०१८ साधननिवेदनादिप्रकारः

॥ श्रीः ॥
अष्टादशोऽध्यायः
सनकः —

विश्वास-प्रस्तुतिः - 1

नित्यनैमित्तिकाद्येषु यागेषु वदतां वर!।
मानं तु प्रापणादीनां श्रोतुमिच्छामि तद्वद ॥ 1 ॥

मूलम् - 1

नित्यनैमित्तिकाद्येषु यागेषु वदतां वर!।
मानं तु प्रापणादीनां श्रोतुमिच्छामि तद्वद ॥ 1 ॥

शाण्डिल्यः ---
विश्वास-प्रस्तुतिः - 2

नित्ये नैमित्तिके काम्ये प्रायश्चित्ते तथैव च।
मानं नवविधं विप्र! श्रृणु मुख्यानुकल्पयोः ॥ 2 ॥

मूलम् - 2

विश्वास-प्रस्तुतिः - 3

क्रमात् प्रापणपूर्वाणां द्रव्याणामुत्तमादिकम्।
अत्रैकमूर्तेरेकस्मिन् काले भारद्वयेन तु ॥ 3 ॥

मूलम् - 3

विश्वास-प्रस्तुतिः - 4

कल्पयेत् प्रापणं चैतदुत्तमोत्तमसंज्ञितम्।
एकैकं द्रोणमानेन कृमाद्‌ध्रासं समाचरेत् ॥ 4 ॥

मूलम् - 4

कल्पयेत् प्रापणं चैतदुत्तमोत्तमसंज्ञितम्।
एकैकं द्रोणमानेन कृमाद्‌ध्रासं समाचरेत् ॥ 4 ॥

विश्वास-प्रस्तुतिः - 5

अधमाधमसंज्ञं स्याद्यता द्रोणचतुष्टयम्।
मुख्यकल्पमिमं विद्धि अनुकल्पं श्रणुष्व मे ॥ 5 ॥

मूलम् - 5

अधमाधमसंज्ञं स्याद्यता द्रोणचतुष्टयम्।
मुख्यकल्पमिमं विद्धि अनुकल्पं श्रणुष्व मे ॥ 5 ॥

विश्वास-प्रस्तुतिः - 6

मुख्यमूर्तेस्त्वथैकस्मिन् यागे भारेण कल्पितम्।
उत्तमोत्तमसंज्ञं तु प्रापणं द्विजसत्तम! ॥ 6 ॥

मूलम् - 6

विश्वास-प्रस्तुतिः - 7

आढकद्वयहीनं तद्भवेदुत्तममध्यमम्।
अधमाधमकं यावदेवं ह्वासं समाचरेत् ॥ 7 ॥

मूलम् - 7

आढकद्वयहीनं तद्भवेदुत्तममध्यमम्।
अधमाधमकं यावदेवं ह्वासं समाचरेत् ॥ 7 ॥

विश्वास-प्रस्तुतिः - 8

यथा द्रोणद्वयं विप्र! अधमाधमसंज्ञितम्।
यद्वाढकद्वयं प्रोक्तमधमाधमसंज्ञितम् ॥ 8 ॥

मूलम् - 8

यथा द्रोणद्वयं विप्र! अधमाधमसंज्ञितम्।
यद्वाढकद्वयं प्रोक्तमधमाधमसंज्ञितम् ॥ 8 ॥

विश्वास-प्रस्तुतिः - 9

क्रमेण तस्मादारभ्य द्रोणार्धं वर्धयेद्‌द्विज!।
अथोत्तमोत्तमं विप्र! सार्धद्रोणचतुष्टयम् ॥ 9 ॥

मूलम् - 9

विश्वास-प्रस्तुतिः - 10

कुर्यादाढकमात्रं तु प्रापणं संकटे सति।
पुरुषाशनमात्रं वा भवेद् द्रव्यानुरूपतः ॥ 10 ॥

मूलम् - 10

कुर्यादाढकमात्रं तु प्रापणं संकटे सति।
पुरुषाशनमात्रं वा भवेद् द्रव्यानुरूपतः ॥ 10 ॥

विश्वास-प्रस्तुतिः - 11

आढकद्वयमानेन तदर्धेनाथवा द्विज!।
पृथक्पात्रेषु निर्दिष्टं यावद्भारद्वयावधि ॥ 11 ॥

मूलम् - 11

आढकद्वयमानेन तदर्धेनाथवा द्विज!।
पृथक्पात्रेषु निर्दिष्टं यावद्भारद्वयावधि ॥ 11 ॥

विश्वास-प्रस्तुतिः - 12

नित्ये नैमित्तिके काम्यप्रायश्चित्ताख्ययोरपि।
विधिरेष समानः स्यादत ऊर्ध्वं महाहविः ॥ 12 ॥

मूलम् - 12

नित्ये नैमित्तिके काम्यप्रायश्चित्ताख्ययोरपि।
विधिरेष समानः स्यादत ऊर्ध्वं महाहविः ॥ 12 ॥

विश्वास-प्रस्तुतिः - 13

दशैकभारमात्रं तु उतमोत्तमसंज्ञितम्।
महोदनोऽनुकल्पे तु भारै (एकै) क ह्रासमाचरेत् ॥ 13 ॥

मूलम् - 13

दशैकभारमात्रं तु उतमोत्तमसंज्ञितम्।
महोदनोऽनुकल्पे तु भारै (एकै) क ह्रासमाचरेत् ॥ 13 ॥

विश्वास-प्रस्तुतिः - 14

अधमाधमपर्यन्तमस्मिन् भारद्वयं यथा।
यद्वा विंशतिभारं तु उत्तमोत्तमसंज्ञितम् ॥ 14 ॥

मूलम् - 14

अधमाधमपर्यन्तमस्मिन् भारद्वयं यथा।
यद्वा विंशतिभारं तु उत्तमोत्तमसंज्ञितम् ॥ 14 ॥

विश्वास-प्रस्तुतिः - 15

भारद्वयद्वयह्रासं यथा स्यादधमाधमे।
चतुर्भारप्रमाणं तु मुख्यकल्पे विधिं श्रृणु ॥ 15 ॥

मूलम् - 15

भारद्वयद्वयह्रासं यथा स्यादधमाधमे।
चतुर्भारप्रमाणं तु मुख्यकल्पे विधिं श्रृणु ॥ 15 ॥

विश्वास-प्रस्तुतिः - 16

एकभारविहीनैस्तु त्रिंशद्भारैः प्रकल्पितम्।
उत्तमोत्तमसंज्ञं तु भाराणां तु त्रयं त्रयम् ॥ 16 ॥

मूलम् - 16

एकभारविहीनैस्तु त्रिंशद्भारैः प्रकल्पितम्।
उत्तमोत्तमसंज्ञं तु भाराणां तु त्रयं त्रयम् ॥ 16 ॥

विश्वास-प्रस्तुतिः - 17

ह्रासयेत्क्रमयोगेन यथा स्यादधमाधमे।
पञ्चभारप्रमाणं तु एवं वा परिकल्पयेत् ॥ 17 ॥

मूलम् - 17

ह्रासयेत्क्रमयोगेन यथा स्यादधमाधमे।
पञ्चभारप्रमाणं तु एवं वा परिकल्पयेत् ॥ 17 ॥

विश्वास-प्रस्तुतिः - 18

पञ्चाशद्भारमात्रं स्यात् उत्तमोत्तमसंज्ञितम्।
पञ्चपञ्चपरित्यागादेवं नवविधं भवेत् ॥ 18 ॥

मूलम् - 18

पञ्चाशद्भारमात्रं स्यात् उत्तमोत्तमसंज्ञितम्।
पञ्चपञ्चपरित्यागादेवं नवविधं भवेत् ॥ 18 ॥

विश्वास-प्रस्तुतिः - 19

दशभारप्रमाणं तु यथा स्यादधमाधमे।
अस्मादूर्ध्वं तु गृह्नीयान्महोदनविधौ द्विज! ॥ 19 ॥

मूलम् - 19

दशभारप्रमाणं तु यथा स्यादधमाधमे।
अस्मादूर्ध्वं तु गृह्नीयान्महोदनविधौ द्विज! ॥ 19 ॥

विश्वास-प्रस्तुतिः - 20

सहस्रभारपर्यन्तं विभवेच्छानुरूपतः।
मात्रार्थं तण्डुलं श्रेष्ठमाढकत्रयकल्पितम् ॥ 20 ॥

मूलम् - 20

सहस्रभारपर्यन्तं विभवेच्छानुरूपतः।
मात्रार्थं तण्डुलं श्रेष्ठमाढकत्रयकल्पितम् ॥ 20 ॥

विश्वास-प्रस्तुतिः - 21

अधमाधमपर्यन्तं प्रस्थं प्रस्थं तु ह्रासयेत्।
मुख्यकल्पे भवेच्छ्रेष्ठं सार्धद्रोणविनिर्मितम् ॥ 21 ॥

मूलम् - 21

अधमाधमपर्यन्तं प्रस्थं प्रस्थं तु ह्रासयेत्।
मुख्यकल्पे भवेच्छ्रेष्ठं सार्धद्रोणविनिर्मितम् ॥ 21 ॥

विश्वास-प्रस्तुतिः - 22

प्रस्थद्वयद्वयह्रासमाचरेत्तु यथाक्रमम्।
अधमाधममानं स्याद्यथा द्रोणार्धकल्पितम् ॥ 22 ॥

मूलम् - 22

प्रस्थद्वयद्वयह्रासमाचरेत्तु यथाक्रमम्।
अधमाधममानं स्याद्यथा द्रोणार्धकल्पितम् ॥ 22 ॥

विश्वास-प्रस्तुतिः - 23

अधमाढकमानस्य हविषो मुख्यकल्पने।
मात्रार्थं तण्डुलं प्रस्थं तदर्धमनुकल्पके ॥ 23 ॥

मूलम् - 23

अधमाढकमानस्य हविषो मुख्यकल्पने।
मात्रार्थं तण्डुलं प्रस्थं तदर्धमनुकल्पके ॥ 23 ॥

विश्वास-प्रस्तुतिः - 24

हविर्नृद्धिकमेणैव मात्रावृद्धिं समाचरेत्।
अधमस्यैककल्पे तु द्रोणार्धं परिकल्पयेत् ॥ 24 ॥

मूलम् - 24

हविर्नृद्धिकमेणैव मात्रावृद्धिं समाचरेत्।
अधमस्यैककल्पे तु द्रोणार्धं परिकल्पयेत् ॥ 24 ॥

विश्वास-प्रस्तुतिः - 25

मात्रार्थमनुकल्पे तु आढकं परिकल्पयेत्।
तण्डुलाद्‌द्विगुणः शालिर्मात्रा स्यादुत्तमोत्तमा ॥ 25 ॥

मूलम् - 25

मात्रार्थमनुकल्पे तु आढकं परिकल्पयेत्।
तण्डुलाद्‌द्विगुणः शालिर्मात्रा स्यादुत्तमोत्तमा ॥ 25 ॥

विश्वास-प्रस्तुतिः - 26

समाना मध्यमा प्रोक्ता तदर्धा कीर्तिताधमा।
शालिवत्कल्पितव्या स्याद्वीजमात्रा त्रिधा स्थिता ॥ 26 ॥

मूलम् - 26

समाना मध्यमा प्रोक्ता तदर्धा कीर्तिताधमा।
शालिवत्कल्पितव्या स्याद्वीजमात्रा त्रिधा स्थिता ॥ 26 ॥

विश्वास-प्रस्तुतिः - 27

वीजानामप्यभावे तु मुद्गमेकं प्रशस्यते।
वीजेष्वेकतमं वापि तत्तत्कालानुरूपतः ॥ 27 ॥

मूलम् - 27

वीजानामप्यभावे तु मुद्गमेकं प्रशस्यते।
वीजेष्वेकतमं वापि तत्तत्कालानुरूपतः ॥ 27 ॥

विश्वास-प्रस्तुतिः - 28

तण्डुलेन समा मुख्या तिलमात्रा प्रकीर्तिता।
तदर्धा मद्यमा प्रोक्ता पादमाना कनीयसी ॥ 28 ॥

मूलम् - 28

तण्डुलेन समा मुख्या तिलमात्रा प्रकीर्तिता।
तदर्धा मद्यमा प्रोक्ता पादमाना कनीयसी ॥ 28 ॥

विश्वास-प्रस्तुतिः - 29

यथा विभवमानः स्याद्रिक्तवित्ताढ्यमानयोः।
शालिमात्रा न कर्तव्या यागे स्नपनवर्जिते ॥ 29 ॥

मूलम् - 29

यथा विभवमानः स्याद्रिक्तवित्ताढ्यमानयोः।
शालिमात्रा न कर्तव्या यागे स्नपनवर्जिते ॥ 29 ॥

विश्वास-प्रस्तुतिः - 30

अन्या मात्राः प्रकल्प्याः स्युः सर्वस्मिन्नर्चनाविधौ।
मुख्यमूर्त्युचितान्मानादधिकेन न कल्पयेत् ॥ 30 ॥

मूलम् - 30

विश्वास-प्रस्तुतिः - 31

प्रमाणेनाङ्गबिम्बानां सर्वं तु हविरादिकम्।
तद्याप्यधिककालं तु हविराद्यं न कल्पयेत् ॥ 31 ॥

मूलम् - 31

प्रमाणेनाङ्गबिम्बानां सर्वं तु हविरादिकम्।
तद्याप्यधिककालं तु हविराद्यं न कल्पयेत् ॥ 31 ॥

विश्वास-प्रस्तुतिः - 32

अन्नादाढकमानात्स्यात् पुरुषाशनमात्रकात्।
प्रासादयजने ह्रासं न कदाचित् समाचरेत् ॥ 32 ॥

मूलम् - 32

अन्नादाढकमानात्स्यात् पुरुषाशनमात्रकात्।
प्रासादयजने ह्रासं न कदाचित् समाचरेत् ॥ 32 ॥

विश्वास-प्रस्तुतिः - 33

मात्रा तण्डुलमानं च शालिमानं तथैव च।
न ह्रासयेन्मुनिश्रेष्ठ! मानादाढकनिर्मितात् ॥ 33 ॥

मूलम् - 33

मात्रा तण्डुलमानं च शालिमानं तथैव च।
न ह्रासयेन्मुनिश्रेष्ठ! मानादाढकनिर्मितात् ॥ 33 ॥

विश्वास-प्रस्तुतिः - 34

स्वगृहे यजने कुर्याद्विभवेच्छानेरूपतः।
आज्यादीनामथो मानं वक्ष्ये तदवधारय ॥ 34 ॥

मूलम् - 34

स्वगृहे यजने कुर्याद्विभवेच्छानेरूपतः।
आज्यादीनामथो मानं वक्ष्ये तदवधारय ॥ 34 ॥

विश्वास-प्रस्तुतिः - 35

अन्नस्याढकमानस्य घृतं तु कुडुबत्रयम्।
उत्तमोत्तमसंज्ञं तु मुख्यकल्पक्रमेण तु ॥ 35 ॥

मूलम् - 35

अन्नस्याढकमानस्य घृतं तु कुडुबत्रयम्।
उत्तमोत्तमसंज्ञं तु मुख्यकल्पक्रमेण तु ॥ 35 ॥

विश्वास-प्रस्तुतिः - 36

एकैकमुष्टिहान्या तु नवधैतत् प्रकीर्तितम्।
अनुकल्पे घृतं विप्र! सार्धं तु कुडुबं भवेत् ॥ 36 ॥

मूलम् - 36

एकैकमुष्टिहान्या तु नवधैतत् प्रकीर्तितम्।
अनुकल्पे घृतं विप्र! सार्धं तु कुडुबं भवेत् ॥ 36 ॥

विश्वास-प्रस्तुतिः - 37

अर्धार्धमुष्टिहान्या तु तच्चापि नवधा स्मृतम्।
द्विगुणं घृतमानं स्यात् मुद्गान्नपरिकल्पने ॥ 37 ॥

मूलम् - 37

अर्धार्धमुष्टिहान्या तु तच्चापि नवधा स्मृतम्।
द्विगुणं घृतमानं स्यात् मुद्गान्नपरिकल्पने ॥ 37 ॥

विश्वास-प्रस्तुतिः - 38

अन्नवृद्धिक्रमेणैव घृतवृद्धिं समाचरेत्।
कर्मव्यान्युपदंशार्थं मूलानि च फलानि च ॥ 38 ॥

मूलम् - 38

अन्नवृद्धिक्रमेणैव घृतवृद्धिं समाचरेत्।
कर्मव्यान्युपदंशार्थं मूलानि च फलानि च ॥ 38 ॥

विश्वास-प्रस्तुतिः - 39

विंशत्पलानि प्रोक्तानि उत्तमोत्तमसंज्ञया।
अन्नस्याढकमानस्य मुख्यकल्पक्रमेण तु ॥ 39 ॥

मूलम् - 39

विंशत्पलानि प्रोक्तानि उत्तमोत्तमसंज्ञया।
अन्नस्याढकमानस्य मुख्यकल्पक्रमेण तु ॥ 39 ॥

विश्वास-प्रस्तुतिः - 40

एकैकपलहान्या तु तदेतन्नवधा भवेत्।
उत्तमं द्वादशपलमनुकल्पे क्रमेण तु ॥ 40 ॥

मूलम् - 40

एकैकपलहान्या तु तदेतन्नवधा भवेत्।
उत्तमं द्वादशपलमनुकल्पे क्रमेण तु ॥ 40 ॥

विश्वास-प्रस्तुतिः - 41

एकैकपलहानिः स्यादधमाधमपश्चिमम्।
मुद्गभेदोपदंशस्तु आढके घृतमानवत् ॥ 41 ॥

मूलम् - 41

एकैकपलहानिः स्यादधमाधमपश्चिमम्।
मुद्गभेदोपदंशस्तु आढके घृतमानवत् ॥ 41 ॥

विश्वास-प्रस्तुतिः - 42

मुद्गान्ने मुद्गमानस्तु तण्डुलेन समो भवेत्।
मुख्यः पादविहीनस्तु मध्यमः परिकीर्तितः ॥ 42 ॥

मूलम् - 42

मुद्गान्ने मुद्गमानस्तु तण्डुलेन समो भवेत्।
मुख्यः पादविहीनस्तु मध्यमः परिकीर्तितः ॥ 42 ॥

विश्वास-प्रस्तुतिः - 43

अर्धमानोऽधमः प्रोक्तस्तस्मान्न ह्रासमाचरेत्।
नालिकेरफलं चैकमाढकस्य प्रकीर्तितम् ॥ 43 ॥

मूलम् - 43

अर्धमानोऽधमः प्रोक्तस्तस्मान्न ह्रासमाचरेत्।
नालिकेरफलं चैकमाढकस्य प्रकीर्तितम् ॥ 43 ॥

विश्वास-प्रस्तुतिः - 44

तदर्धं मध्यमं प्रोक्तं तदर्धमधमं भवेत्।
लवणं च मरीचादि यथायोगं समाचरेत् ॥ 44 ॥

मूलम् - 44

तदर्धं मध्यमं प्रोक्तं तदर्धमधमं भवेत्।
लवणं च मरीचादि यथायोगं समाचरेत् ॥ 44 ॥

विश्वास-प्रस्तुतिः - 45

तण्डुलादष्टगुणितं पयः स्यात् पायसोदने।
मध्यमं पादहीनं स्यादधमं स्यात्तदर्धकम् ॥ 45 ॥

मूलम् - 45

तण्डुलादष्टगुणितं पयः स्यात् पायसोदने।
मध्यमं पादहीनं स्यादधमं स्यात्तदर्धकम् ॥ 45 ॥

विश्वास-प्रस्तुतिः - 46

क्षीराभावे नालिकेरपयसा परिकल्पयेत्।
उभयोः पयसोर्वापि मिश्रणं सममानयोः ॥ 46 ॥

मूलम् - 46

क्षीराभावे नालिकेरपयसा परिकल्पयेत्।
उभयोः पयसोर्वापि मिश्रणं सममानयोः ॥ 46 ॥

विश्वास-प्रस्तुतिः - 47

गुडाब्रस्याढकस्याथ गुलानां त्रिंशतं पलम्।
उत्तमं विंशतिश्चैव मध्यमे दशमं भवेत् ॥ 47 ॥

मूलम् - 47

गुडाब्रस्याढकस्याथ गुलानां त्रिंशतं पलम्।
उत्तमं विंशतिश्चैव मध्यमे दशमं भवेत् ॥ 47 ॥

विश्वास-प्रस्तुतिः - 48

तण्डुलादर्धमानो वा मुद्गभेदस्तदर्धकः।
अथवा सममानो वा पायसान्नगुलान्नयोः ॥ 48 ॥

मूलम् - 48

तण्डुलादर्धमानो वा मुद्गभेदस्तदर्धकः।
अथवा सममानो वा पायसान्नगुलान्नयोः ॥ 48 ॥

विश्वास-प्रस्तुतिः - 49

एकं चापूपमानं स्यात् कुडुबद्वयकल्पितम्।
मुख्यं तदर्धं मध्यं स्यात्तदर्धमधमं भवेत् ॥ 49 ॥

मूलम् - 49

एकं चापूपमानं स्यात् कुडुबद्वयकल्पितम्।
मुख्यं तदर्धं मध्यं स्यात्तदर्धमधमं भवेत् ॥ 49 ॥

विश्वास-प्रस्तुतिः - 50

मुद्गभेदस्तण्डुलार्धस्तत्पादो वा यथारुचि।
एकस्यापूपमानस्य षट्‌पलं तु गुलं भवेत् ॥ 50 ॥

मूलम् - 50

मुद्गभेदस्तण्डुलार्धस्तत्पादो वा यथारुचि।
एकस्यापूपमानस्य षट्‌पलं तु गुलं भवेत् ॥ 50 ॥

विश्वास-प्रस्तुतिः - 51

अथवैकपलं वापि संकटे परिकल्पयेत्।
नालिकेरपलं चैकं तदर्धं पादमेव वा ॥ 51 ॥

मूलम् - 51

अथवैकपलं वापि संकटे परिकल्पयेत्।
नालिकेरपलं चैकं तदर्धं पादमेव वा ॥ 51 ॥

विश्वास-प्रस्तुतिः - 52

एकस्यापूपमानस्य यथापाकं घृतं भवेत्।
लवनं च मरीचाद्यं यथायोगं तु पूर्ववत् ॥ 52 ॥

मूलम् - 52

एकस्यापूपमानस्य यथापाकं घृतं भवेत्।
लवनं च मरीचाद्यं यथायोगं तु पूर्ववत् ॥ 52 ॥

विश्वास-प्रस्तुतिः - 53

शतत्रयं षष्ट्यधिकमपूपानां तदुत्तमम्।
चत्वारिंशत्क्रमाद्‌ध्रासे चत्वारिंशत्तथान्तिमे ॥ 53 ॥

मूलम् - 53

शतत्रयं षष्ट्यधिकमपूपानां तदुत्तमम्।
चत्वारिंशत्क्रमाद्‌ध्रासे चत्वारिंशत्तथान्तिमे ॥ 53 ॥

विश्वास-प्रस्तुतिः - 54

पूगीफलानि ताम्बूलीदलाश्चाशीतिसङ्ख्यया।
एवं प्रकल्पितं ब्रह्नन्नेकं ताम्बूलमुच्यते ॥ 54 ॥

मूलम् - 54

पूगीफलानि ताम्बूलीदलाश्चाशीतिसङ्ख्यया।
एवं प्रकल्पितं ब्रह्नन्नेकं ताम्बूलमुच्यते ॥ 54 ॥

विश्वास-प्रस्तुतिः - 55

तस्मान्न्यूनं न कर्तव्यं प्रासादेषु कदाचन।
मुख्यकल्पे द्विसाहस्रं क्रमुकीफलमुच्यते ॥ 55 ॥

मूलम् - 55

तस्मान्न्यूनं न कर्तव्यं प्रासादेषु कदाचन।
मुख्यकल्पे द्विसाहस्रं क्रमुकीफलमुच्यते ॥ 55 ॥

विश्वास-प्रस्तुतिः - 56

तस्माद्‌द्विगुणमानं तु ताम्बूलीदलमीरितम्।
उत्तमोत्तममेतत्तु अशीतिर्द्विचतुःक्रमात् ॥ 56 ॥

मूलम् - 56

तस्माद्‌द्विगुणमानं तु ताम्बूलीदलमीरितम्।
उत्तमोत्तममेतत्तु अशीतिर्द्विचतुःक्रमात् ॥ 56 ॥

विश्वास-प्रस्तुतिः - 57

ह्रासयेदुभयं विप्र! यथा स्यादधमाधमे।
शतानि सप्त, विंशच्च फलानि स्युर्दलानि च ॥ 57 ॥

मूलम् - 57

ह्रासयेदुभयं विप्र! यथा स्यादधमाधमे।
शतानि सप्त, विंशच्च फलानि स्युर्दलानि च ॥ 57 ॥

विश्वास-प्रस्तुतिः - 58

चतुर्ददशशतानि स्युश्चत्वारिंशच्च सत्तम!।
एकस्य ताम्बूलकस्य अह्गानां मानमुच्यते ॥ 58 ॥

