प्रथमोऽध्यायः
विश्वास-प्रस्तुतिः
यदा तीर्णव्रतस्तिष्ठेद् गुरोरग्रे 1 हितैषिणः ।
तदा चाज्ञापयेच्छिष्यं सम्प्राप्तं कमलोद्भव ॥ १ ॥
मूलम्

तत्तु 2 प्रदापयेत् काले पात्रे गुणगणान्विते ।
यत्तदाज्ञापयेत् 3 तं वै गच्छ पुत्र धनं यतः ॥ २ ॥

यागोपकरणार्थं तु येन शान्तिमवाप्स्यसि ।
यथालब्धं तु तत् पश्चाद्गुरवे विनिवेद्य च ॥ ३ ॥

त्वत्प्रसादेन भगवन्निदं प्राप्तं गृहाण मे ।
दयां कुरु त्वनाथस्य 4 निमग्नस्य भवार्णवे ॥ ४ ॥

एवमादि यदा भूयात् 5 करुणं वाक्यसञ्चयम् ।
प्रवर्तेत तदर्थं तु गुरुर्मण्डलपूजने ॥ ५ ॥

सूत्रयित्वा विधानेन पूरयित्वा रजैश्शुभैः 6 ।
लिखित्वा कुङ्कुमाद्यैर्वा चालिख्य 7 घटिकादिकैः 8 ॥ ६ ॥

भूमौ हेमशलाकाद्यैर्वित्ताभावात् प्रयत्नतः ।
पूजयेत् फलपुष्पाद्यैरारण्यैर्नित्यसम्भवैः 9 ॥ ७ ॥

पूजितं दर्शयेत् तस्य तं तु विद्धि चतुर्विधम् ।
आद्यम्पद्मोदराख्यं 10 तु न 11 तु सङ्ख्योपलक्षितम् ॥ ८ ॥

अनेककजगर्भं तु द्वितीयं परिकीर्तितम् ।
तदनेकप्रकारं च चक्राब्जं स्यात् तृतीयकम् ॥ ९ ॥

यस्य भेदोऽप्यनेकश्च 12 स स्वल्वद्याब्जसम्भव ।
मिश्रचक्राभिधानं तु मण्डलं बहु भेदयुक् 13 ॥ १० ॥

तच्चतुथं समाख्यातं यत्र रुद्ध्वा 14 विमुच्यते ।
महाख्यं नवनाभं तु बिम्बभेदेन यत् स्थितम् 15 ॥ ११ ॥

दृष्टेन पूजितेनाथ तथाऽग्नौ कल्पितेन च ।
मोक्षो येन भवत्याशु भक्तानां केवलेन च ॥ १२ ॥

भेदयुक्तेन कालेन दृष्टेनेष्टेन वै क्रमात् ।
द्वादश्यां प्रतिपक्षं तु वत्सरान्ते ततो द्विजम् ॥ १३ ॥

समयी स भवेद्भक्तः पुत्रकश्चापरेण तु ।
दृष्टेन पूजितेनापि ह्यनुध्यातेन वै हृदि ॥ १४ ॥

प्। २)
विश्वास-प्रस्तुतिः
तथाविधेन कालेन योग्यता तस्य जायते ।
किञ्चारम्भेऽथ निष्पत्तौ पूजनीयं च भक्तितः ॥ १५ ॥

व्यूहद्वयं द्विजाद्यन्तं शेषैः * संवत्सर * ।
विश्वास-प्रस्तुतिः
पुत्रकत्वं यदा प्राप्तो जन्तुः प्रक्षीणकल्मषः ।
तदागसि ? द्वयं तस्य प्रवर्तन्ते खिलान्यपि ? ॥ १७ ॥

तदाऽसौ साधकत्वेन योक्तव्यो गुरुणा तथा ।
तृतीयमण्डले चेष्ट्वा तत्र तं च प्रवेशयेत् ॥ १८ ॥

