०५ अध्यायः

अथ पञ्चमोऽध्यायः

पौष्कर उवाच

विश्वास-प्रस्तुतिः

यागस्तु देवदेवेश भद्रादीनि क्रमाद्वद ।
यैर्दृष्टैस्समयी शश्वत् पुत्रकत्वं प्रपद्यते ॥ १ ॥

मूलम्

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

मण्डलं सर्वतोभद्रं भद्रकृत् प्रथमं स्मृतम् ।
अघनिर्मोचनं नाम द्वितीयं यस्य दर्शनात् ॥ २ ॥

अनेकजन्मोपात्तं तु कल्मषं क्षयमेति च ।
सदध्यं स्यात् तृतीयं च धर्ममार्गप्रदर्शनम् 1 ॥ ३ ॥

धर्माख्यं स्याच्चतुर्थं तु धर्मं यच्छति पूजनात् ।
पञ्चमं वसुगर्भं तु भक्तानां वसुवृद्धिकृत् ॥ ४ ॥

सर्वकामप्रदं यागं षष्ठमिच्छाफलप्रदम् ।
अमित्रघ्नमतः प्रोक्तममित्रौघविनाशनम् ॥ ५ ॥

आयुष्यमष्टकं 2 प्रोक्तं यस्य पौष्कर दर्शनात् ।
प्ररमायुरवाप्नोति अपमृत्युं जहाति च ॥ ६ ॥

नवमं बलभद्रं तु बलोत्साहसमृद्धिकृत् ।
पौष्टिकं नाम दशमं पुष्टिकृत् पूजनात्तु वै ॥ ७ ॥

अथारोग्यप्रदं नाम सर्वामयविनाशनम् ।
द्वादशं च विवेकाख्यं फलं नामानुरूपकृत् ॥ ८ ॥

एतस्मात् परमं यागं वागीशं नामतस्स्मृतम् ।
येन सन्दृष्टमात्रेण वाग्विभूतिः प्रवर्तते ॥ ९ ॥

चतुर्दशं मानसं स्याद्दर्शनात् सौमनस्यकृत् ।
अतः पञ्चदशं यागं जयं नाम जयप्रदम् ॥ १० ॥

षोडशं स्वस्तिकाख्यं तु स्वस्तिकृद्विप्र पूजनात् ।
परमस्य तु यागस्य त्वनन्तं नाम कीर्तितम् ॥ ११ ॥

तदनन्तसुखावाप्तिं संयच्छत्याशु दर्शनात् ।
नित्यं नामाष्टदशमं नित्यतृप्तिप्रदं तु तत् ॥ १२ ॥

भूतावासमतो नाम्ना मण्डलं मण्डलान्वितम् ।
यं 3 दृष्ट्वा भविनां शश्वद्भवेद्भूतजयं द्विज ॥ १३ ॥

अतः परममोघारव्यं यागं येन निवर्तते ।
ममता पूजितेनैव देहिनां भवसागरात् ॥ १४ ॥

मूलम्

अतः परममोघारव्यं यागं येन निवर्तते ।
ममता पूजितेनैव देहिनां भवसागरात् ॥ १४ ॥

प्। २०)

विश्वास-प्रस्तुतिः

सुप्रतिष्ठमतो यो हि येन सम्पूजितेन वै ।
दृष्टेन परया भक्तया मनश्शान्तिमवाप्नुयात् ॥ १५ ॥

बुद्ध्याधारमतः प्रोक्तं येन सम्पूजितेन तु ।
प्राप्नुयाच्च प्रतिष्ठानां बुद्धिं ब्रह्म स्वके पदे ॥ १६ ॥

गुणाकर इति ज्ञेयं मण्डलं यत्र पौष्कर ।
गुणसङ्घः क्षयं याति हृदि 4 ध्यानाच्च पूजनात् ॥ १७ ॥

अस्यापरं महायागं 5 ध्रुवाख्यं च प्रकीर्तितम् ।
येनावलोकितेनैव संसारी समवाप्नुयात् ॥ १८ ॥

स्वात्मन्यवस्थितं सम्यङ् न भूयः प्रकृतिं व्रजेत् ।
मण्डलं परमानन्दमेतत् स्यात् परमं पदम् ॥ १९ ॥

यद्दृष्ट्वा पूजयित्वा च परं पदमवाप्नुयात् 6
एतेषां क्रमशो ब्रह्मन् लक्षणं चावधारय ॥ २० ॥

क्षेत्रं कृत्वा चतुरश्रं ? सप्तधा विभजेच्च तत् ।
शतार्धमेकहीनं तु कोष्ठकानां तु जायते ॥ २१ ॥

मध्यतो नवभिर्भागैः पद्मं तु परिकल्पयेत् ।
पङ्क्तिद्वयेन द्वाराणि सत्कोणानि 7 भवन्ति हि ॥ २२ ॥

पद्मक्षेत्रसमीपात्तु दक्षैरेवं 8 तु मार्जयेत् ।
कोष्ठकद्वारकण्ठार्धं 9 त्रीणि त्रीणि च तद्बहिः ॥ २३ ॥

उपकण्ठप्रसिद्ध्यर्थं द्वाराण्येवं भवन्ति हि ।
षट्कं षट्कं पदानां तु प्रतिकोणं तु मार्जयेत् ॥ २४ ॥

एवं हि भद्रकं लुप्तं रजसा परिपूरयेत् ।
व्योमवृत्तसमायुक्तं मध्ये तु कमलं स्थितम् 10 ॥ २५ ॥

रेखागणं तथा सर्वं श्यामलेन सितेन च ।
सन्धयः पद्मपत्राणामेवमेवान्तरेष्वपि ॥ २६ ॥

किन्तु वै व्योमवृत्तस्य बाह्यादादौ क्रमेण तु ।
सर्वेषां पूरणं वच्मि रजसा तु यथास्थितम् ॥ २७ ॥

पाण्डुरक्तेन रागेण कण्ठाभ्यां तु यदन्तरम् ।
रक्तोज्ज्वलेन कोणानि पीतान्यभ्यन्तरं तयोः ॥ २८ ॥

प्रपूर्यैवं भवेद्भद्रमघनिर्मोचनं शृणु ।
क्षेत्रं कृत्वाऽष्टधा सम्यक् चतुष्षट्यंशकानि तु ॥ २९ ॥

जायते मध्यतः कोष्ठैश्चतुर्भिः कमलं लिखेत् ।
तद्बहिर्भागपङ्क्तयैकां वीथ्यर्थं परिमार्जयेत् ॥ ३० ॥

द्वाराणि वीथिबाह्यं तु तदर्धं तु द्वयं द्वयम् ।
कण्ठार्धं लोपनीयं च चत्वार्युपगलात्तु वै ॥ ३१ ॥

द्वारोपगेषु स्थानेषु पूर्वमण्डलसङ्ख्यया ।
विलोप्य 11 रञ्जयेत् पश्चाद्भूमणिं श्यामलेन तु ॥ ३२ ॥

शेषं तु भद्रवच्च स्यात् सदध्वमधुनोच्यते ।
विभज्य नवधा क्षेत्रमेकाशीत्यंशकं भवेत् ॥ ३३ ॥

उत्पद्यन्तेऽनु भागानां भद्रवत् कमलं लिखेत् ।
पङ्क्त्यां तु तद्बहिः पीठं रमणीयं च मार्जयेत् ॥ ३४ ॥

त्रिसङ्ख्याकं तु भागानां तस्मात् 12 सर्वविदिक्स्थितम् ।
एकैकं दिक्षु संस्थाप्य भवेद्द्वाराण्यथाश्रयः ॥ ३५ ॥

बाह्यपङ्क्तिद्वयेनैव जायन्ते नान्यथा शृणु ।
पीठकोणसमैर्भागैर्द्वारकण्ठं प्रकल्पयेत् ॥ ३६ ॥

पञ्चांशेनोपकण्ठं तु कोणमस्य षडंशकम् 13
सम्मार्ज्य पूरयेत् पश्चाद्रजसा राजते 14 यथा ॥ ३७ ॥

अन्तरं व्योमपीठाभ्यां पीतरक्तोज्ज्वलेन तु ।
पीठदिक्स्थितभागानि श्यामलेनोज्ज्वलेन तु ॥ ३८ ॥

तदुपस्थानकोणानि पीतेन परिपूरयेत् ।
द्वाराणि सुसितेनैव पाण्डुरक्तेन चाश्रयः ॥ ३९ ॥

प्। २१)

विश्वास-प्रस्तुतिः

सदध्वं च मया प्रोक्तं धर्माख्यमधुनोच्यते ।
विभज्य दशधा क्षेत्रमंशकानां भवेच्छतम् ॥ ४० ॥

चतुर्भिः पुष्करं मध्ये पीठं पङ्क्त्या तु साधयेत् ।
परितस्तत्र भागानि शोधयित्वाऽब्जसम्भव ॥ ४१ ॥

प्रदद्यात् कोणसूत्राणि चतुर्धा 15 जायते यथा ।
भ्रमणीं कल्पयेत् पङ्क्त्या द्वारं तद्द्वितयेन 16 तु ॥ ४२ ॥

षट् च कण्ठोपकण्ठाभ्यां भागानां परिमार्जयेत् ।
आरभ्योभयपार्श्वात्तु 17 द्वौ द्वौ भागौ तु मर्दयेत् ॥ ४३ ॥

त्रयं द्वयमथैकैकं कोणात् संशोध्य रञ्जयेत् ।
पाण्डरारुणरागेण मध्यं वै व्योमपीठयोः ॥ ४४ ॥

द्वौ तु पूर्वापरौ भागौ पीठात् 18 पीतेन पूरयेत् ।
द्वारकण्ठोपगौ स्थानौ पूरयेत् पीतलेन तु ॥ ४५ ॥