मूलम् - 58

चतुर्ददशशतानि स्युश्चत्वारिंशच्च सत्तम!।
एकस्य ताम्बूलकस्य अह्गानां मानमुच्यते ॥ 58 ॥

विश्वास-प्रस्तुतिः - 59

एलालवङ्गलक्कोलजातीनां निष्कपादकम्।
मानं स्याच्चन्दनस्यापि चूर्णस्यापि तथैव च ॥ 59 ॥

मूलम् - 59

एलालवङ्गलक्कोलजातीनां निष्कपादकम्।
मानं स्याच्चन्दनस्यापि चूर्णस्यापि तथैव च ॥ 59 ॥

विश्वास-प्रस्तुतिः - 60

कर्पूरमष्टमानं तु नालिकेरफलार्धकम्।
मातुलङ्गफलार्धं च तैलमुष्ट्यष्टमांशकम् ॥ 60 ॥

मूलम् - 60

कर्पूरमष्टमानं तु नालिकेरफलार्धकम्।
मातुलङ्गफलार्धं च तैलमुष्ट्यष्टमांशकम् ॥ 60 ॥

विश्वास-प्रस्तुतिः - 61

एवमेव क्रमेणैव ह्यङ्गानां वृद्धिमाचरेत्।
उत्तमोत्तमपूजायां चन्दनं द्विपलं भवेत् ॥ 61 ॥

मूलम् - 61

एवमेव क्रमेणैव ह्यङ्गानां वृद्धिमाचरेत्।
उत्तमोत्तमपूजायां चन्दनं द्विपलं भवेत् ॥ 61 ॥

विश्वास-प्रस्तुतिः - 62

सपादं, मुख्यकल्पे तु, द्विद्विनिष्कविहीनकम्।
अधमाधमकं याव, दनुकल्पे श्रृणुष्व मे ॥ 62 ॥

मूलम् - 62

सपादं, मुख्यकल्पे तु, द्विद्विनिष्कविहीनकम्।
अधमाधमकं याव, दनुकल्पे श्रृणुष्व मे ॥ 62 ॥

विश्वास-प्रस्तुतिः - 63

पलमेकं सनिष्कं स्यान्निष्कैकं ह्रासयेत् क्रमात्।
चन्दनं निष्कमानं तु यथा स्यादधमाधमे ॥ 63 ॥

मूलम् - 63

पलमेकं सनिष्कं स्यान्निष्कैकं ह्रासयेत् क्रमात्।
चन्दनं निष्कमानं तु यथा स्यादधमाधमे ॥ 63 ॥

विश्वास-प्रस्तुतिः - 64

स्नपने चन्दनं मानं मुख्यकल्पेऽवधारय।
अष्टादशपलं मानमुत्तमोत्तमसंज्ञितम् ॥ 64 ॥

मूलम् - 64

स्नपने चन्दनं मानं मुख्यकल्पेऽवधारय।
अष्टादशपलं मानमुत्तमोत्तमसंज्ञितम् ॥ 64 ॥

विश्वास-प्रस्तुतिः - 65

पलद्वयद्वयह्रासो यावत् स्यादधमाधमम्।
अनुकल्पे नव पलं स्नपने चन्दनं भवेत् ॥ 65 ॥

मूलम् - 65

पलद्वयद्वयह्रासो यावत् स्यादधमाधमम्।
अनुकल्पे नव पलं स्नपने चन्दनं भवेत् ॥ 65 ॥

विश्वास-प्रस्तुतिः - 66

होमे चन्दनमानं तु पूजोक्तादर्धकं भवेत्।
तदर्धं वा यथायोगं बाह्‌लिके मानमुच्यते ॥ 66 ॥

मूलम् - 66

होमे चन्दनमानं तु पूजोक्तादर्धकं भवेत्।
तदर्धं वा यथायोगं बाह्‌लिके मानमुच्यते ॥ 66 ॥

विश्वास-प्रस्तुतिः - 67

पूजाचन्दनवन्मानं मुख्यकल्पानुकल्पयोः।
तथा कर्पूरमानं तु तदर्धं वा द्विजोत्तम! ॥ 67 ॥

मूलम् - 67

पूजाचन्दनवन्मानं मुख्यकल्पानुकल्पयोः।
तथा कर्पूरमानं तु तदर्धं वा द्विजोत्तम! ॥ 67 ॥

विश्वास-प्रस्तुतिः - 68

आढकं हैममुदकं कुडुबद्वयसंयुतम्।
कुडुबद्वयद्वयह्रासमाचरेदन्तिमावधि ॥ 68 ॥

मूलम् - 68

आढकं हैममुदकं कुडुबद्वयसंयुतम्।
कुडुबद्वयद्वयह्रासमाचरेदन्तिमावधि ॥ 68 ॥

विश्वास-प्रस्तुतिः - 69

मुख्यकल्पमिमं विद्धि, ह्यनुकल्पे तदर्धकम्।
कृष्णाङ्गरागं मुख्ये तु सार्धनिष्कचतुष्टयम् ॥ 69 ॥

मूलम् - 69

मुख्यकल्पमिमं विद्धि, ह्यनुकल्पे तदर्धकम्।
कृष्णाङ्गरागं मुख्ये तु सार्धनिष्कचतुष्टयम् ॥ 69 ॥

विश्वास-प्रस्तुतिः - 70

निष्कार्धक्रमह्रासेन नवधा परिकीर्तितितम्।
अनुकल्पे तदर्धेन नवधा मानमीरितम् ॥ 70 ॥

मूलम् - 70

निष्कार्धक्रमह्रासेन नवधा परिकीर्तितितम्।
अनुकल्पे तदर्धेन नवधा मानमीरितम् ॥ 70 ॥

विश्वास-प्रस्तुतिः - 71

कृष्णाङ्गरागवन्मानं भवेन्मृगमदस्य च।
कस्तूरिकायास्च तथा मानं नवविधं भवेत् ॥ 71 ॥

मूलम् - 71

कृष्णाङ्गरागवन्मानं भवेन्मृगमदस्य च।
कस्तूरिकायास्च तथा मानं नवविधं भवेत् ॥ 71 ॥

विश्वास-प्रस्तुतिः - 72

द्रव्याणां स्नपनोक्तानां निष्काष्टादशकं तु वा।
नवकं वोत्तमोत्कृष्टं यथा स्यादधमाधमम् ॥ 72 ॥

मूलम् - 72

द्रव्याणां स्नपनोक्तानां निष्काष्टादशकं तु वा।
नवकं वोत्तमोत्कृष्टं यथा स्यादधमाधमम् ॥ 72 ॥

विश्वास-प्रस्तुतिः - 73

निष्कद्वयं तथैकं वा भवेत्तत्कल्पयेत्तथा।
एवं विज्ञाय मानाद्यं संस्कृत्य हविरादिकम् ॥ 73 ॥

मूलम् - 73

निष्कद्वयं तथैकं वा भवेत्तत्कल्पयेत्तथा।
एवं विज्ञाय मानाद्यं संस्कृत्य हविरादिकम् ॥ 73 ॥

विश्वास-प्रस्तुतिः - 74

आराधयेद्देशिकेन्द्रो यथा शास्त्रोदितक्रमात्।
आचार्यः साधको वाऽन्नं पाचयेत्पाचकैः सदा ॥ 74 ॥

मूलम् - 74

आराधयेद्देशिकेन्द्रो यथा शास्त्रोदितक्रमात्।
आचार्यः साधको वाऽन्नं पाचयेत्पाचकैः सदा ॥ 74 ॥

विश्वास-प्रस्तुतिः - 75

स्वयं वा।पि यथायोगं मन्त्रज्ञानामसन्निधौ।
तेषामाचार्यपूर्वाणां सङ्ख्यानियम उच्यते ॥ 75 ॥

मूलम् - 75

स्वयं वा।पि यथायोगं मन्त्रज्ञानामसन्निधौ।
तेषामाचार्यपूर्वाणां सङ्ख्यानियम उच्यते ॥ 75 ॥

विश्वास-प्रस्तुतिः - 76

श्रीरङ्गाख्यविमानादौ स्वयं व्यक्ते महामते!।
प्रासादे च तथा सिद्धैः विबुधैश्च प्रतिष्ठिते ॥ 76 ॥

मूलम् - 76

श्रीरङ्गाख्यविमानादौ स्वयं व्यक्ते महामते!।
प्रासादे च तथा सिद्धैः विबुधैश्च प्रतिष्ठिते ॥ 76 ॥

विश्वास-प्रस्तुतिः - 77

आचार्यान् शास्त्रविहितांश्चतुरः परिकल्पयेत्।
अष्टौ द्वादश षड्वाथ कल्प्याः स्युः पञ्च वा मुने! ॥ 77 ॥

मूलम् - 77

आचार्यान् शास्त्रविहितांश्चतुरः परिकल्पयेत्।
अष्टौ द्वादश षड्वाथ कल्प्याः स्युः पञ्च वा मुने! ॥ 77 ॥

विश्वास-प्रस्तुतिः - 78

प्रधानगुरुणा सार्धं कल्प्या ह्येकोत्तरास्तु वा।
यथा विहितसङ्ख्या वा सह तेन महामुने! ॥ 78 ॥

मूलम् - 78

प्रधानगुरुणा सार्धं कल्प्या ह्येकोत्तरास्तु वा।
यथा विहितसङ्ख्या वा सह तेन महामुने! ॥ 78 ॥

विश्वास-प्रस्तुतिः - 79

एवमेव भवेत् सङ्ख्या ऋषिभिः परिकल्पिते।
मनुष्यनिर्मिते स्थानेऽप्येवभेव समाचरेत् ॥ 79 ॥

मूलम् - 79

एवमेव भवेत् सङ्ख्या ऋषिभिः परिकल्पिते।
मनुष्यनिर्मिते स्थानेऽप्येवभेव समाचरेत् ॥ 79 ॥

विश्वास-प्रस्तुतिः - 80

आचार्याणां यथोक्तानां योग्यानामप्यसन्निधौ।
आचार्यास्तु त्रयः कल्प्याः द्वावेको वा महामते! ॥ 80 ॥

मूलम् - 80

आचार्याणां यथोक्तानां योग्यानामप्यसन्निधौ।
आचार्यास्तु त्रयः कल्प्याः द्वावेको वा महामते! ॥ 80 ॥

विश्वास-प्रस्तुतिः - 81

मूलबिम्बादि पूजार्थमाचार्या मुख्यकल्पके।
कल्प्याः साधकमिश्रा वा मध्यकल्पेऽनुकल्पके ॥ 81 ॥

मूलम् - 81

मूलबिम्बादि पूजार्थमाचार्या मुख्यकल्पके।
कल्प्याः साधकमिश्रा वा मध्यकल्पेऽनुकल्पके ॥ 81 ॥

विश्वास-प्रस्तुतिः - 82

केवलाः साधकाः कल्प्या यथा विहितसङ्ख्यया।
चत्वारः साधकाः कल्प्याः षडष्टौ द्वादशाथवा ॥ 82 ॥

मूलम् - 82

केवलाः साधकाः कल्प्या यथा विहितसङ्ख्यया।
चत्वारः साधकाः कल्प्याः षडष्टौ द्वादशाथवा ॥ 82 ॥

विश्वास-प्रस्तुतिः - 83

षोडशाथापि विभवे नान्यथा परिकल्पयेत्।
स्वयंव्यक्तादिकेष्वेवं कल्प्याः पञ्चविधेष्वपि ॥ 83 ॥

मूलम् - 83

षोडशाथापि विभवे नान्यथा परिकल्पयेत्।
स्वयंव्यक्तादिकेष्वेवं कल्प्याः पञ्चविधेष्वपि ॥ 83 ॥

विश्वास-प्रस्तुतिः - 84

स्थानेषु मानुषेष्वद्य विशेषः परिकीर्त्यते।
व्यामिश्रयाजिभिर्वर्णैः स्थाने तु परिकल्प्यते ॥ 84 ॥

मूलम् - 84

स्थानेषु मानुषेष्वद्य विशेषः परिकीर्त्यते।
व्यामिश्रयाजिभिर्वर्णैः स्थाने तु परिकल्प्यते ॥ 84 ॥

विश्वास-प्रस्तुतिः - 85

एवं विहितसङ्‌क्याः स्युराचार्याः साधकास्तथा।
मुख्यकल्पेऽनुकल्पे तु केवलाराधकान् दश ॥ 85 ॥

मूलम् - 85

एवं विहितसङ्‌क्याः स्युराचार्याः साधकास्तथा।
मुख्यकल्पेऽनुकल्पे तु केवलाराधकान् दश ॥ 85 ॥

विश्वास-प्रस्तुतिः - 86

यथोक्तसङ्‌ख्यैराचार्यैः सहितान् परिकल्पयेत्।
मूलबिम्बस्य पूजार्थं तदेवंसङ्ख्यकास्तुते ॥ 86 ॥

मूलम् - 86

यथोक्तसङ्‌ख्यैराचार्यैः सहितान् परिकल्पयेत्।
मूलबिम्बस्य पूजार्थं तदेवंसङ्ख्यकास्तुते ॥ 86 ॥

विश्वास-प्रस्तुतिः - 87

कल्पने पञ्चसङ्‌ख्यायास्तथा पञ्चदश स्मृताः।
तेषां तु देशिकेन्द्राणामेकद्वित्रित्वकल्पने ॥ 87 ॥

मूलम् - 87

कल्पने पञ्चसङ्‌ख्यायास्तथा पञ्चदश स्मृताः।
तेषां तु देशिकेन्द्राणामेकद्वित्रित्वकल्पने ॥ 87 ॥

विश्वास-प्रस्तुतिः - 88

एकादश द्वादश च त्रयोदश च ते क्रमात्।
तस्मादाराधकानां तु दशसङ्‌ख्यां तु केवलाम् ॥ 88 ॥

मूलम् - 88

एकादश द्वादश च त्रयोदश च ते क्रमात्।
तस्मादाराधकानां तु दशसङ्‌ख्यां तु केवलाम् ॥ 88 ॥

विश्वास-प्रस्तुतिः - 89

न कल्पयेत्तु सर्वत्र तस्माच्छास्त्रोक्तमाचरेत्।
मानुष्याद्व्यतिरिक्तेषु स्वयं व्यक्तादिषु द्विज! ॥ 89 ॥

मूलम् - 89

विश्वास-प्रस्तुतिः - 90

यथा विहितसङ्‌ख्याः स्युराचार्यास्साधकास्तथा।
नित्ये नैमित्तिके काम्ये प्रायश्चित्तेऽपि सर्वदा ॥ 90 ॥

मूलम् - 90

यथा विहितसङ्‌ख्याः स्युराचार्यास्साधकास्तथा।
नित्ये नैमित्तिके काम्ये प्रायश्चित्तेऽपि सर्वदा ॥ 90 ॥

विश्वास-प्रस्तुतिः - 91

दशसङ्‌ख्या न कल्प्या स्यात् उक्तन्यायेन कल्पयेत्।
मूलबिम्बादिपूजार्थं तथा बाह्यस्थमूर्तिषु ॥ 91 ॥

मूलम् - 91

दशसङ्‌ख्या न कल्प्या स्यात् उक्तन्यायेन कल्पयेत्।
मूलबिम्बादिपूजार्थं तथा बाह्यस्थमूर्तिषु ॥ 91 ॥

विश्वास-प्रस्तुतिः - 92

कृते सति महान् दोषस्तदा स्याद्राजराष्ट्रयोः।
महद्भयं स्यात् स्थानस्य कर्तुः कारयितुस्तथा ॥ 92 ॥

मूलम् - 92

कृते सति महान् दोषस्तदा स्याद्राजराष्ट्रयोः।
महद्भयं स्यात् स्थानस्य कर्तुः कारयितुस्तथा ॥ 92 ॥

विश्वास-प्रस्तुतिः - 93

तस्मादुक्तेन मार्गेण तत्तत्सङ्‌ख्याः प्रकल्पयेत्।
परिवारेषु यागः स्याच्चतुर्भिर्वा षडष्टभिः ॥ 93 ॥

मूलम् - 93

तस्मादुक्तेन मार्गेण तत्तत्सङ्‌ख्याः प्रकल्पयेत्।
परिवारेषु यागः स्याच्चतुर्भिर्वा षडष्टभिः ॥ 93 ॥

विश्वास-प्रस्तुतिः - 94

द्वादशभिः षोडशभिः साधकैः परिकल्पितैः।
गोपुरे मण्डपे साले प्राङ्कणे मालिकादिके ॥ 94 ॥

मूलम् - 94

द्वादशभिः षोडशभिः साधकैः परिकल्पितैः।
गोपुरे मण्डपे साले प्राङ्कणे मालिकादिके ॥ 94 ॥

विश्वास-प्रस्तुतिः - 95

स्थापितं वैभवं मूर्तं प्रादुर्भावं तु वा द्विज!।
प्रादुर्भावान्तरं मुक्यं यद्यन्मूर्तं प्रतिष्ठितम् ॥ 95 ॥

मूलम् - 95

विश्वास-प्रस्तुतिः - 96

तत्तद्यागेऽथ चत्वारः षडष्टौ द्वादशाथ वा।
सङ्कल्प्याः साधका विप्र! कल्प्याः षोडश वा द्विज! ॥ 96 ॥

मूलम् - 96

तत्तद्यागेऽथ चत्वारः षडष्टौ द्वादशाथ वा।
सङ्कल्प्याः साधका विप्र! कल्प्याः षोडश वा द्विज! ॥ 96 ॥

विश्वास-प्रस्तुतिः - 97

त एव परिवारार्थं कल्पनीयास्तु वा द्विज!।
गोपुरादौ स्थापितेषु बिम्बेष्वपि सदार्चने ॥ 97 ॥

मूलम् - 97

त एव परिवारार्थं कल्पनीयास्तु वा द्विज!।
गोपुरादौ स्थापितेषु बिम्बेष्वपि सदार्चने ॥ 97 ॥

विश्वास-प्रस्तुतिः - 98

देशिका एव संकल्प्याः तद्योग्यानामसन्निधौ।
परिवारपदे योग्या अनन्या ब्राह्नणा द्विज ॥ 98 ॥

मूलम् - 98

देशिका एव संकल्प्याः तद्योग्यानामसन्निधौ।
परिवारपदे योग्या अनन्या ब्राह्नणा द्विज ॥ 98 ॥

विश्वास-प्रस्तुतिः - 99

दीक्षिता ब्राह्नणा वापि कर्मज्ञाः कर्मकौशलाः।
श्रीरङ्गादौ स्वयं व्यक्ते स्थाने तु परिचारकाः ॥ 99 ॥

मूलम् - 99

दीक्षिता ब्राह्नणा वापि कर्मज्ञाः कर्मकौशलाः।
श्रीरङ्गादौ स्वयं व्यक्ते स्थाने तु परिचारकाः ॥ 99 ॥

विश्वास-प्रस्तुतिः - 100

अशीतिसङ्‌ख्यासङ्‌ख्याताः पाचकाश्च त एव हि।
सिद्धप्रतिष्टिते स्थाने सप्तत्येव तु ते स्मृताः ॥ 100 ॥

मूलम् - 100

अशीतिसङ्‌ख्यासङ्‌ख्याताः पाचकाश्च त एव हि।
सिद्धप्रतिष्टिते स्थाने सप्तत्येव तु ते स्मृताः ॥ 100 ॥

विश्वास-प्रस्तुतिः - 101

देवप्रतिष्ठिते षष्टिर्द्वाविंशदृषिकल्पिते।
मनुष्यनिर्मिते स्याने त्रिंशद्विंशत्तथापि वा ॥ 101 ॥

मूलम् - 101

देवप्रतिष्ठिते षष्टिर्द्वाविंशदृषिकल्पिते।
मनुष्यनिर्मिते स्याने त्रिंशद्विंशत्तथापि वा ॥ 101 ॥

विश्वास-प्रस्तुतिः - 102

अथबा भारमात्रान्नपचनादिषु कर्मसु।
एकायना दीक्षिता वा चत्वारो वा त्रयोऽपि वा ॥ 102 ॥

मूलम् - 102

अथबा भारमात्रान्नपचनादिषु कर्मसु।
एकायना दीक्षिता वा चत्वारो वा त्रयोऽपि वा ॥ 102 ॥

विश्वास-प्रस्तुतिः - 103

एवं भारानुसारेण क्रमेण परिवर्धयेत्।
यथा स्यादृतुभारेषु (द्वि) द्वादशाष्टादश द्विज! ॥ 103 ॥

मूलम् - 103

एवं भारानुसारेण क्रमेण परिवर्धयेत्।
यथा स्यादृतुभारेषु (द्वि) द्वादशाष्टादश द्विज! ॥ 103 ॥

विश्वास-प्रस्तुतिः - 104

एकस्तु कल्पनीयः स्यात्ताम्वूलापूपसाधने।
एकस्तु कल्पनीयोऽन्तः परिचारककर्मणि ॥ 104 ॥

मूलम् - 104

एकस्तु कल्पनीयः स्यात्ताम्वूलापूपसाधने।
एकस्तु कल्पनीयोऽन्तः परिचारककर्मणि ॥ 104 ॥

विश्वास-प्रस्तुतिः - 105

चत्वारिंशत्समाख्याताः तदेवं परिचारकाः।
पक्षभारोदनानां तु साधने तु चतुर्गुणाः ॥ 105 ॥

मूलम् - 105

चत्वारिंशत्समाख्याताः तदेवं परिचारकाः।
पक्षभारोदनानां तु साधने तु चतुर्गुणाः ॥ 105 ॥

विश्वास-प्रस्तुतिः - 106

अपूपसाधने द्वौ तु द्वौ तु ताम्बूल साधने।
चत्वारस्तु तथात्वन्तः परिचारककर्मणि ॥ 106 ॥

मूलम् - 106

अपूपसाधने द्वौ तु द्वौ तु ताम्बूल साधने।
चत्वारस्तु तथात्वन्तः परिचारककर्मणि ॥ 106 ॥

विश्वास-प्रस्तुतिः - 107

एवं त्वशीतिसङ्ख्याः स्युः पक्षभारान्नसाधने।
वर्धयेदत ऊर्ध्वं च तत्तद्भारानुसारतः ॥ 107 ॥

मूलम् - 107

एवं त्वशीतिसङ्ख्याः स्युः पक्षभारान्नसाधने।
वर्धयेदत ऊर्ध्वं च तत्तद्भारानुसारतः ॥ 107 ॥

विश्वास-प्रस्तुतिः - 108

ह्रासस्तदनुसारेण कर्तव्योऽभ्यूह्य सर्वदा।
एवं स्याद्भारमात्रे तु त्रयाणां परिकल्पने ॥ 108 ॥

मूलम् - 108

ह्रासस्तदनुसारेण कर्तव्योऽभ्यूह्य सर्वदा।
एवं स्याद्भारमात्रे तु त्रयाणां परिकल्पने ॥ 108 ॥

विश्वास-प्रस्तुतिः - 109

चतुर्णां कल्पने वाऽपि तत्क्रमेण विवर्धयेत्।
साधकाः पाचकाश्चैव ह्याचार्यवशवर्तिनः ॥ 109 ॥

मूलम् - 109

चतुर्णां कल्पने वाऽपि तत्क्रमेण विवर्धयेत्।
साधकाः पाचकाश्चैव ह्याचार्यवशवर्तिनः ॥ 109 ॥

विश्वास-प्रस्तुतिः - 110

आचार्यसाधकानां च आज्ञासन्धारणोद्यताः।
सर्वदा पाचकाः सर्वे भवेयुः परिचारकाः ॥ 110 ॥

मूलम् - 110

आचार्यसाधकानां च आज्ञासन्धारणोद्यताः।
सर्वदा पाचकाः सर्वे भवेयुः परिचारकाः ॥ 110 ॥

विश्वास-प्रस्तुतिः - 111

पाचका एव शास्त्रेषु कीर्त्यन्ते परिचारकाः।
अन्तरङ्गा बहिरङ्गा द्विविधाः परिचारकाः ॥ 111 ॥

मूलम् - 111

पाचका एव शास्त्रेषु कीर्त्यन्ते परिचारकाः।
अन्तरङ्गा बहिरङ्गा द्विविधाः परिचारकाः ॥ 111 ॥

विश्वास-प्रस्तुतिः - 112

अन्तरङ्गास्तु संप्रोक्ताः पाचकाः परिचारकाः।
बहिरङ्गास्तु संप्रोक्ताः पुष्पाद्याहरणोद्यताः ॥ 112 ॥

मूलम् - 112

अन्तरङ्गास्तु संप्रोक्ताः पाचकाः परिचारकाः।
बहिरङ्गास्तु संप्रोक्ताः पुष्पाद्याहरणोद्यताः ॥ 112 ॥

विश्वास-प्रस्तुतिः - 113

अन्येऽपि ये निबद्धाः स्युस्तत्तत्कर्मानुरूपतः।
तेऽपि सर्वे यथायोगमाचार्यवशवर्तिनः ॥ 113 ॥

मूलम् - 113

अन्येऽपि ये निबद्धाः स्युस्तत्तत्कर्मानुरूपतः।
तेऽपि सर्वे यथायोगमाचार्यवशवर्तिनः ॥ 113 ॥

