०२४ यन्त्रराजमन्त्रोद्धारविधानम्

॥ श्रीः ॥
चतुर्विंशोऽध्यायः
सनकः —

विश्वास-प्रस्तुतिः - 1

मुने! सम्यक् समाख्यातं सुदर्शननृसिंहयोः।
पूर्वापरमुखं यन्त्रं नानामन्त्रार्णपूरितम् ॥ 1 ॥

मूलम् - 1

मुने! सम्यक् समाख्यातं सुदर्शननृसिंहयोः।
पूर्वापरमुखं यन्त्रं नानामन्त्रार्णपूरितम् ॥ 1 ॥

विश्वास-प्रस्तुतिः - 2

मध्यमारभ्य मन्त्राणां साङ्गानां लक्षणं परम्।
न्यासार्थमर्चनार्थं च समाचक्ष्व यथाक्रमम् ॥ 2 ॥

मूलम् - 2

शाण्डिल्यः ---
विश्वास-प्रस्तुतिः - 3

साधु पृष्टं त्वया प्राज्ञारहस्याम्नायलक्षितम्।
सनक! त्वं श्रृणुष्वात्र मन्त्रजातं यथास्थितम् ॥ 3 ॥

मूलम् - 3

विश्वास-प्रस्तुतिः - 4

संकर्षणात् पुरा तुष्टाच्छंकरेण मयाऽपि च।
हिताय सर्वलोकानां यन्त्ररूपं गुणोत्तरम् ॥ 4 ॥

मूलम् - 4

संकर्षणात् पुरा तुष्टाच्छंकरेण मयाऽपि च।
हिताय सर्वलोकानां यन्त्ररूपं गुणोत्तरम् ॥ 4 ॥

विश्वास-प्रस्तुतिः - 5

सुगुप्ते भूतले शुद्धे वर्णचक्रं परिस्तरेत्।
अकारादिक्षकारान्तं सर्वार्णमयरूपिणम् ॥ 5 ॥

मूलम् - 5

सुगुप्ते भूतले शुद्धे वर्णचक्रं परिस्तरेत्।
अकारादिक्षकारान्तं सर्वार्णमयरूपिणम् ॥ 5 ॥

विश्वास-प्रस्तुतिः - 6

स्वक्षनाभ्यरनेमीभिः प्रथिभिश्चाप्यलंकृतम्।
कारणं सर्वमन्त्राणां अक्षे प्रणवमालिखेत् ॥ 6 ॥

मूलम् - 6

स्वक्षनाभ्यरनेमीभिः प्रथिभिश्चाप्यलंकृतम्।
कारणं सर्वमन्त्राणां अक्षे प्रणवमालिखेत् ॥ 6 ॥

विश्वास-प्रस्तुतिः - 7

अकाराद्या विसर्गान्ताः स्वरा नाभ्यङ्गमाश्रिताः।
ककारादीनि भान्तानि तदराणां त्रिरष्टके ॥ 7 ॥

मूलम् - 7

विश्वास-प्रस्तुतिः - 8

मादिहान्तानि नेमौ तु क्षार्णं प्रथिगणे स्थितम्।
शब्दब्रह्नमयं चक्रं पुरा वर्णगणं ततः ॥ 8 ॥

मूलम् - 8

मादिहान्तानि नेमौ तु क्षार्णं प्रथिगणे स्थितम्।
शब्दब्रह्नमयं चक्रं पुरा वर्णगणं ततः ॥ 8 ॥

विश्वास-प्रस्तुतिः - 9

प्रणवाद्यैर्नमोन्तैश्च संज्ञाभिः क्रमशस्ततः।
विन्यस्य मातृकायन्त्रं स्वं देवं विधिवद्‌गुरुः ॥ 9 ॥

मूलम् - 9

विश्वास-प्रस्तुतिः - 10

समभ्यर्च्यार्घ्यपुष्पाद्यैर्मातृकामन्त्रविग्रहम्।
ततः समुद्धरेन्मन्त्रान् सर्वाभिमतसिद्धिदान् ॥ 10 ॥

मूलम् - 10

समभ्यर्च्यार्घ्यपुष्पाद्यैर्मातृकामन्त्रविग्रहम्।
ततः समुद्धरेन्मन्त्रान् सर्वाभिमतसिद्धिदान् ॥ 10 ॥

विश्वास-प्रस्तुतिः - 11

जेतुं शक्ताऽऽत्मनो यातु सृष्टिस्थितिलयोन्मुखी।
कियाशक्तिः समुद्दिष्टा संकल्पजननी पुरा ॥ 11 ॥

मूलम् - 11

जेतुं शक्ताऽऽत्मनो यातु सृष्टिस्थितिलयोन्मुखी।
कियाशक्तिः समुद्दिष्टा संकल्पजननी पुरा ॥ 11 ॥

विश्वास-प्रस्तुतिः - 12

कालरूपमधिष्ठाय तयैतद्‌बृंहितं जगत्।
कालचक्रं जगज्जक्रं तस्मात् सौदर्शनं वपुः ॥ 12 ॥

मूलम् - 12

कालरूपमधिष्ठाय तयैतद्‌बृंहितं जगत्।
कालचक्रं जगज्जक्रं तस्मात् सौदर्शनं वपुः ॥ 12 ॥

विश्वास-प्रस्तुतिः - 13

तमधिष्ठाय सा शक्तिर्जीवभूता व्यवस्थिता।
विनाकृतं तया सर्वमसत्कल्पमिदं भवेत् ॥ 13 ॥

मूलम् - 13

तमधिष्ठाय सा शक्तिर्जीवभूता व्यवस्थिता।
विनाकृतं तया सर्वमसत्कल्पमिदं भवेत् ॥ 13 ॥

विश्वास-प्रस्तुतिः - 14

तस्मात् समुद्धरेच्छक्तिमग्नीषोमसमप्रभाम्।
अक्षाधारां तु वै नित्यामनाद्यन्तां च वैष्णवीम् ॥ 14 ॥

मूलम् - 14

तस्मात् समुद्धरेच्छक्तिमग्नीषोमसमप्रभाम्।
अक्षाधारां तु वै नित्यामनाद्यन्तां च वैष्णवीम् ॥ 14 ॥

विश्वास-प्रस्तुतिः - 15

पूर्वं नेम्यन्तिमद्वन्द्वं तदाद्यं सानलद्वयम्।
नाभितुर्यान्तिमद्वाभ्यां पिण्डमेतदलंकृतम् ॥ 15 ॥

मूलम् - 15

पूर्वं नेम्यन्तिमद्वन्द्वं तदाद्यं सानलद्वयम्।
नाभितुर्यान्तिमद्वाभ्यां पिण्डमेतदलंकृतम् ॥ 15 ॥

विश्वास-प्रस्तुतिः - 16

सौदर्शनमहाशक्तिः सर्वसिद्धिप्रदायिनी।
जीवभूता षडर्णस्य प्रकाशानन्दरूपिणी ॥ 16 ॥

मूलम् - 16

सौदर्शनमहाशक्तिः सर्वसिद्धिप्रदायिनी।
जीवभूता षडर्णस्य प्रकाशानन्दरूपिणी ॥ 16 ॥

विश्वास-प्रस्तुतिः - 17

हृदयाद्यङ्गसिध्यर्थं पिण्डमेतत् स्वरोज्झितम्।
दीर्घैराद्यैस्त्रिभिश्चान्त्यैर्भेदयेन्नेत्रपश्चिमम् ॥ 17 ॥

मूलम् - 17

विश्वास-प्रस्तुतिः - 18

प्रणवादीनि चैतानि कुर्याद्वै हृदयादिभिः।
नमः स्वाहा वषड्‌ढुंफट्‌वौषड्‌भिर्जातिभिः सह ॥ 18 ॥

मूलम् - 18

प्रणवादीनि चैतानि कुर्याद्वै हृदयादिभिः।
नमः स्वाहा वषड्‌ढुंफट्‌वौषड्‌भिर्जातिभिः सह ॥ 18 ॥

विश्वास-प्रस्तुतिः - 19

कमान्नियोजनीयानि विज्ञानादिगुणैः सह।
शक्तेः प्रकृतिरूपस्य षडर्णस्योद्‌धृतिं श्रृणु ॥ 19 ॥

मूलम् - 19

कमान्नियोजनीयानि विज्ञानादिगुणैः सह।
शक्तेः प्रकृतिरूपस्य षडर्णस्योद्‌धृतिं श्रृणु ॥ 19 ॥

विश्वास-प्रस्तुतिः - 20

पूर्ववत् समुपाहृत्य चान्तिमे द्वयमन्तिमम्।
तत्राष्टं सतृतीयं स्यात् सार्णं(यान्त्यं)सान्त्यंततोन्तिमम् ॥ 20 ॥

