै * * * * नमस्य च ॥ १०६ ॥

अरमूलाद्वितीयस्य त्रयाभ्यामस्य सङ्गमम् ।
मध्यमं लाञ्छ्यमानं तु तदराग्रमथानयेत् ॥ १०७ ॥

अरमध्यात्तृतीयस्य पूर्णचन्द्रसुसङ्गमे ।
संस्थाप्याथानयेत् सूत्रं स्थानं यत्तन्निबोधतु ॥ १०८ ॥

अराग्रपरिलेख्यस्य चतुर्थस्यारमध्यगात् ।
षट्सङ्गमं द्विजश्रेष्ठ तस्मात् स्थानं तु मत्स्यवत् ॥ १०९ ॥

लाञ्छयेन्मूलपर्यन्तं व्यज्यते कर्तरी स्फुटा ।
सामान्यलक्षणं ह्येतद्विशेषमधुनोच्यते ॥ ११० ॥

अरसङ्कोचविस्तारवशात् कमलसम्भव ।
साधनं कर्तरीणां च न्यूनमप्यहिवारयत् ? ॥ १११ ॥

मूलादन्यत्तथाऽराग्रे वृत्ताभ्यां मानमन्तरात् ।
गृहीत्वा सूत्रमानं तु तस्मिन्धा ? 47 * * * * पौष्कर ॥ ११२ ॥

सूत्तरादर * * * * त्रिस्थम् पुनरेव हि ।
संस्पृशेत् 48 सङ्गमं यद्वै त्वरातुर्येऽन्तरभ्रमे ॥ ११३ ॥

प्। ४९)

विश्वास-प्रस्तुतिः

प्रेर्यमाणं तदवधे ? पूर्वचिह्नस्य मीलयेत् ।
यथा स्यात् कर्तरीणां तु स्फुटमूलमरास्समम् ॥ ११४ ॥

कर्तर्यन्तरितानां च ? मित्युक्तं साधनं मया ।
परिद्वितीयसञ्ज्ञानमन्येषां वक्ष्यतेऽधुना ॥ ११५ ॥

सार्धेष्वरेषु विप्रेन्द्र त्वरमूले भ्रमान्तरे ।
नेमिक्षेत्राच्चतुर्थांशमाद्यात् 49 तं भ्रामयेत् समम् ॥ ११६ ॥

विज्ञातव्यं तु तच्चक्रमरकायस्य साधिका ।
नेमिक्षेत्राच्चतुर्थांशं भिन्नं तु परिकल्पयेत् ॥ ११७ ॥

नाभिक्षेत्रं द्विजश्रेष्ठ भजेच्चक्रवशात्तु ते ।
क्षेत्रे तु नाभिनेम्याख्ये वृत्ते स्त्री द्वैतकं क्रमात् ॥ ११८ ॥

नाभिक्षेत्राद्यतं ? स्थूलं क्षेत्राख्यं क्षेत्रमुच्यते ।
पराख्याऽस्या स्वरागस्य तस्यैषा क्षेत्रकल्पना ॥ ११९ ॥

कार्या वै व्योमवृत्तादौ यावदक्षावसानिका ।
अक्षादौ कल्पना कार्या व्योमवृत्तावसानिका ॥ १२० ॥

मातुलुङ्गाकृतिर्यस्मिन् पद्मपत्रायता समा ।
इन्दीवरदलाकारा वल्लिका जठरास्तथा ॥ १२१ ॥

यवोदरे त्रिसञ्ज्ञाश्च त्वेतेषां साधनं शृणु ।
कृत्वा द्वादशधा क्षेत्रं भ्रमाख्येन क्रमेण तु ॥ १२२ ॥

मध्ये भागत्रयेणाक्षं नाभिं भागद्वयेन तु ।
नाभ्यरक्षेत्रयोर्मध्ये भगैकं चक्रसञ्ज्ञितम् ॥ १२३ ॥

भागद्वयं त्वरक्षेत्रनेमिं भागद्वयेन वै ।
नेम्यरक्षेत्रयोर्मध्य एकांशं सम्परित्यजेत् ॥ १२४ ॥

