०२३ सुदर्शननृसिंहमहाचन्त्रस्वरूपकथनम्

॥ श्रीः ॥
त्रयोविंशोऽयायः
सनकः —

विश्वास-प्रस्तुतिः - 1

प्रशंसितं पुरा ब्रह्नन्! सुदर्शननृसिंहयोः।
एकरूपं महायन्त्रस्थापनं स्थिरलक्षणम् ॥ 1 ॥

मूलम् - 1

प्रशंसितं पुरा ब्रह्नन्! सुदर्शननृसिंहयोः।
एकरूपं महायन्त्रस्थापनं स्थिरलक्षणम् ॥ 1 ॥

विस्तरेण समाचक्ष्व मयि सानुग्रहो यदि। शाण्डिल्यः :--- पुरा नारायणेनोक्तं पुण्ये बदरिकाश्रमे ॥ 2 ॥
विश्वास-प्रस्तुतिः - 3

ब्रह्नणः शीर्षविच्छेदमहापातकशान्तये।
पृच्छतः शङ्करस्याथ सर्वपापापनोदनम् ॥ 3 ॥

मूलम् - 3

ब्रह्नणः शीर्षविच्छेदमहापातकशान्तये।
पृच्छतः शङ्करस्याथ सर्वपापापनोदनम् ॥ 3 ॥

विश्वास-प्रस्तुतिः - 4

सोऽपि तं विस्तराच्छ्रुत्वा कैलासशिखरोपरि।
प्रतिष्ठाप्य विधानेन यन्त्रे विष्टरसंस्थिते ॥ 4 ॥

मूलम् - 4

विश्वास-प्रस्तुतिः - 5

कल्पान्तानलसूर्याभमुभयाननमव्ययम्।
सर्वलोकमयं सर्वदेवतामयमद्‌भुतम् ॥ 5 ॥

मूलम् - 5

कल्पान्तानलसूर्याभमुभयाननमव्ययम्।
सर्वलोकमयं सर्वदेवतामयमद्‌भुतम् ॥ 5 ॥

विश्वास-प्रस्तुतिः - 6

सर्वाधारमनाधारं सर्वशक्तिक्रियात्मकम्।
दुष्टदोषगणं सर्वं निर्दहन्तं स्वतेजसा ॥ 6 ॥

मूलम् - 6

सर्वाधारमनाधारं सर्वशक्तिक्रियात्मकम्।
दुष्टदोषगणं सर्वं निर्दहन्तं स्वतेजसा ॥ 6 ॥

विश्वास-प्रस्तुतिः - 7

समाराध्याऽचिरेणैव पूतभावोऽभवद्भवः।
तथान्ये पुरूहूताद्या विद्यामेनामवाप्य च ॥ 7 ॥

मूलम् - 7

समाराध्याऽचिरेणैव पूतभावोऽभवद्भवः।
तथान्ये पुरूहूताद्या विद्यामेनामवाप्य च ॥ 7 ॥

विश्वास-प्रस्तुतिः - 8

शङ्करात् पूर्णसंज्ञानात् स्वदिग्भागानपालयन्।
प्रजापालनशीलानां भूपानामेतदर्चनम् ॥ 8 ॥

मूलम् - 8

शङ्करात् पूर्णसंज्ञानात् स्वदिग्भागानपालयन्।
प्रजापालनशीलानां भूपानामेतदर्चनम् ॥ 8 ॥

विश्वास-प्रस्तुतिः - 9

नैरन्तर्येण कर्तव्यमन्यथा जायतेऽधृतिः।
जायते कथमेतेषामुपपातकिनामपि ॥ 9 ॥

मूलम् - 9

नैरन्तर्येण कर्तव्यमन्यथा जायतेऽधृतिः।
जायते कथमेतेषामुपपातकिनामपि ॥ 9 ॥

विश्वास-प्रस्तुतिः - 10

अकुर्वतां जगत्स्थित्यै मर्यादाया विलोकनम्।
कुर्वतां स्वस्वदुष्प्रापं भूपतीनां तु किं पुनः ॥ 10 ॥

मूलम् - 10

अकुर्वतां जगत्स्थित्यै मर्यादाया विलोकनम्।
कुर्वतां स्वस्वदुष्प्रापं भूपतीनां तु किं पुनः ॥ 10 ॥

विश्वास-प्रस्तुतिः - 11

तथान्येषां द्विजातीनां सर्वपापप्रणाशनम्।
प्रतिष्ठाप्यार्चनीयं तत् सर्वकामसमृद्धिदम् ॥ 11 ॥

मूलम् - 11

तथान्येषां द्विजातीनां सर्वपापप्रणाशनम्।
प्रतिष्ठाप्यार्चनीयं तत् सर्वकामसमृद्धिदम् ॥ 11 ॥

विश्वास-प्रस्तुतिः - 12

तद्विधानं विशेषेण श्रृणु गुह्यतमं परम्।
दिव्याद्यायतने चित्रे प्राङ्कणादौ तु कुत्रचित् ॥ 12 ॥

मूलम् - 12

तद्विधानं विशेषेण श्रृणु गुह्यतमं परम्।
दिव्याद्यायतने चित्रे प्राङ्कणादौ तु कुत्रचित् ॥ 12 ॥

विश्वास-प्रस्तुतिः - 13

ग्रामादौ तु नदीतीरे विपिने पर्वतोपरि।
प्रासादं मण्डपं वाऽथ सचित्रं सर्वतोमुखम् ॥ 13 ॥

मूलम् - 13

ग्रामादौ तु नदीतीरे विपिने पर्वतोपरि।
प्रासादं मण्डपं वाऽथ सचित्रं सर्वतोमुखम् ॥ 13 ॥

विश्वास-प्रस्तुतिः - 14

प्राक्‌पश्चिमाननं वाऽथ सगवाक्षकवाटकम्।
एकादितलसंयुक्तं चक्रलाञ्छनलाञ्छितम् ॥ 14 ॥

मूलम् - 14

प्राक्‌पश्चिमाननं वाऽथ सगवाक्षकवाटकम्।
एकादितलसंयुक्तं चक्रलाञ्छनलाञ्छितम् ॥ 14 ॥

विश्वास-प्रस्तुतिः - 15

मुखभद्रसमोपेतमारोहणसमन्वितम्।
सप्राकारं समापाद्य प्रासादाभ्यन्तरे तते ॥ 15 ॥

मूलम् - 15

मुखभद्रसमोपेतमारोहणसमन्वितम्।
सप्राकारं समापाद्य प्रासादाभ्यन्तरे तते ॥ 15 ॥

विश्वास-प्रस्तुतिः - 16

भद्रविष्टरमद्यस्थभूपुरे वज्रलाञ्छिते।
शेषादिभिर्दिक्षु मध्ये षट्‌कोणपुरभूषिते ॥ 16 ॥

मूलम् - 16

भद्रविष्टरमद्यस्थभूपुरे वज्रलाञ्छिते।
शेषादिभिर्दिक्षु मध्ये षट्‌कोणपुरभूषिते ॥ 16 ॥

विश्वास-प्रस्तुतिः - 17

सवायुबीजवायव्यमण्डलेन विराजितम्।
दशारचक्रमध्यस्थदलाष्टककजान्तरे ॥ 17 ॥

मूलम् - 17

सवायुबीजवायव्यमण्डलेन विराजितम्।
दशारचक्रमध्यस्थदलाष्टककजान्तरे ॥ 17 ॥

विश्वास-प्रस्तुतिः - 18

स्थापयेत्तं महायन्त्रं लक्षणेनोपलक्षितम्।
आद्वादशाङ्‌गुलान्मानादेकैकाङ्‌गुलवर्धितात् ॥ 18 ॥

मूलम् - 18

स्थापयेत्तं महायन्त्रं लक्षणेनोपलक्षितम्।
आद्वादशाङ्‌गुलान्मानादेकैकाङ्‌गुलवर्धितात् ॥ 18 ॥

विश्वास-प्रस्तुतिः - 19

आद्वादशाङ्‌गुलान्तानि मानानि स्युस्त्रयोदश।
तेष्वेकं निश्चयीकृत्य कर्तुरिच्छावशेन तु ॥ 19 ॥

मूलम् - 19

आद्वादशाङ्‌गुलान्तानि मानानि स्युस्त्रयोदश।
तेष्वेकं निश्चयीकृत्य कर्तुरिच्छावशेन तु ॥ 19 ॥

विश्वास-प्रस्तुतिः - 20

पादाद्युष्णीषर्यन्तं द्विषोढा वाष्टधा भवेत्।
बेरार्धमानमादाय स्वबागार्थं समन्ततः ॥ 20 ॥

मूलम् - 20

पादाद्युष्णीषर्यन्तं द्विषोढा वाष्टधा भवेत्।
बेरार्धमानमादाय स्वबागार्थं समन्ततः ॥ 20 ॥

विश्वास-प्रस्तुतिः - 21

सूत्रेण कर्णिकावृत्तं मध्यस्थेन, ततो बहिः।
एकैकांशानि पझानि षट्‌ भवन्ति यथाक्रमम् ॥ 21 ॥

