॥ श्रीः ॥
एकोनविंशोऽध्यायः
सनकः —
विश्वास-प्रस्तुतिः - 1
मुने! सिद्धान्तनिष्टस्य समाराधनकाङ्क्षिणः।
समयाचारवैकल्ये प्रायश्चित्तमुदीरय ॥ 1 ॥
मूलम् - 1
मुने! सिद्धान्तनिष्टस्य समाराधनकाङ्क्षिणः।
समयाचारवैकल्ये प्रायश्चित्तमुदीरय ॥ 1 ॥
विश्वास-प्रस्तुतिः - 2
श्रृणु सम्यक् प्रवक्ष्यामि प्रायश्चित्तं मुने! हितम्।
यत् कृत्वा देशिकादीनां चतुर्णआं शुभमेधते ॥ 2 ॥
मूलम् - 2

विश्वास-प्रस्तुतिः - 3
अस्नात्वा विधिवन् मन्त्री नद्यादौ पूजयेद्यदि।
स्नात्वा मूलसहस्रं तु जप्त्वा संपूजयेद्विभुम् ॥ 3 ॥
मूलम् - 3

विश्वास-प्रस्तुतिः - 4
जीर्णं पर्युषितं वासो दधानो यदि पूजयेत्।
स्नात्वा विशुद्धवासोभृन्मूलमन्त्रं जपेत्तथा ॥ 4 ॥
मूलम् - 4
जीर्णं पर्युषितं वासो दधानो यदि पूजयेत्।
स्नात्वा विशुद्धवासोभृन्मूलमन्त्रं जपेत्तथा ॥ 4 ॥
विश्वास-प्रस्तुतिः - 5
ध्यानहीनस्त्वनाचान्तः पवित्ररहिताङ्गुलिः।
केशास्थिलोष्टसिरासृगस्पृश्यस्पर्शनेऽपि च ॥ 5 ॥
मूलम् - 5
ध्यानहीनस्त्वनाचान्तः पवित्ररहिताङ्गुलिः।
केशास्थिलोष्टसिरासृगस्पृश्यस्पर्शनेऽपि च ॥ 5 ॥
विश्वास-प्रस्तुतिः - 6
स्नात्वा यथापुरं पूज्य मूलमन्त्रायुतं जपेत्।
उदक्यासूतिकाऽपेयचण्डालाद्युपवर्तकः ॥ 6 ॥
मूलम् - 6
स्नात्वा यथापुरं पूज्य मूलमन्त्रायुतं जपेत्।
उदक्यासूतिकाऽपेयचण्डालाद्युपवर्तकः ॥ 6 ॥
विश्वास-प्रस्तुतिः - 7
स्पृशेच्चेद्भगवद्बिम्बं स्नात्वा पूर्वं स्वयं ततः।
पञ्चगव्येन देवेशमभिषिच्य समर्चयेत् ॥ 7 ॥
मूलम् - 7

विश्वास-प्रस्तुतिः - 8
उदक्यासूतिकाद्यैश्च स्पृष्टः संस्पृश्य कौतुकम्।
स्नात्वोत्तमेन देवेशमभिषिच्याथ शान्तये ॥ 8 ॥
मूलम् - 8

विश्वास-प्रस्तुतिः - 9
हुत्वाऽथ मूलमन्त्रेण जपेच्चायुतसङ्ख्यया।
सूतके मृतके बिम्बं स्पृशेद्वा पूजयेद्यदि ॥ 9 ॥
मूलम् - 9
हुत्वाऽथ मूलमन्त्रेण जपेच्चायुतसङ्ख्यया।
सूतके मृतके बिम्बं स्पृशेद्वा पूजयेद्यदि ॥ 9 ॥
विश्वास-प्रस्तुतिः - 10
अधमोत्तमेन संस्नाप्य प्राग्वदधुत्वा जपेन्मनुम्।
महापातकिभिः स्पृष्ठो विण्मूत्रापेयपैस्तथा ॥ 10 ॥
मूलम् - 10
अधमोत्तमेन संस्नाप्य प्राग्वदधुत्वा जपेन्मनुम्।
महापातकिभिः स्पृष्ठो विण्मूत्रापेयपैस्तथा ॥ 10 ॥
विश्वास-प्रस्तुतिः - 11
पूजयेद्यदि देवेशं पुनः स्नात्वा विधानतः।
पूर्ववत् स्नपनं कृत्वा शान्तिहोमादिकं चरेत् ॥ 11 ॥
मूलम् - 11
पूजयेद्यदि देवेशं पुनः स्नात्वा विधानतः।
पूर्ववत् स्नपनं कृत्वा शान्तिहोमादिकं चरेत् ॥ 11 ॥
विश्वास-प्रस्तुतिः - 12
निष्ठीवरुधिरस्वेदयुक्तो देवं स्पृशेद्यदि।
कुशोदकेन संस्नाप्य विशेषेण यजेद्विभुम् ॥ 12 ॥
मूलम् - 12
निष्ठीवरुधिरस्वेदयुक्तो देवं स्पृशेद्यदि।
कुशोदकेन संस्नाप्य विशेषेण यजेद्विभुम् ॥ 12 ॥
विश्वास-प्रस्तुतिः - 13
दिवा गत्वा स्त्रियं स्वीयामस्नात्वा चेत् स्पृशेद्विभुम्।
उपोष्य पञ्चभिर्गव्यैः कुशोदैः स्नापयेद्विभुम् ॥ 13 ॥
मूलम् - 13

विश्वास-प्रस्तुतिः - 14
परस्त्रीगमासक्तश्चीर्णदुश्चरितो विभुम्।
पूजये्दवा तथा स्पृष्ठे देधबिम्वेऽभिषेचयेत् ॥ 14 ॥
मूलम् - 14
परस्त्रीगमासक्तश्चीर्णदुश्चरितो विभुम्।
पूजये्दवा तथा स्पृष्ठे देधबिम्वेऽभिषेचयेत् ॥ 14 ॥
विश्वास-प्रस्तुतिः - 15
मध्यमाधममार्गेण हुत्वा मन्त्रं जपेच्छतम्।
कृमिकीटास्थिकेशादिपतङ्गनखरादिकैः ॥ 15 ॥
मूलम् - 15
मध्यमाधममार्गेण हुत्वा मन्त्रं जपेच्छतम्।
कृमिकीटास्थिकेशादिपतङ्गनखरादिकैः ॥ 15 ॥
विश्वास-प्रस्तुतिः - 16
प्राण्यङ्गतुषभस्मादिदुष्टैः पत्रफलादिभिः।
पुष्पैस्तोयैस्तथाप्यन्यैश्चन्दनाद्यैश्च भूषणैः ॥ 16 ॥
मूलम् - 16
प्राण्यङ्गतुषभस्मादिदुष्टैः पत्रफलादिभिः।
पुष्पैस्तोयैस्तथाप्यन्यैश्चन्दनाद्यैश्च भूषणैः ॥ 16 ॥
विश्वास-प्रस्तुतिः - 17
तथोपचारैरन्यैश्च वर्जितैरपि वस्तुभिः।
तथा पर्युषितैः पत्रपुष्पाङ्कुरफलादिभिः ॥ 17 ॥
मूलम् - 17
तथोपचारैरन्यैश्च वर्जितैरपि वस्तुभिः।
तथा पर्युषितैः पत्रपुष्पाङ्कुरफलादिभिः ॥ 17 ॥
विश्वास-प्रस्तुतिः - 18
अस्पृश्यप्राणिभिः स्पृष्ठैस्तथा चास्पृश्यवस्तुभिः।
चण्डालसूतिकाद्यैश्च निषादपतितादिभिः ॥ 18 ॥
मूलम् - 18
अस्पृश्यप्राणिभिः स्पृष्ठैस्तथा चास्पृश्यवस्तुभिः।
चण्डालसूतिकाद्यैश्च निषादपतितादिभिः ॥ 18 ॥
विश्वास-प्रस्तुतिः - 19
संस्पृष्ठैश्च परिम्लानैः सरजोभिर्यजेद्यदि।
जपेदष्टोत्तरशतं मूलमन्त्रमनन्यधीः ॥ 19 ॥
मूलम् - 19
संस्पृष्ठैश्च परिम्लानैः सरजोभिर्यजेद्यदि।
जपेदष्टोत्तरशतं मूलमन्त्रमनन्यधीः ॥ 19 ॥
विश्वास-प्रस्तुतिः - 20
एतैर्दुष्टैस्तु वस्त्राद्यैर्देवं संपूजयेद्यदि।
संस्नाप्य चाधमेनैव पूजयित्वा विधानतः ॥ 20 ॥
मूलम् - 20
एतैर्दुष्टैस्तु वस्त्राद्यैर्देवं संपूजयेद्यदि।
संस्नाप्य चाधमेनैव पूजयित्वा विधानतः ॥ 20 ॥
विश्वास-प्रस्तुतिः - 21
शान्तिहोमं प्रकुर्वीत सहस्राहुतिभिः क्रमात्।
चण्डालसूतिकोदक्याशबरापेयपायिभिः ॥ 21 ॥
मूलम् - 21
शान्तिहोमं प्रकुर्वीत सहस्राहुतिभिः क्रमात्।
चण्डालसूतिकोदक्याशबरापेयपायिभिः ॥ 21 ॥
विश्वास-प्रस्तुतिः - 22
संस्पृष्टे पानभक्ष्यादौ देवेशस्य निवेदिते।
मृण्मयानि परित्यज्य क्षालयित्वेतराणि च ॥ 22 ॥
मूलम् - 22
संस्पृष्टे पानभक्ष्यादौ देवेशस्य निवेदिते।
मृण्मयानि परित्यज्य क्षालयित्वेतराणि च ॥ 22 ॥
विश्वास-प्रस्तुतिः - 23
स्नात्वा कुशोदकं पीत्वा स्नापयेदधमेन तु।
पुनः संपूज्य जुहुयान्मूलेन शतसङ्ख्यया ॥ 23 ॥
मूलम् - 23
स्नात्वा कुशोदकं पीत्वा स्नापयेदधमेन तु।
पुनः संपूज्य जुहुयान्मूलेन शतसङ्ख्यया ॥ 23 ॥
विश्वास-प्रस्तुतिः - 24
विड्वराहसृगालाभि काकश्येनखरादिभिः।
एवमादिभिरन्यैश्च स्पृष्ठेऽन्नादौ निवेदिते ॥ 24 ॥
मूलम् - 24
विड्वराहसृगालाभि काकश्येनखरादिभिः।
एवमादिभिरन्यैश्च स्पृष्ठेऽन्नादौ निवेदिते ॥ 24 ॥
विश्वास-प्रस्तुतिः - 25
पूर्ववच्छान्तिरेव स्यात्ततः शुद्धं निवेदयेत्।
परस्त्रीगमनासक्तैर्मक्ष्याभक्ष्याविवेकिभिः ॥ 25 ॥
मूलम् - 25
पूर्ववच्छान्तिरेव स्यात्ततः शुद्धं निवेदयेत्।
परस्त्रीगमनासक्तैर्मक्ष्याभक्ष्याविवेकिभिः ॥ 25 ॥
विश्वास-प्रस्तुतिः - 26
यथेष्टाचारनिरतैरवैष्णवकुलोद्भवैः।
पव्कं स्पृष्ठं तथा दृष्टं दुष्टं पूयासृगादिभिः ॥ 26 ॥
मूलम् - 26
यथेष्टाचारनिरतैरवैष्णवकुलोद्भवैः।
पव्कं स्पृष्ठं तथा दृष्टं दुष्टं पूयासृगादिभिः ॥ 26 ॥
विश्वास-प्रस्तुतिः - 27
अमत्या चेद्धविर्देत्तं पूर्ववच्छान्तिमाचरेत्।
शवादिदूषितान्नस्य पव्कस्य विनिवेदने ॥ 27 ॥
मूलम् - 27
अमत्या चेद्धविर्देत्तं पूर्ववच्छान्तिमाचरेत्।
शवादिदूषितान्नस्य पव्कस्य विनिवेदने ॥ 27 ॥
विश्वास-प्रस्तुतिः - 28
पूर्ववत् पूज्य देवेशं शान्तिहोमं समाचरेत्।
त्यक्तमन्नादिकं दद्याद्यदि पूज्य पुनस्तिलैः ॥ 28 ॥
मूलम् - 28
पूर्ववत् पूज्य देवेशं शान्तिहोमं समाचरेत्।
त्यक्तमन्नादिकं दद्याद्यदि पूज्य पुनस्तिलैः ॥ 28 ॥
विश्वास-प्रस्तुतिः - 29
सघृतैर्जुहुयान्मन्त्री सहस्रशतसङ्ख्यया।
तथा पर्युषितान्नस्य प्रदाने शान्तिमाचरेत् ॥ 29 ॥
मूलम् - 29
सघृतैर्जुहुयान्मन्त्री सहस्रशतसङ्ख्यया।
तथा पर्युषितान्नस्य प्रदाने शान्तिमाचरेत् ॥ 29 ॥
विश्वास-प्रस्तुतिः - 30
त्यक्तं हविः फलं पुष्पं पवित्रान्नरसादिकम्।
त्यजेज्जलाशये वाग्नौ भुवि वा गोष्वलोलुपः ॥ 30 ॥
मूलम् - 30
त्यक्तं हविः फलं पुष्पं पवित्रान्नरसादिकम्।
त्यजेज्जलाशये वाग्नौ भुवि वा गोष्वलोलुपः ॥ 30 ॥
विश्वास-प्रस्तुतिः - 31
मक्षिकाघुणभृङ्गाद्यैर्दष्टं दुष्टं पुरीषगैः।
पत्रपुष्पफलाद्यन्नं त्यक्तव्यं, तदधिष्ठितम् ॥ 31 ॥
मूलम् - 31
मक्षिकाघुणभृङ्गाद्यैर्दष्टं दुष्टं पुरीषगैः।
पत्रपुष्पफलाद्यन्नं त्यक्तव्यं, तदधिष्ठितम् ॥ 31 ॥
विश्वास-प्रस्तुतिः - 32
अस्त्रोदकेन संप्रोक्ष्य दद्याद्देवाय भक्तितः।
महाहविर्विधाने तु विशेषमवधारय ॥ 32 ॥
मूलम् - 32
अस्त्रोदकेन संप्रोक्ष्य दद्याद्देवाय भक्तितः।
महाहविर्विधाने तु विशेषमवधारय ॥ 32 ॥
विश्वास-प्रस्तुतिः - 33
पचनालयमन्यत्र साधितं दीक्षितेतरैः।
अमन्त्रसंस्कृतं चान्नमविभक्तमलक्षणम् ॥ 33 ॥
मूलम् - 33
पचनालयमन्यत्र साधितं दीक्षितेतरैः।
अमन्त्रसंस्कृतं चान्नमविभक्तमलक्षणम् ॥ 33 ॥
विश्वास-प्रस्तुतिः - 34
निरीक्षितमयोग्यैश्च संपृष्ठं मक्षिकादिभिः।
संप्रोक्ष्य चास्त्रतोयेन निवेद्यं यत्नगौरवात् ॥ 34 ॥
मूलम् - 34
निरीक्षितमयोग्यैश्च संपृष्ठं मक्षिकादिभिः।
संप्रोक्ष्य चास्त्रतोयेन निवेद्यं यत्नगौरवात् ॥ 34 ॥
विश्वास-प्रस्तुतिः - 35
सेनेशाय न दातव्यं होमं कुर्याद्यथारुचि।
कारिभ्यः संप्रदानं च बलिदानं न कारयेत् ॥ 35 ॥
मूलम् - 35
सेनेशाय न दातव्यं होमं कुर्याद्यथारुचि।
कारिभ्यः संप्रदानं च बलिदानं न कारयेत् ॥ 35 ॥
विश्वास-प्रस्तुतिः - 36
अभ्यागतेष्वनाप्तेषु दीनानाथजनेष्वपि।
प्रदेयमन्यथा शान्तिहोमं कुर्यादनन्यधीः ॥ 36 ॥
मूलम् - 36
अभ्यागतेष्वनाप्तेषु दीनानाथजनेष्वपि।
प्रदेयमन्यथा शान्तिहोमं कुर्यादनन्यधीः ॥ 36 ॥
विश्वास-प्रस्तुतिः - 37
बिडालभूषिकासर्पमण्डूकाद्यैश्च जन्तुभिः।
कृमिकीटपतङ्गाद्यैर्वायसाद्यैश्च खेचरैः ॥ 37 ॥
मूलम् - 37
बिडालभूषिकासर्पमण्डूकाद्यैश्च जन्तुभिः।
कृमिकीटपतङ्गाद्यैर्वायसाद्यैश्च खेचरैः ॥ 37 ॥
विश्वास-प्रस्तुतिः - 38
न देयं देवदेवाय दुष्टं स्पृष्ठं महाहविः।
दत्ते हुत्वा च जप्त्वा च पुनर्दद्यान्महाहविः ॥ 38 ॥
मूलम् - 38
न देयं देवदेवाय दुष्टं स्पृष्ठं महाहविः।
दत्ते हुत्वा च जप्त्वा च पुनर्दद्यान्महाहविः ॥ 38 ॥
विश्वास-प्रस्तुतिः - 39
भोगमन्त्रक्रियाध्यानं मुद्राणामङ्गरूपिणाम्।
द्वारावरणपूर्वाणां बिंबपीठादिकारिणाम् ॥ 39 ॥
मूलम् - 39
भोगमन्त्रक्रियाध्यानं मुद्राणामङ्गरूपिणाम्।
द्वारावरणपूर्वाणां बिंबपीठादिकारिणाम् ॥ 39 ॥
विश्वास-प्रस्तुतिः - 40
कालानामपि चान्येषां नित्यनैमित्तिकात्मनाम्।
विपर्यासे प्रवृत्ते तु दिव्यैर्व्यापकपञ्चकैः ॥ 40 ॥
मूलम् - 40
कालानामपि चान्येषां नित्यनैमित्तिकात्मनाम्।
विपर्यासे प्रवृत्ते तु दिव्यैर्व्यापकपञ्चकैः ॥ 40 ॥
विश्वास-प्रस्तुतिः - 41
प्रत्येकं जुहुयान्मन्त्री तिलैश्चान्यैः शतं शतम्।
समित्परिदिदर्भाणां कूर्चानां हविषायपि ॥ 41 ॥
मूलम् - 41
प्रत्येकं जुहुयान्मन्त्री तिलैश्चान्यैः शतं शतम्।
समित्परिदिदर्भाणां कूर्चानां हविषायपि ॥ 41 ॥
विश्वास-प्रस्तुतिः - 42
आज्यस्थाल्यादिपात्राणमग्नेः स्थण्डिलकुण्डयोः।
स्त्रुक्स्रवस्य प्रणीताया अभावे लक्षणोज्झिते ॥ 42 ॥
मूलम् - 42
आज्यस्थाल्यादिपात्राणमग्नेः स्थण्डिलकुण्डयोः।
स्त्रुक्स्रवस्य प्रणीताया अभावे लक्षणोज्झिते ॥ 42 ॥
विश्वास-प्रस्तुतिः - 43
शान्त्यर्थं जुहुयान्मन्त्री प्राग्वद्व्यापकपञ्चकैः।
अभावे काष्ठसमिधामाज्येन चरुणा हुनेत् ॥ 43 ॥
मूलम् - 43
शान्त्यर्थं जुहुयान्मन्त्री प्राग्वद्व्यापकपञ्चकैः।
अभावे काष्ठसमिधामाज्येन चरुणा हुनेत् ॥ 43 ॥
विश्वास-प्रस्तुतिः - 44
समिद्भिराज्याभावे तु तिलैर्वा होममाचरेत्।
अलाभे हविषोऽन्येषामाज्येन जुहुयात् सुधीः ॥ 44 ॥
मूलम् - 44
समिद्भिराज्याभावे तु तिलैर्वा होममाचरेत्।
अलाभे हविषोऽन्येषामाज्येन जुहुयात् सुधीः ॥ 44 ॥
विश्वास-प्रस्तुतिः - 45
सर्वधाहोमकर्मार्थं तिलमाज्यं न लोपयेत्।
तिलाज्ययोरभावे तु हवनं स्यान्निरर्थकम् ॥ 45 ॥
मूलम् - 45
सर्वधाहोमकर्मार्थं तिलमाज्यं न लोपयेत्।
तिलाज्ययोरभावे तु हवनं स्यान्निरर्थकम् ॥ 45 ॥
विश्वास-प्रस्तुतिः - 46
शान्तिहोमं प्रकुर्वीत प्रतिष्ठायां यथोदितम्।
वह्नौ कुण्डे स्थले चुल्यां संस्कृतेऽनुगतिं गते ॥ 46 ॥
मूलम् - 46
शान्तिहोमं प्रकुर्वीत प्रतिष्ठायां यथोदितम्।
वह्नौ कुण्डे स्थले चुल्यां संस्कृतेऽनुगतिं गते ॥ 46 ॥
विश्वास-प्रस्तुतिः - 47
पुनराधाय संस्कृत्य शान्तिहोमादिकं हुनेत्।
वह्नौ स्पृष्टे तथाऽस्पृश्यैः केशास्थिनखरैरपि ॥ 47 ॥
मूलम् - 47
पुनराधाय संस्कृत्य शान्तिहोमादिकं हुनेत्।
वह्नौ स्पृष्टे तथाऽस्पृश्यैः केशास्थिनखरैरपि ॥ 47 ॥
विश्वास-प्रस्तुतिः - 48
यथावन्मूलमन्त्रेण जुहुयात् सर्पिषा शतम्।
उदक्यासूतिकाद्यैश्च सन्निकृष्टेऽयुतं हुनेत् ॥ 48 ॥
मूलम् - 48
यथावन्मूलमन्त्रेण जुहुयात् सर्पिषा शतम्।
उदक्यासूतिकाद्यैश्च सन्निकृष्टेऽयुतं हुनेत् ॥ 48 ॥
विश्वास-प्रस्तुतिः - 49
संस्पृष्टेऽन्यं समाधाय जुहुयाच्चायुतं जपेत्।
असमिद्धे हुते वह्नौ पुनर्होमं समाचरेत् ॥ 49 ॥
मूलम् - 49
संस्पृष्टेऽन्यं समाधाय जुहुयाच्चायुतं जपेत्।
असमिद्धे हुते वह्नौ पुनर्होमं समाचरेत् ॥ 49 ॥
विश्वास-प्रस्तुतिः - 50
नैमित्तिकेषु काम्येषु चोत्सवेषु बिशेषतः।
तदङ्गहुतभुग्यागं कुण्डेऽनय्स्मिन् समाचरेत् ॥ 50 ॥
मूलम् - 50
नैमित्तिकेषु काम्येषु चोत्सवेषु बिशेषतः।
तदङ्गहुतभुग्यागं कुण्डेऽनय्स्मिन् समाचरेत् ॥ 50 ॥
विश्वास-प्रस्तुतिः - 51
शान्तिहोमं प्रकुर्वीतं कृते चेत्तद्विपर्यये।
परिवारानमूर्तांश्च मूर्तांश्चैव यथाक्रमम् ॥ 51 ॥
मूलम् - 51
शान्तिहोमं प्रकुर्वीतं कृते चेत्तद्विपर्यये।
परिवारानमूर्तांश्च मूर्तांश्चैव यथाक्रमम् ॥ 51 ॥
विश्वास-प्रस्तुतिः - 52
अनर्चयित्वाऽहोरात्रं जपेत्तत्र पुरोऽन्तिके।
तन्मन्त्रांश्छतमष्टौ तु प्रत्येकं पूजनादिकम् ॥ 52 ॥
मूलम् - 52
अनर्चयित्वाऽहोरात्रं जपेत्तत्र पुरोऽन्तिके।
तन्मन्त्रांश्छतमष्टौ तु प्रत्येकं पूजनादिकम् ॥ 52 ॥
विश्वास-प्रस्तुतिः - 53
पतने बलिवस्तूनामस्पृश्यस्पर्शनेऽपि वा।
तथैव पात्रेऽबिमते केशलोष्टादिदूषिते ॥ 53 ॥
मूलम् - 53
पतने बलिवस्तूनामस्पृश्यस्पर्शनेऽपि वा।
तथैव पात्रेऽबिमते केशलोष्टादिदूषिते ॥ 53 ॥
विश्वास-प्रस्तुतिः - 54
तत्त्यक्त्वाऽन्येन निर्वर्त्य शान्तिहोमं समाचरेत्।
बलिं दुष्टे न दद्याच्चेच्छान्तिहोमपुरस्सरम् ॥ 54 ॥
मूलम् - 54

विश्वास-प्रस्तुतिः - 55
बलिं दत्वा विशेषेण प्रागुक्तं मन्त्रवान् जपेत्।
नित्योत्सवार्थबिम्बे तु यानान्निपतिते सति ॥ 55 ॥
मूलम् - 55
बलिं दत्वा विशेषेण प्रागुक्तं मन्त्रवान् जपेत्।
नित्योत्सवार्थबिम्बे तु यानान्निपतिते सति ॥ 55 ॥
विश्वास-प्रस्तुतिः - 56
तदेवोद्धृत्य तद्विम्बमक्षतं स्नाप्य मन्त्रवित्।
अधमाधममार्गेण शान्त्यर्थं जुहुयादनु ॥ 56 ॥
मूलम् - 56
तदेवोद्धृत्य तद्विम्बमक्षतं स्नाप्य मन्त्रवित्।
अधमाधममार्गेण शान्त्यर्थं जुहुयादनु ॥ 56 ॥
विश्वास-प्रस्तुतिः - 57
तथैव च क्षतं बिम्बं समाधाय यथापुरम्।
कृत्वा प्रातिष्ठिकं कर्म स्वस्थाने स्थापयेदनु ॥ 57 ॥
मूलम् - 57
तथैव च क्षतं बिम्बं समाधाय यथापुरम्।
कृत्वा प्रातिष्ठिकं कर्म स्वस्थाने स्थापयेदनु ॥ 57 ॥
विश्वास-प्रस्तुतिः - 58
यावत्समाधिकालं तु तावद्बिम्बान्तरेण वा।
कूर्चेन वाऽन्यबिम्बेन कुर्यान्नित्योत्सवं हरेः ॥ 58 ॥
मूलम् - 58
यावत्समाधिकालं तु तावद्बिम्बान्तरेण वा।
कूर्चेन वाऽन्यबिम्बेन कुर्यान्नित्योत्सवं हरेः ॥ 58 ॥
विश्वास-प्रस्तुतिः - 59
अस्पृश्यैर्वाथ संस्पृष्टे बलिबिम्बेऽभिषेचयेत्।
अधमाधमंमार्गेण शान्तिहोमपुरस्सरम् ॥ 59 ॥
मूलम् - 59
अस्पृश्यैर्वाथ संस्पृष्टे बलिबिम्बेऽभिषेचयेत्।
अधमाधमंमार्गेण शान्तिहोमपुरस्सरम् ॥ 59 ॥
विश्वास-प्रस्तुतिः - 60
यानस्थे त्वध बिम्बे तु व्यूढेऽयोग्यजनैः स्ति।
कुशोदकेन संप्रोक्ष्य शान्तिहोमं समाचरेत् ॥ 60 ॥
मूलम् - 60
यानस्थे त्वध बिम्बे तु व्यूढेऽयोग्यजनैः स्ति।
कुशोदकेन संप्रोक्ष्य शान्तिहोमं समाचरेत् ॥ 60 ॥
विश्वास-प्रस्तुतिः - 61
अस्पृश्यैर्यदि संस्पृष्टो बलिबिम्बस्य वाहकः।
पञ्चगव्येन संप्रोक्ष्य शुचिनाऽन्येन वाहयेत् ॥ 61 ॥
मूलम् - 61
अस्पृश्यैर्यदि संस्पृष्टो बलिबिम्बस्य वाहकः।
पञ्चगव्येन संप्रोक्ष्य शुचिनाऽन्येन वाहयेत् ॥ 61 ॥
विश्वास-प्रस्तुतिः - 62
मुद्रामन्त्रक्रियाध्यानद्रव्याणां भोगरूपिणाम्।
विंशेषाद्बलिकाले तु हानिरुत्पद्यते यदि ॥ 62 ॥
मूलम् - 62
मुद्रामन्त्रक्रियाध्यानद्रव्याणां भोगरूपिणाम्।
विंशेषाद्बलिकाले तु हानिरुत्पद्यते यदि ॥ 62 ॥
विश्वास-प्रस्तुतिः - 63
जपेन्मूलसहस्रं तु मन्त्री ध्यानसमन्वितः।
न दत्तं यदि दातव्यं फलपुष्पोदनादिकम् ॥ 63 ॥
मूलम् - 63
जपेन्मूलसहस्रं तु मन्त्री ध्यानसमन्वितः।
न दत्तं यदि दातव्यं फलपुष्पोदनादिकम् ॥ 63 ॥
विश्वास-प्रस्तुतिः - 64
देवोपभुक्तं योग्याय मूलमन्त्रायुतं जपेत्।
हुतशेषे हविश्शेषे भुक्ते योग्यजनैर्विना ॥ 64 ॥
मूलम् - 64
देवोपभुक्तं योग्याय मूलमन्त्रायुतं जपेत्।
हुतशेषे हविश्शेषे भुक्ते योग्यजनैर्विना ॥ 64 ॥
विश्वास-प्रस्तुतिः - 65
जपेन्मूलायुतं मन्त्री दाता किल्पिषशान्तये।
सात्वतैः सत्वनिरतैः सदा भगवतःप्रियैः ॥ 65 ॥
मूलम् - 65
जपेन्मूलायुतं मन्त्री दाता किल्पिषशान्तये।
सात्वतैः सत्वनिरतैः सदा भगवतःप्रियैः ॥ 65 ॥
विश्वास-प्रस्तुतिः - 66
तत्तं भगवते यद्यत् तत्तत् पावनपावनम्।
व्रह्नग्नस्य सुरापस्य स्वर्णस्तेयरतस्य च ॥ 66 ॥
मूलम् - 66
तत्तं भगवते यद्यत् तत्तत् पावनपावनम्।
व्रह्नग्नस्य सुरापस्य स्वर्णस्तेयरतस्य च ॥ 66 ॥
विश्वास-प्रस्तुतिः - 67
गुरुतल्परतस्यपि संयुक्तस्यापि तैः सह।
प्राशनं सर्वपापघ्नमन्येषापपि किं पुनः ॥ 67 ॥
मूलम् - 67
गुरुतल्परतस्यपि संयुक्तस्यापि तैः सह।
प्राशनं सर्वपापघ्नमन्येषापपि किं पुनः ॥ 67 ॥
विश्वास-प्रस्तुतिः - 68
तस्मात्तत् संप्रदातव्यं ज्ञानिनां मुख्यकल्पने।
त्रैवर्णिकानां दातव्यं दीक्षितानां तु मध्यमे ॥ 68 ॥
मूलम् - 68
तस्मात्तत् संप्रदातव्यं ज्ञानिनां मुख्यकल्पने।
त्रैवर्णिकानां दातव्यं दीक्षितानां तु मध्यमे ॥ 68 ॥
विश्वास-प्रस्तुतिः - 69
केवलानां तु भक्तानां त्रैविद्यानां द्विजन्मनाम्।
प्रधादानमनुकल्पे स्यादन्यथा प्राशयेत् स्वयम् ॥ 69 ॥
मूलम् - 69
केवलानां तु भक्तानां त्रैविद्यानां द्विजन्मनाम्।
प्रधादानमनुकल्पे स्यादन्यथा प्राशयेत् स्वयम् ॥ 69 ॥
विश्वास-प्रस्तुतिः - 70
विष्वक्सेनस्य यद्दत्तं पूजान्ते मन्त्रिभिर्विभोः।
न भोक्तव्यंविशेषेण त्यक्तव्यं भूजलादिषु ॥ 70 ॥
मूलम् - 70
विष्वक्सेनस्य यद्दत्तं पूजान्ते मन्त्रिभिर्विभोः।
न भोक्तव्यंविशेषेण त्यक्तव्यं भूजलादिषु ॥ 70 ॥
विश्वास-प्रस्तुतिः - 71
गोषु वा विष्णुभूतानां तृप्तये हितमिच्छताम्।
भोक्ता किल्बिषशान्त्यर्थं व्रतं चान्द्रायणं चरेत् ॥ 71 ॥
मूलम् - 71
गोषु वा विष्णुभूतानां तृप्तये हितमिच्छताम्।
भोक्ता किल्बिषशान्त्यर्थं व्रतं चान्द्रायणं चरेत् ॥ 71 ॥
विश्वास-प्रस्तुतिः - 72
संकल्प्य यागं होमान्तं हवनं न कृतं यदि।
द्विगुणं हवन कृत्वा पूर्णान्तं मन्त्रवित्तमः ॥ 72 ॥
मूलम् - 72
संकल्प्य यागं होमान्तं हवनं न कृतं यदि।
द्विगुणं हवन कृत्वा पूर्णान्तं मन्त्रवित्तमः ॥ 72 ॥
विश्वास-प्रस्तुतिः - 73
एकद्वित्रिचतुः पञ्चषट्कालेषु यथाक्रमम्।
एकार्दिदिनमासर्तुवत्सरेषु तथैव च ॥ 73 ॥
मूलम् - 73
एकद्वित्रिचतुः पञ्चषट्कालेषु यथाक्रमम्।
एकार्दिदिनमासर्तुवत्सरेषु तथैव च ॥ 73 ॥
विश्वास-प्रस्तुतिः - 74
वह्निकार्येषु लुप्तेषु नित्यनैमित्तिकेष्चपि।
द्विगुणं मिश्रितैर्होमैरधमस्नपनं चरेत् ॥ 74 ॥
मूलम् - 74
वह्निकार्येषु लुप्तेषु नित्यनैमित्तिकेष्चपि।
द्विगुणं मिश्रितैर्होमैरधमस्नपनं चरेत् ॥ 74 ॥
विश्वास-प्रस्तुतिः - 75
पूजालोपे प्रवक्ष्यामि प्रायश्चित्तं मुने श्रृणु।
औपचारिकसांस्पर्शहृदयंगमरूपिणाम् ॥ 75 ॥
मूलम् - 75
पूजालोपे प्रवक्ष्यामि प्रायश्चित्तं मुने श्रृणु।
औपचारिकसांस्पर्शहृदयंगमरूपिणाम् ॥ 75 ॥
विश्वास-प्रस्तुतिः - 76
परिच्युतौ च भोगानां त्रयाणां क्रमशो मुने!।
पूजान्ते सर्वबीजानि मात्रावित्तं घृतोदनम् ॥ 76 ॥
मूलम् - 76
परिच्युतौ च भोगानां त्रयाणां क्रमशो मुने!।
पूजान्ते सर्वबीजानि मात्रावित्तं घृतोदनम् ॥ 76 ॥
विश्वास-प्रस्तुतिः - 77
निवेदनीयं देवस्य विशेषेज्यापुरस्सरम्।
एककाले च दिवसे पक्षे वैशेषिकार्चनम् ॥ 77 ॥
मूलम् - 77
निवेदनीयं देवस्य विशेषेज्यापुरस्सरम्।
एककाले च दिवसे पक्षे वैशेषिकार्चनम् ॥ 77 ॥
