अथ तृतीयोऽध्यायः
पौष्कर उवाच
विश्वास-प्रस्तुतिः
दिक्सिद्धिलक्षणं नाम कथयस्व यथास्थिति ।
हितार्थं सर्वलोकानां ममापि च विशेषतः ॥ १ ॥
मूलम्

श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
एकस्मिन् द्विज भूभागे श्लक्षणे पूर्वोत्तरप्लवे ।
पूर्वापरं परिज्ञेयं प्रसिद्ध्या लक्षणेन वा ॥ २ ॥

प्। ६)
विश्वास-प्रस्तुतिः
देवालयमहास्तम्भरथ्यासंस्थासु भित्तिषु ।
सकाशात् साधनीयं यत् प्रसिद्धं पूर्वजं तु वा ॥ ३ ॥

सूर्यशङ्कुसमायोगाद्यत्नतः 1 पूर्वपश्चिमम् ।
विज्ञेयं लक्षणार्थं तु मध्यं वै सर्वसाधनम् ॥ ४ ॥

तच्च ते प्रकटं वच्मि 2 यत्र यत्र स्थितो यथा 3 ।
निरावरणभूभागे कुर्याद्यागगृहादिकम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
हेमादिधातुजां कुर्याच्छलाकां चतुरङ्गुलाम् ।
यावद्द्वादशमानोत्थामुभयोर्नहुषाननाम् ॥ ६ ॥

त्यक्त्वा यद्वाऽथ मानं तु त्रिभागं वा तदन्ततः ।
वेधयामुषलाकारं 4 कुर्यादेकत्र चोभयोः 5 ॥ ७ ॥
विश्वास-प्रस्तुतिः
सीतानीतदृढं 6 सूत्रं कोणमाद्यन्तयोजयेत् ? ।
ज्ञात्वा तु विघनं व्योम शङ्कुर्वैषुवतेऽहनि ॥ ८ ॥

कनिष्ठाङ्गुलवद्वृत्तं प्रशस्तं दृढदारुजम् ।
सुतीक्ष्णधातुजं वाऽथ षोडशाङ्गुलमुछ्रितम् ॥ ९ ॥

द्वादशाङ्गुलमाभूमावारोप्य द्वादशोर्ध्वगम् ।
सशलाकं तु तत् सूत्रं शङ्कुमूलावधौ 7 न्यसेत् ॥ १० ॥

मेखलाबन्धयुक्त्या वै लल्लग्नं 8 भाति पौष्कर ।
ततस्तत्तानयेत् ? सूत्रं समार्धं तु समं तु वा ॥ ११ ॥

भूमिं शलाकया कुर्यात् तेन सूत्रेण सर्वदिक् ।
समं समेन हस्तेन सूक्ष्मं साकेतलक्षणम् ॥ १२ ॥

तां च वै शाङ्कवीं छायां 9 तद्वृत्तपरिधौ द्विज ।
लक्षयेत् प्रविशन्तीं च यत्र तत्राङ्कमुल्लिखेत् ॥ १३ ॥

पश्चिमे द्विज दिग्भागे प्राग्भागे त्वेवमेव 10 हि ।
तद्बाह्यक्रममाणान्तं त्वेवं वृद्धिं यदा व्रजेत् ॥ १४ ॥

यस्मिन् देशे दिवारात्रं नित्यमेव समं द्विज ।
तस्मात् पूर्वापरं तत्र न चान्यत्र तु तद्भवेत् ॥ १५ ॥

समं यत्र दिवारात्रमेकस्मिन् वैपुवे दिने ।
तत्रानेन विशेषेण ज्ञातव्यं पूर्वपश्चिमम् ॥ १६ ॥

रवेविषुवती 11 काष्ठा दक्षिणादुत्तरं गता ।
तस्यां पूर्वापरौ भागौ विज्ञेयौ छायया द्विज ॥ १७ ॥

तथा पश्चिमभागस्थं देशं प्राग्भागगं तु वा ।
तस्यामभ्यन्तरस्थं वा लक्षणीयं प्रयत्नतः ॥ १८ ॥

तद्वाशां 12 पूर्वदिग्भागं भगयं ? तु विशङ्कया ।
स्वे स्वे देशे प्रथारूपं तथा देशान्तरेषु च ॥ १९ ॥

