०२५ बाह्याभ्यन्तरयागनिर्णयः

॥ श्रीः ॥
पञ्चविंशोऽध्यायः
सनकः —

विश्वास-प्रस्तुतिः - 1

भगवन्! सम्यगाख्यातं सुदर्शननृसिह्नयोः।
मन्त्ररूपं महायन्त्रं भजतामीप्सितप्रदम् ॥ 1 ॥

मूलम् - 1

भगवन्! सम्यगाख्यातं सुदर्शननृसिह्नयोः।
मन्त्ररूपं महायन्त्रं भजतामीप्सितप्रदम् ॥ 1 ॥

तस्माद्भजनरूपं च वद सानुग्रहोऽसि मे। शाण्डिल्य :--- हिताय सर्वलोकानां यन्त्रमेतदुदाहृतमू ॥ 2 ॥
विश्वास-प्रस्तुतिः - 3

विधिना पूजितो येन सर्वं तेन समाप्यते।
मया ते श्रोतुकामाय वष्यते यजनक्रमः ॥ 3 ॥

मूलम् - 3

विधिना पूजितो येन सर्वं तेन समाप्यते।
मया ते श्रोतुकामाय वष्यते यजनक्रमः ॥ 3 ॥

विश्वास-प्रस्तुतिः - 4

प्राग्वत्स्नानादिकं कृत्वा प्रविश्य यजनालयम्।
प्रक्षाल्य पादावाचम्य सोत्तरीयः स्वलंकृतः ॥ 4 ॥

मूलम् - 4

विश्वास-प्रस्तुतिः - 5

धृतोर्ध्वपुण्ड्रः कुसुमैः द्वार्‌सथानभ्यर्च्य पूर्ववत्।
कवाटोद्धाटनं कृत्वा प्रविश्याभ्यन्तरे विभुम् ॥ 5 ॥

मूलम् - 5

विश्वास-प्रस्तुतिः - 6

प्रणिपत्य च गायत्र्या पाणिप्रक्षालनादिमम्।
अर्चायां विष्टरे यन्त्रे कृत्वा मार्गत्रयं’ ततः ॥ 6 ॥

मूलम् - 6

विश्वास-प्रस्तुतिः - 7

प्रासादं शोधयित्वाऽस्य पुरतः फलकादिके।
प्रोक्षिते चास्त्रमन्त्रेण संमुखं रुचिरासने ॥ 7 ॥

मूलम् - 7

प्रासादं शोधयित्वाऽस्य पुरतः फलकादिके।
प्रोक्षिते चास्त्रमन्त्रेण संमुखं रुचिरासने ॥ 7 ॥

विश्वास-प्रस्तुतिः - 8

समासीनः स्वपार्श्वस्थ याज्ञीयं चाधिवासनम्।
करशुद्धिं स्थानशुद्धिं कृत्वाऽस्त्रेण यथापुरम् ॥ 8 ॥

मूलम् - 8

विश्वास-प्रस्तुतिः - 9

पाणिभ्यामुक्तमन्त्रेण संयुक्तेनास्त्रमुद्रया।
पूजास्थानगदान् विघ्नान् बाह्यतोऽदृश्यविग्रहान् ॥ 9 ॥

मूलम् - 9

विश्वास-प्रस्तुतिः - 10

विरेच्य बन्धनं कुर्यात् दिक्षु चैव विदिक्षु च।
कवचेनावकुण्ठ्याथ प्राणानायम्य पूर्ववत् ॥ 10 ॥

मूलम् - 10

विरेच्य बन्धनं कुर्यात् दिक्षु चैव विदिक्षु च।
कवचेनावकुण्ठ्याथ प्राणानायम्य पूर्ववत् ॥ 10 ॥

विश्वास-प्रस्तुतिः - 11

तत्वानि चोपसंहृत्य देहस्थान्यात्मना सह।
सर्वतत्वविनिर्मुक्तं विग्रहं केवलं ततः ॥ 11 ॥

मूलम् - 11

तत्वानि चोपसंहृत्य देहस्थान्यात्मना सह।
सर्वतत्वविनिर्मुक्तं विग्रहं केवलं ततः ॥ 11 ॥

विश्वास-प्रस्तुतिः - 12

शोधयेद्धारणाभिश्च शोषणाद्याभिरूर्ध्वतः।
तुर्याद्यन्ते पदे देवं सुदर्शनतनुं स्मरेत् ॥ 12 ॥

मूलम् - 12

शोधयेद्धारणाभिश्च शोषणाद्याभिरूर्ध्वतः।
तुर्याद्यन्ते पदे देवं सुदर्शनतनुं स्मरेत् ॥ 12 ॥

विश्वास-प्रस्तुतिः - 13

बलात्मनाऽस्य मरुता कवचेन तनुं स्वकाम्।
शोषयित्वा, दहेद्देहं दक्षांगुष्ठाद्य(देश)षतः ॥ 13 ॥

मूलम् - 13

बलात्मनाऽस्य मरुता कवचेन तनुं स्वकाम्।
शोषयित्वा, दहेद्देहं दक्षांगुष्ठाद्य(देश)षतः ॥ 13 ॥

विश्वास-प्रस्तुतिः - 14

कल्पान्तपावकज्वाला सहस्रायुतदीधितिम्।
भावयित्वा शिखामन्त्रं तेन दग्धमनुस्मरेत् ॥ 14 ॥

मूलम् - 14

कल्पान्तपावकज्वाला सहस्रायुतदीधितिम्।
भावयित्वा शिखामन्त्रं तेन दग्धमनुस्मरेत् ॥ 14 ॥