व्योमपीठान्तरं यद्वत् तद्वत् कोणचतुष्टयम् ।
इत्येतत् कीर्तितं धर्मं वसुगर्भमतश्शृणु ॥ ४६ ॥

कृत्वैकादशधा क्षेत्रमेकविंशोत्तरं शतम् ।
उत्पद्यन्ते ? 19 च भागानां नवभिर्मध्यपङ्कजम् ॥ ४७ ॥

मार्जयित्वा तु पीठार्थं पङ्क्त्येकं साधयेच्च तत् ।
सूत्रपातविधानेन यथा तदवधारय ॥ ४८ ॥

पदद्वयावसाने तु कोणस्थाने निधाय वै ।
पार्श्वाभ्यां सर्वकोणे तु सूत्रमास्फालयेच्च तत् ॥ ४९ ॥

भवन्त्यनेन विधिना दिग्भागाः कर्णिकोपमाः ।
सीराग्रवच्च कोणानि ततः पङ्क्त्यां तु वीथिका ॥ ५० ॥

शिष्टपङ्क्तिद्वयेनैव कुर्यात् कमलसम्भव ।
संशोध्य भागसङ्घं तु द्वारेष्वथ सदध्ववत् ॥ ५१ ॥

द्वाराभ्यां मध्यतस्सप्त कोणदेशात्तु शोधयेत् ।
एकैकं साधयेत् कोणं तत्ॐशत्रितयेन तु ॥ ५२ ॥

कृत्वैवं पूरयेत् पश्चाद्रागेण विविधेन च ।
प्रशान्ताग्निसमानेन व्योम बाह्यं 20 रजेन तु ॥ ५३ ॥

ईशकोणात् 21 समारभ्य सिताद्यैः परिपूरयेत् ।
तद्वदाप्योत्तरेन्द्रान्त 22 कोणेषु 23 च रजः क्षिपेत् ॥ ५४ ॥

झषोदरनिभेनैव पीठबाह्यं तु पूरयेत् ।
द्वाराण्यरुणरक्तेन तयोर्मध्यं सितेन च ॥ ५५ ॥

शेषं तु दशपादाहे ? रञ्जयेच्छयामलेन च 24
इत्युक्तं वसुगर्भं ते सर्वकामप्रदं शृणु ॥ ५६ ॥

क्षेत्रं द्वादशधा कृत्वा तत्सूत्रेण 25 च पौष्कर ।
सार्धमेकशतं चैव षडूनं जायते ततः ॥ ५७ ॥

मध्ये षोदशभिः कोष्ठैः पद्मं कुर्यात् सलक्षणम् ।
भागपङ्क्त्या तु वै पीठं तस्माद् द्वौ द्वौ तु दिग्गतौ ॥ ५८ ॥

भागौ संशोधितौ ह्येवं त्रीणि त्रीणि तदाऽश्रिषु ।
भ्रमणीं मर्दयेत् पङ्क्त्या शेषपङ्क्तिद्वयेन तु ॥ ५९ ॥

षड्गलोपगलेष्वत्र कोणात् कोणं द्विसप्तकम् ।
कृत्वैवं पूरयेत् प्राग्वदन्तरं व्योमपीठयोः ॥ ६० ॥

राजोपलनिभेनैव पीठं कोणात् प्रपूरयेत् ।
तत्कोणमध्यदेशानि हेमाभेन तु रञ्जयेत् ॥ ६१ ॥

शुक्लपक्षोपमेनाथ रञ्जयेद्वीथिका द्विज ।
द्वाराणि स्फटिकाभेन रक्तरागेण वाऽश्रयः ॥ ६२ ॥

सर्वकामप्रदं चैवं कृत्वाऽमित्रघ्नमुच्यते ।
क्षेत्रं त्रिदशधा कृत्वा भागानां जायते शतम् ॥ ६३ ॥

एकोनसप्तत्यधिकमम्बुजं चक्रमध्यतः 26
कोष्ठकैः पञ्चविंशद्भिः पङ्क्त्या पीठं तु तद्बहिः ॥ ६४ ॥

प्। २२)

विश्वास-प्रस्तुतिः

तत्र तन्मध्यतस्त्रीणि त्रीणि चैवं तथाऽश्रिषु ।
पदवी 27 तद्बहिः पङ्क्त्यां द्वारादिद्वितयेन तु ॥ ६५ ॥

कण्ठं 28 भागत्रयेणैव पञ्चभिश्चोपकर्णिकम् ।
द्वारोपगस्य 29 मध्यात्तु अष्टौ शोभाद्वये 30 भवेत् ॥ ६६ ॥

अथ षट्केन सट्केन कुर्यात् कोणचतुष्टयम् ।
कृत्वैवं व्यञ्जयेद्व्योम बाह्यं रक्तारुणेन तु ॥ ६७ ॥

पीठकोणानि सर्वाणि तेन चात्युज्ज्वलेन वा ।
चापपक्षसमानेन पैठीयं दिक्चतुष्टयम् ॥ ६८ ॥

राजोपलनिभेनैव पूरयेद्भ्रमणीं 31 ततः ।
द्वाराणि रजताभेन तदन्तः पाण्डरं गुणम् ॥ ६९ ॥

व्योमपीठान्तरं यद्वत् तद्वत् कोणमिति स्मृतम् ।
उक्तमेतदमित्रघ्नमायुष्यमधुनोच्यते ॥ ७० ॥

कृत्वा द्विसप्तधा क्षेत्रं षण्णवत्यधिकं शतम् ।
उत्पद्यन्तेऽम्शकानां तु कजं षोडशकोष्ठके 32 ॥ ७१ ॥

मध्यतस्तद्बहिः पङ्क्त्यां पद्माधारं प्रकल्पयेत् ।
तत्र द्वे द्वेऽम्शके दिक्षु त्रीणि त्रीणि तदाष्श्रिषु 33 ॥ ७२ ॥

पङ्क्तिद्वयेन परितस्तद्बहिः पदवी भवेत् ।
भागपङ्क्तिद्वयेनाथ यच्छिष्टं तत् समापयेत् ॥ ७३ ॥

द्व्यंशेन द्वारकण्ठं 34 स्याच्चतुर्भिरुपकण्ठकम् ।
ततः कण्ठसमीपात्तु शोभार्थं त्रीणि शोधयेत् ॥ ७४ ॥

उपकण्ठोपगं चैकमेवं शोभाष्टकं भवेत् ।
मण्डलस्य चतुर्दिक्षु ततः कोणेषु शोधयेत् ॥ ७५ ॥

दशकं दशकं विप्र भागानामथ रञ्जयेत् ।
जातिरिङ्कुलिकामेन व्योमबाह्यात्तु पूरयेत् ॥ ७६ ॥

ततो मरतकामेन पीठकोणानि रञ्जयेत् ।
सर्वं रक्तारुणाभेन दिक्सङ्घं परिपूरयेत् ॥ ७७ ॥

हेमहेमाभवीथी वा द्वाराणि सुसितानि च ।
नृपोपलाभेनाश्रीणि शोभानि व्योमबाह्यवत् ॥ ७८ ॥

एतदायुष्यकं प्रोक्तं बलभद्रमतश्शृणु ।
क्षेत्रं त्रिपञ्चधा कृत्वा कोष्ठकानां शतद्वयम् ॥ ७९ ॥

स्यात् पञ्चविंशत्यधिकममित्रघ्नवदाचरेत् ।
पीठं च पङ्कजं भागैः पङ्क्त्या चैवोपपीठकम् ॥ ८० ॥

शिष्टैरुपगलं कुर्याच्छोभासङ्घं तु पूर्ववत् ।
एकैकादशभागानि कोणाच्छोध्यानि पौष्कर ॥ ८१ ॥

व्योमाद्यनवसानं तु पाण्डुरक्तेन पूरयेत् ।
पीठं यादृग्विधो राजा यन्त्रपीठे तथैव च ॥ ८२ ॥

दातव्यं विधिना येन तदव्यग्रोऽवधारय ।
ईशकोणात् 35 सिताद्यैस्तु चतुर्भिः परिपूरयेत् ॥ ८३ ॥

रागैस्तु पीथकोणानि पश्चिमादि ततः पुनः ।
तेनैव दक्षिणाशान्तमुपपीठं तु कथ्यते ॥ ८४ ॥

याम्याशादिसिताद्यैस्तु यावत्प्रागवसानतः ।
भ्रमणीः पाण्डुरक्तेन ततो द्वारचतुष्टयम् ॥ ८५ ॥

जाम्बूनदसमानेन पश्चाच्छोभाष्टकं द्विज ।
क्रमान्मरतकामेन शिष्टे रक्तगुणेन तु ॥ ८६ ॥

स्यादिदं बलभद्रं तु पौष्टिकं चाधुनोच्यते ।
भङ्क्त्वा 36 षोडशधा क्षेत्रमंशकानां शतद्वयम् ॥ ८७ ॥

षट्पञ्चाशोत्तरं चैव भवेन्मध्येऽथ कल्पयेत् ।
षट्त्रिंशद्भिस्तु कह्लारं पीठं पङ्क्तिद्वयेन तु ॥ ८८ ॥

द्वौ द्वौ दिङ्मध्यगौ भागौ पञ्च पञ्च तदश्रिषु ।
लुप्त्वा तु चोपपीठार्थं भागांश्च परिशोधयेत् ॥ ८९ ॥

प्। २३)

विश्वास-प्रस्तुतिः

त्रीणि त्रीणि तु कोणेषु षट्कं षट्कं दिशासु च ।
मार्गं तु तद्बहिः पङ्क्त्यां द्वारादिद्वितयेन तु ॥ ९० ॥

गलोपगलशोभादिद्विचतुस्स्मृतयेककम् ? ।
शोभाविपर्ययेणैवमुपशोभां तु तत्समैः ॥ ९१ ॥

समीपे चोपशोभस्य षड्भिः कोणं तु मार्जयेत् ।
एवं शोभाष्टकं विप्र उपशोभाष्टकं तथा ॥ ९२ ॥

