०७ अध्यायः

अथ सप्तमोऽध्यायः

पौष्कर उवाच

विश्वास-प्रस्तुतिः

भगवन् पुण्डरीकाक्ष ज्ञातलोकव्रत त्वया ।
भविनामभुवं ज्ञात्वा व्यूहभेदस्तु सूत्रितः ॥ १ ॥

मूलम्

तस्याहं श्रोतुमिच्छामि यथावत् परमेश्वर ।
स्वरूपं च प्रमाणं च साधनं 1 न्यासमेव च ॥ २ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

शृणुष्वावहितो ब्रह्मन् कथयामि समाहितः ।
स्वरूपं लभते ब्रह्मन् * * * * 2 निर्वृतिम् ॥ ३ ॥

द्वाराणा 3 * * * * कोणानां पुराणान्तरतो 4 द्विज ।
वर्तुलानां विचित्राणां भुवनानां विशेषतः ॥ ४ ॥

प्। ३७)

विश्वास-प्रस्तुतिः

पीठवीथीयुताद्वा वा तुर्याग्राणां तु मध्यतः ।
प्रागुक्तानां च सर्वेषामेकैकस्मिन् यथेच्छया ॥ ५ ॥

सपद्मपत्रभेदेन त्वेकमूलोत्थितानि च ।
प्रवृत्तपीठवीथ्यग्रद्वारमध्ये चतुर्दलम् ॥ ६ ॥

कमलं तद्बहिस्त्रीणि त्रितलान्यम्बुजानि च ।
चतुर्दशसमानेन यथा या 5 * * * * शृणु ॥ ७ ॥

अस्य चाद्यं चतुर्व्यूहत्रिकोणभुवनान्तरे ।
चतुरश्रेण वाऽब्जानि वृत्तशेषाणि 6 मध्यतः ॥ ८ ॥

प्राग्व्यूहं स्याच्चतुःपद्मं तन्मध्ये तु चतुर्द्दलम् ।
कमलं तद्बहिंस्त्रीणि त्रितलान्यम्बुजानि च ॥ ९ ॥

द्वितीयं पञ्चभिः पद्मैः पञ्चपत्रे हृदन्तरे ।
चतुर्दिक्ष्वथ चत्वारि चतुष्पात्राणि तद्बहिः ॥ १० ॥

षड्भिरब्जैस्तृतीयं तु तन्मध्ये लिख्य षड्दलम् ।
पञ्चभिः पञ्चवक्त्रैस्तु प्रागादापावृतं ? तु यत् ॥ ११ ॥

व्यूहानि त्रीण्यतोर्ध्वं वै सप्त पद्मानि पौष्कर ।
सप्ताष्टनवपत्राणि तेषां मध्येऽम्बुजानि च ॥ १२ ॥

बाह्यस्थानि च षत् सप्त क्रमादष्टदलानि च ।
व्यूहत्रयमथोर्ध्वान्तादष्टकं कमलं भवेत् ॥ १३ ॥

सप्त सप्त कजास्तस्मिं स्तृतीया बाह्यतस्तथा ।
एकैकमन्तरस्थं तु क्षेमपद्मं तु पद्मज ॥ १४ ॥

त्रीण्यथो नव पद्मानि व्यूहानि कमलोद्भव ।
तेषामेकैकशो मध्येष्वष्टदिक्ष्वष्टकं स्थितम् ॥ १५ ॥

पत्रत्रयोदशव्यूहसंसाध्यैकादशाम्बुजम् ।
एकं पूर्वोक्तवत् तस्मिन् दश शेषाणि तद्बहिः ॥ १६ ॥

ततश्च सप्तमव्यूहौदादितश्चाष्टपङ्कजम् ।
सप्तादशदलं यावत् * * * * * * * * * * * * ॥ १७ ॥

आद्यस्याभ्यन्तरे कुर्याद्दशपत्रं सरोरुहम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

तदेकैकं च तद्वृद्ध्या (शेषाणां 7 परिकल्पयेत् ।
सप्तादशदलं यावत् तेषामभ्यन्तरे भवेत् ॥ १९ ॥

भूयस्तदपि 8 * * * * बाह्यस्थानां प्रकल्पयेत् ।
नवपत्रात् 9 समारभ्य) त्वेकवृद्ध्या तु पूर्ववत् ॥ २० ॥

पृथक् पृथक् * * * * 10 तस्य सत्तम ।
बहिस्स्थानि च पद्मानि सुषोडशदलानि च ॥ २१ ॥

इत्येषां व्यूहयागानां सपत्रा पद्मकल्पना ।
कीर्तिता वै समासेन मया ते कमलोद्भव ॥ २२ ॥

दिग्विभागं च पद्मानां प्राग्वत् पत्रोदितं भवेत् ।
प्रमाणमयनं पश्चाद् गर्भस्थकमलादितः ॥ २३ ॥

वीथ्या वै सह बाह्यस्थपङ्कजानां क्रमेण तु ।
एकादशक्षेत्रमाद्यं * * * * व्यूहस्य वर्तुलम् ॥ २४ ॥

तादृग्द्वादशहस्तं स्याद्द्वितीयस्य ततः परम् ।
एकैकं तु करं तावत् क्रमेणानेन कल्पयेत् ॥ २५ ॥

