॥ श्रीः ॥
द्वाविंशोऽध्यायः
सनकः —
विश्वास-प्रस्तुतिः - 1
संप्रोक्षणविधानं मे प्रब्रूहि मुनिसत्तम!।
प्रायश्चित्तेषु सर्वत्र प्रशस्तो यस्तु पूरकः ॥ 1 ॥
मूलम् - 1

विश्वास-प्रस्तुतिः - 2
प्रासादप्रतिमापीठे प्रमादादेव दूषिते।
समाहिते यथापूर्वं पूजालोपे विशेषतः ॥ 2 ॥
मूलम् - 2
प्रासादप्रतिमापीठे प्रमादादेव दूषिते।
समाहिते यथापूर्वं पूजालोपे विशेषतः ॥ 2 ॥
विश्वास-प्रस्तुतिः - 3
चण्डालपतितोदक्यासूतिकादिशवादिभिः।
सूतकैर्मृतकैर्वाऽपि नित्याशौचैश्च गर्हितैः ॥ 3 ॥
मूलम् - 3
चण्डालपतितोदक्यासूतिकादिशवादिभिः।
सूतकैर्मृतकैर्वाऽपि नित्याशौचैश्च गर्हितैः ॥ 3 ॥
विश्वास-प्रस्तुतिः - 4
शिल्पिभिर्वेदवाह्यैश्च मूर्खैरज्ञातजातिभिः।
विण्मूत्ररुधिरापेयरेतोभिर्दूषिते सति ॥ 4 ॥
मूलम् - 4
शिल्पिभिर्वेदवाह्यैश्च मूर्खैरज्ञातजातिभिः।
विण्मूत्ररुधिरापेयरेतोभिर्दूषिते सति ॥ 4 ॥
विश्वास-प्रस्तुतिः - 5
जनने मरणे नॄणां मन्दिरे राष्ट्रसंकुले।
श्वसृगालखराद्यैश्च वायसश्येनजातिभिः ॥ 5 ॥
मूलम् - 5
जनने मरणे नॄणां मन्दिरे राष्ट्रसंकुले।
श्वसृगालखराद्यैश्च वायसश्येनजातिभिः ॥ 5 ॥
विश्वास-प्रस्तुतिः - 6
स्पृष्टे बिम्बे तु संदृष्टे तन्त्राणां सङ्करे सति।
एवमादिषु सर्वेषु संप्रोक्षणविधिर्भवेत् ॥ 6 ॥
मूलम् - 6

विश्वास-प्रस्तुतिः - 7
दौषैरुपहतं ज्ञात्वा प्रासादप्रतिमादिकम्।
असंप्रोक्ष्यार्चनं कुर्वन् राजानं राष्ट्रम़ञ्जसा ॥ 7 ॥
मूलम् - 7

विश्वास-प्रस्तुतिः - 8
देवतायतनं ग्रामं नाशयेन्नात्र संशयः।
तस्मात् संप्रोक्षणं कार्य प्रासादप्रतिमादिषु ॥ 8 ॥
मूलम् - 8
देवतायतनं ग्रामं नाशयेन्नात्र संशयः।
तस्मात् संप्रोक्षणं कार्य प्रासादप्रतिमादिषु ॥ 8 ॥
विश्वास-प्रस्तुतिः - 9
पुरा संप्रोक्षणदिनं राजराष्ट्राभिवृद्धिदम्।
निश्चयीकृत्य कालज्ञैः पुरस्तादुक्तवासरे ॥ 9 ॥
मूलम् - 9
पुरा संप्रोक्षणदिनं राजराष्ट्राभिवृद्धिदम्।
निश्चयीकृत्य कालज्ञैः पुरस्तादुक्तवासरे ॥ 9 ॥
विश्वास-प्रस्तुतिः - 10
अंकुरानर्प्य विधिवत् पस्चात् संशोधिते गृहे।
सर्वत्र गोमयाम्भोभिः पुण्याहोक्तिपुरस्सरम् ॥ 10 ॥
मूलम् - 10
अंकुरानर्प्य विधिवत् पस्चात् संशोधिते गृहे।
सर्वत्र गोमयाम्भोभिः पुण्याहोक्तिपुरस्सरम् ॥ 10 ॥
विश्वास-प्रस्तुतिः - 11
संप्रोक्ष्य पञ्चभिर्गव्यैः कुशोदकसमन्वितैः।
मूलबेरादिबिम्बानां षड्भिः सिद्धार्थकादिभिः ॥ 11 ॥
मूलम् - 11
संप्रोक्ष्य पञ्चभिर्गव्यैः कुशोदकसमन्वितैः।
मूलबेरादिबिम्बानां षड्भिः सिद्धार्थकादिभिः ॥ 11 ॥
विश्वास-प्रस्तुतिः - 12
पवित्रावर्तितैरद्भिर्बहुशः क्षालने कृते।
प्रधानदिनपूर्वस्यां रात्र्यां यागादिमण्टपे ॥ 12 ॥
मूलम् - 12
पवित्रावर्तितैरद्भिर्बहुशः क्षालने कृते।
प्रधानदिनपूर्वस्यां रात्र्यां यागादिमण्टपे ॥ 12 ॥
विश्वास-प्रस्तुतिः - 13
तोरणद्वारकलशवितानध्वजशोभिते।
दीक्षाधिवासवत् कृत्वा कुंभे वै मण्टपस्थले ॥ 13 ॥
मूलम् - 13
तोरणद्वारकलशवितानध्वजशोभिते।
दीक्षाधिवासवत् कृत्वा कुंभे वै मण्टपस्थले ॥ 13 ॥
विश्वास-प्रस्तुतिः - 14
पूजनं विभवेनैव जपान्तं मूलमन्दिरे।
क्षीराद्यैः पञ्चविंशद्भिः स्नापयेद्ध्रुवकौतुकम् ॥ 14 ॥
मूलम् - 14
पूजनं विभवेनैव जपान्तं मूलमन्दिरे।
क्षीराद्यैः पञ्चविंशद्भिः स्नापयेद्ध्रुवकौतुकम् ॥ 14 ॥
विश्वास-प्रस्तुतिः - 15
लेपभित्तिपटस्थस्य पुरस्ताद्भद्रविष्टरे।
कर्मार्चामथवा कूर्चं दर्पणे प्रतिबिम्बितम् ॥ 15 ॥
मूलम् - 15
लेपभित्तिपटस्थस्य पुरस्ताद्भद्रविष्टरे।
कर्मार्चामथवा कूर्चं दर्पणे प्रतिबिम्बितम् ॥ 15 ॥
विश्वास-प्रस्तुतिः - 16
संस्नाप्य विधिवत् कुंभैः स्थापितैरग्रमण्टपे।
उत्सवार्चादि बिम्बानामह्गानामाश्रयात्मनाम् ॥ 16 ॥
मूलम् - 16