विश्वास-प्रस्तुतिः - 114

वाहका गायकाश्चैव पाचकोक्तक्रमेण तु।
वर्धनीया यथायोगमन्ये स्युः कर्मकारिणः ॥ 114 ॥

मूलम् - 114

वाहका गायकाश्चैव पाचकोक्तक्रमेण तु।
वर्धनीया यथायोगमन्ये स्युः कर्मकारिणः ॥ 114 ॥

विश्वास-प्रस्तुतिः - 115

आचार्याश्चैव चत्वारः तथा षोडश साधकाः।
अशीतिसङ्ख्यासङ्ख्याताः पाचकाः परिचारकाः ॥ 115 ॥

मूलम् - 115

आचार्याश्चैव चत्वारः तथा षोडश साधकाः।
अशीतिसङ्ख्यासङ्ख्याताः पाचकाः परिचारकाः ॥ 115 ॥

विश्वास-प्रस्तुतिः - 116

एवमेकायनानां तु चतुः सङ्ख्याप्रकल्पनम्।
मुख्यकल्पमिमं विद्धि तदभावे महामते! ॥ 116 ॥

मूलम् - 116

एवमेकायनानां तु चतुः सङ्ख्याप्रकल्पनम्।
मुख्यकल्पमिमं विद्धि तदभावे महामते! ॥ 116 ॥

विश्वास-प्रस्तुतिः - 117

तेषां दीक्षितमिश्राणां कल्पनं मध्यकल्पनम्।
अधमं कल्पनं विद्धि सह्ख्यास्वन्यास्वपि द्विज! ॥ 117 ॥

मूलम् - 117

तेषां दीक्षितमिश्राणां कल्पनं मध्यकल्पनम्।
अधमं कल्पनं विद्धि सह्ख्यास्वन्यास्वपि द्विज! ॥ 117 ॥

विश्वास-प्रस्तुतिः - 118

मुख्यादिप्रविबागत्वमेवमभ्यूह्य कल्पयेत्।
पुत्रदीक्षाभिषेकेण संस्कृतांस्तत्र कल्पयेत् ॥ 118 ॥

मूलम् - 118

मुख्यादिप्रविबागत्वमेवमभ्यूह्य कल्पयेत्।
पुत्रदीक्षाभिषेकेण संस्कृतांस्तत्र कल्पयेत् ॥ 118 ॥

विश्वास-प्रस्तुतिः - 119

समये दीक्षाभिषेके संस्कृतान् वा न चान्यथा।
आचार्यैः साधकाश्चैव केवलास्त्वथवा द्विज! ॥ 119 ॥

मूलम् - 119

समये दीक्षाभिषेके संस्कृतान् वा न चान्यथा।
आचार्यैः साधकाश्चैव केवलास्त्वथवा द्विज! ॥ 119 ॥

विश्वास-प्रस्तुतिः - 120

बहिरङ्गेषु सर्वेषु कल्प्याः समयदीक्षिताः।
यया कया च विधया दीक्षिताऽहीक्षितास्तु वा ॥ 120 ॥

मूलम् - 120

बहिरङ्गेषु सर्वेषु कल्प्याः समयदीक्षिताः।
यया कया च विधया दीक्षिताऽहीक्षितास्तु वा ॥ 120 ॥

भूयः कश्चिद्विशेषोऽयं कथ्यते तमिमं श्रृणु। सनकः --- मुनीम्द्र प्रापणादीनां सङ्ख्यामानमुदाहृतम् ॥ 121 ॥
विश्वास-प्रस्तुतिः - 122

इदानीं सविशेषेण चैतेषां मानलक्षणम्।
शालिमुद्गादिभेदं च साधनं मन्त्रपूर्वकम् ॥ 122 ॥

मूलम् - 122

इदानीं सविशेषेण चैतेषां मानलक्षणम्।
शालिमुद्गादिभेदं च साधनं मन्त्रपूर्वकम् ॥ 122 ॥

विश्वास-प्रस्तुतिः - 123

निवेदनप्रकारं च कारिणां संप्रदानकम्।
यथावत् सर्वमेवैतत् पृच्छतो मे प्रकाशय ॥ 123 ॥

मूलम् - 123

निवेदनप्रकारं च कारिणां संप्रदानकम्।
यथावत् सर्वमेवैतत् पृच्छतो मे प्रकाशय ॥ 123 ॥

शाण्डिल्यः ---
विश्वास-प्रस्तुतिः - 124

श्रृणु सम्यक् प्रवक्ष्यामि यथा पृष्टं त्वया मुने!।
येन संसाधितेनैव संपूर्णं पूजनं भवेत् ॥ 124 ॥

मूलम् - 124

श्रृणु सम्यक् प्रवक्ष्यामि यथा पृष्टं त्वया मुने!।
येन संसाधितेनैव संपूर्णं पूजनं भवेत् ॥ 124 ॥

विश्वास-प्रस्तुतिः - 125

नित्यं नैमित्तिकं काम्यं त्रिविधं हविरुच्यते।
प्रथमं नित्ययागे तु हविषो लक्षणं श्रृणु ॥ 125 ॥

मूलम् - 125

नित्यं नैमित्तिकं काम्यं त्रिविधं हविरुच्यते।
प्रथमं नित्ययागे तु हविषो लक्षणं श्रृणु ॥ 125 ॥

विश्वास-प्रस्तुतिः - 126

स्वहस्तेनाष्टतालोच्चो यः स मध्यमपूरुषः।
तस्य देशिकमुख्यस्य मध्यमाङ्गुलिसंभवः ॥ 126 ॥

मूलम् - 126

स्वहस्तेनाष्टतालोच्चो यः स मध्यमपूरुषः।
तस्य देशिकमुख्यस्य मध्यमाङ्गुलिसंभवः ॥ 126 ॥

विश्वास-प्रस्तुतिः - 127

द्विपर्वस्राविणी बिन्दुः द्वात्रिंशद्बिन्दुभिस्त्रुटिः।
त्रुटिद्वयं तथा शुक्तिस्तद्‌द्वयं प्रसृतं भवेत् ॥ 127 ॥

मूलम् - 127

विश्वास-प्रस्तुतिः - 128

प्रसृताभ्यां प्रकुंजं तु तद्‌द्वयं कुडुबं भवेत्।
मानिका कुडुबाब्यां तु प्रस्थं तन्मानिकाद्वयम् ॥ 128 ॥

मूलम् - 128

प्रसृताभ्यां प्रकुंजं तु तद्‌द्वयं कुडुबं भवेत्।
मानिका कुडुबाब्यां तु प्रस्थं तन्मानिकाद्वयम् ॥ 128 ॥

विश्वास-प्रस्तुतिः - 129

्परस्थद्वयं शमं प्रोक्तं तद्‌द्वयं चाढकं भवेत्।
शिवमाढकयुग्मं तु द्रोणं तद्‌द्विगुणं भेवत् ॥ 129 ॥

मूलम् - 129

्परस्थद्वयं शमं प्रोक्तं तद्‌द्वयं चाढकं भवेत्।
शिवमाढकयुग्मं तु द्रोणं तद्‌द्विगुणं भेवत् ॥ 129 ॥

विश्वास-प्रस्तुतिः - 130

द्रोणद्वयं तु रवारी स्यात् तत्‌त्रयं भारमुच्यते।
शालितण्डुलमुद्गादि दधिक्षीरादिकान्यपि ॥ 130 ॥

मूलम् - 130

द्रोणद्वयं तु रवारी स्यात् तत्‌त्रयं भारमुच्यते।
शालितण्डुलमुद्गादि दधिक्षीरादिकान्यपि ॥ 130 ॥

विश्वास-प्रस्तुतिः - 131

प्रोक्तेनानेन मीयन्ते हविष्पाकादिकर्मसु।
चत्वारो व्रीहयः कुंजः तेऽष्टौ माञ्जिष्ठमुच्यते ॥ 131 ॥

मूलम् - 131

प्रोक्तेनानेन मीयन्ते हविष्पाकादिकर्मसु।
चत्वारो व्रीहयः कुंजः तेऽष्टौ माञ्जिष्ठमुच्यते ॥ 131 ॥

विश्वास-प्रस्तुतिः - 132

तत्छतं षष्टिरधिकं निष्कं निष्काष्टकं पलम्।
चन्दनादीनि गन्धानि गुलखण्डयुतानि च ॥ 132 ॥

मूलम् - 132

तत्छतं षष्टिरधिकं निष्कं निष्काष्टकं पलम्।
चन्दनादीनि गन्धानि गुलखण्डयुतानि च ॥ 132 ॥

विश्वास-प्रस्तुतिः - 133

कदलीपनसाम्राणि कूष्माण्डप्रमुखानि च।
तुलया तुलितानि स्युः यथोक्तपलमानतः ॥ 133 ॥

मूलम् - 133

कदलीपनसाम्राणि कूष्माण्डप्रमुखानि च।
तुलया तुलितानि स्युः यथोक्तपलमानतः ॥ 133 ॥

विश्वास-प्रस्तुतिः - 134

ज्ञात्वैवं नियतं मानं हविषां साधनाय च।
शालिमुद्गयवा माषा गोधूमाश्च प्रिङ्गयवः ॥ 134 ॥

मूलम् - 134

ज्ञात्वैवं नियतं मानं हविषां साधनाय च।
शालिमुद्गयवा माषा गोधूमाश्च प्रिङ्गयवः ॥ 134 ॥

विश्वास-प्रस्तुतिः - 135

तिलाः सप्त इमे ग्राह्ना ग्राम्या वै चरुकर्मणि।
वेणुश्यामाकनीवारा जर्त्तिलाश्च गवीधुकाः ॥ 135 ॥

मूलम् - 135

तिलाः सप्त इमे ग्राह्ना ग्राम्या वै चरुकर्मणि।
वेणुश्यामाकनीवारा जर्त्तिलाश्च गवीधुकाः ॥ 135 ॥

विश्वास-प्रस्तुतिः - 136

मर्कटाः कनकाः सप्त विज्ञेयास्तु वनोद्भवाः।
शालयस्तेषु मुख्याः स्युस्तदन्यास्तदभावतः ॥ 136 ॥

मूलम् - 136

मर्कटाः कनकाः सप्त विज्ञेयास्तु वनोद्भवाः।
शालयस्तेषु मुख्याः स्युस्तदन्यास्तदभावतः ॥ 136 ॥

विश्वास-प्रस्तुतिः - 137

रक्तशाल्यो महाशाल्यः कलमा गन्धशालयः।
श्वेतशाल्यः सशूकाश्च हेमाभा गर्भशालयः ॥ 137 ॥

मूलम् - 137

रक्तशाल्यो महाशाल्यः कलमा गन्धशालयः।
श्वेतशाल्यः सशूकाश्च हेमाभा गर्भशालयः ॥ 137 ॥

विश्वास-प्रस्तुतिः - 138

सुकुमाराश्च सूक्ष्माश्च दशैताः शालयः स्मृताः।
अन्तर्भेदाश्च बहवः सप्तमुद्गा उदाहृताः ॥ 138 ॥

मूलम् - 138

सुकुमाराश्च सूक्ष्माश्च दशैताः शालयः स्मृताः।
अन्तर्भेदाश्च बहवः सप्तमुद्गा उदाहृताः ॥ 138 ॥

विश्वास-प्रस्तुतिः - 139

मुद्नाः कृष्णाश्च हेमाश्च श्वेताः पीता महत्तराः।
अञ्जनाभाश्च सप्तैते अन्तर्भेदा उदाहृताः ॥ 139 ॥

मूलम् - 139

मुद्नाः कृष्णाश्च हेमाश्च श्वेताः पीता महत्तराः।
अञ्जनाभाश्च सप्तैते अन्तर्भेदा उदाहृताः ॥ 139 ॥

विश्वास-प्रस्तुतिः - 140

श्वेताः कृष्णाश्च पीताश्च वन्याश्चैव महातिलाः।
तिलानां पञ्चभेदास्तु ग्राह्याः स्युः परिकीर्तिताः ॥ 140 ॥

मूलम् - 140

श्वेताः कृष्णाश्च पीताश्च वन्याश्चैव महातिलाः।
तिलानां पञ्चभेदास्तु ग्राह्याः स्युः परिकीर्तिताः ॥ 140 ॥

विश्वास-प्रस्तुतिः - 141

उपाहृतानि केदाराद् दैवीयाच्च कृषीवलैः।
शालिमुद्गादिभेदानि कर्मण्यान्यर्चने विभोः ॥ 141 ॥

मूलम् - 141

उपाहृतानि केदाराद् दैवीयाच्च कृषीवलैः।
शालिमुद्गादिभेदानि कर्मण्यान्यर्चने विभोः ॥ 141 ॥

विश्वास-प्रस्तुतिः - 142

अवपन्नादिभिर्दोषैरष्टभिर्वर्जितानि च।
आनयेदवघातार्थं अवघातगृहे पुरा ॥ 142 ॥

मूलम् - 142

अवपन्नादिभिर्दोषैरष्टभिर्वर्जितानि च।
आनयेदवघातार्थं अवघातगृहे पुरा ॥ 142 ॥

विश्वास-प्रस्तुतिः - 143

गोमयेन समालिप्ते सुधाद्यैः परिमण्डिते।
शोधिते शतधारेण पवित्रेण कुशाम्बुभिः ॥ 143 ॥

मूलम् - 143

गोमयेन समालिप्ते सुधाद्यैः परिमण्डिते।
शोधिते शतधारेण पवित्रेण कुशाम्बुभिः ॥ 143 ॥

विश्वास-प्रस्तुतिः - 144

स्थले प्रणवमुच्चार्य प्राङ्‌मुखैर्वाऽप्षुदङ्‌मुखैः।
दीक्षितैर्नियतैर्विप्रैर्धृतचक्रादिलक्षणैः ॥ 144 ॥

मूलम् - 144

स्थले प्रणवमुच्चार्य प्राङ्‌मुखैर्वाऽप्षुदङ्‌मुखैः।
दीक्षितैर्नियतैर्विप्रैर्धृतचक्रादिलक्षणैः ॥ 144 ॥

विश्वास-प्रस्तुतिः - 145

सुस्नातैर्लोहदार्वश्ममृण्मयानि समन्ततः।
स्थापयित्वोलूखलानि क्षालितैः खादिरैर्दृढैः ॥ 145 ॥

मूलम् - 145

सुस्नातैर्लोहदार्वश्ममृण्मयानि समन्ततः।
स्थापयित्वोलूखलानि क्षालितैः खादिरैर्दृढैः ॥ 145 ॥

विश्वास-प्रस्तुतिः - 146

मुसलैरवहन्युस्ते द्वादशाक्षरविद्यया।
निस्तुषान्निष्कणान् कृत्वा तण्डुलान् सूर्पकोटरैः ॥ 146 ॥

मूलम् - 146

मुसलैरवहन्युस्ते द्वादशाक्षरविद्यया।
निस्तुषान्निष्कणान् कृत्वा तण्डुलान् सूर्पकोटरैः ॥ 146 ॥

विश्वास-प्रस्तुतिः - 147

तैस्तावदवहन्तव्या यावन्मुक्ताफलप्रभाः।
अखण्डिताश्चानणवः कृष्णबिन्दुविवर्जिताः ॥ 147 ॥

मूलम् - 147

तैस्तावदवहन्तव्या यावन्मुक्ताफलप्रभाः।
अखण्डिताश्चानणवः कृष्णबिन्दुविवर्जिताः ॥ 147 ॥

विश्वास-प्रस्तुतिः - 148

मुद्गभेदास्तथा कार्याः सारवन्तश्च निस्तुषाः।
साध्वीभिब्राह्नणीभिर्वा दीक्षितानामभावतः ॥ 148 ॥

मूलम् - 148

मुद्गभेदास्तथा कार्याः सारवन्तश्च निस्तुषाः।
साध्वीभिब्राह्नणीभिर्वा दीक्षितानामभावतः ॥ 148 ॥

विश्वास-प्रस्तुतिः - 149

शूद्रैर्वा दीक्षितैर्देवदासीभिर्देवसझनि।
हविःपाकादिकर्मार्थं कार्याऽवहननक्रिया ॥ 149 ॥

मूलम् - 149

शूद्रैर्वा दीक्षितैर्देवदासीभिर्देवसझनि।
हविःपाकादिकर्मार्थं कार्याऽवहननक्रिया ॥ 149 ॥

विश्वास-प्रस्तुतिः - 150

वैष्णवानां गृहे शुद्धे दीक्षितानां गृहेऽपि वा।
तण्डुलांस्तु प्रगृह्णीयाद्विधिक्षुण्णांस्तु देशिकः ॥ 150 ॥

मूलम् - 150

वैष्णवानां गृहे शुद्धे दीक्षितानां गृहेऽपि वा।
तण्डुलांस्तु प्रगृह्णीयाद्विधिक्षुण्णांस्तु देशिकः ॥ 150 ॥

विश्वास-प्रस्तुतिः - 151

अकणानतुषानेव क्रिमिहीनानपि क्रमात्।
केशपाषाणहीनांस्तु प्राण्यङ्गरहितांस्तथा ॥ 151 ॥

मूलम् - 151

अकणानतुषानेव क्रिमिहीनानपि क्रमात्।
केशपाषाणहीनांस्तु प्राण्यङ्गरहितांस्तथा ॥ 151 ॥

विश्वास-प्रस्तुतिः - 152

भस्माङ्गारविहीनांस्तु अभग्नानलघूनपि।
कणैस्तु भवति व्याधिस्तुषैर्दारिद्य्रकं भवेत् ॥ 152 ॥

मूलम् - 152

भस्माङ्गारविहीनांस्तु अभग्नानलघूनपि।
कणैस्तु भवति व्याधिस्तुषैर्दारिद्य्रकं भवेत् ॥ 152 ॥

विश्वास-प्रस्तुतिः - 153

कृमिभिः पुत्रनाशः स्यात् केशैर्दारविनाशनम्।
पाषाणैर्मरणं विद्धि अशन्या वह्निना जलैः ॥ 153 ॥

मूलम् - 153

कृमिभिः पुत्रनाशः स्यात् केशैर्दारविनाशनम्।
पाषाणैर्मरणं विद्धि अशन्या वह्निना जलैः ॥ 153 ॥

विश्वास-प्रस्तुतिः - 154

प्राण्यङ्गैर्व्याधयः प्रोक्ता भस्मना कलहो ध्रुवः।
अङ्गारैर्वह्निना बाथो भग्ने भङ्गस्तु विग्रहे ॥ 154 ॥

मूलम् - 154

प्राण्यङ्गैर्व्याधयः प्रोक्ता भस्मना कलहो ध्रुवः।
अङ्गारैर्वह्निना बाथो भग्ने भङ्गस्तु विग्रहे ॥ 154 ॥

विश्वास-प्रस्तुतिः - 155

प्रवासो लघुबिश्चैव तस्स्मात्तान् परिवर्जयेत्।
संभारानखिलानेव प्राक्‌संकल्पितसंमतान् ॥ 155 ॥

मूलम् - 155

प्रवासो लघुबिश्चैव तस्स्मात्तान् परिवर्जयेत्।
संभारानखिलानेव प्राक्‌संकल्पितसंमतान् ॥ 155 ॥

विश्वास-प्रस्तुतिः - 156

संभृत्य देशिकास्सार्धं साधकैःपाचकैरपि।
अवघातगृहं प्राप्य तत्रस्थं तण्डुलादिकम् ॥ 156 ॥

मूलम् - 156

संभृत्य देशिकास्सार्धं साधकैःपाचकैरपि।
अवघातगृहं प्राप्य तत्रस्थं तण्डुलादिकम् ॥ 156 ॥

विश्वास-प्रस्तुतिः - 157

ब्रह्नशुक्रमिवेत्युक्त्वा नेत्रेणेवावलोकयेत्।
प्राग्वत् संशोधयेत्तानि दहनाप्यायनादिभिः ॥ 157 ॥

मूलम् - 157

ब्रह्नशुक्रमिवेत्युक्त्वा नेत्रेणेवावलोकयेत्।
प्राग्वत् संशोधयेत्तानि दहनाप्यायनादिभिः ॥ 157 ॥

विश्वास-प्रस्तुतिः - 158

पैद(त्त)लादिषु शुद्धेषु पात्रेषु विततेष्वपि।
पचनार्थं सुमुद्धृत्यं तत् सर्वं तण्डुलादिकम् ॥ 158 ॥

मूलम् - 158

पैद(त्त)लादिषु शुद्धेषु पात्रेषु विततेष्वपि।
पचनार्थं सुमुद्धृत्यं तत् सर्वं तण्डुलादिकम् ॥ 158 ॥

विश्वास-प्रस्तुतिः - 159

तत्तत्पात्रसमुद्धारे निपुणैः परिचारकैः।
सुस्नातैश्च सुवेषैश्च वस्त्रेणाच्छादिताननैः ॥ 159 ॥

मूलम् - 159

तत्तत्पात्रसमुद्धारे निपुणैः परिचारकैः।
सुस्नातैश्च सुवेषैश्च वस्त्रेणाच्छादिताननैः ॥ 159 ॥

विश्वास-प्रस्तुतिः - 160

आनयेत् पचनागारं शङ्खतूर्यादिमङ्गलैः।
द्वारस्योत्तरपार्श्वे तु गोमयेनोपलेपिते ॥ 160 ॥

मूलम् - 160

आनयेत् पचनागारं शङ्खतूर्यादिमङ्गलैः।
द्वारस्योत्तरपार्श्वे तु गोमयेनोपलेपिते ॥ 160 ॥

विश्वास-प्रस्तुतिः - 161

प्रदेशे निक्षिपेत्तानि भाजनानि यथाक्रमम्।
गुलोपदंशपूर्वाणि लवणादिरसानि च ॥ 161 ॥

मूलम् - 161

प्रदेशे निक्षिपेत्तानि भाजनानि यथाक्रमम्।
गुलोपदंशपूर्वाणि लवणादिरसानि च ॥ 161 ॥

विश्वास-प्रस्तुतिः - 162

विन्यसेद्वायुदिग्भागे दधिक्षीरघृतानि च।
र्निदद्यान्नैर्ऋते भागे होमोपकरणान्यपि ॥ 162 ॥

मूलम् - 162

विन्यसेद्वायुदिग्भागे दधिक्षीरघृतानि च।
र्निदद्यान्नैर्ऋते भागे होमोपकरणान्यपि ॥ 162 ॥

विश्वास-प्रस्तुतिः - 163

चतुर्भिर्व्यापकैर्मन्त्रैः वस्त्रपूतेन वारिणा।
क्षालयित्वा चतुर्धा च यथा स्यात्तण्डुलादिषु ॥ 163 ॥

मूलम् - 163

चतुर्भिर्व्यापकैर्मन्त्रैः वस्त्रपूतेन वारिणा।
क्षालयित्वा चतुर्धा च यथा स्यात्तण्डुलादिषु ॥ 163 ॥

विश्वास-प्रस्तुतिः - 164

शिलाशकलनिर्मुक्तं निस्तुषं निष्कणं यथा।
अपक्वव्रीह्यवहततण्डुलेनैव साधितम् ॥ 164 ॥

मूलम् - 164

शिलाशकलनिर्मुक्तं निस्तुषं निष्कणं यथा।
अपक्वव्रीह्यवहततण्डुलेनैव साधितम् ॥ 164 ॥

विश्वास-प्रस्तुतिः - 165

गव्यदुग्धाज्यसंपृक्तं गुलखण्डपलान्वितम्।
अक्षारलवणोपेतं देवानां हविरुच्यते ॥ 165 ॥

मूलम् - 165

गव्यदुग्धाज्यसंपृक्तं गुलखण्डपलान्वितम्।
अक्षारलवणोपेतं देवानां हविरुच्यते ॥ 165 ॥

विश्वास-प्रस्तुतिः - 166

तदेव परमान्नं स्यात् क्षीराज्यगुडपाचितम्।
घृतसिक्तं तु शुद्धान्नमभावे हविरुच्यते ॥ 166 ॥

मूलम् - 166

तदेव परमान्नं स्यात् क्षीराज्यगुडपाचितम्।
घृतसिक्तं तु शुद्धान्नमभावे हविरुच्यते ॥ 166 ॥

विश्वास-प्रस्तुतिः - 167

अक्षारलवणं सिद्धं गुलक्षीरफलान्वितम्।
शान्तिके व्रतयज्ञे च संसाध्यं हविरुत्तमम् ॥ 167 ॥

मूलम् - 167

अक्षारलवणं सिद्धं गुलक्षीरफलान्वितम्।
शान्तिके व्रतयज्ञे च संसाध्यं हविरुत्तमम् ॥ 167 ॥

विश्वास-प्रस्तुतिः - 168

पायसान्नं, गुलान्नं च मुद्गान्नं, केवलोदनम्।
दध्यन्नं, च तिलान्नं च, निशान्नं, सर्वमिश्रितम् ॥ 168 ॥

मूलम् - 168

पायसान्नं, गुलान्नं च मुद्गान्नं, केवलोदनम्।
दध्यन्नं, च तिलान्नं च, निशान्नं, सर्वमिश्रितम् ॥ 168 ॥

