॥ श्रीः ॥
विंशोऽध्यायः
सनकः —
विश्वास-प्रस्तुतिः - 1
तुलापुरुषदानादि मम संसूचितं पुरा।
भूभुजां तद्विधानं मे विस्तरेण मुने! वद ॥ 1 ॥
मूलम् - 1
तुलापुरुषदानादि मम संसूचितं पुरा।
भूभुजां तद्विधानं मे विस्तरेण मुने! वद ॥ 1 ॥
विश्वास-प्रस्तुतिः - 2
श्रृणु सम्यक् प्रवष्यामि द्विज! सर्वाघनाशनम्।
तुलापुरुषदानाद्यं सर्वकामफलप्रदम् ॥ 2 ॥
मूलम् - 2
श्रृणु सम्यक् प्रवष्यामि द्विज! सर्वाघनाशनम्।
तुलापुरुषदानाद्यं सर्वकामफलप्रदम् ॥ 2 ॥
विश्वास-प्रस्तुतिः - 3
प्रजापालनशीलस्य सत्वनिष्ठस्य भूभुजः।
कदाचित् कर्मलोपेन देवकोपोऽभिजायते ॥ 3 ॥
मूलम् - 3
प्रजापालनशीलस्य सत्वनिष्ठस्य भूभुजः।
कदाचित् कर्मलोपेन देवकोपोऽभिजायते ॥ 3 ॥
विश्वास-प्रस्तुतिः - 4
तथैव राष्ट्रसंक्षोभः प्रजापीडा च वर्धते।
तथा वर्णाश्रमाचारैर्देशः स्यात् कलुषीकृतः ॥ 4 ॥
मूलम् - 4
तथैव राष्ट्रसंक्षोभः प्रजापीडा च वर्धते।
तथा वर्णाश्रमाचारैर्देशः स्यात् कलुषीकृतः ॥ 4 ॥
विश्वास-प्रस्तुतिः - 5
वेदवैदिकधर्माश्च च्यवन्ते कालविप्लवैः।
बाध्यते प्रतिभूपालैरुपर्युपरि भूपतिः ॥ 5 ॥
मूलम् - 5
वेदवैदिकधर्माश्च च्यवन्ते कालविप्लवैः।
बाध्यते प्रतिभूपालैरुपर्युपरि भूपतिः ॥ 5 ॥
विश्वास-प्रस्तुतिः - 6
शून्यो जनपदो भूयात् प्रजा नस्यन्ति तत्क्षणात्।
स्वदोषजनितं कष्टमिति बुद्ध्या महीपतिः ॥ 6 ॥
मूलम् - 6
शून्यो जनपदो भूयात् प्रजा नस्यन्ति तत्क्षणात्।
स्वदोषजनितं कष्टमिति बुद्ध्या महीपतिः ॥ 6 ॥
विश्वास-प्रस्तुतिः - 7
सपुरोधाः सहामात्यः सप्रजापदमादरात्।
पञ्चरात्रविधानज्ञं सर्वभूतहिते रतम् ॥ 7 ॥
मूलम् - 7
सपुरोधाः सहामात्यः सप्रजापदमादरात्।
पञ्चरात्रविधानज्ञं सर्वभूतहिते रतम् ॥ 7 ॥
विश्वास-प्रस्तुतिः - 8
अलोलुपं चाप्यक्रोधं ऋजुं भागवतं द्विजम्।
कर्मद्वयविधानज्ञं देशिकेन्द्रं समाश्रयेत् ॥ 8 ॥
मूलम् - 8
अलोलुपं चाप्यक्रोधं ऋजुं भागवतं द्विजम्।
कर्मद्वयविधानज्ञं देशिकेन्द्रं समाश्रयेत् ॥ 8 ॥
विश्वास-प्रस्तुतिः - 9
पुरावृत्तं तु सकलं स्वापराधनिमित्तजम्।
सर्वं निवेद्य गुरवे यथावृत्तं महीपतिः ॥ 9 ॥
मूलम् - 9
पुरावृत्तं तु सकलं स्वापराधनिमित्तजम्।
सर्वं निवेद्य गुरवे यथावृत्तं महीपतिः ॥ 9 ॥
विश्वास-प्रस्तुतिः - 10
रक्ष रक्षेति चरणौ प्रणम्य समुदीरयन्।
सोऽपि तद्वचनं श्रुत्वा सर्वानुग्रहकारकः ॥ 10 ॥
मूलम् - 10
रक्ष रक्षेति चरणौ प्रणम्य समुदीरयन्।
सोऽपि तद्वचनं श्रुत्वा सर्वानुग्रहकारकः ॥ 10 ॥
विश्वास-प्रस्तुतिः - 11
वित्तमाहृत्य नृपतेर्न्यायधर्मसमाहृतम्।
प्रवर्ततेऽथ तत् कर्म ऋत्विग्भिः पञ्चरात्रिकैः ॥ 11 ॥
मूलम् - 11
वित्तमाहृत्य नृपतेर्न्यायधर्मसमाहृतम्।
प्रवर्ततेऽथ तत् कर्म ऋत्विग्भिः पञ्चरात्रिकैः ॥ 11 ॥
विश्वास-प्रस्तुतिः - 12
त्रैविद्यैरपि तत्कर्मकुशलैर्भगवत्परैः।
चैत्रादिषु च मासेषु विषुवे चायनद्वये ॥ 12 ॥
मूलम् - 12
त्रैविद्यैरपि तत्कर्मकुशलैर्भगवत्परैः।
चैत्रादिषु च मासेषु विषुवे चायनद्वये ॥ 12 ॥
विश्वास-प्रस्तुतिः - 13
व्यतीपाते च जन्मर्क्षे चन्द्रसूर्योपरागयोः।
श्रवणे वासवेऽश्विन्यां कृत्तिकास्वथवा मुने! ॥ 13 ॥
मूलम् - 13
व्यतीपाते च जन्मर्क्षे चन्द्रसूर्योपरागयोः।
श्रवणे वासवेऽश्विन्यां कृत्तिकास्वथवा मुने! ॥ 13 ॥
विश्वास-प्रस्तुतिः - 14
रोहिण्यां सौम्यनक्षत्रे पुनर्वस्वोर्विशेषतः।
पुष्ये वा हस्तनक्षत्रे उत्तरासु तथैव च ॥ 14 ॥
मूलम् - 14
रोहिण्यां सौम्यनक्षत्रे पुनर्वस्वोर्विशेषतः।
पुष्ये वा हस्तनक्षत्रे उत्तरासु तथैव च ॥ 14 ॥
विश्वास-प्रस्तुतिः - 15
चित्रायां च तथा स्वातौ मैत्रे मूले तथैव च।
दुःस्वप्ने गृहपीडायां महोत्पातेषु सत्स्वपि ॥ 15 ॥
मूलम् - 15
चित्रायां च तथा स्वातौ मैत्रे मूले तथैव च।
दुःस्वप्ने गृहपीडायां महोत्पातेषु सत्स्वपि ॥ 15 ॥
विश्वास-प्रस्तुतिः - 16
व्याधिते च तथाराष्ट्रे कुर्यात् कर्तुश्च सम्मते।
एतन्निमित्तमुद्दिश्य कर्तव्यं चेत्तदैव तु ॥ 16 ॥
मूलम् - 16
व्याधिते च तथाराष्ट्रे कुर्यात् कर्तुश्च सम्मते।
एतन्निमित्तमुद्दिश्य कर्तव्यं चेत्तदैव तु ॥ 16 ॥
विश्वास-प्रस्तुतिः - 17
प्रारभेत्तद्यथा दोषविप्लवो नाभिजायते।
स्वयंव्यक्तादिके स्थाने विष्णोः सर्वगुणान्विते ॥ 17 ॥
मूलम् - 17
प्रारभेत्तद्यथा दोषविप्लवो नाभिजायते।
स्वयंव्यक्तादिके स्थाने विष्णोः सर्वगुणान्विते ॥ 17 ॥
विश्वास-प्रस्तुतिः - 18
यथाभिमतदिग्वक्त्रे पुरस्ताद्भगवद्गृहे।
त्रिवर्गं मण्टपं कुर्याच्चतुरश्रं समन्ततः ॥ 18 ॥
मूलम् - 18
यथाभिमतदिग्वक्त्रे पुरस्ताद्भगवद्गृहे।
त्रिवर्गं मण्टपं कुर्याच्चतुरश्रं समन्ततः ॥ 18 ॥
विश्वास-प्रस्तुतिः - 19
सप्तविंशत्करं क्षेत्रं सप्तधा संविभज्य च।
हस्तोच्छ्रायां महावेदिं सर्वालङ्कारमण्डिताम् ॥ 19 ॥
मूलम् - 19
सप्तविंशत्करं क्षेत्रं सप्तधा संविभज्य च।
हस्तोच्छ्रायां महावेदिं सर्वालङ्कारमण्डिताम् ॥ 19 ॥
विश्वास-प्रस्तुतिः - 20
दिक्षु चारोहणैर्युक्तां त्रिभिर्मध्य प्रकल्पयेत्।
तदूर्ध्वे मध्यतो दिक्षु पार्थिवं पीठपञ्चकम् ॥ 20 ॥
मूलम् - 20
दिक्षु चारोहणैर्युक्तां त्रिभिर्मध्य प्रकल्पयेत्।
तदूर्ध्वे मध्यतो दिक्षु पार्थिवं पीठपञ्चकम् ॥ 20 ॥
विश्वास-प्रस्तुतिः - 21