संस्नाप्य विधिवत् कुंभैः स्थापितैरग्रमण्टपे।
उत्सवार्चादि बिम्बानामह्गानामाश्रयात्मनाम् ॥ 16 ॥
विश्वास-प्रस्तुतिः - 17
पूजनं स्नपनं कार्यं पाश्चात्यं यागमण्डपे।
तत्रस्थे हवनं कुण्डे शङ्खचक्रादिलक्षणे ॥ 17 ॥
मूलम् - 17
पूजनं स्नपनं कार्यं पाश्चात्यं यागमण्डपे।
तत्रस्थे हवनं कुण्डे शङ्खचक्रादिलक्षणे ॥ 17 ॥
विश्वास-प्रस्तुतिः - 18
मधुक्षीरादिभिः कार्यं सहस्रशतसङ्ख्यया।
कर्मबिम्बं विनान्येषां बिम्बानामङ्गरूपिणाम् ॥ 18 ॥
मूलम् - 18
मधुक्षीरादिभिः कार्यं सहस्रशतसङ्ख्यया।
कर्मबिम्बं विनान्येषां बिम्बानामङ्गरूपिणाम् ॥ 18 ॥
विश्वास-प्रस्तुतिः - 19
दक्षिणे मण्टपस्याथ शयनं कल्पयेन्महत्।
तिलतण्डुलशालीनां भारैर्वस्त्रादिभिः सह ॥ 19 ॥
मूलम् - 19
दक्षिणे मण्टपस्याथ शयनं कल्पयेन्महत्।
तिलतण्डुलशालीनां भारैर्वस्त्रादिभिः सह ॥ 19 ॥
विश्वास-प्रस्तुतिः - 20
तदूर्ध्वे शाययेदर्चां विधिवद्बद्धकौतुकाम्।
संपूज्य कम्बलाद्यैश्च छादयेत्तां सितादिभिः ॥ 20 ॥
मूलम् - 20
तदूर्ध्वे शाययेदर्चां विधिवद्बद्धकौतुकाम्।
संपूज्य कम्बलाद्यैश्च छादयेत्तां सितादिभिः ॥ 20 ॥
विश्वास-प्रस्तुतिः - 21
वर्णकैर्मण्डलं कुर्याच्चक्राम्बुरुहभूषितम्।
यावत् प्रभातसमयं बिम्बस्थस्य समीपतः ॥ 21 ॥
मूलम् - 21
वर्णकैर्मण्डलं कुर्याच्चक्राम्बुरुहभूषितम्।
यावत् प्रभातसमयं बिम्बस्थस्य समीपतः ॥ 21 ॥
विश्वास-प्रस्तुतिः - 22
देशिको मूलमन्त्रस्य जपेनैव नयेन्निशाम्।
प्रबातायां तु शर्वर्यां कृतसन्ध्याविधिर्गुरुः ॥ 22 ॥
मूलम् - 22
देशिको मूलमन्त्रस्य जपेनैव नयेन्निशाम्।
प्रबातायां तु शर्वर्यां कृतसन्ध्याविधिर्गुरुः ॥ 22 ॥
विश्वास-प्रस्तुतिः - 23
चतुःस्थानार्चनं कृत्वा पूर्ववत् स्नपनान्वितम्।
मुहूर्ते शोभने प्राप्ते नववस्त्रपरिष्कृतम् ॥ 23 ॥
मूलम् - 23
चतुःस्थानार्चनं कृत्वा पूर्ववत् स्नपनान्वितम्।
मुहूर्ते शोभने प्राप्ते नववस्त्रपरिष्कृतम् ॥ 23 ॥
विश्वास-प्रस्तुतिः - 24
सोत्तरीयोपवीतं च कृतकौतुकबन्धनम्।
समस्ततत्वविन्यस्तमभ्यर्च्यार्घ्यादिभिः क्रमात् ॥ 24 ॥
मूलम् - 24
सोत्तरीयोपवीतं च कृतकौतुकबन्धनम्।
समस्ततत्वविन्यस्तमभ्यर्च्यार्घ्यादिभिः क्रमात् ॥ 24 ॥
विश्वास-प्रस्तुतिः - 25
तासु स्वहृदयाम्भोजात् पुष्पाञ्जलिपुरस्सरम्।
अग्राह्यमपरिच्छेद्यममूर्तममलं महत् ॥ 25 ॥
मूलम् - 25
तासु स्वहृदयाम्भोजात् पुष्पाञ्जलिपुरस्सरम्।
अग्राह्यमपरिच्छेद्यममूर्तममलं महत् ॥ 25 ॥
विश्वास-प्रस्तुतिः - 26
नित्यशुद्धमनौपम्यं सुसूक्ष्ममचलं स्फुटम्।
सच्चिद्रूपं च सामान्यं भास्वरं सुदृढं महत् ॥ 26 ॥
मूलम् - 26
नित्यशुद्धमनौपम्यं सुसूक्ष्ममचलं स्फुटम्।
सच्चिद्रूपं च सामान्यं भास्वरं सुदृढं महत् ॥ 26 ॥
विश्वास-प्रस्तुतिः - 28
उत्थाप्योत्सवबिम्बादीन् पूर्ववन्मङ्गलैः सह।
महाकुम्भं च पुरतो वाहयन् मूर्तिपादिभिः ॥ 28 ॥
मूलम् - 28
उत्थाप्योत्सवबिम्बादीन् पूर्ववन्मङ्गलैः सह।
महाकुम्भं च पुरतो वाहयन् मूर्तिपादिभिः ॥ 28 ॥
विश्वास-प्रस्तुतिः - 29
करकास्त्रं समादाय त्वाचार्यः पुरतो व्रजेत्।
शलाकामात्रयाऽच्छिन्नधारया सेचयन् भुवम् ॥ 29 ॥
मूलम् - 29
करकास्त्रं समादाय त्वाचार्यः पुरतो व्रजेत्।
शलाकामात्रयाऽच्छिन्नधारया सेचयन् भुवम् ॥ 29 ॥
विश्वास-प्रस्तुतिः - 30
प्रादक्षिण्येन धामान्तः प्रवेश्य मुनिपुड्गवाः!।
महोत्सवोक्तमार्गेण कुम्भप्रोक्षणमाचरेत् ॥ 30 ॥
मूलम् - 30
प्रादक्षिण्येन धामान्तः प्रवेश्य मुनिपुड्गवाः!।
महोत्सवोक्तमार्गेण कुम्भप्रोक्षणमाचरेत् ॥ 30 ॥
विश्वास-प्रस्तुतिः - 31
द्वारावरणदेवांश्च आलयश्रयवर्तिनः।
खगेशविष्वक्सेनादीन् परिवारांश्च सर्वसः ॥ 31 ॥
मूलम् - 31
द्वारावरणदेवांश्च आलयश्रयवर्तिनः।