विश्वास-प्रस्तुतिः - 169

इत्यष्टधा समुद्दिष्टं हविर्देवस्य संमतम्।
सर्वमाज्येन संसिच्य सोपदंशं निवेदयेत् ॥ 169 ॥

मूलम् - 169

इत्यष्टधा समुद्दिष्टं हविर्देवस्य संमतम्।
सर्वमाज्येन संसिच्य सोपदंशं निवेदयेत् ॥ 169 ॥

विश्वास-प्रस्तुतिः - 170

तेषां संसाधनार्थं तु लोहजा वाऽथ मृण्मयाः।
स्थालयः सशरावाश्च कल्पनीयाः पुरैव तु ॥ 170 ॥

मूलम् - 170

तेषां संसाधनार्थं तु लोहजा वाऽथ मृण्मयाः।
स्थालयः सशरावाश्च कल्पनीयाः पुरैव तु ॥ 170 ॥

विश्वास-प्रस्तुतिः - 171

देशिकेन्द्रकराह्गुष्ठजठरोत्थाङ्गुलेन तु।
षोडशाङ्‌गुलकोन्मानाः स्थाल्यः स्युः पाककर्मणि ॥ 171 ॥

मूलम् - 171

देशिकेन्द्रकराह्गुष्ठजठरोत्थाङ्गुलेन तु।
षोडशाङ्‌गुलकोन्मानाः स्थाल्यः स्युः पाककर्मणि ॥ 171 ॥

विश्वास-प्रस्तुतिः - 172

उच्छ्रायादुदरं तत्र द्वादशाह्गलसंमितम्।
जठरे, मूलविस्तारः कलया तुलितो भवेत् ॥ 172 ॥

मूलम् - 172

उच्छ्रायादुदरं तत्र द्वादशाह्गलसंमितम्।
जठरे, मूलविस्तारः कलया तुलितो भवेत् ॥ 172 ॥

विश्वास-प्रस्तुतिः - 173

अङ्‌गुलान्तरितं कार्यं कण्ठे सूत्रचतुष्टयम्।
एवं लक्षणयुक्तायाः विस्तारोच्छ्रायमानयोः ॥ 173 ॥

मूलम् - 173

अङ्‌गुलान्तरितं कार्यं कण्ठे सूत्रचतुष्टयम्।
एवं लक्षणयुक्तायाः विस्तारोच्छ्रायमानयोः ॥ 173 ॥

विश्वास-प्रस्तुतिः - 174

अर्धाधिकं वा द्विगुणं मध्यमोत्तमवाञ्छया।
एवमाकृतिरुद्दिष्टा स्थालीनां पाककर्मणि ॥ 174 ॥

मूलम् - 174

अर्धाधिकं वा द्विगुणं मध्यमोत्तमवाञ्छया।
एवमाकृतिरुद्दिष्टा स्थालीनां पाककर्मणि ॥ 174 ॥

विश्वास-प्रस्तुतिः - 175

शरावाणामथान्येषां लक्षणं श्रृणु सत्तम!।
अष्टाङ्‌गुलायतं सूत्रं भूमौ प्राप्य परिब्रमेत् ॥ 175 ॥

मूलम् - 175

शरावाणामथान्येषां लक्षणं श्रृणु सत्तम!।
अष्टाङ्‌गुलायतं सूत्रं भूमौ प्राप्य परिब्रमेत् ॥ 175 ॥

विश्वास-प्रस्तुतिः - 176

मध्यतो जठरं तस्य षोडशाङ्गलविस्तृतम्।
अष्टाङ्‌गुलान्तमुच्छ्रायमर्धचन्द्रसमाकृति ॥ 176 ॥

मूलम् - 176

मध्यतो जठरं तस्य षोडशाङ्गलविस्तृतम्।
अष्टाङ्‌गुलान्तमुच्छ्रायमर्धचन्द्रसमाकृति ॥ 176 ॥

विश्वास-प्रस्तुतिः - 177

कण्ठोच्चं त्र्यङ्गलं चोर्ध्वं वलयं द्व्यङ्गलं भवेत्।
दशाङ्‌गुलं चास्यतारं वलयेन समन्वितम् ॥ 177 ॥

मूलम् - 177

कण्ठोच्चं त्र्यङ्गलं चोर्ध्वं वलयं द्व्यङ्गलं भवेत्।
दशाङ्‌गुलं चास्यतारं वलयेन समन्वितम् ॥ 177 ॥

विश्वास-प्रस्तुतिः - 178

कण्ठोच्चादुदरोच्चान्तं ऋजुसूत्रद्वयेन तु।
गुलसिद्धं च कुर्वीत प्राग्वत् सूत्रचतुष्टयम् ॥ 178 ॥

मूलम् - 178

कण्ठोच्चादुदरोच्चान्तं ऋजुसूत्रद्वयेन तु।
गुलसिद्धं च कुर्वीत प्राग्वत् सूत्रचतुष्टयम् ॥ 178 ॥

विश्वास-प्रस्तुतिः - 179

हविः सङ्‌ख्यानुगुण्येन बह्वयः स्थाल्यस्तथेतराः।
तथोपदंशपात्राणां सर्वेषामास्यविस्तृतेः ॥ 179 ॥

मूलम् - 179

हविः सङ्‌ख्यानुगुण्येन बह्वयः स्थाल्यस्तथेतराः।
तथोपदंशपात्राणां सर्वेषामास्यविस्तृतेः ॥ 179 ॥

विश्वास-प्रस्तुतिः - 180

अधिकान्यपिधानानि तत्तद्‌द्रव्यमयानि च।
सुवृत्तानि पिधेयानि पादचन्द्राकृतीनि च ॥ 180 ॥

मूलम् - 180

अधिकान्यपिधानानि तत्तद्‌द्रव्यमयानि च।
सुवृत्तानि पिधेयानि पादचन्द्राकृतीनि च ॥ 180 ॥

विश्वास-प्रस्तुतिः - 181

तथा पाकोपयोग्यानि पात्राण्यन्यानि सत्तम!।
प्राग्वन्मद्याद्यपेक्षायां समभ्यूह्य प्रकल्पयेत् ॥ 181 ॥

मूलम् - 181

तथा पाकोपयोग्यानि पात्राण्यन्यानि सत्तम!।
प्राग्वन्मद्याद्यपेक्षायां समभ्यूह्य प्रकल्पयेत् ॥ 181 ॥

विश्वास-प्रस्तुतिः - 182

घृततप्तोपदंशार्थमम्बरीषमथायसम्।
जलद्रोण्यः कटाहाश्च बहवः क्षीरपाचने ॥ 182 ॥

मूलम् - 182

घृततप्तोपदंशार्थमम्बरीषमथायसम्।
जलद्रोण्यः कटाहाश्च बहवः क्षीरपाचने ॥ 182 ॥

विश्वास-प्रस्तुतिः - 183

घृतपाके तथापूपसाधने पात्रसञ्चयम्।
अन्यानि च समुत्पाद्य द्रर्व्यादीनि विधानतः ॥ 183 ॥

मूलम् - 183

घृतपाके तथापूपसाधने पात्रसञ्चयम्।
अन्यानि च समुत्पाद्य द्रर्व्यादीनि विधानतः ॥ 183 ॥

विश्वास-प्रस्तुतिः - 184

प्रारभेत हविःपाकं वक्ष्यमाणेन वर्त्मना।
आहृत्योदनपाकाग्निं कुण्डादौपासनानलात् ॥ 184 ॥

मूलम् - 184

प्रारभेत हविःपाकं वक्ष्यमाणेन वर्त्मना।
आहृत्योदनपाकाग्निं कुण्डादौपासनानलात् ॥ 184 ॥

विश्वास-प्रस्तुतिः - 185

चुल्यां निधाय “तारेण” “सप्तते"ग्न इतीरयन्।
इन्धनानि विनिक्षिप्य यज्ञदारुमयानि च ॥ 185 ॥

मूलम् - 185

चुल्यां निधाय “तारेण” “सप्तते"ग्न इतीरयन्।
इन्धनानि विनिक्षिप्य यज्ञदारुमयानि च ॥ 185 ॥

विश्वास-प्रस्तुतिः - 186

क्रिमिकीटादिहीनानि “ज्योतिरात्री” तिमन्त्रतः।
प्रज्वाल्य व्यजनेनैव ततः स्थालीश्च ताम्रजाः ॥ 186 ॥

मूलम् - 186

क्रिमिकीटादिहीनानि “ज्योतिरात्री” तिमन्त्रतः।
प्रज्वाल्य व्यजनेनैव ततः स्थालीश्च ताम्रजाः ॥ 186 ॥

विश्वास-प्रस्तुतिः - 187

प्रक्षाल्य तिन्त्रिणीतोयैः केवलैर्मृण्मयांस्ततः।
प्रक्षाल्य द्वादशार्णेन वीर्यमन्त्रेण मन्त्रवित् ॥ 187 ॥

मूलम् - 187

प्रक्षाल्य तिन्त्रिणीतोयैः केवलैर्मृण्मयांस्ततः।
प्रक्षाल्य द्वादशार्णेन वीर्यमन्त्रेण मन्त्रवित् ॥ 187 ॥

विश्वास-प्रस्तुतिः - 188

घृतेनालेपयेत्तासामन्तरं व्यूहविद्यया।
तण्डुलान् प्रक्षिपेत्तासु गायत्र्या विष्णुपूर्वया ॥ 188 ॥

मूलम् - 188

घृतेनालेपयेत्तासामन्तरं व्यूहविद्यया।
तण्डुलान् प्रक्षिपेत्तासु गायत्र्या विष्णुपूर्वया ॥ 188 ॥

विश्वास-प्रस्तुतिः - 189

अंभस्यपार इति चमन्त्रेण स हृदा पुनः।
जलेनापूरयेदूर्ध्वे तण्डुलान् प्रतिपात्रगान् ॥ 189 ॥

मूलम् - 189

अंभस्यपार इति चमन्त्रेण स हृदा पुनः।
जलेनापूरयेदूर्ध्वे तण्डुलान् प्रतिपात्रगान् ॥ 189 ॥

विश्वास-प्रस्तुतिः - 190

तण्डुलाढकमानस्य षटप्रस्थमुदकं भवेत्।
कर्मारंभेण ताःस्थालीश्चुल्यामारोपयेत्ततः ॥ 190 ॥

मूलम् - 190

तण्डुलाढकमानस्य षटप्रस्थमुदकं भवेत्।
कर्मारंभेण ताःस्थालीश्चुल्यामारोपयेत्ततः ॥ 190 ॥

विश्वास-प्रस्तुतिः - 191

चक्रमन्त्रेणापिधानीस्ताः संछाद्य यथाक्रमम्।
पाककाले समुद्धाट्य वीर्यमन्त्रेण तुद्ध्वनिम् ॥ 191 ॥

मूलम् - 191

चक्रमन्त्रेणापिधानीस्ताः संछाद्य यथाक्रमम्।
पाककाले समुद्धाट्य वीर्यमन्त्रेण तुद्ध्वनिम् ॥ 191 ॥

विश्वास-प्रस्तुतिः - 192

निरीक्ष्य नेत्तमन्त्रेण दर्व्या `मूलं’ समुद्धरन्।
चतुर्धा वर्तयेच्चैव चक्रेणाच्छादयेत् पुनः ॥ 192 ॥

मूलम् - 192

निरीक्ष्य नेत्तमन्त्रेण दर्व्या `मूलं’ समुद्धरन्।
चतुर्धा वर्तयेच्चैव चक्रेणाच्छादयेत् पुनः ॥ 192 ॥

विश्वास-प्रस्तुतिः - 193

पव्के जलमविस्राव्य द्वादशार्णं समुच्चरन्।
विद्रावितेन गव्येन हविषा चाभिघार्य च ॥ 193 ॥

मूलम् - 193

पव्के जलमविस्राव्य द्वादशार्णं समुच्चरन्।
विद्रावितेन गव्येन हविषा चाभिघार्य च ॥ 193 ॥

विश्वास-प्रस्तुतिः - 194

शुचीन् सत्क्रियतेत्यादि मन्त्रेणाधारपृष्ठतः।
शोधिते भूतले वाथ व्रीहिभिर्वा प्रसारिते ॥ 194 ॥

मूलम् - 194

शुचीन् सत्क्रियतेत्यादि मन्त्रेणाधारपृष्ठतः।
शोधिते भूतले वाथ व्रीहिभिर्वा प्रसारिते ॥ 194 ॥

विश्वास-प्रस्तुतिः - 195

एवं हवींषि सिद्धानि पाणिभ्यामवरोप्य च।
अस्त्राभिमन्त्रितेनैव बहिः प्रक्षाल्य वारिणा ॥ 195 ॥

मूलम् - 195

एवं हवींषि सिद्धानि पाणिभ्यामवरोप्य च।
अस्त्राभिमन्त्रितेनैव बहिः प्रक्षाल्य वारिणा ॥ 195 ॥

विश्वास-प्रस्तुतिः - 196

तन्मन्त्रेतेन शुद्धेन वस्त्रेणोद्वर्तयेत्ततः।
भस्मना मथितेनाद्भिर्वासुदेवादिवाचकैः ॥ 196 ॥

मूलम् - 196

तन्मन्त्रेतेन शुद्धेन वस्त्रेणोद्वर्तयेत्ततः।
भस्मना मथितेनाद्भिर्वासुदेवादिवाचकैः ॥ 196 ॥

विश्वास-प्रस्तुतिः - 197

तर्जन्याद्यङ्‌गुलीभिश्च कुर्याद्दिक्षूर्ध्वपुण्ट्रकम्।
समाच्छाद्य पिधानैश्च वसनैः क्षालितैस्ततः ॥ 197 ॥

मूलम् - 197

तर्जन्याद्यङ्‌गुलीभिश्च कुर्याद्दिक्षूर्ध्वपुण्ट्रकम्।
समाच्छाद्य पिधानैश्च वसनैः क्षालितैस्ततः ॥ 197 ॥

विश्वास-प्रस्तुतिः - 198

इत्युक्तं साधनं सम्यक् शुद्धान्नस्य विशेषतः।
अन्येषां साधनं वक्ष्ये परमान्नपुरस्सरम् ॥ 198 ॥

मूलम् - 198

इत्युक्तं साधनं सम्यक् शुद्धान्नस्य विशेषतः।
अन्येषां साधनं वक्ष्ये परमान्नपुरस्सरम् ॥ 198 ॥

विश्वास-प्रस्तुतिः - 199

तण्डुलस्य तु तुर्यांशं पायसे मुद्गसारकम्।
तन्मानं घृतमुद्दिष्टं प्रागेव कथितं पयः ॥ 199 ॥

मूलम् - 199

तण्डुलस्य तु तुर्यांशं पायसे मुद्गसारकम्।
तन्मानं घृतमुद्दिष्टं प्रागेव कथितं पयः ॥ 199 ॥

विश्वास-प्रस्तुतिः - 200

चतुर्गुणं तण्डुलाच्च खण्डचूर्णसमन्वितम्।
साधयेदुक्तमार्गेण समन्त्रं केवलोदने ॥ 200 ॥

मूलम् - 200

चतुर्गुणं तण्डुलाच्च खण्डचूर्णसमन्वितम्।
साधयेदुक्तमार्गेण समन्त्रं केवलोदने ॥ 200 ॥

विश्वास-प्रस्तुतिः - 201

“हंसः सुछिष” दित्यत्र गोक्षीरस्य नियोजनम्।
तदभावे नियोक्तव्यं नालिकेरोद्भवं पयः ॥ 201 ॥

मूलम् - 201

“हंसः सुछिष” दित्यत्र गोक्षीरस्य नियोजनम्।
तदभावे नियोक्तव्यं नालिकेरोद्भवं पयः ॥ 201 ॥

विश्वास-प्रस्तुतिः - 202

“अब्जागोजे” ति तत्क्षेपः स्याद्गव्यप्रतियोजने।
गुडान्नपाचने क्षीरमपहायैक्षवं रसम् ॥ 202 ॥

मूलम् - 202

“अब्जागोजे” ति तत्क्षेपः स्याद्गव्यप्रतियोजने।
गुडान्नपाचने क्षीरमपहायैक्षवं रसम् ॥ 202 ॥

विश्वास-प्रस्तुतिः - 203

कथितं गुडखण्डं वा क्षीरमानानुसारतः।
क्षीरप्रक्षेपमन्त्रेण गुडादीनि नियोजयेत् ॥ 203 ॥

मूलम् - 203

कथितं गुडखण्डं वा क्षीरमानानुसारतः।
क्षीरप्रक्षेपमन्त्रेण गुडादीनि नियोजयेत् ॥ 203 ॥

विश्वास-प्रस्तुतिः - 204

मुद्गान्ने तण्डुलं सम्यक् मुद्गसारं नियोजयेत्।
शुद्धान्ने तु पुरा प्रोक्तं विशेषेण घृताप्लुतम् ॥ 204 ॥

मूलम् - 204

मुद्गान्ने तण्डुलं सम्यक् मुद्गसारं नियोजयेत्।
शुद्धान्ने तु पुरा प्रोक्तं विशेषेण घृताप्लुतम् ॥ 204 ॥

विश्वास-प्रस्तुतिः - 205

दध्योदने दधिक्षेपः क्षीरार्धपरिसंमितः।
कदलीपनसाम्रादिगुडखण्डसमन्वितम् ॥ 205 ॥

मूलम् - 205

दध्योदने दधिक्षेपः क्षीरार्धपरिसंमितः।
कदलीपनसाम्रादिगुडखण्डसमन्वितम् ॥ 205 ॥

विश्वास-प्रस्तुतिः - 206

खण्डचूर्णसमोपेतं कृसरान्ने तु मुद्गकम्।
आढकस्य हरिद्रान्ने निशापिष्टं पलं भवेत् ॥ 206 ॥

मूलम् - 206

खण्डचूर्णसमोपेतं कृसरान्ने तु मुद्गकम्।
आढकस्य हरिद्रान्ने निशापिष्टं पलं भवेत् ॥ 206 ॥

विश्वास-प्रस्तुतिः - 207

मुद्गसारसमोपेतं गुडखण्डादिसंयुतम्।
मिश्रान्ने योजयेत् किंचित् क्षीराज्यघृतसंप्लुतम् ॥ 207 ॥

मूलम् - 207

मुद्गसारसमोपेतं गुडखण्डादिसंयुतम्।
मिश्रान्ने योजयेत् किंचित् क्षीराज्यघृतसंप्लुतम् ॥ 207 ॥

विश्वास-प्रस्तुतिः - 208

शान्त्यर्थं पयसा मिश्रं पुष्ठ्यर्थे गुडमिश्रितम्।
वश्यार्थे मुद्गसारोत्थमाकृष्टौ दधिमिश्रितम् ॥ 208 ॥

मूलम् - 208

शान्त्यर्थं पयसा मिश्रं पुष्ठ्यर्थे गुडमिश्रितम्।
वश्यार्थे मुद्गसारोत्थमाकृष्टौ दधिमिश्रितम् ॥ 208 ॥

विश्वास-प्रस्तुतिः - 209

कृसरान्नं तु पित्र्यर्थे मारणोच्चाटनेऽपि च।
स्तंभने च हरिद्रान्नं मिश्रान्नं मोहने भवेत् ॥ 209 ॥

मूलम् - 209

कृसरान्नं तु पित्र्यर्थे मारणोच्चाटनेऽपि च।
स्तंभने च हरिद्रान्नं मिश्रान्नं मोहने भवेत् ॥ 209 ॥

विश्वास-प्रस्तुतिः - 210

साधारणं तु शुद्धान्नं यात्रासु मृगयादिके।
विशेषेण तु दध्यन्नं हेमराजतपात्रगम् ॥ 210 ॥

मूलम् - 210

साधारणं तु शुद्धान्नं यात्रासु मृगयादिके।
विशेषेण तु दध्यन्नं हेमराजतपात्रगम् ॥ 210 ॥

विश्वास-प्रस्तुतिः - 211

मरीचिशुण्ठीलिकुचतिन्त्रिणीरसमिश्रितम्।
चूर्णेन जीरकोत्थेन संस्कुर्याद्रसवस्तुभिः ॥ 211 ॥

मूलम् - 211

मरीचिशुण्ठीलिकुचतिन्त्रिणीरसमिश्रितम्।
चूर्णेन जीरकोत्थेन संस्कुर्याद्रसवस्तुभिः ॥ 211 ॥

विश्वास-प्रस्तुतिः - 212

रसभेदसमुत्थानि पनसद्वितयोद्भवम्।
चूतभेदसमुत्थानि नातिपव्कानि कालतः ॥ 212 ॥

मूलम् - 212

रसभेदसमुत्थानि पनसद्वितयोद्भवम्।
चूतभेदसमुत्थानि नातिपव्कानि कालतः ॥ 212 ॥

विश्वास-प्रस्तुतिः - 213

बृहत्युर्वारुवार्ताककूष्माण्डप्रभवानि च।
कारवल्लीलतोत्थानि कार्कोटप्रभवानि च ॥ 213 ॥

मूलम् - 213

बृहत्युर्वारुवार्ताककूष्माण्डप्रभवानि च।
कारवल्लीलतोत्थानि कार्कोटप्रभवानि च ॥ 213 ॥

विश्वास-प्रस्तुतिः - 214

पटोलद्वितयोत्थानि कोशातक्युद्भवे तथा।
अलाबुकर्करीनिम्बभेदोत्थं तिन्त्रिणीफलम् ॥ 214 ॥

मूलम् - 214

पटोलद्वितयोत्थानि कोशातक्युद्भवे तथा।
अलाबुकर्करीनिम्बभेदोत्थं तिन्त्रिणीफलम् ॥ 214 ॥

विश्वास-प्रस्तुतिः - 215

क्षुद्रकन्दसमेतं च वल्लीकन्दद्वयं तथा।
सूरणद्वयकन्दं च तथा पिण्डारकद्वयम् ॥ 215 ॥

मूलम् - 215

क्षुद्रकन्दसमेतं च वल्लीकन्दद्वयं तथा।
सूरणद्वयकन्दं च तथा पिण्डारकद्वयम् ॥ 215 ॥

विश्वास-प्रस्तुतिः - 216

पझोत्पलसमुत्थं च हविर्योग्यं विशेषतः।
उच्छिष्टं कृमिदष्टं च शिवाद्यैर्दंशितं तथा ॥ 216 ॥

मूलम् - 216

पझोत्पलसमुत्थं च हविर्योग्यं विशेषतः।
उच्छिष्टं कृमिदष्टं च शिवाद्यैर्दंशितं तथा ॥ 216 ॥

विश्वास-प्रस्तुतिः - 217

घ्रातं लालाजलस्पृष्टममेध्यस्थलसंभवम्।
पादस्पृष्टमकालोत्थमाहृतं चाशुचिस्थले ॥ 217 ॥

मूलम् - 217

घ्रातं लालाजलस्पृष्टममेध्यस्थलसंभवम्।
पादस्पृष्टमकालोत्थमाहृतं चाशुचिस्थले ॥ 217 ॥

विश्वास-प्रस्तुतिः - 218

भुक्तशेषं तथाऽस्पृश्यस्पृष्टं दत्तावशेषकम्।
परीक्ष्य बहुधा मन्त्री वर्जयेत् पाककर्मणि ॥ 218 ॥

मूलम् - 218

भुक्तशेषं तथाऽस्पृश्यस्पृष्टं दत्तावशेषकम्।
परीक्ष्य बहुधा मन्त्री वर्जयेत् पाककर्मणि ॥ 218 ॥

विश्वास-प्रस्तुतिः - 219

जीवन्तीं वास्तुकं शाकं कारवल्लीदलं तथा।
तुम्बीदलं च पिण्डीं च चमू (पुच्छ) मुद्गदलानि च ॥ 219 ॥

मूलम् - 219

जीवन्तीं वास्तुकं शाकं कारवल्लीदलं तथा।
तुम्बीदलं च पिण्डीं च चमू (पुच्छ) मुद्गदलानि च ॥ 219 ॥

विश्वास-प्रस्तुतिः - 220

शाकिनीं शतपर्वाण तथैव श्वासमर्दितम्।
आगस्त्यं पाचयेच्छाकं विहितं ब्राह्नणस्य च ॥ 220 ॥

मूलम् - 220

शाकिनीं शतपर्वाण तथैव श्वासमर्दितम्।
आगस्त्यं पाचयेच्छाकं विहितं ब्राह्नणस्य च ॥ 220 ॥

विश्वास-प्रस्तुतिः - 221

एकमूलानि चान्यानि गृह्णीयादनिषेधने।
झेदयित्वा लवित्रेण वीर्यमन्त्रं समुच्चरन् ॥ 221 ॥

मूलम् - 221

एकमूलानि चान्यानि गृह्णीयादनिषेधने।
झेदयित्वा लवित्रेण वीर्यमन्त्रं समुच्चरन् ॥ 221 ॥

विश्वास-प्रस्तुतिः - 222

निरीक्ष्य कृमिकीटादीन् शाकांश्च बहुधा तथा।
प्रक्षाल्य तेषु पात्रेषु निधाय बहुधा जलैः ॥ 222 ॥