अरक्षेत्रं द्विधा कृत्वा भ्रामयेत् तदनन्तरम् ।
अराख्यमध्यसूत्रस्य नावृत्तस्य च सङ्गमे ॥ १२५ ॥

अरात् त्रिभागजं सूत्रं स्थापयित्वाऽथ लाञ्छयेत् ।
पार्श्वे द्वे मध्यसूत्रस्य मध्यसूत्रात्तु वै ततः ॥ १२६ ॥

एतस्मिन् लाञ्छने सूत्रे स्थापयित्वाऽपरं तथा ।
मत्स्यवल्लाञ्छनं कुर्यादरमूर्ध्ना तु तेन वै ॥ १२७ ॥

अराग्रात् परिधीन् यावद्द्वितीया तावदेव हि ।
बीजपूरोपमाराणां सन्धानं कथितं त्विदम् ॥ १२८ ॥

अराख्यमध्यसूत्रस्य 50 त्वरमूलस्य च तत् ? ।
सन्धौ द्व्यंशकजं सूत्रं लाञ्छयित्वा नरोध्य च ? ॥ १२९ ॥

अर्धचन्द्राकृतिसमं यावन्मूलभ्रमं स्पृशेत् ।
मूलमग्रं शशिशृङ्ग 51 * * * * सूत्रं निधाय च ॥ १३० ॥

तथाऽराग्रमथास्फाल्यं पद्मपत्रायते द्विज ।
लक्षणं च समाख्यातमुद्दिष्टं यत् पुरा मया ॥ १३१ ॥

इन्दीवरदलाग्राणामराणां साधनं शृणु ।
आरान्मूलभ्रमाद्विप्र द्वितीयस्य भ्रमस्य च ॥ १३२ ॥

तन्तावरोदरी यस्या सूत्रं कृत्वा तु सन्धिगम् ।

विश्वास-प्रस्तुतिः

पार्श्वाभ्यां मध्यसूत्राणि कृत्वा मध्यभ्रमे द्विज ।
तच्चिह्नरोदितं सूत्रं कृत्वाऽराग्रमथानयेत् ॥ १३४ ॥

लाञ्छयेन्मध्यवत्तस्माद्यावन्मूलमराख्यकम् ।
कृते परे लाञ्छने स्यान्नीलनीरजपत्रवत् ॥ १३५ ॥

त्रिभागभाजितं क्षेत्रं कृत्वाऽदौ भ्रामयेत् समम् ।
ततोऽङ्कयेदरैकैकं स्पष्टसूत्रक्रमेण तु ॥ १३६ ॥

षोढा द्विजेन्द्रयाऽङ्केषु सूत्राणि च निपातयेत् ।
कोष्ठकाष्टदशैकैकमराभागवतो ? नयेत् ॥ १३७ ॥

असो 45 अय चवाश्चो द्वे * * * * 52 कोष्ठकद्वयम् ।
लोपयेद्द्विजशार्दूल तद्वन्मूलात्तु मर्दयेत् ॥ १३८ ॥

द्वे द्वेऽथ मध्यदेशाच्च पार्श्वयोरुभयोरपि ।
एवं लुप्ते त्वराद्बाह्ये लोपयेदप्यरान्तरम् ॥ १३९ ॥

प्। ५०)

विश्वास-प्रस्तुतिः

मूलात् कोष्ठचतुष्कं तु तथा चैवाग्रतस्ततः ।
कोष्ठकद्वितयं मध्याल्लोपयेत् सिद्धये द्विज ॥ १४० ॥

वल्मीकोदरसञ्ज्ञं च न वल्मीकोदरं तथा ।
अरान्तरं यथा लुप्तमग्रमुलाच्च मध्यतः ॥ १४१ ॥

तद्वलुप्तमराबाह्य ? मूलमध्या त्वराग्रतः ।
यवोदरं हि धानाध्यात् ? न यवोदररूण्डृक् ॥ १४२ ॥

भङ्क्त्वा भ्राम्य चतुर्धा वा स्याद् द्वादश यथा * * * * ।
वल्मीकद्वयमध्यानां मध्यभागाच्च पक्षयोः ॥ १४३ ॥