विश्वास-प्रस्तुतिः - 15

दृन्मन्त्रं पूर्णचन्द्राभममृतासारवर्षिणम्।
वामांगुष्ठाग्रतो ध्यात्वा सेचितं तेन भावयेत् ॥ 15 ॥

मूलम् - 15

दृन्मन्त्रं पूर्णचन्द्राभममृतासारवर्षिणम्।
वामांगुष्ठाग्रतो ध्यात्वा सेचितं तेन भावयेत् ॥ 15 ॥

विश्वास-प्रस्तुतिः - 16

विनियुक्तांस्ततो मन्त्रान् वर्माद्यां छोषणादिषु।
मन्त्रेश्वरे लयं यातानिति सञ्चिन्त्य भावयेत् ॥ 16 ॥

मूलम् - 16

विनियुक्तांस्ततो मन्त्रान् वर्माद्यां छोषणादिषु।
मन्त्रेश्वरे लयं यातानिति सञ्चिन्त्य भावयेत् ॥ 16 ॥

विश्वास-प्रस्तुतिः - 17

आनन्दामृतसंपूर्णशीतांशुशतसप्रभम्।
तत्प्रान्तैरमृतौघैश्च बृंहितां भावयेत्तनुम् ॥ 17 ॥

मूलम् - 17

आनन्दामृतसंपूर्णशीतांशुशतसप्रभम्।
तत्प्रान्तैरमृतौघैश्च बृंहितां भावयेत्तनुम् ॥ 17 ॥

विश्वास-प्रस्तुतिः - 18

तस्मात्तत्वानि विन्यस्य संहृतानि यथाक्रमम्।
स्वात्मना तामधिष्ठाय मन्त्रन्यासं समाचरेत् ॥ 18 ॥

मूलम् - 18

तस्मात्तत्वानि विन्यस्य संहृतानि यथाक्रमम्।
स्वात्मना तामधिष्ठाय मन्त्रन्यासं समाचरेत् ॥ 18 ॥

विश्वास-प्रस्तुतिः - 19

अकारादिक्षकारान्तमातृकां मन्त्रमातरम्।
विनय्सेत् करयोः पूर्वं विग्रहेचक्रमाल्लपन् ॥ 19 ॥

मूलम् - 19

अकारादिक्षकारान्तमातृकां मन्त्रमातरम्।
विनय्सेत् करयोः पूर्वं विग्रहेचक्रमाल्लपन् ॥ 19 ॥

विश्वास-प्रस्तुतिः - 20

कृत्वैवं व्यापकन्यासमादित्यातपसप्रभः।
दक्षेतरक्रमेणैव शाखासु तलयोरपि ॥ 20 ॥

मूलम् - 20

कृत्वैवं व्यापकन्यासमादित्यातपसप्रभः।
दक्षेतरक्रमेणैव शाखासु तलयोरपि ॥ 20 ॥

विश्वास-प्रस्तुतिः - 21

अंगुष्ठादिकनिष्ठान्तमेकैकस्यास्चतुश्चतुः।
एवं द्विविंशकं न्यस्य तलयोर्दशकं ततः ॥ 21 ॥

मूलम् - 21

अंगुष्ठादिकनिष्ठान्तमेकैकस्यास्चतुश्चतुः।
एवं द्विविंशकं न्यस्य तलयोर्दशकं ततः ॥ 21 ॥

विश्वास-प्रस्तुतिः - 22

मध्ये च त्रि(दिक्) चतुष्के च पञ्चकं पञ्चकं तथा।
प्रणवद्वयमध्यस्थान्येवं न्यस्त्वा करद्वये ॥ 22 ॥

मूलम् - 22

मध्ये च त्रि(दिक्) चतुष्के च पञ्चकं पञ्चकं तथा।
प्रणवद्वयमध्यस्थान्येवं न्यस्त्वा करद्वये ॥ 22 ॥

विश्वास-प्रस्तुतिः - 23

व्यापकन्यासपूर्वं तु स्वशरीरेऽपि विन्यसेत्।
मूर्ध्नः पादतलं यावत् पाणिब्यां तपनांशुवत् ॥ 23 ॥

मूलम् - 23

व्यापकन्यासपूर्वं तु स्वशरीरेऽपि विन्यसेत्।
मूर्ध्नः पादतलं यावत् पाणिब्यां तपनांशुवत् ॥ 23 ॥

विश्वास-प्रस्तुतिः - 24

व्यापयित्वा ततो न्यासं पृथगेव समाचरेत्।
केशान्ते वक्त्रवृत्ते च नेत्रयोः श्रवणद्वये ॥ 24 ॥

मूलम् - 24

व्यापयित्वा ततो न्यासं पृथगेव समाचरेत्।
केशान्ते वक्त्रवृत्ते च नेत्रयोः श्रवणद्वये ॥ 24 ॥

विश्वास-प्रस्तुतिः - 25

घ्राणरन्ध्रद्वये गण्डद्वये दक्षेतरक्रमात्।
उत्तराधरयोगेन दन्तयोस्तच्छदद्वये ॥ 25 ॥

मूलम् - 25

घ्राणरन्ध्रद्वये गण्डद्वये दक्षेतरक्रमात्।
उत्तराधरयोगेन दन्तयोस्तच्छदद्वये ॥ 25 ॥

विश्वास-प्रस्तुतिः - 26

मूर्ध्नि न्यसेत् स्वरानन्यान् सविसर्गाननन्तरम्।
कवर्गं दक्षिणे बाहौ सन्धिपञ्चगतं क्रमात् ॥ 26 ॥

मूलम् - 26

मूर्ध्नि न्यसेत् स्वरानन्यान् सविसर्गाननन्तरम्।
कवर्गं दक्षिणे बाहौ सन्धिपञ्चगतं क्रमात् ॥ 26 ॥

