०१७ महोत्सवादिविधिः

॥ श्रीः ॥
सप्तदशोऽधयायः
शाण्डिल्यः —

विश्वास-प्रस्तुतिः - 1

अथोत्सवविधानं तु वक्ष्यामि श्रृणु सत्तम!।
उत्सवारंभदिवसात् पूर्वस्मिन् पञ्चमेऽहनि ॥ 1 ॥

मूलम् - 1

अथोत्सवविधानं तु वक्ष्यामि श्रृणु सत्तम!।
उत्सवारंभदिवसात् पूर्वस्मिन् पञ्चमेऽहनि ॥ 1 ॥

विश्वास-प्रस्तुतिः - 2

अंकुरारोपणं कुर्यात् पूर्वोक्तविधिना ततः।
पूर्ववद्यागसदनं कल्पयित्बा विभूषयेत् ॥ 2 ॥

मूलम् - 2

अंकुरारोपणं कुर्यात् पूर्वोक्तविधिना ततः।
पूर्ववद्यागसदनं कल्पयित्बा विभूषयेत् ॥ 2 ॥

विश्वास-प्रस्तुतिः - 3

आचार्यान् देशिकेन्द्रस्तु चतुरो वरयेद्‌गुरुः।
अथवाष्ट द्वादश वाविनीतान् संयतान् शुचीन् ॥ 3 ॥

मूलम् - 3

विश्वास-प्रस्तुतिः - 4

तत्तत्कर्मप्रयोगेषु कुशलान् शास्त्रकोविदान्।
सोष्णीषैरुत्तरीयैश्च गन्धद्रव्यैश्च संयुतान् ॥ 4 ॥

मूलम् - 4

विश्वास-प्रस्तुतिः - 5

यजमानेन ते सर्वे शोभनीयाः प्रयत्नतः।
केचिद्‌गुरुनियुक्तास्तु कुम्भमण्डलपूजनम् ॥ 5 ॥

मूलम् - 5

यजमानेन ते सर्वे शोभनीयाः प्रयत्नतः।
केचिद्‌गुरुनियुक्तास्तु कुम्भमण्डलपूजनम् ॥ 5 ॥

विश्वास-प्रस्तुतिः - 6

कुर्यु, रन्ये बलिं दद्युरन्ये बिम्बगतं विभुम्।
पूजयेयुर्यथायोगं स्वयं वापि समाचरेत् ॥ 6 ॥

मूलम् - 6

कुर्यु, रन्ये बलिं दद्युरन्ये बिम्बगतं विभुम्।
पूजयेयुर्यथायोगं स्वयं वापि समाचरेत् ॥ 6 ॥

विश्वास-प्रस्तुतिः - 7

वरयेत् साधकान् वापि कञ्चकाद्यैस्तु भूषितान्।
विनयादिगुणोपेतान् कुशलान् नयकोविदान् ॥ 7 ॥

मूलम् - 7

वरयेत् साधकान् वापि कञ्चकाद्यैस्तु भूषितान्।
विनयादिगुणोपेतान् कुशलान् नयकोविदान् ॥ 7 ॥

विश्वास-प्रस्तुतिः - 8

उत्सवारम्भदिवसात् पूर्वेद्युश्च निशामुखे।
कृताह्निको देशिकेन्द्रः प्रासादं संप्रविश्य च ॥ 8 ॥

मूलम् - 8

विश्वास-प्रस्तुतिः - 9

मूलमूर्तिगतं देवमर्घ्याद्यैः संप्रपूज्य च।
तत्पादगौ करौ कृत्वा दैवं विज्ञापयेदिदम् ॥ 9 ॥

मूलम् - 9

मूलमूर्तिगतं देवमर्घ्याद्यैः संप्रपूज्य च।
तत्पादगौ करौ कृत्वा दैवं विज्ञापयेदिदम् ॥ 9 ॥

विश्वास-प्रस्तुतिः - 10

“भगवन्! पुण्डरीकाक्ष! करिप्ये कौतकक्रियाम्।
महोत्सवार्थं देवेश! तदर्थं त्वं प्रसीद म्” ॥ 10 ॥

मूलम् - 10

“भगवन्! पुण्डरीकाक्ष! करिप्ये कौतकक्रियाम्।
महोत्सवार्थं देवेश! तदर्थं त्वं प्रसीद म्” ॥ 10 ॥

विश्वास-प्रस्तुतिः - 11

इति विज्ञाप्य देवेशमावाह्योत्सवकौतुके।
अर्घ्यगन्धादिनाभ्यर्च्य वासोभिर्विविधैः शु?भैः ॥ 11 ॥

मूलम् - 11

इति विज्ञाप्य देवेशमावाह्योत्सवकौतुके।
अर्घ्यगन्धादिनाभ्यर्च्य वासोभिर्विविधैः शु?भैः ॥ 11 ॥

विश्वास-प्रस्तुतिः - 12

भूषणैर्दिव्यगन्धैश्चाप्यलंकृत्य विशेषतः।
सौवर्णं यानमारोप्य शङ्खभेर्यादिसंयुतम् ॥ 12 ॥

मूलम् - 12

भूषणैर्दिव्यगन्धैश्चाप्यलंकृत्य विशेषतः।
सौवर्णं यानमारोप्य शङ्खभेर्यादिसंयुतम् ॥ 12 ॥

विश्वास-प्रस्तुतिः - 13

छत्राद्यैश्च समायुक्तं प्रादक्षिण्यक्रमेण तु।
आस्थानमण्टपं नीत्वा सौवर्णे भद्रविष्टरे ॥ 13 ॥

मूलम् - 13

छत्राद्यैश्च समायुक्तं प्रादक्षिण्यक्रमेण तु।
आस्थानमण्टपं नीत्वा सौवर्णे भद्रविष्टरे ॥ 13 ॥

विश्वास-प्रस्तुतिः - 14

तत्र मुक्तावितानाद्यैरुपरिष्टाद्विभूषिते।
सर्वसाधनसंयुक्ते समारोप्य विधानतः ॥ 14 ॥

मूलम् - 14

तत्र मुक्तावितानाद्यैरुपरिष्टाद्विभूषिते।
सर्वसाधनसंयुक्ते समारोप्य विधानतः ॥ 14 ॥

विश्वास-प्रस्तुतिः - 15

पूजयित्वा जगन्नाथं प्रभूतान्नं निवेद्य च।
कृत्वा संतर्पणान्तं च प्रासादं संप्रवेशयेत् ॥ 15 ॥

मूलम् - 15

पूजयित्वा जगन्नाथं प्रभूतान्नं निवेद्य च।
कृत्वा संतर्पणान्तं च प्रासादं संप्रवेशयेत् ॥ 15 ॥

विश्वास-प्रस्तुतिः - 16

ततस्तु हेमजं पात्रं राजनं वा समाहरेत्।
शालिजैस्तण्डुलैर्विप्र! भारमात्रैः सुपूजिते ॥ 16 ॥

मूलम् - 16

ततस्तु हेमजं पात्रं राजनं वा समाहरेत्।
शालिजैस्तण्डुलैर्विप्र! भारमात्रैः सुपूजिते ॥ 16 ॥

विश्वास-प्रस्तुतिः - 17

तदर्धैर्वापि तत्पादैः षडंशैर्वाष्टमांशकैः।
तदूर्ध्वे हेमजं सूत्रं क्षौमं कार्पासमेव च ॥ 17 ॥

मूलम् - 17

तदर्धैर्वापि तत्पादैः षडंशैर्वाष्टमांशकैः।
तदूर्ध्वे हेमजं सूत्रं क्षौमं कार्पासमेव च ॥ 17 ॥

विश्वास-प्रस्तुतिः - 18

पट्टजं पञ्चभिः सूत्रैश्चतुभिः सप्तर्भिस्तु वा।
कृतं न्यस्य सतांबूल तत्पात्रं विन्यसेत्ततः ॥ 18 ॥

मूलम् - 18

पट्टजं पञ्चभिः सूत्रैश्चतुभिः सप्तर्भिस्तु वा।
कृतं न्यस्य सतांबूल तत्पात्रं विन्यसेत्ततः ॥ 18 ॥

विश्वास-प्रस्तुतिः - 19

गर्भाग्रमण्टपे पीठे शालिभिः परिकल्पिते।
भारमानैस्तदर्धैर्वा एवं शालिविनिर्मिते ॥ 19 ॥

मूलम् - 19

गर्भाग्रमण्टपे पीठे शालिभिः परिकल्पिते।
भारमानैस्तदर्धैर्वा एवं शालिविनिर्मिते ॥ 19 ॥

विश्वास-प्रस्तुतिः - 20

पीठे पात्रान्तरं न्यस्येदापूपिकसमन्वितम्।
अर्घ्यादिना समभ्यर्च्य सम्यगाच्छाद्य वाससा ॥ 20 ॥

मूलम् - 20

पीठे पात्रान्तरं न्यस्येदापूपिकसमन्वितम्।
अर्घ्यादिना समभ्यर्च्य सम्यगाच्छाद्य वाससा ॥ 20 ॥

विश्वास-प्रस्तुतिः - 21

पात्रद्वयं दीक्षितयोर्न्यस्त्वा शिरसि देशिकः।
यानादिके वा संस्थाप्य विभवानुगुणं द्विज! ॥ 21 ॥

मूलम् - 21

पात्रद्वयं दीक्षितयोर्न्यस्त्वा शिरसि देशिकः।
यानादिके वा संस्थाप्य विभवानुगुणं द्विज! ॥ 21 ॥

विश्वास-प्रस्तुतिः - 22

सह ताभ्यां तु पात्राभ्यां नृत्तगीतादिसंयुतम्।
प्रदक्षिणं परिभ्रम्य सर्वेष्वावरणेष्वपि ॥ 22 ॥

मूलम् - 22

सह ताभ्यां तु पात्राभ्यां नृत्तगीतादिसंयुतम्।
प्रदक्षिणं परिभ्रम्य सर्वेष्वावरणेष्वपि ॥ 22 ॥

विश्वास-प्रस्तुतिः - 23

एकस्मिन् वा चतुः कृत्वा ग्रामादौ वा प्रदक्षिणम्।
नीत्वैकधा ततो विप्र! प्रविशेन्मूलमन्दिरम् ॥ 23 ॥

मूलम् - 23

एकस्मिन् वा चतुः कृत्वा ग्रामादौ वा प्रदक्षिणम्।
नीत्वैकधा ततो विप्र! प्रविशेन्मूलमन्दिरम् ॥ 23 ॥

विश्वास-प्रस्तुतिः - 24

यद्वा सुदर्शनोपेतं विष्वक्‌सेनं तु वा द्विज!।
खगेशं वा हनूमन्तं विभीषणसमन्वितम् ॥ 24 ॥

मूलम् - 24

यद्वा सुदर्शनोपेतं विष्वक्‌सेनं तु वा द्विज!।
खगेशं वा हनूमन्तं विभीषणसमन्वितम् ॥ 24 ॥

विश्वास-प्रस्तुतिः - 25

यानादिके समारोप्य ब्रामयेत्तु यथारुचि।
गर्भगेहं प्रविश्याथ देवदेवस्य सन्निधौ ॥ 25 ॥

मूलम् - 25

यानादिके समारोप्य ब्रामयेत्तु यथारुचि।
गर्भगेहं प्रविश्याथ देवदेवस्य सन्निधौ ॥ 25 ॥

विश्वास-प्रस्तुतिः - 26

पात्रद्वयं तु विन्यस्य आधारोपरि पूजयेत्।
द्वादशार्णेन मन्त्रेण अर्घ्यगन्धादिकैस्तथा ॥ 26 ॥

मूलम् - 26

पात्रद्वयं तु विन्यस्य आधारोपरि पूजयेत्।
द्वादशार्णेन मन्त्रेण अर्घ्यगन्धादिकैस्तथा ॥ 26 ॥

विश्वास-प्रस्तुतिः - 27

कृत्वा पुण्याहघोषं च अर्घ्याद्यैर्देवमर्च्य च।
प्रथमं देवदेवस्य मूलमूर्तिगतस्य च ॥ 27 ॥

मूलम् - 27

कृत्वा पुण्याहघोषं च अर्घ्याद्यैर्देवमर्च्य च।
प्रथमं देवदेवस्य मूलमूर्तिगतस्य च ॥ 27 ॥

विश्वास-प्रस्तुतिः - 28

बन्धयेत् कौतुकं सूत्रैर्हेमजैः पट्टजैस्तु वा।
हेमजं सूत्रमादाय गन्धेनालिप्य बन्धयेत् ॥ 28 ॥

मूलम् - 28

बन्धयेत् कौतुकं सूत्रैर्हेमजैः पट्टजैस्तु वा।
हेमजं सूत्रमादाय गन्धेनालिप्य बन्धयेत् ॥ 28 ॥

विश्वास-प्रस्तुतिः - 29

देवस्य दक्षिणे हस्ते यात्रामूर्तिगतस्य तु।
जितन्ताख्येन मन्त्रेण शंखगीतादिसंयुतम् ॥ 29 ॥

मूलम् - 29

देवस्य दक्षिणे हस्ते यात्रामूर्तिगतस्य तु।
जितन्ताख्येन मन्त्रेण शंखगीतादिसंयुतम् ॥ 29 ॥

विश्वास-प्रस्तुतिः - 30

स्पृष्ट्वा दक्षिणहस्तेन सूत्रमस्त्रशतं जपेत्।
श्रियो वामकरे कुर्यात् पट्टसूत्रेण कौतुकम् ॥ 30 ॥

मूलम् - 30

स्पृष्ट्वा दक्षिणहस्तेन सूत्रमस्त्रशतं जपेत्।
श्रियो वामकरे कुर्यात् पट्टसूत्रेण कौतुकम् ॥ 30 ॥

विश्वास-प्रस्तुतिः - 31

श्रीसूक्तमुच्चरन् वापि तन्मन्त्रेण द्विजोत्तम!।
पुष्ट्यास्तु बामहस्ते तु क्षौमसूत्रेण बन्धयेत् ॥ 31 ॥

मूलम् - 31

विश्वास-प्रस्तुतिः - 32

कुर्यात् स्नपनबिंबस्य पट्टसूत्रेण कौतुकम्।
कौतुकं देशिकेन्द्रस्तु कार्पासेन स्वदक्षिणे ॥ 32 ॥

मूलम् - 32

कुर्यात् स्नपनबिंबस्य पट्टसूत्रेण कौतुकम्।
कौतुकं देशिकेन्द्रस्तु कार्पासेन स्वदक्षिणे ॥ 32 ॥

विश्वास-प्रस्तुतिः - 33

करे तु द्वादशार्णेन बन्धयेच्च ततः परम्।
देवमर्घ्यादिनाभ्यर्न्य अपूपान् विनिवेदयेत् ॥ 33 ॥

मूलम् - 33

करे तु द्वादशार्णेन बन्धयेच्च ततः परम्।
देवमर्घ्यादिनाभ्यर्न्य अपूपान् विनिवेदयेत् ॥ 33 ॥

विश्वास-प्रस्तुतिः - 34

सर्वदोषप्रशान्त्यर्थं दर्पणआदि च दर्शयेत्।
अनुक्तमत्र यत्किंचित् तत्सर्वं प्राग्वदाचरेत् ॥ 34 ॥

मूलम् - 34

सर्वदोषप्रशान्त्यर्थं दर्पणआदि च दर्शयेत्।
अनुक्तमत्र यत्किंचित् तत्सर्वं प्राग्वदाचरेत् ॥ 34 ॥

विश्वास-प्रस्तुतिः - 35

एवं हि देवदेवस्य कृत्वा कौतुकबन्धनम्।
ततः समानयेद्देवं मण्टपे पुरतः स्थिते ॥ 35 ॥