पूज्यं तं बहुभिर्भेदैर्ध्यात्वा पूजय गोचरे ।
पञ्चवासरहीनेन पक्षाणां त्रितयेन च ॥ १९ ॥

एकैकं पूजयेच्चक्रं यावदब्जं प्रपूजयेत् ।
तत्फलानि प्रवर्तन्ते क्रमशस्तस्य वै द्विज ॥ २० ॥

गुरुणा साधकस्यातो दर्शनीयं प्रयत्नतः ।
चतुर्थं तु महायागो 16 येनाचार्यत्वमाप्नुयात् ॥ २१ ॥

तमाद्योक्तं तु वै कालमिष्ट्वा 17 वाक्येन चिन्तयेत् ।
द्विज शेषदिनानां तु ह्येकैकं तु समापयेत् ॥ २२ ॥

संवत्सरचतुष्कं तु यस्तु यागेन संयजेत् ।
स संसारार्णवाद्ब्रह्मन् पारं प्राप्नोति दुस्तरात् ॥ २३ ॥

यद्येकं तु महायागं नवनाभं समुद्यजेत् ।
अस्मिन् संसारकान्तारे ज्ञानदीपास्त्वमी कृताः ॥ २४ ॥

भक्तानां विविधा यागास्संयतानां सदैव हि ।
नित्यं विप्रास्तिकानां च श्रद्धा संयमसेविनाम् 18 ॥ २५ ॥

भवार्णवो ह्यलङ्ध्यस्तु विना स्याद्यागतोऽन्यकैः ।
यागपोतं समारोप्य ज्ञेयं पाराभिलक्षणम् ॥ २६ ॥

प्रोत्तारयति वै सम्यगुपकारेण वै विना ।
कृपया परयाऽविष्टो यो विद्वान् स गुरुस्स्मृतः ॥ २७ ॥

ज्ञात्वा भक्तमनाथं च निमग्नं शोकसागरे ।
उद्धरेद्यागहस्तेन स गुरुर्मत्समस्स्मृतः ॥ २८ ॥

यागानामपि तीर्थानां क्षेत्राणां सिद्धसेविनाम् ।
पूजितानामर्चितानां पुष्पवस्त्रैश्च भूषणैः ॥ २९ ॥

तथैवायतनानां च आश्रमाणां महामुने ।
वेदगीतध्वनिभिस्तु हूयमाने हुताशने ॥ ३० ॥

सन्दर्शनादकस्माच्च पुंसां सम्मूढचेतसाम् ।
द्विषतां हेतुदुष्टानां नास्तिकानां सदैव हि ॥ ३१ ॥

कुवासना कुबुद्धिश्च कुतर्कनिचयश्च यः ।
कुभावश्च कुहेतुश्च नास्तिकत्वं लयं व्रजेत् ॥ ३२ ॥

भाव 19 उत्पद्यते क्षिप्रं तन्मध्ये श्रद्धयाऽन्वितम् ।
तदीयेन प्रभावेन श्रद्धाद्याद्येषु किं पुनः ॥ ३३ ॥

तस्माद्भक्तः परिज्ञेयश्शिष्यो गुणगणान्वितः ।
तन्मयो नित्ययुक्तश्च विकल्पोज्झितमानसः ॥ ३४ ॥

ब्राह्मणः क्षत्रियो वैश्यश्शूद्रो वा स्वपदस्थितः 20 ।
ब्रह्मचारी गृहस्तो वा कृतकृत्यो यथाविधि ॥ ३५ ॥

वानप्रस्थोऽथ भिक्षाशी नारी वा सद्विवेकिनी ।
धीरस्स्वच्छस्सुसन्तुष्टस्तत्त्वदर्शनकाङ्क्षितः ॥ ३६ ॥

बन्धुवर्गपरित्यागी उत्साही निश्चयान्वितः ।
लब्ध्वा पात्रं * * * * यागदीक्षां समाप्य च ॥ ३७ ॥