निष्ठां व्यूहस्य वै यावच्चतुर्विंशतिभिः करैः ।
सर्वदिग्वर्तुलम् क्षेत्रं जायते विततं समम् ॥ २६ ॥

आकुलस्य 11 पुरा मानं ब्रह्मन् व्यूहस्य कस्य चित् ।
तन्मानेनार्धसूत्रेण मध्याद्भ्राम्य भ्रमं समम् ॥ २७ ॥

क्षेत्रमानमिति ख्यातमधुना साधनं शृणु ।
प्रागुक्तयुक्तं प्रागादौ भागौ द्वादशभिस्समैः ॥ २८ ॥

मध्यदेशात् समारभ्य तन्तुभिः पक्षसम्मितैः ॥ २९ ॥

प्। ३८)

विश्वास-प्रस्तुतिः

प्रम्पूर्य व्यूहभृन्नाम यत् पुरा वर्तुलीकृतम् ।
ततो ? पद्मपदादादौ भागैर्द्वादशभिस्समैः ॥ ३० ॥

चिह्नयेत् सर्वसूत्राणि यावत् क्षेत्रमवाप्यते ।
ब्रह्मस्थानात् समारभ्य क्षेत्रस्याद्यात्तु तद्गण ? ॥ ३१ ॥

न ह्यंशकानां तु * * * * क्षेत्रान्तात् तावदाचरेत् ।
मध्ये तु पञ्चभिर्भागैरेकैः प्राग्भ्राम्य वर्तुलम् ॥ ३२ ॥

एकांशमथ सन्त्यज्य वीथ्यर्धं चैव तद्बहिः ।
परितो मध्यवृत्तस्य बाह्यवृत्तगणाश्च तम् ॥ ३३ ॥

सूत्राणामुपरि ब्रह्मन् चतुरंशकसम्मितम् ।
भ्रमणीयं च सूत्रेण मध्याद्यक्षे समे स्थितौ ॥ ३४ ॥

भ्रामितानां च वृत्तानां क्षेत्राख्यपरिधेर्द्विज ।
अंशकद्वितयं मध्ये सवितानेव 12 शिष्यते ॥ ३५ ॥

मध्यतो बाह्यसूत्रस्य 13 बहिस्स्थानं च पौष्कर ।
स्वव्या * * * * * * * * * * * * ॥ ३६ ॥

बहिस्स्थानां तु वृत्तानामन्तरालं 14 तु यत् स्मृतम् ।
तच्चानियतमानेन समानं स्यात् परस्परम् ॥ ३७ ॥

अन्तर्गतं हि वृत्तस्य * * * * ।
एकस्मिन् बहुधा व्यूह्य त्वन्तरालेषु चान्तिमम् ॥ ३८ ॥

एवमुल्लिखिते वृत्ते दिग्विदिक्परिसंस्थिते ।
परिमण्डलरूपाणि गा * * * * * * * * ॥ ३९ ॥

स्थूलसूक्ष्मस्वरूपाणि पत्रभेदान्वितानि च ॥ ४० ॥

विश्वास-प्रस्तुतिः

काम * * * * 15 ये * * * * * * * * ब्जानि ततश्शृणु ।
प्राक् चोदितानि सूत्राणि बहिस्सत्ताप्रसिद्धये ॥ ४१ ॥

प्राक् प्रत्यक् सौम्ययाम्यं च समं सूत्रद्वयं तथा ॥ ४२ ॥

विश्वास-प्रस्तुतिः

सूत्राणां द्व्यंशमानेन भ्राम्य मध्यं तु पौष्कर ।
मध्यमस्य * * * * * * * * तत्राब्जं लिख्य पूर्ववत् ॥ ४३ ॥

चतुर्दलानि भेदेन यस्मिन् तर * * * * ।
प्राक् साधयित्वा पीठादिं द्वारान्तर्मण्डलं बहिः ॥ ४४ ॥

संसाध्यं च ततः पद्मा ? नान्यथाऽर्थस्य साधनम् ।
अंशकत्रितयाशेषात् षष्ट्यं (शं साधनस्य मे 16 ) ॥ ४५ ॥

शिष्टं यदन्तरस्थं तदेकीकृत्य विभज्य च ॥ ४६ ॥

चतुर्धा सुसमैर्भागैर्भ्राम्येकांशेन चासमा ? ।

विश्वास-प्रस्तुतिः

एवं क्षेत्रत्रयं भ्राम्य ततः पीठं तु साधयेत् ।
पादगात्रकभेदेन यथा तदवधारय ॥ ४८ ॥

पूर्वयामं * * * * * * * * बीजसंउखम् ।
क्षिप्तसूत्रचतुष्कं प्राग् ब्रह्मस्थानक्रमेण तु ॥ ४९ ॥

ततः पैठीयवृत्ताभ्यां दिक्सूत्रस्य तु मण्डले ।

विश्वास-प्रस्तुतिः

पीठ 17 * * * * पुरुषगात्रेण द्विगुणेन बहिस्स्थितः ।]
सार्धेनान्तर्गतं 18 वृत्तं तन्मात्रेण न पौष्कर ॥ ५१ ॥

भागस्तु 19 चिह्नवृत्ताभ्यां द्वाभ्यां ह्येतत् तथान्तरे ।
सूत्रं कृत्वा तथाऽल्पस्य * * * * देव 20 हि ॥ ५२ ॥