मूलम् - 20

विश्वास-प्रस्तुतिः - 21

सपञ्चमस्वरं तच्च कुर्यान्नेभ्याद्यभूषितम्।
पश्चादेकादशारार्णयुक्तं तद्‌द्विगुणारगम् ॥ 21 ॥

मूलम् - 21

सपञ्चमस्वरं तच्च कुर्यान्नेभ्याद्यभूषितम्।
पश्चादेकादशारार्णयुक्तं तद्‌द्विगुणारगम् ॥ 21 ॥

विश्वास-प्रस्तुतिः - 22

अन्त्यार्णमविमुक्तं तु कुर्यात् पञ्चमषष्ठयोः।
अयं सौदर्शनो मन्त्रः षडर्णः समुदीरितः ॥ 22 ॥

मूलम् - 22

अन्त्यार्णमविमुक्तं तु कुर्यात् पञ्चमषष्ठयोः।
अयं सौदर्शनो मन्त्रः षडर्णः समुदीरितः ॥ 22 ॥

विश्वास-प्रस्तुतिः - 23

तृतीयः पञ्चमः षष्ठः प्रत्येकं त्र्यक्षरः स्मृतः।
अन्येऽवर्णसमोपेता वर्णाः स्युर्द्व्यक्षरास्त्रयः ॥ 23 ॥

मूलम् - 23

विश्वास-प्रस्तुतिः - 24

एष कालात्मनो विष्णोर्विश्वरूपस्य वाचकः।
सतारया च शक्त्यायमष्टार्णः परिकीर्तितः ॥ 24 ॥

मूलम् - 24

एष कालात्मनो विष्णोर्विश्वरूपस्य वाचकः।
सतारया च शक्त्यायमष्टार्णः परिकीर्तितः ॥ 24 ॥

विश्वास-प्रस्तुतिः - 25

क्षेत्रक्षेत्रज्ञयुक्त्या तु यथा प्रकृतिगः पुमान्।
स्थूलस6क्ष्मात्मको ध्येयस्तथा सौदर्शनो हरिः ॥ 25 ॥

मूलम् - 25

विश्वास-प्रस्तुतिः - 26

दर्शनं परतत्वस्य स्यात्तदाख्यानदर्शनम्।
तन्निष्ठानामिदं नित्यमज्ञानतिमिरापहम् ॥ 26 ॥

मूलम् - 26

दर्शनं परतत्वस्य स्यात्तदाख्यानदर्शनम्।
तन्निष्ठानामिदं नित्यमज्ञानतिमिरापहम् ॥ 26 ॥

विश्वास-प्रस्तुतिः - 27

छिनत्ति संशयं तेषां समु(दु)पायप्रवृत्तये।
रूपान्तरमिदं तस्य संशयच्छेदकारिणः ॥ 27 ॥

मूलम् - 27

छिनत्ति संशयं तेषां समु(दु)पायप्रवृत्तये।
रूपान्तरमिदं तस्य संशयच्छेदकारिणः ॥ 27 ॥

विश्वास-प्रस्तुतिः - 28

नूनं वर्णाश्रमाचारनिष्ठानामाननेन तु।
भिनत्ति दूषकान् जन्तून् स्वकविद्याप्रभावतः ॥ 28 ॥

मूलम् - 28

नूनं वर्णाश्रमाचारनिष्ठानामाननेन तु।
भिनत्ति दूषकान् जन्तून् स्वकविद्याप्रभावतः ॥ 28 ॥

विश्वास-प्रस्तुतिः - 29

लाञ्छितानामनेनाशु भक्तानां भावितात्मनाम्।
करस्थो विजयस्तु स्यादिह लोके परत्र च ॥ 29 ॥

मूलम् - 29

लाञ्छितानामनेनाशु भक्तानां भावितात्मनाम्।
करस्थो विजयस्तु स्यादिह लोके परत्र च ॥ 29 ॥

विश्वास-प्रस्तुतिः - 30

किं पुनर्विषये यन्त्रे स्थापिते पूजिते सति।
मुने! मन्त्रप्रभावोऽयमेवमुक्तः परन्तप! ॥ 30 ॥

मूलम् - 30

किं पुनर्विषये यन्त्रे स्थापिते पूजिते सति।
मुने! मन्त्रप्रभावोऽयमेवमुक्तः परन्तप! ॥ 30 ॥

विश्वास-प्रस्तुतिः - 31

लक्षणं हृदयाद्यस्य मन्त्रस्यास्य क्रमाच्छृणु।
प्रागेव हृदयादीनां मन्त्रार्णानि यथाक्रमम् ॥ 31 ॥

मूलम् - 31

लक्षणं हृदयाद्यस्य मन्त्रस्यास्य क्रमाच्छृणु।
प्रागेव हृदयादीनां मन्त्रार्णानि यथाक्रमम् ॥ 31 ॥

विश्वास-प्रस्तुतिः - 32

विन्यसेद्बीजभूतानि तारान्ते बिन्दुना ततः।
आविसूनां क्रमादन्ते तथा सूर्याक्षरद्वयात् ॥ 32 ॥

मूलम् - 32

विन्यसेद्बीजभूतानि तारान्ते बिन्दुना ततः।
आविसूनां क्रमादन्ते तथा सूर्याक्षरद्वयात् ॥ 32 ॥

विश्वास-प्रस्तुतिः - 33

महासुदर्शनज्वालापदयोरन्तिमेऽपि च।
चक्रायेति पदं षोढा शिरोन्तं योजयेत् क्रमात् ॥ 33 ॥

मूलम् - 33

महासुदर्शनज्वालापदयोरन्तिमेऽपि च।
चक्रायेति पदं षोढा शिरोन्तं योजयेत् क्रमात् ॥ 33 ॥

विश्वास-प्रस्तुतिः - 34

विज्ञानादिगुणौपेतैः तुर्यान्तैर्हृदयादिभिः।
नमः स्वाहादिजात्यन्तैः प्रागुक्तविधिना लिखेत् ॥ 34 ॥

मूलम् - 34

विज्ञानादिगुणौपेतैः तुर्यान्तैर्हृदयादिभिः।
नमः स्वाहादिजात्यन्तैः प्रागुक्तविधिना लिखेत् ॥ 34 ॥

विश्वास-प्रस्तुतिः - 35

ध्येयान्याकारवर्त्तीनि बोगस्थानेषु मूलवत्।
वर्णभूषणवस्त्रास्त्रभुजसंस्थानचेष्टितैः ॥ 35 ॥

मूलम् - 35

ध्येयान्याकारवर्त्तीनि बोगस्थानेषु मूलवत्।
वर्णभूषणवस्त्रास्त्रभुजसंस्थानचेष्टितैः ॥ 35 ॥

विश्वास-प्रस्तुतिः - 36

वर्मास्त्रेज्ञेयमन्त्रस्य चरमार्णद्वयं स्मृतम्।
नमो नारायणायेति स्यादष्टार्णं सतारकम् ॥ 36 ॥

मूलम् - 36

वर्मास्त्रेज्ञेयमन्त्रस्य चरमार्णद्वयं स्मृतम्।
नमो नारायणायेति स्यादष्टार्णं सतारकम् ॥ 36 ॥

विश्वास-प्रस्तुतिः - 37

अस्य साङ्गान्युपाङ्गानि मन्त्रार्णैर्बिन्दुभुषितैः।
चरमार्णेन शेषाणि चरणान्तान्यपि क्रमात् ॥ 37 ॥

मूलम् - 37

अस्य साङ्गान्युपाङ्गानि मन्त्रार्णैर्बिन्दुभुषितैः।
चरमार्णेन शेषाणि चरणान्तान्यपि क्रमात् ॥ 37 ॥

विश्वास-प्रस्तुतिः - 38

गुणैश्च हृदयाद्यैश्च तुर्याद्यैर्जातिभिस्सह।
स्वरूपं षोडशार्णस्य मन्त्रस्य प्रागुदीरितम् ॥ 38 ॥

मूलम् - 38

गुणैश्च हृदयाद्यैश्च तुर्याद्यैर्जातिभिस्सह।
स्वरूपं षोडशार्णस्य मन्त्रस्य प्रागुदीरितम् ॥ 38 ॥

विश्वास-प्रस्तुतिः - 39

हृदयादिपदान्तानि कल्पनीयानि पूर्ववत्।
तत्र द्वादशमं बीजं हुंफट्‌स्वाहान्त मुच्चरेत् ॥ 39 ॥

मूलम् - 39

हृदयादिपदान्तानि कल्पनीयानि पूर्ववत्।
तत्र द्वादशमं बीजं हुंफट्‌स्वाहान्त मुच्चरेत् ॥ 39 ॥

विश्वास-प्रस्तुतिः - 40

विभोर्वराहवक्त्रस्य मन्त्रमानुष्टुभं श्रृणु।
स्वराद्यं पञ्चमं वर्णमेकीभूतं समं पुरा ॥ 40 ॥

