अथ चतुर्थोऽध्यायः
पौष्कर उवाच
विश्वास-प्रस्तुतिः
यदर्थमेव देवेश चतुरश्रं त्वयोदितम् 1 ।
तदादिश प्रमाणेन यागानां मन्दिरादिकम् ॥ १ ॥
मूलम्

श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
सुप्रणीतं प्रमाणं च ज्ञात्वा वै माण्डलीयकम् ।
अपणीतप्रमाणा वा मानमाहृत्य मण्डलात् ॥ २ ॥

ततश्चास्त्रायते 2 मानमस्य भूतेस्तथैव च ।
अभूय ? बलिभूमानां भ्रामणीमानमेव च ॥ ३ ॥

ज्ञात्वा समाहरेत् पश्चात् प्राकारं मण्डलं तु वा ॥
पौष्कर उवाच
विश्वास-प्रस्तुतिः
प्रणीता मानसामान्या मानानां वा जगद्गुरो ।
यागानां विस्तरं ब्रूहि अस्त्रादेर्भूमिविस्तृताम् ॥ ४ ॥
मूलम्
प्रणीता मानसामान्या मानानां वा जगद्गुरो ।
यागानां विस्तरं ब्रूहि अस्त्रादेर्भूमिविस्तृताम् ॥ ४ ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
जालान्तरगते सूर्ये भाति 3 रेणुगणश्च यः ।
स एष परमाणुस्स्यादष्टाभिस्तैरणुस्स्मृतः ॥ ५ ॥

अणुभिः कमलोद्भूत तैस्तु लिक्षाऽष्टभिर्भवेत् ।
ताभिर्लिक्षाष्टकैर्यूकां विद्धि यूकाष्टकं यवम् ॥ ६ ॥

अष्टभिस्तु प्रमाणोत्थैरङ्गुलं च यवोदरैः ।
गोलकं हि कलश्चैव 4 नाम स्याद्द्व्यङ्गुलस्य च ॥ ७ ॥

षट्कलं च 5 स्मृतं तालमध्वनीनवकर्मणि ।
चतुर्विंशतिभिर्ब्रह्मन् हस्तस्तैरङ्गुलैर्भवेत् ॥ ८ ॥

तेनैव हस्तमानेन गुरुशिष्योत्थितेन च ।
मण्डलादौ तु सर्वत्र निदध्या 6 * * * * कल्पना ॥ ९ ॥

भिन्नप्रमाणयागानामस्त्र भूमैकजोत्त 7 * * * * ।
आद्यद्वादशभिर्मानमङ्गुलैः परिकीर्तितम् ॥ १० ॥

प्। ११)
विश्वास-प्रस्तुतिः
द्वितीयमष्टादशभिश्चतुर्विंशतिभिः 8 परम् ।
अङ्गुलात्वेपनत्वान्या ? 9 त्र्यङ्गुलाच्चतुरङ्गुलाः ॥ ११ ॥

षोडशाङ्गलमानेन * * ** क्षाधिका 10 सताम् ।
सार्धहस्ता द्विहस्ताश्च तदा सार्धद्विहस्तकाः ॥ १२ ॥

वीथिका स्वल्पविस्तारा यागानां समुदाहृता ।
अधमं मध्यमं हस्तौ 11 यागानां सा त्रिहस्तका ॥ १३ ॥

अधिका सार्धहस्तेन वीधी 12 शुभतरा मता ।
कार्या विस्तीर्णमानानां यागानां भिन्नरूपिणाम् ॥ १४ ॥

गमनेमिचतुर्हस्ता षड्गोलकयुताऽथवा 13 ।
युगाख्यस्य च 14 चक्रस्य अन्तेग्रद्विसमा ? स्मृता ॥ १५ ॥
विश्वास-प्रस्तुतिः
स्वैव सांवत्सरी यस्य द्वादशाङ्गुलकैर्विना ।
बलिपुष्पा * * * * 15 भूस्ताभ्यां विविक्तां परिकल्पयेत् ॥ १६ ॥

अस्त्राति * * * * 16 यं प्रणीतमया च ते ? ।
भूभागे सम्मितं कुर्यात् सर्वेषां च पृथक् पृथक् ॥ १७ ॥

वितानानां च यागानां स * * * * र्धसमं 17 भवेत् ।
कुर्याच्च भूमिविस्तारमस्त्राद्युक्तं भ्रमान्तिकम् ॥ १८ ॥

हस्तादिपञ्चहस्तान्तं यागमानं च सङ्गतम् ।
ऊनाधिकं च षड्ढस्तान्मा(न)मस्य 18 प्रजायते ॥ १९ ॥

यावद्द्वादशहस्तं स्यात् किञ्चिद्धीनं तु वाऽधिकम् 19 ।
मध्यमं विद्धि 20 तन्मानं ततोर्ध्वं तु स्मृतं महत् ॥ २० ॥

प्रमाणमेवमादौ तु चिन्तयित्वा प्रयत्नतः ।
यागवेश्म * * * * कुर्यात्तस्य तु लक्षणम् ॥ २१ ॥

स्वल्पमण्डलगेहानां हस्तेनैकेन कल्पयेत् ।
वैपुल्यं 21 विप्र भित्तीनामथवार्धाधिकेन तु ॥ २२ ॥

द्विहस्तं मध्यमानां तु भित्ति 22 * * * * ।
विस्तीर्णा यागवेश्मानां भित्तिविस्तारमब्जज ॥ २३ ॥

कुर्याद्द्धस्तचतुष्केण पञ्चकेनाथवेच्छया ।
षट्सप्ताष्टसमोच्छ्राया महीयं सङ्गवेषु च ॥ २४ ॥