तालोन्नतं त्रिहस्तं च त्रिस्थानयजनाय च।
भूपतेरधिवासार्थं स्वर्णादेरपि वस्तुनः ॥ 21 ॥
मूलम् - 21
तालोन्नतं त्रिहस्तं च त्रिस्थानयजनाय च।
भूपतेरधिवासार्थं स्वर्णादेरपि वस्तुनः ॥ 21 ॥
विश्वास-प्रस्तुतिः - 22
तुलायाः खड्गमुख्यस्य भूषणानां च वाससाम्।
मण्डलं मध्येमे पीठे, प्राक्स्थं चक्राब्जसन्निभ् ॥ 22 ॥
मूलम् - 22
तुलायाः खड्गमुख्यस्य भूषणानां च वाससाम्।
मण्डलं मध्येमे पीठे, प्राक्स्थं चक्राब्जसन्निभ् ॥ 22 ॥
विश्वास-प्रस्तुतिः - 23
कुण्डं दक्षिणदिक्पीठं नृपजागरणास्पदम्।
प्रत्यक्स्थे कुंभयागं तु, सौम्यस्थै स्वर्णसञ्चयः ॥ 23 ॥
मूलम् - 23
कुण्डं दक्षिणदिक्पीठं नृपजागरणास्पदम्।
प्रत्यक्स्थे कुंभयागं तु, सौम्यस्थै स्वर्णसञ्चयः ॥ 23 ॥
विश्वास-प्रस्तुतिः - 24
तुलादीनां च संस्कारः कार्यस्तेषां च बाह्यतः।
हस्तमात्रं परित्यज्य दिक्कुण्डानि प्रकल्पयेत् ॥ 24 ॥
मूलम् - 24
तुलादीनां च संस्कारः कार्यस्तेषां च बाह्यतः।
हस्तमात्रं परित्यज्य दिक्कुण्डानि प्रकल्पयेत् ॥ 24 ॥
विश्वास-प्रस्तुतिः - 25
चतुरश्रं च चक्राभं शङ्खाभं चाम्बुजाकृति।
विदिक्षु वह्न्यादीशान्तं श्रृगु कुण्डगणं क्रमात् ॥ 25 ॥
मूलम् - 25
चतुरश्रं च चक्राभं शङ्खाभं चाम्बुजाकृति।
विदिक्षु वह्न्यादीशान्तं श्रृगु कुण्डगणं क्रमात् ॥ 25 ॥
विश्वास-प्रस्तुतिः - 26
योन्याकारं त्रिकोणं च वस्वश्रार्द्धेन्दुलक्षणे।
पीठोर्ध्वे कल्पनीयानि चक्राद्यैरङ्कितानि च ॥ 26 ॥
मूलम् - 26
योन्याकारं त्रिकोणं च वस्वश्रार्द्धेन्दुलक्षणे।
पीठोर्ध्वे कल्पनीयानि चक्राद्यैरङ्कितानि च ॥ 26 ॥
विश्वास-प्रस्तुतिः - 27
परितोऽपि त्रियंशेन चतुर्द्वारसमन्वितम्।
कोणेषु च सुभित्याढ्यं मुखभद्रविराजितम् ॥ 27 ॥
मूलम् - 27
परितोऽपि त्रियंशेन चतुर्द्वारसमन्वितम्।
कोणेषु च सुभित्याढ्यं मुखभद्रविराजितम् ॥ 27 ॥
विश्वास-प्रस्तुतिः - 28
विविधारोहणैर्युक्तं सर्वालङ्कारमण्डितम्।
पुरोभागे प्रपा कार्या मानाद्यागालयोपमा ॥ 28 ॥
मूलम् - 28
विविधारोहणैर्युक्तं सर्वालङ्कारमण्डितम्।
पुरोभागे प्रपा कार्या मानाद्यागालयोपमा ॥ 28 ॥
विश्वास-प्रस्तुतिः - 29
मध्यतो रङ्गसंयुक्ता पश्चिमाशां विसृज्य च।
प्राक् दक्षिणोत्तराशासु द्विभक्त्या प्रावृता दृढा ॥ 29 ॥
मूलम् - 29
मध्यतो रङ्गसंयुक्ता पश्चिमाशां विसृज्य च।
प्राक् दक्षिणोत्तराशासु द्विभक्त्या प्रावृता दृढा ॥ 29 ॥
विश्वास-प्रस्तुतिः - 30
महोत्सवे प्रतिष्ठायां पवित्रारोहणादिषु।
पुरा यथोक्तं बहुधा तेष्वेकस्मिन् प्रकल्पिते ॥ 30 ॥
मूलम् - 30
महोत्सवे प्रतिष्ठायां पवित्रारोहणादिषु।
पुरा यथोक्तं बहुधा तेष्वेकस्मिन् प्रकल्पिते ॥ 30 ॥
विश्वास-प्रस्तुतिः - 31
मण्टपे वा प्रकुर्वीत तुलारोहादिकं द्वयम्।
पुरस्तादेवमापाद्य मण्टपं पूर्वतोमुखम् ॥ 31 ॥
मूलम् - 31
मण्टपे वा प्रकुर्वीत तुलारोहादिकं द्वयम्।
पुरस्तादेवमापाद्य मण्टपं पूर्वतोमुखम् ॥ 31 ॥
विश्वास-प्रस्तुतिः - 32
पश्चादारोहणतुला विधेया विधिचोदिता।
एकाङ्गुलघने तुल्ये खुवृत्ते हस्तनिर्मिते ॥ 32 ॥
मूलम् - 32
पश्चादारोहणतुला विधेया विधिचोदिता।
एकाङ्गुलघने तुल्ये खुवृत्ते हस्तनिर्मिते ॥ 32 ॥
विश्वास-प्रस्तुतिः - 33
धटे हेमादिना कार्ये प्रोद्यदर्कसमप्रभे।
परिधावङ्गुलं त्यक्त्वा वलयैर्दिक्षु कीलिते ॥ 33 ॥
मूलम् - 33
धटे हेमादिना कार्ये प्रोद्यदर्कसमप्रभे।
परिधावङ्गुलं त्यक्त्वा वलयैर्दिक्षु कीलिते ॥ 33 ॥
विश्वास-प्रस्तुतिः - 34
तुलादण्डसमायामे श्रृङ्खलापाशयोजिते।
कालायसमयं दण्डं कार्यं हस्तत्रयायतम् ॥ 34 ॥
मूलम् - 34
तुलादण्डसमायामे श्रृङ्खलापाशयोजिते।
कालायसमयं दण्डं कार्यं हस्तत्रयायतम् ॥ 34 ॥
विश्वास-प्रस्तुतिः - 35
त्रितालनाहं मध्ये तु द्वितालं पार्श्वयोर्द्वयोः।
तालमात्रं परित्यज्य कालायसमयं चलम् ॥ 35 ॥
मूलम् - 35
त्रितालनाहं मध्ये तु द्वितालं पार्श्वयोर्द्वयोः।
तालमात्रं परित्यज्य कालायसमयं चलम् ॥ 35 ॥
विश्वास-प्रस्तुतिः - 36
बालचन्द्रसमाकारवक्त्रादंष्ट्राद्वयं द्वयोः।
श्रृङ्खलापाशयोगार्थं कृत्वा, मध्ये तदूर्ध्वतः ॥ 36 ॥
मूलम् - 36
बालचन्द्रसमाकारवक्त्रादंष्ट्राद्वयं द्वयोः।
श्रृङ्खलापाशयोगार्थं कृत्वा, मध्ये तदूर्ध्वतः ॥ 36 ॥
विश्वास-प्रस्तुतिः - 37
तीक्ष्णाग्रां स्थापयेज्जिह्वामचलां षोडशाङ्गुलमाम्।
शंसन्तीं साम्पवैषम्ये, तदूर्ध्वे तोरणं चलम् ॥ 37 ॥
मूलम् - 37

विश्वास-प्रस्तुतिः - 38
अष्टादशाङ्गुलायामं विश्रान्तं पार्स्वयोर्द्वयोः।
बलाकावदनं, वक्त्रं योजयेत्तोरणोपरि ॥ 38 ॥
मूलम् - 38
अष्टादशाङ्गुलायामं विश्रान्तं पार्स्वयोर्द्वयोः।
बलाकावदनं, वक्त्रं योजयेत्तोरणोपरि ॥ 38 ॥
विश्वास-प्रस्तुतिः - 39
तुलामेवं समापाद्य लक्षणेनोपलक्षिताम्।
प्रसिद्धयज्ञदारूत्थौ सारवन्तौ ऋजू दृढौ ॥ 39 ॥
मूलम् - 39
तुलामेवं समापाद्य लक्षणेनोपलक्षिताम्।
प्रसिद्धयज्ञदारूत्थौ सारवन्तौ ऋजू दृढौ ॥ 39 ॥
विश्वास-प्रस्तुतिः - 40
द्विहस्तपरिणाहौ च हस्तैः षड्भिः समुच्छ्रितौ।
मूलतश्चतुरश्राभौ मध्यतोष्टाश्र लक्षितौ ॥ 40 ॥
मूलम् - 40
द्विहस्तपरिणाहौ च हस्तैः षड्भिः समुच्छ्रितौ।
मूलतश्चतुरश्राभौ मध्यतोष्टाश्र लक्षितौ ॥ 40 ॥
विश्वास-प्रस्तुतिः - 41
