॥ श्रीः ॥
षड्विंशोऽध्यायः
सनकः —
विश्वास-प्रस्तुतिः - 1
पञ्चरात्रार्थतत्वज्ञ! भगवन्! भविनां प्रिय!।
मय्यनुग्रहबुद्धया त्वमग्निमध्यगतार्चनम् ॥ 1 ॥
मूलम् - 1
पञ्चरात्रार्थतत्वज्ञ! भगवन्! भविनां प्रिय!।
मय्यनुग्रहबुद्धया त्वमग्निमध्यगतार्चनम् ॥ 1 ॥
विश्वास-प्रस्तुतिः - 3
कुण्डमध्यगतं यागं श्रृणु वक्ष्ये समाहितः।
होमार्थं मण्टपं कुर्याद्विततं वह्निदिग्गतम् ॥ 3 ॥
मूलम् - 3

विश्वास-प्रस्तुतिः - 4
धूमर्निगमनोपेतं गवाक्षगणमण्डितम्।
तन्मध्ये वेदिका कार्या चतुरश्रा चतुष्करा ॥ 4 ॥
मूलम् - 4
धूमर्निगमनोपेतं गवाक्षगणमण्डितम्।
तन्मध्ये वेदिका कार्या चतुरश्रा चतुष्करा ॥ 4 ॥
विश्वास-प्रस्तुतिः - 5
द्वादशाङ्गुलमानोच्चा प्रासादासनलक्षणा।
चक्राब्जलक्षणं कुण्डं तदूर्ध्वे कल्पयेच्छुभम् ॥ 5 ॥
मूलम् - 5
द्वादशाङ्गुलमानोच्चा प्रासादासनलक्षणा।
चक्राब्जलक्षणं कुण्डं तदूर्ध्वे कल्पयेच्छुभम् ॥ 5 ॥
विश्वास-प्रस्तुतिः - 6
मध्ये सूत्रत्रयं दद्यात् प्राक्प्रत्यग्दक्षिणोत्तरम्।
हस्तद्वयेन, तन्मध्ये चतुरश्रं प्रकल्प्य च ॥ 6 ॥
मूलम् - 6

विश्वास-प्रस्तुतिः - 7
एकादशाङ्गुलायामं सूत्रं संस्थाप्य मध्यतः।
खातार्थं वृत्तमापाद्य बहिरावृतियोगतः ॥ 7 ॥
मूलम् - 7
एकादशाङ्गुलायामं सूत्रं संस्थाप्य मध्यतः।
खातार्थं वृत्तमापाद्य बहिरावृतियोगतः ॥ 7 ॥
विश्वास-प्रस्तुतिः - 8
त्यजेदङ्गुलमोष्ठस्य, द्व्यङ्गुलं कर्णिकावनेः।
अङ्गुलं केसराणां च, द्व्यङ्गुलं पत्रसन्ततेः ॥ 8 ॥
मूलम् - 8

विश्वास-प्रस्तुतिः - 9
तदग्रस्याङ्गुलं ज्ञेयं, नाभेरेकाङ्गुलोन्नतम्।
द्व्यङ्गुलं स्यादरक्षेत्रं नेमेरेकाह्गुलं भवेत् ॥ 9 ॥
मूलम् - 9

विश्वास-प्रस्तुतिः - 10
द्व्यङ्गुलं मेखलायाः स्यादेवमावृतियोगतः।
मानमाखातपर्यन्तं मेखलान्तं हृदि स्थितम् ॥ 10 ॥
मूलम् - 10
द्व्यङ्गुलं मेखलायाः स्यादेवमावृतियोगतः।
मानमाखातपर्यन्तं मेखलान्तं हृदि स्थितम् ॥ 10 ॥
विश्वास-प्रस्तुतिः - 11
कृत्वाऽथ नेमिपर्यन्तं क्षेत्राणां वृत्ततां नयेत्।
मेखला सर्वबाह्यस्था स्यात्तुर्याश्रा यथा भवेत् ॥ 11 ॥
मूलम् - 11

विश्वास-प्रस्तुतिः - 12
समेखलं द्विहस्तं तन्निर्माणमधुना श्रृणु।
खातार्थमन्तरावृत्तादन्तरं निखनेत् समम् ॥ 12 ॥
मूलम् - 12
समेखलं द्विहस्तं तन्निर्माणमधुना श्रृणु।
खातार्थमन्तरावृत्तादन्तरं निखनेत् समम् ॥ 12 ॥
विश्वास-प्रस्तुतिः - 13
त्रिपादमर्धं पादं वा बाह्यतो दशनच्छदात्।