नवहस्ता द्विजश्रेष्ठ दशैका दशधोच्छ्रिता 23 ।
भक्तिसङ्घं 24 तु सम्पाद्य मध्यमानं तु सर्वदा ॥ २५ ॥

करद्वादशदीर्घं च तथैवैकाधिकं तु तत् ।
चतुर्दशोच्छ्रितं वाऽपि विततानां प्रकल्पयेत् ॥ २६ ॥

अस्य न्यूनाति वा हि स्यान्माण्डलीयस्य सर्वदा ।
त्रिविधं भित्तिमानं तु मध्याह्ने तद्व्यपेक्षया 25 ॥ २७ ॥

कल्पनीयं * * * * माया सङ्ख्यया कमलोद्भव ।
उत्तरोत्तरया चैव वैपुल्येन 26 सहैव हि ॥ २८ ॥

काष्ठपक्वेष्टकामिश्रं सुधालेपाय सात्विकम् ।
यागमण्डपनिर्माणं प्रशस्तं सर्वसिद्धिदम् ॥ २९ ॥

यथाकालं यथादेशं कुर्याद्वित्तानुरूपतः ।
स्वल्पानां यागवेश्मानां द्वारमेकं प्रकल्पयेत् ॥ ३० ॥

मध्यतः पूर्वदिग्भागे पश्चिमे ह्येवमेव च ।
दिगन्तरपरित्यागात् 27 कृतद्वारमसिद्धिदम् ॥ ३१ ॥

प्। १२)
विश्वास-प्रस्तुतिः
तस्माद्दिक्षु प्रयत्नेन मध्यतो विनिवेशयेत् ।
मध्यप्रमाणगेहानां द्वे द्वारे पूर्वपश्चिमे ॥ ३२ ॥

अतिविस्तीर्णमानानां प्रकाराणां प्रकल्पयेत् ।
दिक्षु द्वारचतुष्कं तु प्राकाराणां तथैव हि ॥ ३३ ॥

अस्त्रत्रयेण न्यूनानां कुर्यात् सार्धेन चोच्छ्रितम् ।
स्वविस्ताराच्च मध्यानां चतुर्थांशेन कल्पितम् ॥ ३४ ॥

अन्येषां पश्चिमांशेन द्वारोच्छ्रायं प्रकल्पयेत् ।
त्रिभागेनाथ वद्येन ? सोच्छ्रायाद्धि 28 विविक्तता ॥ ३५ ॥

द्वारीयशाखायुग्मस्य उदुम्बरयुगस्य च ।
उच्छ्रायात् पश्चिमांशेन न्यूनानां विस्तृतिर्भवेत् ॥ ३६ ॥

चतुर्थांशेन मध्यानामथोर्ध्वानां त्रिभागतः ।
विस्तरार्थेन बाहुल्यं शङ्क्वादींस्तान् 29 समाचरेत् ॥ ३७ ॥

पञ्चसप्तक्रमाच्छाखानवकेनान्वितं तु तत् ।
द्वारे द्वारे तु शाखाभ्यां चतुर्थांशे व्यवस्थिते ॥ ३८ ॥

द्वस्थि द्वितिस्थितिं 30 कुर्यात् स्वदिग्भागक्रमेण तु ।
वज्रनाभं हरीशं च पूर्वस्यां दक्षिणोत्तरे ॥ ३९ ॥

शङ्खचक्रधरं चैव वज्रवेत्रलताधरम् ।
निषेधाभिनयोपेतं श्रोणीतटकरार्पितम् ॥ ४० ॥

हव्यस्वरूपसदृशं नेत्रवृन्दं यदेव हि ।
क्रूरं दृगद्भुतोपेतं 31 वज्रनाभं प्रकल्पयेत् ॥ ४१ ॥

एवमेव हरीशं च निषेधाभिनयोज्झितम् ।
प्रवेशाभिनयाख्येन पाणिना किन्तु चिह्नितम् ॥ ४२ ॥

एको ह्यत्र निषेधं च त्वभक्तानां करोति वै ।
भक्तानामपरश्चैव प्रवेशं सम्प्रयच्छति ॥ ४३ ॥

द्वारे द्वारे प्रतीहारद्वयस्यैवं प्रयोजनम् ।
धर्माध्यक्षो नियन्ता च 32 ** * ॥ ४४ ॥

बाणकार्मुकमेकस्मिन् दक्षिने दक्षिणोत्तरम् ।
कुर्यादन्तकसादृश्यौ पूर्ववद्भुजभूषितौ ॥ ४५ ॥

किन्तु दण्डगदाहस्तौ वज्रचक्रविवर्जितौ ।
शुद्वाक्षममृतानन्दं प्रतीच्यां दक्षिणादितः ॥ ४६ ॥

बाणकार्मुकमेकस्मिन् 33 पाणौ पाशं तथाऽपरे ।
अन्यत् करचतुष्कं यदव्यग्रं पूर्ववद्भवेत् ॥ ४७ ॥

आकृतौ जलनाथस्य सदृशौ सर्वदैव हि ।
वसुनाथं सुधानन्दमुदग्दिग्दक्षिणोत्तरे ॥ ४८ ॥

खड्गमुद्गरहस्तौ च प्राग्वच्छेषं चतुष्टयम् ।
कराणामनयोः कार्यं रूपेणोडुपतेस्समौ 34 ॥ ४९ ॥

ततस्सारसकह्लारसचक्रं कम्बुपालिभिः ? ।
विश्वास-प्रस्तुतिः
स्वस्ति राम 35 रक्षीश * * * * यमुनान्वितम् ।
पूर्णकुम्भश्रियोपेतं नागेन्द्रैस्सारसान्वितैः ॥ ५१ ॥