ऊर्ध्वतो वर्तुलाकारौ शिल्पिश्रेष्ठेन निर्मितौ।
चतुरश्रस्य कुण्डस्य प्राच्यां द्वारस्य चान्तरे ॥ 41 ॥
मूलम् - 41
ऊर्ध्वतो वर्तुलाकारौ शिल्पिश्रेष्ठेन निर्मितौ।
चतुरश्रस्य कुण्डस्य प्राच्यां द्वारस्य चान्तरे ॥ 41 ॥
विश्वास-प्रस्तुतिः - 42
दक्षिणोत्तरयोः स्थाप्यौ द्विहस्तेनान्तरीकृतौ।
हस्तैः पञ्चभिरुच्छ्राये निखातौ हस्तमानतः ॥ 42 ॥
मूलम् - 42
दक्षिणोत्तरयोः स्थाप्यौ द्विहस्तेनान्तरीकृतौ।
हस्तैः पञ्चभिरुच्छ्राये निखातौ हस्तमानतः ॥ 42 ॥
विश्वास-प्रस्तुतिः - 43
समानजातिवृक्षोत्थं योजयेदुत्तरं तयोः।
स्तंभाग्रतुल्यविस्तारं तावन्मानोन्नतं दृढम् ॥ 43 ॥
मूलम् - 43
समानजातिवृक्षोत्थं योजयेदुत्तरं तयोः।
स्तंभाग्रतुल्यविस्तारं तावन्मानोन्नतं दृढम् ॥ 43 ॥
विश्वास-प्रस्तुतिः - 44
मङ्गलैरष्टबिर्जुष्टं पार्श्वयोश्च श्रियान्वितम्।
मध्यतस्तदधस्ताच्च कीलयेद्वलयं दृढम् ॥ 44 ॥
मूलम् - 44
मङ्गलैरष्टबिर्जुष्टं पार्श्वयोश्च श्रियान्वितम्।
मध्यतस्तदधस्ताच्च कीलयेद्वलयं दृढम् ॥ 44 ॥
विश्वास-प्रस्तुतिः - 45
तुलावलम्बनार्थं च ताम्रजं वाऽयसं तु वा।
कार्याथ ताडनीयष्टिरायामात् षोडशाङ्गुला ॥ 45 ॥
मूलम् - 45
तुलावलम्बनार्थं च ताम्रजं वाऽयसं तु वा।
कार्याथ ताडनीयष्टिरायामात् षोडशाङ्गुला ॥ 45 ॥
विश्वास-प्रस्तुतिः - 46
प्रकोष्ठपरिणाहा च लौही वा सारदारुजा।
यागोपकरणान्यत्र होमोपकरणान्यपि ॥ 46 ॥
मूलम् - 46
प्रकोष्ठपरिणाहा च लौही वा सारदारुजा।
यागोपकरणान्यत्र होमोपकरणान्यपि ॥ 46 ॥
विश्वास-प्रस्तुतिः - 47
स्रुक्स्रुवादीनि सर्वाणि कुंभाश्च करकादयः।
तथाष्टमङ्गलादीनि शक्त्या हेमादिजानि वा ॥ 47 ॥
मूलम् - 47
स्रुक्स्रुवादीनि सर्वाणि कुंभाश्च करकादयः।
तथाष्टमङ्गलादीनि शक्त्या हेमादिजानि वा ॥ 47 ॥
विश्वास-प्रस्तुतिः - 48
अङ्कुरानर्पयित्वाऽथ प्रागुक्तेऽन्यतमे दिने।
पालिकादिषु पात्रेषु मङ्गलार्थं प्रयोगवित् ॥ 48 ॥
मूलम् - 48
अङ्कुरानर्पयित्वाऽथ प्रागुक्तेऽन्यतमे दिने।
पालिकादिषु पात्रेषु मङ्गलार्थं प्रयोगवित् ॥ 48 ॥
विश्वास-प्रस्तुतिः - 49
संभाराणि च सर्वाणि सम्भर्तव्यानि सादरम्।
मण्टपालंक्रियार्थं च त्रिस्थानयजनाय च ॥ 49 ॥
मूलम् - 49
संभाराणि च सर्वाणि सम्भर्तव्यानि सादरम्।
मण्टपालंक्रियार्थं च त्रिस्थानयजनाय च ॥ 49 ॥
विश्वास-प्रस्तुतिः - 50
चन्दनादीनि गन्धानि पत्रपुष्पफलानि च।
सितादिवर्णयुक्तानि वासांसि विविधानि च ॥ 50 ॥
मूलम् - 50
चन्दनादीनि गन्धानि पत्रपुष्पफलानि च।
सितादिवर्णयुक्तानि वासांसि विविधानि च ॥ 50 ॥
विश्वास-प्रस्तुतिः - 51
सर्वकुण्डेषु होमार्थं समिधां सप्तकं बहु।
दिक्कुण्डेषु च होतव्याः सिद्धार्थीः काम्यकर्मणाम् ॥ 51 ॥
मूलम् - 51
सर्वकुण्डेषु होमार्थं समिधां सप्तकं बहु।
दिक्कुण्डेषु च होतव्याः सिद्धार्थीः काम्यकर्मणाम् ॥ 51 ॥
विश्वास-प्रस्तुतिः - 52
पलाशखदिराश्वत्थोदुम्बरप्रभवा अपि।
विदिक्षु पिप्पलप्लक्षवटकाश्मर्यजातयः ॥ 52 ॥
मूलम् - 52
पलाशखदिराश्वत्थोदुम्बरप्रभवा अपि।
विदिक्षु पिप्पलप्लक्षवटकाश्मर्यजातयः ॥ 52 ॥
विश्वास-प्रस्तुतिः - 53
समिधः सर्वकुण्डेषु पालाश्यस्तदलाभतः।
हेमराजतताम्रोत्थाः कलशा मृण्मयास्तु वा ॥ 53 ॥
मूलम् - 53
समिधः सर्वकुण्डेषु पालाश्यस्तदलाभतः।
हेमराजतताम्रोत्थाः कलशा मृण्मयास्तु वा ॥ 53 ॥
विश्वास-प्रस्तुतिः - 54
शालिपूर्वाणि धान्यानि बीजानि च विशेषतः।
दधिक्षीराज्यकुंभानि षड्विधानि रसान्यपि ॥ 54 ॥
मूलम् - 54
शालिपूर्वाणि धान्यानि बीजानि च विशेषतः।
दधिक्षीराज्यकुंभानि षड्विधानि रसान्यपि ॥ 54 ॥
विश्वास-प्रस्तुतिः - 55
तण्डुलानि विशुद्धानि पाकयोग्यान्यनुक्षणम्।
कर्मण्यान्युपदंशानि पाकपात्राण्यनेकशः ॥ 55 ॥
मूलम् - 55
तण्डुलानि विशुद्धानि पाकयोग्यान्यनुक्षणम्।
कर्मण्यान्युपदंशानि पाकपात्राण्यनेकशः ॥ 55 ॥
विश्वास-प्रस्तुतिः - 56
निवेशनार्थस्थालीकाः पात्राण्यर्घ्यादिकस्य च।
प्रदीपधूपपात्राणि सुगुणान्यद्भुतानि च ॥ 56 ॥
मूलम् - 56
निवेशनार्थस्थालीकाः पात्राण्यर्घ्यादिकस्य च।
प्रदीपधूपपात्राणि सुगुणान्यद्भुतानि च ॥ 56 ॥
विश्वास-प्रस्तुतिः - 57
पाद्यप्रतिग्रहादीनि यागोपकरणानि च।
गुग्गुल्वगरुपूर्वाणि धूपद्रव्याणि यान्यपि ॥ 57 ॥
मूलम् - 57
पाद्यप्रतिग्रहादीनि यागोपकरणानि च।
गुग्गुल्वगरुपूर्वाणि धूपद्रव्याणि यान्यपि ॥ 57 ॥
विश्वास-प्रस्तुतिः - 58
स्नानकुंभोपयोग्यानि यानि सर्वौषधानि च।
दानर्थं ब्राह्नाणादीनां धनधान्याम्बराणि च ॥ 58 ॥
मूलम् - 58
स्नानकुंभोपयोग्यानि यानि सर्वौषधानि च।
दानर्थं ब्राह्नाणादीनां धनधान्याम्बराणि च ॥ 58 ॥
विश्वास-प्रस्तुतिः - 59
भूषणानि महार्हाणि देशिकेन्द्रस्य ऋत्विजाम्।
हेमादि दक्षिणआर्थं च संभर्तव्या यथाबलम् ॥ 59 ॥
मूलम् - 59
भूषणानि महार्हाणि देशिकेन्द्रस्य ऋत्विजाम्।
हेमादि दक्षिणआर्थं च संभर्तव्या यथाबलम् ॥ 59 ॥
विश्वास-प्रस्तुतिः - 60
यागालयमलंकुर्यात् पवित्रारोहणे यथा।
वितानैर्ध्वजिकाभिश्च तुह्गैर्यवनिकापटैः ॥ 60 ॥
मूलम् - 60
यागालयमलंकुर्यात् पवित्रारोहणे यथा।
वितानैर्ध्वजिकाभिश्च तुह्गैर्यवनिकापटैः ॥ 60 ॥
विश्वास-प्रस्तुतिः - 61
क्षौमैर्नानाविधैर्वस्त्रैर्घण्टाचामरदर्पणैः।
व्यालम्बिदर्भमालाभिः कदलीपनसादिभिः ॥ 61 ॥