मूलम् - 40

विभोर्वराहवक्त्रस्य मन्त्रमानुष्टुभं श्रृणु।
स्वराद्यं पञ्चमं वर्णमेकीभूतं समं पुरा ॥ 40 ॥

विश्वास-प्रस्तुतिः - 41

प्राग्वर्णमेवमुद्‌धृत्य जातिमाद्यां समाहरेत्।
अरान्तं तत् तृतीयं च तदन्ते नेमिपञ्चमम् ॥ 41 ॥

मूलम् - 41

प्राग्वर्णमेवमुद्‌धृत्य जातिमाद्यां समाहरेत्।
अरान्तं तत् तृतीयं च तदन्ते नेमिपञ्चमम् ॥ 41 ॥

विश्वास-प्रस्तुतिः - 42

नाभ्येकादशमोपेतमरषोडशकं ततः।
वराहरूपाय पदं तदूर्ध्वं व्याहृतित्रयम् ॥ 42 ॥

मूलम् - 42

नाभ्येकादशमोपेतमरषोडशकं ततः।
वराहरूपाय पदं तदूर्ध्वं व्याहृतित्रयम् ॥ 42 ॥

विश्वास-प्रस्तुतिः - 43

पतये पदमन्तेऽस्य भूपतित्वमनन्तरम्।
मे देहीति ततः पश्चाद्दापयेति पदं ततः ॥ 43 ॥

मूलम् - 43

पतये पदमन्तेऽस्य भूपतित्वमनन्तरम्।
मे देहीति ततः पश्चाद्दापयेति पदं ततः ॥ 43 ॥

विश्वास-प्रस्तुतिः - 44

शिरसा सह मन्त्रोऽयं द्वात्रिंशार्णः प्रकीर्तितः।
अङ्गानि कल्पयेदस्य विभक्तैः पञ्चधा पदैः ॥ 44 ॥

मूलम् - 44

शिरसा सह मन्त्रोऽयं द्वात्रिंशार्णः प्रकीर्तितः।
अङ्गानि कल्पयेदस्य विभक्तैः पञ्चधा पदैः ॥ 44 ॥

विश्वास-प्रस्तुतिः - 45

क्रमशः सप्तभिः षड्‌भिः सप्तभिश्चाथ सप्तभिः।
पञ्चभिर्वर्ण संभूतैः प्रणवाद्यैर्गुणोत्तरैः ॥ 45 ॥

मूलम् - 45

क्रमशः सप्तभिः षड्‌भिः सप्तभिश्चाथ सप्तभिः।
पञ्चभिर्वर्ण संभूतैः प्रणवाद्यैर्गुणोत्तरैः ॥ 45 ॥

विश्वास-प्रस्तुतिः - 46

हृदयाद्यस्त्रपर्यन्तैस्तुर्यान्तैर्जातिभिः सह।
अङ्गक्लृप्तिरियं प्रोक्ता मन्त्रस्यास्य सुलोचन! ॥ 46 ॥

मूलम् - 46

विश्वास-प्रस्तुतिः - 47

शक्तिः स्वाहास्य भूर्बीजं परिज्ञेयं ततोपरि।
मन्त्रं नृसिहरूपस्य प्राक्‌सङ्‌ख्यार्णं समुच्चरेत् ॥ 47 ॥

मूलम् - 47

विश्वास-प्रस्तुतिः - 48

पुरो दयाद्यं अग्रान्तं नाभ्यर्णान्ताद्यसंयुतम्।
कवीनां मध्यमं, पूर्वं रमायाः, संमतान्तरम् ॥ 48 ॥

मूलम् - 48

पुरो दयाद्यं अग्रान्तं नाभ्यर्णान्ताद्यसंयुतम्।
कवीनां मध्यमं, पूर्वं रमायाः, संमतान्तरम् ॥ 48 ॥

विश्वास-प्रस्तुतिः - 49

स्वाहान्तं, विष्टराद्यं च, कृष्णान्तं चोरुपूर्वकम्।
नाभिपञ्चदशार्णेन संयुतं, तदनन्तरम् ॥ 49 ॥

मूलम् - 49

स्वाहान्तं, विष्टराद्यं च, कृष्णान्तं चोरुपूर्वकम्।
नाभिपञ्चदशार्णेन संयुतं, तदनन्तरम् ॥ 49 ॥

विश्वास-प्रस्तुतिः - 50

पूजान्तं, लोर्घ्वकं वाद्यमनन्तान्तं सबिन्दुकम्।
सहस्राद्यं, अपूर्वान्तं, सर्वतोन्तमतः परम् ॥ 50 ॥

मूलम् - 50

पूजान्तं, लोर्घ्वकं वाद्यमनन्तान्तं सबिन्दुकम्।
सहस्राद्यं, अपूर्वान्तं, सर्वतोन्तमतः परम् ॥ 50 ॥

विश्वास-प्रस्तुतिः - 51

मुकुटाद्यं, मुखान्तं च, नेम्याद्यर्णसन्वितम्।
किन्नरान्तरमादाय ऋछयाद्यर्णोपरि स्थितम् ॥ 51 ॥

मूलम् - 51

मुकुटाद्यं, मुखान्तं च, नेम्याद्यर्णसन्वितम्।
किन्नरान्तरमादाय ऋछयाद्यर्णोपरि स्थितम् ॥ 51 ॥

विश्वास-प्रस्तुतिः - 52

अस्यन्तं, बिन्दुसंयुक्तं, हरेराद्यं, समं, ततः।
गंभीरमध्यं धिषणमध्यमं कर्षणान्तिमम् ॥ 52 ॥

मूलम् - 52

अस्यन्तं, बिन्दुसंयुक्तं, हरेराद्यं, समं, ततः।
गंभीरमध्यं धिषणमध्यमं कर्षणान्तिमम् ॥ 52 ॥

विश्वास-प्रस्तुतिः - 53

नाभ्यन्ताद्येन संयुक्तं, ततो भद्राद्यमेव च।
उन्निद्रान्तमनुस्वारं अमृताभ्यन्तरं, द्विधा ॥ 53 ॥

मूलम् - 53

नाभ्यन्ताद्येन संयुक्तं, ततो भद्राद्यमेव च।
उन्निद्रान्तमनुस्वारं अमृताभ्यन्तरं, द्विधा ॥ 53 ॥

विश्वास-प्रस्तुतिः - 54

तयोरन्तेऽमृतान्तं स्यात् वायुं तस्योपरि स्थितम्।
ततोऽन्नान्त्यं रमान्तं च रम्यान्तं हं समुद्धरेत् ॥ 54 ॥

मूलम् - 54

विश्वास-प्रस्तुतिः - 55

एवमानुष्टुभो मन्त्रः कीर्तितो नृहरेः परः।
पञ्चमं सस(त)कान्ताद्यं बीजमस्य प्रकीर्तितम् ॥ 55 ॥

मूलम् - 55

एवमानुष्टुभो मन्त्रः कीर्तितो नृहरेः परः।
पञ्चमं सस(त)कान्ताद्यं बीजमस्य प्रकीर्तितम् ॥ 55 ॥

विश्वास-प्रस्तुतिः - 56

शक्तिश्चैवं सविज्ञेयमिन्दुपूर्वं सबिन्दुकम्।
पादैश्चतुर्भिः, सर्वैश्च प्रणवाद्यैरनुक्रमात् ॥ 56 ॥

मूलम् - 56

शक्तिश्चैवं सविज्ञेयमिन्दुपूर्वं सबिन्दुकम्।
पादैश्चतुर्भिः, सर्वैश्च प्रणवाद्यैरनुक्रमात् ॥ 56 ॥

विश्वास-प्रस्तुतिः - 57

पञ्चाङ्गान्यस्य मन्त्रस्य हृदयादीनि कल्पयेत्।
पादान्ते योजयेदेताननन्तात्मन; उच्यते ॥ 57 ॥

मूलम् - 57

पञ्चाङ्गान्यस्य मन्त्रस्य हृदयादीनि कल्पयेत्।
पादान्ते योजयेदेताननन्तात्मन; उच्यते ॥ 57 ॥

विश्वास-प्रस्तुतिः - 58

ततः प्रियात्मने इति, ज्योतिरात्मने इत्यपि।
तुर्यो मायात्मने इति मन्त्रे चन्द्रात्मने पदम् ॥ 58 ॥

मूलम् - 58

ततः प्रियात्मने इति, ज्योतिरात्मने इत्यपि।
तुर्यो मायात्मने इति मन्त्रे चन्द्रात्मने पदम् ॥ 58 ॥

विश्वास-प्रस्तुतिः - 59

ज्ञानादिहृदयादीनि जात्यन्तानि यथापुरा।
पातालनृहरेर्मन्त्रश्चाष्टाष्टाक्षर उच्यते ॥ 59 ॥

मूलम् - 59

ज्ञानादिहृदयादीनि जात्यन्तानि यथापुरा।
पातालनृहरेर्मन्त्रश्चाष्टाष्टाक्षर उच्यते ॥ 59 ॥