मूलम् - 35

एवं हि देवदेवस्य कृत्वा कौतुकबन्धनम्।
ततः समानयेद्देवं मण्टपे पुरतः स्थिते ॥ 35 ॥

विश्वास-प्रस्तुतिः - 36

ततो देवं समभ्यर्च्य यावदात्मनिवेदनम्।
पूर्वोदितक्रमेणैव ततो वै स्नानविष्टरे ॥ 36 ॥

मूलम् - 36

ततो देवं समभ्यर्च्य यावदात्मनिवेदनम्।
पूर्वोदितक्रमेणैव ततो वै स्नानविष्टरे ॥ 36 ॥

विश्वास-प्रस्तुतिः - 37

स्नानासनोदितैर्भोगैः सर्वैरिष्ट्वा तु पूर्ववत्।
अलंकारासने नीत्वा पूजयेत् क्रमयोगतः ॥ 37 ॥

मूलम् - 37

स्नानासनोदितैर्भोगैः सर्वैरिष्ट्वा तु पूर्ववत्।
अलंकारासने नीत्वा पूजयेत् क्रमयोगतः ॥ 37 ॥

विश्वास-प्रस्तुतिः - 38

नैवेद्यमधुपर्काद्यैर्हृद्यैश्च विविधैस्ततः।
प्राग्वदिष्ट्वा ततः स्तोत्रैः स्तुवीत पुरुषोत्तमम् ॥ 38 ॥

मूलम् - 38

विश्वास-प्रस्तुतिः - 39

ततस्तु नूपुरान्तैस्च विविधैर्हेमभूषणैः।
सद्रत्नघटितैश्चापि तथा मुक्तामयैर्द्विज! ॥ 39 ॥

मूलम् - 39

ततस्तु नूपुरान्तैस्च विविधैर्हेमभूषणैः।
सद्रत्नघटितैश्चापि तथा मुक्तामयैर्द्विज! ॥ 39 ॥

विश्वास-प्रस्तुतिः - 40

किरीटाद्यैरलंकृत्य प्रणामैः सप्रदक्षिणैः।
यथोदितं प्रतिष्ठायां तथाशयनकल्पनम् ॥ 40 ॥

मूलम् - 40

किरीटाद्यैरलंकृत्य प्रणामैः सप्रदक्षिणैः।
यथोदितं प्रतिष्ठायां तथाशयनकल्पनम् ॥ 40 ॥

विश्वास-प्रस्तुतिः - 41

बिंबं चोपरि विन्यस्य शयने स्थापयेच्छुभे।
कोणेषु स्थापयेद्दीपान् पालिकाः सांकुरास्तथा ॥ 41 ॥

मूलम् - 41

बिंबं चोपरि विन्यस्य शयने स्थापयेच्छुभे।
कोणेषु स्थापयेद्दीपान् पालिकाः सांकुरास्तथा ॥ 41 ॥

विश्वास-प्रस्तुतिः - 42

तूर्यघोषैस्तथा वेदैः स्तोत्रैः स्तुत्वा मधुद्विषम्।
जागरेण निशां नीत्वा तस्मादुत्सवकौतुकम् ॥ 42 ॥

मूलम् - 42

तूर्यघोषैस्तथा वेदैः स्तोत्रैः स्तुत्वा मधुद्विषम्।
जागरेण निशां नीत्वा तस्मादुत्सवकौतुकम् ॥ 42 ॥

विश्वास-प्रस्तुतिः - 43

प्रवेशयेद्गर्भगेहं प्रभातसमये ततः।
आचार्यः स्नानपूर्वं तु नित्यं निर्वर्त्य पूर्ववत् ॥ 43 ॥

मूलम् - 43

प्रवेशयेद्गर्भगेहं प्रभातसमये ततः।
आचार्यः स्नानपूर्वं तु नित्यं निर्वर्त्य पूर्ववत् ॥ 43 ॥

विश्वास-प्रस्तुतिः - 44

यागार्थमण्डपे सर्वसंभारान् संप्रवेश्य च।
अतीते याममात्रे तु पूर्वाह्ने देशिकः स्वयम् ॥ 44 ॥

मूलम् - 44

यागार्थमण्डपे सर्वसंभारान् संप्रवेश्य च।
अतीते याममात्रे तु पूर्वाह्ने देशिकः स्वयम् ॥ 44 ॥

विश्वास-प्रस्तुतिः - 45

आचार्यैः साधकैश्चापि यजमानेन चान्वितः।
मुहूर्ते शोभने प्राप्ते प्रविश्य भगवद्‌गृहम् ॥ 45 ॥

मूलम् - 45

आचार्यैः साधकैश्चापि यजमानेन चान्वितः।
मुहूर्ते शोभने प्राप्ते प्रविश्य भगवद्‌गृहम् ॥ 45 ॥

विश्वास-प्रस्तुतिः - 46

अग्रतो देवदेवस्य स्थित्वा विज्ञापयेदिदम्।
“प्रसीद देवदेवेश! उत्सवः क्रियते मया ॥ 46 ॥

मूलम् - 46

अग्रतो देवदेवस्य स्थित्वा विज्ञापयेदिदम्।
“प्रसीद देवदेवेश! उत्सवः क्रियते मया ॥ 46 ॥

विश्वास-प्रस्तुतिः - 47

अस्मात् काललावद्यावत्पुष्पयागदिनान्तिमम्।
त्वत्प्रीतये जगन्नाथ! यद्यत् कर्म करोम्यहम् ॥ 47 ॥

मूलम् - 47

अस्मात् काललावद्यावत्पुष्पयागदिनान्तिमम्।
त्वत्प्रीतये जगन्नाथ! यद्यत् कर्म करोम्यहम् ॥ 47 ॥

विश्वास-प्रस्तुतिः - 48

तत्सर्वमात्मसात्कृत्वा कृपया मे प्रसीद ओम्”।
इति विज्ञाप्य देवेशं मूलमूर्तिगतं विभुम् ॥ 48 ॥

मूलम् - 48

तत्सर्वमात्मसात्कृत्वा कृपया मे प्रसीद ओम्”।
इति विज्ञाप्य देवेशं मूलमूर्तिगतं विभुम् ॥ 48 ॥

विश्वास-प्रस्तुतिः - 49

अर्घ्यगन्धादिनाभ्यर्च्य यात्रामूर्तिगतं तथा।
पूजयित्वा जगन्नाथं पादुके विनिवेद्य च ॥ 49 ॥

मूलम् - 49

अर्घ्यगन्धादिनाभ्यर्च्य यात्रामूर्तिगतं तथा।
पूजयित्वा जगन्नाथं पादुके विनिवेद्य च ॥ 49 ॥

विश्वास-प्रस्तुतिः - 50

श्रुतिघोषैश्च पुण्याहधोषैर्मङ्गलनिस्स्वनैः।
तथा जयजयारावैः शङ्खकाहलनिस्वनैः ॥ 50 ॥

मूलम् - 50

श्रुतिघोषैश्च पुण्याहधोषैर्मङ्गलनिस्स्वनैः।
तथा जयजयारावैः शङ्खकाहलनिस्वनैः ॥ 50 ॥

विश्वास-प्रस्तुतिः - 51

भेरीपटहवादित्रनृत्तगीतसमन्वितैः।
लाजानां प्रकरैः सार्धं पुष्पप्रकरमिश्रितै ॥ 51 ॥

मूलम् - 51

भेरीपटहवादित्रनृत्तगीतसमन्वितैः।
लाजानां प्रकरैः सार्धं पुष्पप्रकरमिश्रितै ॥ 51 ॥

विश्वास-प्रस्तुतिः - 52

मूर्तिपैर्देवदेवेशं तस्मादानीय बाह्यतः।
देवं प्रागाननं कृत्वा दर्शयित्वा समागतान् ॥ 52 ॥

मूलम् - 52

मूर्तिपैर्देवदेवेशं तस्मादानीय बाह्यतः।
देवं प्रागाननं कृत्वा दर्शयित्वा समागतान् ॥ 52 ॥

विश्वास-प्रस्तुतिः - 53

पुरुषानुत्सवं द्रष्टुं यात्रोपकरणान्यपि।
छत्रचामरपूर्वाणि विविधानि विशेषतः ॥ 53 ॥

मूलम् - 53

पुरुषानुत्सवं द्रष्टुं यात्रोपकरणान्यपि।
छत्रचामरपूर्वाणि विविधानि विशेषतः ॥ 53 ॥

विश्वास-प्रस्तुतिः - 54

यानमारोप्य देवेशं सौवर्णप्रभयान्विते।
अर्घ्याद्यैरर्चयित्वा तु पृथुकानि निवेद्य च ॥ 54 ॥

मूलम् - 54

यानमारोप्य देवेशं सौवर्णप्रभयान्विते।
अर्घ्याद्यैरर्चयित्वा तु पृथुकानि निवेद्य च ॥ 54 ॥

विश्वास-प्रस्तुतिः - 55

वहेयुर्ब्राह्नणा यानं ध्यायन्तो विहगेश्वरम्।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमम् ॥ 55 ॥

मूलम् - 55

वहेयुर्ब्राह्नणा यानं ध्यायन्तो विहगेश्वरम्।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमम् ॥ 55 ॥

विश्वास-प्रस्तुतिः - 56

प्रदक्षिणक्रमेणैव परिभ्रमणमाचरेत्।
व्राह्नणैर्ध्रियमाणैश्च कञ्चुकोष्णीषधारिभिः ॥ 56 ॥

मूलम् - 56

प्रदक्षिणक्रमेणैव परिभ्रमणमाचरेत्।
व्राह्नणैर्ध्रियमाणैश्च कञ्चुकोष्णीषधारिभिः ॥ 56 ॥

विश्वास-प्रस्तुतिः - 57

मौलिकैरातपत्रैश्च मायूरैश्च सुशोभनैः।
हेमदण्डसमायुक्तैस्तालवृन्तैस्तथाविधैः ॥ 57 ॥

मूलम् - 57

मौलिकैरातपत्रैश्च मायूरैश्च सुशोभनैः।
हेमदण्डसमायुक्तैस्तालवृन्तैस्तथाविधैः ॥ 57 ॥

विश्वास-प्रस्तुतिः - 58

पट्टजैर्विंविधैस्चापि चामरैश्च सितासितैः।
केतुदण्डैश्च विविधैर्वैजयन्तीविभूषितैः ॥ 58 ॥

मूलम् - 58

पट्टजैर्विंविधैस्चापि चामरैश्च सितासितैः।
केतुदण्डैश्च विविधैर्वैजयन्तीविभूषितैः ॥ 58 ॥

विश्वास-प्रस्तुतिः - 59

केवलै रत्नदण्डैश्च तथान्यैर्माङ्गलीयकैः।
वन्दिबृन्दैश्च विविधैर्वीणावणुस्वनैस्तथा ॥ 59 ॥

मूलम् - 59

केवलै रत्नदण्डैश्च तथान्यैर्माङ्गलीयकैः।
वन्दिबृन्दैश्च विविधैर्वीणावणुस्वनैस्तथा ॥ 59 ॥

विश्वास-प्रस्तुतिः - 60

सुवर्णश्रृंगघोषैश्च तथाऽन्यैर्मङ्गलस्वनैः।
गणिकादेवदासीभिस्तथा नागरिकैर्जनैः ॥ 60 ॥

मूलम् - 60

सुवर्णश्रृंगघोषैश्च तथाऽन्यैर्मङ्गलस्वनैः।
गणिकादेवदासीभिस्तथा नागरिकैर्जनैः ॥ 60 ॥

विश्वास-प्रस्तुतिः - 61

विप्रैर्वेत्रलताहस्तैः कञ्चुकोष्णीषभूषितैः।
अन्यैश्च भगवद्भक्तै र्ब्रह्णएः क्षत्रियादिभिः ॥ 61 ॥

मूलम् - 61

विप्रैर्वेत्रलताहस्तैः कञ्चुकोष्णीषभूषितैः।
अन्यैश्च भगवद्भक्तै र्ब्रह्णएः क्षत्रियादिभिः ॥ 61 ॥

विश्वास-प्रस्तुतिः - 62

राजोचितैः परिकरैरन्यैश्च विविधैः सह।
एवं कृत्वा तु देवेशं नयेदास्थानमण्टपे ॥ 62 ॥

मूलम् - 62

राजोचितैः परिकरैरन्यैश्च विविधैः सह।
एवं कृत्वा तु देवेशं नयेदास्थानमण्टपे ॥ 62 ॥

विश्वास-प्रस्तुतिः - 63

समारोप्य च सौवर्णे विष्टरे जगतांपतिम्।
अर्घ्यं पाद्यं तथाचामं मन्धमाल्यैस्च धूपकम् ॥ 63 ॥

मूलम् - 63

समारोप्य च सौवर्णे विष्टरे जगतांपतिम्।
अर्घ्यं पाद्यं तथाचामं मन्धमाल्यैस्च धूपकम् ॥ 63 ॥

विश्वास-प्रस्तुतिः - 64

अथार्हणजलं स्वच्छमपूपान् पृथुकानपि।
तर्पणं नारिकेलोत्थरसमाचमनं तथा ॥ 64 ॥

मूलम् - 64

अथार्हणजलं स्वच्छमपूपान् पृथुकानपि।
तर्पणं नारिकेलोत्थरसमाचमनं तथा ॥ 64 ॥

विश्वास-प्रस्तुतिः - 65

मुखवाससमोपेतं ताम्बूलं च क्रमेण तु।
निवेद्य देवदेवाय उपहारांस्तु दर्शयेत् ॥ 65 ॥

मूलम् - 65

मुखवाससमोपेतं ताम्बूलं च क्रमेण तु।
निवेद्य देवदेवाय उपहारांस्तु दर्शयेत् ॥ 65 ॥

विश्वास-प्रस्तुतिः - 66

ततस्तु मण्टपात्तस्मादानयेद्यागमण्टपे।
तत्र देवेशमारोप्य सौवर्णे भद्रविष्टरे ॥ 66 ॥

मूलम् - 66

ततस्तु मण्टपात्तस्मादानयेद्यागमण्टपे।
तत्र देवेशमारोप्य सौवर्णे भद्रविष्टरे ॥ 66 ॥

विश्वास-प्रस्तुतिः - 67

भूषणादीनि सर्वाणि तत्काले तु विसर्जयेत्।
स्नानपीठे समारोप्य नववस्त्रास्तृते विभुम् ॥ 67 ॥

मूलम् - 67

भूषणादीनि सर्वाणि तत्काले तु विसर्जयेत्।
स्नानपीठे समारोप्य नववस्त्रास्तृते विभुम् ॥ 67 ॥

विश्वास-प्रस्तुतिः - 68

ततो यात्राधिवासार्थमारभेन्मूलपूजनम्।
कुम्भस्थानसमीपे तु उपविश्यासने शुभे ॥ 68 ॥

मूलम् - 68

ततो यात्राधिवासार्थमारभेन्मूलपूजनम्।
कुम्भस्थानसमीपे तु उपविश्यासने शुभे ॥ 68 ॥

विश्वास-प्रस्तुतिः - 69

करशुद्ध्यादिपूर्वं तु सर्वं कृत्वा विधानतः।
प्राग्वद्यजेद्वुभुं सास्त्रं कुम्भे च करकान्विते ॥ 69 ॥

मूलम् - 69

करशुद्ध्यादिपूर्वं तु सर्वं कृत्वा विधानतः।
प्राग्वद्यजेद्वुभुं सास्त्रं कुम्भे च करकान्विते ॥ 69 ॥

विश्वास-प्रस्तुतिः - 70

स्थापनं तोरणादीनामर्चनं प्राग्वदाचरेत्।
अर्चनं कुमुदादीनामाचरेत्तु समाहितः ॥ 70 ॥