प्। ३९)

विश्वास-प्रस्तुतिः

षोडश वीथिभूभागं ? 21 सूत्राभ्यामन्तरा भजेत् ।
ब्रह्मस्थानं तु सूत्रेण मत्स्यवल्लाञ्छयेत् ततः ॥ ५३ ॥

पातिताभ्यां तु सूत्राभ्यां वृत्ताभ्यां तु समासतः ।
उक्तषड्भागसूत्रेण मध्यभागद्वयस्य च ॥ ५४ ॥

लाञ्छयेदथ चन्द्रौ द्वौ दिक्सूत्रस्य तु सम्मुखौ ॥ ५५ ॥

विश्वास-प्रस्तुतिः

शृणुष्व पीठवृत्ताभ्यां यथैकैकं 22 लयं व्रजेत् ।
एकं वै मत्त्यचिह्नाभ्यां शृङ्गमेति लयं तथा ॥ ५६ ॥

प्रागास्फालितसूत्राभ्यां (चान्द्रीया )23 परिधे ? द्विज ।
मीलनं विधिना येन जायते लाञ्छयेत् तथा ॥ ५७ ॥

आ * * * * मध्यस्थितं मध्यमर्धचन्द्रं तु लाञ्चयेत् ।
विधिना येन तद्वच्मि गोत्र * * * * 24 सिद्धये ॥ ५८ ॥

समीपस्पष्टसूत्राभ्यां ममत्पु * * * * विवर्जयेत् ।
पीठं वैपुल्यमानं तु तत्र सूत्रं निरुध्य च ॥ ५९ ॥

प्राक् प्रमा * * * मध्ये तु लाञ्छयेत् पादसम्मुखम् ।
गात्रकं विधिना येन पार्श्वयोरुभयोर्भवेत् ॥ ६० ॥

विततादन्तरहितं व्यालवक्त्रं यथा द्विज ।
भूताभ्यां 25 गात्रकाभ्यां तु मध्यं यच्चरणं ततः ॥ ६१ ॥

एतत् पीठविधिं विद्धि त्वथ द्वारकृतिम् शृणु ।
द्वारादिष्वतिवृत्तस्य 26 दिक्सूत्रस्य तु सङ्गसे ॥ ६२ ॥

हृत्वा सूत्रं समावृत्ते पार्श्वद्वारं तु लाञ्छयेत् ।
द्वाराण्यभ्यं तु ? वैपुल्यं दीर्घेणेव तु तन्तुना ॥ ६३ ॥

तत 27 * * * * सूत्रं कृत्वा प्रसार्य च ।
द्वारान्तर्गतवृत्तस्य दिक् ततो 28 वृत्तसङ्गमम् ॥ ६४ ॥

एवमास्फाल्य सूत्रेम्ण शूकाङ्घ्रिद्वारसिद्धये ।
द्वारक्षेत्रान्तरस्थं तु दिक्सूत्रस्य द्विजोत्तम ॥ ६५ ॥

संविभज्य चतु (र्धानात् ? व्यक्तैः 29 ) चिह्नास्तु लाञ्छयेत् ।
द्वे चिह्ने तद्बहिस्त्यक्त्वा कृतसूत्रस्तृतीयके ॥ ६६ ॥

तद्द्वारान्तरवृत्तस्य समीपं च नयेत्ततः ।
लाञ्छयेच्छशिवद्वृतं * * * * गतद्विज ॥ ६७ ॥

प्रागास्फालितसूत्राभ्यां मीलनीयं प्रयत्नतः ।
तेनैव कुसुमान्नेन भूयसे * * * * लाञ्छयेत् ॥ ६८ ॥

शृङ्गादयस्तत्सूत्रस्य संस्थितो नततन्तुना ? ।
यथा द्विजार्धचन्द्राभ्यां शृङ्गयोर्मीलनं भवेत् ॥ ६९ ॥

अथा ? तथैव सूत्रस्य द्वारबाह्या ? भ्रमस्य च ।
कृत्वा सिद्धिगतं सूत्रं शशिशृङ्गावधिं नयेत् ॥ ७० ॥

तस्य स्थानात् तदानीय लक्ष्यमाणं तु मत्स्यवत् ।
बाह्यवृत्तावधिं यावद्द्वारस्याद्य तु सत्तम ॥ ७१ ॥

सदृशं कम्बुवक्त्रस्य द्वाराभ्यामन्तरं तु यत् ।
ज्ञेयं तत्कोणभूभागं चतुर्धा वृत्तमण्डले ॥ ७२ ॥

तत्र विन्यस्य वा लिख्यं समांशं च चतुष्टयम् ।
एवं तु मध्यमं वृत्तं मध्ये निस्पाद्य मण्डलम् ॥ ७३ ॥

तदाकारांश्च बाह्ये तु वृत्ते कुर्याच्च मण्डले ।
कीर्तितेन विधानेन विशेषमथ मे शृणु ॥ ७४ ॥

तेषामंसद्वयेनाब्जं पीठादिद्वितयेन तु ।
सम्मुखं मध्यदेशस्य सूत्रं सूत्रं तु मध्यतः ॥ ७५ ॥