विश्वास-प्रस्तुतिः - 27

वामे तथा चवर्गं च पादयोर्दक्षिणादितः।
सन्धिगौ टतवर्गौ च पूर्ववत्तुन्दपार्श्वयोः ॥ 27 ॥

मूलम् - 27

वामे तथा चवर्गं च पादयोर्दक्षिणादितः।
सन्धिगौ टतवर्गौ च पूर्ववत्तुन्दपार्श्वयोः ॥ 27 ॥

विश्वास-प्रस्तुतिः - 28

पृष्ठे नाभौ च हृदये पवर्गं धातुसप्तके।
यादिसान्तानि वर्णानि हकारं हृदयान्तरे ॥ 28 ॥

मूलम् - 28

पृष्ठे नाभौ च हृदये पवर्गं धातुसप्तके।
यादिसान्तानि वर्णानि हकारं हृदयान्तरे ॥ 28 ॥

विश्वास-प्रस्तुतिः - 29

क्षकारं हृदयाकाशे न्यस्त्वैवं मातृकां पुरा।
ततः शक्त्या पडर्णं तु न्यसेत् करशरीरगम् ॥ 29 ॥

मूलम् - 29

क्षकारं हृदयाकाशे न्यस्त्वैवं मातृकां पुरा।
ततः शक्त्या पडर्णं तु न्यसेत् करशरीरगम् ॥ 29 ॥

विश्वास-प्रस्तुतिः - 30

करन्यासं पुराविद्धि तच्छृणुष्व मुनीश्वर!।
पुटीकृतेन ताराभ्यां मन्त्रेणैव शशक्तिना ॥ 30 ॥

मूलम् - 30

करन्यासं पुराविद्धि तच्छृणुष्व मुनीश्वर!।
पुटीकृतेन ताराभ्यां मन्त्रेणैव शशक्तिना ॥ 30 ॥

विश्वास-प्रस्तुतिः - 31

नखान्तं मणिबन्धाद्यं प्राग्वत् पाणिद्वयं मृजेत्।
आद्यन्ते तारशक्त्याढ्चैः षड्भिर्वर्णैः सबिन्दुकैः ॥ 31 ॥

मूलम् - 31

विश्वास-प्रस्तुतिः - 32

अङ्‌गुष्ठादिकनिष्ठान्तं न्यस्त्वा मध्यमपर्वसु।
विन्यसेत् करजाग्रेषु चरमं वर्णमेव च ॥ 32 ॥

मूलम् - 32

अङ्‌गुष्ठादिकनिष्ठान्तं न्यस्त्वा मध्यमपर्वसु।
विन्यसेत् करजाग्रेषु चरमं वर्णमेव च ॥ 32 ॥

विश्वास-प्रस्तुतिः - 33

एवमर्णानि विन्यस्य हृदयादीनि विन्यसेत्।
मूलाग्रपर्वस्वङ्गानि वर्णन्यासक्रमेण तु ॥ 33 ॥

मूलम् - 33

एवमर्णानि विन्यस्य हृदयादीनि विन्यसेत्।
मूलाग्रपर्वस्वङ्गानि वर्णन्यासक्रमेण तु ॥ 33 ॥

विश्वास-प्रस्तुतिः - 34

पाणिभ्यामालभेद्देहमामूर्ध्नश्चरणावधि।
कृत्वैवं व्यापकन्यासमङ्गन्यासं समाचरेत् ॥ 34 ॥

मूलम् - 34

पाणिभ्यामालभेद्देहमामूर्ध्नश्चरणावधि।
कृत्वैवं व्यापकन्यासमङ्गन्यासं समाचरेत् ॥ 34 ॥

विश्वास-प्रस्तुतिः - 35

मूर्ध्नि वक्त्रे च हृदये नाभौ गुह्ये च पादयोः।
सृष्टिन्यासो भवेदेष स्यादङ्गोपाङ्गवत् स्थितिः ॥ 35 ॥

मूलम् - 35

मूर्ध्नि वक्त्रे च हृदये नाभौ गुह्ये च पादयोः।
सृष्टिन्यासो भवेदेष स्यादङ्गोपाङ्गवत् स्थितिः ॥ 35 ॥

विश्वास-प्रस्तुतिः - 36

पादयोर्गुह्यके नाभौ हृदि वक्त्रे च मूर्धनि।
पादादिश्च शिरोऽन्त्स्तु संहृतिन्यास उच्यते ॥ 36 ॥

मूलम् - 36

पादयोर्गुह्यके नाभौ हृदि वक्त्रे च मूर्धनि।
पादादिश्च शिरोऽन्त्स्तु संहृतिन्यास उच्यते ॥ 36 ॥

विश्वास-प्रस्तुतिः - 37

हृदि मूर्ध्नि शिखायां तु स्कन्धयोः करमध्यतः।
नेत्रयोर्न्यसनीयानि स्वैर्मन्त्रैरुदितैः क्रमात् ॥ 37 ॥

मूलम् - 37

हृदि मूर्ध्नि शिखायां तु स्कन्धयोः करमध्यतः।
नेत्रयोर्न्यसनीयानि स्वैर्मन्त्रैरुदितैः क्रमात् ॥ 37 ॥

विश्वास-प्रस्तुतिः - 38

हृदयादीनि विन्यस्य पश्चात् पाणितलद्वये।
विनय्सेदस्त्रसंघं च अष्टकं वा द्विरष्टकम् ॥ 38 ॥

मूलम् - 38

हृदयादीनि विन्यस्य पश्चात् पाणितलद्वये।
विनय्सेदस्त्रसंघं च अष्टकं वा द्विरष्टकम् ॥ 38 ॥