खगेशविष्वक्सेनादीन् परिवारांश्च सर्वसः ॥ 31 ॥
विश्वास-प्रस्तुतिः - 32
कुम्भावशिष्टतोयेन प्रोक्षयेत् सर्वतः क्रमात्।
अवशिष्टं कुम्भतोयं बलिपीठेऽभिषेचयेत् ॥ 32 ॥
मूलम् - 32
कुम्भावशिष्टतोयेन प्रोक्षयेत् सर्वतः क्रमात्।
अवशिष्टं कुम्भतोयं बलिपीठेऽभिषेचयेत् ॥ 32 ॥
विश्वास-प्रस्तुतिः - 33
एवं सम्प्रोक्ष्य विधिवत् प्रासादान्तः प्रविश्य च।
करस्थं कौतुकं चाथ हृदयेन विसृज्य तु ॥ 33 ॥
मूलम् - 33
एवं सम्प्रोक्ष्य विधिवत् प्रासादान्तः प्रविश्य च।
करस्थं कौतुकं चाथ हृदयेन विसृज्य तु ॥ 33 ॥
विश्वास-प्रस्तुतिः - 34
गोभूहेमादिकं दत्वा सर्वदोषप्रशान्तये।
देवमर्घ्यादिनाभ्यर्च्य हविरन्तं विशेषतः ॥ 34 ॥
मूलम् - 34
गोभूहेमादिकं दत्वा सर्वदोषप्रशान्तये।
देवमर्घ्यादिनाभ्यर्च्य हविरन्तं विशेषतः ॥ 34 ॥
विश्वास-प्रस्तुतिः - 35
ब्राह्नणान् भोजयेत् पश्चात् सहस्रं शतमेव वा।
सद्यो वा सकलं त्वेवं कुर्यात् संप्रोक्षणं विभोः ॥ 35 ॥
मूलम् - 35
ब्राह्नणान् भोजयेत् पश्चात् सहस्रं शतमेव वा।
सद्यो वा सकलं त्वेवं कुर्यात् संप्रोक्षणं विभोः ॥ 35 ॥
विश्वास-प्रस्तुतिः - 36
पुष्पांकुरपुरस्कं तु तत्तद्दोषप्रशान्तये।
न तिथिर्न च नक्षत्रं कालवेला न विद्यते ॥ 36 ॥
मूलम् - 36
पुष्पांकुरपुरस्कं तु तत्तद्दोषप्रशान्तये।
न तिथिर्न च नक्षत्रं कालवेला न विद्यते ॥ 36 ॥
विश्वास-प्रस्तुतिः - 37
सद्यः सम्प्रोक्षणं विप्राः! निशि वा दिवसेऽपि वा।
प्रायश्चित्तविलम्बे तु कुर्यात् कालनिरीक्षणम् ॥ 37 ॥
मूलम् - 37

विश्वास-प्रस्तुतिः - 39
नागयोग इति ख्यातः सार्पर्क्षकरणक्षमैः।
ऋक्षेण वानयोरेकयोगस्यान्नागसंज्ञितः ॥ 39 ॥
मूलम् - 39
नागयोग इति ख्यातः सार्पर्क्षकरणक्षमैः।
ऋक्षेण वानयोरेकयोगस्यान्नागसंज्ञितः ॥ 39 ॥
विश्वास-प्रस्तुतिः - 40
पुरा तन्निश्चयीकृत्य कर्तव्यमिति सत्तमैः।
तदर्थमंकुरानर्प्य द्रव्याणि समुपाहरेत् ॥ 40 ॥
मूलम् - 40
पुरा तन्निश्चयीकृत्य कर्तव्यमिति सत्तमैः।
तदर्थमंकुरानर्प्य द्रव्याणि समुपाहरेत् ॥ 40 ॥
विश्वास-प्रस्तुतिः - 41
मनश्शिलां हरीतालमञ्जनं श्यामसीसके।
सौराष्ट्रं रोचनं चैव गैरिकं पारदं तथा ॥ 41 ॥
मूलम् - 41
मनश्शिलां हरीतालमञ्जनं श्यामसीसके।
सौराष्ट्रं रोचनं चैव गैरिकं पारदं तथा ॥ 41 ॥
विश्वास-प्रस्तुतिः - 42
आदाय धातुरत्नानि पझरागपुरस्सरम्।
मुक्ताफलं प्रवालं च वज्रं वैडूर्यसंज्ञितम् ॥ 42 ॥
मूलम् - 42
आदाय धातुरत्नानि पझरागपुरस्सरम्।
मुक्ताफलं प्रवालं च वज्रं वैडूर्यसंज्ञितम् ॥ 42 ॥
विश्वास-प्रस्तुतिः - 43
गोमेदं पुष्यरागं च महानीलं च गारुडम्।
रत्नान्येतानि संगृह्य बीजानि समुपाहरेत् ॥ 43 ॥
मूलम् - 43
गोमेदं पुष्यरागं च महानीलं च गारुडम्।
रत्नान्येतानि संगृह्य बीजानि समुपाहरेत् ॥ 43 ॥
विश्वास-प्रस्तुतिः - 44
शालिनीवारकंकूनि प्रियंगुतिलमाषकान्।
मृद्गांश्च यववेणूंश्च यवसाख्यान्यनन्तरम् ॥ 44 ॥
मूलम् - 44
शालिनीवारकंकूनि प्रियंगुतिलमाषकान्।
मृद्गांश्च यववेणूंश्च यवसाख्यान्यनन्तरम् ॥ 44 ॥
विश्वास-प्रस्तुतिः - 45
हिरण्यं रजतं ताम्रमायसं त्रपुसीसकम्।
सौवर्णं कूर्मरूपं च सौवर्णं चक्रमम्बुजम् ॥ 45 ॥
मूलम् - 45
हिरण्यं रजतं ताम्रमायसं त्रपुसीसकम्।
सौवर्णं कूर्मरूपं च सौवर्णं चक्रमम्बुजम् ॥ 45 ॥
विश्वास-प्रस्तुतिः - 46
राजतं पाञ्चजन्यं च समाहृत्य ततः परम्।
कदलीपनसाम्राणां बिल्वामलकयोरपि ॥ 46 ॥
मूलम् - 46
राजतं पाञ्चजन्यं च समाहृत्य ततः परम्।
कदलीपनसाम्राणां बिल्वामलकयोरपि ॥ 46 ॥
विश्वास-प्रस्तुतिः - 47
दाडिमीमातुलुङ्गस्य नालिकेरस्य कालतः।
पव्कानि समुपाहृत्य फलानि च ततः परम् ॥ 47 ॥
मूलम् - 47
दाडिमीमातुलुङ्गस्य नालिकेरस्य कालतः।
पव्कानि समुपाहृत्य फलानि च ततः परम् ॥ 47 ॥