भूषयेद्द्वारशाखाभ्यामूर्ध्व्ॐ दुम्बरकं 36 द्विज ।
व्यालसिंहगजाश्वाद्यैरुदुम्बरमतस्तितम् ? ॥ ५२ ॥

पूर्वणीयं ? न पूर्वोक्तैर्युक्तं कुर्यात् कदाचन ।
त्रिभागेनोन्नतद्वार उच्छ्रायार्धेन सस्त्रयम् ? ॥ ५३ ॥

शाखाद्यैर्द्वारवत्युक्तं गवाक्षगणमीदृशम् ।
दिक्कलीकं ? समापाद्य 37 द्विचतुष्षट्कसङ्ख्यया ॥ ५४ ॥

प्। १३)
विश्वास-प्रस्तुतिः
द्वाराणां सगवाक्षाणां कपोतौ सुमनोहरौ ।
विचित्रचित्रौ पङ्क्तौ च निश्रमौ 38 वा प्रकल्पयेत् ॥ ५५ ॥

दार्वायसाङ्गगोपेतरवद्वारादिकं द्विज ।
भित्तिबन्धं विनिश्चित्य विचिन्वीयात् क्रमेण तु ॥ ५६ ॥

स्तम्भविन्यासमुधुना मण्डपानां निबोध तु ।
यागागारगणस्वल्पं यत्तत् 39 स्तम्भविवर्जितम् ॥ ५७ ॥

शेषस्तम्भयुतं कुर्याद्यथा तत् कथयामि ते ।
बलिभूमिसमीपानां यागभूमेस्समन्ततः ॥ ५८ ॥

त्यक्त्वा भूमणिभूभागात् स्तम्भविन्यासमुच्यते ।
प्राच्यादिदिक्चतुष्कं 40 तु मध्यसूत्रेण पौष्कर ॥ ५९ ॥

समीक्षयित्वा तान् सर्वांस्तत्र स्तम्भावलिं न्यसेत् ।
पूजार्थमुपविस्टस्य स्तम्भेन स्याद्यथाक्रमम् ॥ ६० ॥

स्तम्भानामन्तरं चैव सन्ततस्सङ्ख्यया यजेत् ।
चतुष्कमष्टकं चैव चतुष्कं च द्विरष्टकम् ॥ ६१ ॥

त्रिरष्टकं च स्तम्भानामथवा चतुरष्टकम् ।
तत् सार्धं द्विगुणं वाऽथ ज्ञात्वा मण्डपविस्तृतम् ॥ ६२ ॥

स्तम्भानि 41 च सुवृत्तानि अष्टाश्राण्यथवा द्विज ।
द्विषट्कषोडशाश्राणि नानाकर्मयुतानि च ॥ ६३ ॥

शिष्टानामर्ध विस्तारात् 42 तच्छ्रियं वाऽथवा द्विज ।
स्थूलान्यथ यथालाभं तथा रव्ययपेक्षया ? ॥ ६४ ॥

अथ भित्तिसमाविष्ट आसनादिविभूषितम् ।
चतुरभ्यधिकं चैव स्तम्भेभ्यः कन्यकागणम् ॥ ६५ ॥

नियोनियम ? सर्वत्र नियमोऽयं न पौष्कर ।
यत्र स्तम्भो नरजितास्तत्र स्तम्भसमन्वितम् ॥ ६६ ॥

चतुरश्रचतुष्षष्टिसङ्ख्यास्तम्भाविव 43 * * * * ।
अन्यपूर्णानि धामानि चतुष्कं कन्यका न्यसेत् ॥ ६७ ॥

स्तम्भानां रचनाद्यानां स्तम्भाव्यास ? महामते ।
द्व्यर्धभागप्रमाणेन तासां विस्तारमाचरेत् ॥ ६८ ॥

त्रिभागेन स्वविस्तारं तद्बाहुल्यं तु पद्मज ।
एवमादीनि सङ्घेन युग्मास्स्तम्भगणाः 44 पुरा ॥ ६९ ॥

कृत्वा तदूर्ध्वगं पश्चात् समारोप्यस्तुलागणः ।
ऊर्ध्वं तच्छादनार्थं तु यथा तद्गदतश्शृणु ॥ ७० ॥

भित्तिबन्धं पुरा कृत्वा युक्तितः कन्यकागणम् ।
बन्धैः कार्ष्णायसाद्यैस्तु 45 यथाऽदौ लयमग्रजम् ॥ ७१ ॥

शक्यन्ते हारमु 46 * * * * न यात्युन्मूलता यथा ।
त्रिचतुःपञ्चहस्ताद्वा प्रमाणं चतुरङ्कणम् ॥ ७२ ॥

स्तम्भानामग्रतस्तार्क्ष्यो यागभूमेर्द्विजो 47 ध्वजः ।
सन्धार्य बलवंशैस्तु सुस्पष्टैस्सुदृढैस्ततः ॥ ७३ ॥

स्तम्भकन्याशिरोबन्धं कृत्वा यत्नेन वेतुला ? ।
पुरा मूलं न्यसेद्भित्ति नो * * *र्गतम् 48 ॥ ७४ ॥

वेधयित्वा ततो मूलं तस्मिन् काष्ठे भुजं न्यसेत् ।
भित्तिजं लम्बमानस्य स्थूलतुर्याश्रलक्षणम् ॥ ७५ ॥

दृढकाष्ठसमुद्भूतैस्सस्थूलैर्बहुभिस्तथा ।
स्तम्भानां कन्यकानां च तुल्यानां तु तथा द्विज ॥ ७६ ॥

बन्धश्च सदृशं दद्यात् पात्रैश्चायसनिर्मितैः ।
शङ्कुभिश्शृङ्खलाद्यैश्च बहुभिस्स्याद्यथाऽचलम् ॥ ७७ ॥