मूलम् - 70

स्थापनं तोरणादीनामर्चनं प्राग्वदाचरेत्।
अर्चनं कुमुदादीनामाचरेत्तु समाहितः ॥ 70 ॥

विश्वास-प्रस्तुतिः - 71

कुमुदादिद्वयोर्मध्ये गरुडं पूजयेत्ततः।
पुण्डरीकादिमध्ये च चक्रं संस्थाप्य पूजयेत् ॥ 71 ॥

मूलम् - 71

कुमुदादिद्वयोर्मध्ये गरुडं पूजयेत्ततः।
पुण्डरीकादिमध्ये च चक्रं संस्थाप्य पूजयेत् ॥ 71 ॥

विश्वास-प्रस्तुतिः - 72

शंखं चक्रं तथा लक्ष्मीं कुम्भं श्रीवत्समेव च।
दर्पणं स्वस्तिकं मत्स्ययुग्मं वै मंगलाष्टकम् ॥ 72 ॥

मूलम् - 72

शंखं चक्रं तथा लक्ष्मीं कुम्भं श्रीवत्समेव च।
दर्पणं स्वस्तिकं मत्स्ययुग्मं वै मंगलाष्टकम् ॥ 72 ॥

विश्वास-प्रस्तुतिः - 73

कुमुदादिसमीपे तु विन्यसेत् क्रमयोगतः।
सवस्त्रधान्यपीठे तु यथावित्तानुरूपतः ॥ 73 ॥

मूलम् - 73

कुमुदादिसमीपे तु विन्यसेत् क्रमयोगतः।
सवस्त्रधान्यपीठे तु यथावित्तानुरूपतः ॥ 73 ॥

विश्वास-प्रस्तुतिः - 74

एकभारैर्द्विभारैर्वा शालिभिः परिकल्पिते।
प्रत्येकं तण्डुलैश्चापि तिलैर्युक्ते सवस्त्रके ॥ 74 ॥

मूलम् - 74

एकभारैर्द्विभारैर्वा शालिभिः परिकल्पिते।
प्रत्येकं तण्डुलैश्चापि तिलैर्युक्ते सवस्त्रके ॥ 74 ॥

विश्वास-प्रस्तुतिः - 75

अष्टमंगलवियासेप्येवं सर्वत्र कल्पयेत्।
प्राग्वत् स्थले समावाह्य मन्त्रेशं पूजयेत्ततः ॥ 75 ॥

मूलम् - 75

अष्टमंगलवियासेप्येवं सर्वत्र कल्पयेत्।
प्राग्वत् स्थले समावाह्य मन्त्रेशं पूजयेत्ततः ॥ 75 ॥

विश्वास-प्रस्तुतिः - 76

स्नपनाना पुरोक्तानां पूर्वस्मिन्नवके द्विज!।
अधमोत्तमसंत्रं तु स्वनापरिकल्पयेत् ॥ 76 ॥

मूलम् - 76

स्नपनाना पुरोक्तानां पूर्वस्मिन्नवके द्विज!।
अधमोत्तमसंत्रं तु स्वनापरिकल्पयेत् ॥ 76 ॥

विश्वास-प्रस्तुतिः - 77

मण्डलस्येन्द्रदिग्भागे तत्पश्चाद्बिंबसन्निधिम्।
गत्वा समारभेत् पूजां यथोक्तविधिना द्विज! ॥ 77 ॥

मूलम् - 77

मण्डलस्येन्द्रदिग्भागे तत्पश्चाद्बिंबसन्निधिम्।
गत्वा समारभेत् पूजां यथोक्तविधिना द्विज! ॥ 77 ॥

विश्वास-प्रस्तुतिः - 78

सर्वं कृत्वा क्रमेणैव यावदात्मनिवेदनम्।
कृत्वा पुण्याहघोषं च कुर्यात् कौतुकबन्धनम् ॥ 78 ॥

मूलम् - 78

सर्वं कृत्वा क्रमेणैव यावदात्मनिवेदनम्।
कृत्वा पुण्याहघोषं च कुर्यात् कौतुकबन्धनम् ॥ 78 ॥

विश्वास-प्रस्तुतिः - 79

स्नानासनादिभिर्भोगैरिष्ट्वा चामलकान्तिमम्।
स्नपनं विधिवत् कृत्वा शिरः प्लोतादिकं तथा ॥ 79 ॥

मूलम् - 79

स्नानासनादिभिर्भोगैरिष्ट्वा चामलकान्तिमम्।
स्नपनं विधिवत् कृत्वा शिरः प्लोतादिकं तथा ॥ 79 ॥

विश्वास-प्रस्तुतिः - 80

दत्वा समानयेद्देवं प्राग्भागे मण्डलस्य तु।
सौवर्णे विष्टरे तत्र यजेत् सर्वेश्वरं विभुम् ॥ 80 ॥

मूलम् - 80

दत्वा समानयेद्देवं प्राग्भागे मण्डलस्य तु।
सौवर्णे विष्टरे तत्र यजेत् सर्वेश्वरं विभुम् ॥ 80 ॥

विश्वास-प्रस्तुतिः - 81

अलंकारासनाद्यैश्च भोगैः परमपावनैः।
प्रभूतमथ नैवेद्यं विनिवेद्य यथाक्रमम् ॥ 81 ॥

मूलम् - 81

अलंकारासनाद्यैश्च भोगैः परमपावनैः।
प्रभूतमथ नैवेद्यं विनिवेद्य यथाक्रमम् ॥ 81 ॥

विश्वास-प्रस्तुतिः - 82

सर्वं द्विजप्रदानान्तं कृत्वा वै कुण्डसन्निधिम्।
गत्वा संस्कारपूर्वं तु सर्वमापाद्य तत्र तु ॥ 82 ॥

मूलम् - 82

सर्वं द्विजप्रदानान्तं कृत्वा वै कुण्डसन्निधिम्।
गत्वा संस्कारपूर्वं तु सर्वमापाद्य तत्र तु ॥ 82 ॥

विश्वास-प्रस्तुतिः - 83

पूर्णाहुत्यवसानं तु गत्वा वै बिंबसन्निधिम्।
होमार्पणं समापाद्य संपूज्याज्यादिना ततः ॥ 83 ॥

मूलम् - 83

पूर्णाहुत्यवसानं तु गत्वा वै बिंबसन्निधिम्।
होमार्पणं समापाद्य संपूज्याज्यादिना ततः ॥ 83 ॥

विश्वास-प्रस्तुतिः - 84

पितॄणां संविभागं तु कृत्वा दत्वा बलिं क्रमात्।
विष्वक्सेनं नयेत् सांगं ततस्तस्माज्जगत्पतिम् ॥ 84 ॥

मूलम् - 84

पितॄणां संविभागं तु कृत्वा दत्वा बलिं क्रमात्।
विष्वक्सेनं नयेत् सांगं ततस्तस्माज्जगत्पतिम् ॥ 84 ॥

विश्वास-प्रस्तुतिः - 85

आस्थानमण्टपे नीत्वा समारोप्य च विष्टरे।
प्राप्तेऽपराह्नसमये कृत्वा संग्रहणं द्विज! ॥ 85 ॥

मूलम् - 85

आस्थानमण्टपे नीत्वा समारोप्य च विष्टरे।
प्राप्तेऽपराह्नसमये कृत्वा संग्रहणं द्विज! ॥ 85 ॥

विश्वास-प्रस्तुतिः - 86

पूर्ववत्तु मृदादीनां कृत्वा ग्रामप्रदक्षिणम्।
पूर्वोदितविधानेन कुर्यादंकुररोपणम् ॥ 86 ॥

मूलम् - 86

पूर्ववत्तु मृदादीनां कृत्वा ग्रामप्रदक्षिणम्।
पूर्वोदितविधानेन कुर्यादंकुररोपणम् ॥ 86 ॥

विश्वास-प्रस्तुतिः - 87

तत्काले देवदेवस्य विभवस्यानुगुण्यतः।
विधिवत् पूजनं कृत्वा प्रभूतान्नं निवेदयेत् ॥ 87 ॥

मूलम् - 87

तत्काले देवदेवस्य विभवस्यानुगुण्यतः।
विधिवत् पूजनं कृत्वा प्रभूतान्नं निवेदयेत् ॥ 87 ॥

विश्वास-प्रस्तुतिः - 88

स्थले भस्मनिभे पूर्वे पूजयेन्निष्फलं भवेत्।
योजयित्वा तु कुम्भस्थे वर्तयेन्मण्डलं ततः ॥ 88 ॥

मूलम् - 88

स्थले भस्मनिभे पूर्वे पूजयेन्निष्फलं भवेत्।
योजयित्वा तु कुम्भस्थे वर्तयेन्मण्डलं ततः ॥ 88 ॥

विश्वास-प्रस्तुतिः - 89

सिताद्यैः पावनै रागैस्ततः कुम्भे समर्पयेत्।
यथावद्देवदेवेशं पूजयेन्मण्डलं ततः ॥ 89 ॥

मूलम् - 89

सिताद्यैः पावनै रागैस्ततः कुम्भे समर्पयेत्।
यथावद्देवदेवेशं पूजयेन्मण्डलं ततः ॥ 89 ॥

विश्वास-प्रस्तुतिः - 90

यथोक्तेन विधानेन गत्वा वै बिंबसन्निधिम्।
तत्र संपूजयेद्देवं महता विभवेन तु ॥ 90 ॥

मूलम् - 90

यथोक्तेन विधानेन गत्वा वै बिंबसन्निधिम्।
तत्र संपूजयेद्देवं महता विभवेन तु ॥ 90 ॥

विश्वास-प्रस्तुतिः - 91

अग्नौ सन्तर्पणं कुर्यात् यथोक्तविधिना ततः।
गत्वा विंवसमीपे तु कृत्वा होमनिवेदनम् ॥ 91 ॥

मूलम् - 91

अग्नौ सन्तर्पणं कुर्यात् यथोक्तविधिना ततः।
गत्वा विंवसमीपे तु कृत्वा होमनिवेदनम् ॥ 91 ॥

विश्वास-प्रस्तुतिः - 92

सर्वं तु संविभागान्तं क्रमात् कृत्वा ततः परम्।
विभवे सति वै कुर्याद्‌भूयः संपूजनं विभोः ॥ 92 ॥

मूलम् - 92

सर्वं तु संविभागान्तं क्रमात् कृत्वा ततः परम्।
विभवे सति वै कुर्याद्‌भूयः संपूजनं विभोः ॥ 92 ॥

विश्वास-प्रस्तुतिः - 93

होमान्तमखिलं कृत्वा ततस्त्वास्थानमण्टपात्।
नयेत्तु देवदेवेशं प्रासादमुखमण्डपे ॥ 93 ॥

मूलम् - 93

होमान्तमखिलं कृत्वा ततस्त्वास्थानमण्टपात्।
नयेत्तु देवदेवेशं प्रासादमुखमण्डपे ॥ 93 ॥

विश्वास-प्रस्तुतिः - 94

प्रागाननं समारोप्य सौवर्णे भद्रविष्टरे।
यात्रार्थं देवदेवस्य कुर्यात् कौतुकबन्धनम् ॥ 94 ॥

मूलम् - 94

प्रागाननं समारोप्य सौवर्णे भद्रविष्टरे।
यात्रार्थं देवदेवस्य कुर्यात् कौतुकबन्धनम् ॥ 94 ॥

विश्वास-प्रस्तुतिः - 95

आदाय चरुपूर्वाणि बलिद्रव्याणि होमयेत्।
प्रत्येकं मूलमन्त्रेण द्वाविंशत्परिसंख्यया ॥ 95 ॥

मूलम् - 95

आदाय चरुपूर्वाणि बलिद्रव्याणि होमयेत्।
प्रत्येकं मूलमन्त्रेण द्वाविंशत्परिसंख्यया ॥ 95 ॥

विश्वास-प्रस्तुतिः - 96

ध्यात्वा ध्यात्वा तु होतव्यं तत्तद्रात्र्यधिदैवतम्।
भवेत् प्रथमरात्रं तु वासुदेवाधिदैवतम् ॥ 96 ॥

मूलम् - 96

ध्यात्वा ध्यात्वा तु होतव्यं तत्तद्रात्र्यधिदैवतम्।
भवेत् प्रथमरात्रं तु वासुदेवाधिदैवतम् ॥ 96 ॥

विश्वास-प्रस्तुतिः - 97

संकर्षदैवतं विद्धि द्वितीयं तु, तृतीयकम्।
प्रद्युम्नदैवतं, चान्यदनिरुद्धाधिदैवतम् ॥ 97 ॥

मूलम् - 97

संकर्षदैवतं विद्धि द्वितीयं तु, तृतीयकम्।
प्रद्युम्नदैवतं, चान्यदनिरुद्धाधिदैवतम् ॥ 97 ॥

विश्वास-प्रस्तुतिः - 98

भवेत् पञ्चमरात्रं यत् तन्नारायणदैवतम्।
हयग्रीवाधिदैवं तु षष्ठरात्रमुदाहृतम् ॥ 98 ॥

मूलम् - 98

भवेत् पञ्चमरात्रं यत् तन्नारायणदैवतम्।
हयग्रीवाधिदैवं तु षष्ठरात्रमुदाहृतम् ॥ 98 ॥

विश्वास-प्रस्तुतिः - 99

सप्तमं वैप्णवं त्वन्यन्नरसिंहाधिदैवतम्।
वराहदैवतं रात्रं नवमं द्विजसत्तम! ॥ 99 ॥

मूलम् - 99

सप्तमं वैप्णवं त्वन्यन्नरसिंहाधिदैवतम्।
वराहदैवतं रात्रं नवमं द्विजसत्तम! ॥ 99 ॥

विश्वास-प्रस्तुतिः - 100

एकाहमुत्सवं विद्धि वासुदेवाधिदैवतम्।
त्र्यहं तु वासुदेवादिप्रद्युम्नान्ताधिदैवतम् ॥ 100 ॥

मूलम् - 100

एकाहमुत्सवं विद्धि वासुदेवाधिदैवतम्।
त्र्यहं तु वासुदेवादिप्रद्युम्नान्ताधिदैवतम् ॥ 100 ॥

विश्वास-प्रस्तुतिः - 101

पञ्चाहं वासुदेवादिपञ्चमूर्त्यधिदैवतम्।
सप्ताहं वासुदेवादिसप्तमूर्त्यधिदैवतम् ॥ 101 ॥

मूलम् - 101

पञ्चाहं वासुदेवादिपञ्चमूर्त्यधिदैवतम्।
सप्ताहं वासुदेवादिसप्तमूर्त्यधिदैवतम् ॥ 101 ॥

विश्वास-प्रस्तुतिः - 102

द्वादशाहोत्सवं विप्र! केशवाद्यधिदैवतम्।
सर्वं पञ्चदशहादि वासुदेवाधिदैवतम् ॥ 102 ॥

मूलम् - 102

द्वादशाहोत्सवं विप्र! केशवाद्यधिदैवतम्।
सर्वं पञ्चदशहादि वासुदेवाधिदैवतम् ॥ 102 ॥

विश्वास-प्रस्तुतिः - 103

दद्यात् प्रथमरात्रे तु बलिं बलिविधानवत्।
पललै रजनीचूर्णैः सलाजदधिसक्तुभिः ॥ 103 ॥

मूलम् - 103

दद्यात् प्रथमरात्रे तु बलिं बलिविधानवत्।
पललै रजनीचूर्णैः सलाजदधिसक्तुभिः ॥ 103 ॥

विश्वास-प्रस्तुतिः - 104

दिनेष्वपि च सर्वेषु द्रव्यैरेभिर्बलिं ददेत्।
यद्वा द्वितीयरात्रे तु दद्याच्च तिलतण्डुलैः ॥ 104 ॥

