॥ श्रीः ॥
एकोविंशाऽयोयः
शाण्डिल्यः —
विश्वास-प्रस्तुतिः - 1
मुने! हिरण्यगर्भादौ विशेषो वक्ष्यतेऽधुना।
हेमगर्भविधानं तु प्रथमं कथ्यते मया ॥ 1 ॥
मूलम् - 1
मुने! हिरण्यगर्भादौ विशेषो वक्ष्यतेऽधुना।
हेमगर्भविधानं तु प्रथमं कथ्यते मया ॥ 1 ॥
विश्वास-प्रस्तुतिः - 2
यद्यदत्रोच्यते कर्म तुलाभारेऽपि नोदितम्।
साधारणं भवेत्तत्तत् सर्वेषामपि क्रमणाम् ॥ 2 ॥
मूलम् - 2
यद्यदत्रोच्यते कर्म तुलाभारेऽपि नोदितम्।
साधारणं भवेत्तत्तत् सर्वेषामपि क्रमणाम् ॥ 2 ॥
विश्वास-प्रस्तुतिः - 3
तुलाभारादिकानां तु विभवाद्यानुगुण्यतः।
प्राग्वन्मण्टपनिर्माणं पीठादिपरिकल्पनम् ॥ 3 ॥
मूलम् - 3
तुलाभारादिकानां तु विभवाद्यानुगुण्यतः।
प्राग्वन्मण्टपनिर्माणं पीठादिपरिकल्पनम् ॥ 3 ॥
विश्वास-प्रस्तुतिः - 4
प्रतिष्ठोदितमार्गेण कुर्याद्वा मण्टपादिकम्।
यद्वाष्टसप्तषट्पञ्चचतुस्त्रिकरविस्तृतम् ॥ 4 ॥
मूलम् - 4
प्रतिष्ठोदितमार्गेण कुर्याद्वा मण्टपादिकम्।
यद्वाष्टसप्तषट्पञ्चचतुस्त्रिकरविस्तृतम् ॥ 4 ॥
विश्वास-प्रस्तुतिः - 5
त्रिंशदङगुलमानं तु गोलकैकैकहानितः।
उन्नतं मध्यपीठं स्यात् तत्तत्क्षेत्रानुसारतः ॥ 5 ॥
मूलम् - 5
त्रिंशदङगुलमानं तु गोलकैकैकहानितः।
उन्नतं मध्यपीठं स्यात् तत्तत्क्षेत्रानुसारतः ॥ 5 ॥
विश्वास-प्रस्तुतिः - 6
चतुर्हस्तं समारभ्य षट्षट्गोलकहानितः।
विस्तृतं पार्श्वयोः पीठद्वितयं परिकल्पयेत् ॥ 6 ॥
मूलम् - 6
चतुर्हस्तं समारभ्य षट्षट्गोलकहानितः।
विस्तृतं पार्श्वयोः पीठद्वितयं परिकल्पयेत् ॥ 6 ॥
विश्वास-प्रस्तुतिः - 7
विंशत्यंगुलमानाच्च द्विद्विकांगुलहानितः।
तदुन्नतिर्यथा साऽन्त्ये सार्धहस्ते दशांगुला ॥ 7 ॥
मूलम् - 7
विंशत्यंगुलमानाच्च द्विद्विकांगुलहानितः।
तदुन्नतिर्यथा साऽन्त्ये सार्धहस्ते दशांगुला ॥ 7 ॥
विश्वास-प्रस्तुतिः - 8
द्वयोक्तमानादर्धं वा भवेत् सर्वत्र चोन्नतिः।
पीठानामन्तरालं तु कल्पयेत् करसंमितम् ॥ 8 ॥
मूलम् - 8
द्वयोक्तमानादर्धं वा भवेत् सर्वत्र चोन्नतिः।
पीठानामन्तरालं तु कल्पयेत् करसंमितम् ॥ 8 ॥
विश्वास-प्रस्तुतिः - 9
करार्धं वर्धयेद्वापि भवेद्यावच्चतुष्करम्।
अन्तरालं भवेत्तावद्यथा वा नातिसङ्कटम् ॥ 9 ॥
मूलम् - 9
करार्धं वर्धयेद्वापि भवेद्यावच्चतुष्करम्।
अन्तरालं भवेत्तावद्यथा वा नातिसङ्कटम् ॥ 9 ॥
विश्वास-प्रस्तुतिः - 10
यथोदितेषु मानेषु यथाभिमतमानतः।
