अथ द्वितीयोऽध्यायः
पौष्कर उवाच
विश्वास-प्रस्तुतिः
भगवन् मण्डलानां च लक्षणं प्रब्रवीहि मे ।
एषामुक्तस्त्वनन्तस्तु प्रवासं ? च स्वयं च यः ॥ १ ॥
मूलम्

श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
पुण्यदेशं समासाद्य प्रसिद्धं सिद्धसेवितम् ।
तत्रानेकप्रकाराणि स्थानानि कमलोद्भव ॥ २ ॥

प्। ४)
विश्वास-प्रस्तुतिः
धान्याश्रितमहीभागे लक्षणे सुपरीक्षिते ।
प्रवर्तन्ते च यागानि तानि ते कथयाम्यहम् ॥ ३ ॥

पर्वताग्रे च तन्मध्ये सानुदेशे द्विजोचिते 1 ।
भूगते तु वने रम्ये पादपौषधिसङ्कुले ॥ ४ ॥

भद्रे चोपवने ह्यद्य 2 प्रशस्ते कमलान्विते ।
कूलेषु निम्नगानां तु तासामपि च सङ्गमे ॥ ५ ॥

समीपे पुण्यतीर्थानां सुस्थिरे सारसाकुले 3 ।
देवतायतनोद्देशे गोष्ठेषु ब्राह्मणाश्रमे ॥ ६ ॥

दुष्टप्राणिविनिर्मुक्ते चोरातङ्क भयादिके 4 ।
तत्र भूमिं परीक्ष्यादौ लक्षणाढ्यां 5 सुलक्षिताअम् 6 ॥ ७ ॥

देवनामालयार्थं तु ग्रामार्थं ब्राह्मणादिषु ।
यजनार्थं तु यागानां गृहार्थं गृहमेधिनाम् ॥ ८ ॥

धराधरवशो ? ह्यावे ? विना ब्रह्मन् गुणागुणाः ।
सन्ति भूमेस्समासेन तन्मे निगदतश्शृणु ॥ ९ ॥

यस्मात् क्ष्मा दोषनिर्मुक्ता करोत्यर्थक्रियां सदा ।
सा तु दोषवती भूमिर्विघ्नानुत्पादयेद्बहून् ॥ १० ॥

प्रभावादस्त्रमन्त्राणां पिशाचैस्त्यज्यतेऽब्जज ।
या प्रशान्तद्रुमोपेता फलपुष्पसमाकुला ॥ ११ ॥

स्निग्धशष्पसमाकीर्णा संयुक्ता मृदुभिस्तृणैः ।
सुस्पर्शा स्निग्धतोया च गन्धाढ्या मधुरासिता ॥ १२ ॥

अनूपरा ह्यदग्धा च पावकोल्कार्करश्मिभिः ।
दुर्गन्धाद्यैर्महादोषैर्निर्मुक्ता सुखशान्तिदा ॥ १३ ॥

दुष्टजन्तुविनिर्मुक्ता सेविता सत्पतत्रिभिः ।
यत्र राजन्ति 7 वै गावस्तथाऽन्ये मृगजातयः ॥ १४ ॥

यत्र मोदन्ति वै व्याघ्रकुञ्जरास्सह मानवैः ।
जनयत्याशु चाह्लादं स्वकान्तास्विव दर्शनम् ॥ १५ ॥

सर्वेषां सर्वदा सा भूश्शुभदा चार्चनादिषु ।
कुमुदोत्पलकह्लारैराकुला सारसादिभिः ॥ १६ ॥

पूर्वे सरोवरं यस्या ह्यपरे आम्रकाननम् ।
महच्छरवणं वामे शस्तो दक्षिणतो नगः ॥ १७ ॥

समेकवर्णा सर्पाद्यैर्निर्मुक्ता चापि शस्यते ।
वापीकूपादिकं खातमीशाने यस्य चोत्तरे ॥ १८ ॥

शुभलक्षणयुक्ता सा सर्वसिद्धिकरी मही ।
शीतरश्मिसमस्पर्शा निदाघे तु शुभावनी ॥ १९ ॥

अत्युष्णा या च हेमन्ते रसान्वा ? जलदागमे ।
कांस्यभाण्डस्वना 8 घण्टा वीणावंशरवाश्शुभाः ॥ २० ॥

मृदङ्गदुन्दुभिरवा सर्वकामफलप्रदा ।
समार्धं वा समं खात्वा पांसुमुद्धृत्य पूरयेत् ॥ २१ ॥

अधिकेन भवेच्छ्रेष्ठा मध्यमा स्यात् समेन तु ।
अपूर्णामधमां विद्धि दुरितां तां परित्यजेत् ॥

त्रिपञ्चसप्तरात्रेण यस्यां बीजं प्ररोहति ।
प्रधाना मध्यमा न्यूना सा मही परिकीर्तिता ॥ २३ ॥