मूलम् - 104

दिनेष्वपि च सर्वेषु द्रव्यैरेभिर्बलिं ददेत्।
यद्वा द्वितीयरात्रे तु दद्याच्च तिलतण्डुलैः ॥ 104 ॥

विश्वास-प्रस्तुतिः - 105

दद्यात् तृतीयरात्रौ तु धानास्त्वंबिकलाजकैः।
दद्याच्चतुर्थरात्रे तु बलिं देशिकसत्तमः ॥ 105 ॥

मूलम् - 105

दद्यात् तृतीयरात्रौ तु धानास्त्वंबिकलाजकैः।
दद्याच्चतुर्थरात्रे तु बलिं देशिकसत्तमः ॥ 105 ॥

विश्वास-प्रस्तुतिः - 106

नालिकेरपयःसक्तुशालिपिष्टैर्विमिश्रितैः।
पञ्चमे तु बलिं दद्यात् पझबीजैः सहाक्षतैः ॥ 106 ॥

मूलम् - 106

नालिकेरपयःसक्तुशालिपिष्टैर्विमिश्रितैः।
पञ्चमे तु बलिं दद्यात् पझबीजैः सहाक्षतैः ॥ 106 ॥

विश्वास-प्रस्तुतिः - 107

षष्ठरात्रे बलिं दद्यादपूपैश्चरुणा सह।
अथवा सर्वरात्रेषु प्रदद्याच्चरुणा सह ॥ 107 ॥

मूलम् - 107

षष्ठरात्रे बलिं दद्यादपूपैश्चरुणा सह।
अथवा सर्वरात्रेषु प्रदद्याच्चरुणा सह ॥ 107 ॥

विश्वास-प्रस्तुतिः - 108

तत्तद्दिनोदितैर्द्रव्यैर्बलिं तु द्विजसत्तम!।
सप्तमे तु गुलान्नेन, पायसान्नेन चाष्टमे ॥ 108 ॥

मूलम् - 108

तत्तद्दिनोदितैर्द्रव्यैर्बलिं तु द्विजसत्तम!।
सप्तमे तु गुलान्नेन, पायसान्नेन चाष्टमे ॥ 108 ॥

विश्वास-प्रस्तुतिः - 109

नवमे कृसरान्नेन बलिं दद्याद्विचक्षणः।
द्वादशाहोत्सवे विप्र! माषान्नं दशमेऽहनि ॥ 109 ॥

मूलम् - 109

नवमे कृसरान्नेन बलिं दद्याद्विचक्षणः।
द्वादशाहोत्सवे विप्र! माषान्नं दशमेऽहनि ॥ 109 ॥

विश्वास-प्रस्तुतिः - 110

शुद्धान्नमथवा विप्र! मुद्गान्नं तु परेऽहनि।
द्वादशे सर्वबलयः शुद्धान्नं शालिजं तु वा ॥ 110 ॥

मूलम् - 110

शुद्धान्नमथवा विप्र! मुद्गान्नं तु परेऽहनि।
द्वादशे सर्वबलयः शुद्धान्नं शालिजं तु वा ॥ 110 ॥

विश्वास-प्रस्तुतिः - 111

क्षीरं दध्याज्यसंयुक्तं गुलखण्डसमन्वितम्।
इतः परं तु सर्वत्र शुद्धान्नं पायसं तु वा ॥ 111 ॥

मूलम् - 111

क्षीरं दध्याज्यसंयुक्तं गुलखण्डसमन्वितम्।
इतः परं तु सर्वत्र शुद्धान्नं पायसं तु वा ॥ 111 ॥

विश्वास-प्रस्तुतिः - 112

एकाहादिचतुष्के तु भवेत्तत्तद्दिनोदितम्।
प्रत्येकमाढकं ग्राह्यं बलिद्रव्यं द्विजोत्तम! ॥ 112 ॥

मूलम् - 112

एकाहादिचतुष्के तु भवेत्तत्तद्दिनोदितम्।
प्रत्येकमाढकं ग्राह्यं बलिद्रव्यं द्विजोत्तम! ॥ 112 ॥

विश्वास-प्रस्तुतिः - 113

तदर्धं वाऽथ पादं वा यथावित्तानुरूपतः।
एवं द्रव्याणि हुत्वा तु अलंकृत्य विशेषतः ॥ 113 ॥

मूलम् - 113

तदर्धं वाऽथ पादं वा यथावित्तानुरूपतः।
एवं द्रव्याणि हुत्वा तु अलंकृत्य विशेषतः ॥ 113 ॥

विश्वास-प्रस्तुतिः - 114

यात्राबिंबगतं देवं विचित्रैर्वसनैस्तथा।
विचित्रैर्भूषणैश्चापि माल्यैर्नानाविधैस्तथा ॥ 114 ॥

मूलम् - 114

यात्राबिंबगतं देवं विचित्रैर्वसनैस्तथा।
विचित्रैर्भूषणैश्चापि माल्यैर्नानाविधैस्तथा ॥ 114 ॥

विश्वास-प्रस्तुतिः - 115

मुहूर्ते शोभने प्राप्ते सर्वमंगलसंयुतम्।
त्यन्दनं वा गजं वापि यानं सौपर्णमेव वा ॥ 115 ॥

मूलम् - 115

मुहूर्ते शोभने प्राप्ते सर्वमंगलसंयुतम्।
त्यन्दनं वा गजं वापि यानं सौपर्णमेव वा ॥ 115 ॥

विश्वास-प्रस्तुतिः - 116

सपुष्पहेमप्रभया युक्तं पुष्पाद्यलंकृतम्।
सौवर्णेन विमानेन युक्तं मायूरकेन वा ॥ 116 ॥

मूलम् - 116

सपुष्पहेमप्रभया युक्तं पुष्पाद्यलंकृतम्।
सौवर्णेन विमानेन युक्तं मायूरकेन वा ॥ 116 ॥

विश्वास-प्रस्तुतिः - 117

समानीय तु संप्रोक्ष्य ध्यात्वा गरुडरूपिणम्।
तन्मन्त्रेण समब्यर्च्य यानमर्घ्यादिभिस्ततः ॥ 117 ॥

मूलम् - 117

समानीय तु संप्रोक्ष्य ध्यात्वा गरुडरूपिणम्।
तन्मन्त्रेण समब्यर्च्य यानमर्घ्यादिभिस्ततः ॥ 117 ॥

विश्वास-प्रस्तुतिः - 118

कृत्वा पुण्याहघोषं च श्रुतिघोषसमन्वितम्।
शङ्खतूर्यादिसंयुक्तं प्रादक्षिण्यक्रमेण तु ॥ 118 ॥

मूलम् - 118

कृत्वा पुण्याहघोषं च श्रुतिघोषसमन्वितम्।
शङ्खतूर्यादिसंयुक्तं प्रादक्षिण्यक्रमेण तु ॥ 118 ॥

विश्वास-प्रस्तुतिः - 119

याने तत्र समारोप्य यात्रामूर्तिगतं विभुम्।
यात्रार्थं तत्र देवाय सार्घ्यं पाद्यं तथैव च ॥ 119 ॥

मूलम् - 119

याने तत्र समारोप्य यात्रामूर्तिगतं विभुम्।
यात्रार्थं तत्र देवाय सार्घ्यं पाद्यं तथैव च ॥ 119 ॥

विश्वास-प्रस्तुतिः - 120

आचामं गन्धमाल्ये च दीपं धूपं तथैव च।
अर्हणं मधुपर्कं च नैवेद्यं विविधं तथा ॥ 120 ॥

मूलम् - 120

आचामं गन्धमाल्ये च दीपं धूपं तथैव च।
अर्हणं मधुपर्कं च नैवेद्यं विविधं तथा ॥ 120 ॥

विश्वास-प्रस्तुतिः - 121

पृथुकाद्यं पानकं च तर्पणाचमने तथा।
ताम्बूलं विनिवेद्याथ जपं कृत्वा विधानतः ॥ 121 ॥

मूलम् - 121

पृथुकाद्यं पानकं च तर्पणाचमने तथा।
ताम्बूलं विनिवेद्याथ जपं कृत्वा विधानतः ॥ 121 ॥

विश्वास-प्रस्तुतिः - 122

अग्नौ संतर्पणं कुर्मात् तत्काले वापि होमयेत्।
बलिद्रव्याणि सर्वाणि यथाकालानुरूपतः ॥ 122 ॥

मूलम् - 122

अग्नौ संतर्पणं कुर्मात् तत्काले वापि होमयेत्।
बलिद्रव्याणि सर्वाणि यथाकालानुरूपतः ॥ 122 ॥

विश्वास-प्रस्तुतिः - 123

रथयाने विशेष तु समाकर्णय सांप्रतम्।
मुक्ताप्रपावितानैश्च सौवर्णैर्माञ्जरीगणैः ॥ 123 ॥

मूलम् - 123

रथयाने विशेष तु समाकर्णय सांप्रतम्।
मुक्ताप्रपावितानैश्च सौवर्णैर्माञ्जरीगणैः ॥ 123 ॥

विश्वास-प्रस्तुतिः - 124

मुक्तादामसमेतैश्च विचित्रैः पुष्पदामभिः।
हैमेन च वितानेन प्रभया च विशेषतः ॥ 124 ॥

मूलम् - 124

मुक्तादामसमेतैश्च विचित्रैः पुष्पदामभिः।
हैमेन च वितानेन प्रभया च विशेषतः ॥ 124 ॥

विश्वास-प्रस्तुतिः - 125

मध्यतो भद्रपीठेन सौवर्णेन तथैव च।
ध्वजैश्च विविधै रम्यै पताकाभिश्च सर्वतः ॥ 125 ॥

मूलम् - 125

मध्यतो भद्रपीठेन सौवर्णेन तथैव च।
ध्वजैश्च विविधै रम्यै पताकाभिश्च सर्वतः ॥ 125 ॥

विश्वास-प्रस्तुतिः - 126

भूषयेद्रथयानं तु तथा गरुडकेतुना।
तत्र देवं समारोप्य पूजयेत् पूर्ववर्त्मना ॥ 126 ॥

मूलम् - 126

भूषयेद्रथयानं तु तथा गरुडकेतुना।
तत्र देवं समारोप्य पूजयेत् पूर्ववर्त्मना ॥ 126 ॥

विश्वास-प्रस्तुतिः - 127

आचार्याः साधकाश्चापि रथस्योर्ध्वतलस्थिताः।
तस्याधस्तात् स्थले स्थाप्याः पश्चिमे छत्रधारकाः ॥ 127 ॥

मूलम् - 127

आचार्याः साधकाश्चापि रथस्योर्ध्वतलस्थिताः।
तस्याधस्तात् स्थले स्थाप्याः पश्चिमे छत्रधारकाः ॥ 127 ॥

विश्वास-प्रस्तुतिः - 128

तत्र तत्पार्श्वतः स्थाप्यौ मायूरच्छत्रधारिणौ।
दक्षिणोत्तरपार्श्वस्थावग्रे चामरधारिणौ ॥ 128 ॥

मूलम् - 128

तत्र तत्पार्श्वतः स्थाप्यौ मायूरच्छत्रधारिणौ।
दक्षिणोत्तरपार्श्वस्थावग्रे चामरधारिणौ ॥ 128 ॥

विश्वास-प्रस्तुतिः - 129

सारथिस्तत्स्थले स्थाप्यस्त्वग्रतो मध्यदेशतः।
ततस्तु गरुडाद्यैश्च चक्रेण गरुडेन वा ॥ 129 ॥

मूलम् - 129

सारथिस्तत्स्थले स्थाप्यस्त्वग्रतो मध्यदेशतः।
ततस्तु गरुडाद्यैश्च चक्रेण गरुडेन वा ॥ 129 ॥

विश्वास-प्रस्तुतिः - 130

अष्टाभिर्मंगलैश्चापि दीक्षितैर्ब्राह्नणैर्धृतैः।
अर्घ्यगन्धादिभिश्चैव सार्धं घण्टारवैस्तथा ॥ 130 ॥

मूलम् - 130

अष्टाभिर्मंगलैश्चापि दीक्षितैर्ब्राह्नणैर्धृतैः।
अर्घ्यगन्धादिभिश्चैव सार्धं घण्टारवैस्तथा ॥ 130 ॥

विश्वास-प्रस्तुतिः - 131

शङ्खभेर्यादिभिश्चैव छत्रेण दीपधारकैः।
आचार्यः साधको वापि बलिं दद्याद्विधानतः ॥ 131 ॥

मूलम् - 131

शङ्खभेर्यादिभिश्चैव छत्रेण दीपधारकैः।
आचार्यः साधको वापि बलिं दद्याद्विधानतः ॥ 131 ॥

विश्वास-प्रस्तुतिः - 132

प्रासादद्वारमारभ्य ग्राममध्यान्तमेव च।
प्रथमावृतिमारभ्य सर्वेष्वावरणेष्वपि ॥ 132 ॥

मूलम् - 132

प्रासादद्वारमारभ्य ग्राममध्यान्तमेव च।
प्रथमावृतिमारभ्य सर्वेष्वावरणेष्वपि ॥ 132 ॥

विश्वास-प्रस्तुतिः - 133

देवयानं परिब्रम्य प्रादक्षिण्यक्रमेण तु।
रथ्यावरणपर्यन्तं तत्पश्चाद्भ्रामयेद्‌द्विज! ॥ 133 ॥

मूलम् - 133

देवयानं परिब्रम्य प्रादक्षिण्यक्रमेण तु।
रथ्यावरणपर्यन्तं तत्पश्चाद्भ्रामयेद्‌द्विज! ॥ 133 ॥

विश्वास-प्रस्तुतिः - 134

ग्रामे वा नगरे वापि पत्तेन वा महामते!।
बृहति स्यन्दने याने यानेनान्येन वान्तरा ॥ 134 ॥

मूलम् - 134

ग्रामे वा नगरे वापि पत्तेन वा महामते!।
बृहति स्यन्दने याने यानेनान्येन वान्तरा ॥ 134 ॥

विश्वास-प्रस्तुतिः - 135

भ्रामयित्वा तु तत्पश्चाद्‌बृहति स्यन्दनादिके।
देवेशं तु समारोप्य भ्रामयेद्‌ग्रामवीधिषु ॥ 135 ॥

मूलम् - 135

भ्रामयित्वा तु तत्पश्चाद्‌बृहति स्यन्दनादिके।
देवेशं तु समारोप्य भ्रामयेद्‌ग्रामवीधिषु ॥ 135 ॥

विश्वास-प्रस्तुतिः - 136

देवस्य पुरतो दूराद्गच्छेयुर्बलिदायिनः।
ध्वजदण्डधराः पश्चाच्छंखकाहलधारकाः ॥ 136 ॥

मूलम् - 136

देवस्य पुरतो दूराद्गच्छेयुर्बलिदायिनः।
ध्वजदण्डधराः पश्चाच्छंखकाहलधारकाः ॥ 136 ॥

विश्वास-प्रस्तुतिः - 137

भेरीपटहपपूर्वाणां वाद्यानां घोषणोन्मुखाः।
तत्पृष्टे गीतकाश्चापि वन्दिबृन्दास्तथैव च ॥ 137 ॥

मूलम् - 137

भेरीपटहपपूर्वाणां वाद्यानां घोषणोन्मुखाः।
तत्पृष्टे गीतकाश्चापि वन्दिबृन्दास्तथैव च ॥ 137 ॥

विश्वास-प्रस्तुतिः - 138

सुवेषा भगवद्भक्तास्तथैव गणिकाजनाः।
दासीगणाश्च तत्पृष्टे शोणदण्डवहा जनाः ॥ 138 ॥

मूलम् - 138

सुवेषा भगवद्भक्तास्तथैव गणिकाजनाः।
दासीगणाश्च तत्पृष्टे शोणदण्डवहा जनाः ॥ 138 ॥

विश्वास-प्रस्तुतिः - 139

लीलांगानि विचित्राणि धारयन्तस्तथैव च।
वहन्तः पादुकादीनि ततो देवस्य पार्श्वतः ॥ 139 ॥