साधयेत् कर्णिकादीनि नेम्यन्तानि यथाक्रमम् ॥ 13 ॥
मूलम् - 13
त्रिपादमर्धं पादं वा बाह्यतो दशनच्छदात्।
साधयेत् कर्णिकादीनि नेम्यन्तानि यथाक्रमम् ॥ 13 ॥
विश्वास-प्रस्तुतिः - 14
द्बादशांगुलमानोच्चा कार्या स्यात् कर्णिकान्तरा।
विस्तारसदृशोच्छ्राया बाह्यतः केसरान्विता ॥ 14 ॥
मूलम् - 14
द्बादशांगुलमानोच्चा कार्या स्यात् कर्णिकान्तरा।
विस्तारसदृशोच्छ्राया बाह्यतः केसरान्विता ॥ 14 ॥
विश्वास-प्रस्तुतिः - 15
यथाभिमतसङ्ख्यानि पझपत्राणि साधयेत्।
पझसङ्ख्यासमं क्षेत्रं महापझसमन्ततः ॥ 15 ॥
मूलम् - 15
यथाभिमतसङ्ख्यानि पझपत्राणि साधयेत्।
पझसङ्ख्यासमं क्षेत्रं महापझसमन्ततः ॥ 15 ॥
विश्वास-प्रस्तुतिः - 16
केसरभ्रमकुण्डेन पत्राग्रभ्रमणावधि।
पक्षमध्यमसूत्राणि प्राक्प्रत्यग्दिक्षु पातयेत् ॥ 16 ॥
मूलम् - 16
केसरभ्रमकुण्डेन पत्राग्रभ्रमणावधि।
पक्षमध्यमसूत्राणि प्राक्प्रत्यग्दिक्षु पातयेत् ॥ 16 ॥
विश्वास-प्रस्तुतिः - 17
दलमध्यगसूत्रेण दलमध्योर्ध्वगामिना।
दलमध्यप्रसादार्थं लाञ्छयेदर्धचन्द्रवत् ॥ 17 ॥
मूलम् - 17
दलमध्यगसूत्रेण दलमध्योर्ध्वगामिना।
दलमध्यप्रसादार्थं लाञ्छयेदर्धचन्द्रवत् ॥ 17 ॥
विश्वास-प्रस्तुतिः - 18
चन्द्रश्रृङ्गं च मध्यं च पत्राग्रे सङ्गतानि च।
पक्षसूत्रेण पत्राग्रं जनयेत् कुलिशाग्रवत् ॥ 18 ॥
मूलम् - 18
चन्द्रश्रृङ्गं च मध्यं च पत्राग्रे सङ्गतानि च।
पक्षसूत्रेण पत्राग्रं जनयेत् कुलिशाग्रवत् ॥ 18 ॥
विश्वास-प्रस्तुतिः - 19
दलसङ्ख्यासमेतानि स्वक्षेत्राणि च साधयेत्।
विभज्य दलवत् क्षेत्रं सूत्राण्यास्फालयेत्तथा ॥ 19 ॥
मूलम् - 19
दलसङ्ख्यासमेतानि स्वक्षेत्राणि च साधयेत्।
विभज्य दलवत् क्षेत्रं सूत्राण्यास्फालयेत्तथा ॥ 19 ॥
विश्वास-प्रस्तुतिः - 20
अष्टधा वाऽथ षोढा वा कृत्वैकैकं क्रभेण तु।
सन्त्यज्य पार्श्वगौ भागौ बाह्यसूत्रस्य मध्यतः ॥ 20 ॥
मूलम् - 20
अष्टधा वाऽथ षोढा वा कृत्वैकैकं क्रभेण तु।
सन्त्यज्य पार्श्वगौ भागौ बाह्यसूत्रस्य मध्यतः ॥ 20 ॥
विश्वास-प्रस्तुतिः - 21
स्थापिताभ्यां च सूत्राभ्यां गदाभ्यामग्रमध्यमात्।
मत्स्यवल्लाञ्छनं कुर्याद्यावन्मूलभ्रमावधि ॥ 21 ॥
मूलम् - 21
स्थापिताभ्यां च सूत्राभ्यां गदाभ्यामग्रमध्यमात्।
मत्स्यवल्लाञ्छनं कुर्याद्यावन्मूलभ्रमावधि ॥ 21 ॥
विश्वास-प्रस्तुतिः - 22
प्रथयो नेमिभूमिष्ठाः कार्याश्चोर्ध्वेऽथवा बहिः।
संसाधयेदथामद्यादिष्टकाभिर्मृदा सह ॥ 22 ॥