मूलम् - 21

सूत्रेण कर्णिकावृत्तं मध्यस्थेन, ततो बहिः।
एकैकांशानि पझानि षट्‌ भवन्ति यथाक्रमम् ॥ 21 ॥

विश्वास-प्रस्तुतिः - 22

चतुष्पत्रं भवेदाद्यमष्टपत्रमनन्तरम्।
द्विरष्टकेसरं विद्यात् तृतीयं षोडशच्छदम् ॥ 22 ॥

मूलम् - 22

चतुष्पत्रं भवेदाद्यमष्टपत्रमनन्तरम्।
द्विरष्टकेसरं विद्यात् तृतीयं षोडशच्छदम् ॥ 22 ॥

विश्वास-प्रस्तुतिः - 23

द्वात्रिंशत्केसरं तुर्यं द्वात्रिंशद्दलभूषितम्।
अष्टाष्टकेसरोपेतं तथासङ्‌ख्यदलं बहिः ॥ 23 ॥

मूलम् - 23

द्वात्रिंशत्केसरं तुर्यं द्वात्रिंशद्दलभूषितम्।
अष्टाष्टकेसरोपेतं तथासङ्‌ख्यदलं बहिः ॥ 23 ॥

विश्वास-प्रस्तुतिः - 24

तत् केसरविनिर्मुक्तं अष्टपत्रं तथा बहिः।
भूपुरादीनि सार्धेन संपुटान्तानि बाह्यतः ॥ 24 ॥

मूलम् - 24

तत् केसरविनिर्मुक्तं अष्टपत्रं तथा बहिः।
भूपुरादीनि सार्धेन संपुटान्तानि बाह्यतः ॥ 24 ॥

विश्वास-प्रस्तुतिः - 25

द्वाभ्यां द्वाब्यां तथाशाब्यां बहिरावरणद्वयम्।
पूर्वस्मिन् केशवाद्यांश्च विष्ण्वाद्यांश्च ततो बहिः ॥ 25 ॥

मूलम् - 25

विश्वास-प्रस्तुतिः - 26

जगत्स्थितौ समुद्युक्तानृषीकेशजनार्दनात्।
बहिश्चक्रगदादीनामंशं तेषामधोर्ध्वतः ॥ 26 ॥

मूलम् - 26

जगत्स्थितौ समुद्युक्तानृषीकेशजनार्दनात्।
बहिश्चक्रगदादीनामंशं तेषामधोर्ध्वतः ॥ 26 ॥

विश्वास-प्रस्तुतिः - 27

भागद्वयं ततस्त्यक्त्वा वाराहनरसिंहयोः।
समन्ताद्‌भूपुरस्याऽथ भोगार्थं (भागार्थं) यन्त्रकल्पने ॥ 27 ॥

मूलम् - 27

भागद्वयं ततस्त्यक्त्वा वाराहनरसिंहयोः।
समन्ताद्‌भूपुरस्याऽथ भोगार्थं (भागार्थं) यन्त्रकल्पने ॥ 27 ॥

विश्वास-प्रस्तुतिः - 28

महायन्त्रस्य विस्तारे विभक्ते पञ्चधाऽथवा।
सप्तधा, मध्यबाह्यस्थैर्नालांस्त्र्यंशैः प्रकल्पयेत् ॥ 28 ॥

मूलम् - 28

महायन्त्रस्य विस्तारे विभक्ते पञ्चधाऽथवा।
सप्तधा, मध्यबाह्यस्थैर्नालांस्त्र्यंशैः प्रकल्पयेत् ॥ 28 ॥

विश्वास-प्रस्तुतिः - 29

किञ्चिद्विष्टरपीठोच्चान् नालानामधिकायतिः।
वराहवदनाकारा, पार्श्वयोर्मूलविस्तृते ॥ 29 ॥

मूलम् - 29

किञ्चिद्विष्टरपीठोच्चान् नालानामधिकायतिः।
वराहवदनाकारा, पार्श्वयोर्मूलविस्तृते ॥ 29 ॥

विश्वास-प्रस्तुतिः - 30

दक्षिणाद्यनुपातेन त्वामूलादग्रपश्चिमम्।
प्रमाणमेवं बुद्‌ध्वाऽत्र लोहदारुशिलादिकम् ॥ 30 ॥

मूलम् - 30

दक्षिणाद्यनुपातेन त्वामूलादग्रपश्चिमम्।
प्रमाणमेवं बुद्‌ध्वाऽत्र लोहदारुशिलादिकम् ॥ 30 ॥

विश्वास-प्रस्तुतिः - 31

समाहरेद्यथाशास्त्रं प्रमाणेन यथाविधि।
संपाद्या फलकाकारा भागैकेन घना दृढा ॥ 31 ॥

मूलम् - 31

समाहरेद्यथाशास्त्रं प्रमाणेन यथाविधि।
संपाद्या फलकाकारा भागैकेन घना दृढा ॥ 31 ॥

विश्वास-प्रस्तुतिः - 32

स्यात् षडंशघना शैली चतुरंघशनाऽथवा।
आकर्णिकावनेर्बाह्यचतुरश्रपुराकृतिः (वधिः) ॥ 32 ॥

मूलम् - 32

स्यात् षडंशघना शैली चतुरंघशनाऽथवा।
आकर्णिकावनेर्बाह्यचतुरश्रपुराकृतिः (वधिः) ॥ 32 ॥

विश्वास-प्रस्तुतिः - 33

प्रमाणादुत्तमादस्मान्मध्यमाधमवाञ्छया।
त्र्यंशेनार्धेन वा कुर्यान्मुख्यकल्पमुदीरितम् ॥ 33 ॥

मूलम् - 33

प्रमाणादुत्तमादस्मान्मध्यमाधमवाञ्छया।
त्र्यंशेनार्धेन वा कुर्यान्मुख्यकल्पमुदीरितम् ॥ 33 ॥

विश्वास-प्रस्तुतिः - 34

बेरोष्ठं द्विगुणीकृत्य तत्प्रमाणेन कल्पयेत्।
फलकामद्यतस्त्यक्त्वा लम्बमानं यथापुरा ॥ 34 ॥

मूलम् - 34

बेरोष्ठं द्विगुणीकृत्य तत्प्रमाणेन कल्पयेत्।
फलकामद्यतस्त्यक्त्वा लम्बमानं यथापुरा ॥ 34 ॥

विश्वास-प्रस्तुतिः - 35

शेषं द्विरष्टधा भङ्‌ख्त्वा कर्णिकार्धेन तद्बहिः।
प्राग्वदावृतिपझानि, भूपुरादीन्यथ त्रिभिः ॥ 35 ॥

मूलम् - 35

शेषं द्विरष्टधा भङ्‌ख्त्वा कर्णिकार्धेन तद्बहिः।
प्राग्वदावृतिपझानि, भूपुरादीन्यथ त्रिभिः ॥ 35 ॥

विश्वास-प्रस्तुतिः - 36

ततस्त्रिभिस्त्रिभिः कार्यं मूर्तीनामावृतिद्वयम्।
अर्धेन चतुरश्रं तु, मूर्तीनामावृतिद्वयम् ॥ 36 ॥

मूलम् - 36

ततस्त्रिभिस्त्रिभिः कार्यं मूर्तीनामावृतिद्वयम्।
अर्धेन चतुरश्रं तु, मूर्तीनामावृतिद्वयम् ॥ 36 ॥

विश्वास-प्रस्तुतिः - 37

एकैकं त्र्यंशसम्भूतं प्रमाणेन यथा भृशम्।
कल्पयेत् केशवाद्यांश्च विष्ण्वाद्यांश्च द्विरष्टधा ॥ 37 ॥

मूलम् - 37

एकैकं त्र्यंशसम्भूतं प्रमाणेन यथा भृशम्।
कल्पयेत् केशवाद्यांश्च विष्ण्वाद्यांश्च द्विरष्टधा ॥ 37 ॥

विश्वास-प्रस्तुतिः - 38

कुर्याद्वैकावृतौ बुद्ध्या संमन्त्र्य ध्यानयोगतः।
मध्यतः कर्णिकायां तु परिधौ चन्द्रमण्डलम् ॥ 38 ॥

मूलम् - 38

कुर्याद्वैकावृतौ बुद्ध्या संमन्त्र्य ध्यानयोगतः।
मध्यतः कर्णिकायां तु परिधौ चन्द्रमण्डलम् ॥ 38 ॥

विश्वास-प्रस्तुतिः - 39

तन्मध्ये तारकं कुर्यात् तन्मध्येन सुदर्शनम्।
भुजैः षोडशभिर्युक्तमष्टाभिर्वाऽनलप्रभम् ॥ 39 ॥

मूलम् - 39

तन्मध्ये तारकं कुर्यात् तन्मध्येन सुदर्शनम्।
भुजैः षोडशभिर्युक्तमष्टाभिर्वाऽनलप्रभम् ॥ 39 ॥