मूलम् - 139

लीलांगानि विचित्राणि धारयन्तस्तथैव च।
वहन्तः पादुकादीनि ततो देवस्य पार्श्वतः ॥ 139 ॥

विश्वास-प्रस्तुतिः - 140

अग्रतः पृष्ठतश्चापि जनाश्चामरधारिणः।
आतपत्रांश्च विविधान् तालवृन्तांस्तथैव च ॥ 140 ॥

मूलम् - 140

अग्रतः पृष्ठतश्चापि जनाश्चामरधारिणः।
आतपत्रांश्च विविधान् तालवृन्तांस्तथैव च ॥ 140 ॥

विश्वास-प्रस्तुतिः - 141

धारयन्तो द्विजाश्वापि ततो देवस्य दक्षिणे।
“कर्मारंभादि” पठतो विप्रानेकायनान् न्यसेत् ॥ 141 ॥

मूलम् - 141

धारयन्तो द्विजाश्वापि ततो देवस्य दक्षिणे।
“कर्मारंभादि” पठतो विप्रानेकायनान् न्यसेत् ॥ 141 ॥

विश्वास-प्रस्तुतिः - 142

ऋक्सामपूर्वान् वामेपि पृष्ठतो वा निवेशयेत्।
सुमृष्टधूपपात्रांश्च वहन्तः पृष्ठतस्तथा ॥ 142 ॥

मूलम् - 142

ऋक्सामपूर्वान् वामेपि पृष्ठतो वा निवेशयेत्।
सुमृष्टधूपपात्रांश्च वहन्तः पृष्ठतस्तथा ॥ 142 ॥

विश्वास-प्रस्तुतिः - 143

पुरतो “ऽस्त्रं” स्मरन् यायात् स्वयं विघ्नांस्तु सूदयन्।
अनेकशतसंख्यांश्च दीपानतिसमुज्ज्वलान् ॥ 143 ॥

मूलम् - 143

पुरतो “ऽस्त्रं” स्मरन् यायात् स्वयं विघ्नांस्तु सूदयन्।
अनेकशतसंख्यांश्च दीपानतिसमुज्ज्वलान् ॥ 143 ॥

विश्वास-प्रस्तुतिः - 144

धारयन्तो जना विप्र! देवस्योभयपार्श्वयोः।
गच्छेयुः पङ्‌क्तिरूपेण यावन्तो बलिवाहकाः ॥ 144 ॥

मूलम् - 144

धारयन्तो जना विप्र! देवस्योभयपार्श्वयोः।
गच्छेयुः पङ्‌क्तिरूपेण यावन्तो बलिवाहकाः ॥ 144 ॥

विश्वास-प्रस्तुतिः - 145

सर्वाणि राजचिह्नानि वहन्तो देवसन्निधौ।
गच्छेयुरन्ये भक्ताश्च ब्राह्नणाः क्षत्रियास्तथा ॥ 145 ॥

मूलम् - 145

सर्वाणि राजचिह्नानि वहन्तो देवसन्निधौ।
गच्छेयुरन्ये भक्ताश्च ब्राह्नणाः क्षत्रियास्तथा ॥ 145 ॥

विश्वास-प्रस्तुतिः - 146

वैश्याः शूद्राश्च चत्वारो ह्याश्रमस्थास्तथैव च।
सर्वशास्त्रेषु कुशला भगवद्भाविनस्तथा ॥ 146 ॥

मूलम् - 146

वैश्याः शूद्राश्च चत्वारो ह्याश्रमस्थास्तथैव च।
सर्वशास्त्रेषु कुशला भगवद्भाविनस्तथा ॥ 146 ॥

विश्वास-प्रस्तुतिः - 147

सेवेरन् सर्वतोदिक्कं वीक्षमाणाः परं विभुम्।
ग्रामस्यैन्द्रादियोगेन दिशासु विदिशासु च ॥ 147 ॥

मूलम् - 147

सेवेरन् सर्वतोदिक्कं वीक्षमाणाः परं विभुम्।
ग्रामस्यैन्द्रादियोगेन दिशासु विदिशासु च ॥ 147 ॥

विश्वास-प्रस्तुतिः - 148

मद्ये च कुमुदादीनां सगणानां क्रमेण तु।
पीठिकासु बलिं दद्यान्निर्मितासु पुरैव तु ॥ 148 ॥

मूलम् - 148

मद्ये च कुमुदादीनां सगणानां क्रमेण तु।
पीठिकासु बलिं दद्यान्निर्मितासु पुरैव तु ॥ 148 ॥

विश्वास-प्रस्तुतिः - 149

कुमुदादेर्गणानां तु नामानि क्रमशः श्रृणु।
उत्कटः प्रकटश्चैव उन्मुखो विमुखस्तथा ॥ 149 ॥

मूलम् - 149

कुमुदादेर्गणानां तु नामानि क्रमशः श्रृणु।
उत्कटः प्रकटश्चैव उन्मुखो विमुखस्तथा ॥ 149 ॥

विश्वास-प्रस्तुतिः - 150

अश्वग्रीवोऽश्ववदनः अश्वजिह्नस्तथैव च।
हस्तिवक्त्रश्च कुमुदः हस्तिपादश्च केशवः ॥ 150 ॥

मूलम् - 150

अश्वग्रीवोऽश्ववदनः अश्वजिह्नस्तथैव च।
हस्तिवक्त्रश्च कुमुदः हस्तिपादश्च केशवः ॥ 150 ॥

विश्वास-प्रस्तुतिः - 151

वामनो नरकश्चापि नरो मर्दन एव च।
मन्ददृष्टिश्च कन्तुश्च तथा कन्तुकलोचनः ॥ 151 ॥

मूलम् - 151

वामनो नरकश्चापि नरो मर्दन एव च।
मन्ददृष्टिश्च कन्तुश्च तथा कन्तुकलोचनः ॥ 151 ॥

विश्वास-प्रस्तुतिः - 152

पटहाक्षो विशालाक्षः क्षामकः क्षमकस्तथा।
पाण्डरः पाण्डुपृष्ठश्च दुर्दिनः सुदिनस्तथा ॥ 152 ॥

मूलम् - 152

पटहाक्षो विशालाक्षः क्षामकः क्षमकस्तथा।
पाण्डरः पाण्डुपृष्ठश्च दुर्दिनः सुदिनस्तथा ॥ 152 ॥

विश्वास-प्रस्तुतिः - 153

वामदेवो महादेवो महाग्निर्मधुसूदनः।
कनकः कालकश्चैव भावनो भवनस्तथा ॥ 153 ॥

मूलम् - 153

वामदेवो महादेवो महाग्निर्मधुसूदनः।
कनकः कालकश्चैव भावनो भवनस्तथा ॥ 153 ॥

विश्वास-प्रस्तुतिः - 154

भानुमान् बानुवेगश्च भास्करश्चाप्यभास्करः।
विश्वसेनो विसेनश्च विष्वक्‌सेनो विसारणः ॥ 154 ॥

मूलम् - 154

भानुमान् बानुवेगश्च भास्करश्चाप्यभास्करः।
विश्वसेनो विसेनश्च विष्वक्‌सेनो विसारणः ॥ 154 ॥

विश्वास-प्रस्तुतिः - 155

विस्तारो निस्तरश्चैव विदण्डी दण्ड एव च।
कामदः कामुकश्चापि कामभृत् कामनाशनः ॥ 155 ॥

मूलम् - 155

विस्तारो निस्तरश्चैव विदण्डी दण्ड एव च।
कामदः कामुकश्चापि कामभृत् कामनाशनः ॥ 155 ॥

विश्वास-प्रस्तुतिः - 156

पञ्चाशच्च गणा ह्येत् प्राचीं दिशमुपाश्रिताः।
एते पारिषदाः प्रोक्ताः कुमुदस्य वशानुगाः ॥ 156 ॥

मूलम् - 156

पञ्चाशच्च गणा ह्येत् प्राचीं दिशमुपाश्रिताः।
एते पारिषदाः प्रोक्ताः कुमुदस्य वशानुगाः ॥ 156 ॥

विश्वास-प्रस्तुतिः - 157

शतं शतं गृहगणाः एकैकस्यानुयायिनः।
एषां कुमुदपूर्वाणां क्रमेण च बलिं हरेत् ॥ 157 ॥

मूलम् - 157

शतं शतं गृहगणाः एकैकस्यानुयायिनः।
एषां कुमुदपूर्वाणां क्रमेण च बलिं हरेत् ॥ 157 ॥

विश्वास-प्रस्तुतिः - 158

पार्श्वस्थमण्डलेष्वेवं गृहेभ्यस्तु बलिं हरेत्।
देवा एते गृहाश्चापि ऐन्द्रे तु बलिभागिनः ॥ 158 ॥

मूलम् - 158

पार्श्वस्थमण्डलेष्वेवं गृहेभ्यस्तु बलिं हरेत्।
देवा एते गृहाश्चापि ऐन्द्रे तु बलिभागिनः ॥ 158 ॥

विश्वास-प्रस्तुतिः - 159

आग्नेयो निधनस्चैव अग्निजिह्वो हुताशनः।
अग्निरूपोऽग्निवर्णश्चाप्यग्निवर्णोऽहिरेव च ॥ 159 ॥

मूलम् - 159

आग्नेयो निधनस्चैव अग्निजिह्वो हुताशनः।
अग्निरूपोऽग्निवर्णश्चाप्यग्निवर्णोऽहिरेव च ॥ 159 ॥

विश्वास-प्रस्तुतिः - 160

अग्निवक्त्रो महावक्त्रे महासेनो महोदरः।
करालः काकजिह्वश्च काकवक्त्रोऽग्निवक्त्रकः ॥ 160 ॥

मूलम् - 160

अग्निवक्त्रो महावक्त्रे महासेनो महोदरः।
करालः काकजिह्वश्च काकवक्त्रोऽग्निवक्त्रकः ॥ 160 ॥

विश्वास-प्रस्तुतिः - 161

मण्डुर्मण्डूकवक्त्रश्च देवो देवलकस्तथा।
शर्वकः शमकश्चापि शंकुः शंकुश्रवास्तथा ॥ 161 ॥

मूलम् - 161

मण्डुर्मण्डूकवक्त्रश्च देवो देवलकस्तथा।
शर्वकः शमकश्चापि शंकुः शंकुश्रवास्तथा ॥ 161 ॥

विश्वास-प्रस्तुतिः - 162

मारीचो द्रोणमारीचो महिषो माहिषस्तथा।
कुम्भनासो विनासश्च कुम्भकर्णो विकर्णकः ॥ 162 ॥

मूलम् - 162

मारीचो द्रोणमारीचो महिषो माहिषस्तथा।
कुम्भनासो विनासश्च कुम्भकर्णो विकर्णकः ॥ 162 ॥

विश्वास-प्रस्तुतिः - 163

विदारी विक्रमश्चैव मस्करी मस्करस्तथा।
सूकरः सूकरास्यश्च शशः शशमुखसस्तथा ॥ 163 ॥

मूलम् - 163

विदारी विक्रमश्चैव मस्करी मस्करस्तथा।
सूकरः सूकरास्यश्च शशः शशमुखसस्तथा ॥ 163 ॥

विश्वास-प्रस्तुतिः - 164

सिंहः सिंहमुखश्चैव नरसिंहो नरस्तथा।
कालधृक्कालसूत्रश्च सूत्रकः सूत्र एव च ॥ 164 ॥

मूलम् - 164

सिंहः सिंहमुखश्चैव नरसिंहो नरस्तथा।
कालधृक्कालसूत्रश्च सूत्रकः सूत्र एव च ॥ 164 ॥

विश्वास-प्रस्तुतिः - 165

विनाली नालकण्ठश्च आग्नेयीं दिशमाश्रिताः।
कुमुदाक्षगणा ह्येते संयुक्ता आसुरैर्गणैः ॥ 165 ॥

मूलम् - 165

विनाली नालकण्ठश्च आग्नेयीं दिशमाश्रिताः।
कुमुदाक्षगणा ह्येते संयुक्ता आसुरैर्गणैः ॥ 165 ॥

विश्वास-प्रस्तुतिः - 166

आग्नेय्यां पीठिकायां तु कुमुदाक्षबलिं हरेत्।
धर्मो धर्मधरो धर्मो धर्मराजो धनुर्धरः ॥ 166 ॥

मूलम् - 166

आग्नेय्यां पीठिकायां तु कुमुदाक्षबलिं हरेत्।
धर्मो धर्मधरो धर्मो धर्मराजो धनुर्धरः ॥ 166 ॥

विश्वास-प्रस्तुतिः - 167

विनयः प्रश्रयश्चैव निश्रेयो निर्गुणस्तथा।
अलसः कुणपश्चैव क्रूरबाहुश्च कुंजरः ॥ 167 ॥

मूलम् - 167

विनयः प्रश्रयश्चैव निश्रेयो निर्गुणस्तथा।
अलसः कुणपश्चैव क्रूरबाहुश्च कुंजरः ॥ 167 ॥

विश्वास-प्रस्तुतिः - 168

प्रांशुर्दमननिष्कोपौ निरनुक्रोशनिर्ममौ।
विभवोऽविभवश्चैव हुताशो बहुरेव च ॥ 168 ॥

मूलम् - 168

प्रांशुर्दमननिष्कोपौ निरनुक्रोशनिर्ममौ।
विभवोऽविभवश्चैव हुताशो बहुरेव च ॥ 168 ॥

विश्वास-प्रस्तुतिः - 169

ऊर्ध्वरक्षणसंज्ञश्च एकलः पाकलस्तथा।
कंकटः कटकश्चेव अवटः शंखचक्रिणौ ॥ 169 ॥

मूलम् - 169

ऊर्ध्वरक्षणसंज्ञश्च एकलः पाकलस्तथा।
कंकटः कटकश्चेव अवटः शंखचक्रिणौ ॥ 169 ॥

विश्वास-प्रस्तुतिः - 170

गदी खड्‌गी च शार्ङ्गी च तथा शार्ङ्गधरो मुने!।
वासुदेवोऽपि भद्रश्च केतुमान् केतुकस्तथा ॥ 170 ॥

मूलम् - 170

गदी खड्‌गी च शार्ङ्गी च तथा शार्ङ्गधरो मुने!।
वासुदेवोऽपि भद्रश्च केतुमान् केतुकस्तथा ॥ 170 ॥

विश्वास-प्रस्तुतिः - 171

क्षमी च ज्वलनश्चापि किन्नरोऽश्वत्थ एव च।
सुप्तः सुजपनश्चापि जपः पश्चिम एव च ॥ 171 ॥

मूलम् - 171

क्षमी च ज्वलनश्चापि किन्नरोऽश्वत्थ एव च।
सुप्तः सुजपनश्चापि जपः पश्चिम एव च ॥ 171 ॥

विश्वास-प्रस्तुतिः - 172

कैक्षिकश्च तथा स्वजो बाडवश्चाक्षमी तथा।
गणाः पञ्छाशादेते तु दक्षिणां दिशमाश्रिताः ॥ 172 ॥

मूलम् - 172

कैक्षिकश्च तथा स्वजो बाडवश्चाक्षमी तथा।
गणाः पञ्छाशादेते तु दक्षिणां दिशमाश्रिताः ॥ 172 ॥

विश्वास-प्रस्तुतिः - 173

पुण्डरीक वशाह्येते पितृगृहसमन्विताः।
सर्वत्रैवं समृद्दिष्टाः पच्चाशच्छक्तिका गृहाः ॥ 173 ॥