विश्वास-प्रस्तुतिः - 78
तत्तद्द्विगुणितैर्द्रव्यैर्बलिहोमान्तमाचरेत्।
एकमासीयपूजाया यावद्द्वादशमासिकी ॥ 78 ॥
मूलम् - 78
तत्तद्द्विगुणितैर्द्रव्यैर्बलिहोमान्तमाचरेत्।
एकमासीयपूजाया यावद्द्वादशमासिकी ॥ 78 ॥
विश्वास-प्रस्तुतिः - 79
तावद्द्विगुणितैर्द्रव्यैर्माससङ्ख्यार्चनेऽपि च।
स्नपनं चापि नवकमधमाधमपूर्वकम् ॥ 79 ॥
मूलम् - 79
तावद्द्विगुणितैर्द्रव्यैर्माससङ्ख्यार्चनेऽपि च।
स्नपनं चापि नवकमधमाधमपूर्वकम् ॥ 79 ॥
विश्वास-प्रस्तुतिः - 80
मुख्योत्तमावसानं तु सहस्रकलशाप्लवम्।
संप्रोक्षणं च विध्युक्तं प्रतिष्ठां च क्रमाच्चरेत् ॥ 80 ॥
मूलम् - 80
मुख्योत्तमावसानं तु सहस्रकलशाप्लवम्।
संप्रोक्षणं च विध्युक्तं प्रतिष्ठां च क्रमाच्चरेत् ॥ 80 ॥
विश्वास-प्रस्तुतिः - 81
आरभ्य मासिकीं पूजां यावद्द्वादशमासिकी।
तावदेकैकवृद्ध्या तु महता हविषा यजेत् ॥ 81 ॥
मूलम् - 81
आरभ्य मासिकीं पूजां यावद्द्वादशमासिकी।
तावदेकैकवृद्ध्या तु महता हविषा यजेत् ॥ 81 ॥
विश्वास-प्रस्तुतिः - 82
समिद्भिः सप्तभिर्हुत्वा पुरा पश्चाद्धृताप्लुतैः।
घृतैश्च जुहुयान्मन्त्री त्वासहस्राद्यथाबलम् ॥ 82 ॥
मूलम् - 82
समिद्भिः सप्तभिर्हुत्वा पुरा पश्चाद्धृताप्लुतैः।
घृतैश्च जुहुयान्मन्त्री त्वासहस्राद्यथाबलम् ॥ 82 ॥
विश्वास-प्रस्तुतिः - 83
तथैव च जपं कुर्यान्मूलमन्त्रस्य सादरम्।
वलिप्रदानहीने तु हुत्वा मूलशत ततः ॥ 83 ॥
मूलम् - 83
तथैव च जपं कुर्यान्मूलमन्त्रस्य सादरम्।
वलिप्रदानहीने तु हुत्वा मूलशत ततः ॥ 83 ॥
विश्वास-प्रस्तुतिः - 84
तत्तदावरणद्वारदेवानां स्वस्वसंज्ञया।
जुहुयात्तिलमिश्रेण घृतेनैव शतं शतम् ॥ 84 ॥
मूलम् - 84
तत्तदावरणद्वारदेवानां स्वस्वसंज्ञया।
जुहुयात्तिलमिश्रेण घृतेनैव शतं शतम् ॥ 84 ॥
विश्वास-प्रस्तुतिः - 85
प्रायश्चित्तं प्रवक्ष्यामि नित्यादिस्नपनेषु ते।
गृहार्चने प्रकुर्वीत नित्यादिस्नपनं सुधीः ॥ 85 ॥
मूलम् - 85
प्रायश्चित्तं प्रवक्ष्यामि नित्यादिस्नपनेषु ते।
गृहार्चने प्रकुर्वीत नित्यादिस्नपनं सुधीः ॥ 85 ॥
विश्वास-प्रस्तुतिः - 86
तत्र स्नानीयतोयेन पूजार्थमभिषेचयेत्।
वहुबेरे तु कर्मार्चां स्नापयेदग्रमण्टपे ॥ 86 ॥
मूलम् - 86
तत्र स्नानीयतोयेन पूजार्थमभिषेचयेत्।
वहुबेरे तु कर्मार्चां स्नापयेदग्रमण्टपे ॥ 86 ॥
विश्वास-प्रस्तुतिः - 87
प्रासादे वितते ब्रह्नभागस्थे भद्रविष्टरे।
स्नापयेत् स्नानकलशैः स्थापितैरग्रमण्टपे ॥ 87 ॥
मूलम् - 87
प्रासादे वितते ब्रह्नभागस्थे भद्रविष्टरे।
स्नापयेत् स्नानकलशैः स्थापितैरग्रमण्टपे ॥ 87 ॥
विश्वास-प्रस्तुतिः - 88
मद्याह्ने चापि सायाह्ने स्नानीयकलशोद्धृतैः।
स्नानद्रव्यसमेतैर्वा वारिभिः प्रोक्षयेत् क्रमात् ॥ 88 ॥
मूलम् - 88
मद्याह्ने चापि सायाह्ने स्नानीयकलशोद्धृतैः।
स्नानद्रव्यसमेतैर्वा वारिभिः प्रोक्षयेत् क्रमात् ॥ 88 ॥
विश्वास-प्रस्तुतिः - 89
मूलबिम्बादिबिम्बानां कुर्याद्वा विनिवेदनम्।
बहुबेरेऽभिषेकार्चां तां गृहीत्वाग्रमण्टपात् ॥ 89 ॥
मूलम् - 89
मूलबिम्बादिबिम्बानां कुर्याद्वा विनिवेदनम्।
बहुबेरेऽभिषेकार्चां तां गृहीत्वाग्रमण्टपात् ॥ 89 ॥
विश्वास-प्रस्तुतिः - 90
न गच्छेद्बाह्यतो मन्त्री स्नपनार्थं बहिर्गते।
शान्तिहोमं प्रकुर्वीत तस्य दोषस्य शान्तये ॥ 90 ॥
मूलम् - 90
न गच्छेद्बाह्यतो मन्त्री स्नपनार्थं बहिर्गते।
शान्तिहोमं प्रकुर्वीत तस्य दोषस्य शान्तये ॥ 90 ॥
विश्वास-प्रस्तुतिः - 91
एकबेरे बृहद्रूपे कर्मार्चामभिषेचयेत्।
बृहद्धटैश्च बहुभिः सहस्रकलशादिभिः ॥ 91 ॥
मूलम् - 91
एकबेरे बृहद्रूपे कर्मार्चामभिषेचयेत्।
बृहद्धटैश्च बहुभिः सहस्रकलशादिभिः ॥ 91 ॥
विश्वास-प्रस्तुतिः - 92
यदाभिषेको बाह्यस्थे मण्टपे स्नानकौतुकम्।
संस्नाप्य विधिवन्मन्त्री महता विभवेन तु ॥ 92 ॥
मूलम् - 92
यदाभिषेको बाह्यस्थे मण्टपे स्नानकौतुकम्।
संस्नाप्य विधिवन्मन्त्री महता विभवेन तु ॥ 92 ॥
विश्वास-प्रस्तुतिः - 93
पूजयित्वोत्सवार्चायां विनिवेद्य महाहविः।
कलशस्नपनार्थं चेन्न कुर्यादङ्कुरार्पणम् ॥ 93 ॥
मूलम् - 93
पूजयित्वोत्सवार्चायां विनिवेद्य महाहविः।
कलशस्नपनार्थं चेन्न कुर्यादङ्कुरार्पणम् ॥ 93 ॥
विश्वास-प्रस्तुतिः - 94
तथा प्रतिसराबन्धं मूलमन्त्रायुतं जपेत्।
पुरस्तादङ्कुरानर्प्य बद्ध्रवा बिम्बेऽपि कौतुकम् ॥ 94 ॥
मूलम् - 94
तथा प्रतिसराबन्धं मूलमन्त्रायुतं जपेत्।
पुरस्तादङ्कुरानर्प्य बद्ध्रवा बिम्बेऽपि कौतुकम् ॥ 94 ॥
विश्वास-प्रस्तुतिः - 95
अमत्या वा समत्या वा स्नपनं नाचरेद्यदि।
शान्तिहोमं पुरा कृत्वा जपेदष्टोत्तरायुतम् ॥ 95 ॥
मूलम् - 95
अमत्या वा समत्या वा स्नपनं नाचरेद्यदि।
शान्तिहोमं पुरा कृत्वा जपेदष्टोत्तरायुतम् ॥ 95 ॥
विश्वास-प्रस्तुतिः - 96
कौतुकाङ्कुरपूर्वं तु पुनरेवाभिषेचयेत्।
अकृत्वाङ्कुरयागं तु तथा कौतुकनन्धनम् ॥ 96 ॥
मूलम् - 96
कौतुकाङ्कुरपूर्वं तु पुनरेवाभिषेचयेत्।
अकृत्वाङ्कुरयागं तु तथा कौतुकनन्धनम् ॥ 96 ॥
विश्वास-प्रस्तुतिः - 97
स्नापितो यदि देवेशः स्नानं तन्निष्फलं भवेत्।
विधिवच्चाङ्कुरावापं तथा कौतुकबन्धनम् ॥ 97 ॥
मूलम् - 97
स्नापितो यदि देवेशः स्नानं तन्निष्फलं भवेत्।
विधिवच्चाङ्कुरावापं तथा कौतुकबन्धनम् ॥ 97 ॥
विश्वास-प्रस्तुतिः - 98
स्नापयेद्विधिवन्मन्त्री शान्तिहोमषुरस्सरम्।
संकल्पिते तु स्नपने त्वकृते द्विगुणं चरेत् ॥ 98 ॥
मूलम् - 98
स्नापयेद्विधिवन्मन्त्री शान्तिहोमषुरस्सरम्।
संकल्पिते तु स्नपने त्वकृते द्विगुणं चरेत् ॥ 98 ॥
विश्वास-प्रस्तुतिः - 99
नासादितैर्द्रव्यहीनैः स्नापितेऽप्येवमाचरेत्।
अधिवासितकुंभस्थतोयानां पूर्वमेव तु ॥ 99 ॥
मूलम् - 99
नासादितैर्द्रव्यहीनैः स्नापितेऽप्येवमाचरेत्।
अधिवासितकुंभस्थतोयानां पूर्वमेव तु ॥ 99 ॥
विश्वास-प्रस्तुतिः - 100
न पर्युषितहानिः स्यान्मन्त्रन्यासैस्तथार्चनैः।
स्थापितेष्वथ कुंभेषु हीनेषु स्थाप्य पूर्ववत् ॥ 100 ॥
मूलम् - 100
न पर्युषितहानिः स्यान्मन्त्रन्यासैस्तथार्चनैः।
स्थापितेष्वथ कुंभेषु हीनेषु स्थाप्य पूर्ववत् ॥ 100 ॥
विश्वास-प्रस्तुतिः - 101
जपेत् कलशदैवत्यं मन्त्रमष्टोत्तरं शतम्।
समुद्धृतेषु कुंभेषु रिक्तेषु सुषिरादिना ॥ 101 ॥
मूलम् - 101
जपेत् कलशदैवत्यं मन्त्रमष्टोत्तरं शतम्।
समुद्धृतेषु कुंभेषु रिक्तेषु सुषिरादिना ॥ 101 ॥
विश्वास-प्रस्तुतिः - 102
प्राग्वदन्यं प्रतिष्ठाप्य जपेदष्टोत्तरं शतम्।
अस्पृश्यैश्च तथा स्पृष्ठे मार्जाराराद्यैश्च दंशिते ॥ 102 ॥
मूलम् - 102
प्राग्वदन्यं प्रतिष्ठाप्य जपेदष्टोत्तरं शतम्।
अस्पृश्यैश्च तथा स्पृष्ठे मार्जाराराद्यैश्च दंशिते ॥ 102 ॥
विश्वास-प्रस्तुतिः - 103
श्वादिभिः कुक्कुटाद्यैर्वा शबराद्यैर्विजातिभिः।
केशास्थिलोष्टसंदुष्टे पुनः कलशसञ्चये ॥ 103 ॥
मूलम् - 103
श्वादिभिः कुक्कुटाद्यैर्वा शबराद्यैर्विजातिभिः।
केशास्थिलोष्टसंदुष्टे पुनः कलशसञ्चये ॥ 103 ॥
विश्वास-प्रस्तुतिः - 104
सद्द्रव्यं पूर्ववत् स्थाप्य तद्दैवत्यं जपेच्छतम्।
दुष्टैः संस्नापिते देवे पुनरप्यभिषेचयेत् ॥ 104 ॥
मूलम् - 104
सद्द्रव्यं पूर्ववत् स्थाप्य तद्दैवत्यं जपेच्छतम्।
दुष्टैः संस्नापिते देवे पुनरप्यभिषेचयेत् ॥ 104 ॥
विश्वास-प्रस्तुतिः - 105
व्यापकैः पञ्चभिर्मन्त्रैः प्रत्येकं जुहुयाच्छतम्।
पूर्ववत् कुंभदैवत्यं जपेद्ध्यानसमन्वितम् ॥ 105 ॥
मूलम् - 105
व्यापकैः पञ्चभिर्मन्त्रैः प्रत्येकं जुहुयाच्छतम्।
पूर्ववत् कुंभदैवत्यं जपेद्ध्यानसमन्वितम् ॥ 105 ॥
विश्वास-प्रस्तुतिः - 106
अक्रमेण समुद्धारे स्थापने द्रव्ययोजने।
अनर्चने च मन्त्राणां जपेदष्टोत्तरं शतम् ॥ 106 ॥
मूलम् - 106
अक्रमेण समुद्धारे स्थापने द्रव्ययोजने।
अनर्चने च मन्त्राणां जपेदष्टोत्तरं शतम् ॥ 106 ॥
विश्वास-प्रस्तुतिः - 107
माहिषाजोष्ट्रसंभूतैः दधिक्षीरघृतादिभिः।
स्नपनाद्देवदेवस्य मूलमन्त्रेण मन्त्रवित् ॥ 107 ॥
मूलम् - 107
माहिषाजोष्ट्रसंभूतैः दधिक्षीरघृतादिभिः।
स्नपनाद्देवदेवस्य मूलमन्त्रेण मन्त्रवित् ॥ 107 ॥
विश्वास-प्रस्तुतिः - 108
समिद्भिः सप्तभिर्होमं कुर्यादष्टोत्तरं शतत्।
गेयमङ्गलवादित्रस्तोत्रनृत्तादिभिर्विना ॥ 108 ॥
मूलम् - 108
समिद्भिः सप्तभिर्होमं कुर्यादष्टोत्तरं शतत्।
गेयमङ्गलवादित्रस्तोत्रनृत्तादिभिर्विना ॥ 108 ॥
विश्वास-प्रस्तुतिः - 109
वीणावेणुनिनादैश्च तथा पुण्यहवाचनैः।
विनाबिषेचिते मूलं शतमष्टोत्तरं जपेत् ॥ 109 ॥
मूलम् - 109
वीणावेणुनिनादैश्च तथा पुण्यहवाचनैः।
विनाबिषेचिते मूलं शतमष्टोत्तरं जपेत् ॥ 109 ॥
विश्वास-प्रस्तुतिः - 110
बिम्बेऽभिषिच्यमाने तु पतिते स्नानविष्टरात्।
चलिते वा विशेषेण प्रतिष्ठास्नपनं चरेत् ॥ 110 ॥
मूलम् - 110
बिम्बेऽभिषिच्यमाने तु पतिते स्नानविष्टरात्।
चलिते वा विशेषेण प्रतिष्ठास्नपनं चरेत् ॥ 110 ॥
विश्वास-प्रस्तुतिः - 111
चरुणा सर्पिषा चैव प्रागुक्तैर्मूलपञ्चकैः।
हुत्वा चाष्टोत्तरशतं तत्सङ्ख्यं च जपेत्ततः ॥ 111 ॥
मूलम् - 111
चरुणा सर्पिषा चैव प्रागुक्तैर्मूलपञ्चकैः।
हुत्वा चाष्टोत्तरशतं तत्सङ्ख्यं च जपेत्ततः ॥ 111 ॥
विश्वास-प्रस्तुतिः - 112
प्रभापीठास्त्रवस्त्राह्गभेदभङ्गादिदूषिते।
तत्तद्विम्बगतां शक्तिं नियोज्य ध्रुवकौतुके ॥ 112 ॥
मूलम् - 112
प्रभापीठास्त्रवस्त्राह्गभेदभङ्गादिदूषिते।
तत्तद्विम्बगतां शक्तिं नियोज्य ध्रुवकौतुके ॥ 112 ॥
विश्वास-प्रस्तुतिः - 113
सन्धानं शिल्पिभिः कृत्वा सुसंस्कृत्य तदैव तु।
शेषकर्मणि निर्वृत्ते स्नापयेदुत्तमक्रमात् ॥ 113 ॥
मूलम् - 113
सन्धानं शिल्पिभिः कृत्वा सुसंस्कृत्य तदैव तु।
शेषकर्मणि निर्वृत्ते स्नापयेदुत्तमक्रमात् ॥ 113 ॥
विश्वास-प्रस्तुतिः - 114
तिलेन चरुणाज्येन प्रत्येकं च सहस्रशः।
जुहुयान्मूलमन्त्रेण तेन शान्तिर्भविष्यति ॥ 114 ॥
मूलम् - 114
तिलेन चरुणाज्येन प्रत्येकं च सहस्रशः।
जुहुयान्मूलमन्त्रेण तेन शान्तिर्भविष्यति ॥ 114 ॥
विश्वास-प्रस्तुतिः - 115
तदा न घटितुं शक्तिर्यदि स्याद्यत्नगौरवात्।
शोभार्थबिम्बैः पुरतः स्थापितैः शेषमाचरेत् ॥ 115 ॥
मूलम् - 115
तदा न घटितुं शक्तिर्यदि स्याद्यत्नगौरवात्।
शोभार्थबिम्बैः पुरतः स्थापितैः शेषमाचरेत् ॥ 115 ॥
विश्वास-प्रस्तुतिः - 116
एवमुत्सवतीर्थार्थशयनादिषु मूर्तिषु।
तत्तदङ्गादिसन्धानं स्थापनं योजनं पुन ॥ 116 ॥
मूलम् - 116
एवमुत्सवतीर्थार्थशयनादिषु मूर्तिषु।
तत्तदङ्गादिसन्धानं स्थापनं योजनं पुन ॥ 116 ॥
विश्वास-प्रस्तुतिः - 117
उक्तप्रमाणादधिके हीने स्नपनवस्तुनि।
शरावे कलशे कूर्चे वस्त्रे कोष्टे सदस्यपि ॥ 117 ॥
मूलम् - 117
उक्तप्रमाणादधिके हीने स्नपनवस्तुनि।
शरावे कलशे कूर्चे वस्त्रे कोष्टे सदस्यपि ॥ 117 ॥
विश्वास-प्रस्तुतिः - 118
पालिकादौ तथा पीठे तोरणे चाष्टमङ्गले।
द्वारमङ्गलकुंभेषु साधनेष्वितरेष्वपि ॥ 118 ॥
मूलम् - 118
पालिकादौ तथा पीठे तोरणे चाष्टमङ्गले।
द्वारमङ्गलकुंभेषु साधनेष्वितरेष्वपि ॥ 118 ॥
विश्वास-प्रस्तुतिः - 119
मूलमन्त्रं जपेन्मन्त्री शतमष्टाधिकं सुधीः।
मोक्षार्थी स्नापयेद्देवं सर्वकालं यथाविधि ॥ 119 ॥
मूलम् - 119
मूलमन्त्रं जपेन्मन्त्री शतमष्टाधिकं सुधीः।
मोक्षार्थी स्नापयेद्देवं सर्वकालं यथाविधि ॥ 119 ॥
विश्वास-प्रस्तुतिः - 120
रिपूणां निग्रहार्थाय दिवा कुर्यात्तु सर्वदा।
स्वर्गकामस्तु पूर्वाह्णे धर्मार्थी दिनमध्यमे ॥ 120 ॥
मूलम् - 120
रिपूणां निग्रहार्थाय दिवा कुर्यात्तु सर्वदा।
स्वर्गकामस्तु पूर्वाह्णे धर्मार्थी दिनमध्यमे ॥ 120 ॥
विश्वास-प्रस्तुतिः - 121
विनान्ते सर्वभोगार्थी प्रायश्चित्तेषु सर्वदा।
चन्द्वसूर्योपरागे च तत्काले स्नापयेद्विभुम् ॥ 121 ॥
मूलम् - 121
विनान्ते सर्वभोगार्थी प्रायश्चित्तेषु सर्वदा।
चन्द्वसूर्योपरागे च तत्काले स्नापयेद्विभुम् ॥ 121 ॥
विश्वास-प्रस्तुतिः - 122
संक्रान्तिषु च सूर्यस्य प्राग्वत् पश्चात्तथैव च।
सङ्क्रान्तिकालविज्ञानान्नाड्यः षोडश षोडश ॥ 122 ॥
मूलम् - 122
संक्रान्तिषु च सूर्यस्य प्राग्वत् पश्चात्तथैव च।
सङ्क्रान्तिकालविज्ञानान्नाड्यः षोडश षोडश ॥ 122 ॥
विश्वास-प्रस्तुतिः - 123
तदानीं स्नापयेद्देवमनुक्रान्ते हुनेन्मनुम्।
सहस्रकृत्वस्तदनु तत्समं जपमाचरेत् ॥ 123 ॥
मूलम् - 123
तदानीं स्नापयेद्देवमनुक्रान्ते हुनेन्मनुम्।
सहस्रकृत्वस्तदनु तत्समं जपमाचरेत् ॥ 123 ॥
विश्वास-प्रस्तुतिः - 124
पुरस्तात् सर्वकर्मार्थमङ्कुरेष्वर्पितेष्वनु।
रक्तेषु श्यामवर्णेषु तथा तिर्यग्गतेषु च ॥ 124 ॥
मूलम् - 124
पुरस्तात् सर्वकर्मार्थमङ्कुरेष्वर्पितेष्वनु।
रक्तेषु श्यामवर्णेषु तथा तिर्यग्गतेषु च ॥ 124 ॥
विश्वास-प्रस्तुतिः - 125
वक्रेषु चाप्ररूढेषु दक्षिणाबिमुखेषु च।
विधिहीनेषु चास्पृश्यस्पृष्टेष्वधिकृतैर्विना ॥ 125 ॥
मूलम् - 125
वक्रेषु चाप्ररूढेषु दक्षिणाबिमुखेषु च।
विधिहीनेषु चास्पृश्यस्पृष्टेष्वधिकृतैर्विना ॥ 125 ॥
विश्वास-प्रस्तुतिः - 126
पालिकादिषु भिन्नेषु नष्टेषु पतितेषु च।
मूषिकाद्यैश्च दष्टेषु मूलमन्त्रायुतं जपेत् ॥ 126 ॥
मूलम् - 126
पालिकादिषु भिन्नेषु नष्टेषु पतितेषु च।
मूषिकाद्यैश्च दष्टेषु मूलमन्त्रायुतं जपेत् ॥ 126 ॥
विश्वास-प्रस्तुतिः - 127
पुरस्तादेकयागार्थमङ्कुरेष्वर्पितेषु च।
असमाप्ते ततस्तस्मिन् प्राप्ते वैशेषिकान्तरे ॥ 127 ॥
मूलम् - 127
पुरस्तादेकयागार्थमङ्कुरेष्वर्पितेषु च।
असमाप्ते ततस्तस्मिन् प्राप्ते वैशेषिकान्तरे ॥ 127 ॥
विश्वास-प्रस्तुतिः - 128
तदर्थमपि कुर्वीत पालिकास्वङ्कुरार्पणम्।
उत्सवाद्यन्तयोर्मध्ये रक्षासूत्रविवर्जितम् ॥ 128 ॥
मूलम् - 128
तदर्थमपि कुर्वीत पालिकास्वङ्कुरार्पणम्।
उत्सवाद्यन्तयोर्मध्ये रक्षासूत्रविवर्जितम् ॥ 128 ॥
विश्वास-प्रस्तुतिः - 129
बद्धप्रतिसरे बिम्बे स्नपनार्थं तु मन्त्रिणा।
संप्राप्ते स्नपनेऽन्यस्मिन् शीर्घकर्मनिमित्ततः ॥ 129 ॥
मूलम् - 129
बद्धप्रतिसरे बिम्बे स्नपनार्थं तु मन्त्रिणा।
संप्राप्ते स्नपनेऽन्यस्मिन् शीर्घकर्मनिमित्ततः ॥ 129 ॥
विश्वास-प्रस्तुतिः - 130
तदर्थं कौतुकं बध्वा स्नानकर्म समाप्य च।
पूर्वारब्धं प्रकुर्वीत प्रायश्चित्तादनन्तरम् ॥ 130 ॥
मूलम् - 130
तदर्थं कौतुकं बध्वा स्नानकर्म समाप्य च।
पूर्वारब्धं प्रकुर्वीत प्रायश्चित्तादनन्तरम् ॥ 130 ॥
विश्वास-प्रस्तुतिः - 131
अन्यत्र कमशः कुर्यात् पूर्वारब्धं समाप्य च।
अन्यथा चेदिदं कर्म निष्फलं भवति द्विज! ॥ 131 ॥
मूलम् - 131
अन्यत्र कमशः कुर्यात् पूर्वारब्धं समाप्य च।
अन्यथा चेदिदं कर्म निष्फलं भवति द्विज! ॥ 131 ॥
विश्वास-प्रस्तुतिः - 132
तद्दोषपरिहारार्थं शान्तिहोमो जपस्तथा।
सहस्रसङ्ख्याया युक्तो मूलमन्त्रेण मन्त्रवित् ॥ 132 ॥
मूलम् - 132
तद्दोषपरिहारार्थं शान्तिहोमो जपस्तथा।
सहस्रसङ्ख्याया युक्तो मूलमन्त्रेण मन्त्रवित् ॥ 132 ॥
विश्वास-प्रस्तुतिः - 133
स्नपनेऽस्मिन्नतिक्रान्ते मूलमन्त्रायुतं जपेत्।
मूषिकासर्पमण्डूकचुचुंदर्यादिजन्तुभिः ॥ 133 ॥
मूलम् - 133
स्नपनेऽस्मिन्नतिक्रान्ते मूलमन्त्रायुतं जपेत्।
मूषिकासर्पमण्डूकचुचुंदर्यादिजन्तुभिः ॥ 133 ॥
विश्वास-प्रस्तुतिः - 134
स्थापिते कलशे स्पृष्टे लङ्घिते सति तं त्यजेत्।
पुनरन्यं तथा स्थाप्य जपेन्मूलशतं गुरुः ॥ 134 ॥
मूलम् - 134
स्थापिते कलशे स्पृष्टे लङ्घिते सति तं त्यजेत्।
पुनरन्यं तथा स्थाप्य जपेन्मूलशतं गुरुः ॥ 134 ॥
विश्वास-प्रस्तुतिः - 135
प्रायश्चित्तेष्वनुक्तेषु एवमांदिषु सत्सु च।
मूलमंत्रायुतं चैव जपेदष्टोत्तरं गुरुः ॥ 135 ॥
मूलम् - 135
प्रायश्चित्तेष्वनुक्तेषु एवमांदिषु सत्सु च।
मूलमंत्रायुतं चैव जपेदष्टोत्तरं गुरुः ॥ 135 ॥
विश्वास-प्रस्तुतिः - 136
प्रायश्चित्तं प्रवक्ष्यामि महोत्सवविधौ मुने!।
गृहे प्रतिष्ठिते बिम्बे न कुर्वीत महोत्सवम् ॥ 136 ॥
मूलम् - 136
प्रायश्चित्तं प्रवक्ष्यामि महोत्सवविधौ मुने!।
गृहे प्रतिष्ठिते बिम्बे न कुर्वीत महोत्सवम् ॥ 136 ॥
विश्वास-प्रस्तुतिः - 137
स्वतन्त्रं परतन्त्रं च दिव्याद्यायतनं द्विधा।
पर्वताग्रे नदीतीरे तीर्थानां निकटे विभोः ॥ 137 ॥
मूलम् - 137
स्वतन्त्रं परतन्त्रं च दिव्याद्यायतनं द्विधा।
पर्वताग्रे नदीतीरे तीर्थानां निकटे विभोः ॥ 137 ॥
विश्वास-प्रस्तुतिः - 138
स्थापितस्यालयं विद्धि स्वतन्त्रमिति सत्तम।
ग्रामाद्यङ्गतया क्लृप्तमस्वतन्त्रमितीरितम् ॥ 138 ॥
मूलम् - 138
स्थापितस्यालयं विद्धि स्वतन्त्रमिति सत्तम।
ग्रामाद्यङ्गतया क्लृप्तमस्वतन्त्रमितीरितम् ॥ 138 ॥
विश्वास-प्रस्तुतिः - 139
तयोर्महोत्सवं कुर्यात् त्रयोदशविधं मुने!।
सङ्कल्प्यैकतमे तत्र प्रवृत्ते वत्सरं प्रति ॥ 139 ॥
मूलम् - 139
तयोर्महोत्सवं कुर्यात् त्रयोदशविधं मुने!।
सङ्कल्प्यैकतमे तत्र प्रवृत्ते वत्सरं प्रति ॥ 139 ॥
विश्वास-प्रस्तुतिः - 140
न तु कुर्याद्विभूत्यर्थं तस्मान्न्यूनं दिनोत्सवम्।
अमत्या यदि कुर्वीत कुर्यादूर्ध्वं गतोत्सवम् ॥ 140 ॥
मूलम् - 140
न तु कुर्याद्विभूत्यर्थं तस्मान्न्यूनं दिनोत्सवम्।
अमत्या यदि कुर्वीत कुर्यादूर्ध्वं गतोत्सवम् ॥ 140 ॥
विश्वास-प्रस्तुतिः - 141
प्राक् प्रवृत्तं तु शान्त्यर्थमन्यथा स्यान्नृपक्षयः।
प्रमाणरहिते वंशे पटे बालध्वजेऽपि च ॥ 141 ॥
मूलम् - 141
प्राक् प्रवृत्तं तु शान्त्यर्थमन्यथा स्यान्नृपक्षयः।
प्रमाणरहिते वंशे पटे बालध्वजेऽपि च ॥ 141 ॥
विश्वास-प्रस्तुतिः - 142
वर्णभूषणमानाद्ये दण्डे यष्टौ च दैणवे।
फेणके चावटे पीठे प्रपायां ध्वजरज्जुनि ॥ 142 ॥
मूलम् - 142
वर्णभूषणमानाद्ये दण्डे यष्टौ च दैणवे।
फेणके चावटे पीठे प्रपायां ध्वजरज्जुनि ॥ 142 ॥
विश्वास-प्रस्तुतिः - 143
विधिवच्छान्तिहोमं तु जपान्तं प्राग्वदाचरेत्।
छिन्ने भिन्नेऽग्निना दब्धे नष्टे मूषिकदंशिते ॥ 143 ॥
मूलम् - 143
विधिवच्छान्तिहोमं तु जपान्तं प्राग्वदाचरेत्।
छिन्ने भिन्नेऽग्निना दब्धे नष्टे मूषिकदंशिते ॥ 143 ॥
विश्वास-प्रस्तुतिः - 144
विण्मूत्ररुधिरापेयरेतोनिष्ठीवनादिभिः।
दूषितं ध्वजमुत्सृज्य प्राग्वदन्यं समाहरेत् ॥ 144 ॥
मूलम् - 144
विण्मूत्ररुधिरापेयरेतोनिष्ठीवनादिभिः।
दूषितं ध्वजमुत्सृज्य प्राग्वदन्यं समाहरेत् ॥ 144 ॥
विश्वास-प्रस्तुतिः - 145
प्रतिष्ठाप्याथ दण्डाग्रं मानयित्वाधमेन तु।
संस्नाप्य दोषशान्त्यर्थं जुहुयात् सर्पिषा शतम् ॥ 145 ॥
मूलम् - 145
प्रतिष्ठाप्याथ दण्डाग्रं मानयित्वाधमेन तु।
संस्नाप्य दोषशान्त्यर्थं जुहुयात् सर्पिषा शतम् ॥ 145 ॥
विश्वास-प्रस्तुतिः - 146
स्तम्भाग्रे ध्वजवस्त्रस्य रक्षाकार्याय दीक्षितैः।
आरोहणं न दोषोऽत्र रक्षाहेतोर्द्विजादिभिः ॥ 146 ॥
मूलम् - 146
स्तम्भाग्रे ध्वजवस्त्रस्य रक्षाकार्याय दीक्षितैः।
आरोहणं न दोषोऽत्र रक्षाहेतोर्द्विजादिभिः ॥ 146 ॥
विश्वास-प्रस्तुतिः - 147
सुजीर्णान् फेणदण्डादीन् परित्यज्य ततोऽपरान्।
संस्कृत्य योजयेत्तत्र बध्वा तु ध्वजमञ्जसा ॥ 147 ॥
मूलम् - 147
सुजीर्णान् फेणदण्डादीन् परित्यज्य ततोऽपरान्।
संस्कृत्य योजयेत्तत्र बध्वा तु ध्वजमञ्जसा ॥ 147 ॥
विश्वास-प्रस्तुतिः - 148
मध्यमस्नपनान्तं तु शान्तिहोमं समाचरेत्।
वर्षवातातपस्पर्शैः लुप्तवर्णे खगध्वजे ॥ 148 ॥
मूलम् - 148
मध्यमस्नपनान्तं तु शान्तिहोमं समाचरेत्।
वर्षवातातपस्पर्शैः लुप्तवर्णे खगध्वजे ॥ 148 ॥
विश्वास-प्रस्तुतिः - 149
न किंचिदप्यनिष्टं स्यात् स्तंभाग्रे यावदुत्सवम्।
बध्वा ध्वजपटे स्तम्भे वातवेगादिहेतुभिः ॥ 149 ॥
मूलम् - 149
न किंचिदप्यनिष्टं स्यात् स्तंभाग्रे यावदुत्सवम्।
बध्वा ध्वजपटे स्तम्भे वातवेगादिहेतुभिः ॥ 149 ॥
विश्वास-प्रस्तुतिः - 150
तमूलदेशे तु विच्छिन्ने सध्वजे पतिते सति।
अकृत्वा ध्वजविश्लेषं स्थापयेच्छेषमञ्जसा ॥ 150 ॥
मूलम् - 150
तमूलदेशे तु विच्छिन्ने सध्वजे पतिते सति।
अकृत्वा ध्वजविश्लेषं स्थापयेच्छेषमञ्जसा ॥ 150 ॥
विश्वास-प्रस्तुतिः - 151
स्नपनं चोत्तमं कुर्यात् चतुः स्थानार्चनादिकम्।