विश्वास-प्रस्तुतिः - 40

पिङ्गलोचनकेशाढ्चं रक्ताम्बरधरं विभुम्।
दंष्ट्राकरालवदनविवरोद्‌भूतपावकम् ॥ 40 ॥

मूलम् - 40

पिङ्गलोचनकेशाढ्चं रक्ताम्बरधरं विभुम्।
दंष्ट्राकरालवदनविवरोद्‌भूतपावकम् ॥ 40 ॥

विश्वास-प्रस्तुतिः - 41

कुटिलभ्रुकुटीभङ्गभंगुरालकषट्‌पदम्।
ललाटलोचनोद्गीर्णज्वालाज्वलितदिङ्‌मुखम् ॥ 41 ॥

मूलम् - 41

कुटिलभ्रुकुटीभङ्गभंगुरालकषट्‌पदम्।
ललाटलोचनोद्गीर्णज्वालाज्वलितदिङ्‌मुखम् ॥ 41 ॥

विश्वास-प्रस्तुतिः - 42

ऊर्ध्वज्वालागणालीढकिरीटतटशोभितम्।
श्रीवत्सकौस्तुभोरस्कं ग्रैवेयकविराजितम् ॥ 42 ॥

मूलम् - 42

ऊर्ध्वज्वालागणालीढकिरीटतटशोभितम्।
श्रीवत्सकौस्तुभोरस्कं ग्रैवेयकविराजितम् ॥ 42 ॥

विश्वास-प्रस्तुतिः - 43

पादावलम्बिनीं दिव्यां दधानमुपवीतवत्।
प्रत्यालीढेन तिष्ठन्तं चक्राक्रमणरूपिणा ॥ 43 ॥

मूलम् - 43

पादावलम्बिनीं दिव्यां दधानमुपवीतवत्।
प्रत्यालीढेन तिष्ठन्तं चक्राक्रमणरूपिणा ॥ 43 ॥

विश्वास-प्रस्तुतिः - 44

पादयोर्दक्षिणांगुष्ठप्रान्तरेखात् तथेतरात्।
पार्ष्णेः स्वमध्यतो मानं देहलब्धांगुलेन च ॥ 44 ॥

मूलम् - 44

पादयोर्दक्षिणांगुष्ठप्रान्तरेखात् तथेतरात्।
पार्ष्णेः स्वमध्यतो मानं देहलब्धांगुलेन च ॥ 44 ॥

विश्वास-प्रस्तुतिः - 45

चत्वारिंशत् साष्टकं स्यात् प्रत्यालीढं चिरान्वितम्।
मुख्यदक्षिणहस्तादिमुख्यवामकरावधि ॥ 45 ॥

मूलम् - 45

चत्वारिंशत् साष्टकं स्यात् प्रत्यालीढं चिरान्वितम्।
मुख्यदक्षिणहस्तादिमुख्यवामकरावधि ॥ 45 ॥

विश्वास-प्रस्तुतिः - 46

द्विरष्टबाहुभिर्धत्ते प्रादक्षिण्यक्रमेण तु।
शक्तिं खङ्गं, तथा चाग्नि, मङ्कुशं, दण्डकुन्तके ॥ 46 ॥

मूलम् - 46

द्विरष्टबाहुभिर्धत्ते प्रादक्षिण्यक्रमेण तु।
शक्तिं खङ्गं, तथा चाग्नि, मङ्कुशं, दण्डकुन्तके ॥ 46 ॥

विश्वास-प्रस्तुतिः - 47

परशुं च, सहस्रारं दरं च सशरं धनुः।
पाशं, हलं, ततो वज्रं, गदां च मुसलं, तथा ॥ 47 ॥

मूलम् - 47

परशुं च, सहस्रारं दरं च सशरं धनुः।
पाशं, हलं, ततो वज्रं, गदां च मुसलं, तथा ॥ 47 ॥

विश्वास-प्रस्तुतिः - 48

त्रिशूलमेतान्यस्त्राणि प्रत्येकं वीर्यवन्ति च।
दुष्प्रधर्षं भयघ्नानि वहन्तमरिसूदनम् ॥ 48 ॥

मूलम् - 48

त्रिशूलमेतान्यस्त्राणि प्रत्येकं वीर्यवन्ति च।
दुष्प्रधर्षं भयघ्नानि वहन्तमरिसूदनम् ॥ 48 ॥

विश्वास-प्रस्तुतिः - 49

अन्यथाष्टभुजो धत्ते मुख्यदक्षकरादिकैः।
पझां, कुशौ, च मुसलं, चक्र, मत्युग्रतेजसम् ॥ 49 ॥

मूलम् - 49

अन्यथाष्टभुजो धत्ते मुख्यदक्षकरादिकैः।
पझां, कुशौ, च मुसलं, चक्र, मत्युग्रतेजसम् ॥ 49 ॥

विश्वास-प्रस्तुतिः - 50

शङ्खं च, सशरं चापं, पाशं, कौमोदकीं क्रमात्।
कृत्वैवमर्धचित्रं तु नवतालेन शिल्पिना ॥ 50 ॥

मूलम् - 50

शङ्खं च, सशरं चापं, पाशं, कौमोदकीं क्रमात्।
कृत्वैवमर्धचित्रं तु नवतालेन शिल्पिना ॥ 50 ॥

विश्वास-प्रस्तुतिः - 51

पादयोरन्तरे तस्य तिष्ठतः कर्णिकावनौ।
शान्तिपुष्टिवशीकारविद्वेषाकर्षमारणान् ॥ 51 ॥

मूलम् - 51

पादयोरन्तरे तस्य तिष्ठतः कर्णिकावनौ।
शान्तिपुष्टिवशीकारविद्वेषाकर्षमारणान् ॥ 51 ॥

विश्वास-प्रस्तुतिः - 52

उच्छाटनं वा यः कर्तुमिच्छेत् साधकसत्तमः।
तस्य साध्यं लिखेन्मन्त्री शक्त्या संपुटितं विभोः ॥ 52 ॥

मूलम् - 52

उच्छाटनं वा यः कर्तुमिच्छेत् साधकसत्तमः।
तस्य साध्यं लिखेन्मन्त्री शक्त्या संपुटितं विभोः ॥ 52 ॥

विश्वास-प्रस्तुतिः - 53

इन्दुबिम्बस्य पर्यन्ते षट्‌कोणं क्रमशो लिखेत्।
प्रागादिकोणषट्‌के तु प्रवर्तकनिवर्तके ॥ 53 ॥

मूलम् - 53

इन्दुबिम्बस्य पर्यन्ते षट्‌कोणं क्रमशो लिखेत्।
प्रागादिकोणषट्‌के तु प्रवर्तकनिवर्तके ॥ 53 ॥

विश्वास-प्रस्तुतिः - 54

मन्त्राक्षराणि सादीनि सबिन्दूनि च वै पुरा।
उपक्रम्य च वर्मास्त्रे लिखेदन्तर्मुखानमून् ॥ 54 ॥

मूलम् - 54

मन्त्राक्षराणि सादीनि सबिन्दूनि च वै पुरा।
उपक्रम्य च वर्मास्त्रे लिखेदन्तर्मुखानमून् ॥ 54 ॥

विश्वास-प्रस्तुतिः - 55

बहिः कोणान्तरालेषु प्रोक्तोऽयं दक्षिणादितः।
आचक्रादीन्यथाङ्गानि ज्वालाचक्रान्तिमानि च ॥ 55 ॥

मूलम् - 55

बहिः कोणान्तरालेषु प्रोक्तोऽयं दक्षिणादितः।
आचक्रादीन्यथाङ्गानि ज्वालाचक्रान्तिमानि च ॥ 55 ॥

विश्वास-प्रस्तुतिः - 56

चतुर्दलाग्रे प्रागादौ वर्मास्त्रे च सबिन्दुके।
तदन्तरालेष्वन्तस्था बिन्दुना चान्तराननाः ॥ 56 ॥

मूलम् - 56

चतुर्दलाग्रे प्रागादौ वर्मास्त्रे च सबिन्दुके।
तदन्तरालेष्वन्तस्था बिन्दुना चान्तराननाः ॥ 56 ॥

विश्वास-प्रस्तुतिः - 57

केसरेष्वष्टपत्रस्य स्वरानन्यांश्च बिन्दुभिः।
दलेष्वष्टाक्षरार्णआंनि तथा भूतानि, तद्बहिः ॥ 57 ॥

मूलम् - 57

केसरेष्वष्टपत्रस्य स्वरानन्यांश्च बिन्दुभिः।
दलेष्वष्टाक्षरार्णआंनि तथा भूतानि, तद्बहिः ॥ 57 ॥

विश्वास-प्रस्तुतिः - 58

द्विरष्टपत्रकिञ्जल्कनिचये प्राक्प्रयोगतः।
कादिसान्तानि वर्णानि सबिन्दूनि यथापुरा ॥ 58 ॥

मूलम् - 58

द्विरष्टपत्रकिञ्जल्कनिचये प्राक्प्रयोगतः।
कादिसान्तानि वर्णानि सबिन्दूनि यथापुरा ॥ 58 ॥

विश्वास-प्रस्तुतिः - 59

तद्दलेषु द्विषट्‌कार्णः, वर्मास्त्रे शिरसा सह।
षोडशाक्षर इत्युक्तो, द्वात्रिंशत्केसरादिके ॥ 59 ॥