विश्वास-प्रस्तुतिः - 48
चन्दनागरुकर्पूरकुंकुमादीन्युपाहरेत्।
कोष्ठं मांसी हरिद्रे द्वे मुराशैलेयचम्पकान् ॥ 48 ॥
मूलम् - 48
चन्दनागरुकर्पूरकुंकुमादीन्युपाहरेत्।
कोष्ठं मांसी हरिद्रे द्वे मुराशैलेयचम्पकान् ॥ 48 ॥
विश्वास-प्रस्तुतिः - 49
वचाकच्चोरमुस्तानि ह्रीबेरोशीरजान्यपि।
मल्लिकाजातिवकुलनन्द्यावर्तकचंपकान् ॥ 49 ॥
मूलम् - 49
वचाकच्चोरमुस्तानि ह्रीबेरोशीरजान्यपि।
मल्लिकाजातिवकुलनन्द्यावर्तकचंपकान् ॥ 49 ॥
विश्वास-प्रस्तुतिः - 50
पाटलीपझकल्हाराण्युपाहृत्य ततः परम्।
वस्त्रादीनि सितादीनि माल्यानि च विशेषतः ॥ 50 ॥
मूलम् - 50
पाटलीपझकल्हाराण्युपाहृत्य ततः परम्।
वस्त्रादीनि सितादीनि माल्यानि च विशेषतः ॥ 50 ॥
विश्वास-प्रस्तुतिः - 51
शालिपूर्वाणि धान्यानि कुशदूर्वादिकान्यपि।
बिल्वाश्वत्थकदम्बाम्रपल्लवादीनि यान्यपि ॥ 51 ॥
मूलम् - 51
शालिपूर्वाणि धान्यानि कुशदूर्वादिकान्यपि।
बिल्वाश्वत्थकदम्बाम्रपल्लवादीनि यान्यपि ॥ 51 ॥
विश्वास-प्रस्तुतिः - 52
हविः पाकोपयोग्यानि तण्डुलादीनि सत्तम!।
होमद्रव्याणि सर्वाणि पझपत्राणि मृण्मये ॥ 52 ॥
मूलम् - 52
हविः पाकोपयोग्यानि तण्डुलादीनि सत्तम!।
होमद्रव्याणि सर्वाणि पझपत्राणि मृण्मये ॥ 52 ॥
विश्वास-प्रस्तुतिः - 53
द्वादशाङ्गुलविस्तीर्णे पव्कापव्के घटे दृढे।
नृहरेः पूजनार्थं तु कुंभं सकरकं बृहत् ॥ 53 ॥
मूलम् - 53
द्वादशाङ्गुलविस्तीर्णे पव्कापव्के घटे दृढे।
नृहरेः पूजनार्थं तु कुंभं सकरकं बृहत् ॥ 53 ॥
विश्वास-प्रस्तुतिः - 54
एवमादीनि चान्यानि पुराऽऽहृत्य विधानतः।
गृह्णीयात् पञ्चगव्यानि मृत्पात्रे नूतने शुभे ॥ 54 ॥
मूलम् - 54
एवमादीनि चान्यानि पुराऽऽहृत्य विधानतः।
गृह्णीयात् पञ्चगव्यानि मृत्पात्रे नूतने शुभे ॥ 54 ॥
विश्वास-प्रस्तुतिः - 55
गोमूत्रं गोमयं क्षीरं दधि मस्तु च पञ्चमम्।
कपिलाया जराया वा पञ्चगव्यं प्रशस्यते ॥ 55 ॥
मूलम् - 55
गोमूत्रं गोमयं क्षीरं दधि मस्तु च पञ्चमम्।
कपिलाया जराया वा पञ्चगव्यं प्रशस्यते ॥ 55 ॥
विश्वास-प्रस्तुतिः - 56
तयोरभावे चान्यासां गवां गव्यं विधीयते।
नार्ताया न च गर्भिण्या न वृद्धायाः कदाचन ॥ 56 ॥
मूलम् - 56
तयोरभावे चान्यासां गवां गव्यं विधीयते।
नार्ताया न च गर्भिण्या न वृद्धायाः कदाचन ॥ 56 ॥
विश्वास-प्रस्तुतिः - 57
नावत्साया उपादेयं धेनोर्मूत्रं शकृद्द्वयम्।
भुविष्ठं गोमयं ग्राह्यं सोष्णं कृम्याद्यदूषितम् ॥ 57 ॥
मूलम् - 57
नावत्साया उपादेयं धेनोर्मूत्रं शकृद्द्वयम्।
भुविष्ठं गोमयं ग्राह्यं सोष्णं कृम्याद्यदूषितम् ॥ 57 ॥
विश्वास-प्रस्तुतिः - 58
निष्पीड्य सम्यग्गृह्णीयाद्गोमयस्य रसं पुनः।
सद्यस्तप्तं घृतं शुद्धमहोरात्रोषितं दधि ॥ 58 ॥
मूलम् - 58
निष्पीड्य सम्यग्गृह्णीयाद्गोमयस्य रसं पुनः।
सद्यस्तप्तं घृतं शुद्धमहोरात्रोषितं दधि ॥ 58 ॥
विश्वास-प्रस्तुतिः - 59
क्षीरं ग्राह्यमतप्तं च दशाहाज्जन्मनः परम्।
गोमूत्रं विष्णुगायत्र्या `गन्धद्वारे’ ति गोमयम् ॥ 59 ॥
मूलम् - 59
क्षीरं ग्राह्यमतप्तं च दशाहाज्जन्मनः परम्।
गोमूत्रं विष्णुगायत्र्या `गन्धद्वारे’ ति गोमयम् ॥ 59 ॥
विश्वास-प्रस्तुतिः - 60
आप्यायस्वे’ ति च क्षीरं दधिक्राव्ण्णे' ति वै दधि। घृतं शुक्रमसी’ त्येवं द्रव्याणि सह योजयेत् ॥ 60 ॥
मूलम् - 60
आप्यायस्वे’ ति च क्षीरं दधिक्राव्ण्णे' ति वै दधि। घृतं शुक्रमसी’ त्येवं द्रव्याणि सह योजयेत् ॥ 60 ॥
विश्वास-प्रस्तुतिः - 61
विष्णुगायत्रिया यद्वा, पञ्चोपनिषदैस्तु वा।
परमेष्ठी' शकृन्मन्त्रो गोमूत्रस्य तु पूरुषः’ ॥ 61 ॥
मूलम् - 61
विष्णुगायत्रिया यद्वा, पञ्चोपनिषदैस्तु वा।
परमेष्ठी' शकृन्मन्त्रो गोमूत्रस्य तु पूरुषः’ ॥ 61 ॥
विश्वास-प्रस्तुतिः - 62