प्राग्दत्तं यत् स्थितं तेषां तद्दृष्ट्वा ह्यपरं व्रजेत् ।
मध्यसूत्रं तु वृत्तानां चतुर्धा येन भान्ति ते ॥ ७६ ॥

गात्रकाणि तु तैस्सूत्रैर्द्वाराण्यालिख्य पूर्ववत् ।
मध्यं मण्डलपद्मस्य बहिष्ठानां तु पौष्कर ॥ ७७ ॥

प्। ४०)

विश्वास-प्रस्तुतिः

मण्डलानां सपद्मानामसत्वं ? सर्वदा भवेत् ।
व्यूहानां लिख्यमानानां बहिस्स्यान्मध्यमण्डलम् 30 ॥ ७८ ॥

एतत् समण्डलानां च व्यूहानां लक्षणं मया ।
कथितं केवलाब्जानां विशेषमधुनोच्यते ॥ ७९ ॥

एतस्मात् क्षेत्रमानं तु मानतो 31 व्यूह्य कल्पयेत् ।
सर्वेसां चापमानीय बाह्यमण्डलकैर्विना ॥ ८० ॥

किन्तु तत् सप्तवा कुर्यात् प्राग्वद् द्वादशधाकृतिम् ? ।
क्षेत्रं कजानां वीथीनां पूर्ववद्भागकल्पना ॥ ८१ ॥

व्यूहक्षेत्रं तु सकलादष्टमांशेन बाह्यतः ।
त्र्यश्रादीनां पुराणां तु विस्तारं परिकल्पयेत् ॥ ८२ ॥

शोहोपशोभकोणं च द्वाराणां साधनाय च ।
सपुरस्याथवा विप्र त्वद्य 32 व्यूहस्य जायते ॥ ८३ ॥

चतुर्दशकरं क्षेत्रं मानं वै षड्भिरङ्गुलैः ।
त्रिंशद्धस्तं 33 तथा व्यूहं तस्य * * * * भावयेत् 34 ॥ ८४ ॥

भुवनस्य त्रिकोणस्य त्वेतन्मानं तु मध्यतः ।
दिक्त्रयोस्त्यु ? पपद्येत कोणेभ्यश्चातिरिच्यते ॥ ८५ ॥

तस्माद् द्वे दिक्प्रधानत्वं मण्डलेऽस्मिन् न चाश्रिषु ।
अथास्यैव द्विजश्रेष्ठ वच्मि ते साधनं शृणु ॥ ८६ ॥

यथोक्तमानविस्तीर्णं साध्यमानं तु सिध्यति ।
व्यूहक्षेत्रात्तु वै वृत्तात् साध्याद् द्विगुणविस्तृतम् ॥ ८७ ॥

चतुरश्रं तु तद्बाह्ये पुरं कृत्वा तु पूर्ववत् ।
त्रिकोणपूर्वसिद्ध्यर्थं मार्गसिद्धेन तेन तत् ॥ ८८ ॥

क्षेत्रार्थं तु तदा मध्ये सूत्रं तत्क्षेत्रसम्मितम् ।
कृत्वा तत्पार्श्वसूत्राभ्यां संरुद्धमथ पातयेत् ॥ ८९ ॥

सूत्रद्वयं ततः पश्चात् तृतीयं तु विनिक्षिपेत् ।
प्रागास्फालितसूत्राभ्यां वर्जयित्वा तथाऽन्तरम् ॥ ९० ॥

बाह्यतो वृत्तपरिधेस्त्रिकोणं यज्यते स्फुटम् ।
अनेन क्रमयोगेन स्पृशेत्तद्वर्तुलं पुनः 35 ॥ ९१ ॥

अभ्यन्तरे त्रिकोणस्य सूत्राणां त्रितये क्षिपेत् ।
त्रिगुणस्य तु वृत्तस्य त्वष्टमांशयुतस्य च ॥ ९२ ॥

यदैव्यन्त ? 36 प्रमाणं स्यात् कोणात् कोणेषु पौष्कर ।
अथ वै मध्यतो दिक्षु कोणयोरन्तरं द्विज ॥ ९३ ॥

द्वारादीनां प्रमाणं च साधनं चावधारय ।
मध्यस्य सम्मुखं दद्यात् सूत्रं सूत्रं दिगन्तरे ॥ ९४ ॥

द्विगुणेन कृतेना ? ये लाञ्छयेद् द्विगुणेन वा ।
एकैकं मध्यसूत्रस्य पक्षबाह्यात् तथाऽन्तरात् ॥ ९५ ॥

ताभ्यामभ्यन्तरं कुर्यादष्टकाया ? द्विरष्टधा ।
मध्यसूत्रं तु सारेण तत्र सूत्राणि पातयेत् ॥ ९६ ॥

एवं तिर्यग्गतं सूत्रं तद्विधःकरणे 37 * * * * ।
एवं षोडशकोष्ठानि भवन्ति द्विगुणानि च ॥ ९७ ॥

एकैकस्य दिशि ब्रह्मन् द्वारा द्वारात्तु पूर्ववत् ।
कण्ठोपकण्ठसिद्ध्यर्थं षट्कं षट्कं तु शोधयेत् ॥ ९८ ॥

शेषैश्शोभोपशोभानि भागैर्द्वारानुसारतः ।
द्वारं शोभाद्वयोपेतं भागैर्द्वादशभिर्भवेत् ॥ ९९ ॥