मूलम् - 59

तद्दलेषु द्विषट्‌कार्णः, वर्मास्त्रे शिरसा सह।
षोडशाक्षर इत्युक्तो, द्वात्रिंशत्केसरादिके ॥ 59 ॥

विश्वास-प्रस्तुतिः - 60

आनुष्टुभं महामन्त्रं नृवराहनृसिंहयोः।
बहिरष्टाष्टपत्रेषु पातालनृहरेर्मनुम् ॥ 60 ॥

मूलम् - 60

आनुष्टुभं महामन्त्रं नृवराहनृसिंहयोः।
बहिरष्टाष्टपत्रेषु पातालनृहरेर्मनुम् ॥ 60 ॥

विश्वास-प्रस्तुतिः - 61

प्राग्वलदक्षरशो न्यस्य, ततोऽष्टदलपङ्कजे।
नारसिंहं तथाष्टार्णं, तद्बाह्यस्थे तु भूपुरे ॥ 61 ॥

मूलम् - 61

प्राग्वलदक्षरशो न्यस्य, ततोऽष्टदलपङ्कजे।
नारसिंहं तथाष्टार्णं, तद्बाह्यस्थे तु भूपुरे ॥ 61 ॥

विश्वास-प्रस्तुतिः - 62

सप्तद्वीपसमुद्राढ्ये वज्रैः कोणेषु लाञ्छिते।
प्रागाद्यासु महादिक्षु पार्थिवं बीजमुत्तमम् ॥ 62 ॥

मूलम् - 62

सप्तद्वीपसमुद्राढ्ये वज्रैः कोणेषु लाञ्छिते।
प्रागाद्यासु महादिक्षु पार्थिवं बीजमुत्तमम् ॥ 62 ॥

विश्वास-प्रस्तुतिः - 63

तन्नाममन्त्रसंयुक्तं, अन्तस्थाः कोणभूमिषु।
ततः सपार्थिवं बीजं कोणाभ्यन्तरबाह्ययोः ॥ 63 ॥

मूलम् - 63

तन्नाममन्त्रसंयुक्तं, अन्तस्थाः कोणभूमिषु।
ततः सपार्थिवं बीजं कोणाभ्यन्तरबाह्ययोः ॥ 63 ॥

विश्वास-प्रस्तुतिः - 64

तद्बहिः प्रातिलोम्येन स्वरषोडशकं न्यसेत्।
सकारादीनि कान्तानि तथाभूतानि तद्बहिः ॥ 64 ॥

मूलम् - 64

तद्बहिः प्रातिलोम्येन स्वरषोडशकं न्यसेत्।
सकारादीनि कान्तानि तथाभूतानि तद्बहिः ॥ 64 ॥

विश्वास-प्रस्तुतिः - 65

परितोन्त्ययुगेनैव साध्यनामविदर्भणम्।
कृत्वा प्रति प्रयोगेण बहिर्भूपुरसंपुटात् ॥ 65 ॥

मूलम् - 65

परितोन्त्ययुगेनैव साध्यनामविदर्भणम्।
कृत्वा प्रति प्रयोगेण बहिर्भूपुरसंपुटात् ॥ 65 ॥

विश्वास-प्रस्तुतिः - 66

पाशांकुशाब्यामावेष्ट्य द्वाब्यां वा बहुभिस्तु वा।
पुरोदितक्रमेणैव स्वस्थाने केशवादयः ॥ 66 ॥

मूलम् - 66

पाशांकुशाब्यामावेष्ट्य द्वाब्यां वा बहुभिस्तु वा।
पुरोदितक्रमेणैव स्वस्थाने केशवादयः ॥ 66 ॥

विश्वास-प्रस्तुतिः - 67

बाह्यावरण भूमिष्ठाः प्रागाद्यासु च विष्णवः।
तत्कोणेषु हृषीकेशः, तच्छिद्रेषु जनार्दनाः ॥ 67 ॥

मूलम् - 67

बाह्यावरण भूमिष्ठाः प्रागाद्यासु च विष्णवः।
तत्कोणेषु हृषीकेशः, तच्छिद्रेषु जनार्दनाः ॥ 67 ॥

विश्वास-प्रस्तुतिः - 68

कल्पनीयाश्च, तन्मन्त्राः प्रणवाद्या यथाक्रमम्।
सजीवाः संज्ञयोपेता नमस्कारसमन्विताः ॥ 68 ॥

मूलम् - 68

कल्पनीयाश्च, तन्मन्त्राः प्रणवाद्या यथाक्रमम्।
सजीवाः संज्ञयोपेता नमस्कारसमन्विताः ॥ 68 ॥

विश्वास-प्रस्तुतिः - 69

अमुकं रक्ष रक्षेति तदन्ते साध्यभूषिताः।
प्रागादिदिक्षु तद्बाह्ये त्वन्तस्थाश्चाष्टभिः सह ॥ 69 ॥

मूलम् - 69

अमुकं रक्ष रक्षेति तदन्ते साध्यभूषिताः।
प्रागादिदिक्षु तद्बाह्ये त्वन्तस्थाश्चाष्टभिः सह ॥ 69 ॥

विश्वास-प्रस्तुतिः - 70

यशौ रषौ लसौ चाथ वहावपि सबिन्दुकौ।
विलिखेत् पुनरप्येतानैशान्याऽनल पश्चिमम् ॥ 70 ॥

मूलम् - 70

यशौ रषौ लसौ चाथ वहावपि सबिन्दुकौ।
विलिखेत् पुनरप्येतानैशान्याऽनल पश्चिमम् ॥ 70 ॥

विश्वास-प्रस्तुतिः - 71

पाशाङ्‌कुशाब्यामावेष्ट्य द्वाभ्यां वा बहुभिस्तथा।
अधस्तान्नृवराहं च सर्वोर्ध्वे नृहरेर्मनुम् ॥ 71 ॥

मूलम् - 71

पाशाङ्‌कुशाब्यामावेष्ट्य द्वाभ्यां वा बहुभिस्तथा।
अधस्तान्नृवराहं च सर्वोर्ध्वे नृहरेर्मनुम् ॥ 71 ॥

विश्वास-प्रस्तुतिः - 72

क्रमशः केशवादीनां ध्यानं चाकर्णयामलम्।
केशवः स्वर्णवर्णोऽब्जशह्खचक्रगादाधरः ॥ 72 ॥

मूलम् - 72

क्रमशः केशवादीनां ध्यानं चाकर्णयामलम्।
केशवः स्वर्णवर्णोऽब्जशह्खचक्रगादाधरः ॥ 72 ॥

विश्वास-प्रस्तुतिः - 73

नारायणो नीरदाभः शङ्खचक्रगदाब्जधृक्।
माधवोऽव्जगदाशङ्खचक्री नीलाब्जसन्निभः ॥ 73 ॥

मूलम् - 73

नारायणो नीरदाभः शङ्खचक्रगदाब्जधृक्।
माधवोऽव्जगदाशङ्खचक्री नीलाब्जसन्निभः ॥ 73 ॥

विश्वास-प्रस्तुतिः - 74

गोविन्दो धवलश्चक्रगदाशह्खपयोजधृक्।
विष्णुर्गदाम्बुजदरचक्री बन्धूकसप्रभः ॥ 74 ॥

मूलम् - 74

गोविन्दो धवलश्चक्रगदाशह्खपयोजधृक्।
विष्णुर्गदाम्बुजदरचक्री बन्धूकसप्रभः ॥ 74 ॥

विश्वास-प्रस्तुतिः - 75

रक्तस्चक्रदराम्भोजशङ्ख(गदा)धृङ्नधुसूदनः।
त्रिविक्रमश्चक्रगदापझशङ्खी जपारुणः ॥ 75 ॥

मूलम् - 75

रक्तस्चक्रदराम्भोजशङ्ख(गदा)धृङ्नधुसूदनः।
त्रिविक्रमश्चक्रगदापझशङ्खी जपारुणः ॥ 75 ॥

विश्वास-प्रस्तुतिः - 76

शह्खचक्रगदापझधरः स्याद्वामनोऽरुणः।
पझचक्रगदाशङ्खी श्रीधरश्चन्द्रसप्रभः ॥ 76 ॥

मूलम् - 76

शह्खचक्रगदापझधरः स्याद्वामनोऽरुणः।
पझचक्रगदाशङ्खी श्रीधरश्चन्द्रसप्रभः ॥ 76 ॥

विश्वास-प्रस्तुतिः - 77

विद्युत्प्रभो हृषीकेशो गदाचक्रदराब्जधृक्।
गदाब्जचक्रविद्याभृत्पझनाभोऽरुणप्रभः ॥ 77 ॥

मूलम् - 77

विद्युत्प्रभो हृषीकेशो गदाचक्रदराब्जधृक्।
गदाब्जचक्रविद्याभृत्पझनाभोऽरुणप्रभः ॥ 77 ॥