गोभूहेमयवादीनां दानं शक्त्या समाचरेत् ॥ 151 ॥
मूलम् - 151
स्नपनं चोत्तमं कुर्यात् चतुः स्थानार्चनादिकम्।
गोभूहेमयवादीनां दानं शक्त्या समाचरेत् ॥ 151 ॥
विश्वास-प्रस्तुतिः - 152
उत्सवध्वजभङ्गेन राज्याद्भ्रष्टो भवेन्नृपः।
तस्मात्तत्परिहारार्थं त्वरया शान्तिमाचरेत् ॥ 152 ॥
मूलम् - 152
उत्सवध्वजभङ्गेन राज्याद्भ्रष्टो भवेन्नृपः।
तस्मात्तत्परिहारार्थं त्वरया शान्तिमाचरेत् ॥ 152 ॥
विश्वास-प्रस्तुतिः - 153
हेतुभिर्वातवेगाद्यैर्ध्वजे निपतिते भुवि।
क्षिप्रमुद्धृत्य तद्बध्वा स्नपनं चाधमेन तु ॥ 153 ॥
मूलम् - 153
हेतुभिर्वातवेगाद्यैर्ध्वजे निपतिते भुवि।
क्षिप्रमुद्धृत्य तद्बध्वा स्नपनं चाधमेन तु ॥ 153 ॥
विश्वास-प्रस्तुतिः - 154
शान्त्यर्थं जुहुयादाज्यं तिलेन शतसङ्ख्यया।
ध्वजे निपतिते छिन्ने कुर्यात् स्नपनमुत्तमम् ॥ 154 ॥
मूलम् - 154
शान्त्यर्थं जुहुयादाज्यं तिलेन शतसङ्ख्यया।
ध्वजे निपतिते छिन्ने कुर्यात् स्नपनमुत्तमम् ॥ 154 ॥
विश्वास-प्रस्तुतिः - 155
पुनरन्यं समुत्पाद्य बध्नीयात् संस्कृतं तथा।
अन्यथा यदि दोष-स्याद्राज्ञो राष्ट्रस्य मन्त्रिणः ॥ 155 ॥
मूलम् - 155
पुनरन्यं समुत्पाद्य बध्नीयात् संस्कृतं तथा।
अन्यथा यदि दोष-स्याद्राज्ञो राष्ट्रस्य मन्त्रिणः ॥ 155 ॥
विश्वास-प्रस्तुतिः - 156
पक्षीशाधिष्टिते कुंभे नष्टे वा पतिते भुवि।
स्पृष्टेऽस्पृश्यैस्तथा केशलोष्टास्थिशकृदादिभिः ॥ 156 ॥
मूलम् - 156
पक्षीशाधिष्टिते कुंभे नष्टे वा पतिते भुवि।
स्पृष्टेऽस्पृश्यैस्तथा केशलोष्टास्थिशकृदादिभिः ॥ 156 ॥
विश्वास-प्रस्तुतिः - 157
कुंभेऽन्यस्मिन् समारोप्य तां शक्तिं कुंभमध्यगाम्।
जप्त्वा मूलायुतं मन्त्री शेषकर्म समाचरेत् ॥ 157 ॥
मूलम् - 157
कुंभेऽन्यस्मिन् समारोप्य तां शक्तिं कुंभमध्यगाम्।
जप्त्वा मूलायुतं मन्त्री शेषकर्म समाचरेत् ॥ 157 ॥
विश्वास-प्रस्तुतिः - 158
अनुक्तानां तु सर्वेषां जपेदेवं यथाबलम्।
देवतावाहनार्थं तु भेरीताडनकर्मणि ॥ 158 ॥
मूलम् - 158
अनुक्तानां तु सर्वेषां जपेदेवं यथाबलम्।
देवतावाहनार्थं तु भेरीताडनकर्मणि ॥ 158 ॥
विश्वास-प्रस्तुतिः - 159
वाद्यजातेषु सर्वेषु मृदङ्गपणवादिषु।
न स्थापितेषु स्वस्थानेतत्पूजातविलोपने ॥ 159 ॥
मूलम् - 159
वाद्यजातेषु सर्वेषु मृदङ्गपणवादिषु।
न स्थापितेषु स्वस्थानेतत्पूजातविलोपने ॥ 159 ॥
विश्वास-प्रस्तुतिः - 160
पुण्याहपाठराहित्ये तथार्वाहनगाधया।
सगणेषु च भूतेषु सग्रहेपूत्कटादिषु ॥ 160 ॥
मूलम् - 160
पुण्याहपाठराहित्ये तथार्वाहनगाधया।
सगणेषु च भूतेषु सग्रहेपूत्कटादिषु ॥ 160 ॥
विश्वास-प्रस्तुतिः - 161
स्वासु दिक्षु यथान्यायमनाहुतेषु सत्सु च।
द्वारावरणरथ्यासु ग्रामवास्तुष्वनुक्रमात् ॥ 161 ॥
मूलम् - 161
स्वासु दिक्षु यथान्यायमनाहुतेषु सत्सु च।
द्वारावरणरथ्यासु ग्रामवास्तुष्वनुक्रमात् ॥ 161 ॥
विश्वास-प्रस्तुतिः - 162
बलिप्रदानहीने तु तथा तालस्वरादिषु।
गेयनृत्तेषु हीनेषु शान्तिहोमपुरस्सरम् ॥ 162 ॥
मूलम् - 162
बलिप्रदानहीने तु तथा तालस्वरादिषु।
गेयनृत्तेषु हीनेषु शान्तिहोमपुरस्सरम् ॥ 162 ॥
विश्वास-प्रस्तुतिः - 163
प्रत्येकं देवतामन्त्रमष्टधाऽऽवर्तयेद्बुधः।
पुनरुत्पादयेत् सर्वं देवतावाहनादिकम् ॥ 163 ॥
मूलम् - 163
प्रत्येकं देवतामन्त्रमष्टधाऽऽवर्तयेद्बुधः।
पुनरुत्पादयेत् सर्वं देवतावाहनादिकम् ॥ 163 ॥
विश्वास-प्रस्तुतिः - 164
अनङ्कुरार्पणाग्रं तु प्रारभेच्च महोत्सवम्।
पुनःप्राप्ते दिने वाथ सद्यः कृत्वाऽङ्कुरार्पणम् ॥ 164 ॥
मूलम् - 164
अनङ्कुरार्पणाग्रं तु प्रारभेच्च महोत्सवम्।
पुनःप्राप्ते दिने वाथ सद्यः कृत्वाऽङ्कुरार्पणम् ॥ 164 ॥
विश्वास-प्रस्तुतिः - 165
शान्तिहोमं प्रकुर्वीत पूर्ववच्छतसङ्ख्यया।
तथैव तीर्थयात्रार्थं बूतरात्रादिसिद्धये ॥ 165 ॥
मूलम् - 165
शान्तिहोमं प्रकुर्वीत पूर्ववच्छतसङ्ख्यया।
तथैव तीर्थयात्रार्थं बूतरात्रादिसिद्धये ॥ 165 ॥
विश्वास-प्रस्तुतिः - 166
परिच्युतौ तथाह्गानामङ्कुरार्पणकर्मणि।
न कृतं चेत्तथा साङ्गं तथा कौतुकबन्धनम् ॥ 166 ॥
मूलम् - 166
परिच्युतौ तथाह्गानामङ्कुरार्पणकर्मणि।
न कृतं चेत्तथा साङ्गं तथा कौतुकबन्धनम् ॥ 166 ॥
विश्वास-प्रस्तुतिः - 167
कर्तव्या पूर्ववच्छान्तिर्होमेन सजपेन च।
उत्सवार्थाधिवासेषु चतुःस्थानार्चनेऽपि च ॥ 167 ॥
मूलम् - 167
कर्तव्या पूर्ववच्छान्तिर्होमेन सजपेन च।
उत्सवार्थाधिवासेषु चतुःस्थानार्चनेऽपि च ॥ 167 ॥
विश्वास-प्रस्तुतिः - 168
आरंभकलशस्नाने स्नानबेराभिषेचने।
महाहयिषि होमे च दिवसेषु तथा निशि ॥ 168 ॥
मूलम् - 168
आरंभकलशस्नाने स्नानबेराभिषेचने।
महाहयिषि होमे च दिवसेषु तथा निशि ॥ 168 ॥
विश्वास-प्रस्तुतिः - 169
भूतादिरात्रिदेवानां बलिर्द्रव्यैर्यथोदितैः।
हवने च तथोद्याने लीलया मृगयोत्सवे ॥ 169 ॥
मूलम् - 169
भूतादिरात्रिदेवानां बलिर्द्रव्यैर्यथोदितैः।
हवने च तथोद्याने लीलया मृगयोत्सवे ॥ 169 ॥
विश्वास-प्रस्तुतिः - 170
मृगयायां विशेषेण लोपः सञ्जायते यदि।
शान्तिहोमादिकं तत्तत् कृत्वा शेषं समाचरेत् ॥ 170 ॥
मूलम् - 170
मृगयायां विशेषेण लोपः सञ्जायते यदि।
शान्तिहोमादिकं तत्तत् कृत्वा शेषं समाचरेत् ॥ 170 ॥
विश्वास-प्रस्तुतिः - 171
अधिष्ठितेषु बिम्बेन यानेषु पतितेषु वा।
भिन्नेष्वपि च वाहेषु प्रमादाद्यत्र कुत्रचित् ॥ 171 ॥
मूलम् - 171
अधिष्ठितेषु बिम्बेन यानेषु पतितेषु वा।
भिन्नेष्वपि च वाहेषु प्रमादाद्यत्र कुत्रचित् ॥ 171 ॥
विश्वास-प्रस्तुतिः - 172
यानान्तरे समारोप्य वाहने वाऽथ कौतुकम्।
शान्तिहोमं पुरा कृत्वा जपेन्मूलसहस्रकम् ॥ 172 ॥
मूलम् - 172
यानान्तरे समारोप्य वाहने वाऽथ कौतुकम्।
शान्तिहोमं पुरा कृत्वा जपेन्मूलसहस्रकम् ॥ 172 ॥
विश्वास-प्रस्तुतिः - 173
गोभूहेमादिकं दद्याद्वैष्णवेभ्यो गुरोरपि।
यानाद्वा वाहनाद्वाऽपि बिम्बे तु पतिते सति ॥ 173 ॥
मूलम् - 173
गोभूहेमादिकं दद्याद्वैष्णवेभ्यो गुरोरपि।
यानाद्वा वाहनाद्वाऽपि बिम्बे तु पतिते सति ॥ 173 ॥
विश्वास-प्रस्तुतिः - 174
वलिबेरोक्तविधिना समाधानपुरस्सरम्।
स्नपनं शान्तिहोमं च मन्त्रजापान्तमाचरेत् ॥ 174 ॥
मूलम् - 174
वलिबेरोक्तविधिना समाधानपुरस्सरम्।
स्नपनं शान्तिहोमं च मन्त्रजापान्तमाचरेत् ॥ 174 ॥
विश्वास-प्रस्तुतिः - 175
समाधौ दीर्धकालीने कुर्याच्छोभार्यकौतुके।
शेषकर्म माहर्चायां निर्वृत्ते सन्धिकर्मणि ॥ 175 ॥
मूलम् - 175
समाधौ दीर्धकालीने कुर्याच्छोभार्यकौतुके।
शेषकर्म माहर्चायां निर्वृत्ते सन्धिकर्मणि ॥ 175 ॥
विश्वास-प्रस्तुतिः - 176
पूर्ववत्रां प्रतिष्ठाप्य यथावच्छान्तिमाचरेत्।
सून्येषु ग्रामनगरपत्तनादिषु चोत्सवम् ॥ 176 ॥
मूलम् - 176
पूर्ववत्रां प्रतिष्ठाप्य यथावच्छान्तिमाचरेत्।
सून्येषु ग्रामनगरपत्तनादिषु चोत्सवम् ॥ 176 ॥
विश्वास-प्रस्तुतिः - 177
बलिदानं न कुर्वीत कृते तत्रापि निष्फलम्।
समाहिते तुग्रामादौ महाशान्तिपुरस्सरम् ॥ 177 ॥
मूलम् - 177
बलिदानं न कुर्वीत कृते तत्रापि निष्फलम्।
समाहिते तुग्रामादौ महाशान्तिपुरस्सरम् ॥ 177 ॥
विश्वास-प्रस्तुतिः - 178
पुनरप्युत्सवं कुर्यात् ब्राह्नणानामनुज्ञया।
ग्रामादावग्निना दग्धे वात्याऽऽसारादिदूषिते ॥ 178 ॥
मूलम् - 178
पुनरप्युत्सवं कुर्यात् ब्राह्नणानामनुज्ञया।
ग्रामादावग्निना दग्धे वात्याऽऽसारादिदूषिते ॥ 178 ॥
विश्वास-प्रस्तुतिः - 179
शान्तिहोमं पुरा कृत्वा पश्चादुत्सवमाचरेत्।
स्थापिते पर्वताग्रेषु देवबिम्बे महोत्सवम् ॥ 179 ॥
मूलम् - 179
शान्तिहोमं पुरा कृत्वा पश्चादुत्सवमाचरेत्।
स्थापिते पर्वताग्रेषु देवबिम्बे महोत्सवम् ॥ 179 ॥
विश्वास-प्रस्तुतिः - 180
यथावकाशं कुर्वीत तत्रैव बलिपूर्वकम्।
तदासन्नेऽग्रहारादौ शक्यं चेत् कर्तुमुत्सवम् ॥ 180 ॥
मूलम् - 180
यथावकाशं कुर्वीत तत्रैव बलिपूर्वकम्।
तदासन्नेऽग्रहारादौ शक्यं चेत् कर्तुमुत्सवम् ॥ 180 ॥
विश्वास-प्रस्तुतिः - 181
बलिप्रदानरहितं तत्र कुर्यात् परिभ्रमम्।
देवताह्वानवेलायामाहूतानां विभोः पुरा ॥ 181 ॥
मूलम् - 181
बलिप्रदानरहितं तत्र कुर्यात् परिभ्रमम्।
देवताह्वानवेलायामाहूतानां विभोः पुरा ॥ 181 ॥
विश्वास-प्रस्तुतिः - 182
देवासुरगणादीनां भूतानामप्यनुक्रमात्।
उत्सवार्थबलिं दद्यान्महापीठे दिवानिशम् ॥ 182 ॥
मूलम् - 182
देवासुरगणादीनां भूतानामप्यनुक्रमात्।
उत्सवार्थबलिं दद्यान्महापीठे दिवानिशम् ॥ 182 ॥
विश्वास-प्रस्तुतिः - 183
ध्वजार्थमङ्कुरानर्प्य ध्वजमुत्थाप्य वा तथा।
दीक्षार्थं कौतुकं बध्वा पुरा तीर्थाघमर्षणात् ॥ 183 ॥
मूलम् - 183
ध्वजार्थमङ्कुरानर्प्य ध्वजमुत्थाप्य वा तथा।
दीक्षार्थं कौतुकं बध्वा पुरा तीर्थाघमर्षणात् ॥ 183 ॥
विश्वास-प्रस्तुतिः - 184
देशिके व्याधिते वाऽथ मृते कार्यान्तरोद्यते।
सूतकाद्युपघाते च शेषकर्मसमापनम् ॥ 184 ॥
मूलम् - 184
देशिके व्याधिते वाऽथ मृते कार्यान्तरोद्यते।
सूतकाद्युपघाते च शेषकर्मसमापनम् ॥ 184 ॥
विश्वास-प्रस्तुतिः - 185
कर्तव्यं गुरुणाऽन्येन जप्त्वा मूलायुतं जपेत्।
रिपुचोराग्निवृष्ट्यादिभयाद्विघ्ने महोत्सवे ॥ 185 ॥
मूलम् - 185
कर्तव्यं गुरुणाऽन्येन जप्त्वा मूलायुतं जपेत्।
रिपुचोराग्निवृष्ट्यादिभयाद्विघ्ने महोत्सवे ॥ 185 ॥
विश्वास-प्रस्तुतिः - 186
जाते दद्याद्वलिं तस्मिन्नष्टेऽप्यहनि देशिकः।
अतीतं तु बलिं दद्याच्छान्तिहोमजपान्वितम् ॥ 186 ॥
मूलम् - 186
जाते दद्याद्वलिं तस्मिन्नष्टेऽप्यहनि देशिकः।
अतीतं तु बलिं दद्याच्छान्तिहोमजपान्वितम् ॥ 186 ॥
विश्वास-प्रस्तुतिः - 187
कुर्यादुत्सवायात्रां च विहितेऽह्नि महोत्सवम्।
भ्रष्टायां तीर्थयात्रायामवारुह्य खगध्वजम् ॥ 187 ॥
मूलम् - 187
कुर्यादुत्सवायात्रां च विहितेऽह्नि महोत्सवम्।
भ्रष्टायां तीर्थयात्रायामवारुह्य खगध्वजम् ॥ 187 ॥
विश्वास-प्रस्तुतिः - 188
पूर्ववद्धजमुत्थाप्य कुर्यात्तीर्थान्तमुत्सवम्।
प्रतिरात्रिबलिद्रव्यव्यत्यासे सर्पिषा शतम् ॥ 188 ॥
मूलम् - 188
पूर्ववद्धजमुत्थाप्य कुर्यात्तीर्थान्तमुत्सवम्।
प्रतिरात्रिबलिद्रव्यव्यत्यासे सर्पिषा शतम् ॥ 188 ॥
विश्वास-प्रस्तुतिः - 189
हुत्वाऽग्नौ मूलमन्त्रेण जपेदष्टोत्तरं शतम्।
कालेऽन्यस्मिन् बलिं दद्यात्तत्काले प्राप्तमञ्जसा ॥ 189 ॥
मूलम् - 189
हुत्वाऽग्नौ मूलमन्त्रेण जपेदष्टोत्तरं शतम्।
कालेऽन्यस्मिन् बलिं दद्यात्तत्काले प्राप्तमञ्जसा ॥ 189 ॥
विश्वास-प्रस्तुतिः - 190
व्त्यासे बलिदेवानां जपो होमश्च तादृशः।
अङ्कुरार्पणपूर्वश्च नारब्धश्चेन्महोत्सवः ॥ 190 ॥
मूलम् - 190
व्त्यासे बलिदेवानां जपो होमश्च तादृशः।
अङ्कुरार्पणपूर्वश्च नारब्धश्चेन्महोत्सवः ॥ 190 ॥
विश्वास-प्रस्तुतिः - 191
तथैव चाङ्कुरावापं कृत्वा मूलायुतं जपेत्।
विशेषात् पालिकावासे रथ्यावृतिषु चोत्सवे ॥ 191 ॥
मूलम् - 191
तथैव चाङ्कुरावापं कृत्वा मूलायुतं जपेत्।
विशेषात् पालिकावासे रथ्यावृतिषु चोत्सवे ॥ 191 ॥
विश्वास-प्रस्तुतिः - 192
ग्रामवास्तुषु रथ्यासु भूतानां बलिमाचरेत्।
न चाश्रये प्रकुर्वीत राजराष्ट्रविवृद्धये ॥ 192 ॥
मूलम् - 192
ग्रामवास्तुषु रथ्यासु भूतानां बलिमाचरेत्।
न चाश्रये प्रकुर्वीत राजराष्ट्रविवृद्धये ॥ 192 ॥
विश्वास-प्रस्तुतिः - 193
दद्याद् ग्रामादिवृद्ध्यर्थं तस्मिन्नप्यालये बलिम्।
शान्तिहोमं प्रकुर्वीत बलिदानेऽन्यथाकृते ॥ 193 ॥
मूलम् - 193
दद्याद् ग्रामादिवृद्ध्यर्थं तस्मिन्नप्यालये बलिम्।
शान्तिहोमं प्रकुर्वीत बलिदानेऽन्यथाकृते ॥ 193 ॥
विश्वास-प्रस्तुतिः - 194
खद्योतपांसुनीहारवर्षवातातपादिभिः।
बिम्बे महोत्सवे स्पृष्ठे सजपं होममाचरेत् ॥ 194 ॥
मूलम् - 194
खद्योतपांसुनीहारवर्षवातातपादिभिः।
बिम्बे महोत्सवे स्पृष्ठे सजपं होममाचरेत् ॥ 194 ॥
विश्वास-प्रस्तुतिः - 195
प्रपामण्टपपात्राणामग्निदाहे च पूर्ववत्।
निर्वापितेषु दीपेषु पूर्ववच्छान्तिरीरिता ॥ 195 ॥
मूलम् - 195
प्रपामण्टपपात्राणामग्निदाहे च पूर्ववत्।
निर्वापितेषु दीपेषु पूर्ववच्छान्तिरीरिता ॥ 195 ॥
विश्वास-प्रस्तुतिः - 196
वस्त्रभूषणमाल्यानां हेतीनां च तथैव च।
छत्रचामरपूर्वाणां महतां मङ्गलात्मनाम् ॥ 196 ॥
मूलम् - 196
वस्त्रभूषणमाल्यानां हेतीनां च तथैव च।
छत्रचामरपूर्वाणां महतां मङ्गलात्मनाम् ॥ 196 ॥
विश्वास-प्रस्तुतिः - 197
ध्वजतोरणपूर्वाणां पीठानामङ्गरूपिणाम्।
अग्निदाहे समुत्पन्ने पुनरुत्पाद्य तानपि ॥ 197 ॥
मूलम् - 197
ध्वजतोरणपूर्वाणां पीठानामङ्गरूपिणाम्।
अग्निदाहे समुत्पन्ने पुनरुत्पाद्य तानपि ॥ 197 ॥
विश्वास-प्रस्तुतिः - 198
सजपं शान्तिहोमं तु कुर्यादष्टोत्तरं शतम्।
प्रागुक्तानां च सर्वेषां दीपानां तु विशेषतः ॥ 198 ॥
मूलम् - 198
सजपं शान्तिहोमं तु कुर्यादष्टोत्तरं शतम्।
प्रागुक्तानां च सर्वेषां दीपानां तु विशेषतः ॥ 198 ॥
विश्वास-प्रस्तुतिः - 199
पतने भुवि सञ्जाते मूलमन्त्रेण मन्त्रवित्।
अष्टोत्तरसहस्रं तु हुत्वा तत्सङ्ख्यया जपेत् ॥ 199 ॥
मूलम् - 199
पतने भुवि सञ्जाते मूलमन्त्रेण मन्त्रवित्।
अष्टोत्तरसहस्रं तु हुत्वा तत्सङ्ख्यया जपेत् ॥ 199 ॥
विश्वास-प्रस्तुतिः - 200
दिवारात्र्युत्सवं कुर्यादासूर्यास्तमयोदयात्।
कालयोर्विपरीतश्चेदधमस्नपनं रेत् ॥ 200 ॥
मूलम् - 200
दिवारात्र्युत्सवं कुर्यादासूर्यास्तमयोदयात्।
कालयोर्विपरीतश्चेदधमस्नपनं रेत् ॥ 200 ॥
विश्वास-प्रस्तुतिः - 201
तीर्थयात्रा प्रकर्तव्या सूर्यस्यास्तमयात् पुरा।
पूर्वभागे रजन्यां वा कुर्यात् स्वव्यक्तदिव्ययोः ॥ 201 ॥
मूलम् - 201
तीर्थयात्रा प्रकर्तव्या सूर्यस्यास्तमयात् पुरा।
पूर्वभागे रजन्यां वा कुर्यात् स्वव्यक्तदिव्ययोः ॥ 201 ॥
विश्वास-प्रस्तुतिः - 202
उत्तमस्नपनं कुर्यात्तीर्थकालविपर्यये।
द्विवारयुक्ते तीर्थर्क्षे पुरूहूतक्षणान्वितम् ॥ 202 ॥
मूलम् - 202
उत्तमस्नपनं कुर्यात्तीर्थकालविपर्यये।
द्विवारयुक्ते तीर्थर्क्षे पुरूहूतक्षणान्वितम् ॥ 202 ॥
विश्वास-प्रस्तुतिः - 203
पुण्यं भवेत्तत्पूर्वं स्यादुभयोर्विद्यते यदि।
देवस्योत्सवयात्रायां स्पृष्ठेऽस्पृश्यैस्तु देशिके ॥ 203 ॥
मूलम् - 203
पुण्यं भवेत्तत्पूर्वं स्यादुभयोर्विद्यते यदि।
देवस्योत्सवयात्रायां स्पृष्ठेऽस्पृश्यैस्तु देशिके ॥ 203 ॥
विश्वास-प्रस्तुतिः - 204
न दोषस्तत्र विर्ज्ञयो विशेषाद्देवसन्निधौ।
उत्सवे होमविधुरे द्विगुणं जुहुयाज्जपेत् ॥ 204 ॥
मूलम् - 204
न दोषस्तत्र विर्ज्ञयो विशेषाद्देवसन्निधौ।
उत्सवे होमविधुरे द्विगुणं जुहुयाज्जपेत् ॥ 204 ॥
विश्वास-प्रस्तुतिः - 205
नेत्रास्त्रसहितं मूलं प्रत्येकं शतसङ्ख्यया।
सर्वभक्तजनैर्देवो यथाभिमुखदिङ्मुखैः ॥ 205 ॥
मूलम् - 205
नेत्रास्त्रसहितं मूलं प्रत्येकं शतसङ्ख्यया।
सर्वभक्तजनैर्देवो यथाभिमुखदिङ्मुखैः ॥ 205 ॥
विश्वास-प्रस्तुतिः - 206
स्रग्गन्धवस्त्रक्षीरान्न्नपानकापूपसत्फलैः।
ताम्बूलैर्गन्धसंमिश्रैस्तोषणीयो यथाबलम् ॥ 206 ॥
मूलम् - 206
स्रग्गन्धवस्त्रक्षीरान्न्नपानकापूपसत्फलैः।
ताम्बूलैर्गन्धसंमिश्रैस्तोषणीयो यथाबलम् ॥ 206 ॥
विश्वास-प्रस्तुतिः - 207
सुस्थितैर्वाऽऽसनासीनैर्देशिकैर्वाथ साधकैः।
पूजिते सति देवेशे न दोषो भक्तिगौरवात् ॥ 207 ॥
मूलम् - 207
सुस्थितैर्वाऽऽसनासीनैर्देशिकैर्वाथ साधकैः।
पूजिते सति देवेशे न दोषो भक्तिगौरवात् ॥ 207 ॥
विश्वास-प्रस्तुतिः - 208
बिम्बे चोरादिभिर्नष्टे वर्तमाने महोत्सवे।
बिम्बान्तरं समापाद्य प्रतिष्ठाप्य यथापुरम् ॥ 208 ॥
मूलम् - 208
बिम्बे चोरादिभिर्नष्टे वर्तमाने महोत्सवे।
बिम्बान्तरं समापाद्य प्रतिष्ठाप्य यथापुरम् ॥ 208 ॥
विश्वास-प्रस्तुतिः - 209
महाभिषेकं हवनं जपं कृत्वा यथाविधि।
कुर्यादुत्सवशेषं तु कर्मार्चादिषु वाऽऽचरेत् ॥ 209 ॥
मूलम् - 209
महाभिषेकं हवनं जपं कृत्वा यथाविधि।
कुर्यादुत्सवशेषं तु कर्मार्चादिषु वाऽऽचरेत् ॥ 209 ॥
विश्वास-प्रस्तुतिः - 210
निशायां सर्वशान्त्यर्थी पुष्ट्यर्थी मध्यमे दिने।
आप्यायनार्थी पूर्वाह्णे धर्मार्थी मध्यतो निशि ॥ 210 ॥
मूलम् - 210
निशायां सर्वशान्त्यर्थी पुष्ट्यर्थी मध्यमे दिने।
आप्यायनार्थी पूर्वाह्णे धर्मार्थी मध्यतो निशि ॥ 210 ॥
विश्वास-प्रस्तुतिः - 211
तथा रिपुक्षयार्थी च पुष्पयागं समाचरेत्।
न च पर्युषितैः पुष्पैः परिम्लानैस्तदार्चयेत् ॥ 211 ॥
मूलम् - 211
तथा रिपुक्षयार्थी च पुष्पयागं समाचरेत्।
न च पर्युषितैः पुष्पैः परिम्लानैस्तदार्चयेत् ॥ 211 ॥
विश्वास-प्रस्तुतिः - 212
तद्दोषशानत्ये कुर्यात् स्नपनं मभ्यमं चरेत्।
न कृते पुष्पयागेऽस्मिन् कुर्यात् स्नपनमुत्तमम् ॥ 212 ॥
मूलम् - 212
तद्दोषशानत्ये कुर्यात् स्नपनं मभ्यमं चरेत्।
न कृते पुष्पयागेऽस्मिन् कुर्यात् स्नपनमुत्तमम् ॥ 212 ॥
विश्वास-प्रस्तुतिः - 213
देशिकाः षट् समाख्याताः पुष्पयागे विशेषतः।
चतुस्थानार्चनार्थं तु चत्वारः परिकीर्तिताः ॥ 213 ॥
मूलम् - 213
देशिकाः षट् समाख्याताः पुष्पयागे विशेषतः।
चतुस्थानार्चनार्थं तु चत्वारः परिकीर्तिताः ॥ 213 ॥
विश्वास-प्रस्तुतिः - 214
तथैकः स्नपनार्चायां बल्यादिषु तथेतरः।
जलोत्थितानि पुष्पाणि त्रिरात्रोपोषितान्यपि ॥ 214 ॥
मूलम् - 214
तथैकः स्नपनार्चायां बल्यादिषु तथेतरः।
जलोत्थितानि पुष्पाणि त्रिरात्रोपोषितान्यपि ॥ 214 ॥
विश्वास-प्रस्तुतिः - 215
पुष्पयागे नियुञ्जीत न दोषस्तेषु सत्तम!।
तथैव पुष्पपूजार्थं कल्हारकुसुमान्यपि ॥ 215 ॥
मूलम् - 215
पुष्पयागे नियुञ्जीत न दोषस्तेषु सत्तम!।
तथैव पुष्पपूजार्थं कल्हारकुसुमान्यपि ॥ 215 ॥
विश्वास-प्रस्तुतिः - 216
तथैव दमनीपत्रं पुष्पयागे विशेषतः।
पूर्वरात्रोपोषितैश्च दिवा संपूजयेत् प्रभुम् ॥ 216 ॥
मूलम् - 216
तथैव दमनीपत्रं पुष्पयागे विशेषतः।
पूर्वरात्रोपोषितैश्च दिवा संपूजयेत् प्रभुम् ॥ 216 ॥
विश्वास-प्रस्तुतिः - 217
न पूर्वाह्णोषितैस्तद्वन्निशायां तु समर्चयेत्।
महोत्सवान्ते स्नपने न कृते स्नापयेत्ततः ॥ 217 ॥
मूलम् - 217
न पूर्वाह्णोषितैस्तद्वन्निशायां तु समर्चयेत्।
महोत्सवान्ते स्नपने न कृते स्नापयेत्ततः ॥ 217 ॥
विश्वास-प्रस्तुतिः - 218
अधमोत्तममार्गेण शान्त्यर्थं जुहुयात्ततः।
तद्रात्रौ ध्वजदण्डाग्रादवरोप्य खगध्वजम् ॥ 218 ॥
मूलम् - 218
अधमोत्तममार्गेण शान्त्यर्थं जुहुयात्ततः।
तद्रात्रौ ध्वजदण्डाग्रादवरोप्य खगध्वजम् ॥ 218 ॥
विश्वास-प्रस्तुतिः - 219
ग्रामादिवास्तुनिष्ठानां बलिं दत्वा विसर्जयेत्।
उत्सवान्ते ध्वजे नष्टे पुरस्तादवरोहणात् ॥ 219 ॥
मूलम् - 219
ग्रामादिवास्तुनिष्ठानां बलिं दत्वा विसर्जयेत्।
उत्सवान्ते ध्वजे नष्टे पुरस्तादवरोहणात् ॥ 219 ॥
विश्वास-प्रस्तुतिः - 220
प्राग्वद्ध्वजं समुत्थाप्य पुनरेवावरोहयेत्।
एकाहो द्विबलिर्वाथ तथैकबलिरेव वा ॥ 220 ॥
मूलम् - 220
प्राग्वद्ध्वजं समुत्थाप्य पुनरेवावरोहयेत्।
एकाहो द्विबलिर्वाथ तथैकबलिरेव वा ॥ 220 ॥
विश्वास-प्रस्तुतिः - 221
बलितीर्थविहीनो वा परिभ्रमणवर्जितः।
चतुर्भिर्बलिभिर्युक्तः त्रियहः पञ्चवासरात् ॥ 221 ॥
मूलम् - 221
बलितीर्थविहीनो वा परिभ्रमणवर्जितः।
चतुर्भिर्बलिभिर्युक्तः त्रियहः पञ्चवासरात् ॥ 221 ॥
विश्वास-प्रस्तुतिः - 222
पञ्चानामुपरिस्थानामानक्षत्रदिनोत्सवात्।
द्विगुणं दिनसङ्ख्याया विहीने बलिमाचरेत् ॥ 222 ॥
मूलम् - 222
पञ्चानामुपरिस्थानामानक्षत्रदिनोत्सवात्।
द्विगुणं दिनसङ्ख्याया विहीने बलिमाचरेत् ॥ 222 ॥
विश्वास-प्रस्तुतिः - 223
ऊनाऽधिकैश्चेद्वलिभिर्युक्तास्त्वेते महोत्सवाः।
कर्तुः कारयितुश्चापि राज्ञो राष्ट्रस्य मन्त्रिणः ॥ 223 ॥
मूलम् - 223
ऊनाऽधिकैश्चेद्वलिभिर्युक्तास्त्वेते महोत्सवाः।
कर्तुः कारयितुश्चापि राज्ञो राष्ट्रस्य मन्त्रिणः ॥ 223 ॥
विश्वास-प्रस्तुतिः - 224
दारुणा व्याधयो नित्यं भविष्यन्त्यसुखान्यपि।
तद्दोषशान्तये कुर्यात् स्नपनं चाधमोत्तमम् ॥ 224 ॥
मूलम् - 224
दारुणा व्याधयो नित्यं भविष्यन्त्यसुखान्यपि।
तद्दोषशान्तये कुर्यात् स्नपनं चाधमोत्तमम् ॥ 224 ॥
विश्वास-प्रस्तुतिः - 225