मूलम् - 222

निरीक्ष्य कृमिकीटादीन् शाकांश्च बहुधा तथा।
प्रक्षाल्य तेषु पात्रेषु निधाय बहुधा जलैः ॥ 222 ॥

विश्वास-प्रस्तुतिः - 223

प्राग्वत् स्थालीषु निक्षिप्य प्रत्येकं वाऽथ मिश्रितम्।
सैन्धवैः समरीचैश्च सर्षपैर्जीरकैरपि ॥ 223 ॥

मूलम् - 223

प्राग्वत् स्थालीषु निक्षिप्य प्रत्येकं वाऽथ मिश्रितम्।
सैन्धवैः समरीचैश्च सर्षपैर्जीरकैरपि ॥ 223 ॥

विश्वास-प्रस्तुतिः - 224

श्रीपर्णीदलसंमिश्रैः पयोभिर्नालिकेरजैः।
तत्फलैरपि संघऋष्टैर्मृदुभिर्घृतमिश्रितैः ॥ 224 ॥

मूलम् - 224

श्रीपर्णीदलसंमिश्रैः पयोभिर्नालिकेरजैः।
तत्फलैरपि संघऋष्टैर्मृदुभिर्घृतमिश्रितैः ॥ 224 ॥

विश्वास-प्रस्तुतिः - 225

मसूरमाषनिम्बादिमुद्गभेदसमन्वितम्।
सयूषान् मुद्गभेदादीनयूषान् लवणादिभिः ॥ 225 ॥

मूलम् - 225

मसूरमाषनिम्बादिमुद्गभेदसमन्वितम्।
सयूषान् मुद्गभेदादीनयूषान् लवणादिभिः ॥ 225 ॥

विश्वास-प्रस्तुतिः - 226

रसभेदैः समेतांश्च साधयेत्तदनन्तरम्।
त्वचो व्यपोह्य मुद्गोत्थैः सारैः क्षीरेण पाचितैः ॥ 226 ॥

मूलम् - 226

रसभेदैः समेतांश्च साधयेत्तदनन्तरम्।
त्वचो व्यपोह्य मुद्गोत्थैः सारैः क्षीरेण पाचितैः ॥ 226 ॥

विश्वास-प्रस्तुतिः - 227

मरीचजीरलवणैर्घृतयुक्तैश्च मर्दितैः।
दर्व्यादिभिस्च संस्कुर्यात् गुल्माषं सरसं यथा ॥ 227 ॥

मूलम् - 227

मरीचजीरलवणैर्घृतयुक्तैश्च मर्दितैः।
दर्व्यादिभिस्च संस्कुर्यात् गुल्माषं सरसं यथा ॥ 227 ॥

विश्वास-प्रस्तुतिः - 228

स्थालीशरावपूर्णेषु पाचितानि पुरैव तु।
कदलीपनसादीनि नालिकेरफलानि च ॥ 228 ॥

मूलम् - 228

स्थालीशरावपूर्णेषु पाचितानि पुरैव तु।
कदलीपनसादीनि नालिकेरफलानि च ॥ 228 ॥

विश्वास-प्रस्तुतिः - 229

कूश्माण्डबृहतीपूगकारवल्लीफलानि च।
क्षुद्रकन्दसमेतानि वल्लीपिण्डारकानि च ॥ 229 ॥

मूलम् - 229

कूश्माण्डबृहतीपूगकारवल्लीफलानि च।
क्षुद्रकन्दसमेतानि वल्लीपिण्डारकानि च ॥ 229 ॥

विश्वास-प्रस्तुतिः - 230

अम्बरीषादिपात्रेषु विततेषु समन्ततः।
घृतलिप्तेषु तप्तेषु समारोप्य प्रसार्य च ॥ 230 ॥

मूलम् - 230

अम्बरीषादिपात्रेषु विततेषु समन्ततः।
घृतलिप्तेषु तप्तेषु समारोप्य प्रसार्य च ॥ 230 ॥

विश्वास-प्रस्तुतिः - 231

चूर्णीभूतैर्मरीचैश्च जीरकेन घृतेन च।
प्रतापितानि स्निग्धानि दर्व्यालोड्य पुनः पुनः ॥ 231 ॥

मूलम् - 231

चूर्णीभूतैर्मरीचैश्च जीरकेन घृतेन च।
प्रतापितानि स्निग्धानि दर्व्यालोड्य पुनः पुनः ॥ 231 ॥

विश्वास-प्रस्तुतिः - 232

स्थापनीयानि भाण्डेषु छादितान्यम्बरादिभिः।
आब्रादीनि च शुष्काणि अशुष्काणि फलानि च ॥ 232 ॥

मूलम् - 232

स्थापनीयानि भाण्डेषु छादितान्यम्बरादिभिः।
आब्रादीनि च शुष्काणि अशुष्काणि फलानि च ॥ 232 ॥

विश्वास-प्रस्तुतिः - 233

तिन्त्रिणीगुडमिश्राणि मरीचैर्जीरकैरपि।
नालिकेरोत्थपयसा सर्षपैः पेषितैरपि ॥ 233 ॥

मूलम् - 233

तिन्त्रिणीगुडमिश्राणि मरीचैर्जीरकैरपि।
नालिकेरोत्थपयसा सर्षपैः पेषितैरपि ॥ 233 ॥

विश्वास-प्रस्तुतिः - 234

स्थापयेदाम्रसारोत्थं लवणेन समन्वितम्।
श्रऋह्गिबेरं तथार्द्रं च दलितं रहितं च वा ॥ 234 ॥

मूलम् - 234

स्थापयेदाम्रसारोत्थं लवणेन समन्वितम्।
श्रऋह्गिबेरं तथार्द्रं च दलितं रहितं च वा ॥ 234 ॥

विश्वास-प्रस्तुतिः - 235

वासितं लवणोपेतं लिकुचोत्थरसेन तु।
कदलीपनसाम्राणां केवलानि फलानि च ॥ 235 ॥

मूलम् - 235

वासितं लवणोपेतं लिकुचोत्थरसेन तु।
कदलीपनसाम्राणां केवलानि फलानि च ॥ 235 ॥

विश्वास-प्रस्तुतिः - 236

गोधूमशालिजैः पिष्टैर्गुडपाकेन लोलितैः।
पाचितैर्मुद्गसारैश्च शकलैर्नालिकेरजैः ॥ 236 ॥

मूलम् - 236

गोधूमशालिजैः पिष्टैर्गुडपाकेन लोलितैः।
पाचितैर्मुद्गसारैश्च शकलैर्नालिकेरजैः ॥ 236 ॥

विश्वास-प्रस्तुतिः - 237

जीरकैः समरीचैश्च घृतेऽपूपानि पाचयेत्।
सुवृत्तान्याम्रतुल्यानि धात्रीफलसमानि च ॥ 237 ॥

मूलम् - 237

जीरकैः समरीचैश्च घृतेऽपूपानि पाचयेत्।
सुवृत्तान्याम्रतुल्यानि धात्रीफलसमानि च ॥ 237 ॥

विश्वास-प्रस्तुतिः - 238

न्यग्रोधफलतुल्यानि लिकुचाद्याकृतीनि च।
अन्तर्निक्षिप्तमुद्गानि रसवन्ति समन्ततः ॥ 238 ॥

मूलम् - 238

न्यग्रोधफलतुल्यानि लिकुचाद्याकृतीनि च।
अन्तर्निक्षिप्तमुद्गानि रसवन्ति समन्ततः ॥ 238 ॥

विश्वास-प्रस्तुतिः - 239

गुडपिष्टेन बद्धानि नालिकेराकृतीनि च।
नानाभेदसमुत्थानि घृतेऽपूपानि साधयेत् ॥ 239 ॥

मूलम् - 239

गुडपिष्टेन बद्धानि नालिकेराकृतीनि च।
नानाभेदसमुत्थानि घृतेऽपूपानि साधयेत् ॥ 239 ॥

विश्वास-प्रस्तुतिः - 240

शालिव्रीहिसमुत्थाश्च शालिषु स्फुटितानि च।
लघूनि वह्णितप्तानि गुडपाकान्वितानि च ॥ 240 ॥

मूलम् - 240

शालिव्रीहिसमुत्थाश्च शालिषु स्फुटितानि च।
लघूनि वह्णितप्तानि गुडपाकान्वितानि च ॥ 240 ॥

विश्वास-प्रस्तुतिः - 241

चूर्णितैश्च मरीचैश्च जीरकैः खण्डितैरपि।
नालिकेरफलैः शुष्कैः पृथुकानि च साधयेत् ॥ 241 ॥

मूलम् - 241

चूर्णितैश्च मरीचैश्च जीरकैः खण्डितैरपि।
नालिकेरफलैः शुष्कैः पृथुकानि च साधयेत् ॥ 241 ॥

विश्वास-प्रस्तुतिः - 242

भर्जितैः शालिपिष्टैश्च मिश्रितैर्जीरकादिना।
लोलितैर्गुडपाकेन पिण्डीभूतैः पृथक् पृथक् ॥ 242 ॥

मूलम् - 242

भर्जितैः शालिपिष्टैश्च मिश्रितैर्जीरकादिना।
लोलितैर्गुडपाकेन पिण्डीभूतैः पृथक् पृथक् ॥ 242 ॥

विश्वास-प्रस्तुतिः - 243

सक्तु स्यात् साधितं तद्वत्तिलैः पिण्डः सुभर्जितैः।
तिलपिण्ड इति ख्यातःसदा देवस्य संमतः ॥ 243 ॥

मूलम् - 243

सक्तु स्यात् साधितं तद्वत्तिलैः पिण्डः सुभर्जितैः।
तिलपिण्ड इति ख्यातःसदा देवस्य संमतः ॥ 243 ॥

विश्वास-प्रस्तुतिः - 244

सुश्रृतं च घनीभूतं खण्डचूर्णसमन्वितम्।
क्षीरं च मधुसर्पिर्भ्यां संपृत्क्तं सुघनं दधि ॥ 244 ॥

मूलम् - 244

सुश्रृतं च घनीभूतं खण्डचूर्णसमन्वितम्।
क्षीरं च मधुसर्पिर्भ्यां संपृत्क्तं सुघनं दधि ॥ 244 ॥

विश्वास-प्रस्तुतिः - 245

तरुणैः शकलीभूतैरुर्वारुसहकारयोः।
रूक्षसर्षपसंमिश्रं समरीचं तथा दधि ॥ 245 ॥

मूलम् - 245

तरुणैः शकलीभूतैरुर्वारुसहकारयोः।
रूक्षसर्षपसंमिश्रं समरीचं तथा दधि ॥ 245 ॥

विश्वास-प्रस्तुतिः - 246

पृथक्पात्रगतं शुद्धं गाळितं माक्षिकं मधु।
द्राक्षापनसरंभाम्रसमुत्थैर्मर्दितै रसैः ॥ 246 ॥

मूलम् - 246

पृथक्पात्रगतं शुद्धं गाळितं माक्षिकं मधु।
द्राक्षापनसरंभाम्रसमुत्थैर्मर्दितै रसैः ॥ 246 ॥

विश्वास-प्रस्तुतिः - 247

लोळितं गुळखण्डेन जीरकादिसमन्वितम्।
रसालमेतद्विज्ञेयं दधिमिश्रं तु पानकम् ॥ 247 ॥

मूलम् - 247

लोळितं गुळखण्डेन जीरकादिसमन्वितम्।
रसालमेतद्विज्ञेयं दधिमिश्रं तु पानकम् ॥ 247 ॥

केवलं दधिसंमिश्रं वारिणा तत्समेन तु।
विश्वास-प्रस्तुतिः - 248

केवलं दधिसंमिश्रं वारिणा तत्समेन तु।
मथितं समरीचं च लवणैश्चाधिवासितम् ॥ 248 ॥

मूलम् - 248

केवलं दधिसंमिश्रं वारिणा तत्समेन तु।
मथितं समरीचं च लवणैश्चाधिवासितम् ॥ 248 ॥

विश्वास-प्रस्तुतिः - 249

कण्डचूर्णसमोपेतं पानकं श्रमशान्तिकृत्।
अन्नानामपि संस्कारे पुरा मन्त्राः प्रकीर्तिताः ॥ 249 ॥

मूलम् - 249

कण्डचूर्णसमोपेतं पानकं श्रमशान्तिकृत्।
अन्नानामपि संस्कारे पुरा मन्त्राः प्रकीर्तिताः ॥ 249 ॥

विश्वास-प्रस्तुतिः - 250

तदन्येषां तु संस्कारो द्वादशार्णेन वा हृदा।
साङ्गेन मूलमन्त्रेण सर्वं संसाधयीत वा ॥ 250 ॥

मूलम् - 250

तदन्येषां तु संस्कारो द्वादशार्णेन वा हृदा।
साङ्गेन मूलमन्त्रेण सर्वं संसाधयीत वा ॥ 250 ॥

विश्वास-प्रस्तुतिः - 251

विष्णुगायत्रिया वाऽथ पञ्चोपनिषदाथवा।
संसाध्य परमान्नाद्यमुपदंशान्वितं क्रमात् ॥ 251 ॥

मूलम् - 251

विष्णुगायत्रिया वाऽथ पञ्चोपनिषदाथवा।
संसाध्य परमान्नाद्यमुपदंशान्वितं क्रमात् ॥ 251 ॥

विश्वास-प्रस्तुतिः - 252

फलकादिषु संस्थाप्य चोर्ध्वपुण्ड्राद्यलंकृतम्।
महानसद्वारभूमेरालयद्वारपश्चिमम् ॥ 252 ॥

मूलम् - 252

फलकादिषु संस्थाप्य चोर्ध्वपुण्ड्राद्यलंकृतम्।
महानसद्वारभूमेरालयद्वारपश्चिमम् ॥ 252 ॥

विश्वास-प्रस्तुतिः - 253

गोमयेनानुलिप्तेन सुधाचूर्णेन शोभिना।
पथास्त्रमन्त्रसंजप्तवारिधारापुरस्सरम् ॥ 253 ॥

मूलम् - 253

गोमयेनानुलिप्तेन सुधाचूर्णेन शोभिना।
पथास्त्रमन्त्रसंजप्तवारिधारापुरस्सरम् ॥ 253 ॥

विश्वास-प्रस्तुतिः - 254

शह्खतूर्यादिघोषेण तथा मङ्गळगीतिभिः।
प्रदीपच्छत्रयुक्तैश्च हविःपालनतत्परैः ॥ 254 ॥

मूलम् - 254

शह्खतूर्यादिघोषेण तथा मङ्गळगीतिभिः।
प्रदीपच्छत्रयुक्तैश्च हविःपालनतत्परैः ॥ 254 ॥

विश्वास-प्रस्तुतिः - 255

वेत्रपाणिभिरन्यैश्च नास्तिकोत्सारणोद्यतैः।
स्नाताः शुक्लाम्बरा दक्षाः कृतपादावनेजनाः ॥ 255 ॥

मूलम् - 255

वेत्रपाणिभिरन्यैश्च नास्तिकोत्सारणोद्यतैः।
स्नाताः शुक्लाम्बरा दक्षाः कृतपादावनेजनाः ॥ 255 ॥

विश्वास-प्रस्तुतिः - 256

स्वाचान्ताः कुशहस्ताश्च मृदा वा चन्दनादिना।
धृतोर्ध्वपुण्ट्रा नियताः मनोवाक्कायकर्मभिः ॥ 256 ॥

मूलम् - 256

स्वाचान्ताः कुशहस्ताश्च मृदा वा चन्दनादिना।
धृतोर्ध्वपुण्ट्रा नियताः मनोवाक्कायकर्मभिः ॥ 256 ॥

विश्वास-प्रस्तुतिः - 257

सितकञ्चुकधर्तारः स्थगितानननासिकाः।
वलमन्त्रेण भाण्डानि वहेयुः परिचारकाः ॥ 257 ॥

मूलम् - 257

सितकञ्चुकधर्तारः स्थगितानननासिकाः।
वलमन्त्रेण भाण्डानि वहेयुः परिचारकाः ॥ 257 ॥

विश्वास-प्रस्तुतिः - 258

मूलालयाग्रदेशस्थमण्टपे विततेऽथवा।
प्रथमावरणे धाम्नो दक्षिणे माळिकावनौ ॥ 258 ॥

मूलम् - 258

मूलालयाग्रदेशस्थमण्टपे विततेऽथवा।
प्रथमावरणे धाम्नो दक्षिणे माळिकावनौ ॥ 258 ॥

विश्वास-प्रस्तुतिः - 259

सुगुप्ते सुवितानाढ्ये दीपमालाद्यलंकृते।
प्रदेशे वस्त्रसञ्छन्ने स्थाप्यानि फलकादिके ॥ 259 ॥

मूलम् - 259

सुगुप्ते सुवितानाढ्ये दीपमालाद्यलंकृते।
प्रदेशे वस्त्रसञ्छन्ने स्थाप्यानि फलकादिके ॥ 259 ॥

विश्वास-प्रस्तुतिः - 260

हविः प्रमाणतुल्याश्च हेमराजतकाम्रजाः।
स्थालिकाश्च यथालिप्ताः प्रक्षाल्यास्त्रेण वारिणा ॥ 260 ॥

मूलम् - 260

हविः प्रमाणतुल्याश्च हेमराजतकाम्रजाः।
स्थालिकाश्च यथालिप्ताः प्रक्षाल्यास्त्रेण वारिणा ॥ 260 ॥

विश्वास-प्रस्तुतिः - 261

पाणिना दक्षिणेनैव परामृश्य च तेन च।
तारेण तासु निक्षेप्या धाराऽज्यस्य समन्ततः ॥ 261 ॥

मूलम् - 261

पाणिना दक्षिणेनैव परामृश्य च तेन च।
तारेण तासु निक्षेप्या धाराऽज्यस्य समन्ततः ॥ 261 ॥

विश्वास-प्रस्तुतिः - 262

स्थालीभ्यः समुपाहृत्य दर्व्या हेमादिक्लृप्तया।
तदूर्ध्वे निक्षिपेन्मौनी पायसादीन्यनुक्रमात् ॥ 262 ॥

मूलम् - 262

स्थालीभ्यः समुपाहृत्य दर्व्या हेमादिक्लृप्तया।
तदूर्ध्वे निक्षिपेन्मौनी पायसादीन्यनुक्रमात् ॥ 262 ॥

विश्वास-प्रस्तुतिः - 263

घृतेनाप्लाव्य मधुरव्यञ्जनानि समन्ततः।
दधिक्षीरादिपूर्णानि चषकाण्यूर्ध्वतो न्यसेत् ॥ 263 ॥

मूलम् - 263

घृतेनाप्लाव्य मधुरव्यञ्जनानि समन्ततः।
दधिक्षीरादिपूर्णानि चषकाण्यूर्ध्वतो न्यसेत् ॥ 263 ॥

विश्वास-प्रस्तुतिः - 264

सिद्धान्यपूपभेदानि पृथुकादीनि यान्यपि।
पानकानि विचित्राणि पृथक्पात्रगतानि च ॥ 264 ॥

मूलम् - 264

सिद्धान्यपूपभेदानि पृथुकादीनि यान्यपि।
पानकानि विचित्राणि पृथक्पात्रगतानि च ॥ 264 ॥

विश्वास-प्रस्तुतिः - 265

कर्पूरचन्दनक्षोदप्रसूनैस्चाधिवासितम्।
शीतलं वस्त्रसञ्छन्नं पानीयं करकादिषु ॥ 265 ॥

मूलम् - 265

कर्पूरचन्दनक्षोदप्रसूनैस्चाधिवासितम्।
शीतलं वस्त्रसञ्छन्नं पानीयं करकादिषु ॥ 265 ॥

विश्वास-प्रस्तुतिः - 266

एकालवङ्गतक्कोलजातीपूगफलान्वितम्।
कर्पूरतैलसंमिश्रं खण्डितं च क्षुरादिभिः ॥ 266 ॥

मूलम् - 266

एकालवङ्गतक्कोलजातीपूगफलान्वितम्।
कर्पूरतैलसंमिश्रं खण्डितं च क्षुरादिभिः ॥ 266 ॥

विश्वास-प्रस्तुतिः - 267

नागवल्लीदलोपेतं सचूर्णं चेन्दुसंयुतम्।
ताम्बूलं च प्रतिष्ठाप्य पात्रेष्वब्जाकृतीषु च ॥ 267 ॥

मूलम् - 267

नागवल्लीदलोपेतं सचूर्णं चेन्दुसंयुतम्।
ताम्बूलं च प्रतिष्ठाप्य पात्रेष्वब्जाकृतीषु च ॥ 267 ॥

विश्वास-प्रस्तुतिः - 268

चन्दनादीनि गन्धानि तथा नानाविधाः स्रजः।
स्थापयित्वा यथास्थानमाराधकमुखेन तु ॥ 268 ॥

मूलम् - 268

चन्दनादीनि गन्धानि तथा नानाविधाः स्रजः।
स्थापयित्वा यथास्थानमाराधकमुखेन तु ॥ 268 ॥

विश्वास-प्रस्तुतिः - 269

विज्ञापयेयुर्देवस्य तत्तत्कर्माधिकारिणः।
भोज्यासनाधिरूढस्य देवस्याराधकः स्वयम् ॥ 269 ॥

मूलम् - 269

विज्ञापयेयुर्देवस्य तत्तत्कर्माधिकारिणः।
भोज्यासनाधिरूढस्य देवस्याराधकः स्वयम् ॥ 269 ॥

विश्वास-प्रस्तुतिः - 270

अर्घ्याद्यैः प्राग्वदभ्यर्च्य साध्यबीजावसानिकैः।
द्वारस्याभ्यन्तरगते देवस्य पुरतः स्थले ॥ 270 ॥

मूलम् - 270

अर्घ्याद्यैः प्राग्वदभ्यर्च्य साध्यबीजावसानिकैः।
द्वारस्याभ्यन्तरगते देवस्य पुरतः स्थले ॥ 270 ॥

विश्वास-प्रस्तुतिः - 271

शोधिते चार्घ्यतोयेन चन्दनाद्यैश्च मण्डिते।
मण्डले तु परिस्तीर्य तण्डुलानि यथारुचि ॥ 271 ॥

मूलम् - 271

शोधिते चार्घ्यतोयेन चन्दनाद्यैश्च मण्डिते।
मण्डले तु परिस्तीर्य तण्डुलानि यथारुचि ॥ 271 ॥

विश्वास-प्रस्तुतिः - 272

क्षालितं वस्त्रतुण्डं तु तदूर्ध्वे संप्रसार्य च।
अन्नाधारं प्रतिष्ठाप्य तदूर्ध्वे लोहनिर्मितम् ॥ 272 ॥

मूलम् - 272

क्षालितं वस्त्रतुण्डं तु तदूर्ध्वे संप्रसार्य च।
अन्नाधारं प्रतिष्ठाप्य तदूर्ध्वे लोहनिर्मितम् ॥ 272 ॥

विश्वास-प्रस्तुतिः - 273

ऊर्ध्वतो वसनावद्धं तदूर्ध्वे स्रोतसंप्लुते।
न्त्‌यसेवि परमान्नादि पात्राण्येकैकशः क्रमात् ॥ 273 ॥

मूलम् - 273

ऊर्ध्वतो वसनावद्धं तदूर्ध्वे स्रोतसंप्लुते।
न्त्‌यसेवि परमान्नादि पात्राण्येकैकशः क्रमात् ॥ 273 ॥

विश्वास-प्रस्तुतिः - 274

तर्पणं तु प्रतिष्ठाप्य हस्तप्रक्षाळनाम्भसा।
कुर्याद्दक्षकरे दैवे प्रागुपस्तरणार्हणम् ॥ 274 ॥

मूलम् - 274

तर्पणं तु प्रतिष्ठाप्य हस्तप्रक्षाळनाम्भसा।
कुर्याद्दक्षकरे दैवे प्रागुपस्तरणार्हणम् ॥ 274 ॥

विश्वास-प्रस्तुतिः - 275

ततो देवादिमूर्तीनां हवींषि विनिवेदयेत्।
प्रथमं पायसं, पश्चात् गुडान्नं मुद्गभेदितम् ॥ 275 ॥

मूलम् - 275

ततो देवादिमूर्तीनां हवींषि विनिवेदयेत्।
प्रथमं पायसं, पश्चात् गुडान्नं मुद्गभेदितम् ॥ 275 ॥

विश्वास-प्रस्तुतिः - 276

शुद्धान्नं तिलसंमिश्रं निशान्नं, दधिमिश्रितम्।
मिश्रान्नं च क्रमाद्दद्यादपूपानि तदन्तिमे ॥ 276 ॥

मूलम् - 276

शुद्धान्नं तिलसंमिश्रं निशान्नं, दधिमिश्रितम्।
मिश्रान्नं च क्रमाद्दद्यादपूपानि तदन्तिमे ॥ 276 ॥