शोधयित्वा चतुर्दिक्षु रजसा पूरयेत् ततः ।
पूर्यमाकाशवृत्तस्य बाह्यं रक्तारुणेन तु ॥ ९३ ॥

पीठस्य सर्वकोणानि हेमाभेन तु पुरयेत् ।
पाण्डरारुणरागेण पूरयेद्गात्रकाणि च ॥ ९४ ॥

कोणान्यथोपपीठस्य तेनैव परिरञ्जयेत् ।
तद्गात्रकाणि शुक्लेन तद्बाह्यमसितेन तु ॥ ९५ ॥

द्वाराणि सुसितेनैव शोभाश्च व्योमबाह्यवत् ।
पीतेन चोपशोभानि कोणान्यथ विभूषयेत् ॥ ९६ ॥

ब्रह्मन् मरतकामेन श्यामलेनोज्ज्वलेन च ।
इत्युक्तं पौष्टिकं यागं वच्म्यारोग्यकसञ्ज्ञकम् 37 ॥ ९७ ॥

प्राक् सप्तदशधा क्षेत्रं कृत्वांशानां शतत्रयम् ।
एकादशांशहीनं तु जायते वाऽथ 38 मध्यतः ॥ ९८ ॥

पञ्चविंशतिभिः पद्मं ततः पङ्क्तिद्वयेन तु ।
कुर्याद्वै पङ्कजाधारं तस्माद्दिक्षु विमर्दयेत् ॥ ९९ ॥

पद्मक्षेत्रसमीपात्तु पञ्चैकं तेषु बाह्यतः ।
भवन्ति शोभातुल्यानि कृत्वैवं गात्रकाणि तु ॥ १०० ॥

परितोऽष्टकमंशानां प्रतिकोणं तु मार्जयेत् ।
भागं पङ्क्तिद्वयं 39 जातं सञ्चारार्थं तु शोधयेत् ॥ १०१ ॥

द्वयेन द्वारशोभादि ततः कुर्याद्द्विजोत्तम ।
त्रीण्यर्धं पञ्चभागानि द्वारात् कण्ठोपकण्ठयोः ॥ १०२ ॥

शोभोपशोभकोणेषु सैकैकं तु त्रिसप्तकम् ।
मार्जयित्वा तु रजसा प्रपूर्य विविधेन च ॥ १०३ ॥

आकाशपरिधेर्बाह्यं बन्धुजीवनिभेन तु ।
गोक्षीरपाण्डुरागेण पीठपादं चतुष्टयम् ॥ १०४ ॥

गात्रकाण्यथ सर्वाणि राजाश्मसदृशेन तु ।
चीनपिष्टसमानेन वीथिकां परिरञ्जयेत् ॥ १०५ ॥

द्वारादीन् हेमवर्णेन श्यामेनान्तस्सुसंस्थितान् ।
सितेन चोपशोभानि शेषं रक्तारुणेन तु ॥ १०६ ॥

एवमारोग्यकं प्रोक्तं विवेकमवधारय ।
कृत्वाऽष्टदशधा क्षेत्रमंशकानां शतत्रयम् ॥ १०७ ॥

जायते वै चतुर्विंशत्यधिकं कमलोद्भव ।
मध्ये षोडशभिः पद्मं पीठं पङ्क्तित्रयेण तु ॥ १०८ ॥

द्विचतुष्कं तु भागानां तत्र वै गात्रकान् प्रति ।
द्वौ पद्मक्षेत्रनिकटात् पङ्क्तौ दिङ्मध्यतत्स्ततः ॥ १०९ ॥

चत्वारि मध्यपङ्क्तौ द्वौ बाह्यपङ्क्तौ यथान्तरम् ।
कृत्वैवं गात्रकगणं ताभ्यां मध्यान्तरे ततः ॥ ११० ॥

त्रयोदशांशकेनैव पादं कुर्याद्विचक्षणः ।
सप्तकं बाह्यपङ्क्तौ तु मध्यपङ्क्तौ तु चांशकम् 40 ॥ १११ ॥

एकीकृत्वा ततो भागैर्बिम्बं कुर्यात्तु पञ्चभिः ।
ईषत्तद्गात्रकाकारं यथा पङ्क्तिद्वयात्ततः ॥ ११२ ॥

कुर्यात् सञ्चारमार्गं तु शिष्टं पङ्क्तिद्वयात्तु वै ।
दशकं दशकं ब्रह्मन् प्रतिकोणं तु मार्जयेत् ॥ ११३ ॥

शेषाच्छोभोपशोभानि भागैर्द्वाराणि कारयेत् ।
प्रपूर्य कर्णिकाश्चातो यथा कृत्स्नैश्च तच्छृणु ॥ ११४ ॥

दाडिमीपुष्पतुल्येन पीठदेशादनन्तरम् ।
गात्रकाणि सितेनैव लिम्पकान्यसितेन तु ॥ ११५ ॥

पद्मरागोपमेनैव कोणं भागाष्टजं तु ? यत् ।
राजोपलनिभेनैव पीठाद्बाह्यं प्रपूरयेत् ॥ ११६ ॥

प्। २४)

विश्वास-प्रस्तुतिः

सितादिना चतुष्केण द्वाराद्यं यच्चतुष्टयम् ।
उक्तमेतद्विवेकाख्यं वागीशमधुनोच्यते ॥ ११७ ॥

भागैरेकोनविंशद्भिः क्षेत्रं कृत्वा तु जायते ।
शतत्रये त्वेशकानामेकषष्ट्यधिकं द्विज ॥ ११८ ॥

कमलं पञ्चविंशद्भिः पीठं पङ्क्तित्रयेण तु ।
प्राच्यारभ्योत्तराशान्तं तस्माद्वै सप्तकं क्रमात् ॥ ११९ ॥

एकांशमाद्यपङ्क्तौ तु तथा तत्पञ्च मध्यतः ।
एकांशेन तृतीयेन संयुक्तं चाथ साधयेत् ॥ १२० ॥

ततोऽश्रिनिचयं सर्वं शेषेणांशगणेन तु ।
पद्मक्षेत्रोपगात् कोणात् पूर्वपङ्क्तौ तु पञ्चकम् ॥ १२१ ॥

मर्दयित्वाऽथ भागानां द्विषट्कं द्वितयात्तु वै ।
द्वितयेन भवेद्वीथी 41 द्वारादिद्वितयेन तु ॥ १२२ ॥

ग्रीवांशं तत्र येनैव पञ्चभिश्चोपकण्ठकम् ।
दशांशेन 42 तु कोणानि शेषैश्शोभादयस्तथा ॥ १२३ ॥

ततो रक्तोज्ज्वलेनैव बाह्यं पूर्यं खमण्डलात् ।
अन्तराण्यथ पादानां हेमाभेन प्रपूरयेत् ॥ १२४ ॥

सर्वं मरतकामेन प्रागाद्यं दिक्चतुष्टयम् ।
प्रभान्ताभिज्वलेनैव ? पादशेषं प्रपूरयेत् ॥ १२५ ॥

द्विरेफरूपरागेण गममार्गं तु रञ्जयेत् ।
सितरक्तारुणेनैव हेमहिङ्गुलिकं क्रमात् ॥ १२६ ॥

चतुष्टयं चतुर्द्वारात् 43 पूरणीयं तु पौष्कर ।
इदमुक्तं च वागीशं मानसं कथयामि ते ॥ १२७ ॥

क्षेत्रं द्वादशधा 44 कृत्वा भवेच्छतचतुष्टयम् ।
भागं तत्रैव यन्मध्ये षट्त्रिंशद्भिः कजं लिखेत् ॥ १२८ ॥

बाह्यपङ्क्तित्रयेणाथ तदाधारं तु लोपयेत् 45
द्वौ पद्मक्षेत्रनिकटाद् द्वौ बाह्यं मध्यतश्चतुः ॥ १२९ ॥

दिङ्मध्याद्गात्रकाणां तु लोपयेच्चरणान्वितः ।
भागाष्टादशकेनैव सांशेनात्रावधारय ॥ १३० ॥

गात्रकाभ्यां समीपं तु त्रीण्येकं त्रितयं पुनः ? ।
मीलयेद्बहिरारभ्य सांशषट्कद्वयं तथा ॥ १३१ ॥

बाह्यमध्यस्थपङ्क्तिभ्यां मीलयेदंशकाच्च षट् ।
मार्जयेत् पूर्ववद्वीथीं बाह्यपङ्क्तिद्वयेन तु ॥ १३२ ॥

शेषं स्यात् तत्प्रमाणेन तत्र संवेशनं तु षट् ।
कण्ठोपकण्ठयोर्ब्रह्मन् षट्कषट्कं तथा शृणु ॥ १३३ ॥

शिष्टे शोभाद्वयं कुर्यात् तदेकं चोपशोभनम् ।
मध्यतो द्वारकोणाभ्यां रजसा पूरयेत्ततः ॥ १३४ ॥

पीठादाद्यं तु भूभागं 46 चीनपिष्टनिभेन च ।
गात्राणि च सुपीतेन तासामभ्यन्तरं 47 तु यत् ॥ १३५ ॥

द्वादशांशैकसम्भूतं 48 वैडूर्यसदृशेन तु ।
तदन्तरं षडंशोत्थं पूरयेत् सुसितेन च ॥ १३६ ॥

रक्तारुणेन भ्रमणीं शुक्लेन द्वारसन्ततिम् ।
द्वारोपगानि शोभानि रञ्जयेद्व्योमबाह्यवत् ॥ १३७ ॥

हेमाभेनोपशोभानि शोभान्यन्यानि पौष्कर ।
झषोदरसमानेन शेषं स्यात् पूर्वशोभवत् ॥ १३८ ॥

इत्युक्तं मानसं यागं जयाख्यमपरं शृणु ।
एकविंशतिभिर्भागैः क्षेत्रं कृत्वा तु जायते ॥ १३९ ॥