वैशेषिकेषु प्राप्तेषु वर्तमाने महोत्सवे।
द्वादश्यादिषु तत् सर्वं यथान्यायं समर्चयेत् ॥ 225 ॥
मूलम् - 225
वैशेषिकेषु प्राप्तेषु वर्तमाने महोत्सवे।
द्वादश्यादिषु तत् सर्वं यथान्यायं समर्चयेत् ॥ 225 ॥
विश्वास-प्रस्तुतिः - 226
न लोपयेत् प्रयत्नेन प्राप्तं वैशेषिकं सुधीः।
जपेदस्त्रायुतं मन्त्री त्वकृतेषु च शान्तये ॥ 226 ॥
मूलम् - 226
न लोपयेत् प्रयत्नेन प्राप्तं वैशेषिकं सुधीः।
जपेदस्त्रायुतं मन्त्री त्वकृतेषु च शान्तये ॥ 226 ॥
विश्वास-प्रस्तुतिः - 227
प्रायश्चित्तमितो वक्ष्ये पवित्रारोहणाय ते।
अप्रमाणे पवित्राणां कुण्डमण्डलयोरपि ॥ 227 ॥
मूलम् - 227
प्रायश्चित्तमितो वक्ष्ये पवित्रारोहणाय ते।
अप्रमाणे पवित्राणां कुण्डमण्डलयोरपि ॥ 227 ॥
विश्वास-प्रस्तुतिः - 228
अस्त्रमन्त्रायुतं जप्त्वा पूजयेदस्त्रबन्धनम्।
पत्रपुष्पफलादीनां पूरकाणां तथैव च ॥ 228 ॥
मूलम् - 228
अस्त्रमन्त्रायुतं जप्त्वा पूजयेदस्त्रबन्धनम्।
पत्रपुष्पफलादीनां पूरकाणां तथैव च ॥ 228 ॥
विश्वास-प्रस्तुतिः - 229
अतीत उक्तकाले तु चातुर्मास्यस्य मध्यतः।
मध्यमं स्नपनं कृत्वा कालेऽन्यस्मिन् तदाचरेत् ॥ 229 ॥
मूलम् - 229
अतीत उक्तकाले तु चातुर्मास्यस्य मध्यतः।
मध्यमं स्नपनं कृत्वा कालेऽन्यस्मिन् तदाचरेत् ॥ 229 ॥
विश्वास-प्रस्तुतिः - 230
कालात्यये तथान्येषु शान्तिरेवं विधीयते।
पवित्रे केशपाषाणचर्माङ्गारनखादिभिः ॥ 230 ॥
मूलम् - 230
कालात्यये तथान्येषु शान्तिरेवं विधीयते।
पवित्रे केशपाषाणचर्माङ्गारनखादिभिः ॥ 230 ॥
विश्वास-प्रस्तुतिः - 231
दूषिते वह्निना दग्धे छिन्ने दष्टेऽथ भक्षिते।
मूषिकाद्यैश्च काकाद्यैः स्पृष्ठे त्यक्त्वा तु तत् पुनः ॥ 231 ॥
मूलम् - 231
दूषिते वह्निना दग्धे छिन्ने दष्टेऽथ भक्षिते।
मूषिकाद्यैश्च काकाद्यैः स्पृष्ठे त्यक्त्वा तु तत् पुनः ॥ 231 ॥
विश्वास-प्रस्तुतिः - 232
सूत्रैस्तथाविधं कृत्वा त्वधिवास्य यथापुरम्।
उत्तमं स्नपनं कृत्वा समारोप्य पवित्रकम् ॥ 232 ॥
मूलम् - 232
सूत्रैस्तथाविधं कृत्वा त्वधिवास्य यथापुरम्।
उत्तमं स्नपनं कृत्वा समारोप्य पवित्रकम् ॥ 232 ॥
विश्वास-प्रस्तुतिः - 233
शान्त्यर्थं जुहुयान्मन्त्री मधुक्षीरादिभिः क्रमात्।
अष्टोत्तरं शतं मूलमन्त्रादि च तथा जपेत् ॥ 233 ॥
मूलम् - 233
शान्त्यर्थं जुहुयान्मन्त्री मधुक्षीरादिभिः क्रमात्।
अष्टोत्तरं शतं मूलमन्त्रादि च तथा जपेत् ॥ 233 ॥
विश्वास-प्रस्तुतिः - 234
अस्पृश्यैरपि संस्पृष्टममत्यारोपितं यदि।
पुनरन्यं समारोप्य पूर्ववच्छान्तिमाचरेत् ॥ 234 ॥
मूलम् - 234
अस्पृश्यैरपि संस्पृष्टममत्यारोपितं यदि।
पुनरन्यं समारोप्य पूर्ववच्छान्तिमाचरेत् ॥ 234 ॥
विश्वास-प्रस्तुतिः - 235
स्थापितं पूजितं कुंभमस्पृश्यः संस्पृशेद्यदि।
कुंभान्तरे समावाह्य जपेन्भूलसहस्रकम् ॥ 235 ॥
मूलम् - 235
स्थापितं पूजितं कुंभमस्पृश्यः संस्पृशेद्यदि।
कुंभान्तरे समावाह्य जपेन्भूलसहस्रकम् ॥ 235 ॥
विश्वास-प्रस्तुतिः - 236
कुंभभेदे तथा स्थाप्य मूलमन्त्रायुतं जपेत्।
अत्र बिम्बस्य पतने भेदे च्छेदे यथापुरम् ॥ 236 ॥
मूलम् - 236
कुंभभेदे तथा स्थाप्य मूलमन्त्रायुतं जपेत्।
अत्र बिम्बस्य पतने भेदे च्छेदे यथापुरम् ॥ 236 ॥
विश्वास-प्रस्तुतिः - 237
समाधानादिकं कृत्वा स्थाप्य शान्तिं समाचरेत्।
पवित्रैरक्रमेणैव पूजयेद्यदि देशिकः ॥ 237 ॥
मूलम् - 237
समाधानादिकं कृत्वा स्थाप्य शान्तिं समाचरेत्।
पवित्रैरक्रमेणैव पूजयेद्यदि देशिकः ॥ 237 ॥
विश्वास-प्रस्तुतिः - 238
शान्तिहोमं पुरा कृत्वा मूलमन्त्रं शतं जपेत्।
मुहूर्ते समतिक्रान्ते शुभे यजनविस्तरात् ॥ 238 ॥
मूलम् - 238
शान्तिहोमं पुरा कृत्वा मूलमन्त्रं शतं जपेत्।
मुहूर्ते समतिक्रान्ते शुभे यजनविस्तरात् ॥ 238 ॥
विश्वास-प्रस्तुतिः - 239
तदन्यस्मिन् समारोप्य कृत्वा स्नपनमुत्तमम्।
स्थापिते बहुबेरे तु दिव्याद्यायतनेषु च ॥ 239 ॥
मूलम् - 239
तदन्यस्मिन् समारोप्य कृत्वा स्नपनमुत्तमम्।
स्थापिते बहुबेरे तु दिव्याद्यायतनेषु च ॥ 239 ॥
विश्वास-प्रस्तुतिः - 240
मुख्यकल्पविधाने तु पवित्रारोहकर्मणि।
देशिका बहवः प्रोक्ताः ध्यानमन्त्रक्रियान्विताः ॥ 240 ॥
मूलम् - 240
मुख्यकल्पविधाने तु पवित्रारोहकर्मणि।
देशिका बहवः प्रोक्ताः ध्यानमन्त्रक्रियान्विताः ॥ 240 ॥
विश्वास-प्रस्तुतिः - 241
तेष्वेकः कुंभपूजायामितरो मण्डलार्चने।
अर्चायामितरो विद्वानितरः पावकार्चने ॥ 241 ॥
मूलम् - 241
तेष्वेकः कुंभपूजायामितरो मण्डलार्चने।
अर्चायामितरो विद्वानितरः पावकार्चने ॥ 241 ॥
विश्वास-प्रस्तुतिः - 242
मूलालये तथैकश्च अन्यः शोभाश्रयार्चने।
गरुडस्यार्चने त्वन्यो विष्वक्सेनार्चने परः ॥ 242 ॥
मूलम् - 242
मूलालये तथैकश्च अन्यः शोभाश्रयार्चने।
गरुडस्यार्चने त्वन्यो विष्वक्सेनार्चने परः ॥ 242 ॥
विश्वास-प्रस्तुतिः - 243
तथैकः स्नानबेरे स्याद्बलिदाने तथा परः।
नित्याग्निहवने त्वन्यो महोदनविधौ परः ॥ 243 ॥
मूलम् - 243
तथैकः स्नानबेरे स्याद्बलिदाने तथा परः।
नित्याग्निहवने त्वन्यो महोदनविधौ परः ॥ 243 ॥
विश्वास-प्रस्तुतिः - 244
अष्टभिर्वा समारोप्यं कर्मलाघवमीक्ष्य च।
तत्र तत्र च तैः कार्यं पवित्रारोहणं परम् ॥ 244 ॥
मूलम् - 244
अष्टभिर्वा समारोप्यं कर्मलाघवमीक्ष्य च।
तत्र तत्र च तैः कार्यं पवित्रारोहणं परम् ॥ 244 ॥
विश्वास-प्रस्तुतिः - 245
एकाहमुत्सवं कृत्वा तस्मिन्नहनि पूर्ववत्।
तीर्थयात्रां प्रकुर्वीत तदन्यस्मिन् दिने दिवा ॥ 245 ॥
मूलम् - 245
एकाहमुत्सवं कृत्वा तस्मिन्नहनि पूर्ववत्।
तीर्थयात्रां प्रकुर्वीत तदन्यस्मिन् दिने दिवा ॥ 245 ॥
विश्वास-प्रस्तुतिः - 246
द्विरात्रौ प्राग्दिनादौ वा कुर्यात्तीर्थाघमर्षणम्।
द्वितीयादौ चतुर्थाहराचरेत् त्रियहोत्सवम् ॥ 246 ॥
मूलम् - 246
द्विरात्रौ प्राग्दिनादौ वा कुर्यात्तीर्थाघमर्षणम्।
द्वितीयादौ चतुर्थाहराचरेत् त्रियहोत्सवम् ॥ 246 ॥
विश्वास-प्रस्तुतिः - 247
प्रधानदिनमारब्य सप्ताहो वा महोत्सवः।
तयोरन्तेऽपि कर्तव्या तीर्थयात्रा यथापुरम् ॥ 247 ॥
मूलम् - 247
प्रधानदिनमारब्य सप्ताहो वा महोत्सवः।
तयोरन्तेऽपि कर्तव्या तीर्थयात्रा यथापुरम् ॥ 247 ॥
विश्वास-प्रस्तुतिः - 248
एवं तीर्थान्तिमाः कल्प्याः पवित्रारोहणक्रियाः।
न कृता तीर्थयात्रा चेन्निष्कृतिः स्नपनोत्तमम् ॥ 248 ॥
मूलम् - 248
एवं तीर्थान्तिमाः कल्प्याः पवित्रारोहणक्रियाः।
न कृता तीर्थयात्रा चेन्निष्कृतिः स्नपनोत्तमम् ॥ 248 ॥
विश्वास-प्रस्तुतिः - 249
अङ्क्रार्पणपूर्वं तु प्रारभ्यात् प्राग्वदुत्सवम्।
तत्तीर्थदिनयामिन्यां पवित्राणां विसर्जनम् ॥ 249 ॥
मूलम् - 249
अङ्क्रार्पणपूर्वं तु प्रारभ्यात् प्राग्वदुत्सवम्।
तत्तीर्थदिनयामिन्यां पवित्राणां विसर्जनम् ॥ 249 ॥
विश्वास-प्रस्तुतिः - 250
कृत्वा गुरोः प्रदातव्यं पाञ्चरात्रार्थकोविदैः।
तदभावात्तदन्येषा माचार्थाणां यथाक्रमम् ॥ 250 ॥
मूलम् - 250
कृत्वा गुरोः प्रदातव्यं पाञ्चरात्रार्थकोविदैः।
तदभावात्तदन्येषा माचार्थाणां यथाक्रमम् ॥ 250 ॥
विश्वास-प्रस्तुतिः - 251
समर्पणीयमन्येषामयोग्यानां नियोजनात्।
पुनर्निवेद्य विधिवत् पवित्राणि प्रदाय च ॥ 251 ॥
मूलम् - 251
समर्पणीयमन्येषामयोग्यानां नियोजनात्।
पुनर्निवेद्य विधिवत् पवित्राणि प्रदाय च ॥ 251 ॥
विश्वास-प्रस्तुतिः - 252
मध्यमं स्नपनं कृत्वा शान्तिहोमं समाचरेत्।
प्रक्लृप्ते वा यथापूर्वं चातुर्मास्ये विधानतः ॥ 252 ॥
मूलम् - 252
मध्यमं स्नपनं कृत्वा शान्तिहोमं समाचरेत्।
प्रक्लृप्ते वा यथापूर्वं चातुर्मास्ये विधानतः ॥ 252 ॥
विश्वास-प्रस्तुतिः - 253
मुख्यमध्याधमे चैव प्रागुक्तेषु दिनेषु च।
न कल्पिते तथैकस्मिन् चान्द्रायणपुरस्सरम् ॥ 253 ॥
मूलम् - 253
मुख्यमध्याधमे चैव प्रागुक्तेषु दिनेषु च।
न कल्पिते तथैकस्मिन् चान्द्रायणपुरस्सरम् ॥ 253 ॥
विश्वास-प्रस्तुतिः - 254
तदनन्तरसंप्राप्ते दिवसे प्रारभेच्च तत्।
तदाद्यमष्टपक्षं च विधिवन्नियतो भवेत् ॥ 254 ॥
मूलम् - 254
तदनन्तरसंप्राप्ते दिवसे प्रारभेच्च तत्।
तदाद्यमष्टपक्षं च विधिवन्नियतो भवेत् ॥ 254 ॥
विश्वास-प्रस्तुतिः - 255
चातुर्मास्यं तु संकल्प्य वर्तमाने व्रतोत्तमे।
विच्छिन्ने सति मध्येऽस्य पारतन्त्र्यादिहेतुना ॥ 255 ॥
मूलम् - 255
चातुर्मास्यं तु संकल्प्य वर्तमाने व्रतोत्तमे।
विच्छिन्ने सति मध्येऽस्य पारतन्त्र्यादिहेतुना ॥ 255 ॥
विश्वास-प्रस्तुतिः - 256
कालान्तरे च संकल्प्य कार्यश्चान्द्रायणादिकः।
काले तस्मिन् प्रकुर्वीत यथावच्छयनादिकम् ॥ 256 ॥
मूलम् - 256
कालान्तरे च संकल्प्य कार्यश्चान्द्रायणादिकः।
काले तस्मिन् प्रकुर्वीत यथावच्छयनादिकम् ॥ 256 ॥
विश्वास-प्रस्तुतिः - 257
तद्य्वत्यये विलोपे च चतुः स्थानार्चनादिकम्।
जप्त्वा मूलायुतं मन्त्री शान्त्यर्थं जुहुयात्तदा ॥ 257 ॥
मूलम् - 257
तद्य्वत्यये विलोपे च चतुः स्थानार्चनादिकम्।
जप्त्वा मूलायुतं मन्त्री शान्त्यर्थं जुहुयात्तदा ॥ 257 ॥
विश्वास-प्रस्तुतिः - 258
नृसिंहकपिलक्रोडहयहंसादिरूपिणाम्।
तथा वक्त्रविशिष्टानां शक्तीशस्य विशेषतः ॥ 258 ॥
मूलम् - 258
नृसिंहकपिलक्रोडहयहंसादिरूपिणाम्।
तथा वक्त्रविशिष्टानां शक्तीशस्य विशेषतः ॥ 258 ॥
विश्वास-प्रस्तुतिः - 259
तथा च जामदग्न्यस्य विश्वरूपस्य वै प्रभोः।
पारिजातहरस्यापि तथा कल्क्यात्मनो हरेः ॥ 259 ॥
मूलम् - 259
तथा च जामदग्न्यस्य विश्वरूपस्य वै प्रभोः।
पारिजातहरस्यापि तथा कल्क्यात्मनो हरेः ॥ 259 ॥
विश्वास-प्रस्तुतिः - 260
शयनं न तु कुर्वीत प्रासादेषु स्थिरस्थितौ।
सौम्यरूपं समासाद्य कौतुकं कामनावशात् ॥ 260 ॥
मूलम् - 260
शयनं न तु कुर्वीत प्रासादेषु स्थिरस्थितौ।
सौम्यरूपं समासाद्य कौतुकं कामनावशात् ॥ 260 ॥
विश्वास-प्रस्तुतिः - 261
तदर्थं शाययेद्वाथ चातुर्मास्ये विधानतः।
उत्थापिते तु देवेशे चतुःस्थानेऽर्चिते सति ॥ 261 ॥
मूलम् - 261
तदर्थं शाययेद्वाथ चातुर्मास्ये विधानतः।
उत्थापिते तु देवेशे चतुःस्थानेऽर्चिते सति ॥ 261 ॥
विश्वास-प्रस्तुतिः - 262
वस्त्राभरणमाल्याद्यैर्यथाशोभमलंकृतम्।
विहगेशे प्रतिष्ठाप्य उत्सवार्चागतं विभुम् ॥ 262 ॥
मूलम् - 262
वस्त्राभरणमाल्याद्यैर्यथाशोभमलंकृतम्।
विहगेशे प्रतिष्ठाप्य उत्सवार्चागतं विभुम् ॥ 262 ॥
विश्वास-प्रस्तुतिः - 263
अशेषभुवनग्रामं विधिना दोषशान्तये।
महोत्सवोक्तविधिना परिभ्राम्य विशेषतः ॥ 263 ॥
मूलम् - 263
अशेषभुवनग्रामं विधिना दोषशान्तये।
महोत्सवोक्तविधिना परिभ्राम्य विशेषतः ॥ 263 ॥
विश्वास-प्रस्तुतिः - 264
एकरात्रादियोगेन प्रागुक्तविधिना ततः।
कुर्यादवभृथं स्नानं नदीतीरादिषु प्रभोः ॥ 264 ॥
मूलम् - 264
एकरात्रादियोगेन प्रागुक्तविधिना ततः।
कुर्यादवभृथं स्नानं नदीतीरादिषु प्रभोः ॥ 264 ॥
विश्वास-प्रस्तुतिः - 265
अनुकल्पे विधानं तद्विना तीर्थाघमर्षणम्।
मध्ये सूर्यस्य सङ्क्रान्त्योर्दर्शद्वयसमन्वितः ॥ 265 ॥
मूलम् - 265
अनुकल्पे विधानं तद्विना तीर्थाघमर्षणम्।
मध्ये सूर्यस्य सङ्क्रान्त्योर्दर्शद्वयसमन्वितः ॥ 265 ॥
विश्वास-प्रस्तुतिः - 266
तद्वद्दर्शवियुक्तश्च मलमास इतीरितः।
चातुर्मास्योऽयमग्राह्यः सदारंभावसानयोः ॥ 266 ॥
मूलम् - 266
तद्वद्दर्शवियुक्तश्च मलमास इतीरितः।
चातुर्मास्योऽयमग्राह्यः सदारंभावसानयोः ॥ 266 ॥
विश्वास-प्रस्तुतिः - 267
दिनत्रये तु प्रागुक्ते प्रारब्धे सति मध्ययोः।
मलमासस्य सङ्गत्या कदाचिच्च न दोषतः ॥ 267 ॥
मूलम् - 267
दिनत्रये तु प्रागुक्ते प्रारब्धे सति मध्ययोः।
मलमासस्य सङ्गत्या कदाचिच्च न दोषतः ॥ 267 ॥
विश्वास-प्रस्तुतिः - 268
अधिके मासि सर्वत्र तथाऽस्ते गुरुशुक्रयोः।
औत्सवः प्रथमारंभः न कार्यो हितमिच्छता ॥ 268 ॥
मूलम् - 268
अधिके मासि सर्वत्र तथाऽस्ते गुरुशुक्रयोः।
औत्सवः प्रथमारंभः न कार्यो हितमिच्छता ॥ 268 ॥
विश्वास-प्रस्तुतिः - 269
स्वयंव्यक्तालयाद्येषु तीर्थेषु गिरिमूर्धनि।
नदीतीरेषु रम्येषु वनेषूपवनेषु च ॥ 269 ॥
मूलम् - 269
स्वयंव्यक्तालयाद्येषु तीर्थेषु गिरिमूर्धनि।
नदीतीरेषु रम्येषु वनेषूपवनेषु च ॥ 269 ॥
विश्वास-प्रस्तुतिः - 270
गोष्ठेषु मुनिमुख्यानामाश्रमेषु हरेः पुनः।
सह्कल्प्य नियतं वासमभीष्टव्रतसिद्धये ॥ 270 ॥
मूलम् - 270
गोष्ठेषु मुनिमुख्यानामाश्रमेषु हरेः पुनः।
सह्कल्प्य नियतं वासमभीष्टव्रतसिद्धये ॥ 270 ॥
विश्वास-प्रस्तुतिः - 271
नेतव्यं देशिकेन्द्राद्यैस्तथा मासचतुष्टयम्।
नदीनगादितरणं नाचर्तव्यं कदाचन ॥ 271 ॥
मूलम् - 271
नेतव्यं देशिकेन्द्राद्यैस्तथा मासचतुष्टयम्।
नदीनगादितरणं नाचर्तव्यं कदाचन ॥ 271 ॥
विश्वास-प्रस्तुतिः - 272
नद्यादिव्यवधानेऽपि दिव्यमायतनं प्रति।
गन्तव्यं योजनादर्वाक् शुभयात्राधिकारिभिः ॥ 272 ॥
मूलम् - 272
नद्यादिव्यवधानेऽपि दिव्यमायतनं प्रति।
गन्तव्यं योजनादर्वाक् शुभयात्राधिकारिभिः ॥ 272 ॥
विश्वास-प्रस्तुतिः - 273
विशेषेण द्विषटकार्णपूर्वैर्व्यापकपञ्चकैः।
सदाराधननिष्ठानां पञ्चकालरतात्मनाम् ॥ 273 ॥
मूलम् - 273
विशेषेण द्विषटकार्णपूर्वैर्व्यापकपञ्चकैः।
सदाराधननिष्ठानां पञ्चकालरतात्मनाम् ॥ 273 ॥
विश्वास-प्रस्तुतिः - 274
दिव्य क्षेत्राभिगमनं न खण्डयति तद्द्वतम्।
सूतकं मृतकं नैव कालेऽस्मिन् नियतात्मनाम् ॥ 274 ॥
मूलम् - 274
दिव्य क्षेत्राभिगमनं न खण्डयति तद्द्वतम्।
सूतकं मृतकं नैव कालेऽस्मिन् नियतात्मनाम् ॥ 274 ॥
विश्वास-प्रस्तुतिः - 275
प्राणिहिंसा न कर्तव्या द्रुमविच्छेदनं तथा।
नदीकेदारकूलानां भेदनं सस्यशोषणम् ॥ 275 ॥
मूलम् - 275
प्राणिहिंसा न कर्तव्या द्रुमविच्छेदनं तथा।
नदीकेदारकूलानां भेदनं सस्यशोषणम् ॥ 275 ॥
विश्वास-प्रस्तुतिः - 276
देवतायतनादीनां पीडनं तन्निवासिनाम्।
वापीकूपतटाकानां पूरणं मृच्छिलादिभिः ॥ 276 ॥
मूलम् - 276
देवतायतनादीनां पीडनं तन्निवासिनाम्।
वापीकूपतटाकानां पूरणं मृच्छिलादिभिः ॥ 276 ॥
विश्वास-प्रस्तुतिः - 277
बन्धनं च द्विजातीनां सहवासं विजातिभिः।
संभाषणं तथा तेभ्यो मात्रा वित्रपरिग्रहम् ॥ 277 ॥
मूलम् - 277
बन्धनं च द्विजातीनां सहवासं विजातिभिः।
संभाषणं तथा तेभ्यो मात्रा वित्रपरिग्रहम् ॥ 277 ॥
विश्वास-प्रस्तुतिः - 278
तस्मिन् काले विशेषेण वर्जयेद् बिद्धिमान्नरः।
य एवं कुरुते तस्य प्रायश्चित्तैर्न निष्कृतिः ॥ 278 ॥
मूलम् - 278
तस्मिन् काले विशेषेण वर्जयेद् बिद्धिमान्नरः।
य एवं कुरुते तस्य प्रायश्चित्तैर्न निष्कृतिः ॥ 278 ॥
विश्वास-प्रस्तुतिः - 279
कदाचिज्जायते वाऽथ नानाधर्मप्रतिष्ठया।
स्थापनं वासुदेवस्य तेषु मुख्यं प्रकीर्तितम् ॥ 279 ॥
मूलम् - 279
कदाचिज्जायते वाऽथ नानाधर्मप्रतिष्ठया।
स्थापनं वासुदेवस्य तेषु मुख्यं प्रकीर्तितम् ॥ 279 ॥
विश्वास-प्रस्तुतिः - 280
एकान्तिद्विजमुख्यानां स्थापनं मध्यमं भवेत्।
अन्येषामपि सर्वेषां प्रतिष्ठा चरमा भवेत् ॥ 280 ॥
मूलम् - 280
एकान्तिद्विजमुख्यानां स्थापनं मध्यमं भवेत्।
अन्येषामपि सर्वेषां प्रतिष्ठा चरमा भवेत् ॥ 280 ॥
विश्वास-प्रस्तुतिः - 281
प्रतिष्ठायां प्रवक्ष्यामि प्रायश्चित्तं यथाक्रमम्।
क्ष्माशिलातरुसल्लोहपूर्वाणां तु परिग्रहे ॥ 281 ॥
मूलम् - 281
प्रतिष्ठायां प्रवक्ष्यामि प्रायश्चित्तं यथाक्रमम्।
क्ष्माशिलातरुसल्लोहपूर्वाणां तु परिग्रहे ॥ 281 ॥
विश्वास-प्रस्तुतिः - 282
तत्तदह्गेयथोदीर्णद्रव्यमन्त्रक्रियादिषु।
परिच्युतेषु तद्भूयः शान्तिहोमजपादिकम् ॥ 282 ॥
मूलम् - 282
तत्तदह्गेयथोदीर्णद्रव्यमन्त्रक्रियादिषु।
परिच्युतेषु तद्भूयः शान्तिहोमजपादिकम् ॥ 282 ॥
विश्वास-प्रस्तुतिः - 283
समाचरेद्यथा शास्त्रमन्यथा निष्फलं तु तत्।
अकृते सति सर्वस्मिन् वास्तुदेशपरिग्रहे ॥ 283 ॥
मूलम् - 283
समाचरेद्यथा शास्त्रमन्यथा निष्फलं तु तत्।
अकृते सति सर्वस्मिन् वास्तुदेशपरिग्रहे ॥ 283 ॥
विश्वास-प्रस्तुतिः - 284
आनीतस्यालयक्षेत्रे शिल्पिभिः सत्क्रियां विना।
यथावदाचरेद्विद्वानर्चाद्रव्यस्य संग्रहम् ॥ 284 ॥
मूलम् - 284
आनीतस्यालयक्षेत्रे शिल्पिभिः सत्क्रियां विना।
यथावदाचरेद्विद्वानर्चाद्रव्यस्य संग्रहम् ॥ 284 ॥
विश्वास-प्रस्तुतिः - 285
मृद्दारुवसनादीनामेवमेव समाचरेत्।
अन्यालयार्थमानीतां शिलामर्चां सुनिर्मिताम् ॥ 285 ॥
मूलम् - 285
मृद्दारुवसनादीनामेवमेव समाचरेत्।
अन्यालयार्थमानीतां शिलामर्चां सुनिर्मिताम् ॥ 285 ॥
विश्वास-प्रस्तुतिः - 286
सर्वावयवसंपन्नं स्थापने तु विलम्बिताम्।
न्यायेनादाय तामर्चां स्थापयेत् सिद्धसझनि ॥ 286 ॥
मूलम् - 286
सर्वावयवसंपन्नं स्थापने तु विलम्बिताम्।
न्यायेनादाय तामर्चां स्थापयेत् सिद्धसझनि ॥ 286 ॥
विश्वास-प्रस्तुतिः - 287
प्राग्वदन्यां समापाद्य स्थापयेत् प्राक् प्रकल्पिते।
निर्मितां प्रतिमां शीघ्रं स्वगृहे न निवेशिताम् ॥ 287 ॥
मूलम् - 287
प्राग्वदन्यां समापाद्य स्थापयेत् प्राक् प्रकल्पिते।
निर्मितां प्रतिमां शीघ्रं स्वगृहे न निवेशिताम् ॥ 287 ॥
विश्वास-प्रस्तुतिः - 288
राज्ञो राष्ट्रस्य तत्कर्तुररिष्टमुपपादयेत्।
एकविंशद्दिनादूर्ध्वमासुरी सा भवेद्धुवम् ॥ 288 ॥
मूलम् - 288
राज्ञो राष्ट्रस्य तत्कर्तुररिष्टमुपपादयेत्।
एकविंशद्दिनादूर्ध्वमासुरी सा भवेद्धुवम् ॥ 288 ॥
विश्वास-प्रस्तुतिः - 289
कृत्वा महाभिषेकाद्यं स्थापयेदन्यथा त्यजेत्।
प्रमाणरहिते बिम्बे पीठशस्त्रप्रभादिके ॥ 289 ॥
मूलम् - 289
कृत्वा महाभिषेकाद्यं स्थापयेदन्यथा त्यजेत्।
प्रमाणरहिते बिम्बे पीठशस्त्रप्रभादिके ॥ 289 ॥
विश्वास-प्रस्तुतिः - 290
वस्त्रे वा भूषणे वाऽथ शमीपत्रसमन्वितम्।
घृतसिक्तैश्च बहुशः सतिलैः शालितण्डुलैः ॥ 290 ॥
मूलम् - 290
वस्त्रे वा भूषणे वाऽथ शमीपत्रसमन्वितम्।
घृतसिक्तैश्च बहुशः सतिलैः शालितण्डुलैः ॥ 290 ॥
विश्वास-प्रस्तुतिः - 291
जुहुयात् पञ्चभिर्मन्त्रैः प्रत्येकं शतसङ्ख्यया।
जलाधिवासस्नपने तथा नयनमोक्षणे ॥ 291 ॥
मूलम् - 291
जुहुयात् पञ्चभिर्मन्त्रैः प्रत्येकं शतसङ्ख्यया।
जलाधिवासस्नपने तथा नयनमोक्षणे ॥ 291 ॥
विश्वास-प्रस्तुतिः - 292
शयने वेदिकायां च मन्त्रन्यासादिकर्मसु।
कुंभमण्डलपूजायां द्वारतोरणकुंभयोः ॥ 292 ॥
मूलम् - 292
शयने वेदिकायां च मन्त्रन्यासादिकर्मसु।
कुंभमण्डलपूजायां द्वारतोरणकुंभयोः ॥ 292 ॥
विश्वास-प्रस्तुतिः - 293
अयथाकरणे नूनं पूर्ववच्छान्तिरिष्यते।
अस्थाने स्थापिते बिम्बे पादाधारशिलान्वितम् ॥ 293 ॥
मूलम् - 293
अयथाकरणे नूनं पूर्ववच्छान्तिरिष्यते।
अस्थाने स्थापिते बिम्बे पादाधारशिलान्वितम् ॥ 293 ॥
विश्वास-प्रस्तुतिः - 294
तदानीमेव चोद्धृत्य स्थापयेत्तं स्वके पदे।
मध्यमस्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ 294 ॥
मूलम् - 294
तदानीमेव चोद्धृत्य स्थापयेत्तं स्वके पदे।
मध्यमस्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ 294 ॥
विश्वास-प्रस्तुतिः - 295
न स्थापिते मुहूर्तेऽस्मिन्न तदा बिम्बमुद्धरेत्।
पूर्ववत् स्नपने होमे कृते शान्तिर्भविष्यति ॥ 295 ॥
मूलम् - 295
न स्थापिते मुहूर्तेऽस्मिन्न तदा बिम्बमुद्धरेत्।
पूर्ववत् स्नपने होमे कृते शान्तिर्भविष्यति ॥ 295 ॥
विश्वास-प्रस्तुतिः - 296
स्थापनेऽधिकृते मुख्ये देशिके व्याधिते सति।
न्यस्तदेहेऽथवा मध्ये वर्तमाने क्रियाक्रमे ॥ 296 ॥
मूलम् - 296
स्थापनेऽधिकृते मुख्ये देशिके व्याधिते सति।
न्यस्तदेहेऽथवा मध्ये वर्तमाने क्रियाक्रमे ॥ 296 ॥
विश्वास-प्रस्तुतिः - 297
क्रियामन्त्रोपदेष्टा च प्रतिष्ठाकर्मणि स्थितः।
पुत्रो वा देशिकेन्द्रस्य स्थापने शेषमाचरेत् ॥ 297 ॥
मूलम् - 297
क्रियामन्त्रोपदेष्टा च प्रतिष्ठाकर्मणि स्थितः।
पुत्रो वा देशिकेन्द्रस्य स्थापने शेषमाचरेत् ॥ 297 ॥
विश्वास-प्रस्तुतिः - 298
अन्ते सहस्रकलशैरभिषिच्य सुरेश्वरम्।
चक्राम्बुरुहकुण्डे तु मधुक्षीरादिभिः क्रमात् ॥ 298 ॥
मूलम् - 298
अन्ते सहस्रकलशैरभिषिच्य सुरेश्वरम्।
चक्राम्बुरुहकुण्डे तु मधुक्षीरादिभिः क्रमात् ॥ 298 ॥