तुलामूलप्रदेशेऽथ भिन्नादुपरि पौष्कर ।
इष्टकाभिस्सुधालेपैः कुर्याच्छीर्षगणं 49 महत् ॥ ७८ ॥

प्। १४)
विश्वास-प्रस्तुतिः
अथ चन्द्रसमाकारमथवाऽङ्कल सारवत् ? 50 ।
क्रममाणविलाकाशं ? तदूर्ध्वे खं विराङ्गणम् ॥ ७९ ॥

त्रिमण्याख्यं 51 कृतं मार्गं भित्तेस्स्तम्भावसातनम् ।
तुलानामूर्ध्वगं सर्वं भित्तिभूमिं समापयेत् ॥ ८० ॥

सह मृत्काष्ठवर्गैस्तु चूर्णेन क्षीयते न तु ।
तुलाशयस्यैवमेवं स्थितिं कृत्वा च वर्ष्मतः 52 ॥ ८१ ॥

कुर्यात्तदग्रतो भूयस्स्थितिं चावलसिद्धयेत् ? ।
स्तम्भप्रदेशकण्ठानां 53 रोप्यो बहुगुणो दृढम् ॥ ८२ ॥

निर्गतं च तुलान्तं यत् तच्छिरोपरि विन्यसेत् ।
तुलया सह तद्बाहुं प्रायश्शस्त्रेण बन्धयेत् ॥ ८३ ॥

किन्नरोरगगन्धर्वयक्षविद्याधरैस्सह ।
क्रीडमानास्स्वकान्ताभिस्ते च कार्यास्तुलाधराः ॥ ८४ ॥

ततस्तुलानामग्ने तु सुलग्नां स्तम्भसन्ततिम् ।
किञ्चित् समुच्छ्रितं दत्त्वा परितः पद्मसम्भव ॥ ८५ ॥

शङ्को 54 * * * * * * * * छादनस्य स्थितस्य च ।
स्तम्भानामूर्ध्वगं दद्यान्नियुतं तु तुलागणम् ॥ ८६ ॥

तत्तुलामूर्ध्वगं दद्याद्बाहुं कुब्जप्रसारितम् ।
सुगन्धभावसेनैव विश्रान्तं प्राक् तुलोपरि ॥ ८७ ॥

तस्यापि पूर्ववद्दद्याद्बन्धं 55 च तुलया सह ।
उपबाहुद्वयेनापि तिर्यग्युक्तेन सार्यताम् 56 ॥ ८८ ॥

प्राक् पूर्वं च तुलाग्रस्थं दद्यादग्रभुजं पुनः ।
पश्चादुपतुलानां तु अग्रतो वंशसन्तति ॥ ८९ ॥

रोप्यं सङ्कोपयेदग्रमप्रसुप्तमिवाम्बुजम् ।
तिर्यक् प्रसारितैर्वंशैर्लघुभिर्लघुभिः क्रमात् ॥ ९० ॥

प्रपूर्यमन्तिकं तं तु छादनीयं च तत्ततः ।
तनुभिर्लघुभिश्चैव काष्ठगैश्च गणैर्दृढैः ॥ ९१ ॥

वर्गै 57 रूर्णामयैर्वाऽथ कोय ? सन्धरणक्षमैः ।
भित्तौ भित्तौ चतुस्त्रैर्वा प्रलयानि च योज्य च ॥ ९२ ॥

मध्ये मस्तकचन्द्राणां चन्दनाप्रच्युतस्य च ।
कदाचित् तस्य मेघोत्थं मेघस्य वाहनाय 58 च ॥ ९३ ॥

पादापृष्ठयुते देशे * * * * काले ह्युपार्जिते ।
क्षिप्रकर्मप्रसिद्ध्यर्थं शरकाष्ठमयं शुभम् ॥ ९४ ॥

गवाक्षकान्वितं चैव द्वारैस्तु परिभूषितैः ।
छन्नं वितानकेनोर्ध्वे प्राकारं परिकल्पयेत् ॥ ९५ ॥

रजोनिर्मुक्तयागानां दिक् 59 * * * * बलिरिवतात्मनाम् ।
गैरिकाकुङ्कुमाद्यैश्च स्त्रीणां नानाविशेषतः ॥ ९६ ॥

दीर्घकालीयकानां तु कुर्यात् पक्वेष्टकादिकैः ।
प्राकारं गोपनार्थं तु प्रोन्नतं सुदृढं महत् ॥ ९७ ॥

चतुरश्रं सुवृत्तं 60 च त्रिकोणं वा मनोहरम् ।
सदृशं पूज्ययागस्य तज्ज्ञानकलितं 61 दृढम् ॥ ९८ ॥
विश्वास-प्रस्तुतिः
कृत्वैवं मण्डपं युक्त्या तन्मध्ये तु प्रकल्पयेत् ।
दृढां समां तदाकारामीषत् प्रागुत्तरप्लवाम् ॥ ९९ ॥

प्रोच्छ्रितां च विशेषेण स्थलां दर्पणसन्निभाम् ।
सामान्या न 62 भवेद्येन मेदिनी मण्डपस्य तु ॥ १०० ॥

तत्तु पूजोत्सुकामानां ? कुर्यादीनां ? तु पौष्कर ।
विविक्तेनाङ्गुलानां तु प्रोन्नतेर्यावदष्टकम् ॥ १०१ ॥

एकवृद्ध्याल्पवेश्मानां नित्यं कुर्यात् स्थलागणम् ।
नवाङ्गुलोन्नतेस्तद्वद्यावत् पञ्चदशाङ्गुलम् ॥ १०२ ॥