मूलम् - 173

पुण्डरीक वशाह्येते पितृगृहसमन्विताः।
सर्वत्रैवं समृद्दिष्टाः पच्चाशच्छक्तिका गृहाः ॥ 173 ॥

विश्वास-प्रस्तुतिः - 174

प्रदद्यात् पुण्डरीकायएयैभिर्युक्ताय वै बलिम्।
निष्कृतिः प्रकृतिश्चैव सुकृतिर्विकृतिस्तथा ॥ 174 ॥

मूलम् - 174

प्रदद्यात् पुण्डरीकायएयैभिर्युक्ताय वै बलिम्।
निष्कृतिः प्रकृतिश्चैव सुकृतिर्विकृतिस्तथा ॥ 174 ॥

विश्वास-प्रस्तुतिः - 175

दारुणो दमकश्चैव रक्षको लक्षकस्तथा।
माधवो मांसकश्चैव निष्ठुरः खरभाषणः ॥ 175 ॥

मूलम् - 175

दारुणो दमकश्चैव रक्षको लक्षकस्तथा।
माधवो मांसकश्चैव निष्ठुरः खरभाषणः ॥ 175 ॥

विश्वास-प्रस्तुतिः - 176

प्रलंबो लम्बकश्चैव प्राणनः प्रणयस्तथा।
वीरसेनोंगदश्चैव विभाषश्च विभीषणः ॥ 176 ॥

मूलम् - 176

प्रलंबो लम्बकश्चैव प्राणनः प्रणयस्तथा।
वीरसेनोंगदश्चैव विभाषश्च विभीषणः ॥ 176 ॥

विश्वास-प्रस्तुतिः - 177

रक्ताक्षो लोहिताक्षश्च रक्तजिह्वो विजिह्वकः।
विद्युत्केशो विशालाक्षो विक्षरो वीरहा तथा ॥ 177 ॥

मूलम् - 177

रक्ताक्षो लोहिताक्षश्च रक्तजिह्वो विजिह्वकः।
विद्युत्केशो विशालाक्षो विक्षरो वीरहा तथा ॥ 177 ॥

विश्वास-प्रस्तुतिः - 178

अक्षरः प्राक्षरश्चैव कामरूपविरूपिणौ।
सर्वगः सर्वविद्गौरः संभवः प्रभवस्तथा ॥ 178 ॥

मूलम् - 178

अक्षरः प्राक्षरश्चैव कामरूपविरूपिणौ।
सर्वगः सर्वविद्गौरः संभवः प्रभवस्तथा ॥ 178 ॥

विश्वास-प्रस्तुतिः - 179

वारुणो वसुरेवापि विमर्दो दमनस्तथा।
वैकर्तनो विकर्ता च कपर्दी च प्रबुस्तथा ॥ 179 ॥

मूलम् - 179

वारुणो वसुरेवापि विमर्दो दमनस्तथा।
वैकर्तनो विकर्ता च कपर्दी च प्रबुस्तथा ॥ 179 ॥

विश्वास-प्रस्तुतिः - 180

कन्दकी कन्दकश्रापि नाकी च वरुणोऽरुणः।
गणा एते च पञ्चाशन्नैर्ऋतिं दिशमाश्रिताः ॥ 180 ॥

मूलम् - 180

कन्दकी कन्दकश्रापि नाकी च वरुणोऽरुणः।
गणा एते च पञ्चाशन्नैर्ऋतिं दिशमाश्रिताः ॥ 180 ॥

विश्वास-प्रस्तुतिः - 181

यातुगृहैस्तु संयुक्ता वामनस्यानुगा इमे।
एभिर्युक्ताय विधिना वामनाय बलिं ददेत् ॥ 181 ॥

मूलम् - 181

यातुगृहैस्तु संयुक्ता वामनस्यानुगा इमे।
एभिर्युक्ताय विधिना वामनाय बलिं ददेत् ॥ 181 ॥

वरुणो वारुणश्चैव पाशी पाशधरो गुरुः क्षेपणः क्षोभणश्चैव नारदः सर्वदो रविः ॥ 182 ॥
विश्वास-प्रस्तुतिः - 183

सुमना नामनो हंसो वैकुण्ठः परमः परः।
हनुमान् वसुमान् भद्रो भद्रवः प्रभवस्तथा ॥ 183 ॥

मूलम् - 183

सुमना नामनो हंसो वैकुण्ठः परमः परः।
हनुमान् वसुमान् भद्रो भद्रवः प्रभवस्तथा ॥ 183 ॥

विश्वास-प्रस्तुतिः - 184

महाकर्णो विकर्णश्च शशकः शलकः पिकः।
वानरो नरकश्चैव कार्ष्णिः कर्णधरोंऽशुमान् ॥ 184 ॥

मूलम् - 184

महाकर्णो विकर्णश्च शशकः शलकः पिकः।
वानरो नरकश्चैव कार्ष्णिः कर्णधरोंऽशुमान् ॥ 184 ॥

विश्वास-प्रस्तुतिः - 185

चक्रोऽग्रश्च तथा वज्री वज्रनाभो विनाभकः।
करभः कुरभश्चैव दाक्षिणो दक्षिणः सुहृत् ॥ 185 ॥

मूलम् - 185

चक्रोऽग्रश्च तथा वज्री वज्रनाभो विनाभकः।
करभः कुरभश्चैव दाक्षिणो दक्षिणः सुहृत् ॥ 185 ॥

विश्वास-प्रस्तुतिः - 186

दुर्गन्धः पूतिगन्धश्च तार्क्ष्यो गरुड एव च।
विरोधो रोधको रोधः कंकणस्च वृकोदरः ॥ 186 ॥

मूलम् - 186

दुर्गन्धः पूतिगन्धश्च तार्क्ष्यो गरुड एव च।
विरोधो रोधको रोधः कंकणस्च वृकोदरः ॥ 186 ॥

विश्वास-प्रस्तुतिः - 187

एते गणाश्च पञ्चाशत् पश्चिमां दिशमाश्रिताः।
शंकुकर्णवशा ह्येते पाशग्रहगणान्विताः ॥ 187 ॥

मूलम् - 187

एते गणाश्च पञ्चाशत् पश्चिमां दिशमाश्रिताः।
शंकुकर्णवशा ह्येते पाशग्रहगणान्विताः ॥ 187 ॥

विश्वास-प्रस्तुतिः - 188

सहैभिः शंकुकर्णाय पीठिकायां बलिं ददेत्।
मरुर्मारुतगो रुर्वी आखुर्वायुसुतोऽनिलः ॥ 188 ॥

मूलम् - 188

सहैभिः शंकुकर्णाय पीठिकायां बलिं ददेत्।
मरुर्मारुतगो रुर्वी आखुर्वायुसुतोऽनिलः ॥ 188 ॥

विश्वास-प्रस्तुतिः - 189

गलर्तो वर्तकः कंको मार्गणः प्रांकणोऽचलः।
बलो बलनिधिर्वीरो विरोधो रोधको विधिः ॥ 189 ॥

मूलम् - 189

गलर्तो वर्तकः कंको मार्गणः प्रांकणोऽचलः।
बलो बलनिधिर्वीरो विरोधो रोधको विधिः ॥ 189 ॥

विश्वास-प्रस्तुतिः - 190

सिद्धवः सुयवश्चैव शंकरो धीरकस्तथा।
माली मालाविधिर्वस्तुः समर्थः सुमहोत्सवः ॥ 190 ॥

मूलम् - 190

सिद्धवः सुयवश्चैव शंकरो धीरकस्तथा।
माली मालाविधिर्वस्तुः समर्थः सुमहोत्सवः ॥ 190 ॥

विश्वास-प्रस्तुतिः - 191

कर्कटः कटकश्चैव गन्धो गन्धवहः परः।
सिक्तकः सिक्तरोगी च सेवकः सेवनः सवः ॥ 191 ॥

मूलम् - 191

कर्कटः कटकश्चैव गन्धो गन्धवहः परः।
सिक्तकः सिक्तरोगी च सेवकः सेवनः सवः ॥ 191 ॥

विश्वास-प्रस्तुतिः - 192

औषधो भेषजो वापि रोगी रोगभवस्तथा।
कारणः करणः कर्ता गरवीरोऽखलस्तथा ॥ 192 ॥

मूलम् - 192

औषधो भेषजो वापि रोगी रोगभवस्तथा।
कारणः करणः कर्ता गरवीरोऽखलस्तथा ॥ 192 ॥

विश्वास-प्रस्तुतिः - 193

वलश्च वाकुवाहश्च सुचारश्च तथैव च।
गणाः पश्चाशदेते तु वायव्यां दिशमाश्रिताः ॥ 193 ॥

मूलम् - 193

वलश्च वाकुवाहश्च सुचारश्च तथैव च।
गणाः पश्चाशदेते तु वायव्यां दिशमाश्रिताः ॥ 193 ॥

विश्वास-प्रस्तुतिः - 194

सर्वनेत्रानुगान् नित्यं गन्धर्वगृहसंयुताः।
प्रदद्यात् सर्वनेत्राय एभिर्युक्ताय वै बलिम् ॥ 194 ॥

मूलम् - 194

सर्वनेत्रानुगान् नित्यं गन्धर्वगृहसंयुताः।
प्रदद्यात् सर्वनेत्राय एभिर्युक्ताय वै बलिम् ॥ 194 ॥

विश्वास-प्रस्तुतिः - 195

सोमः सोमकलः सोम्यः सामवित् सामनायकः।
सुधा सुधाता धाता च सुराष्ट्रः काष्ठकः कलिः ॥ 195 ॥

मूलम् - 195

सोमः सोमकलः सोम्यः सामवित् सामनायकः।
सुधा सुधाता धाता च सुराष्ट्रः काष्ठकः कलिः ॥ 195 ॥

विश्वास-प्रस्तुतिः - 196

कालधृक्कालचक्रश्च कालकूटविषो बल।
अमृतोऽमृतनाथश्च केयूरी केबली बली ॥ 196 ॥

मूलम् - 196

कालधृक्कालचक्रश्च कालकूटविषो बल।
अमृतोऽमृतनाथश्च केयूरी केबली बली ॥ 196 ॥

विश्वास-प्रस्तुतिः - 197

विष्णुः कृष्णपिशंगांगी रेखालेखः पिक शुकः।
लूबकश्च शुकश्चैव श्येनः श्येनमुखस्तथा ॥ 197 ॥

मूलम् - 197

विष्णुः कृष्णपिशंगांगी रेखालेखः पिक शुकः।
लूबकश्च शुकश्चैव श्येनः श्येनमुखस्तथा ॥ 197 ॥

विश्वास-प्रस्तुतिः - 198

मार्जारो मरुभृद्वालो गुल्मः कणवकः कणः।
शेषो विशेष उच्छेषः कर्दमः पूतिविग्रहः ॥ 198 ॥

मूलम् - 198

मार्जारो मरुभृद्वालो गुल्मः कणवकः कणः।
शेषो विशेष उच्छेषः कर्दमः पूतिविग्रहः ॥ 198 ॥

विश्वास-प्रस्तुतिः - 199

साम्बः संवत्सरश्चैव वेगी वेगधरो मरुत्।
गणाः पञ्चाशदेते तु सोमस्य दिशमाश्रिताः ॥ 199 ॥

मूलम् - 199

साम्बः संवत्सरश्चैव वेगी वेगधरो मरुत्।
गणाः पञ्चाशदेते तु सोमस्य दिशमाश्रिताः ॥ 199 ॥

विश्वास-प्रस्तुतिः - 200

सुमुखस्य वशा ह्येते यक्षग्रहसमन्विताः।
सुमुखाय बलिं दद्यादेभिः सह यथाविधि ॥ 200 ॥

मूलम् - 200

सुमुखस्य वशा ह्येते यक्षग्रहसमन्विताः।
सुमुखाय बलिं दद्यादेभिः सह यथाविधि ॥ 200 ॥

विश्वास-प्रस्तुतिः - 201

ईशान ईश्वरो व्यापी व्यसनो विनशो बुधः।
धरो बको विशो वादः शकुनिः शकटो घटः ॥ 201 ॥

मूलम् - 201

ईशान ईश्वरो व्यापी व्यसनो विनशो बुधः।
धरो बको विशो वादः शकुनिः शकटो घटः ॥ 201 ॥

विश्वास-प्रस्तुतिः - 202

वृक्षः कक्षः क्षमी क्षान्तिर्मातृरोमा कपिंजलः।
ब्रह्नण्यो ब्रह्नविद्ब्रह्नी व्रह्नात्मा व्रह्नसाधनः ॥ 202 ॥

मूलम् - 202

वृक्षः कक्षः क्षमी क्षान्तिर्मातृरोमा कपिंजलः।
ब्रह्नण्यो ब्रह्नविद्ब्रह्नी व्रह्नात्मा व्रह्नसाधनः ॥ 202 ॥

विश्वास-प्रस्तुतिः - 203

वेदी वेदविदुद्वन्धः शंकरः शांकरस्तथा।
धीमान् विसृष्टिरिष्टात्मा दुष्टात्मा दुष्टकर्मकृत् ॥ 203 ॥

मूलम् - 203

वेदी वेदविदुद्वन्धः शंकरः शांकरस्तथा।
धीमान् विसृष्टिरिष्टात्मा दुष्टात्मा दुष्टकर्मकृत् ॥ 203 ॥

विश्वास-प्रस्तुतिः - 204

विजेता विकचो वादी नोदी त्रिपक एकभुक्।
सर्वभुक सर्वगः सर्वः सर्वभंगः सनातनः ॥ 204 ॥

मूलम् - 204

विजेता विकचो वादी नोदी त्रिपक एकभुक्।
सर्वभुक सर्वगः सर्वः सर्वभंगः सनातनः ॥ 204 ॥

विश्वास-प्रस्तुतिः - 205

गोविन्दो गोपतिश्चेव गोप्ता चेव महेश्वरः।
पञ्चाशच्च गणा ह्येते ऐशानीं दिशमाश्रिताः ॥ 205 ॥

मूलम् - 205

गोविन्दो गोपतिश्चेव गोप्ता चेव महेश्वरः।
पञ्चाशच्च गणा ह्येते ऐशानीं दिशमाश्रिताः ॥ 205 ॥

विश्वास-प्रस्तुतिः - 206

सुप्रतिष्ठवशा ह्येते पिशाचगृहसंयुताः।
सुप्रतिष्ठितसंज्ञाय एभिः सार्धं वलिं ददेत् ॥ 206 ॥

मूलम् - 206

सुप्रतिष्ठवशा ह्येते पिशाचगृहसंयुताः।
सुप्रतिष्ठितसंज्ञाय एभिः सार्धं वलिं ददेत् ॥ 206 ॥

विश्वास-प्रस्तुतिः - 207

सिद्धो धाता विधाता च धाता चैव प्रजापतिः।
लोकेशो लोककृत् कर्ता स्रष्टा ब्रह्ना तथात्मभूः ॥ 207 ॥

मूलम् - 207

सिद्धो धाता विधाता च धाता चैव प्रजापतिः।
लोकेशो लोककृत् कर्ता स्रष्टा ब्रह्ना तथात्मभूः ॥ 207 ॥

विश्वास-प्रस्तुतिः - 208

सुतापश्च तुलश्चैव तथा वै रीतिवर्धनः।
अव्यक्तो गुणवान् गौणो गुणभुक्च तथैवहि ॥ 208 ॥

मूलम् - 208

सुतापश्च तुलश्चैव तथा वै रीतिवर्धनः।
अव्यक्तो गुणवान् गौणो गुणभुक्च तथैवहि ॥ 208 ॥

विश्वास-प्रस्तुतिः - 209

उद्गीतः प्रणवश्चापि हिरण्यगर्भसंज्ञितः।
विरिञ्चः पुष्करश्चैव भासनो भास एव च ॥ 209 ॥