विश्वास-प्रस्तुतिः - 299
शान्त्यर्थमयुतं हुत्वा तत्सङ्ख्यं जपमाचरेत्।
ब्राह्नणैः क्षत्रियैर्वैश्यैः शूद्रैर्वा भगवन्मयैः ॥ 299 ॥
मूलम् - 299
शान्त्यर्थमयुतं हुत्वा तत्सङ्ख्यं जपमाचरेत्।
ब्राह्नणैः क्षत्रियैर्वैश्यैः शूद्रैर्वा भगवन्मयैः ॥ 299 ॥
विश्वास-प्रस्तुतिः - 300
सकामैरथ निष्कामैर्मन्त्राराधनतत्परैः।
साधकैर्भगवद्बिम्बस्थापनार्थं सदैव हि ॥ 300 ॥
मूलम् - 300
सकामैरथ निष्कामैर्मन्त्राराधनतत्परैः।
साधकैर्भगवद्बिम्बस्थापनार्थं सदैव हि ॥ 300 ॥
विश्वास-प्रस्तुतिः - 301
पुरा प्रसाबनीयश्च प्रार्थनापूर्वकं तु वा।
अधिकारपदस्थश्च द्विजेन्द्रः पाञ्चरात्रिकः ॥ 301 ॥
मूलम् - 301
पुरा प्रसाबनीयश्च प्रार्थनापूर्वकं तु वा।
अधिकारपदस्थश्च द्विजेन्द्रः पाञ्चरात्रिकः ॥ 301 ॥
विश्वास-प्रस्तुतिः - 302
वेत्ता यो व्यूहपूर्वस्य व्यक्तस्य परमात्मनः।
सोऽन्येषां भगवद्बिम्बस्थापनेऽधिकृतः सदा ॥ 302 ॥
मूलम् - 302
वेत्ता यो व्यूहपूर्वस्य व्यक्तस्य परमात्मनः।
सोऽन्येषां भगवद्बिम्बस्थापनेऽधिकृतः सदा ॥ 302 ॥
विश्वास-प्रस्तुतिः - 303
अनुग्रहप्रतिष्ठा चाप्यधिकारनिरूपणा।
अनन्यैरुपपन्नानां भक्तानां कार्यमुच्यते ॥ 303 ॥
मूलम् - 303
अनुग्रहप्रतिष्ठा चाप्यधिकारनिरूपणा।
अनन्यैरुपपन्नानां भक्तानां कार्यमुच्यते ॥ 303 ॥
विश्वास-प्रस्तुतिः - 304
अनन्याः पञ्चकालज्ञा व्यतिरिक्ता न ये प्रभोः।
प्राक् सृष्टास्तन्मुखोद्भूताः द्विषट्काध्यात्मचिन्तकाः ॥ 304 ॥
मूलम् - 304
अनन्याः पञ्चकालज्ञा व्यतिरिक्ता न ये प्रभोः।
प्राक् सृष्टास्तन्मुखोद्भूताः द्विषट्काध्यात्मचिन्तकाः ॥ 304 ॥
विश्वास-प्रस्तुतिः - 305
चातुर्व्यूहपरत्वेन येषां वै प्रभवाप्ययौ।
कर्मणामपि सन्न्यासं कुर्वन्त्यध्यक्षतः क्रमात् ॥ 305 ॥
मूलम् - 305
चातुर्व्यूहपरत्वेन येषां वै प्रभवाप्ययौ।
कर्मणामपि सन्न्यासं कुर्वन्त्यध्यक्षतः क्रमात् ॥ 305 ॥
विश्वास-प्रस्तुतिः - 306
अतोऽमी दुर्लभतराः पारम्यं यस्य तं प्रति।
प्रमेयनिष्ठा श्रद्धा वा स्फुटास्तत्कर्मणि स्थिताः ॥ 306 ॥
मूलम् - 306
अतोऽमी दुर्लभतराः पारम्यं यस्य तं प्रति।
प्रमेयनिष्ठा श्रद्धा वा स्फुटास्तत्कर्मणि स्थिताः ॥ 306 ॥
विश्वास-प्रस्तुतिः - 307
परत्वमन्यमार्गस्था नेच्छन्ति च परस्परम्।
य इच्छन्ति विभोस्तेषां स्थितिर्नास्ति तथा कृतौ ॥ 307 ॥
मूलम् - 307
परत्वमन्यमार्गस्था नेच्छन्ति च परस्परम्।
य इच्छन्ति विभोस्तेषां स्थितिर्नास्ति तथा कृतौ ॥ 307 ॥
विश्वास-प्रस्तुतिः - 308
मुक्ताधिकारिणं तं वै लब्धलक्षमकृत्रिमम्।
पञ्चकालरतं सिद्धं तन्त्रसिद्धान्तपारगम् ॥ 308 ॥
मूलम् - 308
मुक्ताधिकारिणं तं वै लब्धलक्षमकृत्रिमम्।
पञ्चकालरतं सिद्धं तन्त्रसिद्धान्तपारगम् ॥ 308 ॥
विश्वास-प्रस्तुतिः - 309
तेनैव श्रुतिमन्त्राणां स्थूलानामपि चोदना।
प्रतिकर्मणि वै कार्या यथावसरलक्षणा ॥ 309 ॥
मूलम् - 309
तेनैव श्रुतिमन्त्राणां स्थूलानामपि चोदना।
प्रतिकर्मणि वै कार्या यथावसरलक्षणा ॥ 309 ॥
विश्वास-प्रस्तुतिः - 310
यस्मादब्जसमुद्भूतमण्डलादिषु वृत्तिषु।
स्वार्थतो वा परार्थेन सदाराधनकर्मणि ॥ 310 ॥
मूलम् - 310
यस्मादब्जसमुद्भूतमण्डलादिषु वृत्तिषु।
स्वार्थतो वा परार्थेन सदाराधनकर्मणि ॥ 310 ॥
विश्वास-प्रस्तुतिः - 311
नित्यसिद्धे तदाकारे तत्परत्वेऽपि सन्ततम्।
यस्यास्ति सक्तिर्हृदये तस्यासौ सन्निधिं व्रजेत् ॥ 311 ॥
मूलम् - 311
नित्यसिद्धे तदाकारे तत्परत्वेऽपि सन्ततम्।
यस्यास्ति सक्तिर्हृदये तस्यासौ सन्निधिं व्रजेत् ॥ 311 ॥
विश्वास-प्रस्तुतिः - 312
मन्त्ररूपी जगन्नाथः परमात्माच्युतः प्रभुः।
अत्यौत्सुक्यं विना विप्र! मनसः प्रीतये त्वपि ॥ 312 ॥
मूलम् - 312
मन्त्ररूपी जगन्नाथः परमात्माच्युतः प्रभुः।
अत्यौत्सुक्यं विना विप्र! मनसः प्रीतये त्वपि ॥ 312 ॥
विश्वास-प्रस्तुतिः - 313
कामाप्तये वा कीर्त्यर्थं तस्य तद्विहितं द्विज!।
सध्यानेन प्रतिष्ठानं प्रासादे स्वगृहेऽपि वा ॥ 313 ॥
मूलम् - 313
कामाप्तये वा कीर्त्यर्थं तस्य तद्विहितं द्विज!।
सध्यानेन प्रतिष्ठानं प्रासादे स्वगृहेऽपि वा ॥ 313 ॥
विश्वास-प्रस्तुतिः - 314
इति सम्यक् समाख्यातं मुख्यकल्पं महामते!।
अनुकल्पं यदत्रान्यत् तत्समासान्निबोध तु ॥ 314 ॥
मूलम् - 314
इति सम्यक् समाख्यातं मुख्यकल्पं महामते!।
अनुकल्पं यदत्रान्यत् तत्समासान्निबोध तु ॥ 314 ॥
विश्वास-प्रस्तुतिः - 315
प्राक् प्राप्तदीक्षितैर्विधिवत्, त्रयीधर्मस्थितैर्द्विजैः।
नित्याराधनसक्तैस्तु भक्तैर्भगवतो विभोः ॥ 315 ॥
मूलम् - 315
प्राक् प्राप्तदीक्षितैर्विधिवत्, त्रयीधर्मस्थितैर्द्विजैः।
नित्याराधनसक्तैस्तु भक्तैर्भगवतो विभोः ॥ 315 ॥
विश्वास-प्रस्तुतिः - 316
धारणाध्यानपूर्वाणां लब्धलक्षैस्तु कर्मणाम्।
मन्त्रमण्डलमुद्रास्त्रकुण्डादीनां कृतश्रमैः ॥ 316 ॥
मूलम् - 316
धारणाध्यानपूर्वाणां लब्धलक्षैस्तु कर्मणाम्।
मन्त्रमण्डलमुद्रास्त्रकुण्डादीनां कृतश्रमैः ॥ 316 ॥
विश्वास-प्रस्तुतिः - 317
षडध्वव्याप्तिनिष्ठैस्तु त्यागशीलैरमत्सरैः।
अनुज्झितक्रमैर्दक्षैः स्वकर्मपरिपालकैः ॥ 317 ॥
मूलम् - 317
षडध्वव्याप्तिनिष्ठैस्तु त्यागशीलैरमत्सरैः।
अनुज्झितक्रमैर्दक्षैः स्वकर्मपरिपालकैः ॥ 317 ॥
विश्वास-प्रस्तुतिः - 318
सत्कीर्तिप्रथितैर्लोके तथाऽकीर्तिबलिप्कृतैः।
प्रतिष्ठां लभते कर्ता तैः प्रतिष्ठापने कृते ॥ 318 ॥
मूलम् - 318
सत्कीर्तिप्रथितैर्लोके तथाऽकीर्तिबलिप्कृतैः।
प्रतिष्ठां लभते कर्ता तैः प्रतिष्ठापने कृते ॥ 318 ॥
विश्वास-प्रस्तुतिः - 319
निषिद्धमरविन्दाक्षे अतोऽन्येषां हि सर्वदा।
महामहं प्रतिष्ठाख्यं कर्तुर्व्यामिश्रयाजिनाम् ॥ 319 ॥
मूलम् - 319
निषिद्धमरविन्दाक्षे अतोऽन्येषां हि सर्वदा।
महामहं प्रतिष्ठाख्यं कर्तुर्व्यामिश्रयाजिनाम् ॥ 319 ॥
विश्वास-प्रस्तुतिः - 320
ये पुनर्लोकधर्मस्थाः समबुद्धिपदे स्थिताः।
भगवत्यविशेषज्ञा नित्यं कार्यवशेन तु ॥ 320 ॥
मूलम् - 320
ये पुनर्लोकधर्मस्थाः समबुद्धिपदे स्थिताः।
भगवत्यविशेषज्ञा नित्यं कार्यवशेन तु ॥ 320 ॥
विश्वास-प्रस्तुतिः - 321
वाङ्भात्रेण परत्वं वै सर्वेषां प्रवदन्ति वै।
अधिकारं विना येऽत्र प्रेरिता देवतार्चने ॥ 321 ॥
मूलम् - 321
वाङ्भात्रेण परत्वं वै सर्वेषां प्रवदन्ति वै।
अधिकारं विना येऽत्र प्रेरिता देवतार्चने ॥ 321 ॥
विश्वास-प्रस्तुतिः - 322
व्यामिश्रयाजिनस्ते वै पातित्यपदसंस्थिताः।
नयन्ति नरकं नूनमेवमेव प्रवर्तिनः ॥ 322 ॥
मूलम् - 322
व्यामिश्रयाजिनस्ते वै पातित्यपदसंस्थिताः।
नयन्ति नरकं नूनमेवमेव प्रवर्तिनः ॥ 322 ॥
विश्वास-प्रस्तुतिः - 323
न तु सद्भक्तिपूतानां वासुदेवरतात्मनाम्।
कदाचित्तत्कृते दोषं विदधाति च खण्डना ॥ 323 ॥
मूलम् - 323
न तु सद्भक्तिपूतानां वासुदेवरतात्मनाम्।
कदाचित्तत्कृते दोषं विदधाति च खण्डना ॥ 323 ॥
विश्वास-प्रस्तुतिः - 324
अतस्तावन्महाबुद्धे! कर्तव्यं भक्तिपूर्वकम्।
भक्त्या वै मन्त्रनिष्ठानां तन्मन्त्रो जपकर्मणि ॥ 324 ॥
मूलम् - 324
अतस्तावन्महाबुद्धे! कर्तव्यं भक्तिपूर्वकम्।
भक्त्या वै मन्त्रनिष्ठानां तन्मन्त्रो जपकर्मणि ॥ 324 ॥
विश्वास-प्रस्तुतिः - 325
वर्णव्यत्ययमापन्नो लुप्तस्तेन स्वरेण वा।
स्वरादिनाधिकश्चैव मन्त्रोऽनर्थप्रदः सदा ॥ 325 ॥
मूलम् - 325
वर्णव्यत्ययमापन्नो लुप्तस्तेन स्वरेण वा।
स्वरादिनाधिकश्चैव मन्त्रोऽनर्थप्रदः सदा ॥ 325 ॥
विश्वास-प्रस्तुतिः - 326
अचिरात्तत्प्रयोक्तॄणां तथापि कमलोद्भव!।
अतिभक्तिप्रभावाच्च वाञ्झितं संप्रयच्छति ॥ 326 ॥
मूलम् - 326
अचिरात्तत्प्रयोक्तॄणां तथापि कमलोद्भव!।
अतिभक्तिप्रभावाच्च वाञ्झितं संप्रयच्छति ॥ 326 ॥
विश्वास-प्रस्तुतिः - 327
यस्मात् सद्भक्तिपूतानां प्रपन्नानां क्रमं विना।
प्रसादमेति मन्त्रेशस्त्वचिराद्भावितात्मनाम् ॥ 327 ॥
मूलम् - 327
यस्मात् सद्भक्तिपूतानां प्रपन्नानां क्रमं विना।
प्रसादमेति मन्त्रेशस्त्वचिराद्भावितात्मनाम् ॥ 327 ॥
विश्वास-प्रस्तुतिः - 328
किं पुनर्वै क्रियाज्ञानसंपूर्णानां द्विजोत्तम!।
श्रद्धाभक्तिपराणां च बोधितानां च देशिकैः ॥ 328 ॥
मूलम् - 328
किं पुनर्वै क्रियाज्ञानसंपूर्णानां द्विजोत्तम!।
श्रद्धाभक्तिपराणां च बोधितानां च देशिकैः ॥ 328 ॥
विश्वास-प्रस्तुतिः - 329
तस्मात् सर्वप्रयत्नेन शासनेऽस्मिन्महामते!।
कार्यं दीक्षादिकं सर्वं भक्तानां भक्तवत्सले ॥ 329 ॥
मूलम् - 329
तस्मात् सर्वप्रयत्नेन शासनेऽस्मिन्महामते!।
कार्यं दीक्षादिकं सर्वं भक्तानां भक्तवत्सले ॥ 329 ॥
विश्वास-प्रस्तुतिः - 330
मामसंप्रतिपन्नोऽपिं मत्प्राप्त्यर्थं करोति च।
मन्दमध्यमभक्तानां कामभोगरतात्मनाम् ॥ 330 ॥
मूलम् - 330
मामसंप्रतिपन्नोऽपिं मत्प्राप्त्यर्थं करोति च।
मन्दमध्यमभक्तानां कामभोगरतात्मनाम् ॥ 330 ॥
विश्वास-प्रस्तुतिः - 331
भविनां मामकीं दीक्षां मोहाद्वा स्थापनादिकम्।
स नयत्यचिरात्तस्य भक्तिर्वीजेन वै सह ॥ 331 ॥
मूलम् - 331
भविनां मामकीं दीक्षां मोहाद्वा स्थापनादिकम्।
स नयत्यचिरात्तस्य भक्तिर्वीजेन वै सह ॥ 331 ॥
विश्वास-प्रस्तुतिः - 332
समन्त्रं कर्मतन्त्रं च सिद्धयस्च पराह्मुखम्।
इहैव शीघ्रं विप्रेन्द्र! देहान्ते गतसन्ततिः ॥ 332 ॥
मूलम् - 332
समन्त्रं कर्मतन्त्रं च सिद्धयस्च पराह्मुखम्।
इहैव शीघ्रं विप्रेन्द्र! देहान्ते गतसन्ततिः ॥ 332 ॥
विश्वास-प्रस्तुतिः - 333
घोरं प्रयाति नरकं भुक्त्वैवं दुष्कृतं महत्।
भगवन्मन्त्रमाहात्म्यात्तद्व्यापारवशात्तु वै ॥ 333 ॥
मूलम् - 333
घोरं प्रयाति नरकं भुक्त्वैवं दुष्कृतं महत्।
भगवन्मन्त्रमाहात्म्यात्तद्व्यापारवशात्तु वै ॥ 333 ॥
विश्वास-प्रस्तुतिः - 334
संसर्गोत्थमघं याति प्राक् संस्कारवशात् पुनः।
चीर्णदुश्चरितो भूयः प्राप्रुयान्मानुषीं तनुम् ॥ 334 ॥
मूलम् - 334
संसर्गोत्थमघं याति प्राक् संस्कारवशात् पुनः।
चीर्णदुश्चरितो भूयः प्राप्रुयान्मानुषीं तनुम् ॥ 334 ॥
विश्वास-प्रस्तुतिः - 335
प्रयत्नमाचरेच्छुभ्रं येन शान्तिमवाप्नुयात्।
साहङ्कारः स आचाय स्वभक्तो नाधिकार्यपि ॥ 335 ॥
मूलम् - 335
प्रयत्नमाचरेच्छुभ्रं येन शान्तिमवाप्नुयात्।
साहङ्कारः स आचाय स्वभक्तो नाधिकार्यपि ॥ 335 ॥
विश्वास-प्रस्तुतिः - 336
प्राप्नोति नूनं स्वगतिं स्वकामो नारकीं तथा।
सर्वगस्त्वपि मन्त्रात्मा सर्वानुग्रहकृदद्विजः ॥ 336 ॥
मूलम् - 336
प्राप्नोति नूनं स्वगतिं स्वकामो नारकीं तथा।
सर्वगस्त्वपि मन्त्रात्मा सर्वानुग्रहकृदद्विजः ॥ 336 ॥
विश्वास-प्रस्तुतिः - 337
यद्यप्येवं हितं तत्र न भजेत्तत्र सन्निधिम्।
प्रतिमामध्यदेहान्तं नूनमावाह्य तत्क्षणात् ॥ 337 ॥
मूलम् - 337
यद्यप्येवं हितं तत्र न भजेत्तत्र सन्निधिम्।
प्रतिमामध्यदेहान्तं नूनमावाह्य तत्क्षणात् ॥ 337 ॥
विश्वास-प्रस्तुतिः - 338
भूतवेतालयक्षाद्याः कुर्वन्त्यर्थादिकक्षयम्।
अन्यद्रशनसंस्था ये नानुग्राह्यास्ततो मुने! ॥ 338 ॥
मूलम् - 338
भूतवेतालयक्षाद्याः कुर्वन्त्यर्थादिकक्षयम्।
अन्यद्रशनसंस्था ये नानुग्राह्यास्ततो मुने! ॥ 338 ॥
विश्वास-प्रस्तुतिः - 339
नोपास्यो हि तथाचार्यः संसारभयभीरुणा।
सम्यग्भक्तिपरेणैव डम्भरागोज्झितेन च ॥ 339 ॥
मूलम् - 339
नोपास्यो हि तथाचार्यः संसारभयभीरुणा।
सम्यग्भक्तिपरेणैव डम्भरागोज्झितेन च ॥ 339 ॥
विश्वास-प्रस्तुतिः - 340
अत एव महाबुद्धे! प्रतिष्ठाख्यं मखोत्तमम्।
निर्वर्तनीयमामूलाद्वैष्णवानां च वैष्णवैः ॥ 340 ॥
मूलम् - 340
अत एव महाबुद्धे! प्रतिष्ठाख्यं मखोत्तमम्।
निर्वर्तनीयमामूलाद्वैष्णवानां च वैष्णवैः ॥ 340 ॥
विश्वास-प्रस्तुतिः - 341
एवं द्रव्यमयो यत्र सन्निवेशो मुनीश्वर!।
उभयानुग्रहं नित्यं करुणाभक्तिलक्षणम् ॥ 341 ॥
मूलम् - 341
एवं द्रव्यमयो यत्र सन्निवेशो मुनीश्वर!।
उभयानुग्रहं नित्यं करुणाभक्तिलक्षणम् ॥ 341 ॥
विश्वास-प्रस्तुतिः - 342
प्रतिष्ठाख्यं हि तत् कर्मभुक्तिमुक्तिफलप्रदम्।
तच्च सद्ब्रह्ननिष्ठानां द्विजानामात्मसिद्धये ॥ 342 ॥
मूलम् - 342
प्रतिष्ठाख्यं हि तत् कर्मभुक्तिमुक्तिफलप्रदम्।
तच्च सद्ब्रह्ननिष्ठानां द्विजानामात्मसिद्धये ॥ 342 ॥
विश्वास-प्रस्तुतिः - 343
कर्तव्यत्वेन वै नित्यं प्रसिद्धममलेक्षण!।
तद्दोषाच्च यतस्तेषां विस्तारो हि न विद्यते ॥ 343 ॥
मूलम् - 343
कर्तव्यत्वेन वै नित्यं प्रसिद्धममलेक्षण!।
तद्दोषाच्च यतस्तेषां विस्तारो हि न विद्यते ॥ 343 ॥
विश्वास-प्रस्तुतिः - 344
देहपातादृते नान्यः तत्पातस्त्वतिदोषकृत्।
आदावेव हितत्तस्मान्नाचर्तव्यं कृतात्मभिः ॥ 344 ॥
मूलम् - 344
देहपातादृते नान्यः तत्पातस्त्वतिदोषकृत्।
आदावेव हितत्तस्मान्नाचर्तव्यं कृतात्मभिः ॥ 344 ॥
विश्वास-प्रस्तुतिः - 345
तत्कर्मप्रतिपन्नानां चतुर्णआमपि तैः सदा।
कार्यं सम्यक् प्रतिष्ठानमनुग्रहधिया मुने! ॥ 345 ॥
मूलम् - 345
तत्कर्मप्रतिपन्नानां चतुर्णआमपि तैः सदा।
कार्यं सम्यक् प्रतिष्ठानमनुग्रहधिया मुने! ॥ 345 ॥
विश्वास-प्रस्तुतिः - 346
नोपरोधः स्वभावेन न लोभेन न नामतः।
प्राप्ते ह्याकस्मिके दोषे त्वङ्गभङ्गादिके मुने! ॥ 346 ॥
मूलम् - 346
नोपरोधः स्वभावेन न लोभेन न नामतः।
प्राप्ते ह्याकस्मिके दोषे त्वङ्गभङ्गादिके मुने! ॥ 346 ॥
विश्वास-प्रस्तुतिः - 347
भक्तानामनुकंपार्थं दिव्यैर्मन्त्रैर्बलादिकैः।
द्वादशाक्षरपूर्वैश्च मोक्षैकफललक्षणैः ॥ 347 ॥
मूलम् - 347
भक्तानामनुकंपार्थं दिव्यैर्मन्त्रैर्बलादिकैः।
द्वादशाक्षरपूर्वैश्च मोक्षैकफललक्षणैः ॥ 347 ॥
विश्वास-प्रस्तुतिः - 348
संपूजिते तु तैर्भक्तैः कुरुते निष्कृतिं सदा।
सर्वनाशेन बिम्बानामङ्गमात्रोपकल्पना ॥ 348 ॥
मूलम् - 348
संपूजिते तु तैर्भक्तैः कुरुते निष्कृतिं सदा।
सर्वनाशेन बिम्बानामङ्गमात्रोपकल्पना ॥ 348 ॥
विश्वास-प्रस्तुतिः - 349
तत्तत्कर्तव्यमुद्दिश्य विशेषः प्रागुदीरितः।
तथापि विस्तरेणात्र विधानमवधारय ॥ 349 ॥
मूलम् - 349
तत्तत्कर्तव्यमुद्दिश्य विशेषः प्रागुदीरितः।
तथापि विस्तरेणात्र विधानमवधारय ॥ 349 ॥
विश्वास-प्रस्तुतिः - 350
देवसिद्धमुनीन्द्राद्यैरेवंसंस्थापिते सति।
बिम्बे चोरादिभिर्नष्टे सद्यः संपाद्य पूर्ववत् ॥ 350 ॥
मूलम् - 350
देवसिद्धमुनीन्द्राद्यैरेवंसंस्थापिते सति।
बिम्बे चोरादिभिर्नष्टे सद्यः संपाद्य पूर्ववत् ॥ 350 ॥
विश्वास-प्रस्तुतिः - 351
स्थापयेद्विधिवन्मन्त्री रात्रावहनि सन्ध्ययोः।
न कालोऽत्र परिज्ञेयो नष्टोद्धारे विशेषतः ॥ 351 ॥
मूलम् - 351
स्थापयेद्विधिवन्मन्त्री रात्रावहनि सन्ध्ययोः।
न कालोऽत्र परिज्ञेयो नष्टोद्धारे विशेषतः ॥ 351 ॥
विश्वास-प्रस्तुतिः - 352
बालालये तु प्रथमे जीर्णोद्धारे तथान्तिमे।
प्रायस्चित्तं प्रवक्ष्यामि मुने! सम्यक् श्रृणुष्व मे ॥ 352 ॥
मूलम् - 352
बालालये तु प्रथमे जीर्णोद्धारे तथान्तिमे।
प्रायस्चित्तं प्रवक्ष्यामि मुने! सम्यक् श्रृणुष्व मे ॥ 352 ॥
विश्वास-प्रस्तुतिः - 353
अतीते प्रार्थिते काले कर्त्रा प्रासादबेरयोः।
निर्माणे स्नपनं कार्यमुत्तमं शास्त्रयोदितम् ॥ 353 ॥
मूलम् - 353
अतीते प्रार्थिते काले कर्त्रा प्रासादबेरयोः।
निर्माणे स्नपनं कार्यमुत्तमं शास्त्रयोदितम् ॥ 353 ॥
विश्वास-प्रस्तुतिः - 354
पश्चादप्यर्थयेत् कालं वाञ्छितं तत्समापने।
न कृत्वैवं गते पश्चात् काले द्वादशवार्षिके ॥ 354 ॥
मूलम् - 354
पश्चादप्यर्थयेत् कालं वाञ्छितं तत्समापने।
न कृत्वैवं गते पश्चात् काले द्वादशवार्षिके ॥ 354 ॥
विश्वास-प्रस्तुतिः - 355
पुनः प्रतिष्ठां कुर्वीत मूले बालालये तु वा।
बिम्बे चोरादिभिर्नष्टे बालगेहे प्रमादतः ॥ 355 ॥
मूलम् - 355
पुनः प्रतिष्ठां कुर्वीत मूले बालालये तु वा।
बिम्बे चोरादिभिर्नष्टे बालगेहे प्रमादतः ॥ 355 ॥
विश्वास-प्रस्तुतिः - 356
तथैवापाद्य तामर्चां प्रतिष्ठाप्य यताविधि।
अधमस्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ 356 ॥
मूलम् - 356
तथैवापाद्य तामर्चां प्रतिष्ठाप्य यताविधि।
अधमस्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ 356 ॥
विश्वास-प्रस्तुतिः - 357
स्वस्थानाच्चलिते तस्मिन् हेतुना येन केनचित्।
यथापूर्वं प्रतिष्ठाप्य स्नापयेत्पुरुषोत्तमम् ॥ 357 ॥
मूलम् - 357
स्वस्थानाच्चलिते तस्मिन् हेतुना येन केनचित्।
यथापूर्वं प्रतिष्ठाप्य स्नापयेत्पुरुषोत्तमम् ॥ 357 ॥
विश्वास-प्रस्तुतिः - 358
सर्वं बालगृहे कार्यं नित्यनैमित्तिकात्मकम्।
एकबेरविधानेन पवित्रारोहपश्चिमम् ॥ 358 ॥
मूलम् - 358
सर्वं बालगृहे कार्यं नित्यनैमित्तिकात्मकम्।
एकबेरविधानेन पवित्रारोहपश्चिमम् ॥ 358 ॥
विश्वास-प्रस्तुतिः - 359
स्तेनैर्नष्टे तथा विम्बे तत्तद्द्रव्येण पूर्ववत्।
निर्माय लक्षणोपेतं प्रतिष्ठाप्य तथैव तु ॥ 359 ॥
मूलम् - 359
स्तेनैर्नष्टे तथा विम्बे तत्तद्द्रव्येण पूर्ववत्।
निर्माय लक्षणोपेतं प्रतिष्ठाप्य तथैव तु ॥ 359 ॥
विश्वास-प्रस्तुतिः - 360
पूर्ववत् पूजयेन्मन्त्री बिम्बं सर्वत्र सर्वदा।
द्रव्यान्तरेण वा कुर्याद्देशिको यागसिद्धये ॥ 360 ॥
मूलम् - 360
पूर्ववत् पूजयेन्मन्त्री बिम्बं सर्वत्र सर्वदा।
द्रव्यान्तरेण वा कुर्याद्देशिको यागसिद्धये ॥ 360 ॥
विश्वास-प्रस्तुतिः - 361
चोरैरपहृतं बिम्बं पुनः प्राप्तं यदि द्विज!।
पुनः प्रतिष्ठां कुर्वीत नयनोन्मीलनं विना ॥ 361 ॥
मूलम् - 361
चोरैरपहृतं बिम्बं पुनः प्राप्तं यदि द्विज!।
पुनः प्रतिष्ठां कुर्वीत नयनोन्मीलनं विना ॥ 361 ॥
विश्वास-प्रस्तुतिः - 362
चोरभूतैर्द्विजैः स्पृष्टे अधमस्नपनं चरेत्।
उत्तमस्नपनं कुर्यात् प्रवेशे गर्भवेश्मनि ॥ 362 ॥
मूलम् - 362
चोरभूतैर्द्विजैः स्पृष्टे अधमस्नपनं चरेत्।
उत्तमस्नपनं कुर्यात् प्रवेशे गर्भवेश्मनि ॥ 362 ॥
विश्वास-प्रस्तुतिः - 363
चिरोषिते तु संस्पृष्टे प्रतिष्ठां पुनरारभेत्।
श्वसृगालबिडालाद्यैः प्रविष्टे गर्भवेश्मनि ॥ 363 ॥
मूलम् - 363
चिरोषिते तु संस्पृष्टे प्रतिष्ठां पुनरारभेत्।
श्वसृगालबिडालाद्यैः प्रविष्टे गर्भवेश्मनि ॥ 363 ॥
विश्वास-प्रस्तुतिः - 364
अधमस्नपनेनैव शान्तिहोमं समाचरेत्।
अधिष्ठितेङ्कणे चैतैः शान्त्यर्थं जुहुयाच्छतम् ॥ 364 ॥
मूलम् - 364
अधमस्नपनेनैव शान्तिहोमं समाचरेत्।
अधिष्ठितेङ्कणे चैतैः शान्त्यर्थं जुहुयाच्छतम् ॥ 364 ॥
विश्वास-प्रस्तुतिः - 365
एतैर्बिम्बे तु संस्पृष्टे स्नापयेन्मद्यमोत्तमम्।
स्पृष्टे तु पक्षिभिः कैश्चिद्दोष आयतने भवेत् ॥ 365 ॥
मूलम् - 365
एतैर्बिम्बे तु संस्पृष्टे स्नापयेन्मद्यमोत्तमम्।
स्पृष्टे तु पक्षिभिः कैश्चिद्दोष आयतने भवेत् ॥ 365 ॥
विश्वास-प्रस्तुतिः - 366
काककुक्कुटगृध्राद्यैः स्पृष्टे बिम्बे प्रमादतः।
पूर्ववत् स्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ 366 ॥
मूलम् - 366
काककुक्कुटगृध्राद्यैः स्पृष्टे बिम्बे प्रमादतः।
पूर्ववत् स्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ 366 ॥
विश्वास-प्रस्तुतिः - 367
खद्योताद्यैस्तु संस्पृष्टे अधमस्नपनं चरेत्।
न भृङ्गमक्षिकाद्यैस्तु स्पृष्टे दोषो भवेद्ध्रुवम् ॥ 367 ॥
मूलम् - 367
खद्योताद्यैस्तु संस्पृष्टे अधमस्नपनं चरेत्।
न भृङ्गमक्षिकाद्यैस्तु स्पृष्टे दोषो भवेद्ध्रुवम् ॥ 367 ॥
विश्वास-प्रस्तुतिः - 368
तथा पिपीलिकाद्यैस्तु न तत्प्रायैर्विशेषतः।
रेतोरुधिरविण्मूत्रापेयमांसादिवस्तुभिः ॥ 368 ॥
मूलम् - 368
तथा पिपीलिकाद्यैस्तु न तत्प्रायैर्विशेषतः।
रेतोरुधिरविण्मूत्रापेयमांसादिवस्तुभिः ॥ 368 ॥
विश्वास-प्रस्तुतिः - 369
देवबिम्बे तु संस्पृष्टे कुर्यात् स्नपनमुत्तमम्।
एतैः स्पृष्टेऽङ्कणादौ तु तस्मादुद्धृत्य तत्क्षणात् ॥ 369 ॥
मूलम् - 369
देवबिम्बे तु संस्पृष्टे कुर्यात् स्नपनमुत्तमम्।
एतैः स्पृष्टेऽङ्कणादौ तु तस्मादुद्धृत्य तत्क्षणात् ॥ 369 ॥
विश्वास-प्रस्तुतिः - 370
गोमयेनोपलिप्याथ प्रोक्षयेद्द्रव्यपञ्चकैः।
शान्त्यर्थं जुहुयान्मन्त्री तिलाज्याभ्यां शतं शतम् ॥ 370 ॥
मूलम् - 370