विश्वास-प्रस्तुतिः - 60

क्रमात् स्वरान्तपूर्वाभ्यां युक्तं प्रथ्यर्णमुच्चरेत्।
अरद्विदशकं पश्चात् नेम्याद्यं प्रोतमोस्वरात् ॥ 60 ॥

मूलम् - 60

विश्वास-प्रस्तुतिः - 61

अरान्तं च तृतीयं च तदन्ते नेमिपञ्चमम्।
नाभ्येकादशमोपेतमक्षरं षोडशारगम् ॥ 61 ॥

मूलम् - 61

अरान्तं च तृतीयं च तदन्ते नेमिपञ्चमम्।
नाभ्येकादशमोपेतमक्षरं षोडशारगम् ॥ 61 ॥

[बिन्दुयुक्तं ततः शान्तहरेरेखाभिरन्वितम्। कुशेशयान्तमग्नीति च तदन्ते नेत्र पूर्वकम् ॥ 62 ॥
विश्वास-प्रस्तुतिः - 63

त्रातुराद्यं यशाद्यं च साद्यं पर्वतमध्यमम्।
अष्टारभं समादाय नेमिपञ्चकसंस्थितम् ॥ 63 ॥

मूलम् - 63

त्रातुराद्यं यशाद्यं च साद्यं पर्वतमध्यमम्।
अष्टारभं समादाय नेमिपञ्चकसंस्थितम् ॥ 63 ॥

विश्वास-प्रस्तुतिः - 64

रविनेमिपदं पश्चाच्छान्ताद्यं यमलादिकम्।
द्विनवारं च सान्तं च द्वयमेतद्विधोच्चरन् ॥ 64 ॥

मूलम् - 64

रविनेमिपदं पश्चाच्छान्ताद्यं यमलादिकम्।
द्विनवारं च सान्तं च द्वयमेतद्विधोच्चरन् ॥ 64 ॥

अरैकविंशं षष्ठं च द्विकमेतत्तथोच्चरन् ॥ 65 ॥ नेमितृतीयमक्षान्तं भवेतां पूर्ववद्‌द्विधा ॥ 66 ॥] क्रमेण भूषयेदेतमन्ते वर्मास्त्रशीर्षकैः ॥ 67 ॥ पातालनृहरेर्मन्त्रः चतुष्षष्ट्यर्णकः स्मृतः ॥ 68 ॥ बीजमाद्यक्षरं प्रोक्तं शक्तिः स्वाहा च सानुगा ॥ 69 ॥ अङ्गानि कल्पयेत् क्षार्णैः पूर्ववत् स्वरभूषितैः ॥ 70 ॥ अन्ते बिन्दुसमोपेतैः प्रणवाद्यैरनुक्रमात् ॥ 71 ॥ ज्ञानाद्यस्त्रावसानैश्च तुर्यान्तैर्हृदयादिभिः ॥ 72 ॥ पूर्ववत् समुपेतानि नमः स्वाहेति जातिभिः ॥ 73 ॥ नारसिंहमथाष्टार्णमन्त्रं सर्वार्थसिद्धिदम् ॥ 74 ॥
विश्वास-प्रस्तुतिः - 75

नमसः प्रणवाद्यस्य नरेत्यर्णमथान्तिमे।
सिंहायेति पदान्तोऽयं नृसिंहाष्टार्ण ईरितः ॥ 75 ॥

मूलम् - 75

नमसः प्रणवाद्यस्य नरेत्यर्णमथान्तिमे।
सिंहायेति पदान्तोऽयं नृसिंहाष्टार्ण ईरितः ॥ 75 ॥

विश्वास-प्रस्तुतिः - 76

क्षौं बीजमस्य नाभ्यर्णस्तृतीयः शक्तिरुच्यते।
कल्पयेद्‌धृदयादीनि बीजेनैव यथा पुरा ॥ 76 ॥

मूलम् - 76

क्षौं बीजमस्य नाभ्यर्णस्तृतीयः शक्तिरुच्यते।
कल्पयेद्‌धृदयादीनि बीजेनैव यथा पुरा ॥ 76 ॥

विश्वास-प्रस्तुतिः - 77

क्रमशः केशवादीनां मन्त्राणां लक्षणं श्रृणु।
नवमं चाष्टमं नेमावराद्यं मातृकान्तिमम् ॥ 77 ॥

मूलम् - 77

क्रमशः केशवादीनां मन्त्राणां लक्षणं श्रृणु।
नवमं चाष्टमं नेमावराद्यं मातृकान्तिमम् ॥ 77 ॥

विश्वास-प्रस्तुतिः - 78

त्रिधैकैकं क्रमात् कृत्वा बीजद्वादशकं यथा।
पौनः पुन्येन सर्वेषां यलवान् योजयेदधः ॥ 78 ॥

मूलम् - 78

त्रिधैकैकं क्रमात् कृत्वा बीजद्वादशकं यथा।
पौनः पुन्येन सर्वेषां यलवान् योजयेदधः ॥ 78 ॥

विश्वास-प्रस्तुतिः - 79

नाभिषष्ठस्वरोर्ध्वस्थानङ्कयेद्विन्दुनोपरि।
तारादिहृदयान्तानि संज्ञाभिस्तुर्यया सह ॥ 79 ॥

मूलम् - 79

नाभिषष्ठस्वरोर्ध्वस्थानङ्कयेद्विन्दुनोपरि।
तारादिहृदयान्तानि संज्ञाभिस्तुर्यया सह ॥ 79 ॥

विश्वास-प्रस्तुतिः - 80

केशवः प्रथमो वाच्यस्ततो नारायणः परः।
माधवश्चैव गोविन्दो विष्णुश्च मधुसूदनः ॥ 80 ॥

मूलम् - 80

केशवः प्रथमो वाच्यस्ततो नारायणः परः।
माधवश्चैव गोविन्दो विष्णुश्च मधुसूदनः ॥ 80 ॥

विश्वास-प्रस्तुतिः - 81

त्रिविक्रमो वामनाख्यः श्रीधरः पझलोचनः।
हृषीकेशः पझनाभो दामोदर इति श्रुतः ॥ 81 ॥

मूलम् - 81

त्रिविक्रमो वामनाख्यः श्रीधरः पझलोचनः।
हृषीकेशः पझनाभो दामोदर इति श्रुतः ॥ 81 ॥

विश्वास-प्रस्तुतिः - 82

बीजैर्दीर्घस्वरोपैतैः प्राग्वदङ्गानि कल्पयेत्।
तेषां श्रियादिकान्तानां श्रृणु मन्त्राननुक्रमात् ॥ 82 ॥

मूलम् - 82

विश्वास-प्रस्तुतिः - 83

मातृकान्तय्त्रयं क्षाद्यं चतुर्धा प्रस्तेरत् पुरा।
विष्वक्‌सुयोज्यान्यर्णानि त्वधोभागे यथाक्रमम् ॥ 83 ॥

मूलम् - 83

विश्वास-प्रस्तुतिः - 84

अग्न्यम्बुपृथिवीवारिवर्ह्निभूज्वलना क्रमात्।
वारिद्वयं च सोमं च पार्थिवद्वितयं ततः ॥ 84 ॥

मूलम् - 84

अग्न्यम्बुपृथिवीवारिवर्ह्निभूज्वलना क्रमात्।
वारिद्वयं च सोमं च पार्थिवद्वितयं ततः ॥ 84 ॥

विश्वास-प्रस्तुतिः - 85

योजयेदनलं वर्णं षट्‌सप्ताष्टसु मूर्धनि।
अधोनवद्वादशयोः सर्वेषां चोर्ध्वतः पुनः ॥ 85 ॥

मूलम् - 85

योजयेदनलं वर्णं षट्‌सप्ताष्टसु मूर्धनि।
अधोनवद्वादशयोः सर्वेषां चोर्ध्वतः पुनः ॥ 85 ॥

विश्वास-प्रस्तुतिः - 86

स्वरशक्त्या समेतेन नाभ्यन्ताद्येन भूषयेत्।
स्वरजात्यादियुक्तानि बीजानि हृदयादयः ॥ 86 ॥

मूलम् - 86

स्वरशक्त्या समेतेन नाभ्यन्ताद्येन भूषयेत्।
स्वरजात्यादियुक्तानि बीजानि हृदयादयः ॥ 86 ॥

विश्वास-प्रस्तुतिः - 87

बहिश्चक्रगदाशार्ङ्गखड्‌गाद्यैर्दिक्षु भेदिताः।
विष्णवो वासुदेवाद्या एतेषां वाचकान् श्रणु ॥ 87 ॥

मूलम् - 87

बहिश्चक्रगदाशार्ङ्गखड्‌गाद्यैर्दिक्षु भेदिताः।
विष्णवो वासुदेवाद्या एतेषां वाचकान् श्रणु ॥ 87 ॥