विश्वास-प्रस्तुतिः - 39

किरीटं कौस्तुभं मालां श्रीवत्सं च यथापुरम्।
दक्षिणोत्तरयोरंसे इच्छाशक्तिं स्वपार्श्वयोः ॥ 39 ॥

मूलम् - 39

किरीटं कौस्तुभं मालां श्रीवत्सं च यथापुरम्।
दक्षिणोत्तरयोरंसे इच्छाशक्तिं स्वपार्श्वयोः ॥ 39 ॥

विश्वास-प्रस्तुतिः - 40

ऊरुमूले मनस्तत्वं न्यस्त्वा मन्त्रमयं स्वकम्।
भावयेदहमित्यन्तः सुदर्शनवपुर्हरिः ॥ 40 ॥

मूलम् - 40

ऊरुमूले मनस्तत्वं न्यस्त्वा मन्त्रमयं स्वकम्।
भावयेदहमित्यन्तः सुदर्शनवपुर्हरिः ॥ 40 ॥

विश्वास-प्रस्तुतिः - 41

गायत्र्या वर्तयेद्बाह्ये स्वात्मानं चक्रमुद्रया।
चक्रज्वालावलिं विप्र! परितो मंत्रवित्तमः ॥ 41 ॥

मूलम् - 41

गायत्र्या वर्तयेद्बाह्ये स्वात्मानं चक्रमुद्रया।
चक्रज्वालावलिं विप्र! परितो मंत्रवित्तमः ॥ 41 ॥

विश्वास-प्रस्तुतिः - 42

भावनाजनितं यागमाचरेदादिचोदितम्।
नियम्य करणग्रामं प्राग्वद् वै ज्ञानगोचरे ॥ 42 ॥

मूलम् - 42

भावनाजनितं यागमाचरेदादिचोदितम्।
नियम्य करणग्रामं प्राग्वद् वै ज्ञानगोचरे ॥ 42 ॥

विश्वास-प्रस्तुतिः - 43

आसनं कल्पयेन्मान्त्रमामूलाद्‌हृदयावधि।
आधारशक्तेरारभ्य चिद्भावासनपश्चिमम् ॥ 43 ॥

मूलम् - 43

आसनं कल्पयेन्मान्त्रमामूलाद्‌हृदयावधि।
आधारशक्तेरारभ्य चिद्भावासनपश्चिमम् ॥ 43 ॥

विश्वास-प्रस्तुतिः - 44

पुरोक्तं बावयेदूर्ध्वे मन्त्रैश्वर्यं त्रिविष्टपम्।
साधारणमिदं ज्ञेयं सुदर्शननृसिंहयोः ॥ 44 ॥

मूलम् - 44

पुरोक्तं बावयेदूर्ध्वे मन्त्रैश्वर्यं त्रिविष्टपम्।
साधारणमिदं ज्ञेयं सुदर्शननृसिंहयोः ॥ 44 ॥

विश्वास-प्रस्तुतिः - 45

पृष्ठभागेऽवतीर्णाभ्यां बहिर्वा हृदयाम्बरे।
विष्टरासनसह्कल्पकार्ये भावापनोपहृत् ॥ 45 ॥

मूलम् - 45

पृष्ठभागेऽवतीर्णाभ्यां बहिर्वा हृदयाम्बरे।
विष्टरासनसह्कल्पकार्ये भावापनोपहृत् ॥ 45 ॥

विश्वास-प्रस्तुतिः - 46

हृत्पझकर्णिकोर्ध्वस्था शब्दब्रह्नमयी पुरा।
अक्षगर्भगतं नादं नदन्ती मन्त्रगर्भितम् ॥ 46 ॥

मूलम् - 46

हृत्पझकर्णिकोर्ध्वस्था शब्दब्रह्नमयी पुरा।
अक्षगर्भगतं नादं नदन्ती मन्त्रगर्भितम् ॥ 46 ॥

विश्वास-प्रस्तुतिः - 47

शक्तिः शान्तात्मनो विष्णोः साधकैश्च वशीकृता।
शब्दशक्तिः समुद्गीता विष्टरार्कखमध्यगा ॥ 47 ॥

मूलम् - 47

शक्तिः शान्तात्मनो विष्णोः साधकैश्च वशीकृता।
शब्दशक्तिः समुद्गीता विष्टरार्कखमध्यगा ॥ 47 ॥

विश्वास-प्रस्तुतिः - 48

वर्णत्वं समनुप्राप्ता सन्ततिर्नादरूपिणी।
अकारादिक्षकारान्तवर्णपारावसानतः ॥ 48 ॥

मूलम् - 48

वर्णत्वं समनुप्राप्ता सन्ततिर्नादरूपिणी।
अकारादिक्षकारान्तवर्णपारावसानतः ॥ 48 ॥

विश्वास-प्रस्तुतिः - 49

निस्तरङ्गे परे व्योम्नि कलनारहिते शुभे।
तुर्यातीते पदे देवः प्रकाशानन्दबृंहितः ॥ 49 ॥

मूलम् - 49

निस्तरङ्गे परे व्योम्नि कलनारहिते शुभे।
तुर्यातीते पदे देवः प्रकाशानन्दबृंहितः ॥ 49 ॥

विश्वास-प्रस्तुतिः - 50

सद्ब्रह्नवासुदेवाख्यः पूर्णषाड्‌गुण्यविग्रहः।
महाविभूतिसंपूर्णः सवशक्तिमयः प्रभुः ॥ 50 ॥

मूलम् - 50

सद्ब्रह्नवासुदेवाख्यः पूर्णषाड्‌गुण्यविग्रहः।
महाविभूतिसंपूर्णः सवशक्तिमयः प्रभुः ॥ 50 ॥