एकैकमवशेषं यत् 38 तत्कोणाभ्यां 39 वधं नयेत्
उपशोभद्वयं चैव शोभानां तु चतुष्टयम् ॥ १०० ॥

द्वात्रिंशदंशकैर्विद्धि प्राग्वद्भागौ तु कोणगौ ।
द्वौ द्वौ शोभोपशोभौ वा कृत्वाऽन्यच्चांशपञ्चकम् ॥ १०१ ॥

निक्षिपेत् कोणमन्त्रौ तु द्वात्रिंशद्भिस्तु कोष्ठकैः ।
अनेन विधिना कुर्यात् त्रिकोणं भुवनं बाहः ॥ १०२ ॥

प्। ४१)

विश्वास-प्रस्तुतिः

प्रणीतमानव्यूहानां निष्पन्नानां च पौष्कर ।
निष्पन्नस्य तु वै यस्य लिख्यन्ते कमलादयः ॥ १०३ ॥

तन्मध्यभूप्रमाणेन तस्य लक्षणमुच्यते ।
चतुरश्रात् त्रिसूत्रं तु त्रिकोणं साध्य पूर्ववत् ॥ १०४ ॥

ततः कोणाद् ग्रहं सूत्रं कृत्वादी मध्यमानयेत् ।
द्वे सूत्रे तेन सूत्रेण पक्षोपरि हि लाञ्छयेत् ॥ १०५ ॥

शेषकोणद्वयं कुर्यात् तद्वद्द्वे द्वे तु पक्षगे ।
सूत्रे सञ्चिह्नयेत्तावद् यावत् कोणोपगं द्विज ॥ १०६ ॥

द्वारादीनां प्रमाणं च साधनं ह्यवधारय ।
प्रधानं मन्त्रमूर्तीनां सार्धमेकशतं तु यत् ॥ १०७ ॥

ऊनमूर्तिद्वयेनैव पुरा ते प्रकटीकृतम् ।
भोगमोक्षप्रसिद्ध्यर्थम् भवेऽस्मिन् भविनां तु वै ॥ १०८ ॥

मूर्तिसङ्घकृतादेव सप्तत्रिंशद्द्विसङ्ख्यया ।
आदिमूर्तिक्रमाद्यावत् समर्च्यन्ते 40 च मूर्तयः ॥ १०९ ॥

अब्दायन-ऋतूनां च मासानां च पृथक् पृथक् ।
पक्षाणां च दिनानां च क्रमात् ते पतयस्स्मृताः ॥ ११० ॥

आदावब्दपतिः प्रोक्तस्ते चान्येऽयननायके ? ।
ऋत्विजा षट् समाख्यातं मासाधिपतयस्तथा ॥ १११ ॥

द्वादश क्रमशो ब्रह्मन् मेरोः पक्षपतिस्स्मृतः ? ।
तृचा 41 * * * * सङ्ख्याता दिनेशत्वेन मूर्तयः ॥ ११२ ॥

यस्मिन् यदा यदा यागं हेतुना येन केन चित् ।
एकाब्जं बहुपद्मं वा चक्राब्जाब्जमथापि वा ॥ ११३ ॥

पतितौ पीठबाह्ये तु ऊर्ध्वतो गुरुसन्तते ।
इष्टा चाब्देश्वरं पूर्वमयनेशमनन्तरम् ॥ ११४ ॥

यदिदं मासषट्कं तु दक्षिणं वा द्विजोत्तम ।
तत्कालीयं च ऋत्वीशं तां ? मासेशक्रमान् यजेत् ॥ ११५ ॥

मासान्यं पक्षनाथं यत् पूजनीयमनन्तरम् ।
संवत्सरीयपक्षाणामेकमेव द्विजोत्तम ॥ ११६ ॥

स्वं स्वं 42 दिनेशं सम्पूज्य पक्षनाथादनन्तरम् ।
प्रत्यहं पृथुकाद्यैश्च वह्निसन्तर्पणेन च ॥ ११७ ॥

निवारयति मूर्तीशं पूजाकालेऽभ्यपूजितः ? ।
यस्य वै मूर्तिसर्वस्य ? विषयोऽयं मयोदितः ॥ ११८ ॥

चतुर्मूर्त्यादितस्तेन कल्पयेद्व्यूहकल्पनाम् ।
यावत् सप्तदशस्तस्मात् क्रमेण परिसङ्ख्यया ॥ ११९ ॥

तस्मिन् यस्याधिपत्येन तदाद्या मूर्तिमन्त्रराट् ।
दलानां क्रमशश्चान्ये मूर्तये ? विनिवेश्य च ॥ १२० ॥

यथा तदभिधास्यामि समासात्तन्निबोधतु ।
चतुर्व्यूहे चतुःपद्मे चतुर्मूर्ते द्विजोत्तम ॥ १२१ ॥

विन्यासं कीर्तयिष्यामि सर्वेषां व्यापकं तु यत् ।
मध्यपद्मे चतुःपत्रे व्यूहेशं कर्णिकान्तरे ॥ १२२ ॥

पूर्वदक्षिण आप्ये तत्तत्पत्रेषु क्रमान्न्यसेत् ।
मूर्तयश्चैव चत्वारष्षडङ्गपरिभूषिताः ॥ १२३ ॥