विश्वास-प्रस्तुतिः - 88

आद्ये चान्ते स्वरे नाभौ समुद्‌धृत्य सतारके।
पूर्वे चक्रधरायेति संज्ञया विष्णवे नमः ॥ 88 ॥

मूलम् - 88

आद्ये चान्ते स्वरे नाभौ समुद्‌धृत्य सतारके।
पूर्वे चक्रधरायेति संज्ञया विष्णवे नमः ॥ 88 ॥

विश्वास-प्रस्तुतिः - 89

अन्ये गदाधरायेति तृतीये शार्ङ्गधारिणे।
खङ्गधारिण इत्यन्ते चतुर्थस्य नियोजयेत् ॥ 89 ॥

मूलम् - 89

अन्ये गदाधरायेति तृतीये शार्ङ्गधारिणे।
खङ्गधारिण इत्यन्ते चतुर्थस्य नियोजयेत् ॥ 89 ॥

विश्वास-प्रस्तुतिः - 90

द्विषट्‌कार्णेन चोद्दिष्टा विष्णऊनां वाचकाः पृथक्।
साङ्गान्युपाङ्गान्येतेषां मन्त्राद्यैः प्राग्वदाचरेत् ॥ 90 ॥

मूलम् - 90

विश्वास-प्रस्तुतिः - 91

बीजानि यानि विष्णूनां विलोमेन स्वरान्तिमान्।
तान्युक्तानि हृषीकेशव्यूहानां समुदीरिताः ॥ 91 ॥

मूलम् - 91

बीजानि यानि विष्णूनां विलोमेन स्वरान्तिमान्।
तान्युक्तानि हृषीकेशव्यूहानां समुदीरिताः ॥ 91 ॥

विश्वास-प्रस्तुतिः - 92

जनार्धनानां वक्ष्यन्ते मन्त्राः प्राच्यानलान्तरात्।
इकारादीनि चत्वारि चैकारादीन्यनुक्रमात् ॥ 92 ॥

मूलम् - 92

जनार्धनानां वक्ष्यन्ते मन्त्राः प्राच्यानलान्तरात्।
इकारादीनि चत्वारि चैकारादीन्यनुक्रमात् ॥ 92 ॥

विश्वास-प्रस्तुतिः - 93

कुर्यात् प्रणवपूर्वाणि तेषामन्ते यथा पुरा।
पूर्वं दण्डधरायेति सर्वेषां नमसा न्यसेत् ॥ 93 ॥

मूलम् - 93

कुर्यात् प्रणवपूर्वाणि तेषामन्ते यथा पुरा।
पूर्वं दण्डधरायेति सर्वेषां नमसा न्यसेत् ॥ 93 ॥

विश्वास-प्रस्तुतिः - 94

हृदादिचरणान्तानि मन्त्रार्णैस्तु यथा पुरा।
नृसिंहक्रोडयोर्मन्त्रस्ते प्रागेव प्रदर्शितः ॥ 94 ॥

मूलम् - 94

हृदादिचरणान्तानि मन्त्रार्णैस्तु यथा पुरा।
नृसिंहक्रोडयोर्मन्त्रस्ते प्रागेव प्रदर्शितः ॥ 94 ॥

विश्वास-प्रस्तुतिः - 95

अन्तस्थाश्च ततोष्टार्णो वर्णान्ते च स्वरा हलः।
सुप्रसिद्धाः समाख्यातास्त्वपराङ्गे निबोध तु ॥ 95 ॥

मूलम् - 95

अन्तस्थाश्च ततोष्टार्णो वर्णान्ते च स्वरा हलः।
सुप्रसिद्धाः समाख्यातास्त्वपराङ्गे निबोध तु ॥ 95 ॥

विश्वास-प्रस्तुतिः - 96

सुदर्शनषडर्णस्य प्राक्‌स्थमर्णचतुष्टयम्।
पुराहृत्य ततः पश्चात्तन्नेत्राद्ये चलान्तिमे ॥ 96 ॥

मूलम् - 96

सुदर्शनषडर्णस्य प्राक्‌स्थमर्णचतुष्टयम्।
पुराहृत्य ततः पश्चात्तन्नेत्राद्ये चलान्तिमे ॥ 96 ॥

विश्वास-प्रस्तुतिः - 97

नेमिस्थं पञ्चमं व्रणं अरषोडशकोपरि।
नेमिनाभ्योस्तृतीये च वियोज्य तदनन्तरम् ॥ 97 ॥

मूलम् - 97

नेमिस्थं पञ्चमं व्रणं अरषोडशकोपरि।
नेमिनाभ्योस्तृतीये च वियोज्य तदनन्तरम् ॥ 97 ॥

विश्वास-प्रस्तुतिः - 98

नेम्याद्यं सानलं हान्तं नाभ्यन्ता त्तद्‌द्वयाङ्कितम्।
पिण्डमेतन्नृसिंहस्य विद्‌द्युद्वर्णसमन्वितम् ॥ 98 ॥

मूलम् - 98

विश्वास-प्रस्तुतिः - 99

सिंहान्त्यं हृदयाद्यं च द्विधोद्‌धृत्य द्वयं ततः।
वर्मास्त्रे च शिरो जात्यायुक्तेयं द्विनवाक्षरम् ॥ 99 ॥

मूलम् - 99

विश्वास-प्रस्तुतिः - 100

अस्यैव दशामो बीजं हनाद्यं शक्तिरुच्यते।
षडङ्गमस्य ताराद्यं हृदयाद्यं क्रमाच्छृणु ॥ 100 ॥

मूलम् - 100

अस्यैव दशामो बीजं हनाद्यं शक्तिरुच्यते।
षडङ्गमस्य ताराद्यं हृदयाद्यं क्रमाच्छृणु ॥ 100 ॥

विश्वास-प्रस्तुतिः - 101

औंकाररहितं बीजं षोढा कृत्वा यथा पुरा।
स्वरैराद्यैर्विसर्गान्तैर्नपुंसकविवर्जितैः ॥ 101 ॥

मूलम् - 101

औंकाररहितं बीजं षोढा कृत्वा यथा पुरा।
स्वरैराद्यैर्विसर्गान्तैर्नपुंसकविवर्जितैः ॥ 101 ॥

विश्वास-प्रस्तुतिः - 102

योजयित्वा तदूर्ध्वे तु पदानि क्रमशो न्यसेत्।
चक्रराजपदं पूर्वे ज्वालाचक्रपदं ततः ॥ 102 ॥

मूलम् - 102

योजयित्वा तदूर्ध्वे तु पदानि क्रमशो न्यसेत्।
चक्रराजपदं पूर्वे ज्वालाचक्रपदं ततः ॥ 102 ॥

विश्वास-प्रस्तुतिः - 103

जगच्चक्रपदं पश्चादसुरान्तकसंज्ञितम्।
पञ्चमं दीप्तचक्राख्यमन्ते माहासुदर्शनम् ॥ 103 ॥

मूलम् - 103

जगच्चक्रपदं पश्चादसुरान्तकसंज्ञितम्।
पञ्चमं दीप्तचक्राख्यमन्ते माहासुदर्शनम् ॥ 103 ॥

विश्वास-प्रस्तुतिः - 104

चतुर्थ्यन्तं नियोज्यान्ते पश्चाज्ज्ञानादिभिस्तथा।
तुर्यान्तैर्हृदयाद्यैश्च स्वाहाद्याभिश्च चातिभिः ॥ 104 ॥

मूलम् - 104

चतुर्थ्यन्तं नियोज्यान्ते पश्चाज्ज्ञानादिभिस्तथा।
तुर्यान्तैर्हृदयाद्यैश्च स्वाहाद्याभिश्च चातिभिः ॥ 104 ॥

विश्वास-प्रस्तुतिः - 105

द्वादशार्णे नृसिंहस्य बीजं पूर्वं मुने! श्रृणु।
नेमिसप्तममादाय प्रागरार्णोपलक्षितम् ॥ 105 ॥

मूलम् - 105

द्वादशार्णे नृसिंहस्य बीजं पूर्वं मुने! श्रृणु।
नेमिसप्तममादाय प्रागरार्णोपलक्षितम् ॥ 105 ॥

विश्वास-प्रस्तुतिः - 106

युक्तं स्वरान्त्यपूर्वाभ्यां कुर्याद्बीजं परं त्विदम्।
नतिप्रणवमद्यस्थमेकवीरं महाप्रभम् ॥ 106 ॥

मूलम् - 106

युक्तं स्वरान्त्यपूर्वाभ्यां कुर्याद्बीजं परं त्विदम्।
नतिप्रणवमद्यस्थमेकवीरं महाप्रभम् ॥ 106 ॥

विश्वास-प्रस्तुतिः - 107

सर्वेषां सिंहमन्त्राणां ध्यानभेदात्मनामिदम्।
जीवभूतं स्वरूपस्य वाचकं विद्धि कामदम् ॥ 107 ॥