विश्वास-प्रस्तुतिः - 277

पृथुकानि च सक्तूनि तिलपिण्डान्वितानि च।
कदळीपनसादीनि फलानि विविधानि च ॥ 277 ॥

मूलम् - 277

पृथुकानि च सक्तूनि तिलपिण्डान्वितानि च।
कदळीपनसादीनि फलानि विविधानि च ॥ 277 ॥

विश्वास-प्रस्तुतिः - 278

रसभेदसमेतानि पानकानि च तर्पणम्।
नाळिकेररसं चैव हस्तपक्षाळिनं ततः ॥ 278 ॥

मूलम् - 278

रसभेदसमेतानि पानकानि च तर्पणम्।
नाळिकेररसं चैव हस्तपक्षाळिनं ततः ॥ 278 ॥

विश्वास-प्रस्तुतिः - 279

उपस्पर्शं च ताम्बूलं दत्वा प्रागुक्तमाचरेत्।
राजभिर्हविषो नित्यं प्राचुर्ये कल्पिते सति ॥ 279 ॥

मूलम् - 279

उपस्पर्शं च ताम्बूलं दत्वा प्रागुक्तमाचरेत्।
राजभिर्हविषो नित्यं प्राचुर्ये कल्पिते सति ॥ 279 ॥

विश्वास-प्रस्तुतिः - 280

आधारेषु प्रतिष्ठाप्य वितते गर्ममन्दिरे।
निवेद्यानि यथायोगमन्यश्रा संकटे भुवि ॥ 280 ॥

मूलम् - 280

आधारेषु प्रतिष्ठाप्य वितते गर्ममन्दिरे।
निवेद्यानि यथायोगमन्यश्रा संकटे भुवि ॥ 280 ॥

विश्वास-प्रस्तुतिः - 281

तदेकस्मिन् दृढाधारे वस्त्रच्छन्ने यथाक्रमम्।
निधाय विनिवेद्याय तथातमपनीय च ॥ 281 ॥

मूलम् - 281

तदेकस्मिन् दृढाधारे वस्त्रच्छन्ने यथाक्रमम्।
निधाय विनिवेद्याय तथातमपनीय च ॥ 281 ॥

विश्वास-प्रस्तुतिः - 282

प्रोक्षिते चास्त्रमन्त्रेण निक्षेप्यं हविरन्तरम्।
निवेदयेद्यथापूर्वं बिशेषोऽत्र समीरितः ॥ 282 ॥

मूलम् - 282

प्रोक्षिते चास्त्रमन्त्रेण निक्षेप्यं हविरन्तरम्।
निवेदयेद्यथापूर्वं बिशेषोऽत्र समीरितः ॥ 282 ॥

विश्वास-प्रस्तुतिः - 283

मन्त्रक्रियाविहीनं च गन्धदुष्टं विवर्णकम्।
अतिपव्कमप्कं च विस्रावितजलं तथा ॥ 283 ॥

मूलम् - 283

मन्त्रक्रियाविहीनं च गन्धदुष्टं विवर्णकम्।
अतिपव्कमप्कं च विस्रावितजलं तथा ॥ 283 ॥

विश्वास-प्रस्तुतिः - 284

अदीक्षितैश्च पतितैरीक्षितं प्रतिलोमजैः।
अत्युष्णमतिशीतं च प्रमाणरहितं तथा ॥ 284 ॥

मूलम् - 284

अदीक्षितैश्च पतितैरीक्षितं प्रतिलोमजैः।
अत्युष्णमतिशीतं च प्रमाणरहितं तथा ॥ 284 ॥

विश्वास-प्रस्तुतिः - 285

समुद्धृतं च निःशेषं मुखवातादिदूषितम्।
व्यञ्जनादिविहीनं चाप्यपात्रस्थमघोपितम् ॥ 285 ॥

मूलम् - 285

समुद्धृतं च निःशेषं मुखवातादिदूषितम्।
व्यञ्जनादिविहीनं चाप्यपात्रस्थमघोपितम् ॥ 285 ॥

विश्वास-प्रस्तुतिः - 286

अन्तस्तण्डुलसंयुक्तं भिन्नभाण्डगतं तथा।
अनाधारं परस्पृष्ठं अर्कतापहतं तथा ॥ 286 ॥

मूलम् - 286

अन्तस्तण्डुलसंयुक्तं भिन्नभाण्डगतं तथा।
अनाधारं परस्पृष्ठं अर्कतापहतं तथा ॥ 286 ॥

विश्वास-प्रस्तुतिः - 287

अङ्गारतुषसंयुक्तं केशपाषाणसंयुतम्।
कृमिलोष्ठादिभिर्जुष्टं प्राण्यङ्गादिसमन्वितम् ॥ 287 ॥

मूलम् - 287

अङ्गारतुषसंयुक्तं केशपाषाणसंयुतम्।
कृमिलोष्ठादिभिर्जुष्टं प्राण्यङ्गादिसमन्वितम् ॥ 287 ॥

विश्वास-प्रस्तुतिः - 288

अपूर्णपाकमाधाररहितव्ञ्जनोज्झितम्।
गव्याज्यदधिनिर्मुक्तं काङ्क्षितं चेतरैर्जनैः ॥ 288 ॥

मूलम् - 288

अपूर्णपाकमाधाररहितव्ञ्जनोज्झितम्।
गव्याज्यदधिनिर्मुक्तं काङ्क्षितं चेतरैर्जनैः ॥ 288 ॥

विश्वास-प्रस्तुतिः - 289

अपिधानविनिर्मुक्तं देवतान्तरसंमतम्।
एवं दुष्टं हविर्बुध्वा प्रक्षिपे ज्जलमध्यतः ॥ 289 ॥

मूलम् - 289

अपिधानविनिर्मुक्तं देवतान्तरसंमतम्।
एवं दुष्टं हविर्बुध्वा प्रक्षिपे ज्जलमध्यतः ॥ 289 ॥

विश्वास-प्रस्तुतिः - 290

मोहात् त्यक्तं हविर्विष्णोः यदि दद्यात्तदर्चनम्।
निरर्थकं स्यात् कर्तॄणां विनाशश्च भवेद् ध्रुवम् ॥ 290 ॥

मूलम् - 290

मोहात् त्यक्तं हविर्विष्णोः यदि दद्यात्तदर्चनम्।
निरर्थकं स्यात् कर्तॄणां विनाशश्च भवेद् ध्रुवम् ॥ 290 ॥

विश्वास-प्रस्तुतिः - 291

तस्मात्तदैव मूलस्य सहस्रं जपमाचरेत्।
ततस्तत्राश्रयाणां च स्थापितानां विधानतः ॥ 291 ॥

मूलम् - 291

तस्मात्तदैव मूलस्य सहस्रं जपमाचरेत्।
ततस्तत्राश्रयाणां च स्थापितानां विधानतः ॥ 291 ॥

विश्वास-प्रस्तुतिः - 292

विभवव्पूहमूर्तीनां मण्टपे गोपुरादिषु।
स्थापितानां च मूर्तींनां प्रादुर्भावात्मनामपि ॥ 292 ॥

मूलम् - 292

विभवव्पूहमूर्तीनां मण्टपे गोपुरादिषु।
स्थापितानां च मूर्तींनां प्रादुर्भावात्मनामपि ॥ 292 ॥

विश्वास-प्रस्तुतिः - 293

पूजितानां यथान्यायं सत्यादीना खगात्मनाम्।
कुमुदादिगणेशानां द्वार्स्थानामपि सझनि ॥ 293 ॥

मूलम् - 293

पूजितानां यथान्यायं सत्यादीना खगात्मनाम्।
कुमुदादिगणेशानां द्वार्स्थानामपि सझनि ॥ 293 ॥

विश्वास-प्रस्तुतिः - 294

प्रतिष्ठितानां भक्तानां प्रागुक्तानां विधानतः।
तत्तन्मन्त्रेण विधिवत्सिद्धान् च पृथक् पृथक् ॥ 294 ॥

मूलम् - 294

प्रतिष्ठितानां भक्तानां प्रागुक्तानां विधानतः।
तत्तन्मन्त्रेण विधिवत्सिद्धान् च पृथक् पृथक् ॥ 294 ॥

विश्वास-प्रस्तुतिः - 295

हवींषि पायसादीनि क्रमेण विनिवेदयेत्।
गारुडेनैव मन्त्रेण बल्यर्थं साधयेद्धविः ॥ 295 ॥

मूलम् - 295

हवींषि पायसादीनि क्रमेण विनिवेदयेत्।
गारुडेनैव मन्त्रेण बल्यर्थं साधयेद्धविः ॥ 295 ॥

विश्वास-प्रस्तुतिः - 296

अन्येषां प्रणवेनैव सिद्धमन्नं निवेदयेत्।
अग्निकार्यं हविस्साध्यं यथा मूलालयाकृतेः ॥ 296 ॥

मूलम् - 296

अन्येषां प्रणवेनैव सिद्धमन्नं निवेदयेत्।
अग्निकार्यं हविस्साध्यं यथा मूलालयाकृतेः ॥ 296 ॥

विश्वास-प्रस्तुतिः - 297

सर्वाण्यपूपभेदानि नाग्निकार्ये हितानि वै।
अन्यानि पायसादीनि नित्यनैमित्तिकादिषु ॥ 297 ॥

मूलम् - 297

सर्वाण्यपूपभेदानि नाग्निकार्ये हितानि वै।
अन्यानि पायसादीनि नित्यनैमित्तिकादिषु ॥ 297 ॥

विश्वास-प्रस्तुतिः - 298

होतव्यानि विशेषेण फलानि विविधानि च।
भूतानां बलिदानेषु पायसादीनि नित्यशः ॥ 298 ॥

मूलम् - 298

होतव्यानि विशेषेण फलानि विविधानि च।
भूतानां बलिदानेषु पायसादीनि नित्यशः ॥ 298 ॥

विश्वास-प्रस्तुतिः - 299

अपूपानि च सक्तूनि पृथुकानि फलानि च।
तिलपिण्डसमेतानि मिश्रितान्यथवा पृथक् ॥ 299 ॥

मूलम् - 299

अपूपानि च सक्तूनि पृथुकानि फलानि च।
तिलपिण्डसमेतानि मिश्रितान्यथवा पृथक् ॥ 299 ॥

विश्वास-प्रस्तुतिः - 300

दातव्यानि यथान्यायं तेषां तृप्तिकरं यतः।
तेन कूरादिभिर्ब्रह्नन्! उत्सवादिषु कर्मसु ॥ 300 ॥

मूलम् - 300

दातव्यानि यथान्यायं तेषां तृप्तिकरं यतः।
तेन कूरादिभिर्ब्रह्नन्! उत्सवादिषु कर्मसु ॥ 300 ॥

विश्वास-प्रस्तुतिः - 301

तत्र तत्रोक्तविधिना बलिद्रव्याण्युपाहरेत्।
अभावे सर्ववस्तूनां सोदकं केवलोदनम् ॥ 301 ॥

मूलम् - 301

तत्र तत्रोक्तविधिना बलिद्रव्याण्युपाहरेत्।
अभावे सर्ववस्तूनां सोदकं केवलोदनम् ॥ 301 ॥

विश्वास-प्रस्तुतिः - 302

तण्डुलं वोदकेनैव दातव्यं मन्त्रवित्तमैः।
इति सम्यक् समाख्यातं हषिषां साधनादिकम् ॥ 302 ॥

मूलम् - 302

तण्डुलं वोदकेनैव दातव्यं मन्त्रवित्तमैः।
इति सम्यक् समाख्यातं हषिषां साधनादिकम् ॥ 302 ॥

विश्वास-प्रस्तुतिः - 303

निवेदनप्रकारस्च नित्ये मूलादिमूर्तिषु।
तथाश्रयेषु प्रासारे बाह्यतो वाऽङ्कणादिकैः ॥ 303 ॥

मूलम् - 303

निवेदनप्रकारस्च नित्ये मूलादिमूर्तिषु।
तथाश्रयेषु प्रासारे बाह्यतो वाऽङ्कणादिकैः ॥ 303 ॥

विश्वास-प्रस्तुतिः - 304

प्रासादेषु च क्लृप्तेषु स्थापितेष्वाश्रयादिषु।
प्राकारगोपुरद्वारमम्टपेषु समन्ततः ॥ 304 ॥

मूलम् - 304

प्रासादेषु च क्लृप्तेषु स्थापितेष्वाश्रयादिषु।
प्राकारगोपुरद्वारमम्टपेषु समन्ततः ॥ 304 ॥

विश्वास-प्रस्तुतिः - 305

विभवव्यूहबिम्बेषु तथाङ्गालयमूर्तिषु।
प्रासादाभ्यन्तरस्थानां देवतानां यथार्चने ॥ 305 ॥

मूलम् - 305

विभवव्यूहबिम्बेषु तथाङ्गालयमूर्तिषु।
प्रासादाभ्यन्तरस्थानां देवतानां यथार्चने ॥ 305 ॥

विश्वास-प्रस्तुतिः - 306

निवेदनार्थं नादद्यात् द्वारबाह्ये प्रतिष्टितम्।
निषिद्धान्नं निवेद्यं तद् दूषितं राक्षसादिभि ॥ 306 ॥

मूलम् - 306

निवेदनार्थं नादद्यात् द्वारबाह्ये प्रतिष्टितम्।
निषिद्धान्नं निवेद्यं तद् दूषितं राक्षसादिभि ॥ 306 ॥

विश्वास-प्रस्तुतिः - 307

देवेन प्रागनुज्ञातं रक्षसां दितिजन्मनाम्।
अन्येषां भरणीयानां भूतानां पिशिताशिनाम् ॥ 307 ॥

मूलम् - 307

देवेन प्रागनुज्ञातं रक्षसां दितिजन्मनाम्।
अन्येषां भरणीयानां भूतानां पिशिताशिनाम् ॥ 307 ॥

विश्वास-प्रस्तुतिः - 308

तस्यात्तत्स्था अनादेया बलवीर्यादिशक्तयः।
विभूत्या वाऽविभूत्या वा हविषः प्राप्तये पृथक् ॥ 308 ॥

मूलम् - 308

तस्यात्तत्स्था अनादेया बलवीर्यादिशक्तयः।
विभूत्या वाऽविभूत्या वा हविषः प्राप्तये पृथक् ॥ 308 ॥

विश्वास-प्रस्तुतिः - 309

पृथक्‌पात्रगतं सिद्धं द्वारस्यान्ते निवेशितम्।
निवेदनीयं क्रमशः परमान्नपुरुस्सरम् ॥ 309 ॥

मूलम् - 309

पृथक्‌पात्रगतं सिद्धं द्वारस्यान्ते निवेशितम्।
निवेदनीयं क्रमशः परमान्नपुरुस्सरम् ॥ 309 ॥

विश्वास-प्रस्तुतिः - 310

काम्ये नैमित्तिकेप्येव महतो हविषोर्चने।
प्रासादाभ्यन्तरस्थस्य सकर्मार्चादिकस्य च ॥ 310 ॥

मूलम् - 310

काम्ये नैमित्तिकेप्येव महतो हविषोर्चने।
प्रासादाभ्यन्तरस्थस्य सकर्मार्चादिकस्य च ॥ 310 ॥

विश्वास-प्रस्तुतिः - 311

आढ्यैर्द्विजातिभूपाद्यैः यथाविभवमादरात्।
निवेदनीयं यद्येकं पात्रस्थं मूलकौतुके ॥ 311 ॥

मूलम् - 311

आढ्यैर्द्विजातिभूपाद्यैः यथाविभवमादरात्।
निवेदनीयं यद्येकं पात्रस्थं मूलकौतुके ॥ 311 ॥

विश्वास-प्रस्तुतिः - 312

अन्नपूरं प्रतिष्टाप्य प्रासादाग्रस्थमण्डपे।
मूलमूर्तिं समभ्यर्च्य कर्मार्चाभिः सशक्तिभिः ॥ 312 ॥

मूलम् - 312

अन्नपूरं प्रतिष्टाप्य प्रासादाग्रस्थमण्डपे।
मूलमूर्तिं समभ्यर्च्य कर्मार्चाभिः सशक्तिभिः ॥ 312 ॥

विश्वास-प्रस्तुतिः - 313

स्नापयेत् कर्मबिम्बस्थं कलशैः प्रागुदीरितैः।
मूले प्राग्वत् पृथक्‌पात्रे निवेद्य च हविस्ततः ॥ 313 ॥

मूलम् - 313

स्नापयेत् कर्मबिम्बस्थं कलशैः प्रागुदीरितैः।
मूले प्राग्वत् पृथक्‌पात्रे निवेद्य च हविस्ततः ॥ 313 ॥

विश्वास-प्रस्तुतिः - 314

कर्मबिम्बगतं देवमानीयाग्रस्थमण्डपे।
तस्मिन्निवेदयेन्मन्त्री मूलमूर्त्यवलोकितम् ॥ 314 ॥

मूलम् - 314

कर्मबिम्बगतं देवमानीयाग्रस्थमण्डपे।
तस्मिन्निवेदयेन्मन्त्री मूलमूर्त्यवलोकितम् ॥ 314 ॥

विश्वास-प्रस्तुतिः - 315

महद्धविश्च तत्रस्थं परमान्नादिसत्कृतम्।
मखकौतुकपूर्वासु क्रमेणाब्यर्चितासु च ॥ 315 ॥

मूलम् - 315

महद्धविश्च तत्रस्थं परमान्नादिसत्कृतम्।
मखकौतुकपूर्वासु क्रमेणाब्यर्चितासु च ॥ 315 ॥

विश्वास-प्रस्तुतिः - 316

निवेद्य च यथायोगं पात्रस्थानि पृथक् पृथक्।
वत्सरोत्सवपूर्वेषु नानावैशेषिकेष्वपि ॥ 316 ॥

मूलम् - 316

निवेद्य च यथायोगं पात्रस्थानि पृथक् पृथक्।
वत्सरोत्सवपूर्वेषु नानावैशेषिकेष्वपि ॥ 316 ॥

विश्वास-प्रस्तुतिः - 317

यात्रामूर्ति समानीय बाल्यतो यत्रकुत्रचित्।
विस्तरेणार्चयित्वा तु महदन्नं निवेदयेत् ॥ 317 ॥

मूलम् - 317

यात्रामूर्ति समानीय बाल्यतो यत्रकुत्रचित्।
विस्तरेणार्चयित्वा तु महदन्नं निवेदयेत् ॥ 317 ॥

विश्वास-प्रस्तुतिः - 318

तदर्थं विधिवत् कुर्यात् स्नपनं स्नानकौतुके।
मृगयाद्युत्सवे प्राप्ते बहिरुद्यानभूमिषु ॥ 318 ॥

मूलम् - 318

तदर्थं विधिवत् कुर्यात् स्नपनं स्नानकौतुके।
मृगयाद्युत्सवे प्राप्ते बहिरुद्यानभूमिषु ॥ 318 ॥

विश्वास-प्रस्तुतिः - 319

महोदनसपर्यार्थमालयाभ्यन्तरस्थिते।
स्नापयेद्विधिवन्मन्त्री तद्बिम्बं स्नानमण्टपे ॥ 319 ॥

मूलम् - 319

महोदनसपर्यार्थमालयाभ्यन्तरस्थिते।
स्नापयेद्विधिवन्मन्त्री तद्बिम्बं स्नानमण्टपे ॥ 319 ॥

विश्वास-प्रस्तुतिः - 320

द्वादश्यादिषु कालेषु तथा च अवणादिषु।
वत्सरोत्सवनिष्ठेषु नानावैशेषिकेष्वपि ॥ 320 ॥

मूलम् - 320

द्वादश्यादिषु कालेषु तथा च अवणादिषु।
वत्सरोत्सवनिष्ठेषु नानावैशेषिकेष्वपि ॥ 320 ॥

विश्वास-प्रस्तुतिः - 321

साधनं हविषामेतत् साधारणमुदाहृतम्।
अथोत्सबार्चामानीत्र कुत्रचिन्मण्टपादिके ॥ 321 ॥

मूलम् - 321

साधनं हविषामेतत् साधारणमुदाहृतम्।
अथोत्सबार्चामानीत्र कुत्रचिन्मण्टपादिके ॥ 321 ॥

विश्वास-प्रस्तुतिः - 322

यथाविधि समाराध्य बहुधा पायसादिना।
यथालब्धेन चान्नेन प्रीणेयेद्भक्तिपूर्वकम् ॥ 322 ॥

मूलम् - 322

यथाविधि समाराध्य बहुधा पायसादिना।
यथालब्धेन चान्नेन प्रीणेयेद्भक्तिपूर्वकम् ॥ 322 ॥

विश्वास-प्रस्तुतिः - 323

विशेषमथ वक्ष्यामि महतो हविषोर्चने।
नित्ये महाहविर्यागो न च कार्यो हितैषिभिः ॥ 323 ॥

मूलम् - 323

विशेषमथ वक्ष्यामि महतो हविषोर्चने।
नित्ये महाहविर्यागो न च कार्यो हितैषिभिः ॥ 323 ॥

विश्वास-प्रस्तुतिः - 324

वितते गर्भगेहे वा प्रासादाग्रस्थमण्‍टपे।
बाह्यतः स्नपनाद्यर्थं यागार्थं वा प्रकल्पिते ॥ 324 ॥

मूलम् - 324

वितते गर्भगेहे वा प्रासादाग्रस्थमण्‍टपे।
बाह्यतः स्नपनाद्यर्थं यागार्थं वा प्रकल्पिते ॥ 324 ॥

विश्वास-प्रस्तुतिः - 325

प्रागुक्तेन प्रमाणेन त्वेकपात्रे समर्पितम्।
यत्तन्महाहविः प्रोक्तं हरेः प्रीतिकरं सदा ॥ 325 ॥

मूलम् - 325

प्रागुक्तेन प्रमाणेन त्वेकपात्रे समर्पितम्।
यत्तन्महाहविः प्रोक्तं हरेः प्रीतिकरं सदा ॥ 325 ॥

विश्वास-प्रस्तुतिः - 326

प्रासादाभ्यन्तरे कल्प्यमुपपात्रोज्झितं हविः।
तदन्यत्र विशेषेण विस्तृतं परिकल्पयेत् ॥ 326 ॥

मूलम् - 326

प्रासादाभ्यन्तरे कल्प्यमुपपात्रोज्झितं हविः।
तदन्यत्र विशेषेण विस्तृतं परिकल्पयेत् ॥ 326 ॥

विश्वास-प्रस्तुतिः - 327

मूलमूर्तिं पुराऽभ्यर्च्य तदर्थं मन्त्रवित्तमः।
अभ्यर्च्यार्घ्यादिभिर्मन्त्रैः प्राग्वद्‌धूपान्तिमैस्ततः ॥ 327 ॥

मूलम् - 327

विश्वास-प्रस्तुतिः - 328

तस्मात् स्नपनबिम्बस्य हृदयाम्भोरुहोदरे।
चिच्छक्तिमवतीर्याथ तथाचोत्सवकौतुके ॥ 328 ॥

मूलम् - 328

तस्मात् स्नपनबिम्बस्य हृदयाम्भोरुहोदरे।
चिच्छक्तिमवतीर्याथ तथाचोत्सवकौतुके ॥ 328 ॥

विश्वास-प्रस्तुतिः - 329

समभ्यर्च्य यथा पूर्वमानीय स्नानमण्टपे।
स्नानकौतुकमासाद्य कलशैरभिषिच्य च ॥ 329 ॥

मूलम् - 329

समभ्यर्च्य यथा पूर्वमानीय स्नानमण्टपे।
स्नानकौतुकमासाद्य कलशैरभिषिच्य च ॥ 329 ॥

विश्वास-प्रस्तुतिः - 330

निवेद्य च हविः पश्चादानयेद्गर्भमन्दिरम्।
तस्मिन् विनय्स्य तन्मन्त्रं मूलमूर्तौ नियोजयेत् ॥ 330 ॥

मूलम् - 330

निवेद्य च हविः पश्चादानयेद्गर्भमन्दिरम्।
तस्मिन् विनय्स्य तन्मन्त्रं मूलमूर्तौ नियोजयेत् ॥ 330 ॥

विश्वास-प्रस्तुतिः - 331

यानादौ तु समारोप्य उत्सवार्चामलङ्‌कृताम्।
यागार्थमण्टपे वाथ नयेदास्थानमण्टपे ॥ 331 ॥

मूलम् - 331

यानादौ तु समारोप्य उत्सवार्चामलङ्‌कृताम्।
यागार्थमण्टपे वाथ नयेदास्थानमण्टपे ॥ 331 ॥

विश्वास-प्रस्तुतिः - 332

हेमादिनिर्मिते तत्र वितते भद्रविष्टरे।
समारोप्य चदेवेशं महद्भिर्भोगसञ्चयैः ॥ 332 ॥

मूलम् - 332

हेमादिनिर्मिते तत्र वितते भद्रविष्टरे।
समारोप्य चदेवेशं महद्भिर्भोगसञ्चयैः ॥ 332 ॥

विश्वास-प्रस्तुतिः - 333

प्रदक्षिणप्रणामान्तैर्मूलमन्त्रेण देशिकः।
समाराध्यार्घ्यपुष्पाद्यैस्तोयदानपुरस्सरम् ॥ 333 ॥