उन्नतेष्वथ निम्नेषु मध्यादूरस्थितेषु च ।
ज्ञापकं दिनरारिभ्यां षष्ठमंशं प्रकल्प्य च ॥ २० ॥

कयत्रमपि ? संवादि तत्प्रभाते नियोजयेत् ।
एकस्मिन् त्रपसङ्काले ? 13 काले तु विघनाम्बरे ॥ २१ ॥

नाशिध्येया 14 प्रणीता च मध्याह्नाद्यदि जायते ।
पूर्वापराभ्यां सन्धिस्थं तं देशं विद्धि सर्वदा ॥ २२ ॥

अर्धं पूर्णे तु मध्याह्ने यदि तादृग्विधाय वै ।
तथाविधा च दृश्यन्ते शाङ्कवी 15 * * * * ॥ २३ ॥

पूर्वभागाधिके देशं विधेयं तेन गृह्यते ॥ २४ ॥
विश्वास-प्रस्तुतिः
मेषे माध्याह्निकी छाया विज्ञेयाऽष्टाङ्गुला तथा ।
संयुक्ता द्य्वङ्गुला षड्भिर्वृषे पञ्चाङ्गुला भवेत् ॥ २५ ॥

प्। ७)
विश्वास-प्रस्तुतिः
चतुर्भिरङ्गुलैरूना मिथुने त्र्यङ्गुला भवेत् ।
दशैकद्व्यङ्गुलैर्भूयाद्द्व्यङ्गुली कर्कटे * * * * 16 ॥ २६ ॥

सिंहे मिथुनवद्विद्धि कन्यायां वृषवद्भवेत् ।
तुले तु मेषसदृशी वृश्चिके द्वादशाङ्गुला ॥ २७ ॥

अष्टाविंशतिभिर्युक्तद्व्यङ्गुलैर्धनुषि शृणु ।
अष्टादशाङ्गुला विप्र द्व्यङ्गुलैर्दशभिर्विना ॥ २८ ॥

त्रिंशद्भिर्द्व्यङ्गुलैरूना विंशत्यङ्गुलका झषे ।
कुम्भे कार्मुकतुल्या स्यान्मीने स्याद्वृश्चिके यथा ॥ २९ ॥

शङ्कोर्द्वादशभागं यद्विज्ञातव्यं तदङ्गुलम् ।
तस्य यत् षष्ठमं भागं बोद्धव्यं द्व्यं"गुलं तु तत् ॥ ३० ॥

एवं भूमण्डले ह्यस्मिन् ह्यादावेव 17 द्विजोत्तम् ।
मध्यमं पश्चिमं पूर्वं ज्ञात्वा देशं यथास्थितम् ॥ ३१ ॥

स्वस्वदेशे यथा पश्चात् प्राग्दिग्भागे तु लक्षयेत् ।
शङ्कुं च पूर्ववत् कृत्वा तद्वदुल्लिख्य मण्डलम् ॥ ३२ ॥

प्रत्यग्भागं तथेशाख्यं 18 वृत्तक्षेत्रं तु पौष्कर
तस्यैव मध्यदेशं तु मध्याह्नच्छायया द्विज ॥ ३३ ॥

सञ्चिन्त्य पूर्ववत् प्राचीं ततस्सूत्रं प्रसार्य च ।
पूर्वापराभ्यां सूत्राभ्यां कृत्वा कमलसम्भव ॥ ३४ ॥

त्यक्त्वा तत्सूत्रनिकटाद्दिग्द्वयात् पूर्वपश्चिमात् ।
मानं मध्यन्दिनच्छाया दिव्यं चेत् दिक्समाश्रयम् ॥ ३५ ॥

व्यक्तमङ्कद्वयं कुर्यात् तद्वृत्तोपगमान्तरे ।
ततः कमलसम्भूत पुरादीनां च साधयेत् ॥ ३६ ॥

पूर्वपश्चिम मध्यस्थं 19 नानाव्यङ्गमवक्षिपेत् ।
सूत्रं पूर्वापराभ्यां तु देशान्तरवशे सति ॥ ३७ ॥

संसाध्यं तेन सूत्रेण पश्चाद्वै दक्षिणोत्तरम् ।
प्राग्दत्तं वृत्तमध्ये यत् तत् सूत्रं परिमार्ज्य च ॥ ३८ ॥

यद्यपि स्यात् तदाकारं तत्सूत्रं च तथा बहिः ।
तस्य देशस्य तत्पूर्वं तत्सूत्र 20 * * * * * ॥ ३९ ॥