मूलम् - 61
क्षौमैर्नानाविधैर्वस्त्रैर्घण्टाचामरदर्पणैः।
व्यालम्बिदर्भमालाभिः कदलीपनसादिभिः ॥ 61 ॥
विश्वास-प्रस्तुतिः - 62
सुगन्धपुष्पमालाभिः सौवर्णैर्मञ्जरीगणैः।
सफलैः कदलीपूगनालिकेरादिभूरुहैः ॥ 62 ॥
मूलम् - 62
सुगन्धपुष्पमालाभिः सौवर्णैर्मञ्जरीगणैः।
सफलैः कदलीपूगनालिकेरादिभूरुहैः ॥ 62 ॥
विश्वास-प्रस्तुतिः - 63
प्रदीपैः प्रकरैः पुष्पैः सिताद्यैर्वर्णकैरपि।
तोरणैर्द्वारकुंभैश्च सवत्सैः सुरभीगणैः ॥ 63 ॥
मूलम् - 63
प्रदीपैः प्रकरैः पुष्पैः सिताद्यैर्वर्णकैरपि।
तोरणैर्द्वारकुंभैश्च सवत्सैः सुरभीगणैः ॥ 63 ॥
विश्वास-प्रस्तुतिः - 64
मण्डितैः खलु श्रृह्गादौ क्षौमस्रग्भूषणादिभिः।
एवमाद्यैरलंकृत्य यथाशोभं तु मण्टपम् ॥ 64 ॥
मूलम् - 64
मण्डितैः खलु श्रृह्गादौ क्षौमस्रग्भूषणादिभिः।
एवमाद्यैरलंकृत्य यथाशोभं तु मण्टपम् ॥ 64 ॥
विश्वास-प्रस्तुतिः - 65
तृतीये वासरे पूर्वे कर्माहाद्दिवसक्षये।
ऋत्विग्भिर्देशिकेन्द्रस्तु कृतसन्ध्याविधिक्रमः ॥ 65 ॥
मूलम् - 65
तृतीये वासरे पूर्वे कर्माहाद्दिवसक्षये।
ऋत्विग्भिर्देशिकेन्द्रस्तु कृतसन्ध्याविधिक्रमः ॥ 65 ॥
विश्वास-प्रस्तुतिः - 66
प्रविश्य मण्टपं प्राग्वत् पुण्याहोक्तिपुरस्सरम्।
अर्चनं वासुदेवस्य सहोमं प्राक् समाप्य च ॥ 66 ॥
मूलम् - 66
प्रविश्य मण्टपं प्राग्वत् पुण्याहोक्तिपुरस्सरम्।
अर्चनं वासुदेवस्य सहोमं प्राक् समाप्य च ॥ 66 ॥
विश्वास-प्रस्तुतिः - 67
यागालयं तु सर्वत्र गव्यैरभ्युक्ष्य पञ्चभिः।
द्रव्याणि यागयोग्यानि तत्तत्स्थाने नियोजयेत् ॥ 67 ॥
मूलम् - 67
यागालयं तु सर्वत्र गव्यैरभ्युक्ष्य पञ्चभिः।
द्रव्याणि यागयोग्यानि तत्तत्स्थाने नियोजयेत् ॥ 67 ॥
विश्वास-प्रस्तुतिः - 68
प्रभातायां तु शर्वरयां पूर्वाह्ने देहशुद्धये।
उप्तरोमनखश्मश्रुर्भूपतिर्नियतः शुचिः ॥ 68 ॥
मूलम् - 68
प्रभातायां तु शर्वरयां पूर्वाह्ने देहशुद्धये।
उप्तरोमनखश्मश्रुर्भूपतिर्नियतः शुचिः ॥ 68 ॥
विश्वास-प्रस्तुतिः - 69
धौतदन्तश्च सुस्नातः परिशुद्धाम्बरावृतः।
सितालेपनपुष्पाद्यैरञ्चितः संस्मरन् हरिम् ॥ 69 ॥
मूलम् - 69
धौतदन्तश्च सुस्नातः परिशुद्धाम्बरावृतः।
सितालेपनपुष्पाद्यैरञ्चितः संस्मरन् हरिम् ॥ 69 ॥
विश्वास-प्रस्तुतिः - 70
उपोषितो घृतं प्राश्य ब्राह्नणैर्वेदपारगैः।
पारायणमृचां श्रृण्वन्नासीत सपुरोहितः ॥ 70 ॥
मूलम् - 70
उपोषितो घृतं प्राश्य ब्राह्नणैर्वेदपारगैः।
पारायणमृचां श्रृण्वन्नासीत सपुरोहितः ॥ 70 ॥
विश्वास-प्रस्तुतिः - 71
निशामुखे प्रवृत्ते तु ऋत्विग्बिर्देशिकोत्तमः।
प्रविशेद्यागसदनं कृत्वा द्वार्स्थार्चनं सुधीः ॥ 71 ॥
मूलम् - 71
निशामुखे प्रवृत्ते तु ऋत्विग्बिर्देशिकोत्तमः।
प्रविशेद्यागसदनं कृत्वा द्वार्स्थार्चनं सुधीः ॥ 71 ॥
विश्वास-प्रस्तुतिः - 72
त्रिस्थानस्थं जगन्नाथं यजेद्दीक्षाविधेः समम्।
पुण्याहं पूर्वमुच्चार्य ऋत्विग्भिः कुंभमुद्वहन् ॥ 72 ॥
मूलम् - 72
त्रिस्थानस्थं जगन्नाथं यजेद्दीक्षाविधेः समम्।
पुण्याहं पूर्वमुच्चार्य ऋत्विग्भिः कुंभमुद्वहन् ॥ 72 ॥
विश्वास-प्रस्तुतिः - 73
कुंभमण्डलयोः पूजां विस्तरेण समाप्य च।
स्वकुण्डे हवनं कुर्यात् समिद्भिः सप्तभिः पुरा ॥ 73 ॥
मूलम् - 73
कुंभमण्डलयोः पूजां विस्तरेण समाप्य च।
स्वकुण्डे हवनं कुर्यात् समिद्भिः सप्तभिः पुरा ॥ 73 ॥
विश्वास-प्रस्तुतिः - 74
शान्तिहोमं ततः पश्चान्मधुक्षीरादिभिः क्रमात्।
प्रत्येकं शतसङ्ख्यं च पूर्णान्तं मूलमुच्चरन् ॥ 74 ॥
मूलम् - 74
शान्तिहोमं ततः पश्चान्मधुक्षीरादिभिः क्रमात्।
प्रत्येकं शतसङ्ख्यं च पूर्णान्तं मूलमुच्चरन् ॥ 74 ॥
विश्वास-प्रस्तुतिः - 75
स्वमार्गेण तु संस्कृत्य गुरुः कुण्डगणं ततः।
तेषु प्रभवयोगेन होमार्थं दिक्षु योजयेत् ॥ 75 ॥
मूलम् - 75
स्वमार्गेण तु संस्कृत्य गुरुः कुण्डगणं ततः।
तेषु प्रभवयोगेन होमार्थं दिक्षु योजयेत् ॥ 75 ॥
विश्वास-प्रस्तुतिः - 76
चतुरो वासुदेवादिनाम्ना एकायनान् द्विजान्।
तैः स्वशाखोदितैर्मन्त्रैः होतव्यं तु क्रमेण तु ॥ 76 ॥
मूलम् - 76
चतुरो वासुदेवादिनाम्ना एकायनान् द्विजान्।
तैः स्वशाखोदितैर्मन्त्रैः होतव्यं तु क्रमेण तु ॥ 76 ॥
विश्वास-प्रस्तुतिः - 77
ऋगाद्यांश्चतुरो वेदान् विदिक्कुण्डेषु विन्यसेत्।
मन्त्रैरर्चितलिङ्गैस्तु स्वशाखोत्थैस्च पावनैः ॥ 77 ॥
मूलम् - 77

विश्वास-प्रस्तुतिः - 78
होमं कुर्याद्यथायोगं पुंसूक्तेनैव वा द्विज!।
भूः स्वाहेति भुवः स्वाहा, स्वः स्वाहेति तथैव च ॥ 78 ॥
मूलम् - 78
होमं कुर्याद्यथायोगं पुंसूक्तेनैव वा द्विज!।
भूः स्वाहेति भुवः स्वाहा, स्वः स्वाहेति तथैव च ॥ 78 ॥
विश्वास-प्रस्तुतिः - 79
भूर्भुवस्सुवःस्वाहेति मन्त्रैर्वा वह्निद्क्क्रमात्।
भूः पुरुषाय स्वाहा, भुवः पुरुषाय स्वाहा ॥ 79 ॥
मूलम् - 79
भूर्भुवस्सुवःस्वाहेति मन्त्रैर्वा वह्निद्क्क्रमात्।
भूः पुरुषाय स्वाहा, भुवः पुरुषाय स्वाहा ॥ 79 ॥
विश्वास-प्रस्तुतिः - 80
स्वः पुरुषाय स्वाहा, भूर्भुवस्स्वः पुरुषाय स्वाहा।
एतैश्चतुर्भिर्मन्त्रैर्वा जुहुयाद्दिक्क्रमेण तु ॥ 80 ॥
मूलम् - 80

विश्वास-प्रस्तुतिः - 81
सास्त्राणां लोकपालानां कुमुदादिगणस्य च।
अष्टानां मह्गलानां च प्राग्वत् स्यात् स्थापनादिकम् ॥ 81 ॥