क्रमश्चतुश्चतुर्द्वे द्वे मूलाग्रेभ्यः पुरोदितम् ।

विश्वास-प्रस्तुतिः

षड्विधेन तु भेदेन स्वस्याचाराद्यनेन च ।
ततोऽक्षादौ 53 यदन्तस्थ ? स्पष्टसूत्राणि लोपयेत् ॥ १४५ ॥

शुद्धिं कुर्याद्द्विजातानां षण्णां व्यञ्जन्ति ते यथा ।
प्रतिचक्रं तु चक्राणां नेमिक्षेत्रस्य मध्यगम् ॥ १४६ ॥

दर्शयेद्विविधं चैव यथा तन्मे निबोधतु ।
अरा समं द्विगुणितं तत्क्षेत्रं चाङ्कयेत् समम् ॥ १४७ ॥

अराग्रसम्मुखं चैव 54 तत्पार्श्वे तु यथा तथा ।
निपातयेच्च सूत्राणि * * * * 55 स्थानगतान्यतः ॥ १४८ ॥

एवं 56 द्विजेन्द्र चक्राणां प्रधिनामयनं स्मृतम् ।
उत्तमाङ्गं च पादाङ्गं 57 शरीरं स्नायुभिर्यथा ॥ १४९ ॥

निबद्धं तद्वदेवास्य चक्रस्य प्रथमस्थिता ।
नान्यत्र दर्शनं तासां नेमिक्षेत्रादृते क्वचित् ॥ १५० ॥

चक्रस्य * * * * 58 त्वित्येतत् समुदाहृतम् ।
द्विरनेकेमपारेम ? बाह्यस्थे 59 सम्प्रदर्शयेत् ॥ १५१ ॥

द्वयमभ्यन्तरे त्यक्त्वा त्रिनेमिवलितस्य च ।
तृतीये प्रथमं कार्या पूर्ववत् परिसङ्ख्यया ॥ १५२ ॥

चक्राणां द्व्यरकादीनां विधिनाऽनेन साधनम् ।
कथितं द्विजशार्दूल रासाम ? पूजयेत्ततः ॥ १५३ ॥

यत्नाराख्यानि लम्बानि लाञ्छने स्थापितानि च ।
सर्वाणि चक्रवृत्तानि सितेनापूर्य पूरयेत् ॥ १५४ ॥

सुसमासु च रेखासु खड्गधारोपमासु च ।
पद्मं तु पूर्ववत् कुर्यादसंसक्तदलं सितम् ॥ १५५ ॥

नेम्यरा 60 नाभियुक्तस्य * * * * तदन्तरे ।
कल्पितं कमलं तस्य कृष्णं कुर्याद्दलान्तरम् ॥ १५६ ॥

हेमदूर्वाप्रवालाभं त्रिनाभेः 61 क्रमशो द्विज । ?
दित्यादि हेमश्यामेनाप्यरुणेनैकनाभि च ॥ १५७ ॥

चक्रस्य पूर्वमुद्दिष्टं रञ्जनं कमलासन ।
चक्रवच्चारकान् सर्वान् रजसा सम्प्रपूरयेत् ॥ १५८ ॥

अरान्तरं द्विजश्रेष्ठ चक्रभूमिसमं स्मृतम् ।
पीतकाभेन शुक्लेन त्रिनेम्यपि सितेन च ॥ १५९ ॥

रोचनाभेन रजसा द्विनेमं सुसितेन च ।
सम्पूरयेदेकनेमिं 62 केवलेन 63 सितेन च ॥ १६० ॥

नाभिनेमिशतैकाभैस्समस्तैर्वाऽथ 64 रञ्जयेत् ।
प्रधीनामन्तरं बाह्यं 65 * * * * स्सतः ॥ १६१ ॥

अन्योन्योपगतेनैव विधिना पूरयेत्ततः ।
विभेत्रपत्रतोऽकारैरङ्गदेव * * * * सञ्चयैः ? ॥ १६२ ॥

प्। ५१)