विश्वास-प्रस्तुतिः - 78

दामोदरः पझशङ्खगदाचक्रधरोऽरुणः।
मुख्यदक्षकराम्भोजात् मुख्यवामकरावधि ॥ 78 ॥

मूलम् - 78

दामोदरः पझशङ्खगदाचक्रधरोऽरुणः।
मुख्यदक्षकराम्भोजात् मुख्यवामकरावधि ॥ 78 ॥

विश्वास-प्रस्तुतिः - 79

पझादिकं धारयन्त आयुधानां चतुष्टयम्।
किरीटकौस्तुभधरा वनमालाविभूषिताः ॥ 79 ॥

मूलम् - 79

पझादिकं धारयन्त आयुधानां चतुष्टयम्।
किरीटकौस्तुभधरा वनमालाविभूषिताः ॥ 79 ॥

विश्वास-प्रस्तुतिः - 80

पीताम्बरधराः सर्वे प्रसन्नवदनेक्षणाः।
करुणापूर्णहृदया जगदुद्धरणोद्यताः ॥ 80 ॥

मूलम् - 80

पीताम्बरधराः सर्वे प्रसन्नवदनेक्षणाः।
करुणापूर्णहृदया जगदुद्धरणोद्यताः ॥ 80 ॥

विश्वास-प्रस्तुतिः - 81

यन्त्रतेजोऽसहिष्णूनां नराणां तापशन्तये।
आसारैरमृतेर्नित्यं सेच्यन्तः समन्ततः ॥ 81 ॥

मूलम् - 81

यन्त्रतेजोऽसहिष्णूनां नराणां तापशन्तये।
आसारैरमृतेर्नित्यं सेच्यन्तः समन्ततः ॥ 81 ॥

विश्वास-प्रस्तुतिः - 82

विष्णुः प्राच्यादिदिग्भागे हृषीकेशा विदिक्‌स्थिताः।
जनार्दनाश्छिद्रगताश्चाष्टपादे(?) चतुर्भुजाः ॥ 82 ॥

मूलम् - 82

विश्वास-प्रस्तुतिः - 83

पृष्टदक्षिणवामाभ्यां चक्रशह्खधरास्तथा।
मुख्यवामकरेणैव वरदा वाऽभयप्रदाः ॥ 83 ॥

मूलम् - 83

पृष्टदक्षिणवामाभ्यां चक्रशह्खधरास्तथा।
मुख्यवामकरेणैव वरदा वाऽभयप्रदाः ॥ 83 ॥

विश्वास-प्रस्तुतिः - 84

विष्णवो दक्षिणैर्मुख्यैर्ज्वलत्पावकभीषणाः।
चक्रकौमोदकीशार्ह्गान् धारयन्तः सखड्‌गकान् ॥ 84 ॥

मूलम् - 84

विष्णवो दक्षिणैर्मुख्यैर्ज्वलत्पावकभीषणाः।
चक्रकौमोदकीशार्ह्गान् धारयन्तः सखड्‌गकान् ॥ 84 ॥

विश्वास-प्रस्तुतिः - 85

वह्न्यादिकोणदेशस्था हृषीकेशाः सुवर्णभाः।
शङ्खं हलं च मुसलं वहन्तः शूलपश्चिमम् ॥ 85 ॥

मूलम् - 85

वह्न्यादिकोणदेशस्था हृषीकेशाः सुवर्णभाः।
शङ्खं हलं च मुसलं वहन्तः शूलपश्चिमम् ॥ 85 ॥

विश्वास-प्रस्तुतिः - 86

प्रागाग्नेयादिकच्छिद्रदेशस्थाश्च जनार्दनाः।
ज्वलन्मरतकाभाश्च वीक्षमाणाश्च दिक्‌स्थितान् ॥ 86 ॥

मूलम् - 86

प्रागाग्नेयादिकच्छिद्रदेशस्थाश्च जनार्दनाः।
ज्वलन्मरतकाभाश्च वीक्षमाणाश्च दिक्‌स्थितान् ॥ 86 ॥

विश्वास-प्रस्तुतिः - 87

दण्डं कुन्तं च शक्तिं च पाशं चाङ्‌कुशमेव च।
वज्रं परशुसंज्ञं च तथा शतमुखानलम् ॥ 87 ॥

मूलम् - 87

दण्डं कुन्तं च शक्तिं च पाशं चाङ्‌कुशमेव च।
वज्रं परशुसंज्ञं च तथा शतमुखानलम् ॥ 87 ॥

विश्वास-प्रस्तुतिः - 88

दधानाः सुसमैः स्थानैरुत्थिताः स्वस्तिकादिना।
सुखासीनास्तु वा सर्वे केवला वा सशक्तिकाः ॥ 88 ॥

मूलम् - 88

दधानाः सुसमैः स्थानैरुत्थिताः स्वस्तिकादिना।
सुखासीनास्तु वा सर्वे केवला वा सशक्तिकाः ॥ 88 ॥

विश्वास-प्रस्तुतिः - 89

संकल्प्याः तदधः सर्वयज्ञाङ्गः सूकराननः।
कृष्णपिङ्गलवर्णआभः पुण्डरीकनिभेक्षणः ॥ 89 ॥

मूलम् - 89

संकल्प्याः तदधः सर्वयज्ञाङ्गः सूकराननः।
कृष्णपिङ्गलवर्णआभः पुण्डरीकनिभेक्षणः ॥ 89 ॥

विश्वास-प्रस्तुतिः - 90

पश्चिमाब्यां च पाणिभ्यां पूर्ववच्चक्रशङ्खभृत्।
मुख्येन दक्षिणेनैव भीतानामभयप्रदः ॥ 90 ॥

मूलम् - 90

पश्चिमाब्यां च पाणिभ्यां पूर्ववच्चक्रशङ्खभृत्।
मुख्येन दक्षिणेनैव भीतानामभयप्रदः ॥ 90 ॥

विश्वास-प्रस्तुतिः - 91

भूम्याः स्वाङ्के निषण्णाया वामेनास्लेषतत्परः।
परस्तान्नहरिर्देवस्तुहिनाचलसन्निभः ॥ 91 ॥

मूलम् - 91

भूम्याः स्वाङ्के निषण्णाया वामेनास्लेषतत्परः।
परस्तान्नहरिर्देवस्तुहिनाचलसन्निभः ॥ 91 ॥

विश्वास-प्रस्तुतिः - 92

करैरष्टभिरत्युग्रः पृष्ठतो दक्षिणादितः।
शङ्खचक्राम्बुजगदाः खड्‌गं च सशरं धनुः ॥ 92 ॥

मूलम् - 92

करैरष्टभिरत्युग्रः पृष्ठतो दक्षिणादितः।
शङ्खचक्राम्बुजगदाः खड्‌गं च सशरं धनुः ॥ 92 ॥

विश्वास-प्रस्तुतिः - 93

धत्ते षड्भिस्तु मुख्याभ्यां हिरण्यकशिपुं रुषा।
विदारयंश्च स्वाङ्कस्थं नखरैः क्रकचोपमैः ॥ 93 ॥

मूलम् - 93

धत्ते षड्भिस्तु मुख्याभ्यां हिरण्यकशिपुं रुषा।
विदारयंश्च स्वाङ्कस्थं नखरैः क्रकचोपमैः ॥ 93 ॥

विश्वास-प्रस्तुतिः - 94

उद्‌धृत्य साम्बुजं पाणि केवलं वाऽभयप्रदः।
हिरण्यरुधिरस्रोतः पङ्कितोरस्थलः शुभः ॥ 94 ॥

मूलम् - 94

उद्‌धृत्य साम्बुजं पाणि केवलं वाऽभयप्रदः।
हिरण्यरुधिरस्रोतः पङ्कितोरस्थलः शुभः ॥ 94 ॥

विश्वास-प्रस्तुतिः - 95

सर्वानेतान् सजीवेन शक्तिबीजेन वेष्टयेत्।
बहिः प्राच्यादिदिग्देशे साकारानस्त्रविग्रहान् ॥ 95 ॥

मूलम् - 95

सर्वानेतान् सजीवेन शक्तिबीजेन वेष्टयेत्।
बहिः प्राच्यादिदिग्देशे साकारानस्त्रविग्रहान् ॥ 95 ॥

विश्वास-प्रस्तुतिः - 96

चक्रकौमोदकीशार्ह्गनन्दकान् विलिखेदिमान्।
केशवाद्यास्तथास्त्रान्ताश्चतुस्त्रिंशत्तु मूर्तयः ॥ 96 ॥

मूलम् - 96

चक्रकौमोदकीशार्ह्गनन्दकान् विलिखेदिमान्।
केशवाद्यास्तथास्त्रान्ताश्चतुस्त्रिंशत्तु मूर्तयः ॥ 96 ॥

विश्वास-प्रस्तुतिः - 97

स्वतन्त्रं कल्पयेन्मन्त्री यद्वा चावरणक्षितौ।
कृत्वैवं प्राह्‌मुखं यन्त्रमपराङ्गं प्रकल्पयेत् ॥ 97 ॥

मूलम् - 97

स्वतन्त्रं कल्पयेन्मन्त्री यद्वा चावरणक्षितौ।
कृत्वैवं प्राह्‌मुखं यन्त्रमपराङ्गं प्रकल्पयेत् ॥ 97 ॥