सूर्योदयदिने वृत्तं तत्तन्मध्य मवेक्षया 21 ।
क्षिप्तेनैव तु कालेन ज्ञातुमिच्छति वा यदि ॥ ४० ॥

यथावत् पूर्वदिग्भागमसन्दिग्धतयाऽपि वा ।
अनेन विधिना नूनं सदेवाम्बुरुहासन ॥ ४१ ॥
मूलम्
यथावत् पूर्वदिग्भागमसन्दिग्धतयाऽपि वा ।
अनेन विधिना नूनं सदेवाम्बुरुहासन ॥ ४१ ॥
विश्वास-प्रस्तुतिः
सुसूक्ष्मे बहुभिर्व्यक्तैर्लेखैश्चैव निरन्तरे ।
प्राक्प्रमाणेन सम्पूर्य क्ष्मातलं बाह्यतः क्रमात् ॥ ४२ ॥

यावच्च 22 क्ष्मावसानं च तथा छाया निरीक्षयेत् ।
प्रविशन्ति च 23 लेखानामुद्दिश्येव यथा ततः ॥ ४३ ॥

तत् स्थानं चिह्नयेद्व्यक्तं विथीनामुत्तरां दिशम् ।
समुत्पाट्य ततश्शङ्कु न चलत्यवनी यथा ॥ ४५ ।

ततश्शङ्कूकृताङ्कस्य उदग्दिक्संस्थितस्य च ।
शङ्कुमूलस्थितस्यापि चिह्नस्य कमलोद्भव ॥ ४६ ॥

दीर्घं 26 प्रसार्य वै सूत्रं सुधालिप्तं तु चोपरि ।
दक्षिणोत्तरसद्मा ? तु तस्मात् पूर्वापरं तु वा ॥ ४७ ॥

परिज्ञेयः प्रयततः प्रासादादिषु साधने ।
प्। ८)
पौष्कर उवाच
विश्वास-प्रस्तुतिः
ज्ञातुमिच्छाम्यहं नाथ यदेतत् कथितं त्वया ।
पूर्वापरादुदग्याम्यं तस्मात् पूर्वापरं तु वा ॥ ४८ ॥
मूलम्
ज्ञातुमिच्छाम्यहं नाथ यदेतत् कथितं त्वया ।
पूर्वापरादुदग्याम्यं तस्मात् पूर्वापरं तु वा ॥ ४८ ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
शङ्कुसूत्रं द्विधा भङ्क्त्वा मध्ये विघ्नं भवेत् स्फुटम् ।
कृत्वा सूत्रं तु तत्रैव निरुद्यन्नैकवर्णिना ॥ ४९ ॥

तेनेच्छादन ? सूत्रेण द्वीतीयेन करेण तु ।
तच्चक्रकृद्भ्रमं सूत्रं चिह्नयेद्दिग्द्वयाद्द्विज ॥ ५० ॥

ताभ्यामन्तस्तु दीर्घेण तयोस्संस्थेन तन्तुना ।
पाणिद्वयेन चैकैकं लाञ्छयेद्दक्षिणोत्तरम् ॥ ५१ ॥

यथा वज्राग्रवद्विप्र भवेद्भूयुगलाकृति ॥ ५२ ॥
विश्वास-प्रस्तुतिः
तन्मध्यपतितं सूत्रं क्षेप्तव्यं रुचितं 27 यतम् ।
जायते मध्यमात्रं तु दिक्चतुष्कस्य पौष्कर ॥ ५३ ॥

मानेनाभिमतेनाथ चतुरश्रं तु साधयेत् ।
वेश्ममण्डलपद्मादि साधके 28 जनकं तु यत् ॥ ५४ ॥

मध्यस्थितेन सूत्रेण दिक्सूत्रेणाङ्कयेत् पुनः ।
ततो 29 दिक्सङ्ख्यचिह्नानां सूत्रमानं निधाय तु 30 ॥ ५५ ॥

दिक्षु चैवान्तरालानि लाञ्छ्य पूर्वोक्तलाञ्छनैः ।
ततस्सूत्रचतुष्कं तु चिह्नाचिह्नगतं क्षिपेत् ॥ ५६ ॥