प्रदक्षिणक्रमेणा ? हि पूर्वपद्मादितः क्रमात् ।
मध्याम्बुरुहपत्रस्था मूर्तयो विनिवेश्य च ॥ १२४ ॥

प्राङ्मूर्तिः कर्णिकामध्ये द्वितीयवलयेषु 43 च ।
पूर्वनैर्-ऋतवायव्यदिग्भागावस्थितेष्वथ ॥ १२५ ॥

तत्रैवापरपद्मे तु कर्णिकामध्यतो न्यसेत् ।
मन्त्रमूर्तिर्द्वितीया वै द्वौ द्वौ पूर्वदलान्तरे ॥ १२६ ॥

नैर्-ऋतानिलपत्राभ्यां क्रमान्मूर्तिद्वयं तु तत् ।
ततस्तृतीयपद्मे तु तृतीयं कर्णिकान्तरे ॥ १२७ ॥

द्वितीया प्रथमा मूर्तिश्चतुर्थी पत्रमध्यतः ।
न्यस्याश्चामरमूर्त्यादिमूर्तयः कमलेषु च ॥ १२८ ॥

प्। ४२)

विश्वास-प्रस्तुतिः

विन्यासश्च पुनः कार्या ? सत्यमूर्त्यादि तेऽब्जज ।
मध्यपद्मं विनाऽन्येषां पद्मानां तु समूर्तिषु ॥ १२९ ॥

येन स्यादन्तमूर्तेर्वै प्राधान्यं कमलोद्भव ।
सर्वेषां कर्णिकामध्ये निष्ठामूर्तिर्निवेश्य च ॥ १३० ॥

एवं मूर्तिचतुष्कं तु न्यस्येत् 44 तत्पङ्कजत्रये ।
पुरा वर्तितयोगेन दलानां पूरणार्थतः ॥ १३१ ॥

व्यूहनाथद्वितीयं यद् यत्तेषामूर्ध्वगं न्यसेत् ।
स्वस्य येन द्विविधिना ? यजेन्मूर्तिगणं ततः ॥ १३२ ॥

अथोर्ध्वव्यूहसङ्घं यत् पञ्चपद्मादिसंस्थितम् ।
अनेनैव प्रयोगेण तस्मान्न्यासं समाचरेत् ॥ १३३ ॥

पद्मानां पद्मपत्राणां प्रादक्षिण्यक्रमेण तु ।
बहिस्स्थव्यूहपद्मानां यदा वै कर्णिकान्तरे ॥ १३४ ॥

न्यास एष द्वितीयादिमूर्तीनां कमलोद्भव ।
आदिमूर्तिस्तदुद्देशविधिस्सर्वत्र पूर्ववत् ॥ १३५ ॥

मूर्तिन्यासं द्वितीयं यत् तत् प्राग्वत् परिकल्पयेत् ।
सर्वेषां व्यूहयागानामेष एवमिति स्मृतः ॥ १३६ ॥

प्रधानमन्त्रभूतस्य न्यासार्थं कमलोद्भव ।
व्यूहेशं पञ्चविंशो यत् प्राग्वद्व्यूहे त्रयोदशे ॥ १३७ ॥

अन्तर्बहिस्थपद्मानां बाह्याब्जा विशसो?न्तिमे ।
यथाऽस्मिन् व्यूहनिचये सहस्रपरिसङ्ख्यया ॥ १३८ ॥

मन्त्रसङ्घापसव्यं च न्यसनीयं क्रमेण तु ।
व्यूहादाद्यात् समारभ्य यावदन्तं निबोधतु ॥ १३९ ॥

मध्यं व्यूहेश्वरं प्राग्वत् ततो मन्त्रचतुष्टयम् ।
न्यस्य पत्रचतुष्के तु पश्चात् प्राग्बाह्यपङ्क्तिजे ॥ १४० ॥

व्यूहेशं कर्णिकामध्ये तत्रान्यस्मिन् द्वये तथा ।
पूर्वपत्रात् समारभ्य यावत्पत्रं तु वायवम् ॥ १४१ ॥

विन्यस्य पञ्चमं मन्त्रं क्रमात् षष्ठं तु सप्तकम् ।
अथ नैर्-ऋतदिक्पद्मे तद्वत् पद्मक्रमेण तु ॥ १४२ ॥

अष्टमं नवमं न्यस्य दशमं दशमन्त्रराट् 45
वायव्याशां गते पद्मे पात्राणां विनिवेश्य च ॥ १४३ ॥

यदेकादशकं मन्त्रं द्वादशाख्यं त्रयोदशम् ।
आद्ये व्यूहचतुष्पद्मे न्यस्य मन्त्रास्त्रयोदश ॥ १४४ ॥

पञ्चपद्मे द्वितीयेऽथ मन्त्रन्यासं वदामि ते ।
गर्भस्थे पञ्चपद्मे वै व्यूहेशं कर्णिकोपरि ॥ १४५ ॥

पूर्वपत्रात् समारभ्य तस्मिन् 46 वै मन्त्रपञ्चकम् ।
मन्त्राच्चतुर्दशादादौ यावदष्टादशं क्रमात् ॥ १४६ ॥

तद्बाह्यस्थितपद्मानां 47 चतुर्णामथ वक्ष्यते ।
पूर्वपद्मं समारभ्य यावदुत्तरपङ्कजम् 48 ॥ १४७ ॥