सार्धं शतं चतुर्णां तु भागानां नवभिर्विना ।
पङ्कजं पञ्चविंशद्भिः पङ्क्त्या पीठं तु तद्बहिः ॥ १४० ॥

चतुर्दिक्षु ततो ब्रह्मंस्त्रीणि त्रीणि तु लोपयेत् ।
भागानि गात्रकाणां तु तथैव हि तदश्रिषु ॥ १४१ ॥

तद्बहिश्चोपपीठं तु कुर्यात् पङ्क्तित्रयेण तु ।
तस्मात् सप्तदशांशानि शोध्यानि प्रतिगात्रकान् ॥ १४२ ॥

प्। २५)

विश्वास-प्रस्तुतिः

तृतीयं मध्यपङ्क्तौ तु सप्तकं सप्तकं पुनः ।
आद्यन्तपङ्क्तिद्वितयाच्चरणान्यधिकल्पयेत् ॥ १४३ ॥

एकैकं मर्दयेत् कोणं 49 ब्रह्मन् भागास्त्रयोदश ।
कृते पादगणे कुर्याद्वीथिकां द्वितयेन तु ॥ १४४ ॥

द्वितीयेनाथ विंशादीन् 50 षट्कं षट्कं तदश्रिषु ।
द्वारं भागाष्टकेनैव शेषैश्शोभादय्ॐशकैः ॥ १४५ ॥

कृत्वैवं रञ्जयेत् पश्चादथ तच्छृणु पौष्कर ।
स्ववृत्तादवसानं 51 यत् तत् कुर्यात् पाण्डरोज्ज्वलम् ॥ १४६ ॥

प्राक्पीठपादसङ्घं तु गोक्षीरधवलोपमम् ।
तस्मान्मरतकाकारं दिङ्मध्यस्थं चतुष्टयम् ॥ १४७ ॥

गात्रकाण्युपपीठस्य तत्समाभेन 52 पूरयेत् ।
भिन्नसत्पद्मरागेण रूपेण चरणात् ततः ॥ १४८ ॥

बाह्यं वैडूर्यवत् पीठात् तद्बाह्यात् कोणसन्ततिम् ।
रुक्माभेन तु सम्पूर्य ततो रक्तारुणेन तु ॥ १४९ ॥

प्रपूर्य चोपशोभानि 53 तन्मध्यानि सितेन तु ।
भग्नगोरोचनाभेन द्वाराणि परिरञ्जयेत् ॥ १५० ॥

इदमुक्तं जयं नाम साम्प्रतं स्वस्तिकं शृणु ।
द्विरेकादशधा क्षेत्रं कृत्वा सञ्जायते द्विज ॥ १५१ ॥

चतुराशीतिभिर्भागैरधिकं तु चतुश्शतम् ।
तत्र मूर्त्यासनं 54 मध्ये षट्त्रिंशद्भिस्तु कोष्ठकैः ॥ १५२ ॥

भागपङ्क्तिचतुष्केण तदाधारं प्रकल्पयेत् ।
ततो गात्रकसिद्ध्यर्थं मध्यतो दिक्षु लोपयेत् ॥ १५३ ॥

चतुरभ्यधिकान् विंशदंशकान् कमलोद्भव ।
पद्मक्षेत्रसमीपात्तु पङ्क्त्या भागं चतुष्टयम् ॥ १५४ ॥

ततो द्वितीयपङ्क्तौ तु द्वितीयं 55 परिशोधयेत् ।
एवमंशकबिम्बं च कृत्वा द्वारोपमं भवेत् ॥ १५५ ॥

तत्र तृतीयपङ्क्तौ 56 तु लोपयेदंशकद्वयम् ।
चतुष्टयं तु तद्बाह्याल्लोपयेत् पुर्वबिम्बवत् ॥ १५६ ॥

द्वावेवैतादृशं कुर्याच्छिष्टेनांशगणेन तु ।
तिर्यग्गतौ 57 गात्रभाजौ द्वारबन्धाकृतिं द्विज ॥ १५७ ॥

ततः पादचतुष्कं तु यथा कुर्यात् तदुच्यते ।
एकैकं षोडशांशेन चरणं गात्रकाकृतिम् ॥ १५८ ॥

किन्तु तद्बिम्बमेकैकं चतुर्भागान्वितं भवेत् ।
द्वौ बिम्बौ द्वारसदृशौ पीठात् प्राग्दिशि संस्थितौ ॥ १५९ ॥

एवमीशानदिक् प्रोक्तं संस्पर्शं तं तु लोपयेत् ।
द्वितीयं हुतभुक्कोणादारभ्य परिमार्जयेत् ॥ १६० ॥

तत्तु पश्चिमदिक्कुर्याद्द्वौ बिम्बौ पादसंश्रिते ? ।
समन्वयात्तु 58 सामीरकोणयोरादितो द्विज ॥ १६१ ॥

द्वे द्वे बिम्बे ह्युदग्याम्ये कुर्यात् त्यक्त्वा परं पदम् ।
ईशानात्त्वग्निवायव्यकोणेषु कमलोद्भव ॥ १६२ ॥

सम्मुखं 59 गात्रकाभ्यां तु द्वितीयं बिम्बकद्वयम् ।
भवत्यनेन विधिना शोधितेनाब्जसम्भव ॥ १६३ ॥

स्वस्तिकाष्टकसंयुक्तं कृत्वैवं कमलासन ।
बाह्ये सञ्चारमार्गं तु बाह्यपङ्क्तिद्वयेन च ॥ १६४ ॥

शेषं पङ्क्तिद्वयेनैव यथा कुर्यात् तदुच्यते ।
कण्ठोपकण्ठसंयुक्तं द्वारं षड्भागनिर्मितम् ॥ १६५ ॥

चतुर्भागयुतं कुर्याच्छोभं 60 द्वारसमीपकम् ।
शोभोपगमुपद्वारम् 61 भागषट्केन 62 पूर्ववत् ॥ १६६ ॥

उपद्वारसमीपे तु भूयश्शोभं तथाविधम् ।
कोणं कुर्यात् षडंशेन लुप्त्वैवं परिपूरयेत् ॥ १६७ ॥

प्। २६)

विश्वास-प्रस्तुतिः

पाण्डुरक्तेन रजसा व्योमाख्यपरिधेः परम् ।
सम्मुखे मध्यसूत्राणां द्वे बिम्बे गात्रकाश्रिते ॥ १६८ ॥

रम्ये मरतकामेन तद्वद्रक्तारुणेन तु ।
तिर्यग्गते तु तद्बिम्बे सर्वगात्रेष्वयं क्रमः 63 ॥ १६९ ॥

चतुर्बिम्बान्वितानां तु चरणानामथ क्षिपेत् ।
तुल्यं चतुर्विधाकारं पाद्भेदेन यथास्थितम् ॥ १७० ॥

ईशकोणगते पादे प्राग्बिम्बे पाण्डुरारुणम् ।
सितं याम्येऽथ राजाश्मसदृशं चैव पश्चिमे ॥ १७१ ॥

हेमाभं चोत्तरे बिम्बे त्वयाग्नेयपदे शृणु ।
पुर्वस्यामरुणं तादृक् पीतं कृष्णं सितं क्रमात् ॥ १७२ ॥

याम्याप्यसौम्यदेशेषु रक्षापादेऽथ वक्ष्यते ।
प्रागादौ चोत्तरान्तं च कृष्णपीतारुणैस्सितैः ॥ १७३ ॥

तद्बिम्बेन यमापूर्यं ? वच्मि पादेऽथ मारुते ।
ऐन्द्रात् कौबेरपर्यन्तं शुक्लकृष्णारुणा परैः ॥ १७४ ॥

रागैर्बिम्बगणं सर्वमेवं पीठं प्रपूर्य च ।
वीथिका षट्पदाभेन द्वारं शुक्लेन पूरयेत् ॥ १७५ ॥

शोभा रक्तारुणेनैव पीतेन तदनन्तरम् ।
कोणोपद्वारमध्यस्थं सोभं श्यामेन रञ्जयेत् ॥ १७६ ॥

निर्धूमाग्निसमानेन कोणं रागेण 64 पूरयेत् ।
स्वस्तिकाख्यमिदं प्रोक्तमनन्तं कथयामि ते ॥ १७७ ॥

त्रयोविंशतिभिर्भागैः क्षेत्रं कृत्वा भवेद्द्विज ।
शतानि पञ्चभागानां विंशद्भिस्तु नवाधिकैः ॥ १७८ ॥

संयुक्ता चांशकैर्मध्ये पञ्चविंशतिभिः कजम् ।
पीठं पङ्क्तित्रयेणैव पङ्क्त्यैका 65 चोपपीठिका ॥ १७९ ॥

सप्तकं चैव भागानां संशोध्यं प्रतिगात्रकान् ।
दिक्षु स्यात् पूर्वपङ्क्तौ तु भागैकं 66 पञ्च मध्यतः ॥ १८० ॥

तद्रूपपङ्क्तावेकांशं ततस्सप्तदशांशकैः ।
एकैकं सधयेत् पादमूपपीठं तथोच्यते ॥ १८१ ॥

पञ्चकं पञ्चकं दिक्षु कोष्ठकानां तु मार्जयेत् ।
विदिक्षु परिसंशोध्य सप्तकं सप्तकं ततः ॥ १८२ ॥

पङ्क्तिद्वयेन भ्रमणीं द्वारादींस्त्रितयेन तु ।
तत्र ग्रीवमथ त्रीणि उपकण्ठात्तु पञ्चकम् ॥ १८३ ॥

आधारमुपकण्ठस्य ससप्तांशेन तद्बहिः ।
शोभं द्वारोपगं कुर्यान्नवभिः कण्ठगैर्द्विज ॥ १८४ ॥