मूलम् - 22
प्रथयो नेमिभूमिष्ठाः कार्याश्चोर्ध्वेऽथवा बहिः।
संसाधयेदथामद्यादिष्टकाभिर्मृदा सह ॥ 22 ॥
विश्वास-प्रस्तुतिः - 23
मेखलावधिपर्यन्तं नीचान्यङ्गानि मीलयेत्।
विस्तारोच्छ्रायतुल्यानि समानि सुदृढानि च ॥ 23 ॥
मूलम् - 23
मेखलावधिपर्यन्तं नीचान्यङ्गानि मीलयेत्।
विस्तारोच्छ्रायतुल्यानि समानि सुदृढानि च ॥ 23 ॥
विश्वास-प्रस्तुतिः - 24
कर्णिकाकेसरोर्ध्वस्था योनिः पिप्पलपत्रवत्।
जिह्वया संस्पृशन्त्योष्ठं कार्या योन्युपमाश्रिता ॥ 24 ॥
मूलम् - 24
कर्णिकाकेसरोर्ध्वस्था योनिः पिप्पलपत्रवत्।
जिह्वया संस्पृशन्त्योष्ठं कार्या योन्युपमाश्रिता ॥ 24 ॥
विश्वास-प्रस्तुतिः - 25
केसरावनिमाक्रम्य पृष्ठतोर्ध्वाङ्गुलेन तु।
पार्श्वयोर्मध्यसूत्रस्य बालचन्द्रद्वयोपमा ॥ 25 ॥
मूलम् - 25
केसरावनिमाक्रम्य पृष्ठतोर्ध्वाङ्गुलेन तु।
पार्श्वयोर्मध्यसूत्रस्य बालचन्द्रद्वयोपमा ॥ 25 ॥
विश्वास-प्रस्तुतिः - 26
प्रोन्नता कर्णिकाबूमैः पृष्ठतश्चाङ्गुलेन तु।
आमूलादग्रपर्यन्तं क्रमान्निम्ना गजोष्ठवत् ॥ 26 ॥
मूलम् - 26
प्रोन्नता कर्णिकाबूमैः पृष्ठतश्चाङ्गुलेन तु।
आमूलादग्रपर्यन्तं क्रमान्निम्ना गजोष्ठवत् ॥ 26 ॥
विश्वास-प्रस्तुतिः - 27
कोणेषु चैवं कुण्डस्य कार्यं शङ्खचतुष्टयम्।
एवमेतत् समुद्दिष्टं बहुधा मानतो भवेत् ॥ 27 ॥
मूलम् - 27
कोणेषु चैवं कुण्डस्य कार्यं शङ्खचतुष्टयम्।
एवमेतत् समुद्दिष्टं बहुधा मानतो भवेत् ॥ 27 ॥
विश्वास-प्रस्तुतिः - 28
आद्बादशाङ्गुलान्मानादेकैकाङ्गुलवर्धनात्।
द्विचतुर्हस्तपर्यन्तमेकाशीत्यधिकं शतम् ॥ 28 ॥
मूलम् - 28
आद्बादशाङ्गुलान्मानादेकैकाङ्गुलवर्धनात्।
द्विचतुर्हस्तपर्यन्तमेकाशीत्यधिकं शतम् ॥ 28 ॥
विश्वास-प्रस्तुतिः - 29
एतेष्वेकतरं प्रोक्तमन्येषामेवमेव हि।
तत्साधनं विहा(धा?)य तत् अह्गव्यूहं प्रकल्प्य च ॥ 29 ॥
मूलम् - 29
एतेष्वेकतरं प्रोक्तमन्येषामेवमेव हि।
तत्साधनं विहा(धा?)य तत् अह्गव्यूहं प्रकल्प्य च ॥ 29 ॥
विश्वास-प्रस्तुतिः - 30
ततो यथोचितस्थाने होमद्रव्याणि विन्यसेत्।
संस्कृत्य विधिवत् कुण्डं वह्निमुत्पादितं तथा ॥ 30 ॥
मूलम् - 30
ततो यथोचितस्थाने होमद्रव्याणि विन्यसेत्।
संस्कृत्य विधिवत् कुण्डं वह्निमुत्पादितं तथा ॥ 30 ॥
विश्वास-प्रस्तुतिः - 31
संस्कृताज्यस्य विप्रुड्भिः संस्पृशेदिन्धनादिकम्।
सन्तर्पणं तथाग्नेश्च तस्मिन्मन्त्रासनादिकम् ॥ 31 ॥
मूलम् - 31