मूलम् - 333

प्रदक्षिणप्रणामान्तैर्मूलमन्त्रेण देशिकः।
समाराध्यार्घ्यपुष्पाद्यैस्तोयदानपुरस्सरम् ॥ 333 ॥

विश्वास-प्रस्तुतिः - 334

दद्यात्तदादिनो भोगान् मात्रान्तांश्च निवेदितान्।
निवेदनार्थं हविषां मण्टपं विस्तृतं कृतम् ॥ 334 ॥

मूलम् - 334

दद्यात्तदादिनो भोगान् मात्रान्तांश्च निवेदितान्।
निवेदनार्थं हविषां मण्टपं विस्तृतं कृतम् ॥ 334 ॥

विश्वास-प्रस्तुतिः - 335

वितानद्वजपूर्वैश्च यथा यवनिकापटैः।
अलंकृतं मध्यभूमौ हविष्पूरप्रमाणतः ॥ 335 ॥

मूलम् - 335

वितानद्वजपूर्वैश्च यथा यवनिकापटैः।
अलंकृतं मध्यभूमौ हविष्पूरप्रमाणतः ॥ 335 ॥

विश्वास-प्रस्तुतिः - 336

कुर्यात्तालोच्छ्रयां कुर्यात्तालोच्छ्रयां वेदिमुपपीठसमाकृतिम्।
इष्टकाद्यैश्च तुर्यश्रां दृढां समतलां शुभाम् ॥ 336 ॥

मूलम् - 336

विश्वास-प्रस्तुतिः - 337

गोमयेन समालिप्य सुधाद्यैर्वर्णकैरपि।
पिष्टचूर्णैश्च परितः शोभयित्वा च पश्चिमे ॥ 337 ॥

मूलम् - 337

गोमयेन समालिप्य सुधाद्यैर्वर्णकैरपि।
पिष्टचूर्णैश्च परितः शोभयित्वा च पश्चिमे ॥ 337 ॥

विश्वास-प्रस्तुतिः - 338

दुकूलतूलसञ्छन्नं मसूरकसमन्वितम्।
भोज्यासनं प्रतिष्ठाप्य नात्युच्चं नातिनीचकम् ॥ 338 ॥

मूलम् - 338

दुकूलतूलसञ्छन्नं मसूरकसमन्वितम्।
भोज्यासनं प्रतिष्ठाप्य नात्युच्चं नातिनीचकम् ॥ 338 ॥

विश्वास-प्रस्तुतिः - 339

साधितानि यथापूर्वं हविः पात्राणि पाचकाः।
परमान्नाद्युपेतानि सोपदंशफलानि च ॥ 339 ॥

मूलम् - 339

साधितानि यथापूर्वं हविः पात्राणि पाचकाः।
परमान्नाद्युपेतानि सोपदंशफलानि च ॥ 339 ॥

विश्वास-प्रस्तुतिः - 340

भक्ष्यभोज्यसमेतानि मधुरादिरसानि च।
छत्रदीपसमोपेतभेरीपटहनिःस्वनैः ॥ 340 ॥

मूलम् - 340

भक्ष्यभोज्यसमेतानि मधुरादिरसानि च।
छत्रदीपसमोपेतभेरीपटहनिःस्वनैः ॥ 340 ॥

विश्वास-प्रस्तुतिः - 341

शङ्खश्रृङ्गादिघोषेण दुर्जनोत्सारणोद्यतैः।
पुरावच्छोधितेनैव यथा वै गोमयादिना ॥ 341 ॥

मूलम् - 341

शङ्खश्रृङ्गादिघोषेण दुर्जनोत्सारणोद्यतैः।
पुरावच्छोधितेनैव यथा वै गोमयादिना ॥ 341 ॥

विश्वास-प्रस्तुतिः - 342

सूत्रितेन सुधाचूर्णैः पार्श्वयोरस्त्रवारिणा।
प्रोक्षितेन पवित्रज्ञैः ततस्तस्मान्महानसात् ॥ 342 ॥

मूलम् - 342

सूत्रितेन सुधाचूर्णैः पार्श्वयोरस्त्रवारिणा।
प्रोक्षितेन पवित्रज्ञैः ततस्तस्मान्महानसात् ॥ 342 ॥

विश्वास-प्रस्तुतिः - 343

अनुधारापदं प्रोक्तं निनयेद्यागमण्टपम्।
यातुवारुणमद्ये वा सोमसामीरणान्तरे ॥ 343 ॥

मूलम् - 343

अनुधारापदं प्रोक्तं निनयेद्यागमण्टपम्।
यातुवारुणमद्ये वा सोमसामीरणान्तरे ॥ 343 ॥

विश्वास-प्रस्तुतिः - 344

शालिव्रीहिपरिस्तीर्णे स्थले मखतरूद्भवे।
फलके संप्रतिष्ठाप्य वस्त्रच्छन्नेऽस्त्रमन्त्रिते ॥ 344 ॥

मूलम् - 344

शालिव्रीहिपरिस्तीर्णे स्थले मखतरूद्भवे।
फलके संप्रतिष्ठाप्य वस्त्रच्छन्नेऽस्त्रमन्त्रिते ॥ 344 ॥

विश्वास-प्रस्तुतिः - 345

ततो वेद्यां परिस्तीर्य तण्डुलाञ्छालिसंभवान्।
कंसादि धातवो नेष्टा महोदननिवेदने ॥ 345 ॥

मूलम् - 345

ततो वेद्यां परिस्तीर्य तण्डुलाञ्छालिसंभवान्।
कंसादि धातवो नेष्टा महोदननिवेदने ॥ 345 ॥

विश्वास-प्रस्तुतिः - 346

अच्छिन्नानि सुपूतानि कदल्यादिदलानि वा।
प्रागग्राण्युदगग्राणि बहुशः क्षाळितानि च ॥ 346 ॥

मूलम् - 346

अच्छिन्नानि सुपूतानि कदल्यादिदलानि वा।
प्रागग्राण्युदगग्राणि बहुशः क्षाळितानि च ॥ 346 ॥

विश्वास-प्रस्तुतिः - 347

निधाया च यथापूर्वमुपस्तीर्य घृतेन तु।
पात्रेष्वन्येष्वथादाय दर्व्या मूलेन तद्धविः ॥ 347 ॥

मूलम् - 347

निधाया च यथापूर्वमुपस्तीर्य घृतेन तु।
पात्रेष्वन्येष्वथादाय दर्व्या मूलेन तद्धविः ॥ 347 ॥

विश्वास-प्रस्तुतिः - 348

मध्यगे वितते पात्रे प्रतिष्ठाप्य यथाक्रमम्।
सुवृत्तं चतुरक्षं वा दर्व्या तं (सं) सेचयेत्ततः ॥ 348 ॥

मूलम् - 348

मध्यगे वितते पात्रे प्रतिष्ठाप्य यथाक्रमम्।
सुवृत्तं चतुरक्षं वा दर्व्या तं (सं) सेचयेत्ततः ॥ 348 ॥

विश्वास-प्रस्तुतिः - 349

संस्कृतैर्घूतपूरैश्च विद्रुतैर्वातशीतळैः।
मूलमन्त्रं समुच्चार्य पुनरप्यभिघार्य च ॥ 349 ॥

मूलम् - 349

संस्कृतैर्घूतपूरैश्च विद्रुतैर्वातशीतळैः।
मूलमन्त्रं समुच्चार्य पुनरप्यभिघार्य च ॥ 349 ॥

विश्वास-प्रस्तुतिः - 350

परितो मुद्गभेदेन गुल्भाषं “हृदयेन” तु।
गुडखण्डानि “शिरसा” खण्डचूर्णान्वितानि च ॥ 350 ॥

मूलम् - 350

परितो मुद्गभेदेन गुल्भाषं “हृदयेन” तु।
गुडखण्डानि “शिरसा” खण्डचूर्णान्वितानि च ॥ 350 ॥

विश्वास-प्रस्तुतिः - 351

उपदंशानि “शिखया” पाचितानि यथाविधि।
कदलीपनसाम्राणि फलानि विविधानि च ॥ 351 ॥

मूलम् - 351

उपदंशानि “शिखया” पाचितानि यथाविधि।
कदलीपनसाम्राणि फलानि विविधानि च ॥ 351 ॥

विश्वास-प्रस्तुतिः - 352

कालपव्कानि हृद्यानि “कवचं” समुदीरयन्।
घृततप्तोपदंशानि तदूर्ध्वे “नेत्र” मुच्चरन् ॥ 352 ॥

मूलम् - 352

कालपव्कानि हृद्यानि “कवचं” समुदीरयन्।
घृततप्तोपदंशानि तदूर्ध्वे “नेत्र” मुच्चरन् ॥ 352 ॥

विश्वास-प्रस्तुतिः - 353

पुटीकृते तदूर्ध्वे तु वीर्यमन्त्रेण साधितम्।
चूर्णितैःसमरीचैश्च जीरकैश्च गुळान्वितैः ॥ 353 ॥

मूलम् - 353

पुटीकृते तदूर्ध्वे तु वीर्यमन्त्रेण साधितम्।
चूर्णितैःसमरीचैश्च जीरकैश्च गुळान्वितैः ॥ 353 ॥

विश्वास-प्रस्तुतिः - 354

दधिपूरं तु संपूर्य खण्डचूर्णसमन्वितम्।
एवं प्रतिष्ठिते पूर्वमेकपात्रे महाहविः ॥ 354 ॥

मूलम् - 354

दधिपूरं तु संपूर्य खण्डचूर्णसमन्वितम्।
एवं प्रतिष्ठिते पूर्वमेकपात्रे महाहविः ॥ 354 ॥

विश्वास-प्रस्तुतिः - 355

पूरितान्युप पात्राणि परितः पायसादिभिः।
प्राग्वद्‌घृतोपदंशाद्यैश्चाधारेषु निवेशयेत् ॥ 355 ॥

मूलम् - 355

पूरितान्युप पात्राणि परितः पायसादिभिः।
प्राग्वद्‌घृतोपदंशाद्यैश्चाधारेषु निवेशयेत् ॥ 355 ॥

विश्वास-प्रस्तुतिः - 356

महान्नस्य तु पाश्चात्यप्रमुखासु दिशास्वपि।
द्वन्द्वयोगेन निक्षेप्यं पायसादिकमष्टकम् ॥ 356 ॥

मूलम् - 356

महान्नस्य तु पाश्चात्यप्रमुखासु दिशास्वपि।
द्वन्द्वयोगेन निक्षेप्यं पायसादिकमष्टकम् ॥ 356 ॥

विश्वास-प्रस्तुतिः - 357

एकैकं ह्रासयेद्वाथ क्षीरान्नादिचतुष्टयम्।
तत्तत्स्थानेषु शुद्धान्नमपूपादीनि विन्यसेत् ॥ 357 ॥

मूलम् - 357

एकैकं ह्रासयेद्वाथ क्षीरान्नादिचतुष्टयम्।
तत्तत्स्थानेषु शुद्धान्नमपूपादीनि विन्यसेत् ॥ 357 ॥

विश्वास-प्रस्तुतिः - 358

पायसान्नं गुडान्नं वा मुद्गान्नं केवलोदनम्।
स्थाप्यं वा, मध्यकल्पे तु पाश्चाप्यादिष्वनुक्रमात् ॥ 358 ॥

मूलम् - 358

पायसान्नं गुडान्नं वा मुद्गान्नं केवलोदनम्।
स्थाप्यं वा, मध्यकल्पे तु पाश्चाप्यादिष्वनुक्रमात् ॥ 358 ॥

विश्वास-प्रस्तुतिः - 359

मुद्गान्नं मधुरं वाथ क्षीरान्नादित्रिकं तु वा।
गुळपायसयोरेकं शुद्धान्नं वाथवार्पयेत् ॥ 359 ॥

मूलम् - 359

मुद्गान्नं मधुरं वाथ क्षीरान्नादित्रिकं तु वा।
गुळपायसयोरेकं शुद्धान्नं वाथवार्पयेत् ॥ 359 ॥

विश्वास-प्रस्तुतिः - 360

अनुकल्पेन शुद्धान्नं भक्तिश्रद्धावशेन तु।
यथाकल्पं तु संकल्प्य पायसादिष्वथेच्छया ॥ 360 ॥

मूलम् - 360

अनुकल्पेन शुद्धान्नं भक्तिश्रद्धावशेन तु।
यथाकल्पं तु संकल्प्य पायसादिष्वथेच्छया ॥ 360 ॥

विश्वास-प्रस्तुतिः - 361

सुगन्धिशालिसंपन्नमभावाच्छालिसंभवम्।
मध्यतो घृतसंपूर्णसौवर्णचषकान्वितम् ॥ 361 ॥

मूलम् - 361

सुगन्धिशालिसंपन्नमभावाच्छालिसंभवम्।
मध्यतो घृतसंपूर्णसौवर्णचषकान्वितम् ॥ 361 ॥

विश्वास-प्रस्तुतिः - 362

पात्रं पाश्चात्यदिङ्‌मध्ये व्यञ्जनादि परिष्कृतम्।
प्रापणार्थं प्रतिष्ठाप्यमुच्चाधारोपरिस्थितम् ॥ 362 ॥

मूलम् - 362

पात्रं पाश्चात्यदिङ्‌मध्ये व्यञ्जनादि परिष्कृतम्।
प्रापणार्थं प्रतिष्ठाप्यमुच्चाधारोपरिस्थितम् ॥ 362 ॥

विश्वास-प्रस्तुतिः - 363

मध्यतः पायसद्रोणीं गुळान्नपरिपूरिताम्।
प्रतिष्ठाप्याथ परितस्त्वन्यान्यूह्य प्रकल्पयेत् ॥ 363 ॥

मूलम् - 363

मध्यतः पायसद्रोणीं गुळान्नपरिपूरिताम्।
प्रतिष्ठाप्याथ परितस्त्वन्यान्यूह्य प्रकल्पयेत् ॥ 363 ॥

विश्वास-प्रस्तुतिः - 364

पानीयं गन्धपुष्पाद्यैर्वासितं करकादिषु।
प्रच्छादनाम्बरादिनि मण्‍टपस्य तु दक्षिणे ॥ 364 ॥

मूलम् - 364

पानीयं गन्धपुष्पाद्यैर्वासितं करकादिषु।
प्रच्छादनाम्बरादिनि मण्‍टपस्य तु दक्षिणे ॥ 364 ॥

विश्वास-प्रस्तुतिः - 365

मधुपर्कं च गोमात्रा साध्यबीजानि पश्चिमे।
ताम्बूलतिलरत्ना(त्नोत्था)र्थमात्रा गन्धस्रगादयः ॥ 365 ॥

मूलम् - 365

मधुपर्कं च गोमात्रा साध्यबीजानि पश्चिमे।
ताम्बूलतिलरत्ना(त्नोत्था)र्थमात्रा गन्धस्रगादयः ॥ 365 ॥

विश्वास-प्रस्तुतिः - 366

यागद्रव्याणि चान्यानि त्वक्षसूत्रादिकानि च।
स्थापयित्वोत्तरस्यां च ततस्तत्कर्मकारिभिः ॥ 366 ॥

मूलम् - 366

यागद्रव्याणि चान्यानि त्वक्षसूत्रादिकानि च।
स्थापयित्वोत्तरस्यां च ततस्तत्कर्मकारिभिः ॥ 366 ॥

विश्वास-प्रस्तुतिः - 367

पूजितस्य विशेषेण देवस्य पुरतः स्थितः।
विज्ञापयेद्देशिकेन्द्रः प्रणतः पुरुषोत्तमम् ॥ 367 ॥

मूलम् - 367

पूजितस्य विशेषेण देवस्य पुरतः स्थितः।
विज्ञापयेद्देशिकेन्द्रः प्रणतः पुरुषोत्तमम् ॥ 367 ॥

विश्वास-प्रस्तुतिः - 368

“भगवन्! पुण्डरीकाक्ष! सच्चिदानन्दलक्षण!।
बलवीर्यमयैर्भोगैर्नित्यतृप्तस्त्वमव्ययः ॥ 368 ॥

मूलम् - 368

“भगवन्! पुण्डरीकाक्ष! सच्चिदानन्दलक्षण!।
बलवीर्यमयैर्भोगैर्नित्यतृप्तस्त्वमव्ययः ॥ 368 ॥

विश्वास-प्रस्तुतिः - 369

तथापि चात्मसिध्यर्थं महता हविषाऽधुना।
भवन्तं तर्पयिष्यामि संपूर्णँ तत् प्रकल्पितम् ॥ 369 ॥

मूलम् - 369

तथापि चात्मसिध्यर्थं महता हविषाऽधुना।
भवन्तं तर्पयिष्यामि संपूर्णँ तत् प्रकल्पितम् ॥ 369 ॥

विश्वास-प्रस्तुतिः - 370

अनुग्रहार्थं भक्तानां भोक्तुप्रासादय प्रभो!"।
विज्ञाप्यैवं ततः पश्चात्प्राग्बन्नीराजयेद्विभुम् ॥ 370 ॥

मूलम् - 370

अनुग्रहार्थं भक्तानां भोक्तुप्रासादय प्रभो!"।
विज्ञाप्यैवं ततः पश्चात्प्राग्बन्नीराजयेद्विभुम् ॥ 370 ॥

विश्वास-प्रस्तुतिः - 371

स्वर्णादिनिर्मिते याने देवमारोप्य मूर्तिपाः।
सर्वालङ्कारसंयुक्तं नयेयुर्भोजनास्पदम् ॥ 371 ॥

मूलम् - 371

स्वर्णादिनिर्मिते याने देवमारोप्य मूर्तिपाः।
सर्वालङ्कारसंयुक्तं नयेयुर्भोजनास्पदम् ॥ 371 ॥

विश्वास-प्रस्तुतिः - 372

आरोपयित्वा प्रागास्यं तत्रस्थे भोजनासने।
अर्घ्यं पाद्यं तथाचामं प्रदद्यात् सप्रतिग्रहम् ॥ 372 ॥

मूलम् - 372

आरोपयित्वा प्रागास्यं तत्रस्थे भोजनासने।
अर्घ्यं पाद्यं तथाचामं प्रदद्यात् सप्रतिग्रहम् ॥ 372 ॥

विश्वास-प्रस्तुतिः - 373

प्रच्छादनपटं चाथ मधुपर्कं यथाविधि।
गोमात्रां साध्यबीजानि दत्वाऽऽचामजलेन तु ॥ 373 ॥

मूलम् - 373

प्रच्छादनपटं चाथ मधुपर्कं यथाविधि।
गोमात्रां साध्यबीजानि दत्वाऽऽचामजलेन तु ॥ 373 ॥

विश्वास-प्रस्तुतिः - 374

हस्तौ प्रक्षाल्य देवस्य पानीयं चार्घ्यवारिणा।
प्रतिष्ठाप्य समासीनः पीठे देवस्य दक्षिणे ॥ 374 ॥

मूलम् - 374

हस्तौ प्रक्षाल्य देवस्य पानीयं चार्घ्यवारिणा।
प्रतिष्ठाप्य समासीनः पीठे देवस्य दक्षिणे ॥ 374 ॥

विश्वास-प्रस्तुतिः - 375

अथार्हणजलं त्वर्घ्यादुद्‌धृतं विनिवेदयेत्।
विलोक्य नेत्रमन्त्रेण पृथक् पात्रगणान्वितम् ॥ 375 ॥

मूलम् - 375

अथार्हणजलं त्वर्घ्यादुद्‌धृतं विनिवेदयेत्।
विलोक्य नेत्रमन्त्रेण पृथक् पात्रगणान्वितम् ॥ 375 ॥

विश्वास-प्रस्तुतिः - 376

सव्यञ्जनं सभक्ष्यं च परमान्नादिकं हविः।
“पवित्रेण” समभ्युक्ष्य “शतधारेण” पूर्ववत् ॥ 376 ॥

मूलम् - 376

सव्यञ्जनं सभक्ष्यं च परमान्नादिकं हविः।
“पवित्रेण” समभ्युक्ष्य “शतधारेण” पूर्ववत् ॥ 376 ॥

विश्वास-प्रस्तुतिः - 377

दहनाप्यायने कृत्वा सर्वं सुरभिमुद्रया।
ध्यात्वा तन्मन्त्रमुच्चार्य त्वमृतीकृत्य तद्गतम् ॥ 377 ॥

मूलम् - 377

दहनाप्यायने कृत्वा सर्वं सुरभिमुद्रया।
ध्यात्वा तन्मन्त्रमुच्चार्य त्वमृतीकृत्य तद्गतम् ॥ 377 ॥

विश्वास-प्रस्तुतिः - 378

बलं वीर्यं च तेजश्च त्वर्घ्यपुष्पं समुत्क्षिपेत्।
“कवचेन” च सास्त्रेण नेत्रमन्त्रेण भावयेत् ॥ 378 ॥

मूलम् - 378

बलं वीर्यं च तेजश्च त्वर्घ्यपुष्पं समुत्क्षिपेत्।
“कवचेन” च सास्त्रेण नेत्रमन्त्रेण भावयेत् ॥ 378 ॥

विश्वास-प्रस्तुतिः - 379

ततः स्वदक्षिणे हस्ते विज्ञानैश्वर्यशक्तयः।
स्मर्तव्याः स्वस्वमन्त्रेण भोजकाः करणात्मकाः ॥ 379 ॥

मूलम् - 379

ततः स्वदक्षिणे हस्ते विज्ञानैश्वर्यशक्तयः।
स्मर्तव्याः स्वस्वमन्त्रेण भोजकाः करणात्मकाः ॥ 379 ॥

विश्वास-प्रस्तुतिः - 380

तेनाथ “विष्णुहस्तेन” परमान्नपुरस्सरम्।
स्पृष्ट्वा स्पृष्ट्वा यथायोगं बद्धया ग्रासमुद्रया ॥ 380 ॥

मूलम् - 380

तेनाथ “विष्णुहस्तेन” परमान्नपुरस्सरम्।
स्पृष्ट्वा स्पृष्ट्वा यथायोगं बद्धया ग्रासमुद्रया ॥ 380 ॥

विश्वास-प्रस्तुतिः - 381

निवेदनीया वै विष्णोरन्नमूर्त्यन्तरस्थिताः।
रसरूपादिभेदोत्थास्तेजोवीर्यबलात्मकाः ॥ 381 ॥

मूलम् - 381

निवेदनीया वै विष्णोरन्नमूर्त्यन्तरस्थिताः।
रसरूपादिभेदोत्थास्तेजोवीर्यबलात्मकाः ॥ 381 ॥

विश्वास-प्रस्तुतिः - 382

षाड्‌गुण्यविग्रहस्यापि देवस्यार्चाभिमानिनः।
प्रीणनं परमं ह्येतद्धविर्मन्त्रैः सुसंस्कृतम् ॥ 382 ॥

मूलम् - 382

षाड्‌गुण्यविग्रहस्यापि देवस्यार्चाभिमानिनः।
प्रीणनं परमं ह्येतद्धविर्मन्त्रैः सुसंस्कृतम् ॥ 382 ॥

विश्वास-प्रस्तुतिः - 383

ज्ञात्वैवं शंखश्रृङ्गादिभेरीपटहनिःस्वनैः।
घण्टारवसमेताभिर्मङ्गलाबिश्च गीतिभिः ॥ 383 ॥

मूलम् - 383

ज्ञात्वैवं शंखश्रृङ्गादिभेरीपटहनिःस्वनैः।
घण्टारवसमेताभिर्मङ्गलाबिश्च गीतिभिः ॥ 383 ॥

विश्वास-प्रस्तुतिः - 384

श्रुतिस्मृतीतिहासानां भगवद्‌गुणशंसिनाम्।
स्तोत्राणां च पुराणानां वैष्णवानां च निःस्वनैः ॥ 384 ॥

मूलम् - 384

श्रुतिस्मृतीतिहासानां भगवद्‌गुणशंसिनाम्।
स्तोत्राणां च पुराणानां वैष्णवानां च निःस्वनैः ॥ 384 ॥

विश्वास-प्रस्तुतिः - 385

प्रदक्षिणक्रमेणैव पायसाद्युपपात्रकम्।
प्रभूतान्नं ततः पश्चात् प्रापणान्नपुरस्सरम् ॥ 385 ॥

मूलम् - 385

प्रदक्षिणक्रमेणैव पायसाद्युपपात्रकम्।
प्रभूतान्नं ततः पश्चात् प्रापणान्नपुरस्सरम् ॥ 385 ॥

विश्वास-प्रस्तुतिः - 386

भक्ष्याण्यपूपपूर्वाणि भोज्यानि च फलानि च।
लेह्यानि मधुपूर्वाणि चोष्याण्याम्रादिकान्यपि ॥ 386 ॥

मूलम् - 386

भक्ष्याण्यपूपपूर्वाणि भोज्यानि च फलानि च।
लेह्यानि मधुपूर्वाणि चोष्याण्याम्रादिकान्यपि ॥ 386 ॥

विश्वास-प्रस्तुतिः - 387

पेयानि क्षीरपूर्वाणि अनुपानान्वितानि च।
विनिवेद्य च देवाय विन्यस्तान्योदनोपरि ॥ 387 ॥