तत्राधारोपगं भागमुपकण्ठोपगास्त्रयः 67
पञ्चांशान्युत्तरात् 68 पङ्क्तौ ग्रीवादेशात्तु मर्दयेत् ॥ १८५ ॥

सप्तविंशत्यथांशानि कोणदेशाद्विशोधयेत् ।
कृत्वैवं रागजालेन पूरणीयं समन्ततः ॥ १८६ ॥

पद्मरागारुणेनैव क्षेत्रं पीठान्तरं स्थितम् ।
जातरूपोज्ज्वलेनाथ पीठपादचतुष्टयम् ॥ १८७ ॥

तुषारसदृशेनैव पूरयेद्गात्रकाण्यतः ।
गात्रकाण्युपपीठस्य राजाश्मसदृशेन तु ॥ १८८ ॥

प्रफुल्लकिंशुकामेन चरणान्यस्य रञ्जयेत् ।
श्वेतेन गममार्गं तु द्वाराणि व्योमबाह्यवत् ॥ १८९ ॥

शरदाकाशसङ्काशमुपशोभोपगं तु तत् ।
पाण्डरारुणरागेण कोणजालं विभूषयेत् ॥ १९० ॥

अनन्तसञ्ज्ञमित्युक्तं नित्याख्यमवधारय ।
कृत्वा द्वादशधा क्षेत्रं द्विधा कृत्वा तु तत्पुनः ॥ १९१ ॥

शतानि पञ्चभागानां षट्सप्तत्यधिकानि तु ।
भवन्ति कमलं कुर्यान्मध्ये षट्त्रिंशकांशकैः ॥ १९२ ॥

पीठं पङ्क्तिचतुष्केण तस्य द्वे द्वे तु मध्यतः ।
दिक्षु चाद्यन्तपङ्क्तिभ्यां तद्वन्मध्याच्चतुश्चतुः ॥ १९३ ॥

पङ्क्तिद्वयात्तु संशोध्यमेवं स्याद्गात्रकं द्विज ।
द्वादशांशकसंयुक्तं ततः पादं तु साधयेत् ॥ १९४ ॥

प्। २७)

विश्वास-प्रस्तुतिः

अष्टाविंशतिभिर्भागैस्सुतनुं सुमनोरमम् ।
पद्मक्षेत्रोपगात् कोणात् पूर्वपङ्क्तौ तु पञ्चकम् ॥ १९५॥

द्विषट्कं मध्यपङ्क्तिभ्यामेकीकृत्य पृथक् ततः ।
संशोध्यैकादशांशानि बाह्यात् पङ्क्तौ क्रमेण वै ॥ १९६ ॥

सम्पाद्य चरणान्येवं वीथीं पङ्क्तिद्वयेन तु ।
तृतीयेनावशिष्टं यत् कार्यं तच्छृणु पौष्कर ॥ १९७ ॥

द्वे चतुष्षट्क्रमेणैव द्वारं 69 कण्ठादितो भजेत् ।
एकांशं त्रीणि पञ्चातो बहिरारभ्य मार्जयेत् ॥ १९८ ॥

शोभस्स्याद् द्वारनिकटे त्वेवं रम्यं ततोऽब्जज ।
चतुर्भागान्वितेनैव कुर्याच्छोभोपशोभके ॥ १९९ ॥

ज्येष्ठशोभासमीपात्तु बाह्यं पङ्क्तिद्वयं तु वै ।
ततस्सप्तदशांशानि प्रतिकोणं तु लोपयेत् ॥ २०० ॥

रजसा पूरयेत् पश्चाद्यथा तच्छृणु पौष्कर ।
तच्छोणितारुणं दद्याद्व्योमबाह्ये रजोत्तमे 70 ॥ २०१ ॥

जात्या हिङ्कुलिमाभेन गात्रकाणि विभूषयेत् ।
सितासितेन पीतेन त्वन्तराद्यं 71 पदन्तिमम् ॥ २०२ ॥

भागात् प्रपूर्य पादानां वीथी रत्नोज्ज्वलेन तु ।
द्वारान्नृपोपलाभेन शोभां पीतेन पूरयेत् ॥ २०३ ॥

तत्पार्श्वोत्थमुपशोभं कुर्यान्मरतकप्रभम् ।
कोणोपगं तु यच्छोभं विद्धि तत् पाण्डरोज्ज्वलम् 72 ॥ २०४ ॥

कोणं सुधासमाभेन रजसा राजते 73 यथा ।
इत्युक्तं नित्यसञ्ज्ञं तु भूतावासमतश्शृणु ॥ २०५ ॥

पञ्चविंशतिभिर्घागैः क्षेत्रं कृत्वा तु जायते ।
षट्शतान्यंशकानां तु पादयुक्तानि मध्यतः ॥ २०६ ॥

एकोनेन शतार्धेन विलिख्य कमलं शुभम् ।
पीठं पङ्क्तिचतुष्केण पादगात्रकभूषितम् ॥ २०७ ॥

चतुर्विंशतिभिर्भागैर्बिम्बैः पञ्चभिरन्वितम् ।
विचित्रगात्रकं कुर्यात् तत्र भागानि लोपयेत् ॥ २०८ ॥

चतुर्थपूर्वपङ्क्तिभ्यामेकैकांशं दिगन्तरे ।
त्रीणि त्रीणि तु भागानि मध्ये पङ्क्तिद्वयाद् 74 द्विज ॥ २०९ ॥

एवमष्टांशजं बिम्बं प्रथमं गात्रकस्य तु ।
चतुरंशकयुक्तानि कुर्यात् 75 तिर्यग्गतानि तु ॥ २१० ॥

चत्वारि यस्य बिम्बानि शोभाकाराणि वै 76 ततः ।
त्रीणि त्रीण्याद्यपङ्क्तौ तु पद्मक्षेत्रस्य बाह्यतः ॥ २११ ॥

द्वितीयपङ्क्तावेकैकमेवं बिम्बद्वयं भवेत् ।
तत्र तृतीयपङ्क्तौ तु एकैकांशं तु लोपयेत् ॥ २१२ ॥

त्रीणि त्रीणि चतुर्थायां मार्जनाद्गात्रकं भवेत् ।
द्वादशेनांशकानां तु पादं पादमतः परम् ॥ २१३ ॥

तत्रैकांशं ततः पञ्च सप्तकं सप्तकं पुनः ।
आरभ्य पूर्वपङ्क्तौ तु मार्जयेद्यावदन्तिमम् ॥ २१४ ॥

सञ्चारपदवीं कुर्याद्भागं पङ्क्तिद्वयेन तु ।
त्रितयं चावशिष्टं 77 यत् तत्र पञ्चदशांशजम् ॥ २१५ ॥

द्वारं कुर्यात्तु वै पूर्वं त्रीणि ग्रीवावधौ मृजेत् ।
उपकण्ठात्तु वै पञ्च द्वाराधारं तु सप्तकम् ॥ २१६ ॥

तत्समीपे ततः कुर्याच्छोभास्थानं तु मार्जयेत् ।
पञ्च त्रीणि तथैकांशं कण्ठदेशादितः क्रमात् ॥ २१७ ॥

एवमेवोपशोभं तु कुर्यात् तद्विपरीतवत् ।
ततः पञ्चदशांशानि शोध्यान्यश्रिस्थितानि च ॥ २१८ ॥

लुप्त्वैवं रञ्जयेद्रागै रमणीयैरथेदृशैः ।
क्षेत्रपीठान्तरस्थं तु कुर्याद्वै पाण्डरोज्ज्वलम् ॥ २१९ ॥

गात्रकाणां सितं कुर्यान्मध्यस्थां बिम्बसन्ततिम् ।
पद्मक्षेत्रसमीपस्थे तद्बिम्बे नृपशैलवत् ॥ २२० ॥

प्। २८)

विश्वास-प्रस्तुतिः

रक्तोज्ज्वलेन रागेण बाह्यबिम्बद्वयं तु तत् ।
हेमाभेनैव पादं 78 तु वीथिकां रञ्जयेत् ततः ॥ २२१ ॥

सर्वं मरतकाभेन द्वाराणि व्योमबाह्यवत् ।
पादवज्जोपसङ्काशं कोणं गात्रकमध्यवत् ॥ २२२ ॥

भिन्नाञ्जनसमप्रख्यमुपशोभगणं च यत् ।
भूतावासमिदं प्रोक्तममोघमधुनोच्यते ॥ २२३ ॥

प्राक् त्रयोदशधा 79 क्षेत्रं कृत्वा तद्विभजेद्द्विधा ।
षट्शतान्यंशकानां तु षट्सप्तत्यधिकानि तु ॥ २२४ ॥

उत्पद्यन्ते ततो मध्याच्चतुष्षष्ट्यंशकैः कजम् ।
पीठपङ्क्तिचतुष्केण चित्रगात्राङ्ध्रिभूषितम् ॥ २२५ ॥

अष्टाविंशतिभिर्भागैराद्यं मध्यं तु गात्रकम् ।
तत्राद्यन्तस्थपङ्क्तिभ्यां द्वौ द्वौ दिङ्मध्यत्ॐशकम् ॥ २२६ ॥

मध्यपङ्क्तिद्वयात्तद्वद् 80 द्विद्विकं द्विद्विकं पुनः ।
एवं द्वादशभागोऽयं मध्ये बिम्बं भवेच्छुभम् ॥ २२७ ॥

तस्य चोभयपार्श्वात्तु पद्मक्षेत्रसमीपतः ।
द्वौ द्वौ भागौ तु संशोध्यौ मध्यपङ्क्तिद्वयाच्च तु ॥ २२८ ॥

द्वौ भागौ बाह्यपङ्क्तौ तु एकीकृत्य तु पौष्कर ।
एकैकमष्टभागे तु एवं बिम्बद्वयं भवेत् ॥ २२९ ॥