मूलम् - 209

उद्गीतः प्रणवश्चापि हिरण्यगर्भसंज्ञितः।
विरिञ्चः पुष्करश्चैव भासनो भास एव च ॥ 209 ॥

विश्वास-प्रस्तुतिः - 210

विकर्णो विजयश्चैव तथा चैव रथंतरः।
छन्दो यजुस्तथा ऋक् च अथर्वा च ततः परम् ॥ 210 ॥

मूलम् - 210

विकर्णो विजयश्चैव तथा चैव रथंतरः।
छन्दो यजुस्तथा ऋक् च अथर्वा च ततः परम् ॥ 210 ॥

विश्वास-प्रस्तुतिः - 211

मरीचिरंगिराश्चैव पुलहः क्रतुरेव च।
वसिष्ठश्च प्रचेताश्च शलभो भीष्म एव च ॥ 211 ॥

मूलम् - 211

मरीचिरंगिराश्चैव पुलहः क्रतुरेव च।
वसिष्ठश्च प्रचेताश्च शलभो भीष्म एव च ॥ 211 ॥

विश्वास-प्रस्तुतिः - 212

हेमन्तः शिशिरश्चापि कुसुमाकरसंज्ञितः।
कलहश्च विरागिश्च अमर्षो रोषणस्तथा ॥ 212 ॥

मूलम् - 212

हेमन्तः शिशिरश्चापि कुसुमाकरसंज्ञितः।
कलहश्च विरागिश्च अमर्षो रोषणस्तथा ॥ 212 ॥

विश्वास-प्रस्तुतिः - 213

शोषणश्च गतिश्चैव हर्षणो वर्धनस्तथा।
गणाः पञ्चाशदेते तु व्योमसिद्धगृहान्विताः ॥ 213 ॥

मूलम् - 213

शोषणश्च गतिश्चैव हर्षणो वर्धनस्तथा।
गणाः पञ्चाशदेते तु व्योमसिद्धगृहान्विताः ॥ 213 ॥

विश्वास-प्रस्तुतिः - 214

प्रदद्यात् पृश्निगर्भाय सार्धमेभिर्बलिं द्विज!।
मनुष्यो मानवश्चैव मण्डको मानवस्तथा ॥ 214 ॥

मूलम् - 214

प्रदद्यात् पृश्निगर्भाय सार्धमेभिर्बलिं द्विज!।
मनुष्यो मानवश्चैव मण्डको मानवस्तथा ॥ 214 ॥

विश्वास-प्रस्तुतिः - 215

मकरश्च तथा चोरः कंपश्चैव प्रकंपनः।
अलंपटश्च पटद योजको भजको ग्रहीः ॥ 215 ॥

मूलम् - 215

मकरश्च तथा चोरः कंपश्चैव प्रकंपनः।
अलंपटश्च पटद योजको भजको ग्रहीः ॥ 215 ॥

विश्वास-प्रस्तुतिः - 216

रेचको रोचको मायो धारो वारो रसश्चलः।
चापालिकः कपिर्बाणो ग्रजनो गर्जनो गुडः ॥ 216 ॥

मूलम् - 216

रेचको रोचको मायो धारो वारो रसश्चलः।
चापालिकः कपिर्बाणो ग्रजनो गर्जनो गुडः ॥ 216 ॥

विश्वास-प्रस्तुतिः - 217

तित्तरश्चटको ध्वाङ्‌क्षो बलीवर्दो महानटः।
हर्षो धर्मप्रशास्ता च शमको दुन्दुभिः शठः ॥ 217 ॥

मूलम् - 217

तित्तरश्चटको ध्वाङ्‌क्षो बलीवर्दो महानटः।
हर्षो धर्मप्रशास्ता च शमको दुन्दुभिः शठः ॥ 217 ॥

विश्वास-प्रस्तुतिः - 218

कुक्षिः कुमारः कायस्थो लावकोऽप्रशुनः शुनः।
लवणो रवणो ऋद्धो राजसस्तामसोऽचलः ॥ 218 ॥

मूलम् - 218

कुक्षिः कुमारः कायस्थो लावकोऽप्रशुनः शुनः।
लवणो रवणो ऋद्धो राजसस्तामसोऽचलः ॥ 218 ॥

विश्वास-प्रस्तुतिः - 219

कल्याणो भगदत्तश्च पृथिवीतलसंस्थिताः।
गणाः पञ्चाशदेते तु भूमिग्रहसमन्विताः ॥ 219 ॥

मूलम् - 219

कल्याणो भगदत्तश्च पृथिवीतलसंस्थिताः।
गणाः पञ्चाशदेते तु भूमिग्रहसमन्विताः ॥ 219 ॥

विश्वास-प्रस्तुतिः - 220

महाबला दुराधर्षा मानवस्य वशानुगाः।
मानवाय बलिं दद्यादेभिर्युक्ताय साधकः ॥ 220 ॥

मूलम् - 220

महाबला दुराधर्षा मानवस्य वशानुगाः।
मानवाय बलिं दद्यादेभिर्युक्ताय साधकः ॥ 220 ॥

विश्वास-प्रस्तुतिः - 221

एते पञ्चाशतः प्रोक्ता गणानामधिपा द्विज!।
ऐकैकस्य भवेदेषां गणाश्चान्ये शतं शतम् ॥ 221 ॥

मूलम् - 221

एते पञ्चाशतः प्रोक्ता गणानामधिपा द्विज!।
ऐकैकस्य भवेदेषां गणाश्चान्ये शतं शतम् ॥ 221 ॥

विश्वास-प्रस्तुतिः - 222

एवं पञ्चाशत्‌सहस्रं एतेषां परिचारकाः।
चत्वरे च चतुष्के च सभायां ग्राममध्यके ॥ 222 ॥

मूलम् - 222

एवं पञ्चाशत्‌सहस्रं एतेषां परिचारकाः।
चत्वरे च चतुष्के च सभायां ग्राममध्यके ॥ 222 ॥

विश्वास-प्रस्तुतिः - 223

ग्रामद्वारेषु सर्वेषु तिष्ठन्ति विविधायुधाः।
जनानयोग्यान् बाधन्ते तथा पाषण्डिनोपि च ॥ 223 ॥

मूलम् - 223

ग्रामद्वारेषु सर्वेषु तिष्ठन्ति विविधायुधाः।
जनानयोग्यान् बाधन्ते तथा पाषण्डिनोपि च ॥ 223 ॥

विश्वास-प्रस्तुतिः - 224

नद्यादिषु च देशेषु संचरन्ति यथारुचि।
दशानां कुमुदादीनां गणेशानां द्विजोत्तम! ॥ 224 ॥

मूलम् - 224

नद्यादिषु च देशेषु संचरन्ति यथारुचि।
दशानां कुमुदादीनां गणेशानां द्विजोत्तम! ॥ 224 ॥

विश्वास-प्रस्तुतिः - 225

गणानामुत्कटादीनामुदितानां क्रमेण तु।
प्रणवाद्यैर्नमोन्तैस्तु स्वैस्वैर्नामभिरेव च ॥ 225 ॥

मूलम् - 225

गणानामुत्कटादीनामुदितानां क्रमेण तु।
प्रणवाद्यैर्नमोन्तैस्तु स्वैस्वैर्नामभिरेव च ॥ 225 ॥

विश्वास-प्रस्तुतिः - 226

अर्ध्यं गन्धं तथा माल्यं धूपं गन्धाम्बुपूर्वकम्।
बलिं भूयो जलं चापि ताम्बूलं क्रमशो ददेत् ॥ 226 ॥

मूलम् - 226

अर्ध्यं गन्धं तथा माल्यं धूपं गन्धाम्बुपूर्वकम्।
बलिं भूयो जलं चापि ताम्बूलं क्रमशो ददेत् ॥ 226 ॥

विश्वास-प्रस्तुतिः - 227

गीतनृत्तादिकं सर्वं पूर्ववत् परिकल्पयेत्।
पञ्चाशतां सहस्राणां गणशो गणशो द्विज! ॥ 227 ॥

मूलम् - 227

गीतनृत्तादिकं सर्वं पूर्ववत् परिकल्पयेत्।
पञ्चाशतां सहस्राणां गणशो गणशो द्विज! ॥ 227 ॥

विश्वास-प्रस्तुतिः - 228

नमः पारिषदेभ्यश्च इत्युक्त्वा वलिविस्तरम्।
भूमौ प्रतिदिशं कुर्यात् सर्वशान्तिकरं शुभम् ॥ 228 ॥

मूलम् - 228

नमः पारिषदेभ्यश्च इत्युक्त्वा वलिविस्तरम्।
भूमौ प्रतिदिशं कुर्यात् सर्वशान्तिकरं शुभम् ॥ 228 ॥

विश्वास-प्रस्तुतिः - 229

पञ्चाशतां सहस्राणा एकैकस्य पृथक् पृथक्।
शतं शतं परिवारा एते ग्रहगणाः स्मृताः ॥ 229 ॥

मूलम् - 229

पञ्चाशतां सहस्राणा एकैकस्य पृथक् पृथक्।
शतं शतं परिवारा एते ग्रहगणाः स्मृताः ॥ 229 ॥

विश्वास-प्रस्तुतिः - 230

एषां ग्रहगणानां तु परिवाराः सहस्रशः।
असंख्येयाश्चरन्तस्तु सर्वतः पृथिवीमिमाम् ॥ 230 ॥

मूलम् - 230

एषां ग्रहगणानां तु परिवाराः सहस्रशः।
असंख्येयाश्चरन्तस्तु सर्वतः पृथिवीमिमाम् ॥ 230 ॥

विश्वास-प्रस्तुतिः - 231

संचरान्ति ग्रहगणा उक्ता दशविधा महीम्।
देवा दैत्याश्च पितरः राक्षसा नागनायकाः ॥ 231 ॥

मूलम् - 231

संचरान्ति ग्रहगणा उक्ता दशविधा महीम्।
देवा दैत्याश्च पितरः राक्षसा नागनायकाः ॥ 231 ॥

विश्वास-प्रस्तुतिः - 232

गन्धर्वयक्षाः पैशाचाः सिद्धाश्चापि धरागणाः।
एते दशविधा ब्रह्नन्! दशदिक्षु स्थिताः सदा ॥ 232 ॥

मूलम् - 232

गन्धर्वयक्षाः पैशाचाः सिद्धाश्चापि धरागणाः।
एते दशविधा ब्रह्नन्! दशदिक्षु स्थिताः सदा ॥ 232 ॥

विश्वास-प्रस्तुतिः - 233

उक्ताः पञ्चदशानां तु एतेषां नायका गणाः।
तेषां तु पूजया सर्वे सुखं यान्ति न संशयः ॥ 233 ॥

मूलम् - 233

उक्ताः पञ्चदशानां तु एतेषां नायका गणाः।
तेषां तु पूजया सर्वे सुखं यान्ति न संशयः ॥ 233 ॥

विश्वास-प्रस्तुतिः - 234

पीठोर्ध्वे कुमुदादीनां बलिं दद्याद्विचक्षणः।
भूतले गोमयाद्येन लेपिते वा यथारुचि ॥ 234 ॥

मूलम् - 234

पीठोर्ध्वे कुमुदादीनां बलिं दद्याद्विचक्षणः।
भूतले गोमयाद्येन लेपिते वा यथारुचि ॥ 234 ॥

विश्वास-प्रस्तुतिः - 235

गणानामुत्कटादीनां बलिं तत्परितो ददेत्।
अन्येषामापि सर्वेषां तद्बहिर्विकिरेद्बलिम् ॥ 235 ॥

मूलम् - 235

गणानामुत्कटादीनां बलिं तत्परितो ददेत्।
अन्येषामापि सर्वेषां तद्बहिर्विकिरेद्बलिम् ॥ 235 ॥

विश्वास-प्रस्तुतिः - 236

अमुक्तानां च सर्वेषां ग्राममद्ये बलिं क्षिपेत्।
कुमुदादिगणेशानाम् अनुकल्पे विधानतः ॥ 236 ॥

मूलम् - 236

अमुक्तानां च सर्वेषां ग्राममद्ये बलिं क्षिपेत्।
कुमुदादिगणेशानाम् अनुकल्पे विधानतः ॥ 236 ॥

विश्वास-प्रस्तुतिः - 237

बलिं दत्वाऽवशिष्टानां सर्वेषामपि वै पृथक्।
नमः पारिषदेभ्यश्चेत्युक्त्वा तस्माद्बलिं द्विज! ॥ 237 ॥

मूलम् - 237

बलिं दत्वाऽवशिष्टानां सर्वेषामपि वै पृथक्।
नमः पारिषदेभ्यश्चेत्युक्त्वा तस्माद्बलिं द्विज! ॥ 237 ॥

विश्वास-प्रस्तुतिः - 238

अवशिष्टं बलिद्रव्यं ग्राममध्ये विनिक्षिपेत्।
संतर्पणार्थं भूतानां सर्वदेशनिवासिनाम् ॥ 238 ॥

मूलम् - 238

अवशिष्टं बलिद्रव्यं ग्राममध्ये विनिक्षिपेत्।
संतर्पणार्थं भूतानां सर्वदेशनिवासिनाम् ॥ 238 ॥

विश्वास-प्रस्तुतिः - 239

रात्र्यामावाहनं ब्रह्नन्! ध्वजारोहणवासरे।
न कृतं कुमुदादीनां सगणानां ततोद्य तु ॥ 239 ॥

मूलम् - 239

रात्र्यामावाहनं ब्रह्नन्! ध्वजारोहणवासरे।
न कृतं कुमुदादीनां सगणानां ततोद्य तु ॥ 239 ॥

विश्वास-प्रस्तुतिः - 240

तेषामावाहनं कुर्याद् बलिं दद्याद्विधानतः।
ध्वजारोहदिने पूर्वं तेषामावाहने कृते ॥ 240 ॥

मूलम् - 240

तेषामावाहनं कुर्याद् बलिं दद्याद्विधानतः।
ध्वजारोहदिने पूर्वं तेषामावाहने कृते ॥ 240 ॥

विश्वास-प्रस्तुतिः - 241

तद्वासरात् समारब्य यावदुत्सववासरम्।
पायसेन बलिं दद्याच्छुद्धान्नेनाथवा द्विज! ॥ 241 ॥

मूलम् - 241

तद्वासरात् समारब्य यावदुत्सववासरम्।
पायसेन बलिं दद्याच्छुद्धान्नेनाथवा द्विज! ॥ 241 ॥

विश्वास-प्रस्तुतिः - 242

दिवा वापि रजन्यां वा कालयोरुभयोस्तु वा।
भवेत् कर्तुर्महान् दोष आहूतानामनर्चनात् ॥ 242 ॥

मूलम् - 242

दिवा वापि रजन्यां वा कालयोरुभयोस्तु वा।
भवेत् कर्तुर्महान् दोष आहूतानामनर्चनात् ॥ 242 ॥

विश्वास-प्रस्तुतिः - 243

केनापि हेतुना यत्र वलिदानं न शक्यते।
यात्रारंभदिने तत्र तेषामावाहनं चरेत् ॥ 243 ॥

मूलम् - 243

केनापि हेतुना यत्र वलिदानं न शक्यते।
यात्रारंभदिने तत्र तेषामावाहनं चरेत् ॥ 243 ॥

विश्वास-प्रस्तुतिः - 244

एवन्तु बलिसंयुक्तं देवेशं भ्रामयेद्‌द्विज!।
प्रादक्षिण्येन वै ग्राणे नगरे वापि पत्तने ॥ 244 ॥

मूलम् - 244

एवन्तु बलिसंयुक्तं देवेशं भ्रामयेद्‌द्विज!।
प्रादक्षिण्येन वै ग्राणे नगरे वापि पत्तने ॥ 244 ॥