मूलम् - 387

पेयानि क्षीरपूर्वाणि अनुपानान्वितानि च।
विनिवेद्य च देवाय विन्यस्तान्योदनोपरि ॥ 387 ॥

विश्वास-प्रस्तुतिः - 388

बलवीर्यादिसन्मन्त्रान् सवीर्यादिविवर्जितान्।
ओमित्युपाहरेन्मन्त्री ततः संहृतिमुद्रया ॥ 388 ॥

मूलम् - 388

बलवीर्यादिसन्मन्त्रान् सवीर्यादिविवर्जितान्।
ओमित्युपाहरेन्मन्त्री ततः संहृतिमुद्रया ॥ 388 ॥

विश्वास-प्रस्तुतिः - 389

पूर्णात्पूर्णमिति प्राज्ञो जप्त्वा मन्त्रं समाहितः।
सुतृप्तं भावयेद्देवं सुतृप्तमिति चोच्चरन् ॥ 389 ॥

मूलम् - 389

पूर्णात्पूर्णमिति प्राज्ञो जप्त्वा मन्त्रं समाहितः।
सुतृप्तं भावयेद्देवं सुतृप्तमिति चोच्चरन् ॥ 389 ॥

विश्वास-प्रस्तुतिः - 390

शीतलं तर्पणजलं शङ्खशुक्त्याकृतिष्वपि।
पात्रेषु पूरितं तर्प्य चूर्णं निष्पुंसनाय च ॥ 390 ॥

मूलम् - 390

शीतलं तर्पणजलं शङ्खशुक्त्याकृतिष्वपि।
पात्रेषु पूरितं तर्प्य चूर्णं निष्पुंसनाय च ॥ 390 ॥

विश्वास-प्रस्तुतिः - 391

तदर्थं शाटकं चाथ हस्तप्रक्षालनं ततः।
समाचमनतोयं च घृष्टकर्पूरभावितम् ॥ 391 ॥

मूलम् - 391

तदर्थं शाटकं चाथ हस्तप्रक्षालनं ततः।
समाचमनतोयं च घृष्टकर्पूरभावितम् ॥ 391 ॥

विश्वास-प्रस्तुतिः - 392

चन्दनं करशुध्यर्थं मात्रां करसमुद्भवाम्।
सरत्नां विनिवेद्याथ ताम्बूलं शशिभावितम् ॥ 392 ॥

मूलम् - 392

चन्दनं करशुध्यर्थं मात्रां करसमुद्भवाम्।
सरत्नां विनिवेद्याथ ताम्बूलं शशिभावितम् ॥ 392 ॥

विश्वास-प्रस्तुतिः - 393

दत्वाऽथ मूलमुद्रां तु दर्शयेन्मूलमुच्चरन्।
जपं कृत्वा यथापूर्वमर्घ्याद्यैर्धूपपश्चिमैः ॥ 393 ॥

मूलम् - 393

दत्वाऽथ मूलमुद्रां तु दर्शयेन्मूलमुच्चरन्।
जपं कृत्वा यथापूर्वमर्घ्याद्यैर्धूपपश्चिमैः ॥ 393 ॥

विश्वास-प्रस्तुतिः - 394

समभ्यर्च्य, समाहूय गुरुपूर्वांश्च साधकान्।
सिद्धान्तनिरतांस्चाथ पञ्चकालपरायणान् ॥ 394 ॥

मूलम् - 394

समभ्यर्च्य, समाहूय गुरुपूर्वांश्च साधकान्।
सिद्धान्तनिरतांस्चाथ पञ्चकालपरायणान् ॥ 394 ॥

विश्वास-प्रस्तुतिः - 395

दीक्षितांश्च यथान्यायं त्रैविद्यांस्तदभावतः।
अर्घ्यानुलेपनाभ्यां तु स्रग्वरैर्धूपपश्चिमैः ॥ 395 ॥

मूलम् - 395

दीक्षितांश्च यथान्यायं त्रैविद्यांस्तदभावतः।
अर्घ्यानुलेपनाभ्यां तु स्रग्वरैर्धूपपश्चिमैः ॥ 395 ॥

विश्वास-प्रस्तुतिः - 396

समभ्यर्च्य ततस्तेषां दद्यादर्घ्योदकं करे।
परितः पायसादीनि पात्रस्थानि पृथक् पृथक् ॥ 396 ॥

मूलम् - 396

समभ्यर्च्य ततस्तेषां दद्यादर्घ्योदकं करे।
परितः पायसादीनि पात्रस्थानि पृथक् पृथक् ॥ 396 ॥

विश्वास-प्रस्तुतिः - 397

महोदनं च मध्यस्थं चतुर्धा संविभज्य च।
प्रयच्छेदकमंशं तु कारिभ्यः श्रेयसे ततः ॥ 397 ॥

मूलम् - 397

महोदनं च मध्यस्थं चतुर्धा संविभज्य च।
प्रयच्छेदकमंशं तु कारिभ्यः श्रेयसे ततः ॥ 397 ॥

विश्वास-प्रस्तुतिः - 398

द्वितीयमोदनं दद्यात् सेनेशाय ततः परम्।
तृतीयमन्नं दातव्यं सर्वेषां परिचारिणाम् ॥ 398 ॥

मूलम् - 398

द्वितीयमोदनं दद्यात् सेनेशाय ततः परम्।
तृतीयमन्नं दातव्यं सर्वेषां परिचारिणाम् ॥ 398 ॥

विश्वास-प्रस्तुतिः - 399

चतुर्थं वैष्णवानां च देवायतनवासिनाम्।
आराधकप्राशनार्थं प्रापणान्नं समाचरेत् ॥ 399 ॥

मूलम् - 399

चतुर्थं वैष्णवानां च देवायतनवासिनाम्।
आराधकप्राशनार्थं प्रापणान्नं समाचरेत् ॥ 399 ॥

विश्वास-प्रस्तुतिः - 400

गोमात्रां साध्यबीजानि शालिमुद्गादिकानि च।
मात्रां च तिलरत्नोत्थां तथा चाच्छादनाम्बरम् ॥ 400 ॥

मूलम् - 400

गोमात्रां साध्यबीजानि शालिमुद्गादिकानि च।
मात्रां च तिलरत्नोत्थां तथा चाच्छादनाम्बरम् ॥ 400 ॥

विश्वास-प्रस्तुतिः - 401

निष्पुंसनपटं चाथ ताम्बूलं च विशेषतः।
प्रयच्छेद्देशिकेन्द्राय नियुक्तायार्चने क्षणे ॥ 401 ॥

मूलम् - 401

निष्पुंसनपटं चाथ ताम्बूलं च विशेषतः।
प्रयच्छेद्देशिकेन्द्राय नियुक्तायार्चने क्षणे ॥ 401 ॥

विश्वास-प्रस्तुतिः - 402

महाविभूतिर्देवेशः सर्वसङ्कल्पसिद्धिदः।
यस्मात् प्रागात्मसात्कुर्याद्भोगशक्तिमनश्वरीम् ॥ 402 ॥

मूलम् - 402

महाविभूतिर्देवेशः सर्वसङ्कल्पसिद्धिदः।
यस्मात् प्रागात्मसात्कुर्याद्भोगशक्तिमनश्वरीम् ॥ 402 ॥

विश्वास-प्रस्तुतिः - 403

व्यक्तां गुर्वादिवकत्रेण भुनक्ति तदनन्तरम्।
तस्मान्निवेदितं सर्वं वासुदेवस्य वै विभोः ॥ 403 ॥

मूलम् - 403

व्यक्तां गुर्वादिवकत्रेण भुनक्ति तदनन्तरम्।
तस्मान्निवेदितं सर्वं वासुदेवस्य वै विभोः ॥ 403 ॥

विश्वास-प्रस्तुतिः - 404

प्रदद्याद् गुरुपूर्वेभ्यो नियतेभ्यः सदार्चने।
रक्षणीयमभक्तेभ्यस्तद्दानं विष्णुयाजकैः ॥ 404 ॥

मूलम् - 404

प्रदद्याद् गुरुपूर्वेभ्यो नियतेभ्यः सदार्चने।
रक्षणीयमभक्तेभ्यस्तद्दानं विष्णुयाजकैः ॥ 404 ॥

विश्वास-प्रस्तुतिः - 405

प्रायश्चित्ती भवेद्दाता अपात्रप्रतिपादनात्।
प्रक्षिपेज्जलमध्ये तु विष्वक्सेननिवेदितम् ॥ 405 ॥

मूलम् - 405

प्रायश्चित्ती भवेद्दाता अपात्रप्रतिपादनात्।
प्रक्षिपेज्जलमध्ये तु विष्वक्सेननिवेदितम् ॥ 405 ॥

विश्वास-प्रस्तुतिः - 406

जलजानां तीरजानां जन्तूनां तृप्तयेऽथवा।
जले किञ्चिद्विनिक्षिप्य शेषमन्नं तदग्रतः ॥ 406 ॥

मूलम् - 406

जलजानां तीरजानां जन्तूनां तृप्तयेऽथवा।
जले किञ्चिद्विनिक्षिप्य शेषमन्नं तदग्रतः ॥ 406 ॥

विश्वास-प्रस्तुतिः - 407

तद्धक्तानां द्विजातीनां निरतानां स्वकर्मसु।
एवं सन्तर्प्य देवेशं महता हविषा ततः ॥ 407 ॥

मूलम् - 407

तद्धक्तानां द्विजातीनां निरतानां स्वकर्मसु।
एवं सन्तर्प्य देवेशं महता हविषा ततः ॥ 407 ॥

विश्वास-प्रस्तुतिः - 408

भोज्यासनगतं पश्चादन्यत्र शयनास्पदे।
सुयितानपताकाढ्ये पुष्पमालाद्यलंकृते ॥ 408 ॥

मूलम् - 408

भोज्यासनगतं पश्चादन्यत्र शयनास्पदे।
सुयितानपताकाढ्ये पुष्पमालाद्यलंकृते ॥ 408 ॥

विश्वास-प्रस्तुतिः - 409

सर्वोपकरणोपेते पर्यङ्कस्योर्ध्वतो नयेत्।
अपनीय च माल्यानि गन्धानि वसनानि च ॥ 409 ॥

मूलम् - 409

सर्वोपकरणोपेते पर्यङ्कस्योर्ध्वतो नयेत्।
अपनीय च माल्यानि गन्धानि वसनानि च ॥ 409 ॥

विश्वास-प्रस्तुतिः - 410

स्वयं किञ्चित् समादाय विष्वक्सेनस्य वै ततः।
प्रदद्यादवशिष्टं तु पर्यङ्कस्थस्य वै विभोः ॥ 410 ॥

मूलम् - 410

स्वयं किञ्चित् समादाय विष्वक्सेनस्य वै ततः।
प्रदद्यादवशिष्टं तु पर्यङ्कस्थस्य वै विभोः ॥ 410 ॥

विश्वास-प्रस्तुतिः - 411

अर्घ्यं पाद्याम्बुना शाटीं तथा पादानुलेपनम्।
सप्रतिग्रहमाचामं हस्तसंमार्जनाम्बरम् ॥ 411 ॥

मूलम् - 411

अर्घ्यं पाद्याम्बुना शाटीं तथा पादानुलेपनम्।
सप्रतिग्रहमाचामं हस्तसंमार्जनाम्बरम् ॥ 411 ॥

विश्वास-प्रस्तुतिः - 412

दत्वा ततः सुगन्धैस्तु चन्दनाद्यैः समालभेत्।
व्यजनैः श्रमशान्त्यर्थं संवीज्य च समन्ततः ॥ 412 ॥

मूलम् - 412

दत्वा ततः सुगन्धैस्तु चन्दनाद्यैः समालभेत्।
व्यजनैः श्रमशान्त्यर्थं संवीज्य च समन्ततः ॥ 412 ॥

विश्वास-प्रस्तुतिः - 413

व्कथितं च मृगस्नेहं शशिचूर्णाधिवासितम्।
मर्दयित्वाथ देवस्य केशपाशे प्रसारिते ॥ 413 ॥

मूलम् - 413

व्कथितं च मृगस्नेहं शशिचूर्णाधिवासितम्।
मर्दयित्वाथ देवस्य केशपाशे प्रसारिते ॥ 413 ॥

विश्वास-प्रस्तुतिः - 414

नानाविधैर्गन्धवद्भिः पुष्पैः संवलितान्तरम्।
स्रग्भिर्नानाविधाभिश्च केशान् संवेष्टयेत्ततः ॥ 414 ॥

मूलम् - 414

नानाविधैर्गन्धवद्भिः पुष्पैः संवलितान्तरम्।
स्रग्भिर्नानाविधाभिश्च केशान् संवेष्टयेत्ततः ॥ 414 ॥

विश्वास-प्रस्तुतिः - 415

निवेदयेदपूपानि पृथुकानि फलानि च।
पानकं तर्पणजलं नाळिकेररसान्वितम् ॥ 415 ॥

मूलम् - 415

निवेदयेदपूपानि पृथुकानि फलानि च।
पानकं तर्पणजलं नाळिकेररसान्वितम् ॥ 415 ॥

विश्वास-प्रस्तुतिः - 416

ताम्बूलं शशिंसंयुक्तं साङ्गं विज्ञाप्य वै विभुम्।
छत्रदीपान्वितो यायादर्घ्यभृत् पाचनालयम् ॥ 416 ॥

मूलम् - 416

ताम्बूलं शशिंसंयुक्तं साङ्गं विज्ञाप्य वै विभुम्।
छत्रदीपान्वितो यायादर्घ्यभृत् पाचनालयम् ॥ 416 ॥

विश्वास-प्रस्तुतिः - 417

तत्र नैमित्तिके कुण्‍डे नित्ये वा संस्कृते पुरा।
तथैव संस्कृते वह्नौ प्राग्वत् संतर्पिते सति ॥ 417 ॥

मूलम् - 417

तत्र नैमित्तिके कुण्‍डे नित्ये वा संस्कृते पुरा।
तथैव संस्कृते वह्नौ प्राग्वत् संतर्पिते सति ॥ 417 ॥

विश्वास-प्रस्तुतिः - 418

तस्मिन् ज्वाला जटाधारे हृद्गतं मन्त्रनायकम्।
अवतीर्य समिद्भिश्च सप्तभिस्तर्पयेत्ततः ॥ 418 ॥

मूलम् - 418

तस्मिन् ज्वाला जटाधारे हृद्गतं मन्त्रनायकम्।
अवतीर्य समिद्भिश्च सप्तभिस्तर्पयेत्ततः ॥ 418 ॥

विश्वास-प्रस्तुतिः - 419

पायसाद्यैर्विशेषेण पाचितैरखिलैरपि।
शङ्खभेरीनिनादेन घण्टारवसमन्वितम् ॥ 419 ॥

मूलम् - 419

पायसाद्यैर्विशेषेण पाचितैरखिलैरपि।
शङ्खभेरीनिनादेन घण्टारवसमन्वितम् ॥ 419 ॥

विश्वास-प्रस्तुतिः - 420

पूर्णाहूतिं ततो दद्यादाज्यस्याच्छिन्नधारया।
कर्मशेषं समापाद्य दद्याच्छिष्टं चरुं गुरोः ॥ 420 ॥

मूलम् - 420

पूर्णाहूतिं ततो दद्यादाज्यस्याच्छिन्नधारया।
कर्मशेषं समापाद्य दद्याच्छिष्टं चरुं गुरोः ॥ 420 ॥

विश्वास-प्रस्तुतिः - 421

ततो देवान्तिकं प्राप्य होमकर्म समर्पयेत्।
संविभज्य पितॄन् प्राग्वत् संप्रदानसमन्वितम् ॥ 421 ॥

मूलम् - 421

ततो देवान्तिकं प्राप्य होमकर्म समर्पयेत्।
संविभज्य पितॄन् प्राग्वत् संप्रदानसमन्वितम् ॥ 421 ॥

विश्वास-प्रस्तुतिः - 422

अर्चयित्वार्घ्यगन्धाद्यैः प्राग्वत् कुर्यात् प्रदक्षिणम्।
विज्ञाप्य यानगं कृत्वा देवमन्तः प्रवेशयेत् ॥ 422 ॥

मूलम् - 422

अर्चयित्वार्घ्यगन्धाद्यैः प्राग्वत् कुर्यात् प्रदक्षिणम्।
विज्ञाप्य यानगं कृत्वा देवमन्तः प्रवेशयेत् ॥ 422 ॥

विश्वास-प्रस्तुतिः - 423

स्वस्थानस्थस्य देवस्य दद्यादर्घ्यादिकत्रयम्।
तत्र संरोधितं मन्त्रं प्राग्वन्मूले नियोजयेत् ॥ 423 ॥

मूलम् - 423

स्वस्थानस्थस्य देवस्य दद्यादर्घ्यादिकत्रयम्।
तत्र संरोधितं मन्त्रं प्राग्वन्मूले नियोजयेत् ॥ 423 ॥

विश्वास-प्रस्तुतिः - 424

तत्रापि पूजयेद्भोगैरर्घ्याद्यैर्धूपपश्चिमैः।
ततो विज्ञापयेद्देवं पुष्पाञ्जलिपुरस्सरम् ॥ 424 ॥

मूलम् - 424

तत्रापि पूजयेद्भोगैरर्घ्याद्यैर्धूपपश्चिमैः।
ततो विज्ञापयेद्देवं पुष्पाञ्जलिपुरस्सरम् ॥ 424 ॥

विश्वास-प्रस्तुतिः - 425

“पूजितोऽसि जगन्नाथ! महता हविषा विभो!।
त्वदीये मयि वात्सल्यात् तृप्तो भवितुमर्हसि” ॥ 425 ॥

मूलम् - 425

“पूजितोऽसि जगन्नाथ! महता हविषा विभो!।
त्वदीये मयि वात्सल्यात् तृप्तो भवितुमर्हसि” ॥ 425 ॥

विश्वास-प्रस्तुतिः - 426

इति विज्ञाप्य देवस्य चरणाम्बुरुहद्वये।
मूलमन्त्रं समुच्चार्य प्रक्षिपेत् कुसुमाञ्जलिम् ॥ 426 ॥

मूलम् - 426

इति विज्ञाप्य देवस्य चरणाम्बुरुहद्वये।
मूलमन्त्रं समुच्चार्य प्रक्षिपेत् कुसुमाञ्जलिम् ॥ 426 ॥

विश्वास-प्रस्तुतिः - 427

महोदनसपर्यादौ प्राप्ते नैमित्तिकादिषु।
पूजनादुत्सवार्चायाः पुरस्ताद्वाथ पश्चिमात् ॥ 427 ॥

मूलम् - 427

महोदनसपर्यादौ प्राप्ते नैमित्तिकादिषु।
पूजनादुत्सवार्चायाः पुरस्ताद्वाथ पश्चिमात् ॥ 427 ॥

विश्वास-प्रस्तुतिः - 428

सशक्तिकं मूलबिम्बं साङ्गं बिम्बं च साश्रयम्।
विहगेशावृतिद्वारपालभक्तैः समन्वितम् ॥ 428 ॥

मूलम् - 428

सशक्तिकं मूलबिम्बं साङ्गं बिम्बं च साश्रयम्।
विहगेशावृतिद्वारपालभक्तैः समन्वितम् ॥ 428 ॥

विश्वास-प्रस्तुतिः - 429

विमानेषु बहिष्ठेषु मण्टपे गोपुरादिषु।
विभवव्यूहमूर्तीनां स्थापितानां विधानतः ॥ 429 ॥

मूलम् - 429

विमानेषु बहिष्ठेषु मण्टपे गोपुरादिषु।
विभवव्यूहमूर्तीनां स्थापितानां विधानतः ॥ 429 ॥

विश्वास-प्रस्तुतिः - 430

प्राग्वत् संपूजनं कृत्वा महान्नं विनिवेदयेत्।
मुख्यकल्पमिदं प्रोक्तं मध्यकल्पे यथाबलम् ॥ 430 ॥

मूलम् - 430

प्राग्वत् संपूजनं कृत्वा महान्नं विनिवेदयेत्।
मुख्यकल्पमिदं प्रोक्तं मध्यकल्पे यथाबलम् ॥ 430 ॥

विश्वास-प्रस्तुतिः - 431

एकैकस्याढकाद्येन मानेनान्नं प्रकल्येत्।
मूलालयगतं देवं केवलं वा समचयेत् ॥ 431 ॥

मूलम् - 431

एकैकस्याढकाद्येन मानेनान्नं प्रकल्येत्।
मूलालयगतं देवं केवलं वा समचयेत् ॥ 431 ॥

विश्वास-प्रस्तुतिः - 432

प्रासादस्थस्य नित्ये तु न संकल्प्यं महाहविः।
तदर्थं बलियानं तु नाचर्तव्यं हितेच्छुना ॥ 432 ॥

मूलम् - 432

प्रासादस्थस्य नित्ये तु न संकल्प्यं महाहविः।
तदर्थं बलियानं तु नाचर्तव्यं हितेच्छुना ॥ 432 ॥

विश्वास-प्रस्तुतिः - 433

महोदनं च स्नपने स्नपनं च महोदने।
कर्तव्यमविनाभूतं द्वितयं मुख्यकल्पने ॥ 433 ॥

मूलम् - 433

महोदनं च स्नपने स्नपनं च महोदने।
कर्तव्यमविनाभूतं द्वितयं मुख्यकल्पने ॥ 433 ॥

विश्वास-प्रस्तुतिः - 434

अनुकल्पे तदन्योन्यमेकैकेन विना कृतम्।
प्रभूतोदनयागार्थमन्ययागार्थमेव वा ॥ 434 ॥

मूलम् - 434

अनुकल्पे तदन्योन्यमेकैकेन विना कृतम्।
प्रभूतोदनयागार्थमन्ययागार्थमेव वा ॥ 434 ॥

विश्वास-प्रस्तुतिः - 435

बिम्बे कस्मिंश्चिदावाह्य पूजिते तु यथाविधि।
समारब्धे समाप्तेऽस्मिन् यागेऽकस्माद् द्विजोत्तम! ॥ 435 ॥

मूलम् - 435

बिम्बे कस्मिंश्चिदावाह्य पूजिते तु यथाविधि।
समारब्धे समाप्तेऽस्मिन् यागेऽकस्माद् द्विजोत्तम! ॥ 435 ॥

विश्वास-प्रस्तुतिः - 436

अन्ये महाहविर्यागे प्राप्ते नैमित्तिकादिषु।
दातव्यं तत्र मन्त्रज्ञैरन्यत्रोद्वासनादिकम् ॥ 436 ॥

मूलम् - 436

अन्ये महाहविर्यागे प्राप्ते नैमित्तिकादिषु।
दातव्यं तत्र मन्त्रज्ञैरन्यत्रोद्वासनादिकम् ॥ 436 ॥

विश्वास-प्रस्तुतिः - 437

तत उद्वासयेदत्र स्नपनेऽप्येवमेव हि।
मूलबिम्बे यथा देयं मन्त्रिभिस्तु महाहविः ॥ 437 ॥

मूलम् - 437

तत उद्वासयेदत्र स्नपनेऽप्येवमेव हि।
मूलबिम्बे यथा देयं मन्त्रिभिस्तु महाहविः ॥ 437 ॥

विश्वास-प्रस्तुतिः - 438

तृतीयावरणाद्बाह्ये तथैवाभ्यन्तरेऽपि वा।
महोत्सवविधौ दद्यात् कुत्रचिद्वा महाहविः ॥ 438 ॥

मूलम् - 438

तृतीयावरणाद्बाह्ये तथैवाभ्यन्तरेऽपि वा।
महोत्सवविधौ दद्यात् कुत्रचिद्वा महाहविः ॥ 438 ॥

विश्वास-प्रस्तुतिः - 439

महताऽनेन हविषा भक्त्या यः पूजयेद्धरिम्।
स भुक्त्वा विपुलान् भोगानिहं लोके चिरंतनान् ॥ 439 ॥

मूलम् - 439

महताऽनेन हविषा भक्त्या यः पूजयेद्धरिम्।
स भुक्त्वा विपुलान् भोगानिहं लोके चिरंतनान् ॥ 439 ॥

विश्वास-प्रस्तुतिः - 440

कालान्तरेऽत्यये प्राप्ते प्राप्तं यात्यच्युतं पदम्।
विशेषादभिषिक्तैश्च भूपैर्भूतहिते रतैः ॥ 440 ॥

मूलम् - 440

कालान्तरेऽत्यये प्राप्ते प्राप्तं यात्यच्युतं पदम्।
विशेषादभिषिक्तैश्च भूपैर्भूतहिते रतैः ॥ 440 ॥

विश्वास-प्रस्तुतिः - 441

विधिनानेन कर्तव्यं महोदनसमर्चनम्।
प्राप्नुवन्ति च ते शश्वत् प्रतिभूपालमण्डलम् ॥ 441 ॥

मूलम् - 441

विधिनानेन कर्तव्यं महोदनसमर्चनम्।
प्राप्नुवन्ति च ते शश्वत् प्रतिभूपालमण्डलम् ॥ 441 ॥

वारणं च वराश्वं च तदीयं कोशसञ्चयम्। इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे प्रापणादिमान साधननिवेदनादिप्रकारो नाम अष्टादशोऽध्यायः ॥