विश्वास-प्रस्तुतिः - 98

कर्णिकावलयं कुर्यात् प्राक्‌प्रमाणेन मध्यतः।
तदन्तरे कोणषट्‌कं प्रकाशाह्‌लादसंपुटम् ॥ 98 ॥

मूलम् - 98

कर्णिकावलयं कुर्यात् प्राक्‌प्रमाणेन मध्यतः।
तदन्तरे कोणषट्‌कं प्रकाशाह्‌लादसंपुटम् ॥ 98 ॥

विश्वास-प्रस्तुतिः - 99

त्रिधा विभज्य तद्बाह्यं क्षेत्रार्धं च तदन्तरे।
त्रिरष्टयेदुम्बराह्ये (?) कमलं द्वादशच्छदम् ॥ 99 ॥

मूलम् - 99

त्रिधा विभज्य तद्बाह्यं क्षेत्रार्धं च तदन्तरे।
त्रिरष्टयेदुम्बराह्ये (?) कमलं द्वादशच्छदम् ॥ 99 ॥

विश्वास-प्रस्तुतिः - 100

चतुर्विंशद्दलं चक्रं नाभिनेमित्रयान्वितम्।
प्रथिभिश्चावृतं बाह्ये नेमिस्थैस्तस्य बाह्यतः ॥ 100 ॥

मूलम् - 100

चतुर्विंशद्दलं चक्रं नाभिनेमित्रयान्वितम्।
प्रथिभिश्चावृतं बाह्ये नेमिस्थैस्तस्य बाह्यतः ॥ 100 ॥

विश्वास-प्रस्तुतिः - 101

शक्तिभिश्च जयाद्याबिरष्टाभिः परिवारितम्।
पूर्वं द्वादशपत्राब्जकर्णिकामध्यकल्पिते ॥ 101 ॥

मूलम् - 101

शक्तिभिश्च जयाद्याबिरष्टाभिः परिवारितम्।
पूर्वं द्वादशपत्राब्जकर्णिकामध्यकल्पिते ॥ 101 ॥

विश्वास-प्रस्तुतिः - 102

त्रिकोणसंपुटाकारे प्रकाशाह्‌लादलक्षणे।
षट्‌कोणे लक्षयेद्देवं कल्पान्तहुतभुक्प्रभम् ॥ 102 ॥

मूलम् - 102

त्रिकोणसंपुटाकारे प्रकाशाह्‌लादलक्षणे।
षट्‌कोणे लक्षयेद्देवं कल्पान्तहुतभुक्प्रभम् ॥ 102 ॥

विश्वास-प्रस्तुतिः - 103

नृपञचवस्त्रं ज्ञानादिगुमपूर्णमहार्णवम्।
त्रिलोचनं चतुर्बांहुं चतुश्चक्रधरं परम् ॥ 103 ॥

मूलम् - 103

नृपञचवस्त्रं ज्ञानादिगुमपूर्णमहार्णवम्।
त्रिलोचनं चतुर्बांहुं चतुश्चक्रधरं परम् ॥ 103 ॥

विश्वास-प्रस्तुतिः - 104

योगपट्टपिनद्धाङ्गं जान्वारूढभुजद्वयम्।
श्रीवत्सकौस्तुभोरस्कं भूषितं मकुटादिभिः ॥ 104 ॥

मूलम् - 104

योगपट्टपिनद्धाङ्गं जान्वारूढभुजद्वयम्।
श्रीवत्सकौस्तुभोरस्कं भूषितं मकुटादिभिः ॥ 104 ॥

विश्वास-प्रस्तुतिः - 105

हारशेखरकेयूरकटकैर्नूपुरान्तिमैः।
भक्तानां स्वानुरक्तानां सिद्धान्तनिरतात्मनाम् ॥ 105 ॥

मूलम् - 105

हारशेखरकेयूरकटकैर्नूपुरान्तिमैः।
भक्तानां स्वानुरक्तानां सिद्धान्तनिरतात्मनाम् ॥ 105 ॥

विश्वास-प्रस्तुतिः - 106

अशोकविटपिच्छायान्याजेनार्तिविनाशनम्।
साधुसंरक्षणोद्युक्तचेष्टितं हृषृमानसम् ॥ 106 ॥

मूलम् - 106

अशोकविटपिच्छायान्याजेनार्तिविनाशनम्।
साधुसंरक्षणोद्युक्तचेष्टितं हृषृमानसम् ॥ 106 ॥

विश्वास-प्रस्तुतिः - 107

अधस्ताच्चरणाम्भोजात् साध्यं बीजपुटीकृतम्।
विलिख्य, कोणषट्‌केषु प्रागाद्येषु त्रिकं त्रिकम् ॥ 107 ॥

मूलम् - 107

अधस्ताच्चरणाम्भोजात् साध्यं बीजपुटीकृतम्।
विलिख्य, कोणषट्‌केषु प्रागाद्येषु त्रिकं त्रिकम् ॥ 107 ॥

विश्वास-प्रस्तुतिः - 108

सुदर्शननृसिंहस्य मन्त्रार्णानि यथाक्रमम्।
तदङ्गानि च तद्बाह्ये कोणाभ्यन्तरभूमिषु ॥ 108 ॥

मूलम् - 108

सुदर्शननृसिंहस्य मन्त्रार्णानि यथाक्रमम्।
तदङ्गानि च तद्बाह्ये कोणाभ्यन्तरभूमिषु ॥ 108 ॥

विश्वास-प्रस्तुतिः - 109

लिखेदावृत्तियोगेन क्षार्णं प्रथिजणेषु च।
प्रागादि चक्रबाह्ये तु जया चन्द्रप्रभाविनी ॥ 109 ॥

मूलम् - 109

लिखेदावृत्तियोगेन क्षार्णं प्रथिजणेषु च।
प्रागादि चक्रबाह्ये तु जया चन्द्रप्रभाविनी ॥ 109 ॥

विश्वास-प्रस्तुतिः - 110

नवदूर्वाङ्‌कुरश्यामा मोहिनी, विजया ततः।
राजोपलप्रभा कान्ता ह्‌लादिनी पाटलप्रभा ॥ 110 ॥

मूलम् - 110

नवदूर्वाङ्‌कुरश्यामा मोहिनी, विजया ततः।
राजोपलप्रभा कान्ता ह्‌लादिनी पाटलप्रभा ॥ 110 ॥

विश्वास-प्रस्तुतिः - 111

अजिता कनकप्रख्या, माया नीलोत्पलप्रभा।
रक्ताऽ पराजिता सिद्धिर्धूम्रवर्णा स्वकं पतिम् ॥ 111 ॥

मूलम् - 111

अजिता कनकप्रख्या, माया नीलोत्पलप्रभा।
रक्ताऽ पराजिता सिद्धिर्धूम्रवर्णा स्वकं पतिम् ॥ 111 ॥

विश्वास-प्रस्तुतिः - 112

वीक्षमाणाश्च सततं, नीलोत्पलविलोचनाः।
नवयौवनलावण्यविभवेनोपबृंहिताः ॥ 112 ॥

मूलम् - 112

वीक्षमाणाश्च सततं, नीलोत्पलविलोचनाः।
नवयौवनलावण्यविभवेनोपबृंहिताः ॥ 112 ॥

विश्वास-प्रस्तुतिः - 113

करण्डमकुटोपेताः सर्वाभरणभूषिताः।
विचित्रक्षौमवसनाः सर्वर्तुकुसुमान्विताः ॥ 113 ॥

मूलम् - 113

करण्डमकुटोपेताः सर्वाभरणभूषिताः।
विचित्रक्षौमवसनाः सर्वर्तुकुसुमान्विताः ॥ 113 ॥

विश्वास-प्रस्तुतिः - 114

द्विभुजा दक्षहस्तस्थपुष्पमालाभ्यलंकृताः।
वामे चन्द्रांशुसह्काश चामरव्यजनोद्यताः ॥ 114 ॥

मूलम् - 114

द्विभुजा दक्षहस्तस्थपुष्पमालाभ्यलंकृताः।
वामे चन्द्रांशुसह्काश चामरव्यजनोद्यताः ॥ 114 ॥

विश्वास-प्रस्तुतिः - 115

भूपच्चरौ नृसिंहस्य भीमोग्रौ भीषणद्युती।
दंष्ट्राकरालवदनौ ज्वलत्पावकलोचनौ ॥ 115 ॥

मूलम् - 115

भूपच्चरौ नृसिंहस्य भीमोग्रौ भीषणद्युती।
दंष्ट्राकरालवदनौ ज्वलत्पावकलोचनौ ॥ 115 ॥

विश्वास-प्रस्तुतिः - 116

नीलनीरदसंकाशौ द्विभुजौ दण्डचक्रिणौ।
उदग्रकायावत्युग्रौ वीक्षयन्तौ परस्परम् ॥ 116 ॥

मूलम् - 116

नीलनीरदसंकाशौ द्विभुजौ दण्डचक्रिणौ।
उदग्रकायावत्युग्रौ वीक्षयन्तौ परस्परम् ॥ 116 ॥

विश्वास-प्रस्तुतिः - 117

रक्ताम्बरधरौ रक्तकुसुमस्रग्विमण्डितौ।
संपाद्यैवं महायन्त्रं सुदर्शननृसिंहयोः ॥ 117 ॥