मूलम् - 81
सास्त्राणां लोकपालानां कुमुदादिगणस्य च।
अष्टानां मह्गलानां च प्राग्वत् स्यात् स्थापनादिकम् ॥ 81 ॥
विश्वास-प्रस्तुतिः - 82
पालाशादिसमिद्भेदाश्चरुभेदाश्च पूर्ववत्।
प्रतिकुण्डं च कुंभानां स्थापनाद्यं तु पूर्ववत् ॥ 82 ॥
मूलम् - 82
पालाशादिसमिद्भेदाश्चरुभेदाश्च पूर्ववत्।
प्रतिकुण्डं च कुंभानां स्थापनाद्यं तु पूर्ववत् ॥ 82 ॥
विश्वास-प्रस्तुतिः - 83
चतुर्णां ऋङ्नयादीनां तथा चैकान्तिनामपि।
निवेशनादिकं कार्यं पुरोदितविधानतः ॥ 83 ॥
मूलम् - 83
चतुर्णां ऋङ्नयादीनां तथा चैकान्तिनामपि।
निवेशनादिकं कार्यं पुरोदितविधानतः ॥ 83 ॥
विश्वास-प्रस्तुतिः - 84
एवं क्रमेण संपाद्य तदन्ते भूपतिं गुरुः।
प्राशयेत् पञ्चगव्यं तु कुशोदकसमन्वितम् ॥ 84 ॥
मूलम् - 84
एवं क्रमेण संपाद्य तदन्ते भूपतिं गुरुः।
प्राशयेत् पञ्चगव्यं तु कुशोदकसमन्वितम् ॥ 84 ॥
विश्वास-प्रस्तुतिः - 85
भगवत्पादतोयं च सर्वपापहरं शुभम्।
भक्षयेच्चरुशेषं तु कोष्ठसंशोधनाय च ॥ 85 ॥
मूलम् - 85
भगवत्पादतोयं च सर्वपापहरं शुभम्।
भक्षयेच्चरुशेषं तु कोष्ठसंशोधनाय च ॥ 85 ॥
विश्वास-प्रस्तुतिः - 86
कृत्वा दक्षिणपीठे तु शालिभारैस्तु विष्टरम्।
नवसङ्ख्यैस्तदूर्ध्वे तु मार्गं चर्म तु विन्यसेत् ॥ 86 ॥
मूलम् - 86
कृत्वा दक्षिणपीठे तु शालिभारैस्तु विष्टरम्।
नवसङ्ख्यैस्तदूर्ध्वे तु मार्गं चर्म तु विन्यसेत् ॥ 86 ॥
विश्वास-प्रस्तुतिः - 87
व्याघ्रजं वा तदूर्ध्वे तु दर्भानास्तीर्य साक्षतान्।
प्रागग्रानुदगग्रान् वा तस्मिन्नारोप्य भूपतिम् ॥ 87 ॥
मूलम् - 87

विश्वास-प्रस्तुतिः - 88
पूर्णोदकुंभांश्चतुरः प्राग्वद्वस्त्रादिभूषितान्।
चतुर्दिक्ष्वपि संस्थाप्य तेष्वर्च्या मूर्तयः क्रमात् ॥ 88 ॥
मूलम् - 88

विश्वास-प्रस्तुतिः - 89
चतुर्विधानि चान्नानि तासां दद्यात् क्रमेण तु।
ततो होमश्च कर्तव्यः कुण्डेषु प्राक्क्रमेण तु ॥ 89 ॥
मूलम् - 89
चतुर्विधानि चान्नानि तासां दद्यात् क्रमेण तु।
ततो होमश्च कर्तव्यः कुण्डेषु प्राक्क्रमेण तु ॥ 89 ॥
विश्वास-प्रस्तुतिः - 90
ततो बूपस्य पुरतः उपविश्यासने गुरुः।
तद्देहस्थिततत्वानां शुद्धिं कुर्याद्विधानतः ॥ 90 ॥
मूलम् - 90
ततो बूपस्य पुरतः उपविश्यासने गुरुः।
तद्देहस्थिततत्वानां शुद्धिं कुर्याद्विधानतः ॥ 90 ॥
विश्वास-प्रस्तुतिः - 91
प्राक् तेषां विलयं कृत्वा ततः सृष्टिं समाचरेत्।
कुर्यात् कौतुकबन्धं च प्राग्वत्तस्यापि चात्मनः ॥ 91 ॥
मूलम् - 91

विश्वास-प्रस्तुतिः - 92
स्वर्णसञ्चयमाहृत्य तिन्त्रिणीमिश्रवारिणा।
निर्मलीकृत्य संप्रोक्ष्य वीर्यमन्त्रेण तत्पुनः ॥ 92 ॥
मूलम् - 92
स्वर्णसञ्चयमाहृत्य तिन्त्रिणीमिश्रवारिणा।
निर्मलीकृत्य संप्रोक्ष्य वीर्यमन्त्रेण तत्पुनः ॥ 92 ॥
विश्वास-प्रस्तुतिः - 93
उदक् दिक् संस्थिते पीठे शालिभारैस्त्रिभिः कृते।
पीठे निवेश्याधिवास्य वासोलङ्कारपूर्वकम् ॥ 93 ॥
मूलम् - 93
उदक् दिक् संस्थिते पीठे शालिभारैस्त्रिभिः कृते।
पीठे निवेश्याधिवास्य वासोलङ्कारपूर्वकम् ॥ 93 ॥
विश्वास-प्रस्तुतिः - 94
अन्यच्च सर्वं संस्थाप्य वर्मणा चावकुण्ठयेत्।
ततश्चक्राब्जमालिख्य त्वन्यद्वा मण्डलं शुभम् ॥ 94 ॥
मूलम् - 94
अन्यच्च सर्वं संस्थाप्य वर्मणा चावकुण्ठयेत्।
ततश्चक्राब्जमालिख्य त्वन्यद्वा मण्डलं शुभम् ॥ 94 ॥
विश्वास-प्रस्तुतिः - 95
रत्नजैर्धातुजैर्वापि वर्णकैः परिपूरयेत्।
गीतनृत्तादिकैः स्तोत्रैः शङ्खवाद्यादिनिस्वनैः ॥ 95 ॥
मूलम् - 95
रत्नजैर्धातुजैर्वापि वर्णकैः परिपूरयेत्।
गीतनृत्तादिकैः स्तोत्रैः शङ्खवाद्यादिनिस्वनैः ॥ 95 ॥
विश्वास-प्रस्तुतिः - 96
मङ्गलैर्विविधैश्चान्यैर्जागरेण नयेन्निशाम्।
दिव्याद्यायतने कार्यं विशेषयजनं विभोः ॥ 96 ॥
मूलम् - 96
मङ्गलैर्विविधैश्चान्यैर्जागरेण नयेन्निशाम्।
दिव्याद्यायतने कार्यं विशेषयजनं विभोः ॥ 96 ॥
विश्वास-प्रस्तुतिः - 97
ततः कर्मदिने ब्राह्ने मुहूर्ते देशिकः स्वयम्।
कृत्वा स्नानादिकं सर्वं नित्यकर्मविधानतः ॥ 97 ॥
मूलम् - 97
ततः कर्मदिने ब्राह्ने मुहूर्ते देशिकः स्वयम्।
कृत्वा स्नानादिकं सर्वं नित्यकर्मविधानतः ॥ 97 ॥
विश्वास-प्रस्तुतिः - 98
ततो यजेद्विशेषेण कुंभस्थं जगतीपतिम्।
मण्डलस्थं क्रमेणैव विविधैर्भोगसञ्चयैः ॥ 98 ॥
मूलम् - 98
ततो यजेद्विशेषेण कुंभस्थं जगतीपतिम्।
मण्डलस्थं क्रमेणैव विविधैर्भोगसञ्चयैः ॥ 98 ॥
विश्वास-प्रस्तुतिः - 99
औपचारिकसांस्पर्शहृदयङ्गमसंज्ञितैः।
परमान्नादिकैस्तत्र प्रबूतैरन्नसञ्चयैः ॥ 99 ॥
मूलम् - 99
औपचारिकसांस्पर्शहृदयङ्गमसंज्ञितैः।
परमान्नादिकैस्तत्र प्रबूतैरन्नसञ्चयैः ॥ 99 ॥
विश्वास-प्रस्तुतिः - 100
एवमिष्ट्वा ततोऽग्निस्थं विभुं सन्तर्पयेत् क्रमात्।
समित्सप्तकपूर्वैस्तु मूलेन सघृतैस्तिलैः ॥ 100 ॥
मूलम् - 100
एवमिष्ट्वा ततोऽग्निस्थं विभुं सन्तर्पयेत् क्रमात्।
समित्सप्तकपूर्वैस्तु मूलेन सघृतैस्तिलैः ॥ 100 ॥
विश्वास-प्रस्तुतिः - 101
सहस्रमाहुतीनां तु शतं वाऽपि समाचरेत्।
सर्वविघ्नविनाशार्थमस्त्रेणापि तथाचरेत् ॥ 101 ॥
मूलम् - 101
सहस्रमाहुतीनां तु शतं वाऽपि समाचरेत्।
सर्वविघ्नविनाशार्थमस्त्रेणापि तथाचरेत् ॥ 101 ॥
विश्वास-प्रस्तुतिः - 102
ऋत्विजश्च स्वकुण्डेषु जुहुयुः पूर्ववत् क्रमात्।