विश्वास-प्रस्तुतिः

सुसिताः प्रधयस्सर्वास्तुषारचयसन्निभाः ।
इतीदं च समाख्यातं रजसा पूरणं मया ॥ १६३ ॥

बीजेष्ववस्थितं सत्त्वं पद्मं धामत्रयेण च ।
वर्णं दद्यान्मयेनैव कर्णिकादौ क्रमाद्युतम् ॥ १६४ ॥

तन्नालसंहिताशेषसिद्धास्तत्कणकेष्विव ।
अक्षादिदैवतं व्योम चाक्षं तु परिकीर्तितम् ॥ १६५ ॥

मध्वज्यसमदैवत्यं चक्राणां 66 हि त्रयं क्रमात् ।
कल्पान्तानिलदैवत्यं 67 चक्रधारासमं क्रमात् ॥ १६६ ॥

कालवैश्वानरं ब्रह्मन् सिद्धचक्रान्तरेषु च ।
क्षमा सरस्वती देवी नियन्त्री देवपूजिता ॥ १६७ ॥

एतास्तु नेमित्रितयं देवता स्वामिमिश्रिता ।
सङ्गृह्य परितस्सर्वं समुद्रागच्छ सागरात् ? ॥ १६८ ॥

चक्रदेशोभयात्तच्च द्विसप्तभुवनस्य च ।
स्थित आप्यायनार्थं तु प्रस्थितानेष्वपाम्पतिम् ॥ १६९ ॥

इत्युक्त्वा देवतास्सर्वाः पूज्य काले प्रपूजयेत् ।
स्थानेष्वेतेषु विधिवत् पुष्पधूपादिकेन वा 68 ॥ १७० ॥

अस * * * त्वात् समं चाक्षं नेम्यरानाभिमध्यगम् ।
यस्मात् त्रयीमयी नाथ ऋग्यजुस्सागसम्भवा ॥ १७१ ॥

सम्प्रविष्टा भिनत्त्याशु दैत्यश्रोत्रावधौ द्विज ।
हृदयान् दैत्यकान्तासु स नादस्सम्प्रविश्य च ॥ १७२ ॥

क्रोडस्थितानां गर्भाणां यावत्यम्श ? यदा तदा ।
नादेन 69 भयदा तस्माद्विभिद्यन्ते सुरारयः ॥ १७३ ॥

हृदयान्तर्गतश्शुद्धो नादश्श्रुतिसमुद्भवः ।
सा हिनस्त्यशुभं तस्मान्नित्यं सन्मार्गसेविनाम् ॥ १७४ ॥

अक्षाद्बाह्यमतो हेतोर्नाभिसञ्ज्ञा प्रगीयते ।
यस्मादतीव राजन्ते कालान्ते 70 चोपबृंहिता ॥ १७५ ॥

अनेकरूपभेदेन रश्मिवच्चक्रमण्डले ।
तेन काया समुद्दिष्टा नाभिनेभ्यन्तरे स्थिता ॥ १७६ ॥

यथा नाडीषु भेदस्थं प्रवहत्यनिलं द्विज ।
नाभ्यारासु 71 स्थिरं तावत्तेजो * * * 72 दुस्सहम् ॥ १७७ ॥

चक्रनाडीषु निर्यानि गिरिस्योदस्विवेदकम् ? ।
प्रकाशप्रभवत्वाच्च यत्र नाच्च ? द्विजोत्तम ॥ १७८ ॥

यत्र यष्टिस्वरूपत्वान्नाडयः प्रथमं स्मृताः ।
प्रथिष्वनेकथा यातं तेजश्चक्रोत्थितं 73 च यत् ॥ १७९ ॥

बहिस्तद्भ्रममाणस्य चक्रस्य चतुरात्मनः ।
वर्तते वृत्तिवृत्त्यादि क्षणं चो परिवेषयेत् ? ॥ १८० ॥

सुसमेयाम्बुधिमल तेजो * * * * 74 * * * * द्विज ।
अष्टकैर्दीप्यमानैश्च निर्धूमैः पावकावृतैः ॥ १८१ ॥

75 * * * * भानि भ्राम्यन्तं 76 गोलकं यथा ।
सितं सति पृथग्याते स्वयं पावकवृत्तवत् ॥ १८२ ॥