गोमयेनोपलिप्याथ प्रोक्षयेद्द्रव्यपञ्चकैः।
शान्त्यर्थं जुहुयान्मन्त्री तिलाज्याभ्यां शतं शतम् ॥ 370 ॥
विश्वास-प्रस्तुतिः - 371
वैश्यैश्च वैष्णवैर्बिम्बे शूद्रैः स्त्रीभिर्विशेषतः।
विमाने स्थापिते स्पृष्टे क्षालयेत् पञ्चगव्यकैः ॥ 371 ॥
मूलम् - 371
वैश्यैश्च वैष्णवैर्बिम्बे शूद्रैः स्त्रीभिर्विशेषतः।
विमाने स्थापिते स्पृष्टे क्षालयेत् पञ्चगव्यकैः ॥ 371 ॥
विश्वास-प्रस्तुतिः - 372
शान्तिहोमं प्रकुर्वीत मधुक्षीरादिभिः शतम्।
बिम्बेऽनुलोमैः संस्पृष्टे प्रतिलोमैश्च गर्हितैः ॥ 372 ॥
मूलम् - 372
शान्तिहोमं प्रकुर्वीत मधुक्षीरादिभिः शतम्।
बिम्बेऽनुलोमैः संस्पृष्टे प्रतिलोमैश्च गर्हितैः ॥ 372 ॥
विश्वास-प्रस्तुतिः - 373
स्नपनं शान्तिहोमं च सदानं सर्वदा चरेत्।
वैखानसैस्तु संस्पृष्टे पयःस्नानेन शुध्यति ॥ 373 ॥
मूलम् - 373
स्नपनं शान्तिहोमं च सदानं सर्वदा चरेत्।
वैखानसैस्तु संस्पृष्टे पयःस्नानेन शुध्यति ॥ 373 ॥
विश्वास-प्रस्तुतिः - 374
आराधिते स्वमार्गेण प्रतिष्ठामाचरेत् पुनः।
प्रतिमा चैव तत्पीठं प्रासादो गर्भमन्दिरम् ॥ 374 ॥
मूलम् - 374
आराधिते स्वमार्गेण प्रतिष्ठामाचरेत् पुनः।
प्रतिमा चैव तत्पीठं प्रासादो गर्भमन्दिरम् ॥ 374 ॥
विश्वास-प्रस्तुतिः - 375
विग्रहं देवदेवस्य चतुष्टयमिदं समम्।
समाधिश्च तथा शान्तिः कार्या तत्र सदा समा ॥ 375 ॥
मूलम् - 375
विग्रहं देवदेवस्य चतुष्टयमिदं समम्।
समाधिश्च तथा शान्तिः कार्या तत्र सदा समा ॥ 375 ॥
विश्वास-प्रस्तुतिः - 376
वेदिकायां तथा चक्रे पङ्कजे चक्रपङ्कजे।
हेमादिद्रव्यरचिते मण्डले रजसा कृते ॥ 376 ॥
मूलम् - 376
वेदिकायां तथा चक्रे पङ्कजे चक्रपङ्कजे।
हेमादिद्रव्यरचिते मण्डले रजसा कृते ॥ 376 ॥
विश्वास-प्रस्तुतिः - 377
समाधिश्चैव शान्तिश्च प्रतिपत्तिश्च तादृशी।
प्राकारे गोपुरद्वारमण्टपादिपरिष्कृते ॥ 377 ॥
मूलम् - 377
समाधिश्चैव शान्तिश्च प्रतिपत्तिश्च तादृशी।
प्राकारे गोपुरद्वारमण्टपादिपरिष्कृते ॥ 377 ॥
विश्वास-प्रस्तुतिः - 378
शिवादिभिर्न दोषोऽस्ति प्राङ्कणादावधिष्ठिते।
प्रविष्टे यजनस्थाने प्रोक्षयेत् पञ्चगव्यकैः ॥ 378 ॥
मूलम् - 378
शिवादिभिर्न दोषोऽस्ति प्राङ्कणादावधिष्ठिते।
प्रविष्टे यजनस्थाने प्रोक्षयेत् पञ्चगव्यकैः ॥ 378 ॥
विश्वास-प्रस्तुतिः - 379
मण्टपाङ्कणशालासु मालिकाद्यासु भूमिषु।
पूजाङ्गत्वेन विहितैर्गुरुसाधकदीक्षितैः ॥ 379 ॥
मूलम् - 379
मण्टपाङ्कणशालासु मालिकाद्यासु भूमिषु।
पूजाङ्गत्वेन विहितैर्गुरुसाधकदीक्षितैः ॥ 379 ॥
विश्वास-प्रस्तुतिः - 380
न दोषो द्विजशार्दूल! शयनासनभोजनैः।
पादप्रक्षालनाचामस्नानाभ्यङ्गादिकैरपि ॥ 380 ॥
मूलम् - 380
न दोषो द्विजशार्दूल! शयनासनभोजनैः।
पादप्रक्षालनाचामस्नानाभ्यङ्गादिकैरपि ॥ 380 ॥
विश्वास-प्रस्तुतिः - 381
अन्यैः क्लृप्तेषु चैतेषु गोमयेनोपलिप्य च।
प्रोक्षयेत् पच्चभिर्गव्यैः कुशोदकसमन्वितैः ॥ 381 ॥
मूलम् - 381
अन्यैः क्लृप्तेषु चैतेषु गोमयेनोपलिप्य च।
प्रोक्षयेत् पच्चभिर्गव्यैः कुशोदकसमन्वितैः ॥ 381 ॥
विश्वास-प्रस्तुतिः - 382
बिडालमूषिकासर्पमण्डूककृकलासकैः।
आखुचुचुन्दरी गोधाराजिलाद्यैश्च जन्तुभिः ॥ 382 ॥
मूलम् - 382
बिडालमूषिकासर्पमण्डूककृकलासकैः।
आखुचुचुन्दरी गोधाराजिलाद्यैश्च जन्तुभिः ॥ 382 ॥
विश्वास-प्रस्तुतिः - 383
अधिष्ठिते गर्भगेहे शान्तिहोमं समाचरेत्।
मक्षिकावासवल्मीककृमीणां निचयेष्वपि ॥ 383 ॥
मूलम् - 383
अधिष्ठिते गर्भगेहे शान्तिहोमं समाचरेत्।
मक्षिकावासवल्मीककृमीणां निचयेष्वपि ॥ 383 ॥
विश्वास-प्रस्तुतिः - 384
बिम्बे विमाने जातेषु तदैवोद्धृत्य तान् पुनः।
समाधाय यथापूर्वं चतुः स्थानार्चनादिकम् ॥ 384 ॥
मूलम् - 384
बिम्बे विमाने जातेषु तदैवोद्धृत्य तान् पुनः।
समाधाय यथापूर्वं चतुः स्थानार्चनादिकम् ॥ 384 ॥
विश्वास-प्रस्तुतिः - 385
स्नपनं देवदेवस्य कुर्यादुत्तममध्यमम्।
मण्टपादौ तु सर्वत्र कुत्रचिद्वा हरेर्गृहे ॥ 385 ॥
मूलम् - 385
स्नपनं देवदेवस्य कुर्यादुत्तममध्यमम्।
मण्टपादौ तु सर्वत्र कुत्रचिद्वा हरेर्गृहे ॥ 385 ॥
विश्वास-प्रस्तुतिः - 386
ब्रह्नदण्डादिरोहे च छत्राकाणां समुत्थितौ।
दुष्टसत्वगणापूर्वपक्षिसंघसमाकुले ॥ 386 ॥
मूलम् - 386
ब्रह्नदण्डादिरोहे च छत्राकाणां समुत्थितौ।
दुष्टसत्वगणापूर्वपक्षिसंघसमाकुले ॥ 386 ॥
विश्वास-प्रस्तुतिः - 387
शान्तिहोमं प्रकुर्वीत तान् व्यपोह्य तदैव तु।
विमाने तेषु जातेषु मध्यमस्नपनं चरेत् ॥ 387 ॥
मूलम् - 387
शान्तिहोमं प्रकुर्वीत तान् व्यपोह्य तदैव तु।
विमाने तेषु जातेषु मध्यमस्नपनं चरेत् ॥ 387 ॥
विश्वास-प्रस्तुतिः - 388
बिम्बे यदि तदा कार्यं प्रवासावसथादिकम्।
कर्म कृत्वा यथापूर्वं त्यागान्तं तु नृपाज्ञया ॥ 388 ॥
मूलम् - 388
बिम्बे यदि तदा कार्यं प्रवासावसथादिकम्।
कर्म कृत्वा यथापूर्वं त्यागान्तं तु नृपाज्ञया ॥ 388 ॥
विश्वास-प्रस्तुतिः - 389
नवीकृत्य पुनर्बिम्बं पुरावत् स्थापयेद्बुधः।
रक्तस्त्रीषु समुत्पन्नास्वर्चायामेवमेव तु ॥ 389 ॥
मूलम् - 389
नवीकृत्य पुनर्बिम्बं पुरावत् स्थापयेद्बुधः।
रक्तस्त्रीषु समुत्पन्नास्वर्चायामेवमेव तु ॥ 389 ॥
विश्वास-प्रस्तुतिः - 390
समाधाय प्रतिष्ठाप्य शान्त्यर्थं पुनरेव तु।
स्नापयेद्देवदेवेशमुत्तमोत्तमवर्त्मना ॥ 390 ॥
मूलम् - 390
समाधाय प्रतिष्ठाप्य शान्त्यर्थं पुनरेव तु।
स्नापयेद्देवदेवेशमुत्तमोत्तमवर्त्मना ॥ 390 ॥
विश्वास-प्रस्तुतिः - 391
विमान आसु जातासु कुर्यात् स्नपनमध्यमम्।
मण्टपादिषु जातासु स्नपनं च समाचरेत् ॥ 391 ॥
मूलम् - 391
विमान आसु जातासु कुर्यात् स्नपनमध्यमम्।
मण्टपादिषु जातासु स्नपनं च समाचरेत् ॥ 391 ॥
विश्वास-प्रस्तुतिः - 392
दृष्टास्वेतासु विप्रोन्द्र! प्राङ्कणादौ तु कुत्रचित्।
तास्तदैव समुद्धृत्य गव्यैः संप्रोक्षयेत्ततः ॥ 392 ॥
मूलम् - 392
दृष्टास्वेतासु विप्रोन्द्र! प्राङ्कणादौ तु कुत्रचित्।
तास्तदैव समुद्धृत्य गव्यैः संप्रोक्षयेत्ततः ॥ 392 ॥
विश्वास-प्रस्तुतिः - 393
शान्त्यर्थं जुहुयान्मन्त्री बहिश्चेत् सघृतैस्तिलैः।
देवालयेष्वकर्तव्ये कृते कर्मणि कुत्रचित् ॥ 393 ॥
मूलम् - 393
शान्त्यर्थं जुहुयान्मन्त्री बहिश्चेत् सघृतैस्तिलैः।
देवालयेष्वकर्तव्ये कृते कर्मणि कुत्रचित् ॥ 393 ॥
विश्वास-प्रस्तुतिः - 394
मध्यमावरणादन्तः स्नपनं होमपश्चिमम्।
शान्तये जुहुयान्मन्त्री बहिश्चेज्ज्वलितेऽनले ॥ 394 ॥
मूलम् - 394
मध्यमावरणादन्तः स्नपनं होमपश्चिमम्।
शान्तये जुहुयान्मन्त्री बहिश्चेज्ज्वलितेऽनले ॥ 394 ॥
विश्वास-प्रस्तुतिः - 395
छर्दिनिष्ठीवलालाद्यैर्दूषिते देवसझनि।
तदैव तद्व्यपोह्यात्र पञ्चगव्यैर्विलिप्य च ॥ 395 ॥
मूलम् - 395
छर्दिनिष्ठीवलालाद्यैर्दूषिते देवसझनि।
तदैव तद्व्यपोह्यात्र पञ्चगव्यैर्विलिप्य च ॥ 395 ॥
विश्वास-प्रस्तुतिः - 396
जपेदस्त्रशतं मन्त्री हृन्मन्त्रं च विधानतः।
प्रायश्चित्तं प्रवक्ष्यामि शवस्पृष्टौ विशेषतः ॥ 396 ॥
मूलम् - 396
जपेदस्त्रशतं मन्त्री हृन्मन्त्रं च विधानतः।
प्रायश्चित्तं प्रवक्ष्यामि शवस्पृष्टौ विशेषतः ॥ 396 ॥
विश्वास-प्रस्तुतिः - 397
द्विजातिशवसंस्पृष्टे प्रमादाद्देवकौतुके।
एकाशीतिघटैः स्नाप्य मूलमन्त्रायुतं हुनेत् ॥ 397 ॥
मूलम् - 397
द्विजातिशवसंस्पृष्टे प्रमादाद्देवकौतुके।
एकाशीतिघटैः स्नाप्य मूलमन्त्रायुतं हुनेत् ॥ 397 ॥
विश्वास-प्रस्तुतिः - 398
क्षत्रविट्छूद्रजातीनां शवैः स्पृष्टे तु कौतुके।
मध्यमेनोत्तमेनैव महस्रकलशेन तु ॥ 398 ॥
मूलम् - 398
क्षत्रविट्छूद्रजातीनां शवैः स्पृष्टे तु कौतुके।
मध्यमेनोत्तमेनैव महस्रकलशेन तु ॥ 398 ॥
विश्वास-प्रस्तुतिः - 399
क्रमेण स्नापयेद्देवमेकैकेन यथाविधि।
शान्त्यर्थं हवनं कृत्वा यथापूर्वं तथा जपेत् ॥ 399 ॥
मूलम् - 399
क्रमेण स्नापयेद्देवमेकैकेन यथाविधि।
शान्त्यर्थं हवनं कृत्वा यथापूर्वं तथा जपेत् ॥ 399 ॥
विश्वास-प्रस्तुतिः - 400
अनुलोमशवस्पृष्टौ संप्रोक्षणमथाचरेत्।
चण्डालपतितोदक्यासूतिकाशवदूषिते ॥ 400 ॥
मूलम् - 400
अनुलोमशवस्पृष्टौ संप्रोक्षणमथाचरेत्।
चण्डालपतितोदक्यासूतिकाशवदूषिते ॥ 400 ॥
विश्वास-प्रस्तुतिः - 401
बिम्बे प्रतिष्ठां कुर्वीत सहस्रकलशाप्लवम्।
शान्तिहोमायुतं तद्वज्जपं कुर्याद्यथाक्रमम् ॥ 401 ॥
मूलम् - 401
बिम्बे प्रतिष्ठां कुर्वीत सहस्रकलशाप्लवम्।
शान्तिहोमायुतं तद्वज्जपं कुर्याद्यथाक्रमम् ॥ 401 ॥
विश्वास-प्रस्तुतिः - 402
विमाने ब्राह्नणादीनामनुलोमादिकस्य च।
शवस्पृष्टौ तु सक्षाल्य बहूदकघटेन तु ॥ 402 ॥
मूलम् - 402
विमाने ब्राह्नणादीनामनुलोमादिकस्य च।
शवस्पृष्टौ तु सक्षाल्य बहूदकघटेन तु ॥ 402 ॥
विश्वास-प्रस्तुतिः - 403
उत्तमोत्तमनिष्ठं तु स्नपनं मध्यमाधमात्।
संस्नाप्य देवदेवेशमेकैकेन क्रमेण तु ॥ 403 ॥
मूलम् - 403
उत्तमोत्तमनिष्ठं तु स्नपनं मध्यमाधमात्।
संस्नाप्य देवदेवेशमेकैकेन क्रमेण तु ॥ 403 ॥
विश्वास-प्रस्तुतिः - 404
शान्तिहोमं प्रकुर्वीत पश्चान्मन्त्रं यथा जपेत्।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमे ॥ 404 ॥
मूलम् - 404
शान्तिहोमं प्रकुर्वीत पश्चान्मन्त्रं यथा जपेत्।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमे ॥ 404 ॥
विश्वास-प्रस्तुतिः - 405
दूषिते प्राङ्गणक्षेत्रे प्रागुक्तैः क्रमशो भुवः।
स्थलं संशोध्य विधिवद्दीक्षितैर्मन्त्रवित्तमैः ॥ 405 ॥
मूलम् - 405
दूषिते प्राङ्गणक्षेत्रे प्रागुक्तैः क्रमशो भुवः।
स्थलं संशोध्य विधिवद्दीक्षितैर्मन्त्रवित्तमैः ॥ 405 ॥
विश्वास-प्रस्तुतिः - 406
मुख्योत्तमात्तु स्नपनान्नीचान्तिममनुक्रमात्।
स्नापयित्वा विशेषेण शान्तिहोमं स्माचरेत् ॥ 406 ॥
मूलम् - 406
मुख्योत्तमात्तु स्नपनान्नीचान्तिममनुक्रमात्।
स्नापयित्वा विशेषेण शान्तिहोमं स्माचरेत् ॥ 406 ॥
विश्वास-प्रस्तुतिः - 407
एवमेवान्त्यजातीनां शवस्पृष्टौ समाचरेत्।
सालमण्टपपीठेषु गोपुरे मन्दिरेऽपि वा ॥ 407 ॥
मूलम् - 407
एवमेवान्त्यजातीनां शवस्पृष्टौ समाचरेत्।
सालमण्टपपीठेषु गोपुरे मन्दिरेऽपि वा ॥ 407 ॥
विश्वास-प्रस्तुतिः - 408
विमानाद्वाह्यतः व्काऽपि परिवारालयादिषु।
वर्णानां ब्राह्नणादीनामनुलोमादिकस्य च ॥ 408 ॥
मूलम् - 408
विमानाद्वाह्यतः व्काऽपि परिवारालयादिषु।
वर्णानां ब्राह्नणादीनामनुलोमादिकस्य च ॥ 408 ॥
विश्वास-प्रस्तुतिः - 409
मरणेष्वपि जातेषु तत्तदावरमोक्तवत्।
पश्वादिषु मृतेष्वेषु गजाश्वोष्ट्रखरादिषु ॥ 409 ॥
मूलम् - 409
मरणेष्वपि जातेषु तत्तदावरमोक्तवत्।
पश्वादिषु मृतेष्वेषु गजाश्वोष्ट्रखरादिषु ॥ 409 ॥
विश्वास-प्रस्तुतिः - 410
मरणादिषु सर्वत्र भूशुद्धिं पुरतश्चरेत्।
श्वसृगालशवाद्येषु काकश्येनादिजन्तुषु ॥ 410 ॥
मूलम् - 410
मरणादिषु सर्वत्र भूशुद्धिं पुरतश्चरेत्।
श्वसृगालशवाद्येषु काकश्येनादिजन्तुषु ॥ 410 ॥
विश्वास-प्रस्तुतिः - 411
मार्जारवानराद्येषु तथान्येष्वेवमादिषु।
संप्रोक्ष्य पञ्चगव्येन शान्तिहोमं समाचरेत् ॥ 411 ॥
मूलम् - 411
मार्जारवानराद्येषु तथान्येष्वेवमादिषु।
संप्रोक्ष्य पञ्चगव्येन शान्तिहोमं समाचरेत् ॥ 411 ॥
विश्वास-प्रस्तुतिः - 412
मृते मूषिकसर्पादौ भूशुद्धिं च जपं चरेत्।
मरणादिषु सर्वत्र भूशुद्धिं पुरतश्चरेत् ॥ 412 ॥
मूलम् - 412
मृते मूषिकसर्पादौ भूशुद्धिं च जपं चरेत्।
मरणादिषु सर्वत्र भूशुद्धिं पुरतश्चरेत् ॥ 412 ॥
विश्वास-प्रस्तुतिः - 413
सर्वावासे महापीठे तथा शैलमयेष्वपि।
प्रदेशेषु समालिप्य गोमयेन समन्ततः ॥ 413 ॥
मूलम् - 413
सर्वावासे महापीठे तथा शैलमयेष्वपि।
प्रदेशेषु समालिप्य गोमयेन समन्ततः ॥ 413 ॥
विश्वास-प्रस्तुतिः - 414
प्रोक्षयेत् पञ्चभिर्गव्यैः पुण्याहोक्तिपुरस्सरम्।
गृहार्चायां न दोषोऽस्ति मृते पूजागृहाद्बहिः ॥ 414 ॥
मूलम् - 414
प्रोक्षयेत् पञ्चभिर्गव्यैः पुण्याहोक्तिपुरस्सरम्।
गृहार्चायां न दोषोऽस्ति मृते पूजागृहाद्बहिः ॥ 414 ॥
विश्वास-प्रस्तुतिः - 415
क्षालनालेपनाद्येन व(क)र्मणा तत्र शोधयेत्।
सन्निकर्षे गृहार्चायाः क्षीरेण स्नाप्य पूजयेत् ॥ 415 ॥
मूलम् - 415
क्षालनालेपनाद्येन व(क)र्मणा तत्र शोधयेत्।
सन्निकर्षे गृहार्चायाः क्षीरेण स्नाप्य पूजयेत् ॥ 415 ॥
विश्वास-प्रस्तुतिः - 416
देवसिद्धमुनीन्द्राद्यैः कल्पिते भगवद्गृहे।
तत्तदङ्गतया क्लृप्ते ग्रामादौ राष्ट्रसंकुलात् ॥ 416 ॥
मूलम् - 416
देवसिद्धमुनीन्द्राद्यैः कल्पिते भगवद्गृहे।
तत्तदङ्गतया क्लृप्ते ग्रामादौ राष्ट्रसंकुलात् ॥ 416 ॥
विश्वास-प्रस्तुतिः - 417
चण्डालपतितोदक्यासूतिकाशबरादिभिः।
दूषिते भगवद्बिम्बे संप्रोक्षणविधिं चरेत् ॥ 417 ॥
मूलम् - 417
चण्डालपतितोदक्यासूतिकाशबरादिभिः।
दूषिते भगवद्बिम्बे संप्रोक्षणविधिं चरेत् ॥ 417 ॥
विश्वास-प्रस्तुतिः - 418
सहस्रकलशैर्देवं सन्निकृष्टेऽभिषिच्य च।
शान्तिहोमं प्रकुर्वीत चतुःस्थानार्चनादिकम् ॥ 418 ॥
मूलम् - 418
सहस्रकलशैर्देवं सन्निकृष्टेऽभिषिच्य च।
शान्तिहोमं प्रकुर्वीत चतुःस्थानार्चनादिकम् ॥ 418 ॥
विश्वास-प्रस्तुतिः - 419
सहस्रकृत्वस्तदनु जपं कुर्यात्तथाविधम्।
प्रासादे वाऽङ्कणद्वारि मण्टपे पचनालये ॥ 419 ॥
मूलम् - 419
सहस्रकृत्वस्तदनु जपं कुर्यात्तथाविधम्।
प्रासादे वाऽङ्कणद्वारि मण्टपे पचनालये ॥ 419 ॥
विश्वास-प्रस्तुतिः - 420
पुष्पावासे जलागार धनधान्यालयादिषु।
ध्वजपीठे महापीठे रथ्यावृतिगणेष्वपि ॥ 420 ॥
मूलम् - 420
पुष्पावासे जलागार धनधान्यालयादिषु।
ध्वजपीठे महापीठे रथ्यावृतिगणेष्वपि ॥ 420 ॥
विश्वास-प्रस्तुतिः - 421
उत्सवाङ्गतया क्लृप्ते ग्रामादौ राष्ट्रसंकुलात्।
चण्डालपतितोदक्यासूतिकाशबरादिभिः ॥ 421 ॥
मूलम् - 421
उत्सवाङ्गतया क्लृप्ते ग्रामादौ राष्ट्रसंकुलात्।
चण्डालपतितोदक्यासूतिकाशबरादिभिः ॥ 421 ॥
विश्वास-प्रस्तुतिः - 422
वर्णानां ब्राह्नणादीनामनुलोमविलोमयोः।
शवास्थिभिश्च सन्दुष्टां सर्वत्रैकत्र वा क्षितिम् ॥ 422 ॥
मूलम् - 422
वर्णानां ब्राह्नणादीनामनुलोमविलोमयोः।
शवास्थिभिश्च सन्दुष्टां सर्वत्रैकत्र वा क्षितिम् ॥ 422 ॥
विश्वास-प्रस्तुतिः - 423
खात्वा मृदं समुद्धृत्य बहिः प्रक्षिप्य शुद्धया।
संपूर्य च समीकृत्य कुशाद्भिः परिमृज्य च ॥ 423 ॥
मूलम् - 423
खात्वा मृदं समुद्धृत्य बहिः प्रक्षिप्य शुद्धया।
संपूर्य च समीकृत्य कुशाद्भिः परिमृज्य च ॥ 423 ॥
विश्वास-प्रस्तुतिः - 424
गोमयेनोपलिप्याथ पुण्याहवचनादिकम्।
पञ्चगव्येन चाभ्युक्ष्य गोगणं तत्र वासयेत् ॥ 424 ॥
मूलम् - 424
गोमयेनोपलिप्याथ पुण्याहवचनादिकम्।
पञ्चगव्येन चाभ्युक्ष्य गोगणं तत्र वासयेत् ॥ 424 ॥
विश्वास-प्रस्तुतिः - 425
वाचयित्वा महाशान्तिं ब्नाह्नणैर्वेदपारगैः।
भोजयित्वा द्विजांस्तत्र तेभ्यो दद्यात्तु दक्षिणाम् ॥ 425 ॥
मूलम् - 425
वाचयित्वा महाशान्तिं ब्नाह्नणैर्वेदपारगैः।
भोजयित्वा द्विजांस्तत्र तेभ्यो दद्यात्तु दक्षिणाम् ॥ 425 ॥
विश्वास-प्रस्तुतिः - 426
कृत्वैवं स्थूलशुद्धिं तु शान्तिं कुर्यादनुक्रमात्।
पञ्चयज्ञमयीं पुण्यां सर्वादोषापनुत्तये ॥ 426 ॥
मूलम् - 426
कृत्वैवं स्थूलशुद्धिं तु शान्तिं कुर्यादनुक्रमात्।
पञ्चयज्ञमयीं पुण्यां सर्वादोषापनुत्तये ॥ 426 ॥
विश्वास-प्रस्तुतिः - 427
एवं वर्षावधिर्यावन्न कृता शान्तिकी क्रिया।
सहस्रकलशेनैव पवित्रावर्तितेन च ॥ 427 ॥
मूलम् - 427
एवं वर्षावधिर्यावन्न कृता शान्तिकी क्रिया।
सहस्रकलशेनैव पवित्रावर्तितेन च ॥ 427 ॥
विश्वास-प्रस्तुतिः - 428
व्यापकैः पञ्चभिर्मन्त्रैः पञ्चधा स्नापयेद्विभुम्।
ध्वजमुत्थाप्य विधिवन्नवाहाद्युत्सवं पुरा ॥ 428 ॥
मूलम् - 428
व्यापकैः पञ्चभिर्मन्त्रैः पञ्चधा स्नापयेद्विभुम्।
ध्वजमुत्थाप्य विधिवन्नवाहाद्युत्सवं पुरा ॥ 428 ॥
विश्वास-प्रस्तुतिः - 429
शान्त्यर्थं सर्वदोषाणां कुर्यात्तीर्थाघमर्षणम्।
चक्रशङ्खगदापझवृत्तकुण्डेष्वनुक्रमात् ॥ 429 ॥
मूलम् - 429
शान्त्यर्थं सर्वदोषाणां कुर्यात्तीर्थाघमर्षणम्।
चक्रशङ्खगदापझवृत्तकुण्डेष्वनुक्रमात् ॥ 429 ॥
विश्वास-प्रस्तुतिः - 430
तत् कुर्यात् पञ्चभिर्मुख्यैर्द्वादशार्णपुरस्सरैः।
मधुक्षीरादिभिर्द्रव्यैः पञ्चभिर्नियुताख्यया ॥ 430 ॥
मूलम् - 430
तत् कुर्यात् पञ्चभिर्मुख्यैर्द्वादशार्णपुरस्सरैः।
मधुक्षीरादिभिर्द्रव्यैः पञ्चभिर्नियुताख्यया ॥ 430 ॥
विश्वास-प्रस्तुतिः - 431
सङ्ख्यया जुहुयान्मन्त्री लक्षसङ्ख्या भवेद्यथा।
अनुकल्पे विधिरयं शान्तिकर्मणि संमतः ॥ 431 ॥
मूलम् - 431
सङ्ख्यया जुहुयान्मन्त्री लक्षसङ्ख्या भवेद्यथा।
अनुकल्पे विधिरयं शान्तिकर्मणि संमतः ॥ 431 ॥
विश्वास-प्रस्तुतिः - 432
मुख्यकल्पो विशेषेण वक्ष्यते होमकर्मणि।
स्थापनोक्तविधानेन कल्पिते मण्टपे शुभे ॥ 432 ॥
मूलम् - 432
मुख्यकल्पो विशेषेण वक्ष्यते होमकर्मणि।
स्थापनोक्तविधानेन कल्पिते मण्टपे शुभे ॥ 432 ॥
विश्वास-प्रस्तुतिः - 433
चक्राम्बुरुहपूर्वेषु यथावत्कल्पितेषु च।
क्लृप्तेषु दशसङ्खयेषु व्रह्नवृक्षादिसंभवैः ॥ 433 ॥
मूलम् - 433
चक्राम्बुरुहपूर्वेषु यथावत्कल्पितेषु च।
क्लृप्तेषु दशसङ्खयेषु व्रह्नवृक्षादिसंभवैः ॥ 433 ॥
विश्वास-प्रस्तुतिः - 434
समिद्गणैस्तिलैराज्यैः सेचितैः प्रागुदीरितैः।
पञ्चभिर्मधुराद्यैश्च मिश्रीभूतैः क्रमेण तु ॥ 434 ॥
मूलम् - 434
समिद्गणैस्तिलैराज्यैः सेचितैः प्रागुदीरितैः।
पञ्चभिर्मधुराद्यैश्च मिश्रीभूतैः क्रमेण तु ॥ 434 ॥
विश्वास-प्रस्तुतिः - 435
महत्तराणां दोषाणां शान्तये मन्त्रवित्तमैः।
अयुतं नियुतं लक्षं कोटिनिष्ठं यथाबलम् ॥ 435 ॥
मूलम् - 435
महत्तराणां दोषाणां शान्तये मन्त्रवित्तमैः।
अयुतं नियुतं लक्षं कोटिनिष्ठं यथाबलम् ॥ 435 ॥
विश्वास-प्रस्तुतिः - 436
होतव्यं पूर्णया सार्धं दशभिर्मन्त्रसत्तमैः।
कुण्डेषु मध्यपूर्वेषु, मन्त्राणां नियमं श्रृणु ॥ 436 ॥
मूलम् - 436
होतव्यं पूर्णया सार्धं दशभिर्मन्त्रसत्तमैः।
कुण्डेषु मध्यपूर्वेषु, मन्त्राणां नियमं श्रृणु ॥ 436 ॥
विश्वास-प्रस्तुतिः - 437
चक्राब्जे द्वादशार्णेन वस्वश्रेऽष्टाक्षरेण तु।
षडर्णेन षडश्रे तु शङ्खाभे प्रणवेन तु ॥ 437 ॥
मूलम् - 437
चक्राब्जे द्वादशार्णेन वस्वश्रेऽष्टाक्षरेण तु।
षडर्णेन षडश्रे तु शङ्खाभे प्रणवेन तु ॥ 437 ॥
विश्वास-प्रस्तुतिः - 438
जितंतया चतुर्यश्रे विश्वत्राता त्रिकोणके।
द्वात्रिंशद्दलपझाख्ये नृसिंहानुष्टुभेन तु ॥ 438 ॥
मूलम् - 438
जितंतया चतुर्यश्रे विश्वत्राता त्रिकोणके।
द्वात्रिंशद्दलपझाख्ये नृसिंहानुष्टुभेन तु ॥ 438 ॥
विश्वास-प्रस्तुतिः - 439
सौदर्शननृसिंहेन चक्रकुण्डेऽक्षरारके।
वराहेणार्धचन्द्राख्ये वृत्ते सौदर्शनेन तु ॥ 439 ॥
मूलम् - 439
सौदर्शननृसिंहेन चक्रकुण्डेऽक्षरारके।
वराहेणार्धचन्द्राख्ये वृत्ते सौदर्शनेन तु ॥ 439 ॥
विश्वास-प्रस्तुतिः - 440
धिष्ण्यद्वयं मध्यवेद्याः प्रागुक्तं दक्षिणोत्तरे।
शेषाणि परितः कुर्याद्दिक्षु चैवं विदिक्षु च ॥ 440 ॥
मूलम् - 440
धिष्ण्यद्वयं मध्यवेद्याः प्रागुक्तं दक्षिणोत्तरे।
शेषाणि परितः कुर्याद्दिक्षु चैवं विदिक्षु च ॥ 440 ॥
विश्वास-प्रस्तुतिः - 441
सिद्धमन्त्रा नियोक्तव्या होतारःशान्तिकर्मणि।
सर्वकुण्डानि सर्वेषां मन्त्राणामिच्छया गुरोः ॥ 441 ॥
मूलम् - 441
सिद्धमन्त्रा नियोक्तव्या होतारःशान्तिकर्मणि।
सर्वकुण्डानि सर्वेषां मन्त्राणामिच्छया गुरोः ॥ 441 ॥
विश्वास-प्रस्तुतिः - 442
कल्पनीयानि वा मन्त्रा यतः सर्वफलप्रदाः।
न्यस्तमन्त्रैर्यथान्यायं जप्यास्ते सङ्ख्यया तया ॥ 442 ॥
मूलम् - 442
कल्पनीयानि वा मन्त्रा यतः सर्वफलप्रदाः।
न्यस्तमन्त्रैर्यथान्यायं जप्यास्ते सङ्ख्यया तया ॥ 442 ॥
विश्वास-प्रस्तुतिः - 443
गोभूहेमतिलान्नानां दानैर्योग्यजनस्य च।
तृप्तिः कार्या विशेषेण दिव्याद्यायतनस्य च ॥ 443 ॥
मूलम् - 443
गोभूहेमतिलान्नानां दानैर्योग्यजनस्य च।
तृप्तिः कार्या विशेषेण दिव्याद्यायतनस्य च ॥ 443 ॥
विश्वास-प्रस्तुतिः - 444
प्रजापालनशीलेन भूपेनात्महितेच्छुना।