पतितासु च पूर्णासु सर्वकुण्डेषु वै क्रमात् ॥ 102 ॥
मूलम् - 102
ऋत्विजश्च स्वकुण्डेषु जुहुयुः पूर्ववत् क्रमात्।
पतितासु च पूर्णासु सर्वकुण्डेषु वै क्रमात् ॥ 102 ॥
विश्वास-प्रस्तुतिः - 103
संस्नाप्य मूलमन्त्रेण, पुंसूक्तेन तथैव च।
सुप्रक्षालितपाण्यंघ्रिं स्वाचान्तं परिभूषितम् ॥ 103 ॥
मूलम् - 103
संस्नाप्य मूलमन्त्रेण, पुंसूक्तेन तथैव च।
सुप्रक्षालितपाण्यंघ्रिं स्वाचान्तं परिभूषितम् ॥ 103 ॥
विश्वास-प्रस्तुतिः - 104
निशाधिवासितैः सर्वैर्वस्त्रमाल्यानुलेपनैः।
सर्वैराभरणैश्चैव महार्घैर्विविधैरपि ॥ 104 ॥
मूलम् - 104
निशाधिवासितैः सर्वैर्वस्त्रमाल्यानुलेपनैः।
सर्वैराभरणैश्चैव महार्घैर्विविधैरपि ॥ 104 ॥
विश्वास-प्रस्तुतिः - 105
खङ्गखेटकहस्तं च समादाय गुरुः स्वयम्।
मुहूर्ते शोभने प्राप्ते पाणिना पृथिवीपतिम् ॥ 105 ॥
मूलम् - 105
खङ्गखेटकहस्तं च समादाय गुरुः स्वयम्।
मुहूर्ते शोभने प्राप्ते पाणिना पृथिवीपतिम् ॥ 105 ॥
विश्वास-प्रस्तुतिः - 106
पुण्याहं वाचयित्वा तु सर्वमङ्गलसंयुतम्।
कलशस्थलदिक्कुंभसर्वकुण्डेषु संस्थितम् ॥ 106 ॥
मूलम् - 106
पुण्याहं वाचयित्वा तु सर्वमङ्गलसंयुतम्।
कलशस्थलदिक्कुंभसर्वकुण्डेषु संस्थितम् ॥ 106 ॥
विश्वास-प्रस्तुतिः - 107
विभुं प्रदक्षिणीकृत्य कारयित्वा नमस्क्रियाम्।
ब्राह्नणाग्र्याननुज्ञाप्य तुलां नीत्वा प्रदक्षिणम् ॥ 107 ॥
मूलम् - 107
विभुं प्रदक्षिणीकृत्य कारयित्वा नमस्क्रियाम्।
ब्राह्नणाग्र्याननुज्ञाप्य तुलां नीत्वा प्रदक्षिणम् ॥ 107 ॥
विश्वास-प्रस्तुतिः - 108
तस्याः पश्चिमदिक्संस्थे भूयः प्रागाननं धटे।
आरोपयेन्मूलमन्त्रं साङ्गमावर्तयन् गुरुः ॥ 108 ॥
मूलम् - 108
तस्याः पश्चिमदिक्संस्थे भूयः प्रागाननं धटे।
आरोपयेन्मूलमन्त्रं साङ्गमावर्तयन् गुरुः ॥ 108 ॥
विश्वास-प्रस्तुतिः - 109
दिव्यान् बलादिकान् मन्त्रान् तथा सूक्तं तु पौरुषम्।
प्राक्पात्रे भूपतिसमं निक्षिपेत् स्वर्णसञ्चयम् ॥ 109 ॥
मूलम् - 109
दिव्यान् बलादिकान् मन्त्रान् तथा सूक्तं तु पौरुषम्।
प्राक्पात्रे भूपतिसमं निक्षिपेत् स्वर्णसञ्चयम् ॥ 109 ॥
विश्वास-प्रस्तुतिः - 110
निशाधिवासितं त्वेष तुलाभारः समो भवेत्।
एवं वाऽपि तुलाभारे प्राक् धटे विन्यसेन्नृपम् ॥ 110 ॥
मूलम् - 110
निशाधिवासितं त्वेष तुलाभारः समो भवेत्।
एवं वाऽपि तुलाभारे प्राक् धटे विन्यसेन्नृपम् ॥ 110 ॥
विश्वास-प्रस्तुतिः - 111
प्रत्यङ्मुखं पश्चिमे तु निक्षिपेत् स्वर्णसञ्चयम्।
शतनिष्काधिकः श्रेष्ठो, मध्यमोऽर्धाधिको भवेत् ॥ 111 ॥
मूलम् - 111
प्रत्यङ्मुखं पश्चिमे तु निक्षिपेत् स्वर्णसञ्चयम्।
शतनिष्काधिकः श्रेष्ठो, मध्यमोऽर्धाधिको भवेत् ॥ 111 ॥
विश्वास-प्रस्तुतिः - 112
शतपादाधिकः स स्यात्तुलाभारः कनिष्ठकः।
तत्काले ऋङ्भयाद्याश्च चत्वारो दिक्षु संस्थिताः ॥ 112 ॥
मूलम् - 112
शतपादाधिकः स स्यात्तुलाभारः कनिष्ठकः।
तत्काले ऋङ्भयाद्याश्च चत्वारो दिक्षु संस्थिताः ॥ 112 ॥
विश्वास-प्रस्तुतिः - 113
स्वशाखाः समधीयीरन्, विदिशासु च संस्थिताः।
सद्ब्रह्नज्ञा अधीरयन् शाखाः परमपावनाः ॥ 113 ॥
मूलम् - 113
स्वशाखाः समधीयीरन्, विदिशासु च संस्थिताः।
सद्ब्रह्नज्ञा अधीरयन् शाखाः परमपावनाः ॥ 113 ॥
विश्वास-प्रस्तुतिः - 114
शङ्खकाहलभेर्यादिवाद्यानि विविधानि च।
वादयेयुः समन्ताच्च तत्तद्वाद्यविशारदाः ॥ 114 ॥
मूलम् - 114
शङ्खकाहलभेर्यादिवाद्यानि विविधानि च।
वादयेयुः समन्ताच्च तत्तद्वाद्यविशारदाः ॥ 114 ॥
विश्वास-प्रस्तुतिः - 115
गीतं तु विविधं कुर्युः गीतशास्त्रविशारदाः।
विविधानि च नृत्तानि कुर्युश्च परितो दिशः ॥ 115 ॥
मूलम् - 115
गीतं तु विविधं कुर्युः गीतशास्त्रविशारदाः।
विविधानि च नृत्तानि कुर्युश्च परितो दिशः ॥ 115 ॥
विश्वास-प्रस्तुतिः - 116
अन्यच्च मङ्गलं यद्यत तत्तत् सर्वं तु कारयेत्।
ततस्तु सर्वकुण्डेषु शान्तिहोमं च कारयेत् ॥ 116 ॥
मूलम् - 116
अन्यच्च मङ्गलं यद्यत तत्तत् सर्वं तु कारयेत्।
ततस्तु सर्वकुण्डेषु शान्तिहोमं च कारयेत् ॥ 116 ॥
विश्वास-प्रस्तुतिः - 117
तिलैराज्यैश्च बहुभिः शतमष्टोत्तरं क्रमात्।
भूपतिर्मनसा ध्यायेत् भगवन्तं जनार्दनम् ॥ 117 ॥
मूलम् - 117
तिलैराज्यैश्च बहुभिः शतमष्टोत्तरं क्रमात्।
भूपतिर्मनसा ध्यायेत् भगवन्तं जनार्दनम् ॥ 117 ॥
विश्वास-प्रस्तुतिः - 118
एकनाडीं तदर्धं वा आसीत नृपतिर्धटे।
ततोऽवरुह्य वै तस्मात् प्रणमेद्दण्डवद्धरिम् ॥ 118 ॥
मूलम् - 118
एकनाडीं तदर्धं वा आसीत नृपतिर्धटे।
ततोऽवरुह्य वै तस्मात् प्रणमेद्दण्डवद्धरिम् ॥ 118 ॥
विश्वास-प्रस्तुतिः - 119
ततस्तु भूषणैर्वस्त्रैर्भूषयेद्भूपतिर्गुरुम्।
सुवर्णदक्षिणां दद्याच्छतनिष्कां तु तत्समाम् ॥ 119 ॥
मूलम् - 119
ततस्तु भूषणैर्वस्त्रैर्भूषयेद्भूपतिर्गुरुम्।
सुवर्णदक्षिणां दद्याच्छतनिष्कां तु तत्समाम् ॥ 119 ॥
विश्वास-प्रस्तुतिः - 120
ऋत्विग्भ्यस्तु तदर्धं वा ये चान्ये तत्र कर्मणि।
नियोजितास्तु साहाय्ये तेभ्यः कर्मानुरूपतः । 120 ॥
मूलम् - 120
ऋत्विग्भ्यस्तु तदर्धं वा ये चान्ये तत्र कर्मणि।
नियोजितास्तु साहाय्ये तेभ्यः कर्मानुरूपतः । 120 ॥
विश्वास-प्रस्तुतिः - 121
द्रव्याणि दद्यान्नृपतिर्वस्त्राणि विविधानि च।