विंशत्यंशकजं पश्चात् पादं कुर्याद् द्विबिम्बकम् ।
पद्मक्षेत्रस्य बाह्यात्तु मार्जयेदंशकानि षट् ॥ २३० ॥

पादबिम्बं भवत्येकं तद्बहिस्स्थावरं 81 भवेत् ।
चतुर्दशांशकोद्भूतं वीथीं पङ्क्तिद्वयेन तु ॥ २३१ ॥

कण्ठादीनि ततो बाह्ये कुर्यात् पङ्क्तित्रयेण वै ।
द्वे चतुष्षट् तथांशानि क्रमाद् द्वारं गलादितः ॥ २३२ ॥

कुर्याद्द्वारसमीपेऽथ प्राग्वच्छोभं नवांशकम् ।
उपशोभं तथा कुर्याच्छोभस्य निकटे द्विज ॥ २३३ ॥

तत्ॐशकचतुष्केण सूक्ष्मशोभं प्रकल्पयेत् ।
समीपे ह्युपशोभस्य द्वन्द्वं पङ्क्तिद्वयात्तु वै ॥ २३४ ॥

ततस्त्रयोदशांशेन कोणं कुर्यात्तु पौष्कर ।
आदिमध्यात् षडंशानि बाह्यपङ्क्तौ तु सप्तकम् ॥ २३५ ॥

एकीकृत्य स्वरजसा प्रपूर्य विविधेन तत् ।
कमले भूमिभागे तु प्रदद्यात् पाण्डरोज्ज्वलम् ॥ २३६ ॥

मध्यबिम्बे तु गात्राणां हेमाभं तु रजः क्षिपेत् ।
शेषं गात्रकभागानि नीलनीरजपत्रवत् ॥ २३७ ॥

चरणान्तरसंस्थानि बिम्बानि सुसितेन च ।
रक्तोज्ज्वलेन तद्बाह्यं परितः परिपूरयेत् ॥ २३८ ॥

वीथीं मरतकाभेन द्वारं शुक्लेन पूरयेत् ।
शोभं रक्तोज्ज्वलेनैव हेमाभेनोपशोभकम् ॥ २३९ ॥

सम्पूर्य सूक्ष्मशोभं तु वैडूर्यसदृशेन तु ।
पाण्डरोज्ज्वलरागेण कोणं यत्तदुपस्थितम् ॥ २४० ॥

इदमुक्तममोघं ते सुप्रतिष्ठमतश्शृणु ।
सप्तविंशतिभिर्भागैः क्षेत्रं कृत्वा तु जायते ॥ २४१ ॥

शतसप्तकमंशानां संयुक्तं चैव 82 पौष्कर ।
एकोनत्रिंशदंशैस्तु मध्ये पद्मं प्रकल्पयेत् ॥ २४२ ॥

एकाशीत्यंशकैः पीठं पङ्क्तिद्विद्वितयेन तु ।
द्वात्रिंशदंशकांस्तत्र गात्रकान् परिमार्जयेत् ॥ २४३ ॥

तत्राद्यन्तस्थपङ्क्तिभ्यां त्रीणि त्रीणि दिगन्तरात् ।
तथा च मध्यपङ्क्तिभ्यां भागं भागं तु लोपयेत् ॥ २४४ ॥

बिम्बं स्याद्गात्रकस्यैवमाद्यं चाष्टपदान्वितम् ।
भागे द्वादशकेनाथ द्वे बिम्बे तदुपस्थिते ॥ २४५ ॥

तदर्थमन्तरादिभ्यां द्वौ द्वौ पङ्क्तिद्वयं सृजेत् ।
तत्रैव मध्यपङ्क्तिभ्यामष्टक्रं लोप्य मीलयेत् ॥ २४६ ॥

कृत्वैवं गात्रकं 83 कुर्यात् पादं विंशतिभिः पदैः ।
बिम्बं पादे भवत्याद्यं यथा तदवधारय ॥ २४७ ॥

प्। २९)

विश्वास-प्रस्तुतिः

कोणावधौ कजक्षेत्रात् समारभ्य तु लोपयेत् ।
त्रितयं त्रितयं ब्रह्मन् क्रमात् पङ्क्तित्रयात्तु वै ॥ २४८ ॥

पादबिम्बं भवेदाद्यं नवांशकविनिर्मितम् ।
द्वितीयबिम्बसिद्ध्यर्थं कोणान्येकादशानि 84 तु ॥ २४९ ॥

बाह्यपङ्क्तिद्वयं शोध्य द्वितीयं नवकं क्रमात् ।
पङ्क्तिद्वयेन भ्रमणीं शेषं पङ्क्तित्रयेण तु ॥ २५० ॥

कण्ठादित्रितयं चारात् पञ्चकं सप्तकं पुनः ।
द्वारस्य निकटे प्राग्वच्छोभं कुर्यान्नवांशकम् ॥ २५१ ॥

समीपे त्वथ शोभस्य उपद्वारं प्रकल्पयेत् ।
द्वे चतुष्षट् च भागांस्तु तस्मात् कण्ठादितो मृजेत् ॥ २५२ ॥

पञ्चांशकं ततः कोणात् पङ्क्तौ पङ्क्तौ तु मार्जयेत् ।
कृत्वैवं रञ्जयेत् पश्चाद् रागैरब्जसमुद्भव ॥ २५३ ॥

पद्मपुष्करिणीमध्ये निक्षिपेत् पाण्डरोज्ज्वलम् ।
मध्यबिम्बानि गात्राणां रजसा सुसितेन तु ॥ २५४ ॥

रक्तोज्ज्वलेन 85 शेषाणि तद्बिम्बान्यथ रञ्जयेत् ।
ततो मरतकाभेन बिम्बं पादान्तरस्थितम् ॥ २५५ ॥

तपनीयोज्ज्वलाभेन तद्बाह्यं परिपूरयेत् ।
शरद्गगनसङ्काशं सदृशेनाथ वीथिकाम् ॥ २५६ ॥

द्वारं कुन्देन्दुतुल्येन शोभां चम्पकपुष्पवत् 86
सुसम्पूर्यमुपद्वारं चामीकरनिभेन तु ॥ २५७ ॥

कोणं झषोदराभेन शुक्लपक्षोपमेन च ।
सुप्रतिष्ठमिदं प्रोक्तं बुद्ध्याधारमथोच्यते ॥ २५८ ॥

विभज्य सप्तधा क्षेत्रं तं चतुर्थं विभज्य च ।
शतानि सप्त जायन्ते भागानामधिकेन तु ॥ २५९ ॥

चतुराशीतिभिर्भागैर्मध्यपद्मं 87 शतेन तु ।
बहिः पङ्क्तिचतुष्केण पीठं कुर्यात् सुलक्षणम् ॥ २६० ॥

88 * * * * कं गात्रकं स्यादष्टाविंशतिभिः पदैः ।
बिम्बत्रयान्वितं तस्य 89 मध्यतो दिक्षु लोपयेत् ॥ २६१ ॥

द्वौ द्वावाद्यन्तपङ्क्तिस्थौ मध्यस्थाभ्यां चतुश्चतुः ।
मध्यबिम्बं द्विषट्कोणभागानामेवमुद्धरेत् ॥ २६२ ॥

तस्य पार्श्वद्वये कुर्याद्बिम्बेऽष्टांशकसंयुतम् ।
ताभ्यामाद्यन्तपङ्क्तिभ्यां त्रीणि त्रीणि वोशोधयेत् ॥ २६३ ॥

एकैकमन्तरस्थाभ्यां दत्तं पादं तु तत्समैः ।
शोभा द्वे बिम्बवत् कुर्याद्यथा तदवधारय ॥ २६४ ॥

पद्मक्षेत्राश्रिनिकटादारभ्य परिमार्जयेत् ।
त्रीणि त्रीणि तु भागानि प्रतिपङ्क्तित्रयं 90 द्विज ॥ २६५ ॥

एकीकृत्य नवांशं स्यादेकं प्राक् पदबिम्बकम् 91
एकोनविंशत्यंशानि तद्बाह्यात् परिमार्जयेत् ॥ २६६ ॥

आद्यपङ्क्तौ विना ब्रह्मन् शेषात् पङ्क्तित्रयात्तु वै ।
द्वितीयपादबिम्बार्थं तद्वीथ्यर्थमतः 92 परम् ॥ २६७ ॥

पङ्क्तिद्वयं मार्जनीयं शेषं पङ्क्तित्रयेण तु ।
द्वे चतुष्षट् च भागानि दिक्प्रदेशात् क्रमेण तु ॥ २६८ ॥

शोभोपशोभौ द्वौ कुर्यात् पूर्ववन्नवभागजम् ।
बिम्बपञ्च ? ततः कोणं सप्तविंशपदोत्थितम् ॥ २६९ ॥

कुर्याद्यथा तद्गमतौ 93 ममाप्यग्रेऽवधारय ।
समीपेऽभ्युपशोभाभ्यां द्वौ शोभौ भागवर्जितौ ॥ २७० ॥

सम्मार्ज्योन्मीलयित्वा च बिम्बं तु प्रथमं भवेत् ।
सप्तादशपदाद्भूतं बाह्याद्बिम्बं तु शोभयेत् ॥ २७१ ॥

त्रीणि द्वितीयपङ्क्तौ तु सप्तगं बाह्यपन्क्तिगम् ।
लुप्त्वैवं रागजालेन विभागोत्थेन पूरयेत् ॥ २७२ ॥

कह्लारपरिधेर्बाह्यमादौ रक्तोज्ज्वलेन तु ।
मध्यबिम्बं तु गात्राणां विधेयं पाण्डरोज्ज्वलम् ॥ २७३ ॥

प्। ३०)

विश्वास-प्रस्तुतिः

तद्बिम्बद्वितयं कुर्यात् सितं गोक्षीरपाण्डरम् ।
अन्तरा पादबिम्बं तु कुर्यान्मरतकप्रभम् ॥ २७४ ॥