प्। १५)
विश्वास-प्रस्तुतिः
प्रोन्नतत्वं स्थलानां च मध्यमेषु गृहेषु च ।
चतुर्विंशत्यङ्गुलान्तमुच्छ्रायं षोडशाङ्गुलम् (लात्) ॥ १०३ ॥

प्राग्वच्च वृद्ध्या कर्तव्यं ज्येष्ठाकारं गणस्य च ।
एतदुच्छ्रायमानं तु कथितं ते स्थलासु च ॥ १०४ ॥

पादमर्धं तु हस्तं वा विस्तारात् सर्वदिक्षु वै ।
स्थलानामिष्टकाद्यैश्च चिन्वीयात् प्रथमं ततः ॥ १०५ ॥

मृदा सम्पूर्य तन्मध्यमीषद्वालुकयाऽन्वितम् ।
परीक्ष्य केशकीटादीनारोग्यं तदनन्तरम् ॥ १०६ ॥

यावद्भवति पूर्वोक्तं लक्षणं वा विशेषतः ।
स्थलां मध्योदितां रम्या सप्तमाहं 63 परीक्ष्य च ॥ १०७ ॥

न ददाति यथा भेदं यागयोग्या भवेत्ततः ।
प्रतिष्ठाप्य ततो ब्रह्मन् वेदिकातोरणान्वितम् ॥ १०८ ॥

बहिश्चतुष्किकाश्राणां समीपे न तु दूरतः ।
चतुष्पादसमायुक्तमनेकाङ्ध्रियुता यदि ॥ १०९ ॥

चतुर्देशाच्चतुर्दिक्षु सुसमेष्वन्तरेषु च ।
कुर्याद्वै पादविन्यासं वेदैर्वेदविदां वर ॥ ११० ॥

चतुर्द्वादशपादा सा विंशत्यङ्घ्रिसमन्विता ।
अष्टाष्टाधिकवृद्ध्या वा संयुगापादसन्तते ॥ १११ ॥

क्षमाविस्तारजेनैव भिन्नैराधेयविंशकैः ।
तस्मिन् यागगृहे दत्ता पुरा स्तम्भावली शुभा ॥ ११२ ॥

चत्वारि तोरणान्यस्मिंश्चतुर्दिक्षु नियोज्य च ।
त्रीणि त्रीण्यथवा सम्यगेकैकस्यां न्यसेद्दिशि ॥ ११३ ॥

बुद्ध्वा मण्डपविस्तारपञ्चकं सप्तकं तु वा ।
वेश्मनि स्तम्भहीने तु वेदिकातोरणैस्सह ॥ ११४ ॥

कार्या लक्षणसंयुक्ता यादृक् तदवधारय ।
पूर्वं सामान्यमानेन सविशेषेण वै ततः ॥ ११५ ॥

पावनैर्यज्ञकाष्ठैश्च सुदृढैस्सरलैस्समैः ।
तुलायामोच्छ्रितैर्दण्डैस्स्वस्वरांशविवर्धितैः ॥ ११६ ॥

वेदवेदविदां श्रेष्ठ प्रोच्छ्रायेण भवेच्छुभः ।
तेनैवायामयोगेन कुर्यात् पादाधिकेन च ॥ ११७ ॥

तोरणानां समुच्छ्रायं तत्त्रिभागेन विस्तृतिः ।
तद्दण्डनिचयं सर्वमूर्ध्वदण्डगणं विना ॥ ११८ ॥

त्रिधा कृत्वा समैर्भागैरूर्ध्वगा वर्तुला भवेत् ।
तदधस्तद्द्वितीयं यत् तदष्टाश्रं समापयेत् ॥ ११९ ॥

चतुरश्रं तृतीयं तु भागात्तत्तदधस्स्थितम् 64 ।
सर्वाण्याधेयदण्डानि सर्वतो वर्तुलानि च ॥ १२० ॥

चतुरश्राणि वा कुर्यान्नानाकर्मयुतानि च ।
सपुष्पमञ्जरीपत्रविहगैरन्वितानि च ॥ १२१ ॥

त्रिचतुःपञ्चषट्सप्तस्थौल्यादष्टाङ्गुलानि च ।
अष्टमाशायोधिकस्तु वेदैस्तन्निरवनेत् क्षितौ ॥ १२२ ॥

तत्समं तोरणं चान्यन्न्यस्येद्भूमौ द्विजांशकम् ।
इति सामान्यमानेन युक्तमुक्तं च लक्षणम् ॥ १२३ ॥

वेदश्चरणदण्डानां तद्विशेषान् 65 शृणुष्व भोः ।
हरेरूर्ध्वात् षडंशं तु 66 त्यक्त्वा पञ्चांशसम्मितम् ॥ १२४ ॥

एतद्द्वादशमांशेन तोरणं मानमब्जज ।
सममध्यत्रिभागं च सर्वदण्डेषु भूगतम् ॥ १२५ ॥

मुख्योन्नतेभ्यस्सारेभ्यः प्राकारेष्वथ वेश्मवत् ।
मन्दिरे स्तम्भसंयुक्ते तोरणोच्छ्रायमब्जज ॥ १२६ ॥

स्तम्भायामसमं कुर्यात्तद्दण्डौ 67 विन्यसेत् क्षितौ ।
स्तम्भमस्तकमानेन साधिकेन तदेव हि ॥ १२७ ॥

स्तम्भपादोन्नतस्थेन 68 प्रमाणेन प्रकल्प्य च ।
वैपुल्यं तोरणानां च स्तम्भाभ्यन्तरगास्थितम् ॥ १२८ ॥