विश्वास-प्रस्तुतिः - 51

संशान्तपरमानन्दस्वरूपः सततोदितः।
शङ्खचक्राह्कितनुर्वरदाभयपाणिकः ॥ 51 ॥

मूलम् - 51

संशान्तपरमानन्दस्वरूपः सततोदितः।
शङ्खचक्राह्कितनुर्वरदाभयपाणिकः ॥ 51 ॥

विश्वास-प्रस्तुतिः - 52

सहस्रसूर्यसङ्काशः सहस्रेन्दुगभस्तिमान्।
स्वप्रकाशैः किरीटाद्यैः नूपुरान्तैरलंकृतः ॥ 52 ॥

मूलम् - 52

सहस्रसूर्यसङ्काशः सहस्रेन्दुगभस्तिमान्।
स्वप्रकाशैः किरीटाद्यैः नूपुरान्तैरलंकृतः ॥ 52 ॥

विश्वास-प्रस्तुतिः - 53

श्रीवत्सकौस्तुभोपेतो वनमालाविराजितः।
पीतकौशेयबसनः प्रसन्नवदनेक्षणः ॥ 53 ॥

मूलम् - 53

श्रीवत्सकौस्तुभोपेतो वनमालाविराजितः।
पीतकौशेयबसनः प्रसन्नवदनेक्षणः ॥ 53 ॥

विश्वास-प्रस्तुतिः - 54

दन्तपंक्तिशशिज्योत्स्नाविद्योतितदिगन्तरः।
सेवितश्च श्रिया पुष्ट्या विशेषाब्यां समन्ततः ॥ 54 ॥

मूलम् - 54

दन्तपंक्तिशशिज्योत्स्नाविद्योतितदिगन्तरः।
सेवितश्च श्रिया पुष्ट्या विशेषाब्यां समन्ततः ॥ 54 ॥

विश्वास-प्रस्तुतिः - 55

शङ्खचक्रादिदिव्यास्त्रैः सर्वतत्त्वात्मकैः सदा।
विज्ञानभावनाभाव्यो निराशीःकर्मकारिभिः ॥ 55 ॥

मूलम् - 55

शङ्खचक्रादिदिव्यास्त्रैः सर्वतत्त्वात्मकैः सदा।
विज्ञानभावनाभाव्यो निराशीःकर्मकारिभिः ॥ 55 ॥

विश्वास-प्रस्तुतिः - 56

अभ्यासयोगसिद्ध्यर्थं बहिरन्तश्च नित्यशः।
बिम्बपीठादिक्लृप्तेषु वृत्तिस्थानेषु तेषु च ॥ 56 ॥

मूलम् - 56

अभ्यासयोगसिद्ध्यर्थं बहिरन्तश्च नित्यशः।
बिम्बपीठादिक्लृप्तेषु वृत्तिस्थानेषु तेषु च ॥ 56 ॥

विश्वास-प्रस्तुतिः - 57

परव्यूहादिरूपेण पूजितः सर्वमृच्छति।
ततो नित्योदितस्तत्वात् प्रकाशाह्‌लादलक्षणात् ॥ 57 ॥

मूलम् - 57

परव्यूहादिरूपेण पूजितः सर्वमृच्छति।
ततो नित्योदितस्तत्वात् प्रकाशाह्‌लादलक्षणात् ॥ 57 ॥

विश्वास-प्रस्तुतिः - 58

साधर्म्यलक्षणं प्राप्य भक्तानुग्रहकाम्यया।
क्रियाशक्तिमधिष्ठाय ज गदुद्धरणोद्यताम् ॥ 58 ॥

मूलम् - 58

साधर्म्यलक्षणं प्राप्य भक्तानुग्रहकाम्यया।
क्रियाशक्तिमधिष्ठाय ज गदुद्धरणोद्यताम् ॥ 58 ॥

विश्वास-प्रस्तुतिः - 59

चिदंशं प्रादुरभवत् प्रकाशानन्दबृंहितम्।
दुर्दर्शनं प्रकाशेन साधुसन्तापकारिणाम् ॥ 59 ॥

मूलम् - 59

चिदंशं प्रादुरभवत् प्रकाशानन्दबृंहितम्।
दुर्दर्शनं प्रकाशेन साधुसन्तापकारिणाम् ॥ 59 ॥

विश्वास-प्रस्तुतिः - 60

आह्‌लादेन स्वभक्तानां सुदर्शनमितीरितम्।
षडध्वोर्ध्वगतो देवो भूत्वा कालानलात्मना ॥ 60 ॥

मूलम् - 60

आह्‌लादेन स्वभक्तानां सुदर्शनमितीरितम्।
षडध्वोर्ध्वगतो देवो भूत्वा कालानलात्मना ॥ 60 ॥

विश्वास-प्रस्तुतिः - 61

भक्तानां दुरितं हन्ति चिन्तितो नृहरिर्हरिः।
येन संपूजितावेतौ तेजसातीव निर्भरौ ॥ 61 ॥

मूलम् - 61

भक्तानां दुरितं हन्ति चिन्तितो नृहरिर्हरिः।
येन संपूजितावेतौ तेजसातीव निर्भरौ ॥ 61 ॥

विश्वास-प्रस्तुतिः - 62

स तेजस्वी च भू( पू )तात्मा सर्वत्र च सुखी भवेत्।
ज्ञात्वैवं मन्त्रसद्भावमारभेद्यजनक्रियाम् ॥ 62 ॥

मूलम् - 62

स तेजस्वी च भू( पू )तात्मा सर्वत्र च सुखी भवेत्।
ज्ञात्वैवं मन्त्रसद्भावमारभेद्यजनक्रियाम् ॥ 62 ॥