संस्कृताज्यस्य विप्रुड्भिः संस्पृशेदिन्धनादिकम्।
सन्तर्पणं तथाग्नेश्च तस्मिन्मन्त्रासनादिकम् ॥ 31 ॥
विश्वास-प्रस्तुतिः - 32
यन्त्रविष्टरसंस्थानमन्तराहवनं तथा।
हृदयादवतारं च महायन्त्रस्य विष्टरे ॥ 32 ॥
मूलम् - 32
यन्त्रविष्टरसंस्थानमन्तराहवनं तथा।
हृदयादवतारं च महायन्त्रस्य विष्टरे ॥ 32 ॥
विश्वास-प्रस्तुतिः - 33
समिद्भिश्चाथ नित्याभिः काम्यैश्च हवनं तथा।
स्विष्टकृद्धवनं चाथ प्रायश्चित्ताहुतिं त्वपि ॥ 33 ॥
मूलम् - 33
समिद्भिश्चाथ नित्याभिः काम्यैश्च हवनं तथा।
स्विष्टकृद्धवनं चाथ प्रायश्चित्ताहुतिं त्वपि ॥ 33 ॥
विश्वास-प्रस्तुतिः - 34
पूर्णाहुतिं प्रधानं च यन्त्रस्थस्य विसर्जनम्।
हृदयस्थे प्रविश्याथ मण्टपं यजनास्पदम् ॥ 34 ॥
मूलम् - 34
पूर्णाहुतिं प्रधानं च यन्त्रस्थस्य विसर्जनम्।
हृदयस्थे प्रविश्याथ मण्टपं यजनास्पदम् ॥ 34 ॥
विश्वास-प्रस्तुतिः - 35
समर्पणं च होमस्य पितॄणां तर्पणं त्वपि।
बलिदानं च भूतानामिष्टशिष्टोदनस्य च ॥ 35 ॥
मूलम् - 35
समर्पणं च होमस्य पितॄणां तर्पणं त्वपि।
बलिदानं च भूतानामिष्टशिष्टोदनस्य च ॥ 35 ॥
विश्वास-प्रस्तुतिः - 36
प्रदानं यज्ञशीलानां कारिणां भावितात्मनाम्।
अनुयागं च विधिवन्नैवेद्यप्राशनादिकम् ॥ 36 ॥
मूलम् - 36
प्रदानं यज्ञशीलानां कारिणां भावितात्मनाम्।
अनुयागं च विधिवन्नैवेद्यप्राशनादिकम् ॥ 36 ॥
विश्वास-प्रस्तुतिः - 37
पूर्ववत् सकलं कुर्याद्भोगमोक्षप्रसिद्धये।
अनेन यन्त्रराजेन शान्तिकादिषु कर्मसु ॥ 37 ॥
मूलम् - 37
पूर्ववत् सकलं कुर्याद्भोगमोक्षप्रसिद्धये।
अनेन यन्त्रराजेन शान्तिकादिषु कर्मसु ॥ 37 ॥
विश्वास-प्रस्तुतिः - 38
ध्यानेन पूजितेनैव हुतेन जपितेन च।
समीहितानि पूर्यन्ते भक्तानां भावितात्मनाम् ॥ 38 ॥
मूलम् - 38
ध्यानेन पूजितेनैव हुतेन जपितेन च।
समीहितानि पूर्यन्ते भक्तानां भावितात्मनाम् ॥ 38 ॥
विश्वास-प्रस्तुतिः - 39
एकरूपमिदं ध्यानं वर्णितं शान्तिकादिषु।
होमे स्वाहान्तिमो मन्त्रः स्वभावादधिकः सदा ॥ 39 ॥
मूलम् - 39
एकरूपमिदं ध्यानं वर्णितं शान्तिकादिषु।
होमे स्वाहान्तिमो मन्त्रः स्वभावादधिकः सदा ॥ 39 ॥
विश्वास-प्रस्तुतिः - 40
शान्तिके पौष्टिके वौषट्पूर्णायामपि तादृशः।
आप्यायने वषट्प्रोक्तो हुमन्तो वश्यकर्मणि ॥ 40 ॥
मूलम् - 40
शान्तिके पौष्टिके वौषट्पूर्णायामपि तादृशः।
आप्यायने वषट्प्रोक्तो हुमन्तो वश्यकर्मणि ॥ 40 ॥
विश्वास-प्रस्तुतिः - 41
फडन्तं क्षयविद्वेषप्रोत्सादनविधौ सदा।