चक्रं तथा रूपमिदमरकर्तरिभिस्स्मृतम् 77
तेजोजं यदिदं वृत्तं यत्नवद्भक्तितो द्विज ॥ १८३ ॥

तदा रूपत्रयमिदं कदारूपपदान्वितम् ।
कदा ? तदा दीप्तिर्या चक्रं तेजश्चलात्मिकाम् ॥ १८४ ॥

तस्य तेजोजवृत्तिस्या * * * * मिसञ्ज्ञा विधीयते ।
तस्मान्नेमिद्वितीयाब्दानां जयन्त्यपितरं क्षयम् ? ॥ १८५ ॥

प्। ५२)

विश्वास-प्रस्तुतिः

मिश्रभूतं तु तेजोत्थं 78 * * * * वृत्तनेम्यतस्मृता ? ।
अथेदानीं समासेन मन्त्रन्यासं निबोधतु ॥ १८६ ॥

मया मन्त्रसमूहस्तु यत् पुरा ते प्रकाशितम् ।
षडङ्गं सर्वमूर्तीनां पुमादीनां द्विजोत्तम ॥ १८७ ॥

प्रदक्षिणेन पूर्वादौ * * * * 79 त्वानि सुनिवेश्य च ।
विधाक्रमेण तं * * * * रकादौ शृणुष्व मे ॥ १८८ ॥

पुम्प्रकृत्यात्ममन्त्रेण पूर्वचक्रात् परे स्मृता ।
पौरुषं प्रकृतिं चैव प्रद्युम्नाख्यं तथैव च ॥ १८९ ॥

विन्यस्य चारके चैव चतुरात्मा तथा परे ।
यावदाख्यरकं ? चक्रं सर्वमन्त्रात्मकं 80 क्रमात् ॥ १९० ॥

मूर्तिमन्त्रसहस्रेण कोणोनानेन वै द्विज ॥ १९१ ॥

विश्वास-प्रस्तुतिः

द्विसहस्र मराणां 81 च षडङ्गेन प्रपूरयेत् ।
पूजिते द्वारके चक्रे द्विरात्मा पूजितो भवेत् ॥ १९२ ॥

त्रिरात्मा त्र्यरके चैव चतुरात्मा तथा परे ।
यावदाख्यारकं चक्रं पूर्वमन्त्रादिकं क्रमात् ॥ १९३ ॥

प्रवृत्तिमूर्तिमन्त्रेण तत्सङ्ख्यात्माऽथ कथ्यते ।
द्विरात्माख्येन भेदेन चक्रेषु द्वारकेषु च ॥ १९४ ॥

सवाराणां सहस्रस्य 82 कृत्वा सङ्कल्पमात्मना ।
सहस्रमूर्तौ विप्रेन्द्र भक्त्या पूजां करोति यः ॥ १९५ ॥

एकस्मिन् द्विसहस्रारे चक्रे यः पूजयेत् पुमान् ॥ १९६ ॥

आवार्यावरकेणैव 83 रूपेण परिसंस्थिते ॥ १९७ ॥

सर्वेषां द्विज चक्रस्य मध्येऽष्टदलपङ्कजे ॥ १९८ ॥

विश्वास-प्रस्तुतिः

तथादौ पूर्ववत् पूज्यं षडङ्गपरमाक्षरम् ।
पवित्रारोहणेऽनन्त कलशे 84 त्वाङ्कुरे विधौ ॥ १९९ ॥

विनोत्सवेन हि तथा स्थितस्थापनकर्मणि ।
हेतुसां ? पूजया हेतु ? हेतयो विष्टरादिके ॥ २०० ॥

आधाननिचये स्वामिन् स्थाने 85 * * * संलिखेत् ।
त्रयस्था लोकपालानां भित्तिगावाम्बराश्रका ? ॥ २०१ ॥

निर्दिष्टकल्पना हस्त ? तद्भूमावर्चयेत्ततः ।
मिश्राणामपि चक्राणा मेष 86 एव विधिस्स्मृतः ॥ २०२ ॥