मूलम् - 117

रक्ताम्बरधरौ रक्तकुसुमस्रग्विमण्डितौ।
संपाद्यैवं महायन्त्रं सुदर्शननृसिंहयोः ॥ 117 ॥

विश्वास-प्रस्तुतिः - 118

स्थापयेद्विधिवन्मन्त्री मध्ये प्रासादमण्टपे।
क्ष्मापरिग्रहमारभ्य संपन्ने सर्वकर्मणि ॥ 118 ॥

मूलम् - 118

स्थापयेद्विधिवन्मन्त्री मध्ये प्रासादमण्टपे।
क्ष्मापरिग्रहमारभ्य संपन्ने सर्वकर्मणि ॥ 118 ॥

विश्वास-प्रस्तुतिः - 119

विन्यस्ते विष्टरे यन्त्रे प्रतिष्ठाप्य विधानतः।
त्रैकाल्यमर्चनं कार्यं तल्लक्षणमथोच्यते ॥ 119 ॥

मूलम् - 119

विन्यस्ते विष्टरे यन्त्रे प्रतिष्ठाप्य विधानतः।
त्रैकाल्यमर्चनं कार्यं तल्लक्षणमथोच्यते ॥ 119 ॥

विश्वास-प्रस्तुतिः - 120

तद्दैर्घ्यं यन्त्रविस्तारादधिकं द्वादशाह्‌गुलम्।
विभक्ते यन्त्रविस्तारे सप्तधा वाऽथ पञ्चधा ॥ 120 ॥

मूलम् - 120

तद्दैर्घ्यं यन्त्रविस्तारादधिकं द्वादशाह्‌गुलम्।
विभक्ते यन्त्रविस्तारे सप्तधा वाऽथ पञ्चधा ॥ 120 ॥

विश्वास-प्रस्तुतिः - 121

एकैकमन्तयोस्त्यक्त्वा भागैर्मध्यगतैरतः।
पञ्चभिर्वा त्रिभिः कार्या विष्टरस्य तु विस्तृतिः ॥ 121 ॥

मूलम् - 121

एकैकमन्तयोस्त्यक्त्वा भागैर्मध्यगतैरतः।
पञ्चभिर्वा त्रिभिः कार्या विष्टरस्य तु विस्तृतिः ॥ 121 ॥

विश्वास-प्रस्तुतिः - 122

एकैकं मध्यतः स्थाप्य पार्श्वयोः सषडङ्‌गुलम्।
यन्त्रपार्श्वस्थनालाभ्यां सुषिरद्बयमाचरेत् ॥ 122 ॥

मूलम् - 122

एकैकं मध्यतः स्थाप्य पार्श्वयोः सषडङ्‌गुलम्।
यन्त्रपार्श्वस्थनालाभ्यां सुषिरद्बयमाचरेत् ॥ 122 ॥

विश्वास-प्रस्तुतिः - 123

शिष्टानि मार्जयेन्मन्त्री चतुरश्रप्रसिद्धये।
त्रिचतुःपञ्चधा वाऽथ यन्त्रोच्छ्राये विभाजिते ॥ 123 ॥

मूलम् - 123

शिष्टानि मार्जयेन्मन्त्री चतुरश्रप्रसिद्धये।
त्रिचतुःपञ्चधा वाऽथ यन्त्रोच्छ्राये विभाजिते ॥ 123 ॥

विश्वास-प्रस्तुतिः - 124

तत्तदेकांशमानेन कार्यःस्याद्विष्टरोच्छ्रयः।
पीठवत्तदलंकृत्य पञ्चाह्गैः परितो बहिः ॥ 124 ॥

मूलम् - 124

तत्तदेकांशमानेन कार्यःस्याद्विष्टरोच्छ्रयः।
पीठवत्तदलंकृत्य पञ्चाह्गैः परितो बहिः ॥ 124 ॥

विश्वास-प्रस्तुतिः - 125

तदूर्ध्वे विष्टरं यन्त्रं कल्पयेत्तद्विधिं श्रृणु।
पीडमध्यगतं भागं मध्यस्थेन तु तन्तुना ॥ 125 ॥

मूलम् - 125

तदूर्ध्वे विष्टरं यन्त्रं कल्पयेत्तद्विधिं श्रृणु।
पीडमध्यगतं भागं मध्यस्थेन तु तन्तुना ॥ 125 ॥

विश्वास-प्रस्तुतिः - 126

कर्णिकार्थं परिभ्राम्य शेषे षोढा विबाजिते।
द्विरष्टकेसरोपेतमष्टपत्राब्जमस्तके ॥ 126 ॥

मूलम् - 126

कर्णिकार्थं परिभ्राम्य शेषे षोढा विबाजिते।
द्विरष्टकेसरोपेतमष्टपत्राब्जमस्तके ॥ 126 ॥

विश्वास-प्रस्तुतिः - 127

भागेन तद्बहिस्तद्वद दशारं चक्रमुज्ज्वलम्।
वायुमण्डलमध्येन षट्‌कोणं तु बहिस्त्रिभिः ॥ 127 ॥

मूलम् - 127

भागेन तद्बहिस्तद्वद दशारं चक्रमुज्ज्वलम्।
वायुमण्डलमध्येन षट्‌कोणं तु बहिस्त्रिभिः ॥ 127 ॥

विश्वास-प्रस्तुतिः - 128

वज्राङ्कितं कोणभूषु भागार्धेन तु भूपुरम्।
यन्त्रमद्यमनालस्य निवेशार्थं तु मध्यतः ॥ 128 ॥

मूलम् - 128

वज्राङ्कितं कोणभूषु भागार्धेन तु भूपुरम्।
यन्त्रमद्यमनालस्य निवेशार्थं तु मध्यतः ॥ 128 ॥

विश्वास-प्रस्तुतिः - 129

वेधयेत् तत्प्रमाणेन साध्यनाम समन्ततः।
विलिख्य तद्बहिर्वेष्ट्य केसराणां द्विरष्टके ॥ 129 ॥

मूलम् - 129

वेधयेत् तत्प्रमाणेन साध्यनाम समन्ततः।
विलिख्य तद्बहिर्वेष्ट्य केसराणां द्विरष्टके ॥ 129 ॥

विश्वास-प्रस्तुतिः - 130

षोडशार्णं नृसिंहस्य तद्‌द्विषट्‌काक्षरावधौ।
हुंफट्‌स्वाहा समोपेतो नृहरेः षोडशाक्षरः ॥ 130 ॥

मूलम् - 130

षोडशार्णं नृसिंहस्य तद्‌द्विषट्‌काक्षरावधौ।
हुंफट्‌स्वाहा समोपेतो नृहरेः षोडशाक्षरः ॥ 130 ॥

विश्वास-प्रस्तुतिः - 131

प्रागाद्यष्टदलेष्वस्य मन्त्रमानुष्टुभं परम्।
चतुष्टयक्रमेणैव प्रत्येकस्मिन् दले न्यसेत् ॥ 131 ॥

मूलम् - 131

प्रागाद्यष्टदलेष्वस्य मन्त्रमानुष्टुभं परम्।
चतुष्टयक्रमेणैव प्रत्येकस्मिन् दले न्यसेत् ॥ 131 ॥

विश्वास-प्रस्तुतिः - 132

बहिर्दशारचक्रस्य प्रागराद्येषु मन्त्रपम्।
सौदर्शननृसिंहस्य हनशब्दसमन्बितम् ॥ 132 ॥

मूलम् - 132

बहिर्दशारचक्रस्य प्रागराद्येषु मन्त्रपम्।
सौदर्शननृसिंहस्य हनशब्दसमन्बितम् ॥ 132 ॥

विश्वास-प्रस्तुतिः - 133

विलिखेद्‌द्वन्द्वयोगेन, बाह्ये वायव्यमण्डले।
विलिखेद्वर्तुलाकारे वायव्यं बीजमुत्तमम् ॥ 133 ॥

मूलम् - 133

विलिखेद्‌द्वन्द्वयोगेन, बाह्ये वायव्यमण्डले।
विलिखेद्वर्तुलाकारे वायव्यं बीजमुत्तमम् ॥ 133 ॥

विश्वास-प्रस्तुतिः - 134

वर्म चास्त्रसमेतं च विलिखेदन्तरान्तरा।
बाह्यस्थे कोणषट्‌के तु लिखेदाग्नेयमक्षरम् ॥ 134 ॥

मूलम् - 134

वर्म चास्त्रसमेतं च विलिखेदन्तरान्तरा।
बाह्यस्थे कोणषट्‌के तु लिखेदाग्नेयमक्षरम् ॥ 134 ॥

विश्वास-प्रस्तुतिः - 135

कल्पयेत् प्रतिकोणं तु वह्निज्वालासमन्वितम्।
कोणेषु भूपुरस्यान्तः पार्थिवं बीजमुल्लिखेत् ॥ 135 ॥

मूलम् - 135

कल्पयेत् प्रतिकोणं तु वह्निज्वालासमन्वितम्।
कोणेषु भूपुरस्यान्तः पार्थिवं बीजमुल्लिखेत् ॥ 135 ॥