हुमन्तं चारिविद्वेषे मोहने हुंफडन्तिमम् ॥ 41 ॥
मूलम् - 41
फडन्तं क्षयविद्वेषप्रोत्सादनविधौ सदा।
हुमन्तं चारिविद्वेषे मोहने हुंफडन्तिमम् ॥ 41 ॥
विश्वास-प्रस्तुतिः - 42
स्तम्भने वषडन्तं सस्यान्नमोन्तो मोक्षकर्मणि।
अथो हिताय लोकानां राज्ञामपि विशेषतः ॥ 42 ॥
मूलम् - 42
स्तम्भने वषडन्तं सस्यान्नमोन्तो मोक्षकर्मणि।
अथो हिताय लोकानां राज्ञामपि विशेषतः ॥ 42 ॥
विश्वास-प्रस्तुतिः - 43
पृच्छते नारदायैतदहिर्बुध्न्येन विस्तरात्।
यथोपदिष्टं विधिवत्तथा तत्र निरीक्ष्य च ॥ 43 ॥
मूलम् - 43
पृच्छते नारदायैतदहिर्बुध्न्येन विस्तरात्।
यथोपदिष्टं विधिवत्तथा तत्र निरीक्ष्य च ॥ 43 ॥
विश्वास-प्रस्तुतिः - 44
प्रयोक्तव्यं तु बहुधा, शान्तिकामी यथेच्छया।
कुर्यादेकमुखं यन्त्रं स्थाप्य संपूजयीत च ॥ 44 ॥
मूलम् - 44
प्रयोक्तव्यं तु बहुधा, शान्तिकामी यथेच्छया।
कुर्यादेकमुखं यन्त्रं स्थाप्य संपूजयीत च ॥ 44 ॥
विश्वास-प्रस्तुतिः - 45
नैमित्तिकानि काम्यानि नित्यानि यजनानि वै।
विशेषेणैव कार्याणि विना स्वापं महोत्सवम् ॥ 45 ॥
मूलम् - 45
नैमित्तिकानि काम्यानि नित्यानि यजनानि वै।
विशेषेणैव कार्याणि विना स्वापं महोत्सवम् ॥ 45 ॥
विश्वास-प्रस्तुतिः - 46
न कर्मबिम्बानि तथा नित्यनैमित्तिकादिषु।
स्थितं यन्त्रं समाराध्यं स्थापितं मन्त्रवित्तमैः ॥ 46 ॥
मूलम् - 46
न कर्मबिम्बानि तथा नित्यनैमित्तिकादिषु।
स्थितं यन्त्रं समाराध्यं स्थापितं मन्त्रवित्तमैः ॥ 46 ॥
विश्वास-प्रस्तुतिः - 47
दिव्याद्यायतनाड्गत्वे स्थापिते सति कुत्रचित्।
चलस्थिरविबागेन हविरन्तं समर्चयेत् ॥ 47 ॥
मूलम् - 47
दिव्याद्यायतनाड्गत्वे स्थापिते सति कुत्रचित्।
चलस्थिरविबागेन हविरन्तं समर्चयेत् ॥ 47 ॥
विश्वास-प्रस्तुतिः - 48
द्वादश्यादिषु कालेषु पुण्येषु विविधेष्वपि।
इति सम्यक् समुद्दिष्टं महायन्त्रार्चनं परम् ॥ 48 ॥
मूलम् - 48
द्वादश्यादिषु कालेषु पुण्येषु विविधेष्वपि।
इति सम्यक् समुद्दिष्टं महायन्त्रार्चनं परम् ॥ 48 ॥
विश्वास-प्रस्तुतिः - 49
अदीक्षितानां विधिवदशिष्याणां दुरात्मनाम्।
गोपनीयं प्रयत्नेन त्वभक्तानां जनार्दने ॥ 49 ॥
मूलम् - 49
अदीक्षितानां विधिवदशिष्याणां दुरात्मनाम्।
गोपनीयं प्रयत्नेन त्वभक्तानां जनार्दने ॥ 49 ॥
विश्वास-प्रस्तुतिः - 50
भावभक्तिसमेतानां वाच्यवाचकयोर्गुरौ।
शास्त्रे ज्ञानक्रियोपेते सात्विके वेदसंमिते ॥ 50 ॥
मूलम् - 50