विन्यासं पूजने चैव सर्वेषामब्जसम्भव ।
इति 87 ते देवतान्यासं सङ्क्षेपात्तु प्रकाशितम् ॥ २०३ ॥

स्वदेहं सकलं 88 न्यस्य ध्यात्वाऽदौ हृदयान्तरे ।
स्वाद्यं 89 यः पूजयेच्चक्रं स मोक्षफलभाग्भवेत् ॥ २०४ ॥

सामीप्यं मम चाभ्येति द्वितीयं यः 90 प्रपूजयेत् ।
यस्तृतीयं पूजयति मम सालोक्यमेत्यसौ ॥ २०५ ॥

सत्यलोकेऽप्यसौ पूज्यो यश्चतुर्थं तु पूजयेत् ।
तपोलोकेऽक्षयं 91 कालमास्ते यः 92 पञ्चमं यजेत् ॥ २०६ ॥

यष्षष्ठं पूजयेच्चक्रं ज्ञानलोकं स गच्छति ।
सप्तमं चार्चितं येन स मल्लोकमवाप्नुयात् ॥ २०७ ॥

प्। ५३)

विश्वास-प्रस्तुतिः

स्वर्गे स वासवादीनां पूज्यश्चामरतां 93 व्रजेत् ।
येनाहं नवमे पूज्यश्श्वेतद्वीपं व्रजत्यसौ ॥ २०८ ॥

भक्त्या जन्मसमं कालं दशमं येन वाऽर्चितम् ।
यदासक्तं च नागानां सप्तपातालवासिनाम् ॥ २०९ ॥

पातालसुन्दरीणां च सम्मान्यो द्विजसत्तम ।
एतत्ते सर्वमाख्यातं चक्रपूजाफलं शुभम् ॥ २१० ॥

सम्यक्कारणचक्रादौ ? त्वेकनाभ्येकनेमि च ।
पर्यन्तं पद्मसम्भूत तस्मात् त्वां ? 94 परिपूजयेत् ? ॥ २११ ॥

प्रकाशय स्वभक्तानामास्तिकानां च सर्वदा ।

पौष्कर उवाच

विश्वास-प्रस्तुतिः

इत्युक्तोऽहं पुरा विप्र विष्णुना व्यक्तमूर्तिना ।
यथावत् सर्वकथितं ? भवतां चक्रलक्षणम् ॥ २१३ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां

चक्राब्जलक्षणो नाम

अष्टमोऽध्यायः ॥ ८ ॥

  1. क्, ग्, घ्: ख्यातमेतैश्शत ↩︎ ↩︎

  2. ख्: यामोचकारा * * * * द्विरात्मातो तु ↩︎ ↩︎

  3. क्, ग्, घ्: मार्गात् ↩︎ ↩︎

  4. क्, ग्, घ्: सर्वधाराच्च ↩︎ ↩︎

  5. क्, ग्, घ्: -दववो * * * ता ↩︎ ↩︎

  6. क्: * * * * * * * * * श्चरणम् ↩︎ ↩︎

  7. ख्: पीठोपसङ्गताः ↩︎ ↩︎

  8. क्, ग्, घ्: रक्तजेनैव ↩︎ ↩︎

  9. इदमर्धं सर्वत्राप्यस्ति ↩︎ ↩︎

  10. ख्: निभेन च ↩︎ ↩︎

  11. ख्: पीत चीनेति स्यात् किम् ↩︎ ↩︎

  12. क्, ग्, घ्: चक्रयाच ↩︎ ↩︎

  13. क्, ग्, घ्: मरुचश्शब्द ↩︎ ↩︎

  14. क्, ग्, घ्: कर्मधारादि ↩︎ ↩︎

  15. ग्, घ्: आपभृल्लोहितानां लोपितानाम् ↩︎ ↩︎

  16. क्, ग्, घ्: संहारकस्सदा ↩︎ ↩︎

  17. क्, ग्, घ्: भ्रमं तस्मिन् ↩︎ ↩︎

  18. क्, ग्, घ्: क्रमाकर्कचधारम् ↩︎ ↩︎

  19. ख्: चक्रं च तत् शृतम् ↩︎ ↩︎

  20. ख्: वाधातम् ↩︎ ↩︎

  21. क्, ग्, घ्: अर्घ्यभेदस्तु प्रथमो ह्यरकास्समुदाहृताः ↩︎ ↩︎

  22. क्, ग्, घ्: यथा मेयम् ↩︎ ↩︎

  23. क्, ग्, घ्: चक्रं तु चक्रमध्यं तु यज्ञे चक्रं तथाम्यहम् ↩︎ ↩︎

  24. क्: तथामध्यम * * * तयञ्चितम्; ग्, घ्: तथा मध्यकनीयो हि * * * * कम् ↩︎ ↩︎

  25. क्: त्रिकं सद्यकनीयं च करात् स्मृतम् च क्रराट् स्मृतम् इति स्यात् ↩︎ ↩︎

  26. क्, ग्, घ्: अनेकैकस्य ↩︎ ↩︎

  27. ख्: द्वयस्यादि इत्युक्तम् ↩︎ ↩︎

  28. क्: भ्येकनाभि ↩︎ ↩︎

  29. ख्: त्रितयं त्विदम् ↩︎ ↩︎

  30. ख्: वृत्तनाभि ↩︎ ↩︎

  31. क्, ग्, घ्: विभवैश्चानु ↩︎ ↩︎

  32. क्, ग्, घ्: दिग्विचक्रम् ↩︎ ↩︎

  33. ख्: तृतीयम् ↩︎ ↩︎

  34. क्, ग्, घ्: सेवेत्साराख्य ↩︎ ↩︎

  35. ख्: चाविभक्ता ↩︎ ↩︎

  36. क्, ग्, घ्: विध्यर्थं * * * * * * * * * विधिसम्मितम् ↩︎ ↩︎

  37. ख्: युतय विप्रसामान्य * * * * * * * * सविशेशषतः ↩︎ ↩︎

  38. ग्, घ्: गात्राण्यस्रन्विदिक् ↩︎ ↩︎

  39. ख्: समभागेन चतुरा शृङ्गभागं सुसिद्धयेत् ↩︎ ↩︎

  40. क्, ग्, घ्: नानाविधेन - परिलोपयेत् इत्यनन्तरं एवं चक्रारविन्दानां संसाधनमथो वक्ष्ये चक्रक्षेत्रात् इत्यर्धत्रयं अनन्तरं व्योमवृत्त एवं हि व्योमवृत्तादौ यदा यच्च नद्यादौ इति ग्रन्थानुपूर्वी दृश्यते ।; ख्: कोशानुसारिणि उपरि प्रदर्शिते ग्रन्थशरीरे यदा यच्च इत्यर्धानन्तरं नद्यादौ इत्यादिः पाद एकः लेखकप्रमादपतित इति साधीयसी दृष्टिः। ↩︎ ↩︎