विश्वास-प्रस्तुतिः - 136

अङ्कारोऽथ विदिग्भागे परितो भद्रपीठवत्।
कण्ठदेशं समाश्रित्य द्वौ द्वौ प्राच्यां दिशि क्रमात् ॥ 136 ॥

मूलम् - 136

अङ्कारोऽथ विदिग्भागे परितो भद्रपीठवत्।
कण्ठदेशं समाश्रित्य द्वौ द्वौ प्राच्यां दिशि क्रमात् ॥ 136 ॥

विश्वास-प्रस्तुतिः - 137

अन्योन्यमभिवीक्षन्तौ कल्पयेदुत्तमोत्तमे।
यन्त्रसन्धारणोद्युक्तौ व्यात्तास्यावुग्रलोचनौ ॥ 137 ॥

मूलम् - 137

अन्योन्यमभिवीक्षन्तौ कल्पयेदुत्तमोत्तमे।
यन्त्रसन्धारणोद्युक्तौ व्यात्तास्यावुग्रलोचनौ ॥ 137 ॥

विश्वास-प्रस्तुतिः - 138

अनन्तगुलिकौ प्राच्यां, याम्यायां शङ्खवासुकी।
सतक्षको महापझः प्रतीच्यां उत्तरे तथा ॥ 138 ॥

मूलम् - 138

अनन्तगुलिकौ प्राच्यां, याम्यायां शङ्खवासुकी।
सतक्षको महापझः प्रतीच्यां उत्तरे तथा ॥ 138 ॥

विश्वास-प्रस्तुतिः - 139

कार्कोटकस्तथापझो, विशेषस्तत्र कथ्यते।
विभज्य कर्णिकाभूमेर्भूपुरान्तं विधान्तरे ॥ 139 ॥

मूलम् - 139

कार्कोटकस्तथापझो, विशेषस्तत्र कथ्यते।
विभज्य कर्णिकाभूमेर्भूपुरान्तं विधान्तरे ॥ 139 ॥

विश्वास-प्रस्तुतिः - 140

नृसिंहयन्त्रं कुर्वीत, बाह्यतो यन्त्रविष्टरम्।
दिक्षु नारायणास्त्राणि तत्र कूर्चमयानि च ॥ 140 ॥

मूलम् - 140

नृसिंहयन्त्रं कुर्वीत, बाह्यतो यन्त्रविष्टरम्।
दिक्षु नारायणास्त्राणि तत्र कूर्चमयानि च ॥ 140 ॥

विश्वास-प्रस्तुतिः - 141

सितादिधातुजैर्वर्णैः कुङ्‌कुमाद्यैर्विमिश्रितैः।
विलिखेन्मुख्यमूर्त्यादि यथाशोभं मुखद्वये ॥ 141 ॥

मूलम् - 141

सितादिधातुजैर्वर्णैः कुङ्‌कुमाद्यैर्विमिश्रितैः।
विलिखेन्मुख्यमूर्त्यादि यथाशोभं मुखद्वये ॥ 141 ॥

विश्वास-प्रस्तुतिः - 142

सुदर्शननृसिंहाभ्यां वर्णशोभा समीरिता।
कर्णिका कनकप्रक्या, केसराण्यरुणानि तु ॥ 142 ॥

मूलम् - 142

सुदर्शननृसिंहाभ्यां वर्णशोभा समीरिता।
कर्णिका कनकप्रक्या, केसराण्यरुणानि तु ॥ 142 ॥

विश्वास-प्रस्तुतिः - 143

पाण्डुरक्तानि पत्राणि, भूपुराणि समन्ततः।
कनकाभानि कार्याणि, मूर्तीनां प्रागुदीरितम् ॥ 143 ॥

मूलम् - 143

पाण्डुरक्तानि पत्राणि, भूपुराणि समन्ततः।
कनकाभानि कार्याणि, मूर्तीनां प्रागुदीरितम् ॥ 143 ॥

विश्वास-प्रस्तुतिः - 144

चक्रनाबिद्वयं कुर्याद्धेमपूर्वारुणप्रभम्।
शरदाकाशसंकाशान्यराणि, अरुणमन्तरम् ॥ 144 ॥

मूलम् - 144

चक्रनाबिद्वयं कुर्याद्धेमपूर्वारुणप्रभम्।
शरदाकाशसंकाशान्यराणि, अरुणमन्तरम् ॥ 144 ॥

विश्वास-प्रस्तुतिः - 145

हेमकुन्दसितं कुर्यात् क्रमान्नेमित्रयं शुभम्।
पीतेन वा वलर्क्षेण लिखेन्मन्त्राक्षराणि वै ॥ 145 ॥

मूलम् - 145

हेमकुन्दसितं कुर्यात् क्रमान्नेमित्रयं शुभम्।
पीतेन वा वलर्क्षेण लिखेन्मन्त्राक्षराणि वै ॥ 145 ॥

विश्वास-प्रस्तुतिः - 146

पझकेसरपत्रेषु भूपुरेषु समन्ततः।
षट्‌कोणान्तरबाह्येषु चक्रनाभ्यरनेमिषु ॥ 146 ॥

मूलम् - 146

पझकेसरपत्रेषु भूपुरेषु समन्ततः।
षट्‌कोणान्तरबाह्येषु चक्रनाभ्यरनेमिषु ॥ 146 ॥

विश्वास-प्रस्तुतिः - 147

पृथक् कृतानि वर्णानि मान्त्राण्यन्तर्मुखानि च।
तारद्वयान्तरस्थानि बिन्दुयुक्तानि चान्ततः ॥ 147 ॥

मूलम् - 147

पृथक् कृतानि वर्णानि मान्त्राण्यन्तर्मुखानि च।
तारद्वयान्तरस्थानि बिन्दुयुक्तानि चान्ततः ॥ 147 ॥

विश्वास-प्रस्तुतिः - 148

लेख्यान्येतानि सर्वत्र, मुख्यप्रणवसंपुटम्।
प्राकारसमुपेतानि नमस्कारान्वितानि च ॥ 148 ॥

मूलम् - 148

लेख्यान्येतानि सर्वत्र, मुख्यप्रणवसंपुटम्।
प्राकारसमुपेतानि नमस्कारान्वितानि च ॥ 148 ॥

विश्वास-प्रस्तुतिः - 149

कुर्यान्नारायणास्त्राणि कूर्चानि हरिताणि च।
बद्धानि पझपाशेन ततो हयमुखानि च ॥ 149 ॥

मूलम् - 149

कुर्यान्नारायणास्त्राणि कूर्चानि हरिताणि च।
बद्धानि पझपाशेन ततो हयमुखानि च ॥ 149 ॥

विश्वास-प्रस्तुतिः - 150

भूर्जपत्रे विलिख्येत कुंकुमागरुजै रसैः।
हरिचन्दनकर्पूरगव्यपञ्चकसाधुभिः ॥ 150 ॥

मूलम् - 150

भूर्जपत्रे विलिख्येत कुंकुमागरुजै रसैः।
हरिचन्दनकर्पूरगव्यपञ्चकसाधुभिः ॥ 150 ॥

विश्वास-प्रस्तुतिः - 151

सुवर्णसूच्या विधिवत् समाप्य गुलिकाकृतिम्।
सुवर्णपट्टेनावृत्य प्रतिष्ठाप्य विधानतः ॥ 151 ॥

मूलम् - 151

सुवर्णसूच्या विधिवत् समाप्य गुलिकाकृतिम्।
सुवर्णपट्टेनावृत्य प्रतिष्ठाप्य विधानतः ॥ 151 ॥

विश्वास-प्रस्तुतिः - 152

रक्ष्याणामायुरारोग्यधनधान्यादिवृद्धये।
पुत्रपौत्रादिसन्तानविजयेष्टादिसिद्धये ॥ 152 ॥

मूलम् - 152

रक्ष्याणामायुरारोग्यधनधान्यादिवृद्धये।
पुत्रपौत्रादिसन्तानविजयेष्टादिसिद्धये ॥ 152 ॥

विश्वास-प्रस्तुतिः - 153

धारयेच्छिरसा मन्त्री साधुसंरक्षणे रतः।
यन्त्रमेतत् समाख्यातं सुदर्शननृसिंहयोः ॥ 153 ॥

मूलम् - 153

धारयेच्छिरसा मन्त्री साधुसंरक्षणे रतः।
यन्त्रमेतत् समाख्यातं सुदर्शननृसिंहयोः ॥ 153 ॥

विश्वास-प्रस्तुतिः - 154

स्थापनं सर्वमूर्तीनां यथावत् प्रागुदीरितम्।
तथैवैतत् प्रतिष्ठाप्य त्रिकालं वैककालिकम् ॥ 154 ॥

मूलम् - 154

स्थापनं सर्वमूर्तीनां यथावत् प्रागुदीरितम्।
तथैवैतत् प्रतिष्ठाप्य त्रिकालं वैककालिकम् ॥ 154 ॥

पूज्यते यदि राजा च राष्ट्रं च सुखमेधते। इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे सुदर्शननृसिंहमहाचन्त्रस्वरूपकथनं नाम त्रयोविंशोऽध्यायः। **************