सुवर्णसञ्चयांस्तांश्च भूषणानि च भूपतिः ॥ 121 ॥
मूलम् - 121
द्रव्याणि दद्यान्नृपतिर्वस्त्राणि विविधानि च।
सुवर्णसञ्चयांस्तांश्च भूषणानि च भूपतिः ॥ 121 ॥
विश्वास-प्रस्तुतिः - 122
स्वयं व्यक्तादिके स्थाने दद्याद्भगवतो विभोः।
दानात् फलविशेषं तु समाकर्णय सांप्रतम् ॥ 122 ॥
मूलम् - 122
स्वयं व्यक्तादिके स्थाने दद्याद्भगवतो विभोः।
दानात् फलविशेषं तु समाकर्णय सांप्रतम् ॥ 122 ॥
विश्वास-प्रस्तुतिः - 123
स्वयं व्यक्ते विभोः स्थाने यो दद्याद्भूपतिर्हरेः।
सर्वपापविनिर्मुक्तः सर्वामयवियोजितः ॥ 123 ॥
मूलम् - 123
स्वयं व्यक्ते विभोः स्थाने यो दद्याद्भूपतिर्हरेः।
सर्वपापविनिर्मुक्तः सर्वामयवियोजितः ॥ 123 ॥
विश्वास-प्रस्तुतिः - 124
सर्वसंपत्समृद्धश्च सर्वदेशाधिपो भवेत्।
भुङ्क्ते च विविधान् भोगानिह लोके परत्र च ॥ 124 ॥
मूलम् - 124
सर्वसंपत्समृद्धश्च सर्वदेशाधिपो भवेत्।
भुङ्क्ते च विविधान् भोगानिह लोके परत्र च ॥ 124 ॥
विश्वास-प्रस्तुतिः - 125
कोटिकोटिगुणं दानं तथैव च फलं भवेत्।
दानं यद्दिव्यायतने तदनन्तगुणं भवेत् ॥ 125 ॥
मूलम् - 125
कोटिकोटिगुणं दानं तथैव च फलं भवेत्।
दानं यद्दिव्यायतने तदनन्तगुणं भवेत् ॥ 125 ॥
विश्वास-प्रस्तुतिः - 126
आर्षे च सैद्धायतने दानं लक्षगुणं भवेत्।
सद्विप्रकल्पिते दानं सहस्रगुणितं भवेत् ॥ 126 ॥
मूलम् - 126
आर्षे च सैद्धायतने दानं लक्षगुणं भवेत्।
सद्विप्रकल्पिते दानं सहस्रगुणितं भवेत् ॥ 126 ॥
विश्वास-प्रस्तुतिः - 127
सत्क्षत्रकल्पिते स्थाने दानं शतगुणं भवेत्।
सद्वैश्यकल्पिते स्थाने तदर्धगुणितं भवेत् ॥ 127 ॥
मूलम् - 127
सत्क्षत्रकल्पिते स्थाने दानं शतगुणं भवेत्।
सद्वैश्यकल्पिते स्थाने तदर्धगुणितं भवेत् ॥ 127 ॥
विश्वास-प्रस्तुतिः - 128
सच्छूद्रकल्पिते दत्तं द्विषट्कगुणितं भवेत्।
अनन्यशरणैर्वर्णैः स्थाने तु परिकल्पिते ॥ 128 ॥
मूलम् - 128
सच्छूद्रकल्पिते दत्तं द्विषट्कगुणितं भवेत्।
अनन्यशरणैर्वर्णैः स्थाने तु परिकल्पिते ॥ 128 ॥
विश्वास-प्रस्तुतिः - 129
दानं दशगुणं प्रोक्तं वर्णैर्व्यामिश्रयाजिभिः।
निर्मितायतने दत्तं तत् पञ्चगुणितं भवेत् ॥ 129 ॥
मूलम् - 129
दानं दशगुणं प्रोक्तं वर्णैर्व्यामिश्रयाजिभिः।
निर्मितायतने दत्तं तत् पञ्चगुणितं भवेत् ॥ 129 ॥
विश्वास-प्रस्तुतिः - 130
दाने मुख्यविधिः प्रोक्तस्त्वनुकल्पमतः श्रृणु।
तत्र ये श्रोत्रियाः प्राप्ता वैघ्णवा ब्राह्नणोत्तमाः ॥ 130 ॥
मूलम् - 130
दाने मुख्यविधिः प्रोक्तस्त्वनुकल्पमतः श्रृणु।
तत्र ये श्रोत्रियाः प्राप्ता वैघ्णवा ब्राह्नणोत्तमाः ॥ 130 ॥
विश्वास-प्रस्तुतिः - 131
सुवर्णसञ्चयाद्यं च तेभ्यो दद्याद्यथाक्रमम्।
यागोपकरणं सर्वमाचार्याय प्रदापयेत् ॥ 131 ॥
मूलम् - 131
सुवर्णसञ्चयाद्यं च तेभ्यो दद्याद्यथाक्रमम्।
यागोपकरणं सर्वमाचार्याय प्रदापयेत् ॥ 131 ॥
विश्वास-प्रस्तुतिः - 132
यः कुर्याद्भूपतिः कश्चित् अन्यो वा धनवान् सकृत्।
तुलाभाराह्वयं कर्म सर्वपापैः प्रमुच्यते ॥ 132 ॥
मूलम् - 132
यः कुर्याद्भूपतिः कश्चित् अन्यो वा धनवान् सकृत्।
तुलाभाराह्वयं कर्म सर्वपापैः प्रमुच्यते ॥ 132 ॥
विश्वास-प्रस्तुतिः - 133
रोगैरनबिभूतश्च भविष्यति न संशयः।
यः कुर्यान्नियमेनैव कर्मैतत् प्रतिवत्सरम् ॥ 133 ॥
मूलम् - 133
रोगैरनबिभूतश्च भविष्यति न संशयः।
यः कुर्यान्नियमेनैव कर्मैतत् प्रतिवत्सरम् ॥ 133 ॥
विश्वास-प्रस्तुतिः - 134
तस्य पुण्यफलावाप्तिं कः शक्नोत्यभिवर्णितुम्।
तत्काले भगवद्यागं चतुःस्थानार्चनान्वितम् ॥ 134 ॥
मूलम् - 134
तस्य पुण्यफलावाप्तिं कः शक्नोत्यभिवर्णितुम्।
तत्काले भगवद्यागं चतुःस्थानार्चनान्वितम् ॥ 134 ॥
विश्वास-प्रस्तुतिः - 135
दिव्याद्यायतने सम्यक् कारयेत् पृथिवीपतिः।
तदन्यस्मिन् दिने विप्र! स्नापयेत् पुरुषोत्तमम् ॥ 135 ॥
मूलम् - 135
दिव्याद्यायतने सम्यक् कारयेत् पृथिवीपतिः।
तदन्यस्मिन् दिने विप्र! स्नापयेत् पुरुषोत्तमम् ॥ 135 ॥
विश्वास-प्रस्तुतिः - 136
सहस्रकलशैः सम्यक् पुरोदितविधानतः।
यद्वान्यस्नपनेनैव तत्तत्कालोचितेन वै ॥ 136 ॥
मूलम् - 136
सहस्रकलशैः सम्यक् पुरोदितविधानतः।
यद्वान्यस्नपनेनैव तत्तत्कालोचितेन वै ॥ 136 ॥
विश्वास-प्रस्तुतिः - 137
चतुसःथानार्चनं तत्र विशेषात् कारयेन्नृपः।
महाहविर्निवेद्यं च विशेषेणैव कारयेत् ॥ 137 ॥
मूलम् - 137
चतुसःथानार्चनं तत्र विशेषात् कारयेन्नृपः।
महाहविर्निवेद्यं च विशेषेणैव कारयेत् ॥ 137 ॥
विश्वास-प्रस्तुतिः - 138
तत्रापि देशिकादिभ्यो दद्याद्वै दक्षिणां क्रमात्।
दीनान्धकृपणानाथान् बालवृद्धकृशातुरान् ॥ 138 ॥
मूलम् - 138
तत्रापि देशिकादिभ्यो दद्याद्वै दक्षिणां क्रमात्।
दीनान्धकृपणानाथान् बालवृद्धकृशातुरान् ॥ 138 ॥
विश्वास-प्रस्तुतिः - 139
भोजयेच्च विधानेन द्रव्यादीन्यपि दापयेत्।
विविधानि च बीजानि शाल्यादीन्यपि दापयेत् ॥ 139 ॥
मूलम् - 139
भोजयेच्च विधानेन द्रव्यादीन्यपि दापयेत्।
विविधानि च बीजानि शाल्यादीन्यपि दापयेत् ॥ 139 ॥
विश्वास-प्रस्तुतिः - 140
बन्दीकृतांश्च विसृजेत् कारागृहनिवेशितान्।
एष ते कथितो विप्र! तुलाभारविधिः क्रमात् ॥ 140 ॥
मूलम् - 140
बन्दीकृतांश्च विसृजेत् कारागृहनिवेशितान्।
एष ते कथितो विप्र! तुलाभारविधिः क्रमात् ॥ 140 ॥