विश्वमन्त्रो भवेद्दध्नो निवृत्तिस्सर्पिषोभवेत्।
पयसः सर्वमन्त्रः स्यात्, सर्वेषां वाष्टवर्णकमम् ॥ 62 ॥
मूलम् - 62

विश्वास-प्रस्तुतिः - 63
प्रोक्षणे स्नपने पञ्चगव्यमन्त्रा उदीरिताः।
सर्वदोषोपशान्त्यर्थं संप्राप्ते स्थापने सति ॥ 63 ॥
मूलम् - 63
प्रोक्षणे स्नपने पञ्चगव्यमन्त्रा उदीरिताः।
सर्वदोषोपशान्त्यर्थं संप्राप्ते स्थापने सति ॥ 63 ॥
विश्वास-प्रस्तुतिः - 64
सौदर्शननृसिंहस्य हृदाद्यैर्नेत्रपश्चिमैः।
अङ्गमन्त्रैः प्रकल्प्यानि क्षीरान्तानि शकृद्रसात् ॥ 64 ॥
मूलम् - 64
सौदर्शननृसिंहस्य हृदाद्यैर्नेत्रपश्चिमैः।
अङ्गमन्त्रैः प्रकल्प्यानि क्षीरान्तानि शकृद्रसात् ॥ 64 ॥
विश्वास-प्रस्तुतिः - 65
दधि द्विगुणमाघारात् पीयूषं त्रिगुणं ततः।
षड्गुणं मूत्रमेतस्माच्छकृद्वारि चतुर्गुणम् ॥ 65 ॥
मूलम् - 65
दधि द्विगुणमाघारात् पीयूषं त्रिगुणं ततः।
षड्गुणं मूत्रमेतस्माच्छकृद्वारि चतुर्गुणम् ॥ 65 ॥
विश्वास-प्रस्तुतिः - 66
स्थापने कथितं मानमभिषेकविधावपि।
भूमिसंशोधनार्थं तत् प्रोक्षयो पञ्चकं समम् ॥ 66 ॥
मूलम् - 66
स्थापने कथितं मानमभिषेकविधावपि।
भूमिसंशोधनार्थं तत् प्रोक्षयो पञ्चकं समम् ॥ 66 ॥
विश्वास-प्रस्तुतिः - 67
गोमयेन समं मूत्रं दधि स्याद्द्विगुणं ततः।
दध्नश्चतुर्गुणं सर्पिः सर्पिषोष्टगुणं पयः ॥ 67 ॥
मूलम् - 67
गोमयेन समं मूत्रं दधि स्याद्द्विगुणं ततः।
दध्नश्चतुर्गुणं सर्पिः सर्पिषोष्टगुणं पयः ॥ 67 ॥
विश्वास-प्रस्तुतिः - 68
प्राशने पञ्चगव्यानां प्रमाणमिदमीरितम्।
स्थापनं स्नपनं ह्येतत् सर्वाघौघविनाशनम् ॥ 68 ॥
मूलम् - 68
प्राशने पञ्चगव्यानां प्रमाणमिदमीरितम्।
स्थापनं स्नपनं ह्येतत् सर्वाघौघविनाशनम् ॥ 68 ॥
विश्वास-प्रस्तुतिः - 69
ब्रह्नकूर्चसमोपेतं हन्यादागामिनं त्वघम्।
तद्बिधानं समासेन श्रृणु वक्ष्यामि तत्वतः ॥ 69 ॥
मूलम् - 69
ब्रह्नकूर्चसमोपेतं हन्यादागामिनं त्वघम्।
तद्बिधानं समासेन श्रृणु वक्ष्यामि तत्वतः ॥ 69 ॥
विश्वास-प्रस्तुतिः - 70
चूर्णेन यववेणुभ्यां समेतं तु कुशोदकम्।
ब्रह्नकूर्चमितिख्यातं वैष्णवास्त्रौघसप्रभम् ॥ 70 ॥
मूलम् - 70
चूर्णेन यववेणुभ्यां समेतं तु कुशोदकम्।
ब्रह्नकूर्चमितिख्यातं वैष्णवास्त्रौघसप्रभम् ॥ 70 ॥
विश्वास-प्रस्तुतिः - 71
कुशोदं द्विविधं प्रोक्तं शुष्काशुष्कविबागतः।
अशुष्कमथ निष्पीड्य वस्त्रेण रसमाहरेत् ॥ 71 ॥
मूलम् - 71
कुशोदं द्विविधं प्रोक्तं शुष्काशुष्कविबागतः।
अशुष्कमथ निष्पीड्य वस्त्रेण रसमाहरेत् ॥ 71 ॥
विश्वास-प्रस्तुतिः - 72
प्रहृत्य शुष्कमुदके प्रक्षिप्य जलमाहरेत्।
पवित्रं मन्त्रमुच्चार्य मूलं वास्त्रसमन्विम् ॥ 72 ॥
मूलम् - 72
प्रहृत्य शुष्कमुदके प्रक्षिप्य जलमाहरेत्।
पवित्रं मन्त्रमुच्चार्य मूलं वास्त्रसमन्विम् ॥ 72 ॥
विश्वास-प्रस्तुतिः - 73
गोमूत्रसंमितं मानाद्गृण्डीयात्तत् कुशोदकम्।
शकृद्रसप्रमाणेन चूर्णं तत्र मियोजयेत् ॥ 73 ॥
मूलम् - 73
गोमूत्रसंमितं मानाद्गृण्डीयात्तत् कुशोदकम्।
शकृद्रसप्रमाणेन चूर्णं तत्र मियोजयेत् ॥ 73 ॥
विश्वास-प्रस्तुतिः - 74
चक्रास्त्रमन्त्रमुच्चार्य गायत्र्या बिष्णुसंज्ञया।
ध्यात्वा च चक्रनृहरिं तद्गव्येषु नियोजयेत् ॥ 74 ॥
मूलम् - 74
चक्रास्त्रमन्त्रमुच्चार्य गायत्र्या बिष्णुसंज्ञया।
ध्यात्वा च चक्रनृहरिं तद्गव्येषु नियोजयेत् ॥ 74 ॥
विश्वास-प्रस्तुतिः - 75
यद्वा पृथक् स्थापयित्वा पञ्चगव्यैः कुशोदके।
हृदयाद्यस्त्रपर्यन्तैरभिमन्त्र्य च योजयेत् ॥ 75 ॥
मूलम् - 75
यद्वा पृथक् स्थापयित्वा पञ्चगव्यैः कुशोदके।
हृदयाद्यस्त्रपर्यन्तैरभिमन्त्र्य च योजयेत् ॥ 75 ॥
विश्वास-प्रस्तुतिः - 76
प्रशस्तं प्राशनं ताभ्यां प्रातः सर्वाघनाशनम्।
इति सम्यक् समाख्यातः पञ्चगव्यविधिस्तव ॥ 76 ॥