विश्वास-प्रस्तुतिः - 63

परस्माद्भगवत्तत्वाच्चित्स्वरूपं परात्मकम्।
मनसा मन्त्रमुच्चार्य विष्टरोर्ध्वेऽवतार्य च ॥ 63 ॥

मूलम् - 63

परस्माद्भगवत्तत्वाच्चित्स्वरूपं परात्मकम्।
मनसा मन्त्रमुच्चार्य विष्टरोर्ध्वेऽवतार्य च ॥ 63 ॥

विश्वास-प्रस्तुतिः - 64

वाच्यवाचकभावेन द्विधा सौदर्शनं वपुः।
साकारो वाच्यरूपः स्यान्मन्त्ररूपस्तु वाचकः ॥ 64 ॥

मूलम् - 64

वाच्यवाचकभावेन द्विधा सौदर्शनं वपुः।
साकारो वाच्यरूपः स्यान्मन्त्ररूपस्तु वाचकः ॥ 64 ॥

विश्वास-प्रस्तुतिः - 65

प्रशस्तौ तावुभौ स्यातां परापरविभागतः।
वाच्यरूपं परं विद्यादपरं मन्त्रयन्त्रितम् ॥ 65 ॥

मूलम् - 65

प्रशस्तौ तावुभौ स्यातां परापरविभागतः।
वाच्यरूपं परं विद्यादपरं मन्त्रयन्त्रितम् ॥ 65 ॥

विश्वास-प्रस्तुतिः - 66

ज्ञात्वैवमुदयं कुर्यात् परसूक्ष्मादिभावनम्।
ज्योतीरूपं परं विद्यात् नादान्ताह्‌लादलक्षणम् ॥ 66 ॥

मूलम् - 66

ज्ञात्वैवमुदयं कुर्यात् परसूक्ष्मादिभावनम्।
ज्योतीरूपं परं विद्यात् नादान्ताह्‌लादलक्षणम् ॥ 66 ॥

विश्वास-प्रस्तुतिः - 67

चिच्छक्तिलक्षणं सूक्ष्मं शिरःपाण्यादिगर्भितम्।
लिङ्गमात्रं प्रकाशाढ्चं भाविप्रसरधर्मि यत् ॥ 67 ॥

मूलम् - 67

चिच्छक्तिलक्षणं सूक्ष्मं शिरःपाण्यादिगर्भितम्।
लिङ्गमात्रं प्रकाशाढ्चं भाविप्रसरधर्मि यत् ॥ 67 ॥

विश्वास-प्रस्तुतिः - 68

सः स्थूलो व्यक्तरूपः स्याद्वाच्यवाचकरूपयोः।
मन्त्राणां शब्दरूपाणां तिस्रोऽवस्थाः परादिकाः ॥ 68 ॥

मूलम् - 68

सः स्थूलो व्यक्तरूपः स्याद्वाच्यवाचकरूपयोः।
मन्त्राणां शब्दरूपाणां तिस्रोऽवस्थाः परादिकाः ॥ 68 ॥

विश्वास-प्रस्तुतिः - 69

पश्यन्त्याद्याः परिज्ञेयाः स्वं परं त्वपरं त्रिधा।
आद्यस्तत्रैव तारः स्याद्‌द्वितीयो बीजसंज्ञितः ॥ 69 ॥

मूलम् - 69

विश्वास-प्रस्तुतिः - 70

तृतीयः पदमन्त्राद्यस्त्विति भाव्यो भवेन्नृभिः।
सान्निध्यं संमुखीभावः सन्निरोधोऽपि पूर्ववत् ॥ 70 ॥

मूलम् - 70

तृतीयः पदमन्त्राद्यस्त्विति भाव्यो भवेन्नृभिः।
सान्निध्यं संमुखीभावः सन्निरोधोऽपि पूर्ववत् ॥ 70 ॥

विश्वास-प्रस्तुतिः - 71

मन्त्रन्यासादिकं कृत्वा लयभोगार्चनं तथा।
सकर्णिकेसरदलसंयुक्तेष्वम्बुजेष्वपि ॥ 71 ॥

मूलम् - 71

मन्त्रन्यासादिकं कृत्वा लयभोगार्चनं तथा।
सकर्णिकेसरदलसंयुक्तेष्वम्बुजेष्वपि ॥ 71 ॥

विश्वास-प्रस्तुतिः - 72

भूपुरादिषु सर्वत्र मन्त्राणां लिङ्गरूपिणाम्।
मूर्तीनां केशवादीनां मन्त्राणामर्चनं ततः ॥ 72 ॥

मूलम् - 72

भूपुरादिषु सर्वत्र मन्त्राणां लिङ्गरूपिणाम्।
मूर्तीनां केशवादीनां मन्त्राणामर्चनं ततः ॥ 72 ॥

विश्वास-प्रस्तुतिः - 73

प्रागुक्तैर्विधिवन्मन्त्रैर्भोगयागवदाचरेत्।
शिरोर्ध्वे देवदेवस्य भावयेदिन्दुमण्डलम् ॥ 73 ॥

मूलम् - 73

प्रागुक्तैर्विधिवन्मन्त्रैर्भोगयागवदाचरेत्।
शिरोर्ध्वे देवदेवस्य भावयेदिन्दुमण्डलम् ॥ 73 ॥

विश्वास-प्रस्तुतिः - 74

तत्स्रुतैरमृतौघैश्च कुर्यादर्घ्यादिकल्पनम्।
षोडशैरुपचारैर्वा द्विगुणैर्वा चतुर्गुणैः ॥ 74 ॥

मूलम् - 74

तत्स्रुतैरमृतौघैश्च कुर्यादर्घ्यादिकल्पनम्।
षोडशैरुपचारैर्वा द्विगुणैर्वा चतुर्गुणैः ॥ 74 ॥