कुर्यात् कुण्डगणं चापि लक्षणेनोपलक्षितम् ॥ 10 ॥
मूलम् - 10
यथोदितेषु मानेषु यथाभिमतमानतः।
कुर्यात् कुण्डगणं चापि लक्षणेनोपलक्षितम् ॥ 10 ॥
विश्वास-प्रस्तुतिः - 11
आस्थानमण्टपाद्ये तु यथैतत् कल्पयेत्तदा।
मध्यपीठोदितं कर्म तत्रदे(द्दे)वासने भवेत् ॥ 11 ॥
मूलम् - 11
आस्थानमण्टपाद्ये तु यथैतत् कल्पयेत्तदा।
मध्यपीठोदितं कर्म तत्रदे(द्दे)वासने भवेत् ॥ 11 ॥
विश्वास-प्रस्तुतिः - 12
तदुदक् दक्षयोः पीठद्वयमुक्तप्रमाणतः।
प्राक्दिक्कुण्डस्य वै प्राच्यां पीठं कुर्यात् स्मं शुभम् ॥ 12 ॥
मूलम् - 12
तदुदक् दक्षयोः पीठद्वयमुक्तप्रमाणतः।
प्राक्दिक्कुण्डस्य वै प्राच्यां पीठं कुर्यात् स्मं शुभम् ॥ 12 ॥
विश्वास-प्रस्तुतिः - 13
सप्तषट्पञ्चहस्तं वा चतुस्त्रिद्विकरं तु वा।
एकहस्तोच्छ्रितं वाऽपि तदर्धोच्छ्रितमेव वा ॥ 13 ॥
मूलम् - 13
सप्तषट्पञ्चहस्तं वा चतुस्त्रिद्विकरं तु वा।
एकहस्तोच्छ्रितं वाऽपि तदर्धोच्छ्रितमेव वा ॥ 13 ॥
विश्वास-प्रस्तुतिः - 14
तस्योपरिष्टात् कर्तव्यं हेमगर्भनिवेशनम्।
तुलाभारोदितं कर्म पीठोपर्यथवा चरेत् ॥ 14 ॥
मूलम् - 14
तस्योपरिष्टात् कर्तव्यं हेमगर्भनिवेशनम्।
तुलाभारोदितं कर्म पीठोपर्यथवा चरेत् ॥ 14 ॥
विश्वास-प्रस्तुतिः - 15
यद्वा कुंभादियजनं अधिवासनकर्म च।
मण्टपे कल्पयित्वा, तत्प्रपायां वा समाचरेत् ॥ 15 ॥
मूलम् - 15
यद्वा कुंभादियजनं अधिवासनकर्म च।
मण्टपे कल्पयित्वा, तत्प्रपायां वा समाचरेत् ॥ 15 ॥
विश्वास-प्रस्तुतिः - 16
हेमगर्भनिवेशं तु प्रपायां वा समाचरेत्।
कुंभयागादिकं रूपं कर्तुरिच्छानुरूपतः ॥ 16 ॥
मूलम् - 16
हेमगर्भनिवेशं तु प्रपायां वा समाचरेत्।
कुंभयागादिकं रूपं कर्तुरिच्छानुरूपतः ॥ 16 ॥
विश्वास-प्रस्तुतिः - 17
तुलाभारादिकेऽन्यस्मिन् दिनेप्येवं समाचरेत्।
ततः कुर्याच्च सौवर्णमेकांगुलघनं दृढम् ॥ 17 ॥
मूलम् - 17
तुलाभारादिकेऽन्यस्मिन् दिनेप्येवं समाचरेत्।
ततः कुर्याच्च सौवर्णमेकांगुलघनं दृढम् ॥ 17 ॥
विश्वास-प्रस्तुतिः - 18
अधः पात्रं चोर्ध्वपात्रं यथासङ्गतयोस्तयोः।
सुखासनं स्यान्नृपतेर्विस्तृतं कल्पयेत्तथा ॥ 18 ॥
मूलम् - 18
अधः पात्रं चोर्ध्वपात्रं यथासङ्गतयोस्तयोः।
सुखासनं स्यान्नृपतेर्विस्तृतं कल्पयेत्तथा ॥ 18 ॥
विश्वास-प्रस्तुतिः - 19
अधः पात्रं सुवर्णआनां सहस्रेण पलेन वा।