ततोऽग्नौ प्राकृतान् बन्धांस्तदीयाञ् जुहुयाद्गुरुः ।
अतीतान् वर्तमानांश्च भविष्यान् कमलोद्भव ॥ ३८ ॥

बन्धुसङ्घे परिक्षीणे शरीरिसकुलास्थितिः ? 21 ।
तत्त्वव्याप्तिसमेता च वक्तेव्ये च यथास्थिति ॥ ३९ ॥

तद्बुद्धिदर्पणोपेतान् हृदयस्थं तु सर्वगम् ।
सर्वाभासमनाभासं 22 चित्सदानन्दलक्षणम् ॥ ४० ॥

व्यक्ताव्यक्ततया मुक्तं निर्लेपं गगनोपमम् ।
तेनेदं तदभिव्यक्तं यत्रस्थस्समतां व्रजेत् ॥ ४१ ॥

प्। ३)
विश्वास-प्रस्तुतिः
कृतकृत्यं तु सञ्ज्ञात्वा ज्ञानतत्वं विमृश्य च 23 ।
संसारभयभीरूणामवश्यं सततं त्वया ॥ ४२ ॥

योजना च परे तत्त्वे कर्तव्या सम्परीक्ष्य च ।
पात्रस्थमात्मज्ञानं च कृत्वा पिण्डं समुत्सृजेत् ॥ ४३ ॥

नान्तर्धानं यतो याति 24 जगद्बीजमबीजकृत् ।
पावनं परमं ज्ञानमज्ञानतिमिरापहम् ॥ ४४ ॥

पौष्कर उवाच
विश्वास-प्रस्तुतिः
कालेन 25 * * * * * * * यागादिदीक्षया ।
भीरूणामप्रबुद्धानां जितस्यानव्यवस्थिते ? ॥ ४५ ॥

यद्यन्तरा विपद्यन्ते किं स्यात्तेषाम् तदुच्यते ? ।
असमाप्तक्रियाणां च त्वल्लब्धज्ञानिनां विभो ॥ ४६ ॥

श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
फलं सङ्कल्पपूर्वं स्याद्विद्धि तीव्रतरं नृणाम् ।
क्रियानिर्वहणात्तात सङ्कल्पोऽसाधितस्य च ॥ ४७ ॥

यदैवालङ्कृता बुद्धिर्नागतल्पेऽर्पयाम्यहम् ।
भवाम्भोधिमपारं च आश्रमी परमं पदम् ॥ ४८ ॥

तदेव साधितं तेन शाश्वतं पदमव्ययम् ।
सिद्धश्च सिध्यमानश्च तृतीयश्चारुरुक्षकः ॥ ४९ ॥

समत्वमेषां वै विद्धि किञ्चित्कालान्तरेण तु ।
यथैकस्तिष्ठते तृप्तः पूर्वाशी सिद्धभोजनः ॥ ५० ॥

अन्यश्च विद्ध्यनाहारो बेला तस्येन्द्र ? वर्तते ।
अवसानेषु सर्वेषामतृप्तिर्नागुणस्स्मृतः ॥ ५१ ॥

एवं मन्त्रक्रियायोगे भक्तानां कमलोद्भव
कालेन स्वमते 26 शास्त ? द्वे तस्मिन्नव्यये पदे ॥ ५२ ॥

भक्तिश्रद्धासमेतानां नृणां मन्त्रपरिग्रहः ।
संसारोत्तारकश्शश्वद्यया वै 27 तत्त्वविद्द्विजः ॥ ५३ ॥

मतिनिष्ठा प्रमेयं च विकल्पैरप्यनावृतम् ।
लसत्समाधिनिष्ठेभ्यस्सकाशाज्जन्मना सह ॥ ५४ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां
शिष्यपरीक्षालक्षणो नाम
प्रथमोऽध्यायः ॥ १ ॥