चतुरश्रं भवेत् क्षेत्रं सन्दिग्धस्य महामुने ।
सूत्रापर परागेव 31 स्विष्टिनिर्माणसिद्धये ॥ ५७ ॥

पूजनीयश्च विधिवत् पुरुषो वाऽथ संस्थितः ।
छायोत्थो यः पुनर्विप्र विश्वरूपस्य वै विभोः ॥ ५८ ॥

सर्वदिक्षु समैर्भागैर्नवधा संविभज्य च ।
सूत्रैस्सुधावलिप्तैश्च यागागारवसुन्धराम् ॥ ५९ ॥

एकाशीतिपदोपेतां कृत्वैवं तां प्रयत्नतः ।
प्रत्येकस्मि 32 * * कुर्यात् तत्तुर्यांशेन चाम्बुजम् ॥ ६० ॥

दलाष्टकयुगं चैव कर्णिकाकेसरान्वितम् ।
अग्नीशरक्षोवायव्यबहिः कोणपदेषु च ॥ ६१ ॥
मूलम्
दलाष्टकयुगं चैव कर्णिकाकेसरान्वितम् ।
अग्नीशरक्षोवायव्यबहिः कोणपदेषु च ॥ ६१ ॥
विश्वास-प्रस्तुतिः
चतुष्टयं यत् पद्मानां केवलं तच्चतुर्दलम् ।
ईशानपदपद्मात्तु समारभ्य प्रपूजयेत् ॥ ६२ ॥

बाह्यपङ्क्तिषु पद्मेषु क्रमाद्देवान् सुरानृषीन् ।
वृषाङ्कपदपद्मे तु ब्रह्माणं कर्णिकान्तरे ॥ ६३ ॥

ईश्वरं तपनं चैव दितिं चैव तथाऽदितिम् ।
पूर्वपत्रं समारभ्य विन्यसेद्यावदुत्तरम् ॥ ६४ ॥

एवं तस्मिन् पदाब्जे तु पूजयित्वा तु पञ्चकम् ।
यष्टव्यं च ततस्सम्यग्विबुधानां च सप्तकम् ॥ ६५ ॥

क्रमात् सप्तपदस्थानां पद्मानां कर्णिकोपरि ।
विश्वास-प्रस्तुतिः
रविस्सत्यात्मदेवौ च ततो वह्निपदाम्बुजे ।
भूयः पितामहं मध्ये पूर्वपत्रे न्यसेद्भृशम् ॥ ६७ ॥

गगनं हि विभुं पूंषा दक्षिणे पश्चिमोत्तरे ।
इष्ट्वैवं कोणपद्मेषु पत्रस्थं च चतुष्टयम् ॥ ६८ ॥

यजेद्राक्षसकोणान्तमम्बुजेष्वथ सप्तकम् ।
सवितारव्यं च सावित्रं स्वस्त्ययं 33 च ग्रहक्षमम् ॥ ६९ ॥

विवस्वान् धर्मदेवस्तु गन्धर्वाधिपतिस्स्मृतः ।
पद्मे नैर्-ऋतकोणस्थे भूयो ब्रह्माणमन्तरे ॥ ७० ॥

प्। ९)
विश्वास-प्रस्तुतिः
भृङ्गाख्यो भृङ्गराट् चैव ततः पितृगणाधिपः ।
देवौ द्वापरिकाख्याश्च ? 34 प्राक्पत्राष्टचतुष्टयम् 35 ॥ ७१ ॥

ततोऽष्टपद्मपत्रेषु 36 देवतासप्तकं क्रमात् ।
कर्णिकान्तर्गतं न्यस्य यावद्वायुपदावधि ॥ ७२ ॥

इन्द्रश्चेन्द्रपदारव्यश्च सुग्रीवं 37 कुसुमद्विज ।
मित्राख्यो वरुणश्चैव त्वं सुराधिपतिः पुनः ॥ ७३ ॥

वायव्यपदपद्मे तु मध्ये चैव प्रजापतिम् ।
प्राक्पूर्वादिषु पद्मेषु 38 शेषश्चाधर्म एव च ॥ ७४ ॥

यन्मयाधिपतिश्चैव ? नागेन्द्रस्तदनन्तरम् ।
सप्तकं देवतानां च पूर्ववत् पूजयेत्ततः ॥ ७५ ॥

पूर्वाख्यो रुद्रदासश्च मुख्यो 39 भल्लकसोमकौ ।
धाराधरश्च मत्सञ्ज्ञा इत्येते देवतागणाः ॥ ७६ ॥