यद्वा निष्कसहस्रेण, तदर्धेनोर्ध्वपात्रकम् ॥ 19 ॥
मूलम् - 19
अधः पात्रं सुवर्णआनां सहस्रेण पलेन वा।
यद्वा निष्कसहस्रेण, तदर्धेनोर्ध्वपात्रकम् ॥ 19 ॥
विश्वास-प्रस्तुतिः - 20
एवं पात्रद्वयं कुर्यात् सर्वालङ्कारसंयुतम्।
विभवे सर्वपात्राणि कुर्याद्धेममयानि च ॥ 20 ॥
मूलम् - 20
एवं पात्रद्वयं कुर्यात् सर्वालङ्कारसंयुतम्।
विभवे सर्वपात्राणि कुर्याद्धेममयानि च ॥ 20 ॥
विश्वास-प्रस्तुतिः - 21
अधिवासदिनोक्तं तु तुलाभारवदाचरेत्।
पात्रद्वयस्योदक् पीठे ह्यधिवासं समाचरेत् ॥ 21 ॥
मूलम् - 21
अधिवासदिनोक्तं तु तुलाभारवदाचरेत्।
पात्रद्वयस्योदक् पीठे ह्यधिवासं समाचरेत् ॥ 21 ॥
विश्वास-प्रस्तुतिः - 22
ततः कर्मदिनोक्तं तु प्राग्वत् कृत्वा क्रमेण तु।
इन्द्रदिक्कल्पिते पीठे भारैर्द्वादशभिर्मुने! ॥ 22 ॥
मूलम् - 22
ततः कर्मदिनोक्तं तु प्राग्वत् कृत्वा क्रमेण तु।
इन्द्रदिक्कल्पिते पीठे भारैर्द्वादशभिर्मुने! ॥ 22 ॥
विश्वास-प्रस्तुतिः - 23
शालीनां विष्टरं कृत्वा तबूर्ध्वे तण्डुलान् न्यसेत्।
तदर्धमानांस्तस्योर्ध्वे तदर्धांस्तु तिलान् न्यसेत् ॥ 23 ॥
मूलम् - 23

विश्वास-प्रस्तुतिः - 24
शालिभिः समभारान् वा तण्डुलांश्च तिलान् न्यसेत्।
अधिवासेप्येवमेव भवेद्वित्तानुसारतः ॥ 24 ॥
मूलम् - 24
शालिभिः समभारान् वा तण्डुलांश्च तिलान् न्यसेत्।
अधिवासेप्येवमेव भवेद्वित्तानुसारतः ॥ 24 ॥
विश्वास-प्रस्तुतिः - 25
एवमेव भवेद्वापि तुलाभारादिकर्मणि।
मार्गं वा व्याघ्रजं चर्म शाल्यादेरन्तरान्तरा ॥ 25 ॥
मूलम् - 25
एवमेव भवेद्वापि तुलाभारादिकर्मणि।
मार्गं वा व्याघ्रजं चर्म शाल्यादेरन्तरान्तरा ॥ 25 ॥
विश्वास-प्रस्तुतिः - 26
विन्यसेन्नववस्त्रं वा विभवे त्रितयं तु वा।
अन्यच्च मङ्गलं कुर्याद्वस्त्रवेष्टनपूर्वकम् ॥ 26 ॥
मूलम् - 26
विन्यसेन्नववस्त्रं वा विभवे त्रितयं तु वा।
अन्यच्च मङ्गलं कुर्याद्वस्त्रवेष्टनपूर्वकम् ॥ 26 ॥
विश्वास-प्रस्तुतिः - 27
अधः पात्रं तदूर्ध्वे तु न्यसेत् प्रागधिवासितम्।
मुहूर्ते शोभने प्राप्ते गृहीत्वा भूपतिं गुरुः ॥ 27 ॥
मूलम् - 27
अधः पात्रं तदूर्ध्वे तु न्यसेत् प्रागधिवासितम्।
मुहूर्ते शोभने प्राप्ते गृहीत्वा भूपतिं गुरुः ॥ 27 ॥
विश्वास-प्रस्तुतिः - 28
सुस्नातं भूषितं प्राग्वद्वस्त्रमाल्यादिभूषणैः।
महार्घैर्विविधैश्चापि खड्गखेटकवर्जितम् ॥ 28 ॥
मूलम् - 28
