विश्वास-प्रस्तुतिः
ओं नमो वासुदेवाय
नमः संकर्षणाय ते (च)।
प्रद्युम्नाय नमस्तेऽस्तु
अनिरुद्धाय ते नमः ॥ 6 ॥
मूलम्
ओं नमो वासुदेवाय नमः संकर्षणाय ते (च)।
प्रद्युम्नाय नमस्तेऽस्तु अनिरुद्धाय ते नमः ॥ 6 ॥
विश्वास-प्रस्तुतिः
क्रमशः केशवादीनां
यावद्-दामोदरं द्विज +++(कीर्तनम् अथ)+++!।
नमो नमः केशवाय
नमो नारायणाय च ॥ 7 ॥
मूलम्
क्रमशः केशवादीनां यावद्दामोदरं द्विज!।
नमो नमः केशवाय नमो नारायणाय च ॥ 7 ॥
विश्वास-प्रस्तुतिः
माधवाय नमश् चैव
गोविन्दाय नमस्ततः।
विष्णवे ऽथ नमस्कुर्यान्
नमस् ते मधुसूदन ॥ 8 ॥
मूलम्
माधवाय नमश्चैव गोविन्दाय नमस्ततः।
विष्णवेऽथ नमस्कुर्यान्नमस्ते मधुसूदन ॥ 8 ॥
विश्वास-प्रस्तुतिः
नमस् त्रिविक्रमायाथ
वामनाय नमस् ततः।
श्रीधराय नमश्चाथ(श्चैव)
हृषीकेशाय ओं नमः ॥ 9 ॥
मूलम्
नमस्त्रिविक्रमायाथ वामनाय नमस्ततः।
श्रीधराय नमश्चाथ(श्चैव) हृषीकेशाय ओं नमः ॥ 9 ॥
विश्वास-प्रस्तुतिः
नमस्ते पद्मनाभाय
नमो दामोदराय च।
दिव्यानाम् अवताराणां
दशानाम् अथ कीर्तनम् ॥ 10 ॥
मूलम्
नमस्ते पद्मनाभाय नमो दामोदराय च।
दिव्यानामवताराणां दशानामथ कीर्तनम् ॥ 10 ॥
विश्वास-प्रस्तुतिः
एकश्रृङ्गादिकानां तु
विहितं क्रमशः प्रभोः।
नमस् ते मीन-रूपाय
कमठाय नमो नमः ॥ 11 ॥
मूलम्
एकश्रृङ्गादिकानां तु विहितं क्रमशः प्रभोः।
नमस्ते मीनरूपाय कमठाय नमो नमः ॥ 11 ॥
विश्वास-प्रस्तुतिः
नमोऽस्त्व् आदिवराहाय
नारसिंहाय ते नमः।
नमो वामन-रूपाय
नमो राम-त्रयाय च ॥ 12 ॥
मूलम्
नमोऽस्त्वादिवराहाय नारसिंहाय ते नमः।
नमो वामनरूपाय नमो रामत्रयाय च ॥ 12 ॥
विश्वास-प्रस्तुतिः
कुठार-ज्या-हलास्त्राय
नमः कृष्णाय वेधसे।
कल्कि(न्) विष्णो नमस्तेऽस्तु
पूर्वं सप्रणवं द्विज! ॥ 13 ॥
मूलम्
कुठारज्याहलास्त्राय नमः कृष्णाय वेधसे।
कल्कि(न्)विष्णो नमस्तेऽस्तु पूर्वं सप्रणवं द्विज! ॥ 13 ॥
आह्निकार्थप्रकाशिका
अथ पारमेश्वरोक्तनामसङ्कीर्तनप्रकारमाह ओं नमो वासुदेवायेत्यादिना - ओं वासुदेवाय नमः, ओं सङ्कर्षणायनमः इति प्रणवादि-नमोन्त-मन्त्रात्मक-नाम-सङ्कीर्तनं विवक्षितम् । तद् उक्तं -
तत्र वासुदेवादि-कल्कि-पर्यन्त-सङ्कीर्तनं
प्रणवपूर्वकं मन्त्रात्मकं
पारमेश्वरे प्रोक्तंसम्प्रबुद्धः प्रभाते तु
उत्थाय शयने स्थितः ।
नाम्नां सङ्कीर्तनं कुर्यात्
षोडशानां प्रयत्नतः ॥ओं नमो वासुदेवायेत्यारभ्य सर्वं सप्रणवं द्विज
इत्यन्तम्