मूलम् - 107

सर्वेषां सिंहमन्त्राणां ध्यानभेदात्मनामिदम्।
जीवभूतं स्वरूपस्य वाचकं विद्धि कामदम् ॥ 107 ॥

विश्वास-प्रस्तुतिः - 108

मूर्तिमन्त्रान् श्रृणुष्वाथ द्वादशाक्षरमण्डितम्।
प्रणवं हार्दयीजातिः तुर्यान्तं भगवत्पदम् ॥ 108 ॥

मूलम् - 108

मूर्तिमन्त्रान् श्रृणुष्वाथ द्वादशाक्षरमण्डितम्।
प्रणवं हार्दयीजातिः तुर्यान्तं भगवत्पदम् ॥ 108 ॥

विश्वास-प्रस्तुतिः - 109

नारसिंहाय दद्याद्वै पदं पञ्चाक्षरं ततः।
विश्वत्त्रातृनृसिंहस्य मन्त्रेयं द्वादशाक्षरः ॥ 109 ॥

मूलम् - 109

नारसिंहाय दद्याद्वै पदं पञ्चाक्षरं ततः।
विश्वत्त्रातृनृसिंहस्य मन्त्रेयं द्वादशाक्षरः ॥ 109 ॥

विश्वास-प्रस्तुतिः - 110

तारान्तस्येद ………………दशाक्षरः।
वक्ष्यन्ते हृदयादीनि नेत्रान्तानि यथाक्रमम् ॥ 110 ॥

मूलम् - 110

तारान्तस्येद ………………दशाक्षरः।
वक्ष्यन्ते हृदयादीनि नेत्रान्तानि यथाक्रमम् ॥ 110 ॥

विश्वास-प्रस्तुतिः - 111

षोढास्य बीजं ताराद्यमाकारादिसमन्वितम्।
बिन्दुनाङ्कितमेतेषां योजनं प्राग्वदाचरेत् ॥ 111 ॥

मूलम् - 111

षोढास्य बीजं ताराद्यमाकारादिसमन्वितम्।
बिन्दुनाङ्कितमेतेषां योजनं प्राग्वदाचरेत् ॥ 111 ॥

विश्वास-प्रस्तुतिः - 112

अह्गोपाह्गमयी व्याप्तिः सवीजैर्द्वादशाक्षरैः।
सबिन्दुभिर्गुणाद्यैश्च कल्पयं वा नतिभिः सह ॥ 112 ॥

मूलम् - 112

अह्गोपाह्गमयी व्याप्तिः सवीजैर्द्वादशाक्षरैः।
सबिन्दुभिर्गुणाद्यैश्च कल्पयं वा नतिभिः सह ॥ 112 ॥

विश्वास-प्रस्तुतिः - 113

व्यापकोऽयं नृसिंहस्य मूर्तिभेदगतस्य च।
साङ्गो मन्त्रः समुद्दिष्टः सर्वाभिमतसिद्धिदः ॥ 113 ॥

मूलम् - 113

व्यापकोऽयं नृसिंहस्य मूर्तिभेदगतस्य च।
साङ्गो मन्त्रः समुद्दिष्टः सर्वाभिमतसिद्धिदः ॥ 113 ॥

विश्वास-प्रस्तुतिः - 114

अक्षमध्यगता वर्णा वर्णिताश्चक्रमध्यगाः।
संज्ञाः सबिन्दुप्राग्वर्णा नतिप्रणवमध्यगाः ॥ 114 ॥

मूलम् - 114

अक्षमध्यगता वर्णा वर्णिताश्चक्रमध्यगाः।
संज्ञाः सबिन्दुप्राग्वर्णा नतिप्रणवमध्यगाः ॥ 114 ॥

विश्वास-प्रस्तुतिः - 115

तुर्यान्ताश्शक्तिसंघस्य जयाद्यस्य तु वाचकाः।
भीमोग्राभ्यां च भूताभ्यां तथा मन्त्रद्वयं भवेत् ॥ 115 ॥

मूलम् - 115

तुर्यान्ताश्शक्तिसंघस्य जयाद्यस्य तु वाचकाः।
भीमोग्राभ्यां च भूताभ्यां तथा मन्त्रद्वयं भवेत् ॥ 115 ॥

विश्वास-प्रस्तुतिः - 116

विष्टरेऽभिनिविष्टानां मन्त्राणां लक्षणं श्रृणु।
साध्यनामस्वरूपं तु व्यापकं वक्ष्यते पुनः ॥ 116 ॥

मूलम् - 116

विष्टरेऽभिनिविष्टानां मन्त्राणां लक्षणं श्रृणु।
साध्यनामस्वरूपं तु व्यापकं वक्ष्यते पुनः ॥ 116 ॥

विश्वास-प्रस्तुतिः - 117

तारान्ते बीजं शक्तिश्च दैवतं तस्य चेत्ततः।
शान्तिं पुष्टिं च वश्यं च विजयं चैवमादिकम् ॥ 117 ॥

मूलम् - 117

तारान्ते बीजं शक्तिश्च दैवतं तस्य चेत्ततः।
शान्तिं पुष्टिं च वश्यं च विजयं चैवमादिकम् ॥ 117 ॥

विश्वास-प्रस्तुतिः - 118

द्वितीयान्तं समुच्चार्य कुरुवीप्सान्वितं ततः।
यंच्छ यच्छ पदान्तं वा, प्राकस्थितैः प्रणवान्तिमैः ॥ 118 ॥

मूलम् - 118

द्वितीयान्तं समुच्चार्य कुरुवीप्सान्वितं ततः।
यंच्छ यच्छ पदान्तं वा, प्राकस्थितैः प्रणवान्तिमैः ॥ 118 ॥

विश्वास-प्रस्तुतिः - 119

अङ्कयेदवसाने च साध्यलक्षणमीरितम्।
द्विरष्टवर्णं नृहरेर्मन्त्रमानुष्टुभं परम् ॥ 119 ॥

मूलम् - 119

अङ्कयेदवसाने च साध्यलक्षणमीरितम्।
द्विरष्टवर्णं नृहरेर्मन्त्रमानुष्टुभं परम् ॥ 119 ॥

विश्वास-प्रस्तुतिः - 120

पूर्वमेव समुद्दिष्ठं बाह्ये वायव्यमक्षरम्।
वर्मास्त्रजातियुक्तं च वाह्नं पार्थिवमक्षरम् ॥ 120 ॥

मूलम् - 120

पूर्वमेव समुद्दिष्ठं बाह्ये वायव्यमक्षरम्।
वर्मास्त्रजातियुक्तं च वाह्नं पार्थिवमक्षरम् ॥ 120 ॥

विश्वास-प्रस्तुतिः - 121

विस्तरेण पुरा प्रोक्तं तस्मान्नेह प्रतन्यते।
वक्ष्यते यन्त्र धर्तॄणां नागानां क्षाद्यमान्वितम् ॥ 121 ॥

मूलम् - 121

विस्तरेण पुरा प्रोक्तं तस्मान्नेह प्रतन्यते।
वक्ष्यते यन्त्र धर्तॄणां नागानां क्षाद्यमान्वितम् ॥ 121 ॥

विश्वास-प्रस्तुतिः - 122

बिन्दुस्वरान्वितं बीजं प्रणवाद्यं ततः परम्।
युक्तं प्रत्येकसंज्ञाभिस्तुर्यान्ताभिर्नमोऽन्तिमम् ॥ 122 ॥

मूलम् - 122

बिन्दुस्वरान्वितं बीजं प्रणवाद्यं ततः परम्।
युक्तं प्रत्येकसंज्ञाभिस्तुर्यान्ताभिर्नमोऽन्तिमम् ॥ 122 ॥

विश्वास-प्रस्तुतिः - 123

इति शेषादिनागानां मन्त्रा सम्यगुदीरिताः।
शक्त्या सतारया यान्त्रैः सौदर्शनषडक्षरैः ॥ 123 ॥

मूलम् - 123

इति शेषादिनागानां मन्त्रा सम्यगुदीरिताः।
शक्त्या सतारया यान्त्रैः सौदर्शनषडक्षरैः ॥ 123 ॥

विश्वास-प्रस्तुतिः - 124

एकैकं भेदयेद्वर्णमष्टार्णस्योर्ध्वतोऽप्यधः।
नारायणास्त्रमन्त्रोऽयं कल्पान्तहुतभुक्प्रभः ॥ 124 ॥

मूलम् - 124

एकैकं भेदयेद्वर्णमष्टार्णस्योर्ध्वतोऽप्यधः।
नारायणास्त्रमन्त्रोऽयं कल्पान्तहुतभुक्प्रभः ॥ 124 ॥

विश्वास-प्रस्तुतिः - 125

अभिधायाक्षरं पूर्वं चक्राद्यस्त्रगणस्य तु।
युक्तं वह्निविसर्गाभ्यां, बीजं वा, प्रणवान्वितम् ॥ 125 ॥