मध्ये व्यूहेश्वरं न्यस्य मन्त्रषोडशशक्तितः ।
चतुर्व्यूहक्रमेणैव दलानां विनिवेश्य च ॥ १४८ ॥

न्यूनविंशतिमाद्यावच्चतुस्त्रिंशच्च मन्त्रराट् ।
एवमेव क्रमेणैव व्यूहानां पत्रसन्ततिम् ॥ १४९ ॥

मध्यपद्मात् समारभ्य पूर्य मन्त्रगणेन च ।
यावद्दशाम्बुजं व्यूहमाद्यव्यूहत्रयोदश ? ॥ १५० ॥

यावती पत्रसङ्ख्या स्याद्व्यूहानां कमलोद्भव ।
तावन्ती मात्रसङ्ख्या वै तेषु तेषु च विन्यसेत् ॥ १५१ ॥

सह व्यूहेश्वरो यावन्मन्त्रैषट्पञ्चभिर्विना ।
सहस्रकं तु मन्त्राणां ब्रह्मन् परिसमाप्यते ॥ १५२ ॥

त्रयोदशानां व्यूहानां विन्यसेदधिकं तु यत् ।
तावत्तु दशमे व्यूहे न्यसेदेकादशाम्बुजे ॥ १५३ ॥

मध्यपद्मात् समारभ्य सर्वेषां कर्णिकान्तरे ।
मध्याम्बुजे तु पत्राणाम्मग 49 * * * * तत्त्रिधा न्यसेत् ॥ १५४ ॥

पूर्वपत्रात् समारभ्य पुनरन्तर्दलाग्रकम् ।
एवमेव बहिष्ठानां स्वमन्त्राच्च पृथक् पृथक् ॥ १५५ ॥

प्। ४३)

विश्वास-प्रस्तुतिः

तृतीया तु परावर्त्य द्रा * * * * कर्णिकान्तरे ।
प्राग्वत् सर्वदलाग्राणामस्त्रमन्त्रं निवेश्य च ॥ १५६ ॥

यथा भागेऽग्रमूर्तीनां विधानं सन्मयोदितम् ।
सहस्रमूर्तिविन्यासं व्यूहानां तु भवेत्तदा ॥ १५७ ॥

न कर्णिकागतं मन्त्रं दलमध्ये नियोजयेत् ।
तद्द 50 * * * * न्यसेन्मध्ये प्राग्वत् सञ्चारयोगतः ॥ १५८ ॥

किन्तु व्यूहेश्वरं प्राग्वन्न्यस्य मन्त्रगतं ततः ।
विनिवेश्य दलानां च यथा ते कथितं मया ॥ १५९ ॥

एकरूपमिदं न्यासं सह तस्य प्रकीर्तितम् ।
द्विधावृत्तं न कर्तव्यं मूर्तिवद्द्विजसत्तम ॥ १६० ॥

इच्छायां तेन विधिना मन्त्रसङ्ख्यां प्रकल्प्य च ।
अभीष्ट * * * * आत्मपूज्यो व्यूहयागे त्वभीप्सिता ॥ १६१ ॥

अभीष्टफलसिद्ध्यर्थं भक्त्या परमया द्विज ।
रुचिमूर्तिषु नित्येव कर्मणि स्थापनादिके ॥ १६२ ॥

वत्सरे वत्सपर्यन्ते क्रमाद्याद्याश्च ? यस्य यत् ।
क्रमोजतोवहावस्था ? 51 त्विच्छासिद्धिव्यपेक्षया ॥ १६३ ॥

प्रयायात् सोहया रूपा 52 * * * * त्वन्नास्य परेद्यजेत् ? 53
साङ्गं वा यस्य मन्त्राध्वे ततपत्राष्टके ? परा ॥ १६४ ॥

शब्दभावस्वरुपा च षाड्गुण्यमहिमावृता ।
पूर्णावसानमिष्ट्वेव कर्णिकाकेसरोर्ध्वगा ॥ १६५ ॥

स्वरे चान्तस्वरूपां च सर्वगां ब्रह्मलक्षणाम् ।
ततस्तु भागपद्मस्थां मन्त्रमूर्तिज्वलप्रभाम् ? ॥ १६६ ॥

संस्मरेत् कर्णिकोर्ध्वे तु साकारां भावयेत्ततः ।
केसरेषु तदङ्गानि तैर्विना पूजयेत्ततः ॥ १६७ ॥

शब्दमात्रेण तत्त्वेन 54 * * * * प्राग्वद्दलेषु च ।
क्रम एवं त्रिमूर्तेर्वै कथितो मण्डलार्चने ॥ १६८ ॥

त्रिमूर्त्तेरपि विप्रेन्द्र त्विच्छामूर्तिधरस्य च ।
तत्रायं हि विशेषस्स्यात् प्राग्जले कर्णिकोर्ध्वजा ॥ १६९ ॥

द्वितीया केसरोर्ध्वस्था तृतीया दलदेशगा ।
सवस्तुपञ्चषट्सप्तपूर्वास्वभ्यर्चने तु वै ॥ १७० ॥

मूर्तिसङ्ख्यासमं कुर्यात् पद्मस्य दलसञ्चयम् ।
यजेद्दलेन मूर्तिं तु * * * * वै क्रमात् ॥ १७१ ॥