मूलम् - 76
प्रशस्तं प्राशनं ताभ्यां प्रातः सर्वाघनाशनम्।
इति सम्यक् समाख्यातः पञ्चगव्यविधिस्तव ॥ 76 ॥
विश्वास-प्रस्तुतिः - 77
मण्टपेऽथ पुरा क्लृप्ते यागस्नपनसिद्धये।
पश्चगव्याधिवासार्थं यजनं प्रारभेद्गुरुः ॥ 77 ॥
मूलम् - 77
मण्टपेऽथ पुरा क्लृप्ते यागस्नपनसिद्धये।
पश्चगव्याधिवासार्थं यजनं प्रारभेद्गुरुः ॥ 77 ॥
विश्वास-प्रस्तुतिः - 78
पूर्वेद्युः कर्मदिवसात् त्रिस्नायी समुपोषितः।
अहिर्बुध्न्ये मुहूर्ते तु ऋत्विग्भिः पाञ्चरात्रिकैः ॥ 78 ॥
मूलम् - 78

विश्वास-प्रस्तुतिः - 79
पुण्याहं प्राग्वदुच्चार्य गव्यैरभ्युक्षयेत् स्थलीम्।
सद्रव्यामस्त्रमन्त्रेण प्राग्भागे धान्यविष्टरे ॥ 79 ॥
मूलम् - 79

विश्वास-प्रस्तुतिः - 80
दशारमष्टपत्रं तु चक्राब्जं भूपुरान्तके।
विलिख्य कर्णिकामध्ये त्रिकोणकृतसंपुटे ॥ 80 ॥
मूलम् - 80
दशारमष्टपत्रं तु चक्राब्जं भूपुरान्तके।
विलिख्य कर्णिकामध्ये त्रिकोणकृतसंपुटे ॥ 80 ॥
विश्वास-प्रस्तुतिः - 81
महाकुम्भं प्रतिष्ठाप्य सूत्रवस्त्रादिवेष्टितम्।
करकेण समोपेतं दिक्पालकलशान्वितम् ॥ 81 ॥
मूलम् - 81
महाकुम्भं प्रतिष्ठाप्य सूत्रवस्त्रादिवेष्टितम्।
करकेण समोपेतं दिक्पालकलशान्वितम् ॥ 81 ॥
विश्वास-प्रस्तुतिः - 82
पूरितं दधिमध्वाज्वक्षीरयुक्तेन वारिणा।
पिप्पलादिदलोपेतं गन्धस्रग्भिरलंकृतम् ॥ 82 ॥
मूलम् - 82
पूरितं दधिमध्वाज्वक्षीरयुक्तेन वारिणा।
पिप्पलादिदलोपेतं गन्धस्रग्भिरलंकृतम् ॥ 82 ॥
विश्वास-प्रस्तुतिः - 83
सकूर्चं सफलं सर्वरत्नहेमसमन्वितम्।
सर्वौषधिसमोपेतमक्षतैरपि चार्चितम् ॥ 83 ॥
मूलम् - 83
सकूर्चं सफलं सर्वरत्नहेमसमन्वितम्।
सर्वौषधिसमोपेतमक्षतैरपि चार्चितम् ॥ 83 ॥
विश्वास-प्रस्तुतिः - 84
प्रदीप्य तैजसे पात्रे मृण्मये वा घृतेन तु।
कापिलेन चतुर्दिक्षु दीपं नेत्राभिमन्त्रितम् ॥ 84 ॥
मूलम् - 84
प्रदीप्य तैजसे पात्रे मृण्मये वा घृतेन तु।
कापिलेन चतुर्दिक्षु दीपं नेत्राभिमन्त्रितम् ॥ 84 ॥
विश्वास-प्रस्तुतिः - 85
स्थापयेद्धान्यपीठस्थचक्राम्बुरुहमध्यतः।
कुम्भस्य पुरतः प्राग्वदुपविश्यासनोपरि ॥ 85 ॥
मूलम् - 85
स्थापयेद्धान्यपीठस्थचक्राम्बुरुहमध्यतः।
कुम्भस्य पुरतः प्राग्वदुपविश्यासनोपरि ॥ 85 ॥
विश्वास-प्रस्तुतिः - 86
प्राणायामादिकं कृत्वा भूतशुद्धिं यथाविधि।
सौदर्शननृसिंहस्य मन्त्रं करशरीरगम् ॥ 86 ॥
मूलम् - 86
प्राणायामादिकं कृत्वा भूतशुद्धिं यथाविधि।
सौदर्शननृसिंहस्य मन्त्रं करशरीरगम् ॥ 86 ॥
विश्वास-प्रस्तुतिः - 87
साङ्गं विन्यस्य हृदये चक्राम्बुरुहमध्यगम्।
नादावसानगगनादवतार्य परादिना ॥ 87 ॥
मूलम् - 87
साङ्गं विन्यस्य हृदये चक्राम्बुरुहमध्यगम्।
नादावसानगगनादवतार्य परादिना ॥ 87 ॥
विश्वास-प्रस्तुतिः - 88
मूर्तिमन्त्रं स्वमन्त्रेण भावनामृतजैः शुभैः।
अर्घ्याद्यैरखिलैर्भोगैरभ्यर्च्य प्रणवेन तु ॥ 88 ॥
मूलम् - 88
मूर्तिमन्त्रं स्वमन्त्रेण भावनामृतजैः शुभैः।
अर्घ्याद्यैरखिलैर्भोगैरभ्यर्च्य प्रणवेन तु ॥ 88 ॥
विश्वास-प्रस्तुतिः - 89
प्रीणयित्वा तथा हुत्वा नाभिकुण्डगतानले।
बहिरभ्यर्चयेत् कुंभे(ण्डे) मध्यस्थे चक्रवारिजे ॥ 89 ॥
मूलम् - 89
प्रीणयित्वा तथा हुत्वा नाभिकुण्डगतानले।
बहिरभ्यर्चयेत् कुंभे(ण्डे) मध्यस्थे चक्रवारिजे ॥ 89 ॥
विश्वास-प्रस्तुतिः - 90
समावाह्यं स्वमन्त्रेण मूर्तैरर्घ्यादिभिः क्रमात्।
जपावसानं विधिवत् कुण्डे क्राब्जलक्षणे ॥ 90 ॥
मूलम् - 90
समावाह्यं स्वमन्त्रेण मूर्तैरर्घ्यादिभिः क्रमात्।
जपावसानं विधिवत् कुण्डे क्राब्जलक्षणे ॥ 90 ॥
विश्वास-प्रस्तुतिः - 91
चक्रे वा पङ्कजे शङ्खे तुर्यश्रे स्थण्डिलेऽपि वा।
समिद्भिः सप्तभिर्हुत्वा पूर्णान्तं तदनन्तरम् ॥ 91 ॥
मूलम् - 91