शान्तिरेवंविधा कार्या शास्त्रज्ञैर्बहुभिर्धनैः ॥ 444 ॥
मूलम् - 444
प्रजापालनशीलेन भूपेनात्महितेच्छुना।
शान्तिरेवंविधा कार्या शास्त्रज्ञैर्बहुभिर्धनैः ॥ 444 ॥
विश्वास-प्रस्तुतिः - 445
प्राचुर्यात् सर्वदोषाणां धर्मज्ञैः शान्तिकी क्रिया।
निर्वर्तुं न तु शक्या चेन्महा स्नानादिपञ्चकम् ॥ 445 ॥
मूलम् - 445
प्राचुर्यात् सर्वदोषाणां धर्मज्ञैः शान्तिकी क्रिया।
निर्वर्तुं न तु शक्या चेन्महा स्नानादिपञ्चकम् ॥ 445 ॥
विश्वास-प्रस्तुतिः - 446
महादानावसानं च कार्य दिव्यालयादिषु।
पौनःपुन्येन बिधिवच्छुद्धेन द्रविणेन च ॥ 446 ॥
मूलम् - 446
महादानावसानं च कार्य दिव्यालयादिषु।
पौनःपुन्येन बिधिवच्छुद्धेन द्रविणेन च ॥ 446 ॥
विश्वास-प्रस्तुतिः - 447
उल्काशन्यादिपाते च नक्षत्रपतने च खात्।
सधूमे च दिशादाहे भूताद्यावेशिते नृपे ॥ 447 ॥
मूलम् - 447
उल्काशन्यादिपाते च नक्षत्रपतने च खात्।
सधूमे च दिशादाहे भूताद्यावेशिते नृपे ॥ 447 ॥
विश्वास-प्रस्तुतिः - 448
दुर्भिक्षे व्याधिते राष्ट्रे तथा वै शत्रुसङ्कटे।
सूर्योदयस्य व्यत्यासे भूकम्पे तद्विदारणे ॥ 448 ॥
मूलम् - 448
दुर्भिक्षे व्याधिते राष्ट्रे तथा वै शत्रुसङ्कटे।
सूर्योदयस्य व्यत्यासे भूकम्पे तद्विदारणे ॥ 448 ॥
विश्वास-प्रस्तुतिः - 449
अतिवृष्टावनावृष्ठौ देवताहसने सति।
रोदने च तथा खिन्ने तथार्चाचलनेऽपि च ॥ 449 ॥
मूलम् - 449
अतिवृष्टावनावृष्ठौ देवताहसने सति।
रोदने च तथा खिन्ने तथार्चाचलनेऽपि च ॥ 449 ॥
विश्वास-प्रस्तुतिः - 450
भ्रमणे च तथा पीठादङ्गभङ्गादिके सति।
शैथिल्ये सरघादीनामुद्भवे बहुधा गृहे ॥ 450 ॥
मूलम् - 450
भ्रमणे च तथा पीठादङ्गभङ्गादिके सति।
शैथिल्ये सरघादीनामुद्भवे बहुधा गृहे ॥ 450 ॥
विश्वास-प्रस्तुतिः - 451
एवमादिषु चान्येषु दुर्निमित्तेषु सत्सु च।
शान्तिरेतैश्च जायेत क्रियमाणैरनुक्रमात् ॥ 451 ॥
मूलम् - 451
एवमादिषु चान्येषु दुर्निमित्तेषु सत्सु च।
शान्तिरेतैश्च जायेत क्रियमाणैरनुक्रमात् ॥ 451 ॥
विश्वास-प्रस्तुतिः - 452
चतुःस्थानार्चनं कार्यं दोषमात्रसमुद्भवे।
यथाशक्ति दरिद्राणां दानमात्रं कथञ्चन ॥ 452 ॥
मूलम् - 452
चतुःस्थानार्चनं कार्यं दोषमात्रसमुद्भवे।
यथाशक्ति दरिद्राणां दानमात्रं कथञ्चन ॥ 452 ॥
विश्वास-प्रस्तुतिः - 453
प्रासादे मण्टपे साले गोपुरे मालिकादिके।
प्रमादादग्निना दग्धे ता नीत्वाऽन्यत्र देवताः ॥ 453 ॥
मूलम् - 453
प्रासादे मण्टपे साले गोपुरे मालिकादिके।
प्रमादादग्निना दग्धे ता नीत्वाऽन्यत्र देवताः ॥ 453 ॥
विश्वास-प्रस्तुतिः - 454
यथापूर्वं नवं कृत्वा प्रतिष्ठाप्य विधानतः।
उत्तमं स्नपनं कुर्यात्तस्य दोषस्य शान्तये ॥ 454 ॥
मूलम् - 454
यथापूर्वं नवं कृत्वा प्रतिष्ठाप्य विधानतः।
उत्तमं स्नपनं कुर्यात्तस्य दोषस्य शान्तये ॥ 454 ॥
विश्वास-प्रस्तुतिः - 455
हीनैकदेशे प्रासादे हुतभुग्वातवृष्टिभिः।
कारणैः कैश्चिदन्यैर्वा सन्धेयं तच्च शिल्पिभिः ॥ 455 ॥
मूलम् - 455
हीनैकदेशे प्रासादे हुतभुग्वातवृष्टिभिः।
कारणैः कैश्चिदन्यैर्वा सन्धेयं तच्च शिल्पिभिः ॥ 455 ॥
विश्वास-प्रस्तुतिः - 456
अधमं स्नपनं कृत्वा शान्तिहोमं समाचरेत्।
विमाने सर्वतो भग्ने बालस्थानं प्रकल्प्य च ॥ 456 ॥
मूलम् - 456
अधमं स्नपनं कृत्वा शान्तिहोमं समाचरेत्।
विमाने सर्वतो भग्ने बालस्थानं प्रकल्प्य च ॥ 456 ॥
विश्वास-प्रस्तुतिः - 457
तथैव बाले बिम्बे तु नित्यनैमित्तिकादिकम्।
पवित्रारोहणान्तं च सर्वकर्म समाचरेत् ॥ 457 ॥
मूलम् - 457
तथैव बाले बिम्बे तु नित्यनैमित्तिकादिकम्।
पवित्रारोहणान्तं च सर्वकर्म समाचरेत् ॥ 457 ॥
विश्वास-प्रस्तुतिः - 458
तद्दोषशान्तये कार्यं स्नपनं मध्यमं पुनः।
भग्नबिम्बसमाधाने विशेषः प्रागुदीरितः ॥ 458 ॥
मूलम् - 458

तथापि विस्तरेणाद्य प्रोच्यते तद्विधिं श्रृणु।
मूलबिम्बेऽग्निना दग्धे बालस्थाने तथार्चयेत् ॥ 458 ॥

विश्वास-प्रस्तुतिः - 459
तथापि विस्तरेणाद्य प्रोच्यते तद्विधिं श्रृणु।
मूलबिम्बेऽग्निना दग्धे बालस्थाने तथार्चयेत् ॥ 459 ॥
मूलम् - 459
तथापि विस्तरेणाद्य प्रोच्यते तद्विधिं श्रृणु।
मूलबिम्बेऽग्निना दग्धे बालस्थाने तथार्चयेत् ॥ 459 ॥
विश्वास-प्रस्तुतिः - 460
सहस्रकलाशस्नानमाचर्तव्यं विधानतः।
वह्निना कमबिम्बादौ वैवर्ण्यं समुपागते ॥ 460 ॥
मूलम् - 460
सहस्रकलाशस्नानमाचर्तव्यं विधानतः।
वह्निना कमबिम्बादौ वैवर्ण्यं समुपागते ॥ 460 ॥
विश्वास-प्रस्तुतिः - 461
तत्तद्बिम्बेषु कुर्वीत स्नपनं चोत्तमं क्रमात्।
वह्निवातादिवेगेन मन्त्रिणामपराधतः ॥ 461 ॥
मूलम् - 461
तत्तद्बिम्बेषु कुर्वीत स्नपनं चोत्तमं क्रमात्।
वह्निवातादिवेगेन मन्त्रिणामपराधतः ॥ 461 ॥
विश्वास-प्रस्तुतिः - 462
सौवर्णे राजते बिम्बे ताम्ररीतिमये तु वा।
भिन्नाङ्गे सति संधेयं तत्क्षणाच्छिल्पिवित्तमैः ॥ 462 ॥
मूलम् - 462
सौवर्णे राजते बिम्बे ताम्ररीतिमये तु वा।
भिन्नाङ्गे सति संधेयं तत्क्षणाच्छिल्पिवित्तमैः ॥ 462 ॥
विश्वास-प्रस्तुतिः - 463
लोहान्तरेण तद्बिम्बं न सन्धेयं प्रयत्नतः।
ताम्ररीतिमयं यद्वा सन्धयेद्वित्तवर्जितः ॥ 463 ॥
मूलम् - 463
लोहान्तरेण तद्बिम्बं न सन्धेयं प्रयत्नतः।
ताम्ररीतिमयं यद्वा सन्धयेद्वित्तवर्जितः ॥ 463 ॥
विश्वास-प्रस्तुतिः - 464
यद्द्रव्येणादितः क्लृप्तं तद्द्रव्येणाथ सन्धयेत्।
त्यक्तं बिम्बं समुद्रान्तः प्रक्षिपेच्छास्त्रवर्त्मना ॥ 464 ॥
मूलम् - 464

विश्वास-प्रस्तुतिः - 465
सुवर्णरजतोत्थं यत् महाङ्गेषु च सक्षतम्।
न त्याज्यं तत् समाधेयं तत्स्थां शक्तिं विसृज्य च ॥ 465 ॥
मूलम् - 465
सुवर्णरजतोत्थं यत् महाङ्गेषु च सक्षतम्।
न त्याज्यं तत् समाधेयं तत्स्थां शक्तिं विसृज्य च ॥ 465 ॥
विश्वास-प्रस्तुतिः - 466
तद्द्रव्येण यथापूर्वं बिम्बकर्म समापयेत्।
मृत्काष्ठोपलजे भग्ने बिम्बे केनापि हेतुना ॥ 466 ॥
मूलम् - 466
तद्द्रव्येण यथापूर्वं बिम्बकर्म समापयेत्।
मृत्काष्ठोपलजे भग्ने बिम्बे केनापि हेतुना ॥ 466 ॥
विश्वास-प्रस्तुतिः - 467
बालालयगते बिम्बे तां शक्तिं शन्निरोध्य च।
दुष्टामर्चां परित्यज्य कृत्वा बिम्बान्तरं पुनः ॥ 467 ॥
मूलम् - 467
बालालयगते बिम्बे तां शक्तिं शन्निरोध्य च।
दुष्टामर्चां परित्यज्य कृत्वा बिम्बान्तरं पुनः ॥ 467 ॥
विश्वास-प्रस्तुतिः - 468
न त्याज्या मृत्तिकाशूलरज्वाद्या देवनिर्मिते।
देवयक्षमुनीन्द्राद्यैरन्यैः पौराणिकैस्तु वा ॥ 468 ॥
मूलम् - 468
न त्याज्या मृत्तिकाशूलरज्वाद्या देवनिर्मिते।
देवयक्षमुनीन्द्राद्यैरन्यैः पौराणिकैस्तु वा ॥ 468 ॥
विश्वास-प्रस्तुतिः - 469
प्रतिष्टिते तथा जीर्णे बिम्बे स्वर्णादिलोहजे।
तदङ्गं सन्धयेत् पश्चात् सुवर्णेनैव नान्यथा ॥ 469 ॥
मूलम् - 469
प्रतिष्टिते तथा जीर्णे बिम्बे स्वर्णादिलोहजे।
तदङ्गं सन्धयेत् पश्चात् सुवर्णेनैव नान्यथा ॥ 469 ॥
विश्वास-प्रस्तुतिः - 470
भग्ने शिलामये बिम्बे देवमुन्यादिकल्पिते।
तदङ्गं रुक्मजं कृत्वा सन्धेयं तद्दृढं यथा ॥ 470 ॥
मूलम् - 470
भग्ने शिलामये बिम्बे देवमुन्यादिकल्पिते।
तदङ्गं रुक्मजं कृत्वा सन्धेयं तद्दृढं यथा ॥ 470 ॥
विश्वास-प्रस्तुतिः - 471
देवादिस्थापिते बिम्बे हीनाङ्गे मृण्मये सति।
कदाचिन्न परित्याज्यं तत् सन्धेयं तदा शनैः ॥ 471 ॥
मूलम् - 471
देवादिस्थापिते बिम्बे हीनाङ्गे मृण्मये सति।
कदाचिन्न परित्याज्यं तत् सन्धेयं तदा शनैः ॥ 471 ॥
विश्वास-प्रस्तुतिः - 472
एवं जीर्णं तथाभूतं तदङ्गं सन्धयेत् सदा।
न बालगेहबिम्बाद्यमन्येनैव तु कारयेत् ॥ 472 ॥
मूलम् - 472
एवं जीर्णं तथाभूतं तदङ्गं सन्धयेत् सदा।
न बालगेहबिम्बाद्यमन्येनैव तु कारयेत् ॥ 472 ॥
विश्वास-प्रस्तुतिः - 473
नित्यादौ वर्तमानेऽत्र सर्वं कार्यमतन्द्रितैः।
एवमेव स्वयंव्यक्ते कारयेत्तन्त्रवित्तमः ॥ 473 ॥
मूलम् - 473
नित्यादौ वर्तमानेऽत्र सर्वं कार्यमतन्द्रितैः।
एवमेव स्वयंव्यक्ते कारयेत्तन्त्रवित्तमः ॥ 473 ॥
विश्वास-प्रस्तुतिः - 474
देवादिपूजिते वाऽपि स्वयंव्यक्ते तु कौतुके।
मृद्दारुजे तु सञ्जीर्णे कृमिवह्निजलादिभिः ॥ 474 ॥
मूलम् - 474
देवादिपूजिते वाऽपि स्वयंव्यक्ते तु कौतुके।
मृद्दारुजे तु सञ्जीर्णे कृमिवह्निजलादिभिः ॥ 474 ॥
विश्वास-प्रस्तुतिः - 475
तत्तद्वालगृहं कृत्वा पूज्यमाने तु पूर्ववत्।
क्रमादर्चान्तरं कृत्वा स्थापयेच्च यथाविधि ॥ 475 ॥
मूलम् - 475
तत्तद्वालगृहं कृत्वा पूज्यमाने तु पूर्ववत्।
क्रमादर्चान्तरं कृत्वा स्थापयेच्च यथाविधि ॥ 475 ॥
विश्वास-प्रस्तुतिः - 476
वालबिम्बे तु जीर्णेऽत्र कुर्यादेवं पुनः पुनः।
मनुष्यनिर्मिते जीर्णे नष्टे दुष्टे तु वा व्कचित् ॥ 476 ॥
मूलम् - 476
वालबिम्बे तु जीर्णेऽत्र कुर्यादेवं पुनः पुनः।
मनुष्यनिर्मिते जीर्णे नष्टे दुष्टे तु वा व्कचित् ॥ 476 ॥
विश्वास-प्रस्तुतिः - 477
वर्णशोभादिहीने च बिम्बे शैलमये सति।
विशेषान्मृण्मये वाऽपि चित्राभासपटादिषु ॥ 477 ॥
मूलम् - 477
वर्णशोभादिहीने च बिम्बे शैलमये सति।
विशेषान्मृण्मये वाऽपि चित्राभासपटादिषु ॥ 477 ॥
विश्वास-प्रस्तुतिः - 478
बालबिम्बे समाहूय चित्रयित्वा तु पूर्ववत्।
पुनः प्रतिष्ठां कुर्वीत विधिवन्मन्त्रवित्तमः ॥ 478 ॥
मूलम् - 478
बालबिम्बे समाहूय चित्रयित्वा तु पूर्ववत्।
पुनः प्रतिष्ठां कुर्वीत विधिवन्मन्त्रवित्तमः ॥ 478 ॥
विश्वास-प्रस्तुतिः - 479
रीतिजे ताम्रजे वाऽपि आरकूटविनिर्मिते।
प्रणीते पूज्यमाने तु काम्यबिम्बादिके सति ॥ 479 ॥
मूलम् - 479
रीतिजे ताम्रजे वाऽपि आरकूटविनिर्मिते।
प्रणीते पूज्यमाने तु काम्यबिम्बादिके सति ॥ 479 ॥
विश्वास-प्रस्तुतिः - 480
कालान्तरेण जीर्णेऽस्मिन्नुत्कृष्टे समुपस्थिते।
निकृष्टं सन्त्यजेद्विद्वान्न दोषस्तत्र विद्यते ॥ 480 ॥
मूलम् - 480
कालान्तरेण जीर्णेऽस्मिन्नुत्कृष्टे समुपस्थिते।
निकृष्टं सन्त्यजेद्विद्वान्न दोषस्तत्र विद्यते ॥ 480 ॥
विश्वास-प्रस्तुतिः - 481
लोहपाषाणमृत्काष्ठैः स्थापिते मूलकौतुके।
न संपाद्यमतोऽन्येन कदाचिन्मुख्यवस्तुना ॥ 481 ॥
मूलम् - 481
लोहपाषाणमृत्काष्ठैः स्थापिते मूलकौतुके।
न संपाद्यमतोऽन्येन कदाचिन्मुख्यवस्तुना ॥ 481 ॥
विश्वास-प्रस्तुतिः - 482
पुरावज्जीर्णतां यातं कर्तव्यं मूलकौतुके।
बहुबेरैकबैराभ्यां स्थापिताभ्यां गृहान्तरे ॥ 482 ॥
मूलम् - 482
पुरावज्जीर्णतां यातं कर्तव्यं मूलकौतुके।
बहुबेरैकबैराभ्यां स्थापिताभ्यां गृहान्तरे ॥ 482 ॥
विश्वास-प्रस्तुतिः - 483
जीर्णोद्धारेऽपि कर्तव्यं पूर्ववत् स्थापितं बुधैः।
लक्ष्म्यादिकान्तारहिते बहुबेरे पुरा स्थिते ॥ 483 ॥
मूलम् - 483
जीर्णोद्धारेऽपि कर्तव्यं पूर्ववत् स्थापितं बुधैः।
लक्ष्म्यादिकान्तारहिते बहुबेरे पुरा स्थिते ॥ 483 ॥
विश्वास-प्रस्तुतिः - 484
जीर्णे तु पस्चाद्देवीभ्यां सहितं वा प्रकल्पयेत्।
सर्वधा बहुबेरत्वहानिर्न स्याद्विपर्ययात् ॥ 484 ॥
मूलम् - 484
जीर्णे तु पस्चाद्देवीभ्यां सहितं वा प्रकल्पयेत्।
सर्वधा बहुबेरत्वहानिर्न स्याद्विपर्ययात् ॥ 484 ॥
विश्वास-प्रस्तुतिः - 485
देवयक्षमुनीन्द्राद्यैः स्थापिते लक्षणोज्झिते।
बिम्बे विमाने प्राकारे गोपुरे द्वारि मण्टपे ॥ 485 ॥
मूलम् - 485
देवयक्षमुनीन्द्राद्यैः स्थापिते लक्षणोज्झिते।
बिम्बे विमाने प्राकारे गोपुरे द्वारि मण्टपे ॥ 485 ॥
विश्वास-प्रस्तुतिः - 486
पीठे वा पचनावासे कोशागारादिवस्तुषु।
जीर्णेषु पूर्ववत् कुर्यान्न कुर्याल्लक्षणान्तरम् ॥ 486 ॥
मूलम् - 486
पीठे वा पचनावासे कोशागारादिवस्तुषु।
जीर्णेषु पूर्ववत् कुर्यान्न कुर्याल्लक्षणान्तरम् ॥ 486 ॥
विश्वास-प्रस्तुतिः - 487
पापिष्ठैरतिनष्टेऽस्मिन् त्रिदशादिप्रतिष्ठिते।
बिम्बादौ वैष्णवे चिह्ने लक्षणैश्चापि वर्जिते ॥ 487 ॥
मूलम् - 487
पापिष्ठैरतिनष्टेऽस्मिन् त्रिदशादिप्रतिष्ठिते।
बिम्बादौ वैष्णवे चिह्ने लक्षणैश्चापि वर्जिते ॥ 487 ॥
विश्वास-प्रस्तुतिः - 488
युक्ते वा पूर्ववत् कुर्यात् पूर्वरूपानुसारतः।
राजराष्ट्रविनाशः स्यादन्यथा कल्पिते सति ॥ 488 ॥
मूलम् - 488
युक्ते वा पूर्ववत् कुर्यात् पूर्वरूपानुसारतः।
राजराष्ट्रविनाशः स्यादन्यथा कल्पिते सति ॥ 488 ॥
विश्वास-प्रस्तुतिः - 489
देवसिद्धमुनीन्द्राद्यैः स्थापिता पूजिता पुरा।
विद्युत्प्रपातपूर्वैश्च दोषैर्या चातिदूषिता ॥ 489 ॥
मूलम् - 489
देवसिद्धमुनीन्द्राद्यैः स्थापिता पूजिता पुरा।
विद्युत्प्रपातपूर्वैश्च दोषैर्या चातिदूषिता ॥ 489 ॥
विश्वास-प्रस्तुतिः - 490
निर्दोषादासनात्तस्मात्तामुत्थाप्य विसृज्य च।
पूर्ववन्निर्मितां पीठे प्रतिष्ठाप्य विधानतः ॥ 490 ॥
मूलम् - 490
निर्दोषादासनात्तस्मात्तामुत्थाप्य विसृज्य च।
पूर्ववन्निर्मितां पीठे प्रतिष्ठाप्य विधानतः ॥ 490 ॥
विश्वास-प्रस्तुतिः - 491
पीठभङ्गे तथान्यस्मिन् कल्पिते योजयेद्दृढम्।
क्ष्माभेदजलवेगाद्यैः पतितं गवद्गृहम् ॥ 491 ॥
मूलम् - 491
पीठभङ्गे तथान्यस्मिन् कल्पिते योजयेद्दृढम्।
क्ष्माभेदजलवेगाद्यैः पतितं गवद्गृहम् ॥ 491 ॥
विश्वास-प्रस्तुतिः - 492
प्राग्बिम्बसहितं तस्माद्देशादन्यत्र कल्पयेत्।
नष्टे सबिम्बे सदने दिव्यादौ प्रागावदाचरेत् ॥ 492 ॥
मूलम् - 492
प्राग्बिम्बसहितं तस्माद्देशादन्यत्र कल्पयेत्।
नष्टे सबिम्बे सदने दिव्यादौ प्रागावदाचरेत् ॥ 492 ॥
विश्वास-प्रस्तुतिः - 493
चोरनद्यादिवेगाद्यैरतिनष्टे तु मानुषे।
बिम्बे पश्चात् प्रकुर्वीत पूर्ववद्वान्यथापि वा ॥ 493 ॥
मूलम् - 493
चोरनद्यादिवेगाद्यैरतिनष्टे तु मानुषे।
बिम्बे पश्चात् प्रकुर्वीत पूर्ववद्वान्यथापि वा ॥ 493 ॥
विश्वास-प्रस्तुतिः - 494
न शून्यमूलबिम्बत्वाद्बालार्चावाहनादिकम्।
न कार्यं देशिकेन्द्रेण पूर्ववत् स्थाप्य पूजयेत् ॥ 494 ॥
मूलम् - 494
न शून्यमूलबिम्बत्वाद्बालार्चावाहनादिकम्।
न कार्यं देशिकेन्द्रेण पूर्ववत् स्थाप्य पूजयेत् ॥ 494 ॥
विश्वास-प्रस्तुतिः - 495
एवं हि सर्वदेवानां परव्यूहादिरूपिणाम्।
विष्वक्सेनगणेशादिपरिवारगणस्य च ॥ 495 ॥
मूलम् - 495
एवं हि सर्वदेवानां परव्यूहादिरूपिणाम्।
विष्वक्सेनगणेशादिपरिवारगणस्य च ॥ 495 ॥
विश्वास-प्रस्तुतिः - 496
क्लृप्तानां गोपुराद्येषु विभवव्यूहरूपिणाम्।
सान्निद्यातिशयात्तेषु पूजितानां दिनं प्रति ॥ 496 ॥
मूलम् - 496
क्लृप्तानां गोपुराद्येषु विभवव्यूहरूपिणाम्।
सान्निद्यातिशयात्तेषु पूजितानां दिनं प्रति ॥ 496 ॥
विश्वास-प्रस्तुतिः - 497
जीर्णोद्धारविधाने च विशेषः कथितो मया।
मन्त्रसिद्धैश्च विविधैर्मुनिभिर्मनुजैस्तथा ॥ 497 ॥
मूलम् - 497
जीर्णोद्धारविधाने च विशेषः कथितो मया।
मन्त्रसिद्धैश्च विविधैर्मुनिभिर्मनुजैस्तथा ॥ 497 ॥
विश्वास-प्रस्तुतिः - 498
प्रतिष्ठितानां गेहानां चिरकालवशेन तु।
पतनस्फोटभेदादिनाशकं भगवद्गृहे ॥ 498 ॥
मूलम् - 498
प्रतिष्ठितानां गेहानां चिरकालवशेन तु।
पतनस्फोटभेदादिनाशकं भगवद्गृहे ॥ 498 ॥
विश्वास-प्रस्तुतिः - 499
निर्वाहकानां भक्तानां शास्त्रज्ञानामनुज्ञया।
बाह्ये बाह्यान्तरे तेषां रक्षणार्थं शिलादिभिः ॥ 499 ॥
मूलम् - 499
निर्वाहकानां भक्तानां शास्त्रज्ञानामनुज्ञया।
बाह्ये बाह्यान्तरे तेषां रक्षणार्थं शिलादिभिः ॥ 499 ॥
विश्वास-प्रस्तुतिः - 500
निपुणैः शिल्पिभिः कार्यो भित्तिबन्धः समन्ततः।
प्रासादे मण्टपे चाग्र्ये प्राकारे गोपुरे तु वा ॥ 500 ॥
मूलम् - 500
निपुणैः शिल्पिभिः कार्यो भित्तिबन्धः समन्ततः।
प्रासादे मण्टपे चाग्र्ये प्राकारे गोपुरे तु वा ॥ 500 ॥
विश्वास-प्रस्तुतिः - 501
प्राङ्कणे पचनावासे कोशागारेऽम्बरास्पदे।
पुष्पपानीयशालायामवघातगृहादिषु ॥ 501 ॥
मूलम् - 501
प्राङ्कणे पचनावासे कोशागारेऽम्बरास्पदे।
पुष्पपानीयशालायामवघातगृहादिषु ॥ 501 ॥
विश्वास-प्रस्तुतिः - 502
स्नानार्थमण्टपे वाऽपि तथा वै यागमण्टपे।
जीर्णेकालान्तरे चैव विभूत्या विस्तृते गृहे ॥ 502 ॥
मूलम् - 502
स्नानार्थमण्टपे वाऽपि तथा वै यागमण्टपे।
जीर्णेकालान्तरे चैव विभूत्या विस्तृते गृहे ॥ 502 ॥
विश्वास-प्रस्तुतिः - 503
रक्षार्थं विनियोगार्थं तद्बाह्ये तु विवर्धयेत्।
अब्यन्तरात् समारभ्य ह्रासयेन्न तु कुत्रचित् ॥ 503 ॥
मूलम् - 503
रक्षार्थं विनियोगार्थं तद्बाह्ये तु विवर्धयेत्।
अब्यन्तरात् समारभ्य ह्रासयेन्न तु कुत्रचित् ॥ 503 ॥
विश्वास-प्रस्तुतिः - 504
प्रमुखे सर्ववस्तूनि बन्धयेत् परितोऽथवा।
प्रागुदग्वा न वृद्धिः स्यात् पृष्ठे वारुणयाम्ययोः ॥ 504 ॥
मूलम् - 504
प्रमुखे सर्ववस्तूनि बन्धयेत् परितोऽथवा।
प्रागुदग्वा न वृद्धिः स्यात् पृष्ठे वारुणयाम्ययोः ॥ 504 ॥
विश्वास-प्रस्तुतिः - 505
उत्तरे पश्चिमे वाऽथ वृद्धिं कुर्यान्महानसे।
पौराणिकालयं पीठं तथा तीर्थं सरोवरम् ॥ 505 ॥
मूलम् - 505
उत्तरे पश्चिमे वाऽथ वृद्धिं कुर्यान्महानसे।
पौराणिकालयं पीठं तथा तीर्थं सरोवरम् ॥ 505 ॥
विश्वास-प्रस्तुतिः - 506
मठं वा मण्टपाद्यं वा चिह्नं सौदर्शनादिकम्।
न चालयेत् प्रयत्नेन सालादीनां च कल्पने ॥ 506 ॥
मूलम् - 506
मठं वा मण्टपाद्यं वा चिह्नं सौदर्शनादिकम्।
न चालयेत् प्रयत्नेन सालादीनां च कल्पने ॥ 506 ॥
विश्वास-प्रस्तुतिः - 507
बाह्यतः कल्पयेत्तानि लंघयित्वा पुरातनम्।
प्राक् स्थितस्य बहिश्चान्तर्वर्धिते ह्रासिते सति ॥ 507 ॥
मूलम् - 507
बाह्यतः कल्पयेत्तानि लंघयित्वा पुरातनम्।
प्राक् स्थितस्य बहिश्चान्तर्वर्धिते ह्रासिते सति ॥ 507 ॥
विश्वास-प्रस्तुतिः - 508
पाश्चात्ये न तु दोषः स्यादायामोच्छ्राबविस्तरे।
ब्रह्नरुद्रेन्द्रयक्षाद्यैस्तथा क्लृप्तं पुरातनम् ॥ 508 ॥
मूलम् - 508
पाश्चात्ये न तु दोषः स्यादायामोच्छ्राबविस्तरे।
ब्रह्नरुद्रेन्द्रयक्षाद्यैस्तथा क्लृप्तं पुरातनम् ॥ 508 ॥
विश्वास-प्रस्तुतिः - 509
चिरायुषोऽर्थवृध्यर्थी चालयेन्न तु कुत्रचित्।
तथा सरोवरं कूपं मृदाद्यैर्न तु पूरयेत् ॥ 509 ॥
मूलम् - 509
चिरायुषोऽर्थवृध्यर्थी चालयेन्न तु कुत्रचित्।
तथा सरोवरं कूपं मृदाद्यैर्न तु पूरयेत् ॥ 509 ॥
विश्वास-प्रस्तुतिः - 510
अल्पीयांसि विमानानि विभूत्या श्रद्धयाऽथवा।
महान्ति कारयेत् पश्चान्न दोष उपजायते ॥ 510 ॥
मूलम् - 510
अल्पीयांसि विमानानि विभूत्या श्रद्धयाऽथवा।
महान्ति कारयेत् पश्चान्न दोष उपजायते ॥ 510 ॥
विश्वास-प्रस्तुतिः - 511
सालगोपुरपीठानां मण्टपाद्यङ्गरूपिणाम्।
प्रथमे कल्पने चैव नष्टोद्धारे विशेषतः ॥ 511 ॥
मूलम् - 511
सालगोपुरपीठानां मण्टपाद्यङ्गरूपिणाम्।
प्रथमे कल्पने चैव नष्टोद्धारे विशेषतः ॥ 511 ॥
विश्वास-प्रस्तुतिः - 512
एकस्मिन् प्राक् स्थिते वस्तुन्यशक्तौ स्थानसङ्कटे।
ग्रहणं न तु दोषः स्यादमुख्यं मुख्यगौरवात् ॥ 512 ॥
मूलम् - 512
एकस्मिन् प्राक् स्थिते वस्तुन्यशक्तौ स्थानसङ्कटे।
ग्रहणं न तु दोषः स्यादमुख्यं मुख्यगौरवात् ॥ 512 ॥
विश्वास-प्रस्तुतिः - 513
यद्यत् पादप्रतिष्ठायां प्रासादस्य जगत्पतेः।
पादाधारशिलाद्यं वै तथा ब्रह्नशिलादिकम् ॥ 513 ॥
मूलम् - 513
यद्यत् पादप्रतिष्ठायां प्रासादस्य जगत्पतेः।
पादाधारशिलाद्यं वै तथा ब्रह्नशिलादिकम् ॥ 513 ॥
विश्वास-प्रस्तुतिः - 514
विना प्रतिष्ठिते बिम्बे कुर्यात् स्नपनमुत्तमम्।
मधुना पयसा दध्ना घृतेन चरुणा सह ॥ 514 ॥
मूलम् - 514
विना प्रतिष्ठिते बिम्बे कुर्यात् स्नपनमुत्तमम्।
मधुना पयसा दध्ना घृतेन चरुणा सह ॥ 514 ॥
विश्वास-प्रस्तुतिः - 515
शान्तिहोमं प्रकुर्वीत सहस्रशतसङ्ख्यया।
प्रासादश्च तथा बिम्बो येन शास्त्रेण निर्मितौ ॥ 515 ॥
मूलम् - 515
शान्तिहोमं प्रकुर्वीत सहस्रशतसङ्ख्यया।
प्रासादश्च तथा बिम्बो येन शास्त्रेण निर्मितौ ॥ 515 ॥
विश्वास-प्रस्तुतिः - 516
प्रतिष्ठाप्य च तेनैव नित्यादौ पूजयेद्धरिम्।
योऽर्चयेदन्यमार्गेण तथा चार्चापयेत्तु यः ॥ 516 ॥
मूलम् - 516
प्रतिष्ठाप्य च तेनैव नित्यादौ पूजयेद्धरिम्।
योऽर्चयेदन्यमार्गेण तथा चार्चापयेत्तु यः ॥ 516 ॥
विश्वास-प्रस्तुतिः - 517
तावुभौ कलुषात्मानौ राज्ञो राष्ट्रस्य वै गुरोः।