बहिस्थं जातरूपाभ्यां वीथी 94 राजोपलप्रभा ।
सुधासमानि द्वाराणि शोभानि कजबाह्यवत् ॥ २७५ ॥

पादबाह्यसमानानि तूपशोभानि 95 सत्तम ।
पादाभ्यन्तरतुल्यानि कोणेष्वभ्यन्तराणि च ॥ २७६ ॥

गात्रमध्यसमास्सर्वा बाह्यतो मण्डलाश्रयः ।
बुद्ध्याधारमिदं प्रोक्तं गुणाकरमथोच्यते ॥ २७७ ॥

एकोनेन 96 त्रिदशधा क्षेत्रं कृत्वा तु जायते ।
शताष्टकं तु भागानामेकचत्वारिभिः पदैः ॥ २७८ ॥

त्रिसप्तकाधिकेनैव शतेनैव तु पङ्कजम् ।
पद्मक्षेत्रं समारभ्य द्विद्विपङ्क्तिष्वथासनम् ॥ २७९ ॥

तस्मिन् 97 वै गात्रकं कुर्याच्चत्वारिंशत्पदे स्थितम् ।
पञ्चबिम्बान्वितं रम्यं तदर्धं दिक्षु लोपयेत् ॥ २८० ॥

आद्यन्तपङ्क्तिद्वितयात् कोष्ठकानां त्रयं त्रयम् ।
एकैकं मध्यपङ्क्तिभ्यामेवमष्टपदोत्थितम् ॥ २८१ ॥

गात्रकं मध्यबिम्बं स्यात् शेषाण्यष्टपदान्यपि ।
तत्पार्श्वस्थानि कार्याणि यथा तच्छृणु पौष्कर ॥ २८२ ॥

समीपं मध्यबिम्बस्य आद्यन्ताभ्यां तु मार्जयेत् ।
भागं भागं द्विजश्रेष्ठ त्रीणि त्रीणि तदन्तरात् ॥ २८३ ॥

तस्य बिम्बद्वयस्याथ 98 99 द्वयं भवेत् ।
प्रागुत्तराभ्यां बिम्बाभ्यां निकटात् परिमार्जयेत् ॥ २८४ ॥

द्वौ द्वावाद्यन्तपङ्क्तिभ्यां तद्वन्मध्यस्थितद्वयात् ।
एवं गात्रद्वयं कृत्वा] चरणान्यथ साधयेत् ॥ २८५ ॥

द्विबिम्बद्वादशोत्थं तु द्विबिम्बचरणं द्विज ।
कजक्षेत्राश्रिनिकटात् तदर्थं 100 भागपञ्चकम् ॥ २८६ ॥

पङ्क्तिद्वयात्तु संशोध्यं प्राक् पङ्क्तौ त्रितयं ततः 101
पदद्वयं द्वितीये (स्याद् 102 बिम्बमाद्यं स्फुटं भवेत् ॥ २८७ ॥

ततः पञ्चदशांशानि तद्बाह्यं परिशोधयेत् ।
द्वितीयपङ्क्तावेकांशं तृतीयेंशं तु पञ्चकम् ॥ २८८ ॥

नवांशानि चतुर्थायां वीथीम्) पङ्क्तिद्वये ततः ।
तृतीयेनावशिष्टं यत् तत्र द्वारं गले त्रयम् ॥ २८९ ॥

पञ्चपञ्चोप कण्ठं 103 तु तदाधारात्तु सप्तकम् ।
पूर्वपङ्क्तावुपस्थं च शोभं कुर्यान्नवांशजम् ॥ २९० ॥

तदुपस्थमुपद्वारं तत्र कण्ठपथे 104 द्वयम् ।
चत्वारि चोपकण्ठात्तु षट्कं तद्बाह्यतो मृजेत् ॥ २९१ ॥

द्विदेहाच्च ततोऽश्रिस्स्यात् त्रिसप्तपदनिर्मितम् ।
वीथिकाश्रेस्तु निकटात् षट्कं पङ्क्तिद्वयं मृजेत् ॥ २९२ ॥

पङ्क्तिद्वयं तु तद्बाह्याच्छोध्याच्चाङ्गगणद्वयम् ।
आद्यद्वितीयपङ्क्तिभ्यां द्विद्विकं द्विद्विकं मृजेत् ॥ २९३ ॥

सप्तकं तु तृतीये 105 स्यात् परितः परिमार्ज्य च ।
व्योमबाह्यं तु तस्मिन् स्यात् पाण्डरोज्ज्वलमस्य च ॥ २९४ ॥

पैठीयं मध्यबिम्बं तु कुर्याद्वै भागकावृतम् 106
रवेर्मरतकाभेन तदन्तस्थे तुषारवत् ॥ २९५ ॥

पादाभ्यन्तरबिम्बं यत् तद्वै सूर्यसमप्रभम् ।
रक्तारुणं तु तद्बायं वीथिका व्योमबाह्यवत् ॥ २९६ ॥

प्। ३१)

विश्वास-प्रस्तुतिः

द्वाराणि धवलान्यस्मिन् शोभस्स्याद्बन्धुजीववत् ।
काञ्चनाभमुपद्वारं कृष्णान्यभ्यन्तराणि च ॥ २९७ ॥

बाह्यं मरतकाभेन तेषां वै परिपूरयेत् ।
एतद्गुणाकरं विद्धि ध्रुवाख्यमधुना शृणु ॥ २९८ ॥

द्विपञ्चदशधा क्षेत्रं कृत्वा जातान्यथाब्जज ।
शतानि नवभागानि मध्यतः पुष्करं लिखेत् ॥ २९९ ॥

शतेनैव तु सार्धेन षडूनेन ततो बहिः ।
पीठं पङ्क्तिचतुष्केण ततो द्वौ गात्रगापदैः 107 ॥ ३०० ॥

चत्वारिंशत्तु भागानि चतुरभ्यधिकानि च ।
दीक्षु मध्यमबिम्बार्थं द्विषट्कं परिमार्ज्य च ॥ ३०१ ॥

आद्यपङ्क्तौ चतुष्कं तु अन्त्यपङ्क्तौ तथैव च ।
मध्यपङ्क्तिद्वयाच्चैव द्वितयं द्वितयं पुनः ॥ ३०२ ॥

एकीकृत्य ततोबाह्ये द्वे द्वे बिम्बेऽष्टभागजे ।
प्रागावसानपङ्क्तिभ्यामेकैकं च द्विजांशकम् ॥ ३०३ ॥

त्रिणि त्रीण्यन्तरस्थाभ्यां कृत्वैवं तस्य पार्श्वयोः ।
कार्यं बिम्बद्वयं चास्य प्राक् प्रत्यक्पादयोर्द्विज ॥ ३०४ ॥

मध्यसङ्ख्यैः पदैरेतामेकैकामन्तरा 108 द्वयोः ।
एवं गात्रगणे सिद्धे पञ्चबिम्बान्विते ततः ॥ ३०५ ॥

चतुर्बिम्बजयुक्तानि चरणानि प्रकल्पयेत् ।
एकैकं चरणं कुर्याद्विंशत्यंशकसंवृतम् ॥ ३०६ ॥

ततो व्योमाश्रिनिकटाच्छोधयेद्भागसप्तकम् ।
एकांशमाद्यपङ्क्तौ तु त्रीणि त्रीण्यपरं द्वयात् ॥ ३०७ ॥

कृत्वैवं पादमध्ये तु बिम्बं त्रीण्यथ मे शृणु ।
पार्श्वद्वये तु द्वितयं त्रितयं तदधस्तयोः ॥ ३०८ ॥

द्वितीयपङ्क्तावेकांशं गृहीत्वा द्वितयं पुनः ।
तृतीयपङ्क्तावेकं तु बहिष्ठायां तु रञ्जयेत् ॥ ३०९ ॥

एवं चतुर्विधं 109 विद्धि पक्षबिम्बद्वयं तु तत् ।
पञ्चांशं यत्तयोर्बिम्बं बाह्यपङ्क्त्या तु कल्पयेत् ॥ ३१० ॥

भागं पङ्क्तिद्वयेनाथ वीथीं शेषत्रयेण तु ।
द्विचतुष्षट्पदान्यत्र द्वारं कण्ठादितः क्रमात् ॥ ३११ ॥

शोभोपशोभशोभानि प्राग्वन्नवपदानि च ।
यथैकैका ? 110 दिशं ? भागे भवेच्छोभाचतुष्टयम् ॥ ३१२ ॥

उपशोभद्वयं चैव तथा तत् परिमार्जयेत् ।
द्विबिम्बमथ कोणं च कुर्याच्छोभान्तरस्थितम् ॥ ३१३ ॥

एकांशं पूर्वपङ्क्तौ तु द्वितीये स्याच्चतुष्टयम् ।
अग्रं हित्वा पदेनैव बिम्बं कोणगतं भवेत् ॥ ३१४ ॥

भागपञ्चकसंयुक्तं यथा बाह्यस्थमुच्यते ।
नवांशानि बहिष्ठायां द्वितीयायां तु वै पदम् ॥ ३१५ ॥

एवं दशांशजं कृत्वा रागजालेन पूरयेत् ।
प्रफुल्लरक्तोत्पलवत् कोणं कुर्यात्तु पङ्कजम् ॥ ३१६ ॥

गात्रस्य मध्यबिम्बानि पीतपिष्टप्रभाणि च ।
द्वे बिम्बे तदुपस्थे तु कुर्यान्मरतकोपमे ॥ ३१७ ॥

तस्यामपि च बाह्यस्थे तपनीयोज्ज्वले स्मृते 111
चरणे मध्यबिम्बं यत् तत् कार्यं रजतोज्ज्वलम् ॥ ३१८ ॥

बाह्लीकपुष्पसदृशो (भागा 112 * * क * * मध्यवत् ।
कुर्यान्मरतकाभस्तु स ? समीपगतं च यत् ॥ ३१९ ॥