पूजयित्वा ततः पश्चादेकैकस्मिंस्तु पङ्कजे ।
स्वनाम्ना वास्तुनाथं तु पत्रमध्ये स्थितं यजेत् ॥ ७७ ॥

कोणभागस्थपद्मानां केसराधो यजेच्च तम् ।
प्रणवं वास्तुनाथाय नमश्चान्ते प्रपूजयेत् ॥ ७८ ॥

तत्राष्टकमलेनैव पूर्यं वर्णाष्टकेन तु ।
पूजयित्वा विधानेन पुष्पधूपादिकेन च ॥ ७९ ॥

दधिक्षीरोदकेनैव भक्ष्यैस्सफलमूलकैः ।
इष्ट्वैवं विबुधव्रातं बाह्यान्तःकरणे पुरा ॥ ८० ॥

तदन्तरपदाब्जानामीशकोणादितः पुनः ।
नागकुण्डलवद्ब्रह्म ? दक्षिणावर्तकेन तु ॥ ८१ ॥

यावन्मध्यपदाब्जं तु पूर्य वर्णाष्टकेन तु ।
मातृकावर्णभेदेन ह्यकारादिक्रमेण तु ॥ ८२ ॥

यावदृकारवर्णं तु ततोऽब्जेऽब्जे दलेषु च ।
तेनैव क्रमयोगेन पूजयेद्देवतागणम् ॥ ८३ ॥

द्वितीयावरणे चैव अन्तरीये निबोध मे ।
धाता 40 यन्ता ध्रुवः कालमाम् ? कर्ता यजेत्ततः ॥ ८४ ॥

जीवं प्राणतिरोयज्ञं ? रविकारं बिरेव च ? ।
लोकनाथो विधाता वै भगस्स्रष्टा नियामकः ॥ ८५ ॥

यदेव न च कल्याणो * * * * इन्द्राविणस्ततः ।
स्रष्टारो विश्वकर्मा चिदित्येता ? कमलोद्भव ॥ ८६ ॥

देवताश्चान्तरे पूज्याश्चतुर्विंशतिसङ्ख्यया ।
एतेषामन्तरे भूयस्तृतीयावरणे शृणु ॥ ८७ ॥

षोडशानां ततस्सङ्ख्या * * * देवतागणम् ।
समुद्रमितरे द्वीपा मासा नाड्यश्च तारकाः ॥ ८८ ॥

विश्वे देवाश्चाप्सरसो मनवो ऋषयस्तथा ।
वसवो मरुतस्सिद्धा नागास्साध्या मि * * * ॥ ८९ ॥

तत्पादादौ नवानां तु पद्मानां पत्रमध्यतः ॥ ९० ॥
विश्वास-प्रस्तुतिः
मध्यपद्मे तु पत्रस्थं विश्वरूपं यजेत् प्रभुम् ।
यस्यैवं 41 देवताचक्रं वाहनास्त्रानुयायिभिः ॥ ९१ ॥

संयुक्तं तिष्ठते देहे सकलस्य महात्मनः ।
प्रणवेन स्वनाम्ना च नमस्कारयुतेन च ॥ ९२ ॥

एकैकं पूजयेद्देवं तथैकैकं द्विजाक्षरम् ।
इत्येवमुत्तरस्यां दिक् पूर्वस्यां वाऽब्जसम्भव ॥ ९३ ॥

विविक्तमुद्धरेत् क्षेत्र। क्षेत्रं क्षेत्रं क्षेत्रं 42 सुतुर्यारित्व भानये ? 43 ।
यस्मादतीव 44 तुर्यश्री ? वास्तुक्षेत्रमसिद्धिदम् ॥ ९४ ॥

प्। १०)
विश्वास-प्रस्तुतिः
विवृतास्सिद्धयस्सर्वाः 45 प्रवर्तन्ते सदा नृणाम् ।
सामान्यादविकाराद्वा शान्तिर्भवति शाश्वती ॥ ९५ ॥

अत एव हि तत् क्षेत्रं वर्धनीयं प्रयत्नतः ।
प्रत्ययार्थं हि मोक्षस्य सिद्धयस्संस्थिता यतः ॥ ९६ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितयायां
दिक्सिद्धिलक्षणो नाम
तृतीयोऽध्यायः ॥ ३ ॥