कुलं च व्याधितं चैव विप्लवं दुःखमञ्जसा ॥ 517 ॥
मूलम् - 517
तावुभौ कलुषात्मानौ राज्ञो राष्ट्रस्य वै गुरोः।
कुलं च व्याधितं चैव विप्लवं दुःखमञ्जसा ॥ 517 ॥
विश्वास-प्रस्तुतिः - 518
वित्तहानिं विशेषेण कुर्यातामालयस्य च।
न कुर्यात् तन्त्रसांकर्यं पञ्चरात्रपरायणः ॥ 518 ॥
मूलम् - 518
वित्तहानिं विशेषेण कुर्यातामालयस्य च।
न कुर्यात् तन्त्रसांकर्यं पञ्चरात्रपरायणः ॥ 518 ॥
विश्वास-प्रस्तुतिः - 519
पुनः प्रतिष्ठा कर्तव्या कृते चेत्तन्त्रसंकरे।
वैखानसादिभिस्तन्त्रैः प्रासादार्थं पुरैव तु ॥ 519 ॥
मूलम् - 519
पुनः प्रतिष्ठा कर्तव्या कृते चेत्तन्त्रसंकरे।
वैखानसादिभिस्तन्त्रैः प्रासादार्थं पुरैव तु ॥ 519 ॥
विश्वास-प्रस्तुतिः - 520
गर्भन्यासे कृतेऽप्यत्र पञ्चरात्राभिलाषया।
तदैवोद्धृत्य तं गर्भं पञ्चरात्रोक्तमाचरेत् ॥ 520 ॥
मूलम् - 520
गर्भन्यासे कृतेऽप्यत्र पञ्चरात्राभिलाषया।
तदैवोद्धृत्य तं गर्भं पञ्चरात्रोक्तमाचरेत् ॥ 520 ॥
विश्वास-प्रस्तुतिः - 521
चतुर्धा भेदभिन्नस्तु पञ्चरात्राख्य आगमः।
तल्लक्षणं च प्रागुक्तं तथाप्यत्राप्युदीर्यते ॥ 521 ॥
मूलम् - 521
चतुर्धा भेदभिन्नस्तु पञ्चरात्राख्य आगमः।
तल्लक्षणं च प्रागुक्तं तथाप्यत्राप्युदीर्यते ॥ 521 ॥
विश्वास-प्रस्तुतिः - 522
पूर्वमागमसिद्धान्तं द्वितीयं मन्त्रसंज्ञितम्।
तृतीयं तन्त्रमित्युक्तमन्यत् तन्त्रान्तरं भवेत् ॥ 522 ॥
मूलम् - 522
पूर्वमागमसिद्धान्तं द्वितीयं मन्त्रसंज्ञितम्।
तृतीयं तन्त्रमित्युक्तमन्यत् तन्त्रान्तरं भवेत् ॥ 522 ॥
विश्वास-प्रस्तुतिः - 523
आद्यं नित्योदितव्यूहस्थापनादिप्रकाशकम्।
अपौरुषेयं सद्ब्रह्नवासुदेवाख्ययाजिनाम् ॥ 523 ॥
मूलम् - 523
आद्यं नित्योदितव्यूहस्थापनादिप्रकाशकम्।
अपौरुषेयं सद्ब्रह्नवासुदेवाख्ययाजिनाम् ॥ 523 ॥
विश्वास-प्रस्तुतिः - 524
लक्ष्यभूतं द्विजेन्द्राणां हृदिस्थमधिकारिणाम्।
व्रह्नोपनिषदाख्यं च दिव्यमन्त्रक्रियान्वितम् ॥ 524 ॥
मूलम् - 524
लक्ष्यभूतं द्विजेन्द्राणां हृदिस्थमधिकारिणाम्।
व्रह्नोपनिषदाख्यं च दिव्यमन्त्रक्रियान्वितम् ॥ 524 ॥
विश्वास-प्रस्तुतिः - 525
विवेकदं परं शास्त्रमनिच्छातोऽपवर्गदम्।
एवं नित्योदिताख्यस्य नित्याकारस्य च प्रभोः ॥ 525 ॥
मूलम् - 525
विवेकदं परं शास्त्रमनिच्छातोऽपवर्गदम्।
एवं नित्योदिताख्यस्य नित्याकारस्य च प्रभोः ॥ 525 ॥
विश्वास-प्रस्तुतिः - 526
वासुदेवाभिधानस्य षाड्गुण्यादिमहोदधेः।
प्रथमं लक्षणं विद्धि हृदयाद्यङ्गशब्दवत् ॥ 526 ॥
मूलम् - 526
वासुदेवाभिधानस्य षाड्गुण्यादिमहोदधेः।
प्रथमं लक्षणं विद्धि हृदयाद्यङ्गशब्दवत् ॥ 526 ॥
विश्वास-प्रस्तुतिः - 527
एतदागमसिद्धान्तं श्रुतिरूपं तु विद्धि तत्।
एष कार्तयुगो धरमः सर्वधर्मोत्तमः स्मृतः ॥ 527 ॥
मूलम् - 527
एतदागमसिद्धान्तं श्रुतिरूपं तु विद्धि तत्।
एष कार्तयुगो धरमः सर्वधर्मोत्तमः स्मृतः ॥ 527 ॥
विश्वास-प्रस्तुतिः - 528
ततस्त्रेतायुगस्यादौ भोगमोक्षप्रसिद्धये।
तस्मादागमसिद्धान्तान्निःसृतं बहुभेदकम् ॥ 528 ॥
मूलम् - 528
ततस्त्रेतायुगस्यादौ भोगमोक्षप्रसिद्धये।
तस्मादागमसिद्धान्तान्निःसृतं बहुभेदकम् ॥ 528 ॥
विश्वास-प्रस्तुतिः - 529
मन्त्रसिद्धान्तसंज्ञं तज्जाग्रद्वयूहादिमूर्तिना।
समुत्कीर्णं द्वितीयस्य सात्वसतस्य महात्मनः ॥ 529 ॥
मूलम् - 529
मन्त्रसिद्धान्तसंज्ञं तज्जाग्रद्वयूहादिमूर्तिना।
समुत्कीर्णं द्वितीयस्य सात्वसतस्य महात्मनः ॥ 529 ॥
विश्वास-प्रस्तुतिः - 530
तेन प्रद्युम्नसंज्ञस्य तेन तुर्यात्मनो विभोः।
तेन वागीश्वराख्यस्य तस्माद्विद्याख्यविग्रदे ॥ 530 ॥
मूलम् - 530
तेन प्रद्युम्नसंज्ञस्य तेन तुर्यात्मनो विभोः।
तेन वागीश्वराख्यस्य तस्माद्विद्याख्यविग्रदे ॥ 530 ॥
विश्वास-प्रस्तुतिः - 531
संक्रान्तं च ततः पश्चाद्रुद्रादित्येन्द्रवह्निषु।
तथैव नारदाद्येषु देवर्षीणां गणेष्वपि ॥ 531 ॥
मूलम् - 531
संक्रान्तं च ततः पश्चाद्रुद्रादित्येन्द्रवह्निषु।
तथैव नारदाद्येषु देवर्षीणां गणेष्वपि ॥ 531 ॥
विश्वास-प्रस्तुतिः - 532
संक्रातं मन्त्रसिद्धान्तं भेदभिन्नमनेकधा।
यत्र शान्ततरं व्यूहं शान्तोदितमनन्तरम् ॥ 532 ॥
मूलम् - 532
संक्रातं मन्त्रसिद्धान्तं भेदभिन्नमनेकधा।
यत्र शान्ततरं व्यूहं शान्तोदितमनन्तरम् ॥ 532 ॥
विश्वास-प्रस्तुतिः - 533
सुषुप्तिसंज्ञं स्वप्नाख्यं जाग्रद्वयूहं यथोदितम्।
मूर्त्यन्तर केशवाद्यं प्रादुर्भावं तथान्तरम् ॥ 533 ॥
मूलम् - 533
सुषुप्तिसंज्ञं स्वप्नाख्यं जाग्रद्वयूहं यथोदितम्।
मूर्त्यन्तर केशवाद्यं प्रादुर्भावं तथान्तरम् ॥ 533 ॥
विश्वास-प्रस्तुतिः - 534
हृत्पझपझपीठादौ लक्ष्मीपुष्ट्यादिशक्तिभिः।
लाञ्छनैः शह्खचक्राद्यैः गरुडप्रमुखैरपि ॥ 534 ॥
मूलम् - 534
हृत्पझपझपीठादौ लक्ष्मीपुष्ट्यादिशक्तिभिः।
लाञ्छनैः शह्खचक्राद्यैः गरुडप्रमुखैरपि ॥ 534 ॥
विश्वास-प्रस्तुतिः - 535
भूतसिद्धादिभिः सास्त्रपर्यन्तैर्यजनं हितम्।
विश्वत्रातृनृसिंहस्य दीक्षापूर्वं तथा परम् ॥ 535 ॥
मूलम् - 535
भूतसिद्धादिभिः सास्त्रपर्यन्तैर्यजनं हितम्।
विश्वत्रातृनृसिंहस्य दीक्षापूर्वं तथा परम् ॥ 535 ॥
विश्वास-प्रस्तुतिः - 536
विहगव्यूहसूक्ष्माख्यमधिकारं यथाक्रमम्।
समयी पुत्रकादीनां चतुर्णामभिषेचनम् ॥ 536 ॥
मूलम् - 536
विहगव्यूहसूक्ष्माख्यमधिकारं यथाक्रमम्।
समयी पुत्रकादीनां चतुर्णामभिषेचनम् ॥ 536 ॥
विश्वास-प्रस्तुतिः - 537
तथैव समयाचारमूर्तीनां स्थापनक्रमम्।
मन्त्रमण्डलमुद्राणां कुण्डादीनां च लक्षणम् ॥ 537 ॥
मूलम् - 537
तथैव समयाचारमूर्तीनां स्थापनक्रमम्।
मन्त्रमण्डलमुद्राणां कुण्डादीनां च लक्षणम् ॥ 537 ॥
विश्वास-प्रस्तुतिः - 538
कर्मणामेवमादीनां विधानं यत्र पुष्कलम्।
मन्त्रसिद्धान्तसंज्ञं तद्बहुभेदसमन्वितम् ॥ 538 ॥
मूलम् - 538
कर्मणामेवमादीनां विधानं यत्र पुष्कलम्।
मन्त्रसिद्धान्तसंज्ञं तद्बहुभेदसमन्वितम् ॥ 538 ॥
विश्वास-प्रस्तुतिः - 539
परव्यूहादिभेदेन विनैकैकेन मूर्तिना।
साङ्गेन केवलेनाथ कान्ताव्यूहेन भूषणैः ॥ 539 ॥
मूलम् - 539
परव्यूहादिभेदेन विनैकैकेन मूर्तिना।
साङ्गेन केवलेनाथ कान्ताव्यूहेन भूषणैः ॥ 539 ॥
विश्वास-प्रस्तुतिः - 540
तथास्त्रैर्विग्रहोपेतैरावृतं तन्त्रसंज्ञितम्।
नृसिंहकपिलक्रोडहंसवागीश्वरादयः ॥ 540 ॥
मूलम् - 540
तथास्त्रैर्विग्रहोपेतैरावृतं तन्त्रसंज्ञितम्।
नृसिंहकपिलक्रोडहंसवागीश्वरादयः ॥ 540 ॥
विश्वास-प्रस्तुतिः - 541
मुख्यादिवृत्तिभेदेन केवला वाङ्गसंयुताः।
चक्राद्यस्त्रवरैश्चाथ बूषणैर्मकुटादिभिः ॥ 541 ॥
मूलम् - 541
मुख्यादिवृत्तिभेदेन केवला वाङ्गसंयुताः।
चक्राद्यस्त्रवरैश्चाथ बूषणैर्मकुटादिभिः ॥ 541 ॥
विश्वास-प्रस्तुतिः - 542
कान्तागणैश्च लक्ष्म्याद्यैः परिवारैः खगादिकैः।
पूजिता विधिना यत्र तत्तन्त्रान्तरमीरितम् ॥ 542 ॥
मूलम् - 542
कान्तागणैश्च लक्ष्म्याद्यैः परिवारैः खगादिकैः।
पूजिता विधिना यत्र तत्तन्त्रान्तरमीरितम् ॥ 542 ॥
विश्वास-प्रस्तुतिः - 543
ये जन्मकोटिभिः सिद्धास्तेषामन्तोऽत्र जन्मनः।
यस्मात्तस्माद्विवेदैष सिद्धान्ताख्यो यथार्थतः ॥ 543 ॥
मूलम् - 543
ये जन्मकोटिभिः सिद्धास्तेषामन्तोऽत्र जन्मनः।
यस्मात्तस्माद्विवेदैष सिद्धान्ताख्यो यथार्थतः ॥ 543 ॥
विश्वास-प्रस्तुतिः - 544
शास्त्रमन्त्रक्रियादीनां मूर्तीनां भवनस्य च।
देशिकस्याभिजातस्य यथापूर्वं परिग्रहः ॥ 544 ॥
मूलम् - 544
शास्त्रमन्त्रक्रियादीनां मूर्तीनां भवनस्य च।
देशिकस्याभिजातस्य यथापूर्वं परिग्रहः ॥ 544 ॥
विश्वास-प्रस्तुतिः - 545
तथैव यावत्कालं तु नाचर्तव्यं तदन्यथा।
विपरीते कृते चात्र राजराष्ट्राद्यनर्थकृत् ॥ 545 ॥
मूलम् - 545
तथैव यावत्कालं तु नाचर्तव्यं तदन्यथा।
विपरीते कृते चात्र राजराष्ट्राद्यनर्थकृत् ॥ 545 ॥
विश्वास-प्रस्तुतिः - 546
ततः समाचरेद्यत्नात् प्रतिष्ठां प्राक् प्रयत्नतः।
ततः सिद्धान्तसाङ्कर्यं न कर्तव्यं कृतात्मभिः ॥ 546 ॥
मूलम् - 546
ततः समाचरेद्यत्नात् प्रतिष्ठां प्राक् प्रयत्नतः।
ततः सिद्धान्तसाङ्कर्यं न कर्तव्यं कृतात्मभिः ॥ 546 ॥
विश्वास-प्रस्तुतिः - 547
यद्यदिष्टतमं लोके पूर्वसिद्धाविरोधि तत्।
प्रतिग्राह्यमतोऽन्योन्यविरुद्धं संत्यजेद्बुधः ॥ 547 ॥
मूलम् - 547
यद्यदिष्टतमं लोके पूर्वसिद्धाविरोधि तत्।
प्रतिग्राह्यमतोऽन्योन्यविरुद्धं संत्यजेद्बुधः ॥ 547 ॥
विश्वास-प्रस्तुतिः - 548
वैखानसेषु तन्त्रेषु शैवपाशुपतेषु च।
विहितान्यत्रजातानि विरुद्धानीति किं पुनः ॥ 548 ॥
मूलम् - 548
वैखानसेषु तन्त्रेषु शैवपाशुपतेषु च।
विहितान्यत्रजातानि विरुद्धानीति किं पुनः ॥ 548 ॥
विश्वास-प्रस्तुतिः - 549
पञ्चरात्रविधानेन पूज्यमाने प्रतिष्टिते।
नान्येन पूजनं कार्यं विदुषाऽपि कदाचन ॥ 549 ॥
मूलम् - 549
पञ्चरात्रविधानेन पूज्यमाने प्रतिष्टिते।
नान्येन पूजनं कार्यं विदुषाऽपि कदाचन ॥ 549 ॥
विश्वास-प्रस्तुतिः - 550
सद्ब्रह्ननिरतैर्मुख्यैः पञ्चरात्रपरायणैः।
पूजनीयं विशेषेण मुख्यकल्पाधिकारिभिः ॥ 550 ॥
मूलम् - 550
सद्ब्रह्ननिरतैर्मुख्यैः पञ्चरात्रपरायणैः।
पूजनीयं विशेषेण मुख्यकल्पाधिकारिभिः ॥ 550 ॥
विश्वास-प्रस्तुतिः - 551
त्रयीधर्मरतैर्विप्रैः सिद्धान्तेष्वपि दीक्षितैः।
सदाचाररतैर्वाथ तदलाभेऽनुकल्पके ॥ 551 ॥
मूलम् - 551
त्रयीधर्मरतैर्विप्रैः सिद्धान्तेष्वपि दीक्षितैः।
सदाचाररतैर्वाथ तदलाभेऽनुकल्पके ॥ 551 ॥
विश्वास-प्रस्तुतिः - 552
प्रासादे स्थापितो देवो नैकेनार्च्यो विशेषतः।
बलिहोमादिसंयुक्ते वित्ताढ्ये त्वपि किं पुनः ॥ 552 ॥
मूलम् - 552
प्रासादे स्थापितो देवो नैकेनार्च्यो विशेषतः।
बलिहोमादिसंयुक्ते वित्ताढ्ये त्वपि किं पुनः ॥ 552 ॥
विश्वास-प्रस्तुतिः - 553
पञ्चकालरतैर्मुख्यैर्मन्त्रसिद्धान्तवेदिभिः।
पदार्थसप्तकप्राज्ञैर्दादशाध्यात्मकोविदैः ॥ 553 ॥
मूलम् - 553
पञ्चकालरतैर्मुख्यैर्मन्त्रसिद्धान्तवेदिभिः।
पदार्थसप्तकप्राज्ञैर्दादशाध्यात्मकोविदैः ॥ 553 ॥
विश्वास-प्रस्तुतिः - 554
त्रयोदशविधे कर्मण्यभिसन्धिपरैः सदा।
कर्मसन्यासिभिश्चाप्तैः मुख्यकल्पाधिकारिभिः ॥ 554 ॥
मूलम् - 554
त्रयोदशविधे कर्मण्यभिसन्धिपरैः सदा।
कर्मसन्यासिभिश्चाप्तैः मुख्यकल्पाधिकारिभिः ॥ 554 ॥
विश्वास-प्रस्तुतिः - 555
तथान्यैर्वा त्रयीनिष्ठैः सिद्धान्तार्थविशारदैः।
समर्चनीयमनिशं द्विचुतःषड्भिरष्टभिः ॥ 555 ॥
मूलम् - 555
तथान्यैर्वा त्रयीनिष्ठैः सिद्धान्तार्थविशारदैः।
समर्चनीयमनिशं द्विचुतःषड्भिरष्टभिः ॥ 555 ॥
विश्वास-प्रस्तुतिः - 556
द्विषट्षोडशविंशद्भिश्चतुर्विंशतिभिस्तु वा।
तेष्वेकः पूजयेदन्तः पर्यायेण दिनं प्रति ॥ 556 ॥
मूलम् - 556
द्विषट्षोडशविंशद्भिश्चतुर्विंशतिभिस्तु वा।
तेष्वेकः पूजयेदन्तः पर्यायेण दिनं प्रति ॥ 556 ॥
विश्वास-प्रस्तुतिः - 557
द्वौ च त्रयो वा चत्वारः कुर्युरेवं पुनः पुनः।
परिवारानर्चयेयुरन्ये देशिकसत्तमाः ॥ 557 ॥
मूलम् - 557
द्वौ च त्रयो वा चत्वारः कुर्युरेवं पुनः पुनः।
परिवारानर्चयेयुरन्ये देशिकसत्तमाः ॥ 557 ॥
विश्वास-प्रस्तुतिः - 558
अन्योऽग्निकार्यं कुर्वीत कुर्यादन्यो बलिं क्रमात्।
एतेषामुपकुर्वीरन्नन्ये भागवतोत्तमाः ॥ 558 ॥
मूलम् - 558
अन्योऽग्निकार्यं कुर्वीत कुर्यादन्यो बलिं क्रमात्।
एतेषामुपकुर्वीरन्नन्ये भागवतोत्तमाः ॥ 558 ॥
विश्वास-प्रस्तुतिः - 559
गुर्वादिष्टेन विधिना कुर्युरन्ये च साधकाः।
सर्वमेकेन वा कार्यं बहूनां संयतात्मनाम् ॥ 559 ॥
मूलम् - 559
गुर्वादिष्टेन विधिना कुर्युरन्ये च साधकाः।
सर्वमेकेन वा कार्यं बहूनां संयतात्मनाम् ॥ 559 ॥
विश्वास-प्रस्तुतिः - 560
प्रवीणानामभिज्ञानां दीक्षितानामसन्निधौ।
वैदेशिकेषु प्राप्तेषु बहुष्वायतनार्चने ॥ 560 ॥
मूलम् - 560
प्रवीणानामभिज्ञानां दीक्षितानामसन्निधौ।
वैदेशिकेषु प्राप्तेषु बहुष्वायतनार्चने ॥ 560 ॥
विश्वास-प्रस्तुतिः - 561
मूलादावाह्य बिम्बेषु कुर्वीरन् प्रतिकर्मणि।
उत्सवं स्नपनं यात्रां प्रभूतान्ननिवेदनम् ॥ 561 ॥
मूलम् - 561
मूलादावाह्य बिम्बेषु कुर्वीरन् प्रतिकर्मणि।
उत्सवं स्नपनं यात्रां प्रभूतान्ननिवेदनम् ॥ 561 ॥
विश्वास-प्रस्तुतिः - 562
तत्तद्बिम्बेषु कुर्वीरन् मन्त्रिणो बहवो यदि।
नित्येऽप्येवं हि कुर्वीरन् पूजनं वह्नितर्पणम् ॥ 562 ॥
मूलम् - 562
तत्तद्बिम्बेषु कुर्वीरन् मन्त्रिणो बहवो यदि।
नित्येऽप्येवं हि कुर्वीरन् पूजनं वह्नितर्पणम् ॥ 562 ॥
विश्वास-प्रस्तुतिः - 563
बलियानादिकं सर्वमेकदैव तु मन्त्रिणः।
न दोषोऽत्र तु विज्ञेयः कालकर्मनिमित्ततः ॥ 563 ॥
मूलम् - 563
बलियानादिकं सर्वमेकदैव तु मन्त्रिणः।
न दोषोऽत्र तु विज्ञेयः कालकर्मनिमित्ततः ॥ 563 ॥
विश्वास-प्रस्तुतिः - 564
न गृहे बहुभिः कार्यं नित्यनैमित्तिकादिकम्।
एकदैवं तु यजनमन्यथा दोषदं भवेत् ॥ 564 ॥
मूलम् - 564
न गृहे बहुभिः कार्यं नित्यनैमित्तिकादिकम्।
एकदैवं तु यजनमन्यथा दोषदं भवेत् ॥ 564 ॥
विश्वास-प्रस्तुतिः - 565
तद्दोषशान्तये कुर्याच्छान्तिहोमसमन्वितम्।
यथाशक्ति जपेन्मन्त्री मूलमन्त्रस्य सादरम् ॥ 565 ॥
मूलम् - 565
तद्दोषशान्तये कुर्याच्छान्तिहोमसमन्वितम्।
यथाशक्ति जपेन्मन्त्री मूलमन्त्रस्य सादरम् ॥ 565 ॥
विश्वास-प्रस्तुतिः - 566
भक्तैर्भागवतैरेवं प्रासादे च प्रतिष्ठितः।
समर्चनीयो नित्यादौ राजराष्ठ्रसमृद्धये ॥ 566 ॥
मूलम् - 566
भक्तैर्भागवतैरेवं प्रासादे च प्रतिष्ठितः।
समर्चनीयो नित्यादौ राजराष्ठ्रसमृद्धये ॥ 566 ॥
विश्वास-प्रस्तुतिः - 567
अन्यैः संपूजितो देवो न कदाचित् प्रसीदति।
प्रयच्छत्यशुबं शश्वद्विशेषाद्राजराष्ट्रयोः ॥ 567 ॥
मूलम् - 567
अन्यैः संपूजितो देवो न कदाचित् प्रसीदति।
प्रयच्छत्यशुबं शश्वद्विशेषाद्राजराष्ट्रयोः ॥ 567 ॥
विश्वास-प्रस्तुतिः - 568
तद्दोषशान्तये कार्यं स्नपनं चोत्तमोत्तमम्।
आवाहिते प्रतिष्ठायामर्चासु जगतः पतौ ॥ 568 ॥
मूलम् - 568
तद्दोषशान्तये कार्यं स्नपनं चोत्तमोत्तमम्।
आवाहिते प्रतिष्ठायामर्चासु जगतः पतौ ॥ 568 ॥
विश्वास-प्रस्तुतिः - 569
नोद्वास्यः सर्वपूजानामावाह्य पुरतोऽर्चनात्।
त्रिकालमङ्गबिम्बेषु कर्मार्चादिषु सत्स्वपि ॥ 569 ॥
मूलम् - 569
नोद्वास्यः सर्वपूजानामावाह्य पुरतोऽर्चनात्।
त्रिकालमङ्गबिम्बेषु कर्मार्चादिषु सत्स्वपि ॥ 569 ॥
विश्वास-प्रस्तुतिः - 570
आवाह्य पूजयेन्मूलाद्विशेषेष्वपि कार्यतः।
तत्तत्कर्मावसाने तु पुनर्मूले नियोजयेत् ॥ 570 ॥
मूलम् - 570
आवाह्य पूजयेन्मूलाद्विशेषेष्वपि कार्यतः।
तत्तत्कर्मावसाने तु पुनर्मूले नियोजयेत् ॥ 570 ॥
विश्वास-प्रस्तुतिः - 571
यद्यन्यथा कृतेऽर्चासु मूलमावाहनादिके।
शान्तये स्नपनं कुर्यात् अधमाधमसंज्ञितम् ॥ 571 ॥
मूलम् - 571
यद्यन्यथा कृतेऽर्चासु मूलमावाहनादिके।
शान्तये स्नपनं कुर्यात् अधमाधमसंज्ञितम् ॥ 571 ॥
विश्वास-प्रस्तुतिः - 572
प्रायश्चित्तेषु सर्वेषु दोषगौरवलाघवम्।
समीक्ष्य चाङ्कुरानर्प्य पुण्याहोक्तिपुरस्सरम् ॥ 572 ॥
मूलम् - 572
प्रायश्चित्तेषु सर्वेषु दोषगौरवलाघवम्।
समीक्ष्य चाङ्कुरानर्प्य पुण्याहोक्तिपुरस्सरम् ॥ 572 ॥
विश्वास-प्रस्तुतिः - 573
चतुःस्थानार्चनं चैव महता हविषार्चनम्।
स्नपनं जपसंयुक्तमाचार्याणां च दक्षिणाम् ॥ 573 ॥
मूलम् - 573
चतुःस्थानार्चनं चैव महता हविषार्चनम्।
स्नपनं जपसंयुक्तमाचार्याणां च दक्षिणाम् ॥ 573 ॥
विश्वास-प्रस्तुतिः - 574
गोभूहेमादिदानं च पञ्चकालज्ञभोजनम्।
कारये च्च यथाशक्ति मुख्यकल्पे विशेषतः ॥ 574 ॥
मूलम् - 574
गोभूहेमादिदानं च पञ्चकालज्ञभोजनम्।
कारये च्च यथाशक्ति मुख्यकल्पे विशेषतः ॥ 574 ॥
विश्वास-प्रस्तुतिः - 575
पूजनं स्नपनं होममनुकल्पे समाचरेत्।
अतिक्रूरैरवाच्यैस्तु भुवं दोषैश्च दूषिताम् ॥ 575 ॥
मूलम् - 575
पूजनं स्नपनं होममनुकल्पे समाचरेत्।
अतिक्रूरैरवाच्यैस्तु भुवं दोषैश्च दूषिताम् ॥ 575 ॥
विश्वास-प्रस्तुतिः - 576
खननाद्यैश्च संशोध्य दशभिर्विधिचोदितैः।
यथावत् कर्षयित्वा तु रत्नकाञ्चनजं रजः ॥ 576 ॥
मूलम् - 576
खननाद्यैश्च संशोध्य दशभिर्विधिचोदितैः।
यथावत् कर्षयित्वा तु रत्नकाञ्चनजं रजः ॥ 576 ॥
विश्वास-प्रस्तुतिः - 577
विकीर्य सर्वतो दिक्षु जुहुयात्तत्र शान्तये।
देवालयेषु शून्येषु महास्नानादिकं चरेत् ॥ 577 ॥
मूलम् - 577
विकीर्य सर्वतो दिक्षु जुहुयात्तत्र शान्तये।
देवालयेषु शून्येषु महास्नानादिकं चरेत् ॥ 577 ॥
विश्वास-प्रस्तुतिः - 578
स्वतन्त्रपरतन्त्रेषु शून्यग्रामादिवास्तुषु।
मार्जनालेपनाब्यां च गव्यैरभ्युक्षणेन च ॥ 578 ॥
मूलम् - 578
स्वतन्त्रपरतन्त्रेषु शून्यग्रामादिवास्तुषु।
मार्जनालेपनाब्यां च गव्यैरभ्युक्षणेन च ॥ 578 ॥
विश्वास-प्रस्तुतिः - 579
संशोध्य तत्तन्मध्ये तु वापयेद्गव्यपञ्चकम्।
बलिदानं प्रकुर्वीत वास्तुदेवगणस्य च ॥ 579 ॥
मूलम् - 579
संशोध्य तत्तन्मध्ये तु वापयेद्गव्यपञ्चकम्।
बलिदानं प्रकुर्वीत वास्तुदेवगणस्य च ॥ 579 ॥
विश्वास-प्रस्तुतिः - 580
गोभूहेमादिकं दद्यादगुर्वादीनां यथाबलम्।
भूपतिः सत्वनिष्ठस्तु प्रजापालनतत्परः ॥ 580 ॥
मूलम् - 580
गोभूहेमादिकं दद्यादगुर्वादीनां यथाबलम्।
भूपतिः सत्वनिष्ठस्तु प्रजापालनतत्परः ॥ 580 ॥
विश्वास-प्रस्तुतिः - 581
द्विजेन्द्रः पञ्चकालज्ञः प्रयत्नाच्छान्तिमाचरेत्।
अन्यथा यद्युपेक्षेत शान्तिकर्म नराधिपः ॥ 581 ॥
मूलम् - 581
द्विजेन्द्रः पञ्चकालज्ञः प्रयत्नाच्छान्तिमाचरेत्।
अन्यथा यद्युपेक्षेत शान्तिकर्म नराधिपः ॥ 581 ॥
विश्वास-प्रस्तुतिः - 582
स्वमात्मानं स्वराष्ट्रं च स्वकोशं वाहनादिकम्।
कलत्रपुत्रपौत्रांश्च नाशयत्यविसंशयम् ॥ 582 ॥
मूलम् - 582
स्वमात्मानं स्वराष्ट्रं च स्वकोशं वाहनादिकम्।
कलत्रपुत्रपौत्रांश्च नाशयत्यविसंशयम् ॥ 582 ॥
विश्वास-प्रस्तुतिः - 583
तस्मादेतानि रक्षेत भूपतिर्बूतितत्परः।
स्वबुध्या परबुध्या वा कृते वापदि संकटे ॥ 583 ॥
मूलम् - 583
तस्मादेतानि रक्षेत भूपतिर्बूतितत्परः।
स्वबुध्या परबुध्या वा कृते वापदि संकटे ॥ 583 ॥
विश्वास-प्रस्तुतिः - 584
तुलापुरुषदानेन सुवर्णेनोपशाम्यति।
तथा हिरण्यगर्भस्थः कुर्याद्दानमलोलुपः ॥ 584 ॥
मूलम् - 584
तुलापुरुषदानेन सुवर्णेनोपशाम्यति।
तथा हिरण्यगर्भस्थः कुर्याद्दानमलोलुपः ॥ 584 ॥
विश्वास-प्रस्तुतिः - 585
काले काले विशेषेण ब्राह्नणानामनुज्ञया।
समठं साग्रहारं च प्रासादं परिकल्प्य च ॥ 585 ॥
मूलम् - 585
काले काले विशेषेण ब्राह्नणानामनुज्ञया।
समठं साग्रहारं च प्रासादं परिकल्प्य च ॥ 585 ॥
विश्वास-प्रस्तुतिः - 586
सर्वदेवमयो देवःसर्ववेदमयो हरिः।
सर्वयज्ञमयो विष्णुः सर्वलोकमयो विभुः ॥ 586 ॥
मूलम् - 586
सर्वदेवमयो देवःसर्ववेदमयो हरिः।
सर्वयज्ञमयो विष्णुः सर्वलोकमयो विभुः ॥ 586 ॥
विश्वास-प्रस्तुतिः - 587
सर्वधर्ममयोऽनन्तः सर्वभूतमयो ध्रुवः।
सर्वतीर्थमयो योगी प्रतिष्ठाप्यो विधानतः ॥ 587 ॥
मूलम् - 587
सर्वधर्ममयोऽनन्तः सर्वभूतमयो ध्रुवः।
सर्वतीर्थमयो योगी प्रतिष्ठाप्यो विधानतः ॥ 587 ॥
विश्वास-प्रस्तुतिः - 588
अन्यत्र वितते कुण्डे यथाभिमतमेखले।
पावनैर्वैष्णवैः सर्वदोषघ्नैः श्रुतिचोदितैः ॥ 588 ॥
मूलम् - 588
अन्यत्र वितते कुण्डे यथाभिमतमेखले।
पावनैर्वैष्णवैः सर्वदोषघ्नैः श्रुतिचोदितैः ॥ 588 ॥
विश्वास-प्रस्तुतिः - 589
मन्त्रैः प्रयोगकुशलैः जुहुयुर्ब्राह्नणोत्तमाः।
दिव्यन्तरिक्षभौमेषु महोत्पातेषु सत्स्वपि ॥ 589 ॥
मूलम् - 589
मन्त्रैः प्रयोगकुशलैः जुहुयुर्ब्राह्नणोत्तमाः।
दिव्यन्तरिक्षभौमेषु महोत्पातेषु सत्स्वपि ॥ 589 ॥
विश्वास-प्रस्तुतिः - 590
शान्तिरेवं विधानेन कर्तव्या भूतिमिच्छता।
बहुनात्र किमुक्तेन मुने! सर्वाघनाशनम् ॥ 590 ॥
मूलम् - 590
शान्तिरेवं विधानेन कर्तव्या भूतिमिच्छता।
बहुनात्र किमुक्तेन मुने! सर्वाघनाशनम् ॥ 590 ॥
विश्वास-प्रस्तुतिः - 591
सौदर्शनमहायन्त्रस्थापनं विषये स्वके।
विधानं परमं विद्धि राजराष्ट्राभिवर्धनम् ॥ 591 ॥
मूलम् - 591