प्रागुत्तरप्लवा शस्ता सदैसानप्लवा द्विज ।
कूर्मपृष्ठोन्नता योग्या सुशुभा दर्पणोदरा ॥ २४ ॥

शङ्खचक्रगदापद्मश्रीवत्सगरुडाकृतिः ।
मालामुकुटरूपा च सर्वसिद्धिकरी मही ॥ २५ ॥

अतोऽन्या विपरीता च साऽनिष्टफलदा सदा ।
दूरतः परिहर्तव्या सिद्धिहानिकरी यतः ॥ २६ ॥

उक्तलक्षणसंयुक्ता यदि न प्राप्स्यते मही ।
स्वीकृत्य सर्वसामान्यां पूज्य मन्त्रांस्तु ? तैर्यजेत् ॥ २७ ॥

तत्रैवास्तूत्तमं ? सम्यक् सङ्ख्याहीनं च होमयेत् ।
निराज्ये बहुनाऽज्येन मध्यदेशे यथास्थिते ॥ २८ ॥

प्। ५)
विश्वास-प्रस्तुतिः
वृक्षं वै सोत्थितं ? चैत्यकुड्यप्रासादजं तथा ।
त्यक्त्वा तु द्विगुणात्मानं भायामिध्मनि 9 गर्भवत् ॥ २९ ॥

शुभेऽनुकूलेऽथ दिने कुर्याद्भूमिपरिग्रहम् ।
अहिंसितेन मांसेन सक्तुना सोदकेन तु ॥ ३० ॥

फलपुष्पसमेतेन तैलक्षारान्वितेन च ।
स्विन्ने संस्पर्शसङ्घेन दधिक्षीरगुलेन च ॥ ३१ ॥

रजनीचूर्णयुक्तेन शाङ्बलेन तिलेन च ।
दिग्विदिक्षु तथा मध्ये त्विदमुक्त्वा बलिं क्षिपेत् ॥ ३२ ॥

येषां वै क्रूरसत्त्वानामयं भूभागं आश्रयः ।
ते प्रयच्छन्तु मे तुष्टिं प्रयान्तु परमालयम् ॥ ३३ ॥

ध्यात्वाऽस्त्रसदृशं देहमस्त्रमन्त्रेण चोज्ज्वलम् ।
भूतान्याज्ञापयेत् पश्चात् तोयान्तां निखनेन्महीम् ॥ ३४ ॥

नरोज्ञोयम् ? समो वाऽथ शमेनैकेन वीथिकाम् ।
सुशुद्धासु समाहूय गन्धाढ्याञ्चिदसंयुता ॥ ३५ ॥

तया सम्पूर्य तद्गर्तमाठकाप्रहरे ? महीम् ।
पश्चात् समैस्तृणैर्ब्रीहिपूर्णां पादपपल्लवैः ॥ ३६ ॥

कृत्वा संवासयेत् तत्र गोगणं तु दिनत्रयम् ।
सोधयित्वा चतुर्थेऽह्नि लाङ्गलैः परिवर्तिताम् ॥ ३७ ॥

प्रदीप्तेनेष्टकेनाथ स्पर्शनीया च सर्वशः ।
ततः काञ्चनजं रेणुं * * * * जं 10 तारजं तथा ॥ ३८ ॥

रत्नजं गन्धमाल्याढ्यं सस्यशालिफलान्वितम् ।
सपुष्पाक्षतलाजाढ्यं 11 सिद्धार्थैश्च तिलैर्युतम् ॥ ३९ ॥

श्रीकरं पञ्चगव्येन भूमौ सर्वत्र वापयेत् ।
अकृते वा कृते खाते शुद्धिमेति च तत्क्षणात् ॥ ४० ॥

यस्यां 12 सस्यादिकं सम्यग्यत्र कुत्र समाचरेत् ।
शुद्ध्यर्थं मङ्गलार्थं च स्थानशुध्यर्थमेव च ॥ ४१ ॥

दृष्टादृष्टफलार्थं तु यागयज्ञादियाजिनाम् ।
ततस्समीकृत्य यदा * * * * स्याप्रागुदप्लवात् ॥ ४२ ॥

पृथुभिर्मुसलैर्भूयः पीड्यं सद्यज्ञकाष्ठजैः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
वर्षजस्पर्शसदृशीं कृत्वा मृद्गोमयाम्बुना ।
उपलिप्यानुसम्मार्ज्य पाणिना वाऽथ वाससा ॥ ४४ ॥

शुभे वारेऽनुकूलेऽथ दिग्विदिक् सिद्धिमाचरेत् 13 ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां
भूपरीक्षालक्षणो नाम
द्वितीयोऽध्यायः ॥ २ ॥
-
क्, ग्: सिद्धमाचरेत् ↩︎