विश्वास-प्रस्तुतिः - 75

राजवत्प्रीणनं कृत्वा होमं कुर्यात्तथाविधम्।
नाभिचक्रकृते कुण्डे षट्‌कोणे गुणमेखले ॥ 75 ॥

मूलम् - 75

राजवत्प्रीणनं कृत्वा होमं कुर्यात्तथाविधम्।
नाभिचक्रकृते कुण्डे षट्‌कोणे गुणमेखले ॥ 75 ॥

विश्वास-प्रस्तुतिः - 76

निर्मथ्य भावनोद्भतामरणिं ज्ञानरज्जुना।
समुत्पाद्य च चिद्वह्निं सर्वसंस्कारसंस्कृतम् ॥ 76 ॥

मूलम् - 76

निर्मथ्य भावनोद्भतामरणिं ज्ञानरज्जुना।
समुत्पाद्य च चिद्वह्निं सर्वसंस्कारसंस्कृतम् ॥ 76 ॥

विश्वास-प्रस्तुतिः - 77

सदैवोर्ध्वशिखं दीप्तं शुद्धं भगवदात्मकम्।
नाबिकुण्डगतं ज्ञात्वा तेजः शक्त्‌युपबृंहितम् ॥ 77 ॥

मूलम् - 77

सदैवोर्ध्वशिखं दीप्तं शुद्धं भगवदात्मकम्।
नाबिकुण्डगतं ज्ञात्वा तेजः शक्त्‌युपबृंहितम् ॥ 77 ॥

विश्वास-प्रस्तुतिः - 78

हृदब्जगगनोर्ध्वस्थं मूलमन्त्रं समुच्चरेत्।
प्लुतध्यानसमोपेतं सत्यान्तेऽस्मिन् लयं गते ॥ 78 ॥

मूलम् - 78

हृदब्जगगनोर्ध्वस्थं मूलमन्त्रं समुच्चरेत्।
प्लुतध्यानसमोपेतं सत्यान्तेऽस्मिन् लयं गते ॥ 78 ॥

विश्वास-प्रस्तुतिः - 79

निस्तरङ्गे परे प्राप्ते ब्रह्नस्थं पूर्णवारितैः।
ध्यानस्रुवेण चाहृत्य सन्धिमार्गेऽमृताध्वना ॥ 79 ॥

मूलम् - 79

निस्तरङ्गे परे प्राप्ते ब्रह्नस्थं पूर्णवारितैः।
ध्यानस्रुवेण चाहृत्य सन्धिमार्गेऽमृताध्वना ॥ 79 ॥

विश्वास-प्रस्तुतिः - 80

हृदयादवतीर्णस्य ज्वालाग्रावस्थितस्य च।
मन्त्रनाथस्य शिरसि वसुधारामिव क्षिपेत् ॥ 80 ॥

मूलम् - 80

हृदयादवतीर्णस्य ज्वालाग्रावस्थितस्य च।
मन्त्रनाथस्य शिरसि वसुधारामिव क्षिपेत् ॥ 80 ॥

विश्वास-प्रस्तुतिः - 81

चिदग्निमेवं सन्तर्प्य ज्वालाग्रावस्थितं प्रभुम्।
हृदब्जकर्णिकान्तस्थं भूयो भाव्याहुतिक्रियाः ॥ 81 ॥

मूलम् - 81

चिदग्निमेवं सन्तर्प्य ज्वालाग्रावस्थितं प्रभुम्।
हृदब्जकर्णिकान्तस्थं भूयो भाव्याहुतिक्रियाः ॥ 81 ॥

विश्वास-प्रस्तुतिः - 82

समाप्य विधिवत् पूजामपराङ्गे हरिं स्थितम्।
स्वमन्त्रेणार्चयित्वाऽथ होमान्तं भावनामृतैः ॥ 82 ॥

मूलम् - 82

समाप्य विधिवत् पूजामपराङ्गे हरिं स्थितम्।
स्वमन्त्रेणार्चयित्वाऽथ होमान्तं भावनामृतैः ॥ 82 ॥

विश्वास-प्रस्तुतिः - 83

तदन्ते यन्त्ररूपस्य मुखद्वयगतस्य च।
पन्त्रसंघस्य पूर्णान्तं कृत्वा सन्तर्पणं ततः ॥ 83 ॥

मूलम् - 83

तदन्ते यन्त्ररूपस्य मुखद्वयगतस्य च।
पन्त्रसंघस्य पूर्णान्तं कृत्वा सन्तर्पणं ततः ॥ 83 ॥

विश्वास-प्रस्तुतिः - 84

विष्टरस्थं यजेद्बाह्ये त्वर्चारूपमुखद्वये।
मूर्तैरर्घ्यांदिभिर्भोगैर्विधिवत्समुपाहृतैः ॥ 84 ॥

मूलम् - 84

विष्टरस्थं यजेद्बाह्ये त्वर्चारूपमुखद्वये।
मूर्तैरर्घ्यांदिभिर्भोगैर्विधिवत्समुपाहृतैः ॥ 84 ॥

विश्वास-प्रस्तुतिः - 85

प्राग्वदर्घ्यादिपात्राणां पूजनं स्थापनं तथा।
दैहविन्यस्तमन्त्राणां गर्भद्वारस्थपूजनम् ॥ 85 ॥

मूलम् - 85

प्राग्वदर्घ्यादिपात्राणां पूजनं स्थापनं तथा।
दैहविन्यस्तमन्त्राणां गर्भद्वारस्थपूजनम् ॥ 85 ॥

विश्वास-प्रस्तुतिः - 86

धातारं च विधातारं प्रचण्डं चण्डपूर्वकम्।
पूर्वपश्चिमयोर्बाह्यमण्टपद्वारयोः क्रमात् ॥ 86 ॥