चक्रे वा पङ्कजे शङ्खे तुर्यश्रे स्थण्डिलेऽपि वा।
समिद्भिः सप्तभिर्हुत्वा पूर्णान्तं तदनन्तरम् ॥ 91 ॥
विश्वास-प्रस्तुतिः - 92
चन्दनेन प्रसूनैस्च गुग्गुल्वगरुणाऽपि च।
दुग्धेन दधिना क्षौद्रगुडखण्जान्वितेन च ॥ 92 ॥
मूलम् - 92
चन्दनेन प्रसूनैस्च गुग्गुल्वगरुणाऽपि च।
दुग्धेन दधिना क्षौद्रगुडखण्जान्वितेन च ॥ 92 ॥
विश्वास-प्रस्तुतिः - 93
शाल्यादीनां तथा बीजैः पायसाद्यैश्च सर्पिषा।
हुत्वाऽथ पूर्णया तृप्तिं नीत्वा सम्यक् समर्प्य च ॥ 93 ॥
मूलम् - 93
शाल्यादीनां तथा बीजैः पायसाद्यैश्च सर्पिषा।
हुत्वाऽथ पूर्णया तृप्तिं नीत्वा सम्यक् समर्प्य च ॥ 93 ॥
विश्वास-प्रस्तुतिः - 94
ततः कलशनिष्ठस्य पुरस्ताच्छोधिते स्थले।
सर्वधान्यमये पीठे लिखिते चक्रपङ्कजे ॥ 94 ॥
मूलम् - 94
ततः कलशनिष्ठस्य पुरस्ताच्छोधिते स्थले।
सर्वधान्यमये पीठे लिखिते चक्रपङ्कजे ॥ 94 ॥
विश्वास-प्रस्तुतिः - 95
स्वास्तृते नववस्त्रेण छादिते चोर्ध्वतः कुशैः।
प्रागुक्तं कुम्भमादाय द्वादशाह्गुलसंमितम् ॥ 95 ॥
मूलम् - 95
स्वास्तृते नववस्त्रेण छादिते चोर्ध्वतः कुशैः।
प्रागुक्तं कुम्भमादाय द्वादशाह्गुलसंमितम् ॥ 95 ॥
विश्वास-प्रस्तुतिः - 96
बहिरन्तश्च संक्षाल्य सूत्रेणावेष्ट्य पूर्ववत्।
चन्दनाद्यैः समालिप्य प्रणवेन समाहितः ॥ 96 ॥
मूलम् - 96
बहिरन्तश्च संक्षाल्य सूत्रेणावेष्ट्य पूर्ववत्।
चन्दनाद्यैः समालिप्य प्रणवेन समाहितः ॥ 96 ॥
विश्वास-प्रस्तुतिः - 97
चक्राब्जकर्णिकामध्ये विन्यसेत्तमधोमुखम्।
ततो मानेन तत्तुल्यमपव्कं मृण्मयं घटम् ॥ 97 ॥
मूलम् - 97
चक्राब्जकर्णिकामध्ये विन्यसेत्तमधोमुखम्।
ततो मानेन तत्तुल्यमपव्कं मृण्मयं घटम् ॥ 97 ॥
विश्वास-प्रस्तुतिः - 98
संप्रोक्ष्य पञ्चगव्येन सास्त्रेण कुशवारिणा।
चतुर्गुणेन सूत्रेण पझैरन्तर्मुखैर्दलैः ॥ 98 ॥
मूलम् - 98
संप्रोक्ष्य पञ्चगव्येन सास्त्रेण कुशवारिणा।
चतुर्गुणेन सूत्रेण पझैरन्तर्मुखैर्दलैः ॥ 98 ॥
विश्वास-प्रस्तुतिः - 99
बन्धयित्वा तु सुदृढमास्यवर्जं समन्ततः।
तं च तेनैव विन्यस्य जपंस्तारमवाङ्मुखम् ॥ 99 ॥
मूलम् - 99
बन्धयित्वा तु सुदृढमास्यवर्जं समन्ततः।
तं च तेनैव विन्यस्य जपंस्तारमवाङ्मुखम् ॥ 99 ॥
विश्वास-प्रस्तुतिः - 100
स्तृणीयादूर्ध्वतो दर्भान् कुम्भयोः परमेष्ठिना।
प्रोक्षयेदर्घ्यतोयेन प्राङ्मुखः पुरुषात्मना ॥ 100 ॥
मूलम् - 100
स्तृणीयादूर्ध्वतो दर्भान् कुम्भयोः परमेष्ठिना।
प्रोक्षयेदर्घ्यतोयेन प्राङ्मुखः पुरुषात्मना ॥ 100 ॥
विश्वास-प्रस्तुतिः - 101
विश्वमन्त्रेण विकिरेदक्षतानि तदूर्ध्वतः।
उत्तानयेन्निवृत्या तौ पाणिभ्यामुत्तरान्तिमम् ॥ 101 ॥
मूलम् - 101
विश्वमन्त्रेण विकिरेदक्षतानि तदूर्ध्वतः।
उत्तानयेन्निवृत्या तौ पाणिभ्यामुत्तरान्तिमम् ॥ 101 ॥
विश्वास-प्रस्तुतिः - 102
सर्पिषाष्टोत्तरशतं विष्णुगायत्रिया हुनेत्।
सर्वात्मनाऽथ संस्पृश्य संपाताज्येन मन्त्रवित् ॥ 102 ॥
मूलम् - 102
सर्पिषाष्टोत्तरशतं विष्णुगायत्रिया हुनेत्।
सर्वात्मनाऽथ संस्पृश्य संपाताज्येन मन्त्रवित् ॥ 102 ॥
विश्वास-प्रस्तुतिः - 103
द्रव्याणि पव्ककुम्भेऽस्मिन् हृन्मन्त्रेण नियोजयेत्।
मृत्कन्दधातुरत्रानि बीजलोहफलानि च ॥ 103 ॥
मूलम् - 103
द्रव्याणि पव्ककुम्भेऽस्मिन् हृन्मन्त्रेण नियोजयेत्।
मृत्कन्दधातुरत्रानि बीजलोहफलानि च ॥ 103 ॥
विश्वास-प्रस्तुतिः - 104
चन्दनादीनि पुष्पाणि तथा सर्वौषधीनि च।
कुशपल्लवदूर्वाश्च पूरयित्वा तदूर्ध्वतः ॥ 104 ॥
मूलम् - 104
चन्दनादीनि पुष्पाणि तथा सर्वौषधीनि च।
कुशपल्लवदूर्वाश्च पूरयित्वा तदूर्ध्वतः ॥ 104 ॥
विश्वास-प्रस्तुतिः - 105
योजयेत् पञ्चगव्येन प्राह्मुखः सकुशोदकम्।
अर्चयित्वाऽर्घ्यगन्धाद्यैः साङ्गं मूलं समुच्चरन् ॥ 105 ॥