तद्देवेन्द्रस्वरूपेण कार्या वेदविदांवर ।
चक्रद्वितयमध्यस्थं पक्षमण्डलमण्डितम् 69 ॥ १२९ ॥

प्। १६)
विश्वास-प्रस्तुतिः
तोरणे तोरणे कुर्याद्गरुडं चोर्ध्वसंस्थितम् ।
तूपेरश्रमपारं 70 * * * सचित्रं चित्रयेत् ततः ॥ १३० ॥

मुनिसिद्धामरप्राप्तैरनेकाद्भुतदर्शिभिः 71 ।
दिशापालवनोद्यानैर्बहुभिर्मृगयूथपैः 72 ॥ १३१ ॥
विश्वास-प्रस्तुतिः
तद्यागवेश्म सकलं रञ्जनीयं प्रयत्नतः ।
कुर्यात् सुधाविलिप्तं वा भूषयेत्तदनन्तरम् ॥ १३२ ॥

दर्पणैश्चामरैर्वस्त्रैर्दुकूलैर्विविधोज्ज्वलैः ।
घण्टाभिरर्धचन्द्राद्यैरातपत्रैर्मनोरमैः ॥ १३३ ॥

विचित्रेण वितानेन सुसितेनोज्ज्वलेन वा ।
कर्णिकाजालयुक्तेन वेदेरूर्ध्वं तु भूषयेत् ॥ १३४ ॥

प्रागुत्तरात्तु दिग्भागाद्यावत्कोणं तु मारुतम् ।
सितादिवर्णभेदोत्थाः पताकास्तत्र योजयेत् ॥ १३५ ॥

एवं रागविभागेन प्रत्यग्भागाच्च वै पुनः ।
दक्षिणाशाविधिर्यावद्द्वितीयं च चतुष्टयम् ॥ १३६ ॥

एकेन सर्वाणि च 73 * * * * उभौ कुर्याद्वितानके ।
तोरणं यो वितानं च समानं विनिवेशनम् ॥ १३७ ॥

ध्वजाष्टकं समारोप्य यथा तदवधारय ।
वह्निकोणात् समारभ्य यावत्कोणं तु शाङ्करम् ॥ १३८ ॥

सितारुणे च पीतं च कृष्णं कुर्याच्चतुष्टयम् ।
भूयश्चोत्तरदिग्भागा यावद्दिक्पश्चिमं द्विज ॥ १३९ ॥

तथाविधाश्चतुष्कं तु 74 ध्वजानां परिकीर्तितम् ।
राजपाषाणवर्णाभं चक्रपक्षीश्वरोपगम् ॥ १४० ॥

वैजयन्तीत्रयं कुर्यात् तोरणे पूर्वदिक्स्थिते ।
दक्षिणे स्फटिकाभं तु प्रत्यक् सिन्दूरवर्चसम् ॥ १४१ ॥

हेमाभं चोतरे कुर्यात् तोरणे ध्वजकत्रयम् ।
चतुष्केण पताकानां युक्तं श्वेतादिकेन तु ॥ १४२ ॥

एकैकं तोरणं यत्र त्रितयं पञ्चकं तु वा ।
अर्धेन तोरणायामात् पताकानां च दीर्घता 75 ॥ १४३ ॥

विस्तारं सार्धभागेन 76 तासां कुर्यात्तु सर्वदा ।
ध्वजानां तु समुच्छ्रायं पूर्वोक्तमथवाऽब्जज ॥ १४४ ॥

तोरणार्धसमं कुर्यात् त्र्यंशेन स्वैव 77 विस्तृतिः ।
ध्वजास्त्रवाहनोपेता भागेष्वनुचरैर्विना 78 ॥ १४५ ॥

कार्या दिग्देवतास्सर्वा यथाध्य 79 * * * * विनिर्मिता ।
एवमेव प्रकारेण द्वारेषु सुसमेषु च ॥ १४६ ॥

चण्डाद्यं च सुभद्रान्तं बहिरङ्गगणाष्टकम् ।
कुमुदाद्यन्तरङ्गं 80 च भूतानामष्टकं परम् ॥ १४७ ॥

तोरणं तुर्यभागेन दैर्घ्यं तेषामुदाहृतम् ।
दैर्घ्यं चतुर्थभागेन विस्तारस्य * * * * 81 ॥ १४८ ॥

शतधामनिभं ध्यायेच्चतुर्बाहुं पुरन्दरम् ।
विश्वास-प्रस्तुतिः
अजारूढं स्मरेद्रक्तं 82 शक्तिपाणिं हुताशनम् ।
सहस्रार्चिर्भिराकीर्णं सहस्रादित्यभास्वरम् ॥ १५० ॥

महामहिषसंस्थं तमञ्जनाद्रिसमप्रभम् ।
सुभीमं दण्डहस्तं तु स्मरेद्देवमपीश्वरम् ॥ १५१ ॥

दंष्ट्राकरालवदनं कृष्णमेघसमप्रभम् ।
घोरं प्रेतासनं ध्यायेत् खड्गधृग्राक्षसेश्वरम् ॥ १५२ ॥

मुक्ताफलद्युतिसमं हिमपाशकरोद्यतम् ।
नागकन्यासहस्राढ्यं मकरस्थमपाम्पतिम् ॥ १५३ ॥

प्। १७)
विश्वास-प्रस्तुतिः
नीलतोयदसङ्काशं महाध्वज पदाङ्कितम् 83 ।
ध्यायेत् समीरणं देवं संस्थितं हरिणोपरि ॥ १५४ ॥

सोमं तारागणोपेतं शङ्खगोक्षीरपाण्डरम् ।
बृहच्छशकपृष्ठस्थं शशिं रात्रिकरं स्मरेत् ॥ १५५ ॥