सुस्नातं भूषितं प्राग्वद्वस्त्रमाल्यादिभूषणैः।
महार्घैर्विविधैश्चापि खड्गखेटकवर्जितम् ॥ 28 ॥
विश्वास-प्रस्तुतिः - 29
प्राग्वत्तत्वोपसंहारं कृत्वा जीवावशेषितम्।
सङ्खतूर्यनिनादाद्यैः सहचात्र निवेशयेत् ॥ 29 ॥
मूलम् - 29
प्राग्वत्तत्वोपसंहारं कृत्वा जीवावशेषितम्।
सङ्खतूर्यनिनादाद्यैः सहचात्र निवेशयेत् ॥ 29 ॥
विश्वास-प्रस्तुतिः - 30
अधस्थे प्राङ्मुखं यद्वा विन्यसेत् प्रत्यगाननम्।
वर्मणा विन्यसेदूर्ध्वे ह्यूर्ध्वपात्रमधोमुखम् ॥ 30 ॥
मूलम् - 30
अधस्थे प्राङ्मुखं यद्वा विन्यसेत् प्रत्यगाननम्।
वर्मणा विन्यसेदूर्ध्वे ह्यूर्ध्वपात्रमधोमुखम् ॥ 30 ॥
विश्वास-प्रस्तुतिः - 31
तदण्डान्तः समासीने तस्मिंस्तस्याग्रतो गुरुः।
उपविश्यासने प्राग्वत् तत्वोत्पत्तिं समाचरेत् ॥ 31 ॥
मूलम् - 31
तदण्डान्तः समासीने तस्मिंस्तस्याग्रतो गुरुः।
उपविश्यासने प्राग्वत् तत्वोत्पत्तिं समाचरेत् ॥ 31 ॥
विश्वास-प्रस्तुतिः - 32
अण्डाज्जातं तु तं स्मृत्वा ततस्तस्मात्तु भूपतिम्।
स्नानपीठे समावेश्य मङ्गलद्रव्यवासितैः ॥ 32 ॥
मूलम् - 32
अण्डाज्जातं तु तं स्मृत्वा ततस्तस्मात्तु भूपतिम्।
स्नानपीठे समावेश्य मङ्गलद्रव्यवासितैः ॥ 32 ॥
विश्वास-प्रस्तुतिः - 33
नवभिः पञ्चभिर्वापि कुंभैरुदकपूरितैः।
वस्त्रादिवेष्टितैः कुर्यादभूपतेरभिषेचनम् ॥ 33 ॥
मूलम् - 33
नवभिः पञ्चभिर्वापि कुंभैरुदकपूरितैः।
वस्त्रादिवेष्टितैः कुर्यादभूपतेरभिषेचनम् ॥ 33 ॥
विश्वास-प्रस्तुतिः - 34
कल्पयेत् प्रोक्षणं वाऽपि ऋत्विग्भिः सह देशिकः।
कृत्वा ततस्तं खाचान्तं भूषणादिविभूषितम् ॥ 34 ॥
मूलम् - 34
कल्पयेत् प्रोक्षणं वाऽपि ऋत्विग्भिः सह देशिकः।
कृत्वा ततस्तं खाचान्तं भूषणादिविभूषितम् ॥ 34 ॥
विश्वास-प्रस्तुतिः - 35
प्रणामं कारयेद्भूयो भूयो भगवतो विभोः।
जातकर्मादिसंस्कारं जातार्थं जुहुयात् क्रमात् ॥ 35 ॥
मूलम् - 35
प्रणामं कारयेद्भूयो भूयो भगवतो विभोः।
जातकर्मादिसंस्कारं जातार्थं जुहुयात् क्रमात् ॥ 35 ॥
विश्वास-प्रस्तुतिः - 36
तिलैराज्यैश्च बहुभिः सर्वसंपूरणाय च।
सर्वदोषविनाशाय ततः पूर्णां च पातयेत् ॥ 36 ॥
मूलम् - 36
तिलैराज्यैश्च बहुभिः सर्वसंपूरणाय च।
सर्वदोषविनाशाय ततः पूर्णां च पातयेत् ॥ 36 ॥
विश्वास-प्रस्तुतिः - 37
भूषणानि च ते पात्रे नृपो दद्याद्धरेर्विभोः।
दानात् फलं च पूर्वोक्तं विभोरायतने सदा ॥ 37 ॥