मूलम् - 86

धातारं च विधातारं प्रचण्डं चण्डपूर्वकम्।
पूर्वपश्चिमयोर्बाह्यमण्टपद्वारयोः क्रमात् ॥ 86 ॥

विश्वास-प्रस्तुतिः - 87

जयं च विजयं चाथ सुभद्रं चाथ भद्रकम्।
सूर्याचन्द्रमसौ पूज्यौ दक्षेतरगवाक्षयोः ॥ 87 ॥

मूलम् - 87

जयं च विजयं चाथ सुभद्रं चाथ भद्रकम्।
सूर्याचन्द्रमसौ पूज्यौ दक्षेतरगवाक्षयोः ॥ 87 ॥

विश्वास-प्रस्तुतिः - 88

कृत्वैवं द्वारयागं तु प्रविश्याभ्यन्तरं ततः।
आधारशक्तेरारभ्य यन्त्रविष्टरपश्चिमम् ॥ 88 ॥

मूलम् - 88

कृत्वैवं द्वारयागं तु प्रविश्याभ्यन्तरं ततः।
आधारशक्तेरारभ्य यन्त्रविष्टरपश्चिमम् ॥ 88 ॥

विश्वास-प्रस्तुतिः - 89

मन्त्रमासनमब्यर्च्य गणनाथादिकं तथा ।
प्रतिष्ठितस्य देवस्य कुर्यादावाहनं ततः ॥ 89 ॥

मूलम् - 89

मन्त्रमासनमब्यर्च्य गणनाथादिकं तथा ।
प्रतिष्ठितस्य देवस्य कुर्यादावाहनं ततः ॥ 89 ॥

विश्वास-प्रस्तुतिः - 90

बिम्बहृत्कमलाकाशाच्चैतन्यममलं परम्।
प्रकाशानन्दरूपं च नित्योदितमनूपमम् ॥ 90 ॥

मूलम् - 90

बिम्बहृत्कमलाकाशाच्चैतन्यममलं परम्।
प्रकाशानन्दरूपं च नित्योदितमनूपमम् ॥ 90 ॥

विश्वास-प्रस्तुतिः - 91

कर्णिकामध्यमाश्रित्य निविष्टमनुभावयेत्।
मूलमन्त्रं समुच्चार्य प्रबुद्धं भास्वरं ततः ॥ 91 ॥

मूलम् - 91

कर्णिकामध्यमाश्रित्य निविष्टमनुभावयेत्।
मूलमन्त्रं समुच्चार्य प्रबुद्धं भास्वरं ततः ॥ 91 ॥

विश्वास-प्रस्तुतिः - 92

मन्त्रन्यासं ततः कुर्याद्यथा देहे स्वके तथा।
स्थानेषु हृदयादीनि चक्राद्यस्त्रवराणि च ॥ 92 ॥

मूलम् - 92

मन्त्रन्यासं ततः कुर्याद्यथा देहे स्वके तथा।
स्थानेषु हृदयादीनि चक्राद्यस्त्रवराणि च ॥ 92 ॥

विश्वास-प्रस्तुतिः - 93

भूषणादीनि विन्यस्य मस्तकादेः समानि च।
रत्नराशिप्रकाशानि लयाख्येनार्चयेत्ततः ॥ 93 ॥

मूलम् - 93

भूषणादीनि विन्यस्य मस्तकादेः समानि च।
रत्नराशिप्रकाशानि लयाख्येनार्चयेत्ततः ॥ 93 ॥

विश्वास-प्रस्तुतिः - 94

कर्णिकादिषु यन्त्रस्थान् भास्वद्रूपांस्तथैव च।
आसनाद्यैश्च सांस्पशैर्हृदयंगमपश्चिमैः ॥ 94 ॥

मूलम् - 94

कर्णिकादिषु यन्त्रस्थान् भास्वद्रूपांस्तथैव च।
आसनाद्यैश्च सांस्पशैर्हृदयंगमपश्चिमैः ॥ 94 ॥

विश्वास-प्रस्तुतिः - 95

प्रीणयित्वा विधानेन मूर्तिसङ्‌घसमन्वितम्।
जप्त्वा मन्त्रं यथाशक्ति तन्निवेद्य यथा पुरा ॥ 95 ॥

मूलम् - 95

प्रीणयित्वा विधानेन मूर्तिसङ्‌घसमन्वितम्।
जप्त्वा मन्त्रं यथाशक्ति तन्निवेद्य यथा पुरा ॥ 95 ॥

विश्वास-प्रस्तुतिः - 96

पाश्चात्ययन्त्रमध्यस्थमेवं नरहरिं ततः।
साङ्गं सपरिवारं च सयन्त्रार्णं समर्चयेत् ॥ 96 ॥

मूलम् - 96

पाश्चात्ययन्त्रमध्यस्थमेवं नरहरिं ततः।
साङ्गं सपरिवारं च सयन्त्रार्णं समर्चयेत् ॥ 96 ॥

विश्वास-प्रस्तुतिः - 97

इति सङ्‌क्षेपतः प्रोक्तं महायन्त्रार्चनं परम्।
प्रीणयेदग्निमध्यस्थं समिद्भिः प्रागुदीरितैः ॥ 97 ॥

मूलम् - 97

इति सङ्‌क्षेपतः प्रोक्तं महायन्त्रार्चनं परम्।
प्रीणयेदग्निमध्यस्थं समिद्भिः प्रागुदीरितैः ॥ 97 ॥

अभीष्टफलसिध्यर्थं काम्यैरपि विशेषतः। इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे सौदर्शनमहायन्त्र बाह्याभ्यन्तरयागनिर्णयो नाम पञ्चविंशोऽध्यायः। ****************