सितभूतिविलिप्ताङ्गं त्रिनेत्रं वृषवाहनम् ।
त्रिशूलायुधहस्तं च ईशानं ज्ञानिनं स्मरेत् ॥ १५६ ॥

पातालदिग्गतं ध्यायेत् कूर्मारूढं 84 हलायुधम् ।
सितं सहस्रफणभृद्योऽनन्तो 85 नाम नागराट् ॥ १५७ ॥

भूचक्रं 86 भ्राम्यमाणं तु दण्डहस्तं प्रजापतिम् ।
हंसारूढं स्वसंस्थं 87 च ध्यायेद् ध्रुवमजं विभुम् ॥ १५८ ॥

एते चतुर्भुजास्सर्वे अक्षसूत्रविभूषिताः ।
चिन्तयन्तः परं तत्त्वं वराभयकरास्सदा 88 ॥ १५९ ॥

दिव्याभरण दिग्धाङ्गा 89 दिव्यमाल्याम्बरान्विताः ।
दिव्यरूपधराश्चैव दिव्यगन्धवहा द्विज ॥ १६० ॥

एभ्यश्चतुर्भुजो ब्रह्मन् विज्ञातो वृषभध्वजः ।
द्विभुजास्त्रकराश्चान्ये वरदाभयदास्तु वा ॥ १६१ ॥

इति लोकेश्वरेषूक्ता ? चण्डादीनामथोच्यते ।
बहिरङ्गगणानां च ध्यानं सम्यक् 90 क्रमेण तु ॥ १६२ ॥

तरुणादित्यसङ्काशो महोरस्कश्चतुर्भुजः ।
उन्नतश्चोन्नतांसश्च पूर्णाङ्गो नातिमांसलः ॥ १६३ ॥

घनोदरो निम्ननाभो रोमराजिविराजितः ।
दंष्ट्राकरालवदनः पिङ्गलस्मश्रुंलोचनः ॥ १६४ ॥

मधुपिङ्गलनेत्रश्च कुटिलभ्रूलतायुतः ।
प्रलम्बलोलश्रवणः पृथुघ्राणस्स्मिताननः ॥ १६५ ॥

कुण्डलालङ्कृतश्चैव हारकेयूरभूषितः ।
बद्धोष्णीषललाटश्च नीलकेशाभ्यलङ्कृतः ॥ १६६ ॥

शुक्लाम्बरधरस्स्रग्वी भुजयुग्मेऽस्य दक्षिणे ।
प्रोद्यतं 91 संस्मरेच्चक्रं प्रज्वलन्तीं गदां परे ॥ १६७ ॥

श्रोणीतटनिषण्णां च विश्रान्तां वसुधातले ।
पूर्वे वामकरे शङ्खमन्यस्मिंश्चाक्षसूत्रकम् ॥ १६८ ॥

एवं गणाधिपश्चण्डो विक्रमेणापराजितः ।
क्रुद्धो विघ्नायुतानां च क्रमात् संहररणक्षमः ॥ १६९ ॥

आवाह्य मन्त्रनाथस्य तोरणे पुरतस्स्थिते ।
विनिवेश्य यथा तत्र दक्षिणेन विभोर्भवेत् ॥ १७० ॥

स्याद्गुरोर्यजमानस्य वामभागे सदैव हि ।
तत्रैवापरभागे तु प्रचण्डं 92 त्वीदृशं न्यसेत् ॥ १७१ ॥

किन्तु सव्यापसव्याभ्यां भुजाभ्यां स्याद्विपर्ययः ।
भुजद्वयेन चण्डस्य वामे सम्परिकीर्तितम् ॥ १७२ ॥

दक्षिणे तत्प्रचण्डस्य ध्येयं वा परिकल्प्य च ।
पद्मगर्भप्रतीकाशौ तादृशौ भीमविक्रमौ ॥ १७३ ॥

रक्ताम्बरधरौ चैव रक्तस्रगनुलेपनौ ।
गणौ धातृविधातारौ देवौ दक्षिणतस्स्थितौ ॥ १७४ ॥

अतसीकुसुमश्यामौ पीतमाल्याम्बरान्वितौ ।
पीतोष्णीषधरौ 93 रौद्रौ प्राग्वद्भुजविभूषितौ ॥ १७५ ॥

गणौ चण्डाकृतिधरौ दुर्दर्शौ दुरतिक्रमौ ।
जयं च विजयं नाम्ना प्रत्यग्भागे तथा न्यसेत् ॥ १७६ ॥

क्षीरकुन्दावदातौ च नीलकौशेयवाससौ ।
नीलनीरदवर्णाभैः पुष्पैर्भूषितविग्रहौ ॥ १७७ ॥

पूर्वोक्तगणसादृश्यौ नाम्ना भद्रसुभद्रकौ ।
न्यसेत्तोरणदण्डाभ्यां मन्त्रमूर्ते रुदग्दिशम् 94 ॥ १७८ ॥

प्। १८)
विश्वास-प्रस्तुतिः
एते गणेश्वरा ह्यष्टौ प्रभापुष्पाम्बरैर्विना ।
देहवक्त्राकृतेस्तुल्यौ तथैवाभरणायुधैः ॥ १७९ ॥

भक्तानां विघ्नजालस्य सर्वदिक्संस्थितस्य च ।
संसारफलदातुर्वै छेदनार्थं समुद्यतौ ॥ १८० ॥

परस्परमुखास्सर्वे स्थानकैस्संस्थितास्समैः ।
गणेशायुतलक्षैस्तु नानावर्णवपुर्धरैः ॥ १८१ ॥