मूलम् - 105
योजयेत् पञ्चगव्येन प्राह्मुखः सकुशोदकम्।
अर्चयित्वाऽर्घ्यगन्धाद्यैः साङ्गं मूलं समुच्चरन् ॥ 105 ॥
विश्वास-प्रस्तुतिः - 106
आच्छाद्य नववस्त्रेण दद्याद्भूतबलिं ततः।
देवतायतनग्रामनगरेष्वपि पत्तने ॥ 106 ॥
मूलम् - 106
आच्छाद्य नववस्त्रेण दद्याद्भूतबलिं ततः।
देवतायतनग्रामनगरेष्वपि पत्तने ॥ 106 ॥
विश्वास-प्रस्तुतिः - 107
स्थापनास्पदमासाद्य शोभ(ध?)नं पञ्चगव्यकैः।
तत्र मध्ये खनेच्छ्वब्रं मूलमन्त्रमुदीरयन् ॥ 107 ॥
मूलम् - 107
स्थापनास्पदमासाद्य शोभ(ध?)नं पञ्चगव्यकैः।
तत्र मध्ये खनेच्छ्वब्रं मूलमन्त्रमुदीरयन् ॥ 107 ॥
विश्वास-प्रस्तुतिः - 108
अङ्गुष्ठोदरमावृत्य त्रिधा सूत्रेण वेष्टयेत्।
तेनैव भ्रामयेन्मद्ये स्थाप्य तत्रावटं खनेत् ॥ 108 ॥
मूलम् - 108
अङ्गुष्ठोदरमावृत्य त्रिधा सूत्रेण वेष्टयेत्।
तेनैव भ्रामयेन्मद्ये स्थाप्य तत्रावटं खनेत् ॥ 108 ॥
विश्वास-प्रस्तुतिः - 109
हस्तमानमधस्ताच्च षडङ्गुलसमन्वितम्।
संप्रोक्ष्यं पञ्चगव्येन तत्र रत्नादिकं न्यसेत् ॥ 109 ॥
मूलम् - 109
हस्तमानमधस्ताच्च षडङ्गुलसमन्वितम्।
संप्रोक्ष्यं पञ्चगव्येन तत्र रत्नादिकं न्यसेत् ॥ 109 ॥
विश्वास-प्रस्तुतिः - 110
शेषं ध्यात्वा तदूर्ध्वे तु अब्यर्च्यार्घ्यादिभिः क्रमात्।
वाससाऽऽच्छाद्य दिग्बन्धमाचरेदस्त्रमुच्चरन् ॥ 110 ॥
मूलम् - 110
शेषं ध्यात्वा तदूर्ध्वे तु अब्यर्च्यार्घ्यादिभिः क्रमात्।
वाससाऽऽच्छाद्य दिग्बन्धमाचरेदस्त्रमुच्चरन् ॥ 110 ॥
विश्वास-प्रस्तुतिः - 111
संस्पृश्य गव्यं कुम्भाभ्यां ध्यात्वा मूलं जपेद्गुरुः।
प्रभातायां तु शर्वर्यां कृत्वा स्नानादिकीः क्रियाः ॥ 111 ॥
मूलम् - 111

विश्वास-प्रस्तुतिः - 112
कुम्भस्थं नृहरिं पूज्य जपान्तं पूर्ववर्मना।
पुण्याहवाचनं कृत्वा मुहूर्ते शोभने गुरुः ॥ 112 ॥
मूलम् - 112
कुम्भस्थं नृहरिं पूज्य जपान्तं पूर्ववर्मना।
पुण्याहवाचनं कृत्वा मुहूर्ते शोभने गुरुः ॥ 112 ॥
विश्वास-प्रस्तुतिः - 113
पझपत्रावृतं कुम्भं श्वब्रे तारेण विन्यसेत्।
परितः सर्वधान्येन पूरियत्वाऽचलं यथा ॥ 113 ॥
मूलम् - 113
पझपत्रावृतं कुम्भं श्वब्रे तारेण विन्यसेत्।
परितः सर्वधान्येन पूरियत्वाऽचलं यथा ॥ 113 ॥
विश्वास-प्रस्तुतिः - 114
पञ्चगव्यं समुद्धृत्य घटस्थं कवचं लपन्।
तेनैव पूरयेत् कुम्भं श्वब्रस्थं मूलमुच्चरन् ॥ 114 ॥
मूलम् - 114
पञ्चगव्यं समुद्धृत्य घटस्थं कवचं लपन्।
तेनैव पूरयेत् कुम्भं श्वब्रस्थं मूलमुच्चरन् ॥ 114 ॥
विश्वास-प्रस्तुतिः - 115
समभ्यर्च्यार्घ्यपुष्पाद्यैः पूरयेन्मृद्भिराहृतैः।
नृसुक्तं भद्रसूक्तं च स्वस्तिसूक्तं च पाठयेत् ॥ 115 ॥
मूलम् - 115
समभ्यर्च्यार्घ्यपुष्पाद्यैः पूरयेन्मृद्भिराहृतैः।
नृसुक्तं भद्रसूक्तं च स्वस्तिसूक्तं च पाठयेत् ॥ 115 ॥
विश्वास-प्रस्तुतिः - 116
शान्तिहोमं ततः कुर्याद्द्रव्यैः पूर्वोदितैः क्रमात्।
शतं शतार्धं पादं वा यथाशक्ति समाचरेत् ॥ 116 ॥
मूलम् - 116
शान्तिहोमं ततः कुर्याद्द्रव्यैः पूर्वोदितैः क्रमात्।
शतं शतार्धं पादं वा यथाशक्ति समाचरेत् ॥ 116 ॥
विश्वास-प्रस्तुतिः - 117
दक्षिणा गुरवे देया प्रतिष्ठाफलमिच्छता।
इति ते पञ्चगव्यस्य स्थापनं परिकीर्तितम् ॥ 117 ॥
मूलम् - 117
दक्षिणा गुरवे देया प्रतिष्ठाफलमिच्छता।
इति ते पञ्चगव्यस्य स्थापनं परिकीर्तितम् ॥ 117 ॥
विश्वास-प्रस्तुतिः - 118
सर्वोत्पातप्रशमनं महापातकनाशनम्।
सर्वसौख्यप्रदं पुण्यं सर्वोपद्रववारणम् ॥ 118 ॥
मूलम् - 118
सर्वोत्पातप्रशमनं महापातकनाशनम्।
सर्वसौख्यप्रदं पुण्यं सर्वोपद्रववारणम् ॥ 118 ॥
विश्वास-प्रस्तुतिः - 119
सर्वोरोग्यप्रदं नित्यं पुत्रपौत्रविवर्धनम्।
यद्यत् कामयते मन्त्री तत्तदाप्नोत्यसंशयम् ॥ 119 ॥
मूलम् - 119