मूलम् - 125

अभिधायाक्षरं पूर्वं चक्राद्यस्त्रगणस्य तु।
युक्तं वह्निविसर्गाभ्यां, बीजं वा, प्रणवान्वितम् ॥ 125 ॥

विश्वास-प्रस्तुतिः - 126

ततः संज्ञा चतुर्थ्यन्ता योजनीया फडन्तिमा।
चक्रादिषोडशास्त्राणामिति मन्त्राः प्रकीर्तिताः ॥ 126 ॥

मूलम् - 126

ततः संज्ञा चतुर्थ्यन्ता योजनीया फडन्तिमा।
चक्रादिषोडशास्त्राणामिति मन्त्राः प्रकीर्तिताः ॥ 126 ॥

विश्वास-प्रस्तुतिः - 127

ज्ञात्वैवं यन्त्रमाहात्म्यं योर्चयेद्विधिपूर्वकम्।
दिग्बन्ध, वह्णिप्राकार, गायत्र्या, वाहनादिकैः ॥ 127 ॥

मूलम् - 127

ज्ञात्वैवं यन्त्रमाहात्म्यं योर्चयेद्विधिपूर्वकम्।
दिग्बन्ध, वह्णिप्राकार, गायत्र्या, वाहनादिकैः ॥ 127 ॥

विश्वास-प्रस्तुतिः - 128

यागोपकरणैर्मन्त्रैर्भोग, दान विवर्जितैः।
क्रमात् सर्वफलावाप्तिर्मन्त्रसिद्धिश्च जायते ॥ 128 ॥

मूलम् - 128

यागोपकरणैर्मन्त्रैर्भोग, दान विवर्जितैः।
क्रमात् सर्वफलावाप्तिर्मन्त्रसिद्धिश्च जायते ॥ 128 ॥

विश्वास-प्रस्तुतिः - 129

दशदिग्बन्धमन्त्राणां वक्ष्यते लक्षणं पुरा।
ओं पूर्वं पुरुषायेति स्वाहान्तं तदनन्तरम् ॥ 129 ॥

मूलम् - 129

दशदिग्बन्धमन्त्राणां वक्ष्यते लक्षणं पुरा।
ओं पूर्वं पुरुषायेति स्वाहान्तं तदनन्तरम् ॥ 129 ॥

विश्वास-प्रस्तुतिः - 130

अस्त्रेण बन्धयामीति, स्वाहान्तं च षडक्षरम्।
इति दिग्बन्धमन्त्रोऽयमीरितो दुष्टदोषहृत् ॥ 130 ॥

मूलम् - 130

अस्त्रेण बन्धयामीति, स्वाहान्तं च षडक्षरम्।
इति दिग्बन्धमन्त्रोऽयमीरितो दुष्टदोषहृत् ॥ 130 ॥

विश्वास-प्रस्तुतिः - 131

प्रणवं प्राक् समुद्‌धृत्य मनुं वाग्निजाययोः।
आयान्तं विन्यसेच्चक्रंअग्निप्राकारसंज्ञितम् ॥ 131 ॥

मूलम् - 131

प्रणवं प्राक् समुद्‌धृत्य मनुं वाग्निजाययोः।
आयान्तं विन्यसेच्चक्रंअग्निप्राकारसंज्ञितम् ॥ 131 ॥

विश्वास-प्रस्तुतिः - 132

कीर्तितां चक्रगायत्रीं श्रृणु चक्रप्रसादनीम्।
जातिपूर्वं पुरस्कृत्य चक्रायेति समुद्धरेत् ॥ 132 ॥

मूलम् - 132

कीर्तितां चक्रगायत्रीं श्रृणु चक्रप्रसादनीम्।
जातिपूर्वं पुरस्कृत्य चक्रायेति समुद्धरेत् ॥ 132 ॥

विश्वास-प्रस्तुतिः - 133

द्वितीयं विष्णुगायत्र्या नृसूक्ताद्यक्षरत्रयम्।
तेत्राब्यां पदमादाय नेमिपूर्बान्तयोजितम् ॥ 133 ॥

मूलम् - 133

द्वितीयं विष्णुगायत्र्या नृसूक्ताद्यक्षरत्रयम्।
तेत्राब्यां पदमादाय नेमिपूर्बान्तयोजितम् ॥ 133 ॥

विश्वास-प्रस्तुतिः - 134

धीमहीति तदन्ते नो विनिवेश्योऽनिवारितः।
गायत्र्यन्तं समुद्धार्य तदन्ते चतुरक्षरम् ॥ 134 ॥

मूलम् - 134

धीमहीति तदन्ते नो विनिवेश्योऽनिवारितः।
गायत्र्यन्तं समुद्धार्य तदन्ते चतुरक्षरम् ॥ 134 ॥

विश्वास-प्रस्तुतिः - 135

सौदर्शनी समुद्दिष्ठा गायत्री तारकाक्षरा।
सतारका पुरा चेयं भवेदेकाक्षराधिका ॥ 135 ॥

मूलम् - 135

सौदर्शनी समुद्दिष्ठा गायत्री तारकाक्षरा।
सतारका पुरा चेयं भवेदेकाक्षराधिका ॥ 135 ॥

विश्वास-प्रस्तुतिः - 136

तारद्वयं पुरोद्‌धृत्य परमं पदमुद्धरेत्।
धामेतिवस्थितं चाथ नेम्याद्यं द्विनवारकम् ॥ 136 ॥

मूलम् - 136

तारद्वयं पुरोद्‌धृत्य परमं पदमुद्धरेत्।
धामेतिवस्थितं चाथ नेम्याद्यं द्विनवारकम् ॥ 136 ॥

विश्वास-प्रस्तुतिः - 137

द्विदशारगतं वर्णं नाभिपञ्चममूर्धनि।
ततस्तु गृहकाम्ययो इति पञ्चार्णमुद्धरेत् ॥ 137 ॥

मूलम् - 137

द्विदशारगतं वर्णं नाभिपञ्चममूर्धनि।
ततस्तु गृहकाम्ययो इति पञ्चार्णमुद्धरेत् ॥ 137 ॥

विश्वास-प्रस्तुतिः - 138

युतं नेमिद्वितीयेन द्विनवारगतं ततः।
षोडशारगतं वर्णं द्वितीयस्वरसंयुतम् ॥ 138 ॥

मूलम् - 138

युतं नेमिद्वितीयेन द्विनवारगतं ततः।
षोडशारगतं वर्णं द्वितीयस्वरसंयुतम् ॥ 138 ॥

विश्वास-प्रस्तुतिः - 139

नेमिपञ्चमवर्णं च षोडशारगतं पुनः।
नाभिद्वितीयसंभिन्नं नेम्यन्तं तारपश्चिमम् ॥ 139 ॥

मूलम् - 139

नेमिपञ्चमवर्णं च षोडशारगतं पुनः।
नाभिद्वितीयसंभिन्नं नेम्यन्तं तारपश्चिमम् ॥ 139 ॥

विश्वास-प्रस्तुतिः - 140

तृतीयस्वरसंयुक्तं तृतीयं नेमिमण्डलात्।
नेम्यन्तमास्वरोपेतमरान्तं च स्वरान्तरम् ॥ 140 ॥

मूलम् - 140

तृतीयस्वरसंयुक्तं तृतीयं नेमिमण्डलात्।
नेम्यन्तमास्वरोपेतमरान्तं च स्वरान्तरम् ॥ 140 ॥

विश्वास-प्रस्तुतिः - 141

स्वरं तृतीयं संयोज्य, ततश्च द्विनवारगम्।
न्यूनविंशारगोर्ध्वं तद्‌द्विनवाक्षरमूर्धनि ॥ 141 ॥

मूलम् - 141

स्वरं तृतीयं संयोज्य, ततश्च द्विनवारगम्।
न्यूनविंशारगोर्ध्वं तद्‌द्विनवाक्षरमूर्धनि ॥ 141 ॥

विश्वास-प्रस्तुतिः - 142

स्वरं तृतीयं संयोज्य, ततश्च द्विनवारगम्!।
पुनर्मन्त्रशरीरेति प्रणवान्तं ततो नमः ॥ 142 ॥

मूलम् - 142

स्वरं तृतीयं संयोज्य, ततश्च द्विनवारगम्!।
पुनर्मन्त्रशरीरेति प्रणवान्तं ततो नमः ॥ 142 ॥

विश्वास-प्रस्तुतिः - 143

पुनश्च नमसा युक्तो मन्त्र आवाहनोचितः।
प्रदाने सर्वभोगानां मन्त्रस्ते संप्रकाश्यते ॥ 143 ॥

मूलम् - 143

पुनश्च नमसा युक्तो मन्त्र आवाहनोचितः।
प्रदाने सर्वभोगानां मन्त्रस्ते संप्रकाश्यते ॥ 143 ॥