मध्ये च कार्या विधिवन्मध्यस्था तत्र तद्बहिः ।
एवमग्नौ जलेऽप्यत्र हृदये कमलेक्षण ॥ १७२ ॥

परापरविभागेन मन्त्रमूर्तिगणं महत् ।
सामान्यपरिवारं च पूजितं शुभमिच्छति ॥ १७३ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां

व्यूहलक्षणो नाम

सप्तमोऽध्यायः ॥ ७ ॥

  1. क्: साधन; ग्, घ्: साधना ↩︎ ↩︎

  2. ख्: नानायोन्यस्य; ग्, घ्: ननायोस्स्य ↩︎ ↩︎

  3. ख्, ग्: द्वाराणानिति ↩︎ ↩︎

  4. ग्, घ्: -णान्तरते ↩︎ ↩︎

  5. ख्: यायां तमहम्; ग्, घ्: याणिमहम् ↩︎ ↩︎

  6. ग्, घ्: वृत्ते ↩︎ ↩︎

  7. घ्: ( ) कुण्डलान्तर्गतं गलितम् ↩︎ ↩︎

  8. ख्: भूयस्तदपि * * * * विप्र ↩︎ ↩︎

  9. क्, ग्: नखपत्रात् ↩︎ ↩︎

  10. ग्, घ्: कहजाध्यापदम् ↩︎ ↩︎

  11. ग्, घ्: आकलस्य ↩︎ ↩︎

  12. ग्, घ्: * * * * वधिताने ↩︎ ↩︎

  13. क्: बाह्यस्य वृत्तस्य; ग्, घ्: सूत्रस्य ↩︎ ↩︎

  14. ख्: -मन्तरालात् ↩︎ ↩︎

  15. ख्: * * * * * * * * ब्जानि तत ↩︎ ↩︎

  16. ख्: ( ) अन्तर्गतान्यक्षराणि; ग्, घ्: शंवासनस्त्यमे ↩︎ ↩︎

  17. ख्: पीठवेसूत्रस्य तु सुत्रेण ↩︎ ↩︎

  18. ख्: एकेनान्तर्गतम् ↩︎ ↩︎

  19. क्, ग्, घ्: ततस्तु ↩︎ ↩︎

  20. ख्, ग्, घ्: द्वितप्तत्वं द्वि ↩︎ ↩︎

  21. ख्: विधि- ↩︎ ↩︎

  22. ख्: वृत्ताभ्यां तु समासतः ↩︎ ↩︎

  23. ख्: ( ) अक्षराणि ↩︎ ↩︎

  24. ख्: गोत्रकेशस; ग्, घ्: गोत्रकेडश ↩︎ ↩︎

  25. ख्: भूभाग ↩︎ ↩︎

  26. क्, ग्, घ्: द्वार * * * वृत्तस्य ↩︎ ↩︎

  27. ग्, घ्: ततस्तल्वाभ्यलाभ्यं तु ↩︎ ↩︎

  28. क्, ग्, घ्: ततोपत्र ↩︎ ↩︎

  29. ग्, घ्: ( ) पाथः ↩︎ ↩︎

  30. क्, ग्, घ्: -न्मध्यकुण्डलम् ↩︎ ↩︎

  31. क्: मानं मा * * * तः व्यूह ↩︎ ↩︎

  32. ख्: प्रत्यद्यू ? ↩︎ ↩︎

  33. क्, ख्: ॥टथा ↩︎ ↩︎

  34. ख्: विस्तरं तु; ग्, घ्: विस्तातु ? ↩︎ ↩︎

  35. ख्: स्फुटम् ↩︎ ↩︎

  36. ग्, घ्: यदैप्यं तत् ↩︎ ↩︎

  37. क्, ग्, घ्: तत् क्षिपेत् करुणे क्षिपेत् ↩︎ ↩︎

  38. ख्: -शेषं तत् ↩︎ ↩︎

  39. क्, ख्: भ्यां * * * * नयेत् ↩︎ ↩︎

  40. ख्: समुच्यन्ते ↩︎ ↩︎

  41. क्, ग्, घ्: तृचा * * * * श्रञ्च; ख्: -तृचास्तृतं च ↩︎ ↩︎

  42. क्, ग्, घ्: स्वस्या ↩︎ ↩︎

  43. क्, ग्, घ्: द्वितीयादालयेषु ↩︎ ↩︎

  44. ग्, घ्: सैन्यत् ↩︎ ↩︎

  45. ख्: दशमन्दिरात् ↩︎ ↩︎

  46. ख्: तस्मिन्यन्मन्त्र ↩︎ ↩︎

  47. ख्: बाह्यतः ↩︎ ↩︎

  48. ख्: पूर्वादुत्तर ↩︎ ↩︎

  49. ख्: मगद्यर्कम् ↩︎ ↩︎

  50. ख्: तद्दलस्थममे मध्ये ↩︎ ↩︎

  51. ख्: क्रमावता ↩︎ ↩︎

  52. ग्, घ्: रूपालैवं * * * न्नास्य ↩︎ ↩︎

  53. ख्: परे व्रजेत् ↩︎ ↩︎

  54. ख्: तत्रैव त्वाद्यात् ↩︎ ↩︎