अच्युताराधनपरैरेकैकं परिवारिताः ।
अथाग्रे लोकनाथस्य पूज्यौ द्वौ गणनायकौ ॥ १८२ ॥

कुमुदः कुमुदाक्षश्च प्रसन्नवदनेक्षणौ ।
तुहिनाचलसङ्काशौ प्रथमे वयसि स्थितौ ॥ १८३ ॥

नानाभरणदिग्धाङ्गौ नानाकुण्डलभूषितौ ।
नानामाल्यान्वितौ चैव नानामौलिधरौ द्विज ॥ १८४ ॥

नानागन्धविलिप्ताङ्गौ नानावस्त्रविभूषितौ ।
कुमुदाख्यगणेशस्य ध्यातव्यो 95 दक्षिणः करः ॥ १८५ ॥

चन्द्ररश्मिप्रतीकाशचामरेण विराजितः ।
अभिगच्छाभयं ध्यायेद् द्वितीयं दक्षिणं 96 करम् ॥ १८६ ॥

भवभङ्गात् प्रपन्नानां परेषां गुणशासने ।
तस्यैवाद्यं वामकरं प्रबुद्धकमलोद्यतम् ॥ १८७ ॥

तूष्णीं 97 भीसूचकं ध्यायेद्बहिस्स्थानां 98 करं परम् ।
एते द्वे कुमुदाक्षस्य वैपरीत्येन भावयेत् ॥ १८८ ॥

द्वाभ्यां द्वाभ्यां कराभ्यां तु अन्येषामेवमेव हि ।
पुण्डरीको वामनश्च द्वावेतौ हुतभुक्प्रभौ ॥ १८९ ॥

गरुडध्वजहस्तौ च शेषमन्यत् पुरोदितम् ।
कृत्वा ध्यात्वाऽथवा न्यस्य दक्षिणे भगवद्गृहे ॥ १९० ॥

शङ्कुकर्णाभिधानो यस्सर्वनेत्रश्च पौष्कर ।
द्वावेतौ चम्पकाभौ तु मायूरव्यजनोद्यतौ ॥ १९१ ॥

महाविभूतेर्देवस्य प्रत्यग्वायुदिगास्थितौ ।
सुमुखस्सुप्रतिष्ठश्च वामभागगतौ विभोः ॥ १९२ ॥

चिन्त्यौ मुद्गफलश्यामावातपत्रकरोद्यतौ ।
नोक्तं शेषकराणां यत् तद्विद्धि कुमुदोद्यतम् ॥ १९३ ॥

एते भगवतो विप्र त्वन्तरङ्गा मयोदिताः ।
कर्मणा मनसा वाचा तद्भावगतमानसाः ॥ १९४ ॥
मूलम्
एते भगवतो विप्र त्वन्तरङ्गा मयोदिताः ।
कर्मणा मनसा वाचा तद्भावगतमानसाः ॥ १९४ ॥
विश्वास-प्रस्तुतिः
ज्ञानादिषङ्गुणोपेतैराकीर्णाः कोटिशः परैः ।
भूतैस्सिद्धैरनन्तैश्च प्रार्थयानैः परं पदम् ॥ १९५ ॥

एवं कृते ततः पश्चाद्वेदिकातोरणैस्सह ।
विलिप्य 99 चन्दनाद्यैश्च गन्धैर्वर्णोज्ज्वलैः क्रमात् ॥ १९६ ॥

चन्दनेन समालभ्य सेलेनोत्तरदिग्गतम् 100 ।
क्षीरेण चन्दनेनैव कुङ्कुमेन कृतां 101 स्थलीम् ॥ १९७ ॥

रजनीचूर्णयुक्तेन ह्रीबेरेणाम्बुना सह ।
पुण्याहमोषधिभ्यां तद्द्वाराणां मण्डपावनिम् ॥ १९८ ॥

ततस्तु विविधैर्धूपैर्बहुभिर्धूपयेद् द्विज ।
वैराजभुवनाकारं श्वेतद्वीपोपमं तु वा ॥ १९९ ॥

कॢप्त्वैवं मन्त्रमूर्तेस्तु यजनोद्यानमुत्तमम् ।
भक्तानामधिवासार्थमभिषेकावसानिकम् ॥ २०० ॥

शास्त्रोक्तभोगमोक्षान्तं 102 तत्र सर्वं समापयेत् ।
युक्तमेकप्रवेशेन यागाग्रस्थदिशं विना ॥ २०१ ॥

दिक्त्रयेऽभिमतायां वा कुर्याद्धवनमण्डपम् 103 ।
धूमनिर्गमनोपेतं नानाकुण्डविभूषितम् ॥ २०२ ॥

साज्यैश्च सपलाशैश्च संयुक्तं तोरणादिकैः ।
त्रिविधं कृतकौशेयं मेखलादाममण्डितम् ॥ २०३ ॥

अभग्नमूलप्रान्तैर्हि दर्भाभिः ? 104 कमलोद्भव ।
वेदितोरणदण्डानि सर्वाणि परिवेष्ट्य च ॥ २०४ ॥

प्। १९)
विश्वास-प्रस्तुतिः
भौमस्थानं 105 यथाभागं दर्भैर्बहुशिरोरुहैः ।
विधून्वन्तमिवात्मानं सारङ्गेण समन्ततः ॥ २०५ ॥

मृदा गोमयमिश्राया ? मुपलिप्य यथाविधि ।
गुग्गुलैराज्ययुक्तैश्च धूपयेच्च हुनेत्ततः ॥ २०६ ॥

ततस्सांसारिकानर्थान् सर्वान् भक्तजनस्य च ।
मन्त्रात्मा सुप्रसन्नस्तु निर्दहत्यग्निमध्यतः 106 ॥ २०७ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां
यागमण्डपलक्षणो नाम
चतुर्थोऽध्यायः ॥ ४ ॥