विश्वास-प्रस्तुतिः - 144

प्रणवं पूर्वमुच्चार्य सर्वभोगैककारणम्।
नेम्यन्तं बिन्दुसंयुक्तं त्रिधेदं पदमप्यथ ॥ 144 ॥

मूलम् - 144

प्रणवं पूर्वमुच्चार्य सर्वभोगैककारणम्।
नेम्यन्तं बिन्दुसंयुक्तं त्रिधेदं पदमप्यथ ॥ 144 ॥

विश्वास-प्रस्तुतिः - 145

गृहाणेति शिरोऽन्तोयं भोगदानस्य वाचकः।
आवाहने तथार्चायां विसर्जनविधौ तथा ॥ 145 ॥

मूलम् - 145

गृहाणेति शिरोऽन्तोयं भोगदानस्य वाचकः।
आवाहने तथार्चायां विसर्जनविधौ तथा ॥ 145 ॥

विश्वास-प्रस्तुतिः - 146

प्रणवं पूर्वमुद्‌धृत्य संबोध्य भगवन्निति।
मन्त्रमूर्तेपदं दद्यात् स्वपदं च द्वितीयया ॥ 146 ॥

मूलम् - 146

प्रणवं पूर्वमुद्‌धृत्य संबोध्य भगवन्निति।
मन्त्रमूर्तेपदं दद्यात् स्वपदं च द्वितीयया ॥ 146 ॥

विश्वास-प्रस्तुतिः - 147

आसादय क्षमस्वेति प्रणवान्तं समुद्धरेत्।
परप्रयुक्तमन्त्राणां शक्तिह्रासनतत्परः ॥ 147 ॥

मूलम् - 147

आसादय क्षमस्वेति प्रणवान्तं समुद्धरेत्।
परप्रयुक्तमन्त्राणां शक्तिह्रासनतत्परः ॥ 147 ॥

विश्वास-प्रस्तुतिः - 148

समस्तवीर्यमन्त्राढ्यं मुने! मन्त्रवरं श्रृणु।
प्रणवं पूर्वमुद्‌धृत्य प्रणवाद्यं सबिन्दुकम् ॥ 148 ॥

मूलम् - 148

समस्तवीर्यमन्त्राढ्यं मुने! मन्त्रवरं श्रृणु।
प्रणवं पूर्वमुद्‌धृत्य प्रणवाद्यं सबिन्दुकम् ॥ 148 ॥

विश्वास-प्रस्तुतिः - 149

षडर्णस्यास्त्रमन्त्रप्राक्षडर्णं प्रणवोज्झितम्।
प्रोक्तस्यार्णद्वयं पूर्वं चक्रराजपदं ततः ॥ 149 ॥

मूलम् - 149

षडर्णस्यास्त्रमन्त्रप्राक्षडर्णं प्रणवोज्झितम्।
प्रोक्तस्यार्णद्वयं पूर्वं चक्रराजपदं ततः ॥ 149 ॥

विश्वास-प्रस्तुतिः - 150

सर्वशब्दं दहद्वन्दूपूर्वं दुष्टभयंकरम्।
चिन्तामूलं पदं पश्चाद्भिन्दि भिन्दीति वै ततः ॥ 150 ॥

मूलम् - 150

सर्वशब्दं दहद्वन्दूपूर्वं दुष्टभयंकरम्।
चिन्तामूलं पदं पश्चाद्भिन्दि भिन्दीति वै ततः ॥ 150 ॥

विश्वास-प्रस्तुतिः - 151

द्विधा विदारय पदं (र ?) मन्त्रं ह्रासय ह्रासय।
भक्षयेति पदद्वन्द्वं भूतानीति ततः परम् ॥ 151 ॥

मूलम् - 151

द्विधा विदारय पदं (र ?) मन्त्रं ह्रासय ह्रासय।
भक्षयेति पदद्वन्द्वं भूतानीति ततः परम् ॥ 151 ॥

विश्वास-प्रस्तुतिः - 152

त्रासय त्रासयेत्यन्ते वर्मास्त्रे च शिरोन्तिमे।
एकसप्ततिमन्त्रोऽयं शक्तिह्रासाख्य ईरितः ॥ 152 ॥

मूलम् - 152

त्रासय त्रासयेत्यन्ते वर्मास्त्रे च शिरोन्तिमे।
एकसप्ततिमन्त्रोऽयं शक्तिह्रासाख्य ईरितः ॥ 152 ॥

विश्वास-प्रस्तुतिः - 153

मन्त्रमानुष्टुभं वक्ष्ये सर्वेषामभयप्रदम्।
भगवन्निति संबोध्य सर्वेति पदमुद्धरेत् ॥ 153 ॥

मूलम् - 153

मन्त्रमानुष्टुभं वक्ष्ये सर्वेषामभयप्रदम्।
भगवन्निति संबोध्य सर्वेति पदमुद्धरेत् ॥ 153 ॥

विश्वास-प्रस्तुतिः - 154

विजयेति पदं पश्चात् सहस्त्रारेति तत्परम्।
अपराजितेति शरणं पदं त्वामित्यनन्तरम् ॥ 154 ॥

मूलम् - 154

विजयेति पदं पश्चात् सहस्त्रारेति तत्परम्।
अपराजितेति शरणं पदं त्वामित्यनन्तरम् ॥ 154 ॥

विश्वास-प्रस्तुतिः - 155

प्रपन्नोऽस्मीति तत्पश्चाद्‌द्वितीयान्तश्चश्रीकरम्।
श्रीपदाद्यं ततः पश्चात् सुदर्शनमिति क्रमात् ॥ 155 ॥

मूलम् - 155

प्रपन्नोऽस्मीति तत्पश्चाद्‌द्वितीयान्तश्चश्रीकरम्।
श्रीपदाद्यं ततः पश्चात् सुदर्शनमिति क्रमात् ॥ 155 ॥

विश्वास-प्रस्तुतिः - 156

प्रपत्तिरिति विख्याता सर्बपापक्षयंकरी।
वक्ष्ये नृसिह्यगायत्रीमपराङ्गस्य पूजने ॥ 156 ॥

मूलम् - 156

प्रपत्तिरिति विख्याता सर्बपापक्षयंकरी।
वक्ष्ये नृसिह्यगायत्रीमपराङ्गस्य पूजने ॥ 156 ॥

विश्वास-प्रस्तुतिः - 157

वज्रेति द्व्यक्षरं पूर्वंश्रृङ्खलायेत्यतः परम्।
आयान्तं तीक्ष्णदंष्ट्रेति विझहेति पदं ततः ॥ 157 ॥

मूलम् - 157

वज्रेति द्व्यक्षरं पूर्वंश्रृङ्खलायेत्यतः परम्।
आयान्तं तीक्ष्णदंष्ट्रेति विझहेति पदं ततः ॥ 157 ॥

विश्वास-प्रस्तुतिः - 158

वज्रेति द्व्यक्षरस्यान्ते नखायेति च धीमहि।
आद्यं च चरमाद्यं च गायत्र्याः पदमुद्धरेत् ॥ 158 ॥

मूलम् - 158

वज्रेति द्व्यक्षरस्यान्ते नखायेति च धीमहि।
आद्यं च चरमाद्यं च गायत्र्याः पदमुद्धरेत् ॥ 158 ॥

विश्वास-प्रस्तुतिः - 159

सिंहेति सविसर्गं च गायत्र्यन्तं ततो न्यसेत्।
आचरेदुक्तमन्त्राभ्यामावाहनविसर्जने ॥ 159 ॥

मूलम् - 159

सिंहेति सविसर्गं च गायत्र्यन्तं ततो न्यसेत्।
आचरेदुक्तमन्त्राभ्यामावाहनविसर्जने ॥ 159 ॥

विश्वास-प्रस्तुतिः - 160

दिग्बन्धं च सहास्त्रेण प्रागुक्तेन समाचरेत्।
अन्येषामङ्गमन्त्राणां विनियोगो यथा पुरा ॥ 160 ॥

मूलम् - 160

दिग्बन्धं च सहास्त्रेण प्रागुक्तेन समाचरेत्।
अन्येषामङ्गमन्त्राणां विनियोगो यथा पुरा ॥ 160 ॥

इति निगदितमेतन्मन्त्रजालं यथाव- न्मुखयुगलसमेते यन्त्रराजे निविष्टम् ॥ 161 ॥
विश्वास-प्रस्तुतिः - 162

हृदिबहिरपि भोगैर्यानि योज्यानि तानि।
प्रकटयतु कदाचित् कष्टबुद्धेः परस्य ॥ 162 ॥

मूलम् - 162

हृदिबहिरपि भोगैर्यानि योज्यानि तानि।
प्रकटयतु कदाचित् कष्टबुद्धेः परस्य ॥ 162 ॥

इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे यन्त्रराजमन्त्रोद्धारविधानं नाम चतुर्विंशोऽध्यायः। ****************