तस्याभ्युपगतं शोता) * * * * स्य बाह्यगते द्विज ।
दाडिमीपुष्पसदृशं तृतीयं तदुपस्थितम् ॥ ३२० ॥

कुन्देन्दुधवलां वीथीं कुर्याद्द्वाराणि पूरयेत् ।
राजपाषाणतुल्येन शोभां गात्रकमध्यवत् ॥ ३२१ ॥

कुर्यान्मरतकाभं तु तत्समीपगतं च यत् ।
तस्याद्युपगतं शोभं भवेत्तच्चम्पकप्रभम् ॥ ३२२ ॥

प्। ३२)

विश्वास-प्रस्तुतिः

कोणात् सुन्दरगं बिम्बं कार्यं रक्तोज्ज्वलेन तत् ।
इन्द्रनीलनिभेनाथ तद्बाह्यं परिभूषयेत् ॥ ३२३ ॥

ध्रुवाभिधानमित्युक्तं 113 परमानन्दमुच्यते ।
एकत्रिंशत्पदैस्सम्यक् कृत्वा क्षेत्रं 114 हि जायते ॥ ३२४ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां

सर्वतोभद्रादिमण्डललक्षणो नाम

पञ्चमोऽध्यायः ॥ ५ ॥

  1. ख्: कर्ममार्ग ↩︎ ↩︎

  2. सर्वत्र अष्टकं इत्येवास्ति ↩︎ ↩︎

  3. क्, ग्: य ↩︎ ↩︎

  4. क्: निदि ↩︎ ↩︎

  5. क्, घ्: महायागातरुयज्ञम्; ग्: महायागातरुवज्रम् ↩︎ ↩︎

  6. ख्: परमं पदमाप्नुयात् ↩︎ ↩︎

  7. क्, ग्: स च कोणा ↩︎ ↩︎

  8. ख्: दीक्षैरेव ↩︎ ↩︎

  9. ख्: कोष्ठकं द्वार- ↩︎ ↩︎

  10. ख्: स्मृतम् ↩︎ ↩︎

  11. क्: विलेप्य ↩︎ ↩︎

  12. क्: तस्मात् सन्धि ↩︎ ↩︎

  13. क्: षडङ्गकम् ↩︎ ↩︎

  14. क्: राजिते ↩︎ ↩︎

  15. ख्: चतुष्कम् ↩︎ ↩︎

  16. ख्: द्वाराणि द्वित- ↩︎ ↩︎

  17. क्, ग्: -भ्योभयपश्चात्तु ↩︎ ↩︎

  18. ख्: पीठान् ↩︎ ↩︎

  19. ख्: उत्पाद्यन्ते ↩︎ ↩︎

  20. ख्: बाह्यान्तरेण ↩︎ ↩︎

  21. क्, ग्: -कोणं ↩︎ ↩︎

  22. ख्: -दाप्युत्तरे- ↩︎ ↩︎

  23. क्, ग्, घ्: काशासु ↩︎ ↩︎

  24. ख्: -लेन वा ↩︎ ↩︎

  25. ख्: तत्सूत्रेणैव ↩︎ ↩︎

  26. ख्: चाक्र- ↩︎ ↩︎

  27. क्, ग्: पदपीतम् ↩︎ ↩︎

  28. ख्: कर्णम् ↩︎ ↩︎

  29. ख्: द्वारोभयस्य ↩︎ ↩︎

  30. क्, ग्: शोभदये ↩︎ ↩︎

  31. क्, ग्: -भ्रमणम् ↩︎ ↩︎

  32. ख्: -कोष्ठकैः ↩︎ ↩︎

  33. क्, ग्: तदा शृणु ↩︎ ↩︎

  34. ख्: द्वारकर्णं स्याच्चतुर्भिरुपकर्णकम् ↩︎ ↩︎

  35. ख्: कोणाक्षता ↩︎ ↩︎

  36. क्, ख्, ग्: कृत्वा ↩︎ ↩︎

  37. क्, ग्: वच्मि आरोग्यसञ्ज्ञकम् ↩︎ ↩︎

  38. ख्: जायते चाथ ↩︎ ↩︎

  39. ख्: द्वये जातं पञ्चारार्थम् ↩︎ ↩︎

  40. ख्: चाष्टकम् ↩︎ ↩︎

  41. क्, ग्: भवेद्वायु ? ↩︎ ↩︎

  42. ख्: दशकेन तु ↩︎ ↩︎

  43. ख्: च द्वाराद्यम् ↩︎ ↩︎

  44. द्विगुणितदशधा इत्यर्थः ↩︎ ↩︎

  45. ख्: लेपयेत् ↩︎ ↩︎

  46. ख्: भूभागात् ↩︎ ↩︎

  47. ख्, ग्: - ताभ्या ↩︎ ↩︎

  48. ख्: दादशैकांश ↩︎ ↩︎

  49. क्, ग्: कोणान् ↩︎ ↩︎

  50. क्, ग्: विंशाषट् ↩︎ ↩︎

  51. क्, ग्: -त्ताचसपानम् ↩︎ ↩︎

  52. ख्: तत्समाने प्र ↩︎ ↩︎

  53. क्, ग्: वर्णशोभानि ↩︎ ↩︎

  54. ख्: मुख्यासनम् ↩︎ ↩︎

  55. ख्: द्वीतीयाम् ↩︎ ↩︎

  56. ख्: ततस्तृतीय- ↩︎ ↩︎

  57. ख्: तुर्यं गतौ ↩︎ ↩︎

  58. ख्: समं कुर्यात्तु ↩︎ ↩︎

  59. ख्: समं खम् ↩︎ ↩︎

  60. ख्: -च्छोभां द्वार ↩︎ ↩︎

  61. क्: -मुपचारम् ↩︎ ↩︎

  62. ख्: भागं षट्कोण ↩︎ ↩︎

  63. ख्: क्रमात् ↩︎ ↩︎

  64. क्: रागेषु ↩︎ ↩︎

  65. क्, ग्: पक्वैकावोप ↩︎ ↩︎

  66. ख्: भागैकः ↩︎ ↩︎

  67. क्, ग्: -स्त्रियः ↩︎ ↩︎

  68. क्, ग्: पञ्चांशात्युत्तरात् ↩︎ ↩︎

  69. ख्: द्वारात् ↩︎ ↩︎

  70. ख्: रजोत्तमम् ↩︎ ↩︎

  71. त्वन्तराद्यावदन्तिमम् इति स्यात् ↩︎ ↩︎

  72. क्, ग्: पाण्युरोज्वलम् ↩︎ ↩︎

  73. क्, ग्: रञ्जते ↩︎ ↩︎

  74. ख्: -द्वयम् ↩︎ ↩︎

  75. ख्: कुर्यादुपगतानि ↩︎ ↩︎

  76. क्, ग्: सप्तमः ↩︎ ↩︎

  77. क्, ग्: चापि शिष्टम् ↩︎ ↩︎

  78. ख्: तत्पादम् ↩︎ ↩︎

  79. द्विधा त्रयोदशधा षड्विंशतिधेत्यर्थः ↩︎ ↩︎

  80. ख्: द्वयाच्चैतद् ↩︎ ↩︎

  81. ख्, ग्: -हिष्टावरम् ↩︎ ↩︎

  82. क्, ग्, घ्: नैव पौष्कर ↩︎ ↩︎

  83. क्, ग्: भागकम् ↩︎ ↩︎

  84. ख्: कोष्ठान्येका ↩︎ ↩︎

  85. क्: रक्तोज्ज्वलानि ↩︎ ↩︎

  86. ख्: -पुष्पकैः ↩︎ ↩︎

  87. क्: -मध्ये पदम् ↩︎ ↩︎

  88. ख्: तदे * * * कम्; ग्: तद्येकम् ↩︎ ↩︎

  89. ख्: तस्याम् ↩︎ ↩︎

  90. क्, ग्: त्रयाद् ↩︎ ↩︎

  91. ख्: पादबिम्बकम् ↩︎ ↩︎

  92. तद्द्वितीयमतः ↩︎ ↩︎

  93. सर्वत्र तद्गमतौ इत्येवास्ति ↩︎ ↩︎

  94. क्: विधि ↩︎ ↩︎

  95. क्, ग्: त्रयशोभानि ↩︎ ↩︎

  96. ख्: एकोनांशेन ↩︎ ↩︎

  97. क्, ग्: तस्मिन् ये ↩︎ ↩︎

  98. ख्: बिम्बद्वयम् स्यात्तु ↩︎ ↩︎

  99. बहिरन्यद् [ख्: ( ) कोष्टकान्तर्गतं गलितम् ↩︎ ↩︎

  100. ख्: तदर्धं पादपङ्कजम् ↩︎ ↩︎

  101. क्: त्वतः ↩︎ ↩︎

  102. क्, ग्, घ्: ( ) कुण्डलितं गलितम् ↩︎ ↩︎

  103. ख्: कण्ठात्तु ↩︎ ↩︎

  104. ख्: कण्ठोपधौ ↩︎ ↩︎

  105. ख्: तृतीयम् ↩︎ ↩︎

  106. क्, ग्: भागकव्रतम् ↩︎ ↩︎

  107. क्, ग्: गात्रकापदैः ↩︎ ↩︎

  108. क्, ग्: पदै ह्येता ↩︎ ↩︎

  109. क्, ग्: चतुर्भिस्संसिद्धम् ↩︎ ↩︎

  110. ख्: यथैकैकम् ↩︎ ↩︎

  111. क्, ग्, घ्: स्मिते ↩︎ ↩︎

  112. ख्: ( ) अन्तर्गतं गलितम् ↩︎ ↩︎

  113. क्, ग्, घ्: धूपाभिधान ↩︎ ↩︎

  114. क्, ग्, घ्: क्षेत्रं हि * * * ↩︎ ↩︎