विश्वास-प्रस्तुतिः - 141
हिरण्यगर्भाद्यन्येष्वप्येवमेव समाचरेत्।
एवं कुर्यात्तुलाभारं यः सकृद्बहुशोऽपि वा ॥ 141 ॥
मूलम् - 141
हिरण्यगर्भाद्यन्येष्वप्येवमेव समाचरेत्।
एवं कुर्यात्तुलाभारं यः सकृद्बहुशोऽपि वा ॥ 141 ॥
विश्वास-प्रस्तुतिः - 142
सर्वपापविमोक्षस्तु तस्य स्यान्नात्र संशयः।
यो वा भगवतोऽर्थे तु मातापित्रोर्गुरोस्तु वा ॥ 142 ॥
मूलम् - 142
सर्वपापविमोक्षस्तु तस्य स्यान्नात्र संशयः।
यो वा भगवतोऽर्थे तु मातापित्रोर्गुरोस्तु वा ॥ 142 ॥
विश्वास-प्रस्तुतिः - 143
स्वप्राणांस्त्यजतां भक्त्या विप्रादीनां महामते।
निमित्ती तु भवेत्तस्य तुलाभारादिकेन च ॥ 143 ॥
मूलम् - 143
स्वप्राणांस्त्यजतां भक्त्या विप्रादीनां महामते।
निमित्ती तु भवेत्तस्य तुलाभारादिकेन च ॥ 143 ॥
विश्वास-प्रस्तुतिः - 144
बहुशोऽनुष्ठितेनैव सम्यगेव तु कर्मणा।
अन्यैर्वा विहितैर्विप्र! प्रायश्चित्तैः सुदुष्करैः ॥ 144 ॥
मूलम् - 144
बहुशोऽनुष्ठितेनैव सम्यगेव तु कर्मणा।
अन्यैर्वा विहितैर्विप्र! प्रायश्चित्तैः सुदुष्करैः ॥ 144 ॥
विश्वास-प्रस्तुतिः - 145
ब्रह्नहत्योऽत्थदोषस्य शुद्धिर्भवति वा न वा।
प्राणत्यागः कृतस्तेन विष्वर्ण्थे यन्महात्मना ॥ 145 ॥
मूलम् - 145
ब्रह्नहत्योऽत्थदोषस्य शुद्धिर्भवति वा न वा।
प्राणत्यागः कृतस्तेन विष्वर्ण्थे यन्महात्मना ॥ 145 ॥
विश्वास-प्रस्तुतिः - 146
तस्मान्न निष्कृतिर्विप्र! भवेत्तस्य निमित्तिनः।
ब्राह्नणाः क्षत्रिया वैश्या विष्ण्वर्थे मौद्गलास्तु वा ॥ 146 ॥
मूलम् - 146
तस्मान्न निष्कृतिर्विप्र! भवेत्तस्य निमित्तिनः।
ब्राह्नणाः क्षत्रिया वैश्या विष्ण्वर्थे मौद्गलास्तु वा ॥ 146 ॥
विश्वास-प्रस्तुतिः - 147
परित्यजेयुः स्वप्राणान् भगवद्भक्तिसंयुताः।
भृग्वादिभिरुपायैस्तु पञ्चभिर्वा विषादिकैः ॥ 147 ॥
मूलम् - 147
परित्यजेयुः स्वप्राणान् भगवद्भक्तिसंयुताः।
भृग्वादिभिरुपायैस्तु पञ्चभिर्वा विषादिकैः ॥ 147 ॥
विश्वास-प्रस्तुतिः - 148
अन्यैस्तेषां भवेत् सद्यौ वाजपेयादिजं फलम्।
सकामस्य तु निष्कामः प्राप्नुयात् परमां गतिम् ॥ 148 ॥
मूलम् - 148
अन्यैस्तेषां भवेत् सद्यौ वाजपेयादिजं फलम्।
सकामस्य तु निष्कामः प्राप्नुयात् परमां गतिम् ॥ 148 ॥
विश्वास-प्रस्तुतिः - 149
महात्मनस्तु तान् विद्धि विष्ण्वर्थे त्यक्तजीवितान्।
आत्महत्योत्थदोषैस्ते न लिप्यन्ते कदाचन ॥ 149 ॥
मूलम् - 149
महात्मनस्तु तान् विद्धि विष्ण्वर्थे त्यक्तजीवितान्।
आत्महत्योत्थदोषैस्ते न लिप्यन्ते कदाचन ॥ 149 ॥
विश्वास-प्रस्तुतिः - 150
आत्महत्योत्थदोषाः स्युरन्येषां सर्वदा द्विज!।
एवं भगवदर्थे तु प्राणत्यागे कृतादरः ॥ 150 ॥
मूलम् - 150
आत्महत्योत्थदोषाः स्युरन्येषां सर्वदा द्विज!।
एवं भगवदर्थे तु प्राणत्यागे कृतादरः ॥ 150 ॥
विश्वास-प्रस्तुतिः - 151
यमुद्दिश्य त्यजेत् प्राणान् तं विद्याद्ब्रह्नघातकम्।
मुख्यविप्रे मृते तस्य तद्दोषः स्याच्चतुर्गुणः ॥ 151 ॥
मूलम् - 151
यमुद्दिश्य त्यजेत् प्राणान् तं विद्याद्ब्रह्नघातकम्।
मुख्यविप्रे मृते तस्य तद्दोषः स्याच्चतुर्गुणः ॥ 151 ॥
विश्वास-प्रस्तुतिः - 152
क्षत्रिये ब्रह्नहत्योत्थदोषस्तु त्रिगुणो भवेत्।
निमित्तिनः स दोषः स्याद्द्विगुणः संस्थिते विशि ॥ 152 ॥
मूलम् - 152
क्षत्रिये ब्रह्नहत्योत्थदोषस्तु त्रिगुणो भवेत्।
निमित्तिनः स दोषः स्याद्द्विगुणः संस्थिते विशि ॥ 152 ॥
विश्वास-प्रस्तुतिः - 153
निमित्तिने मृते शूद्रे दोष एकगुणो भवेत्।
एवं दोषविवृद्धिस्तु भवेद्विप्रे निमित्तिनि ॥ 153 ॥
मूलम् - 153
निमित्तिने मृते शूद्रे दोष एकगुणो भवेत्।
एवं दोषविवृद्धिस्तु भवेद्विप्रे निमित्तिनि ॥ 153 ॥
विश्वास-प्रस्तुतिः - 154
निमित्तिनि क्षत्रियादावेकैकगुणवर्धनात्।
भवेत् पूर्वोक्तदोषस्तु अतार्थे नास्ति संशयः ॥ 154 ॥
मूलम् - 154
निमित्तिनि क्षत्रियादावेकैकगुणवर्धनात्।
भवेत् पूर्वोक्तदोषस्तु अतार्थे नास्ति संशयः ॥ 154 ॥
विश्वास-प्रस्तुतिः - 155
एवं मृते विप्रमात्रे दोष उक्तो निमित्तिनः।
मुख्यदोषः पञ्चगुणो ब्रह्नचारिणि संस्थिते ॥ 155 ॥
मूलम् - 155
एवं मृते विप्रमात्रे दोष उक्तो निमित्तिनः।
मुख्यदोषः पञ्चगुणो ब्रह्नचारिणि संस्थिते ॥ 155 ॥
विश्वास-प्रस्तुतिः - 156
गृहस्थे यज्वनि मृते स दोषः षड्गुणो भवेत्।
वानप्रस्थे मृते मुख्यदोषः सप्तगुणो भवेत् ॥ 156 ॥
मूलम् - 156
गृहस्थे यज्वनि मृते स दोषः षड्गुणो भवेत्।
वानप्रस्थे मृते मुख्यदोषः सप्तगुणो भवेत् ॥ 156 ॥
विश्वास-प्रस्तुतिः - 157
सन्न्यासाश्रमनिष्ठे तु संस्थिते तु निमित्तिनः।
स्यान्मुख्यदोषोऽष्टगुण एवं तु कथितो मुने! ॥ 157 ॥
मूलम् - 157
सन्न्यासाश्रमनिष्ठे तु संस्थिते तु निमित्तिनः।
स्यान्मुख्यदोषोऽष्टगुण एवं तु कथितो मुने! ॥ 157 ॥
विश्वास-प्रस्तुतिः - 158
निमित्तिनो दोषवृद्धिः विष्ण्वर्थे मरणे सति।
एवं निमित्तभूतानां द्विजादीनां न निष्कृतिः ॥ 158 ॥
मूलम् - 158
निमित्तिनो दोषवृद्धिः विष्ण्वर्थे मरणे सति।
एवं निमित्तभूतानां द्विजादीनां न निष्कृतिः ॥ 158 ॥
विश्वास-प्रस्तुतिः - 159
तत्र यत् ब्राह्नणैरुक्तं विवेकनिरतैस्सदा।
सर्वशास्त्रार्थतत्वज्ञैः तत् कुर्यादविचारतः ॥ 159 ॥
मूलम् - 159