  41. क्, ग्, घ्: पश्चाद्द * * * * * * * * कैर्द्वि; ख्: दरैकैकं द्वि ↩︎ ↩︎

  42. ख्: सन्त्यज्य ↩︎ ↩︎

  43. क्, ख्: तस्याति * * * यकौ यस्य पूर्णा * * * परिधावतः ↩︎ ↩︎

  44. ख्: सम्यमः ↩︎ ↩︎

  45. सर्वत्र एकरूपाण्यक्षराणि ↩︎ ↩︎ ↩︎ ↩︎

  46. ख्: परिपात्य ↩︎ ↩︎

  47. ख्: तस्मिन् धायत ? ↩︎ ↩︎

  48. क्, ग्, घ्: सङ्गस्पर्शात्सङ्गमम् ↩︎ ↩︎

  49. क्, ग्, घ्: -दद्यात्तम् ↩︎ ↩︎

  50. ख्: सूत्रस्य त्वरादस्य च तत्परा ↩︎ ↩︎

  51. ग्, घ्: शृङ्गतद्धौ सूत्रम् ↩︎ ↩︎

  52. क्, ग्, घ्: अभकम्; ख्: अभृतम् ↩︎ ↩︎

  53. क्, ग्, घ्: ततोक्षादभयदन्तस्त ↩︎ ↩︎

  54. ख्: चैतत् ↩︎ ↩︎

  55. क्, ग्, घ्: त्वं स्तनगततान्यतः; ख्: त्वं च स्थान ↩︎ ↩︎

  56. क्, ग्: घ एतद् ↩︎ ↩︎

  57. ख्: पातालम् ↩︎ ↩︎

  58. ग्, घ्: चक्रस्य लैकतेमेलिमेत्वि ↩︎ ↩︎

  59. क्, ग्, घ्: द्वाभ्यस्थे ↩︎ ↩︎

  60. ख्: नेम्यन्ता नाभियुक्तं तु ↩︎ ↩︎

  61. क्, ग्, घ्: त्रिनाभे गमशो रजः ↩︎ ↩︎

  62. क्, ग्, घ्: सपूरयेदेव किन्ते ↩︎ ↩︎

  63. ख्: केवलेना ↩︎ ↩︎

  64. क्, ग्, घ्: नाभिनेम्य * * * समस्तै ↩︎ ↩︎

  65. क्, ग्, घ्: बाह्यं तेभ्यस्ते कुचितस्यतः ↩︎ ↩︎

  66. ख्: चक्रनाभित्रयम् ↩︎ ↩︎

  67. क्, ग्, घ्: कल्पान्ता तिलदैवत्यं चक्रया * * * सारसम् ↩︎ ↩︎

  68. ख्: च ↩︎ ↩︎

  69. क्, ग्, घ्: नादेनाभयदा ? ↩︎ ↩︎

  70. ख्: कालं ते ↩︎ ↩︎

  71. सर्वत्रैकरूपाण्यक्षराणि ↩︎ ↩︎

  72. ख्: ह्यत्रत्य ↩︎ ↩︎

  73. ख्: श्चक्रोज्झितम् ↩︎ ↩︎

  74. ख्: तेजोजोलितम्; ग्, घ्: तेजोजेलिक * * * * ↩︎ ↩︎

  75. ख्: सप्लादवृत्तममभ; ग्, घ्: सप्ललातव्रतं भानि अत्र अलातशब्दयोगः स्यात् ↩︎ ↩︎

  76. क्, ग्, घ्: द्वाद्यन्तम् ↩︎ ↩︎

  77. क्: मिद * * * * रकर्तरिभिः; ख्: कर्तरीति ↩︎ ↩︎

  78. क्, ग्, घ्: तेजो अन्तवृत्त ↩︎ ↩︎

  79. ख्: पूर्वादौ सूत्रा सुनिवेश्य ↩︎ ↩︎

  80. क्, ग्, घ्: पूर्वमन्त्राविकम् ↩︎ ↩︎

  81. क्, ग्, घ्: द्विसहस्रं कराणाम् ↩︎ ↩︎

  82. ख्: सहस्राख्य * * * * मात्मनः ↩︎ ↩︎

  83. क्, ग्, घ्: आचार्य- ↩︎

  84. क्, ग्, घ्: कलशे त्वां गुरौ; ख्: कलशात्यङ्कुरौ ↩︎ ↩︎

  85. ख्: स्थानेर्चास्नाप्य; ग्, घ्: स्थानेर्च्यास्नाच्च ↩︎ ↩︎

  86. क्, ग्, घ्: मेष एव इति स्मृतः ↩︎ ↩︎

  87. ख्: इतीदम् ↩︎ ↩︎

  88. क्, ग्, घ्: सकलं * * * * ध्यात्वा ↩︎ ↩︎

  89. क्, ग्, घ्: स्वरन्य * * * पूजये ↩︎ ↩︎

  90. क्, ग्, घ्: द्वितीयं यमपूज ↩︎ ↩︎

  91. क्, ग्, घ्: * * * लोके ↩︎ ↩︎

  92. क्, ग्, घ्: यः परमम् ↩︎ ↩︎

  93. क्, ग्, घ्: पूज्यो यश्चरमम् ↩︎ ↩︎

  94. क्, ख्, ग्, घ्: सर्वत्राप्येवमेव ↩︎ ↩︎