मूलम् - 37
भूषणानि च ते पात्रे नृपो दद्याद्धरेर्विभोः।
दानात् फलं च पूर्वोक्तं विभोरायतने सदा ॥ 37 ॥
विश्वास-प्रस्तुतिः - 38
स्वयंव्यक्तादिके कुर्यात्तुलाभारादि कर्म च।
तदाऽपि भूपस्य फलं भवेद्दानोदितं क्रमात् ॥ 38 ॥
मूलम् - 38
स्वयंव्यक्तादिके कुर्यात्तुलाभारादि कर्म च।
तदाऽपि भूपस्य फलं भवेद्दानोदितं क्रमात् ॥ 38 ॥
विश्वास-प्रस्तुतिः - 39
अनुकल्पे तदर्धं तु दद्याद्भगवतो विभोः।
अर्धं दद्याद्बाह्नणेम्यो तुलाभारे तथैव च ॥ 39 ॥
मूलम् - 39
अनुकल्पे तदर्धं तु दद्याद्भगवतो विभोः।
अर्धं दद्याद्बाह्नणेम्यो तुलाभारे तथैव च ॥ 39 ॥
विश्वास-प्रस्तुतिः - 40
तुलाभाराह्वयं कर्म हेमगर्भाभिधं च यत्।
एतद्द्वयं तु मुख्यं स्यात् सर्वेषामपि कर्मणाम् ॥ 40 ॥
मूलम् - 40
तुलाभाराह्वयं कर्म हेमगर्भाभिधं च यत्।
एतद्द्वयं तु मुख्यं स्यात् सर्वेषामपि कर्मणाम् ॥ 40 ॥
विश्वास-प्रस्तुतिः - 41
क्रमेण वक्ष्यमाणानां तिलपर्वतपूर्वकम्।
अन्यत्तु सकलं कर्म तुलाभारवदाचरेत् ॥ 41 ॥
मूलम् - 41
क्रमेण वक्ष्यमाणानां तिलपर्वतपूर्वकम्।
अन्यत्तु सकलं कर्म तुलाभारवदाचरेत् ॥ 41 ॥
विश्वास-प्रस्तुतिः - 42
हेमनिष्कसहस्रं वै दद्याद्वै गुरुदक्षिणाम्।
तदर्धं शतनिष्कं वा तदर्धं वा यथावसु ॥ 42 ॥
मूलम् - 42
हेमनिष्कसहस्रं वै दद्याद्वै गुरुदक्षिणाम्।
तदर्धं शतनिष्कं वा तदर्धं वा यथावसु ॥ 42 ॥
विश्वास-प्रस्तुतिः - 43
दशनिष्कं तदर्धं वा तदर्धं वाऽथ दक्षिणाम्।
आचार्याय प्रदद्याद्वै न कदाचिददक्षिणम् ॥ 43 ॥
मूलम् - 43
दशनिष्कं तदर्धं वा तदर्धं वाऽथ दक्षिणाम्।
आचार्याय प्रदद्याद्वै न कदाचिददक्षिणम् ॥ 43 ॥
विश्वास-प्रस्तुतिः - 44
तुलाभारादिकं कर्म सर्वेषामपि ऋत्विजाम्।
दक्षिणा तु तदर्धा स्यात् तदर्धा परिचारिणाम् ॥ 44 ॥
मूलम् - 44
तुलाभारादिकं कर्म सर्वेषामपि ऋत्विजाम्।
दक्षिणा तु तदर्धा स्यात् तदर्धा परिचारिणाम् ॥ 44 ॥
विश्वास-प्रस्तुतिः - 45
अन्येषां तु यथाशक्ति, ततोऽन्यस्मिंस्तु वासरे।
कुंभमण्डलकुण्डस्थविभोः कुर्याद्विसर्जनम् ॥ 45 ॥
मूलम् - 45
अन्येषां तु यथाशक्ति, ततोऽन्यस्मिंस्तु वासरे।
कुंभमण्डलकुण्डस्थविभोः कुर्याद्विसर्जनम् ॥ 45 ॥
विश्वास-प्रस्तुतिः - 46
विशेषार्चनसंयुक्तं ततोऽन्यस्मिन्दिने तु वा।
एवं सर्वत्र वै कुर्याद्विसर्जनविधिं द्विज! ॥ 46 ॥
मूलम् - 46