विश्वास-प्रस्तुतिः - 245

यात्रायां वर्तमानायां देवदेवाय भक्तितः।
मुखवासं सताम्बूलं बहुशोऽथ निवेदयेत् ॥ 245 ॥

मूलम् - 245

यात्रायां वर्तमानायां देवदेवाय भक्तितः।
मुखवासं सताम्बूलं बहुशोऽथ निवेदयेत् ॥ 245 ॥

विश्वास-प्रस्तुतिः - 246

चन्दनं श्रमशान्त्यर्थं कर्पूराद्यैः सुभावितम्।
प्रदद्याद्देवदेवाय माल्यानि विविधान्यपि ॥ 246 ॥

मूलम् - 246

चन्दनं श्रमशान्त्यर्थं कर्पूराद्यैः सुभावितम्।
प्रदद्याद्देवदेवाय माल्यानि विविधान्यपि ॥ 246 ॥

विश्वास-प्रस्तुतिः - 247

शीतलं तर्पणजलं नारिकेलजलान्वितम्।
श्रमशान्तिनिमित्तानि अन्यान्यपि निवेदयेत् ॥ 247 ॥

मूलम् - 247

शीतलं तर्पणजलं नारिकेलजलान्वितम्।
श्रमशान्तिनिमित्तानि अन्यान्यपि निवेदयेत् ॥ 247 ॥

विश्वास-प्रस्तुतिः - 248

दिगष्टके तु ग्रामादेस्तन्मद्ये च विशेषतः।
गीतकैर्विविधैनर्त्तैस्तन्त्रीवाद्यसमन्वितैः ॥ 248 ॥

मूलम् - 248

दिगष्टके तु ग्रामादेस्तन्मद्ये च विशेषतः।
गीतकैर्विविधैनर्त्तैस्तन्त्रीवाद्यसमन्वितैः ॥ 248 ॥

विश्वास-प्रस्तुतिः - 249

शंखभेरीमृदंगाद्यैर्देवेशं परितोषयेत्।
एवं देवं परिब्राम्य ग्रामादौ बलिसंयुतम् ॥ 249 ॥

मूलम् - 249

शंखभेरीमृदंगाद्यैर्देवेशं परितोषयेत्।
एवं देवं परिब्राम्य ग्रामादौ बलिसंयुतम् ॥ 249 ॥

विश्वास-प्रस्तुतिः - 250

पुनः प्रदक्षिणं कृत्वा प्रासादावरणेषु च।
प्रासादद्वारदेशे तु देवदेवस्य भक्तितः ॥ 250 ॥

मूलम् - 250

पुनः प्रदक्षिणं कृत्वा प्रासादावरणेषु च।
प्रासादद्वारदेशे तु देवदेवस्य भक्तितः ॥ 250 ॥

विश्वास-प्रस्तुतिः - 251

अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च धूपकम्।
निवेद्य देवदेवेशं स्वस्थाने सन्निवेशयेत् ॥ 251 ॥

मूलम् - 251

अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च धूपकम्।
निवेद्य देवदेवेशं स्वस्थाने सन्निवेशयेत् ॥ 251 ॥

विश्वास-प्रस्तुतिः - 252

ततो यागगृहं गत्वा देशिकः सुसमाहितः।
तिलैराज्यैश्च पूर्णआन्तं यात्राहोमं समापयेत् ॥ 252 ॥

मूलम् - 252

ततो यागगृहं गत्वा देशिकः सुसमाहितः।
तिलैराज्यैश्च पूर्णआन्तं यात्राहोमं समापयेत् ॥ 252 ॥

विश्वास-प्रस्तुतिः - 253

एवं बलिसमायुक्तमन्येषु दिवसेष्वपि।
अह्नि रात्रौ तु देवस्य परिब्रमणमारभेत् ॥ 253 ॥

मूलम् - 253

एवं बलिसमायुक्तमन्येषु दिवसेष्वपि।
अह्नि रात्रौ तु देवस्य परिब्रमणमारभेत् ॥ 253 ॥

विश्वास-प्रस्तुतिः - 254

तीर्थयात्रादिने कुर्यात् परिभ्रमणमह्नि वै।
कुर्यात् स्नपनबिंबे च स्नपनं तु दिवानिशम् ॥ 254 ॥

मूलम् - 254

तीर्थयात्रादिने कुर्यात् परिभ्रमणमह्नि वै।
कुर्यात् स्नपनबिंबे च स्नपनं तु दिवानिशम् ॥ 254 ॥

विश्वास-प्रस्तुतिः - 255

आरम्भदिनमारभ्य यावदन्तिमवासरम्।
तत्रापि चांकुरारोपं सप्तमे पञ्चमे तु वा ॥ 255 ॥

मूलम् - 255

आरम्भदिनमारभ्य यावदन्तिमवासरम्।
तत्रापि चांकुरारोपं सप्तमे पञ्चमे तु वा ॥ 255 ॥

विश्वास-प्रस्तुतिः - 256

वासरे पूर्ववच्चापि कुर्यात् कौतुकबन्धनम्।
द्वितीये वासरे प्राप्ते देवमास्थानमण्टपे ॥ 256 ॥

मूलम् - 256

वासरे पूर्ववच्चापि कुर्यात् कौतुकबन्धनम्।
द्वितीये वासरे प्राप्ते देवमास्थानमण्टपे ॥ 256 ॥

विश्वास-प्रस्तुतिः - 257

यागागारेऽथवानीय समारोप्य च विष्टरे।
ततो यागगृहं गत्वा देशिको विधिना यजेत् ॥ 257 ॥

मूलम् - 257

यागागारेऽथवानीय समारोप्य च विष्टरे।
ततो यागगृहं गत्वा देशिको विधिना यजेत् ॥ 257 ॥

विश्वास-प्रस्तुतिः - 258

कलशे मण्डले चैव ततो गत्वा तु मण्डपम्।
पूजयेद्देवदेवेशं महता विभवेन तु ॥ 258 ॥

मूलम् - 258

कलशे मण्डले चैव ततो गत्वा तु मण्डपम्।
पूजयेद्देवदेवेशं महता विभवेन तु ॥ 258 ॥

विश्वास-प्रस्तुतिः - 259

ततो यागगृहे सम्यग्‌वह्वौ सन्तर्प्य पूर्वबत्।
ततस्तस्मात् समानीय महदास्थानमण्टपम् ॥ 259 ॥

मूलम् - 259

ततो यागगृहे सम्यग्‌वह्वौ सन्तर्प्य पूर्वबत्।
ततस्तस्मात् समानीय महदास्थानमण्टपम् ॥ 259 ॥

विश्वास-प्रस्तुतिः - 260

तत्र सम्यक् समब्यर्च्य देवं नीराजनान्तिमम्।
महाहविर्निवेद्याथापूपादिसमन्वितम् ॥ 260 ॥

मूलम् - 260

तत्र सम्यक् समब्यर्च्य देवं नीराजनान्तिमम्।
महाहविर्निवेद्याथापूपादिसमन्वितम् ॥ 260 ॥

विश्वास-प्रस्तुतिः - 261

तस्माद्देवं समानीय मण्टपे यागनिर्मिते।
तत्र देवं समब्यर्च्य अर्घ्यपाद्यादिभिस्ततः ॥ 261 ॥

मूलम् - 261

तस्माद्देवं समानीय मण्टपे यागनिर्मिते।
तत्र देवं समब्यर्च्य अर्घ्यपाद्यादिभिस्ततः ॥ 261 ॥

विश्वास-प्रस्तुतिः - 262

अग्नौ सन्तर्य्य विधिवत् पूर्णाहुत्यावसानिकम्।
अलंकृतं तु देवेशं पूर्ववद्वसनादिकैः ॥ 262 ॥

मूलम् - 262

अग्नौ सन्तर्य्य विधिवत् पूर्णाहुत्यावसानिकम्।
अलंकृतं तु देवेशं पूर्ववद्वसनादिकैः ॥ 262 ॥

विश्वास-प्रस्तुतिः - 263

यानादिके समारोप्य पूर्वोक्तक्रमयोगतः।
भ्रमयित्वा तु बेवेशं ग्रामे त्वन्तः प्रवेशयेत् ॥ 263 ॥

मूलम् - 263

यानादिके समारोप्य पूर्वोक्तक्रमयोगतः।
भ्रमयित्वा तु बेवेशं ग्रामे त्वन्तः प्रवेशयेत् ॥ 263 ॥

विश्वास-प्रस्तुतिः - 264

मण्टपे देवदेवेशमानीय स्नानविष्टरे।
समारोप्यार्घ्यपाद्यैश्च दद्यादाचमनं विभोः ॥ 264 ॥

मूलम् - 264

मण्टपे देवदेवेशमानीय स्नानविष्टरे।
समारोप्यार्घ्यपाद्यैश्च दद्यादाचमनं विभोः ॥ 264 ॥

विश्वास-प्रस्तुतिः - 265

गन्धं पुष्पं च धूपं च दीपं नीराजनान्तिमम्।
वेदघोषैश्च गीताद्यैरर्हणोदपुरस्सरम् ॥ 265 ॥

मूलम् - 265

गन्धं पुष्पं च धूपं च दीपं नीराजनान्तिमम्।
वेदघोषैश्च गीताद्यैरर्हणोदपुरस्सरम् ॥ 265 ॥

विश्वास-प्रस्तुतिः - 266

कदलीफलसंयुक्तमपूपं गुलसंयुतम्।
पानकं तर्पणजलं नालिकेररसान्वितम् ॥ 266 ॥

मूलम् - 266

कदलीफलसंयुक्तमपूपं गुलसंयुतम्।
पानकं तर्पणजलं नालिकेररसान्वितम् ॥ 266 ॥

विश्वास-प्रस्तुतिः - 267

ताम्बूलं शशिसंयुक्तम् ततो यात्रार्थकल्पितम्।
वसनाद्यं परित्यज्य स्नानशाटीं निवेद्य च ॥ 267 ॥

मूलम् - 267

ताम्बूलं शशिसंयुक्तम् ततो यात्रार्थकल्पितम्।
वसनाद्यं परित्यज्य स्नानशाटीं निवेद्य च ॥ 267 ॥

विश्वास-प्रस्तुतिः - 268

तैलेनाभ्यंजनं कृत्वा समुद्वर्त्य यथाविधि।
शिरस्यामलकं दत्वा संस्नाप्य बहुभिर्जलैः ॥ 268 ॥

मूलम् - 268

तैलेनाभ्यंजनं कृत्वा समुद्वर्त्य यथाविधि।
शिरस्यामलकं दत्वा संस्नाप्य बहुभिर्जलैः ॥ 268 ॥

विश्वास-प्रस्तुतिः - 269

वर्णकेन समालिप्य क्षालयित्वा तु वारिणा।
समालिप्य सुगन्धेन भक्तितश्चान्दनादिना ॥ 269 ॥

मूलम् - 269

वर्णकेन समालिप्य क्षालयित्वा तु वारिणा।
समालिप्य सुगन्धेन भक्तितश्चान्दनादिना ॥ 269 ॥

विश्वास-प्रस्तुतिः - 270

सहस्रधारया विप्र! स्नानं कृत्वा ततः परम्।
दत्वा सवन्दनं पश्चात् शिरः प्लोतादिशाटकम् ॥ 270 ॥

मूलम् - 270

सहस्रधारया विप्र! स्नानं कृत्वा ततः परम्।
दत्वा सवन्दनं पश्चात् शिरः प्लोतादिशाटकम् ॥ 270 ॥

विश्वास-प्रस्तुतिः - 271

दत्वा देवं समारोप्य तदन्यस्मिंस्तु विष्टरे।
करशुद्व्यादि सर्वं तु कृत्वान्तर्यागपश्चिमम् ॥ 271 ॥

मूलम् - 271

दत्वा देवं समारोप्य तदन्यस्मिंस्तु विष्टरे।
करशुद्व्यादि सर्वं तु कृत्वान्तर्यागपश्चिमम् ॥ 271 ॥

विश्वास-प्रस्तुतिः - 272

ततो यथाक्रमेणैव देवं संपूजयेद् द्विज!।
यद्वा दिनोत्सवे वृत्ते देवमानीय मण्टपे ॥ 272 ॥

मूलम् - 272

ततो यथाक्रमेणैव देवं संपूजयेद् द्विज!।
यद्वा दिनोत्सवे वृत्ते देवमानीय मण्टपे ॥ 272 ॥

विश्वास-प्रस्तुतिः - 273

वितते भद्रपीठे तु समारोप्याथ पूर्ववत्।
अर्घ्यादि सकलं विप्र! ताम्बूलान्तं निवेद्य च ॥ 273 ॥

मूलम् - 273

वितते भद्रपीठे तु समारोप्याथ पूर्ववत्।
अर्घ्यादि सकलं विप्र! ताम्बूलान्तं निवेद्य च ॥ 273 ॥

विश्वास-प्रस्तुतिः - 274

वस्त्राद्यं पूर्वक्लृप्तं यत् क्रमात् सर्वं विसृज्य च।
विनिवेद्य च वस्त्रं तु श्रमनिर्हरणार्थतः ॥ 274 ॥

मूलम् - 274

वस्त्राद्यं पूर्वक्लृप्तं यत् क्रमात् सर्वं विसृज्य च।
विनिवेद्य च वस्त्रं तु श्रमनिर्हरणार्थतः ॥ 274 ॥

विश्वास-प्रस्तुतिः - 275

समालब्य तु देवेशं सुगन्धैश्चन्दनादिकैः।
ततस्तु विधिना पूज्य यावदात्मनिवेदनम् ॥ 275 ॥

मूलम् - 275

समालब्य तु देवेशं सुगन्धैश्चन्दनादिकैः।
ततस्तु विधिना पूज्य यावदात्मनिवेदनम् ॥ 275 ॥

विश्वास-प्रस्तुतिः - 276

स्नानार्थं देवदेवस्य विज्ञाप्य विनिवेद्य च।
पादुके देवदेवेशं छत्राद्यैश्च समन्वितम् ॥ 276 ॥

मूलम् - 276

स्नानार्थं देवदेवस्य विज्ञाप्य विनिवेद्य च।
पादुके देवदेवेशं छत्राद्यैश्च समन्वितम् ॥ 276 ॥

विश्वास-प्रस्तुतिः - 277

तस्मादानीय पीठे तु स्नानार्थं परिकल्पिते।
समारोप्य तदाद्यैस्तु भोगैः सर्वैस्तु पूर्ववत् ॥ 277 ॥

मूलम् - 277

तस्मादानीय पीठे तु स्नानार्थं परिकल्पिते।
समारोप्य तदाद्यैस्तु भोगैः सर्वैस्तु पूर्ववत् ॥ 277 ॥

विश्वास-प्रस्तुतिः - 278

इष्ट्वा ताम्बूलदानान्तं स्कन्धशाटीं निवेदयेत्।
ततस्तैलं समादाय कर्पूराद्यैः सुभावितम् ॥ 278 ॥

मूलम् - 278

इष्ट्वा ताम्बूलदानान्तं स्कन्धशाटीं निवेदयेत्।
ततस्तैलं समादाय कर्पूराद्यैः सुभावितम् ॥ 278 ॥

विश्वास-प्रस्तुतिः - 279

देवस्य केशानालोड्च हस्ताब्यां कंकतेन तु।
अधिवास्य सुगन्यैस्तु धूपैरभ्यंजयेत् ततः ॥ 279 ॥

मूलम् - 279

देवस्य केशानालोड्च हस्ताब्यां कंकतेन तु।
अधिवास्य सुगन्यैस्तु धूपैरभ्यंजयेत् ततः ॥ 279 ॥

विश्वास-प्रस्तुतिः - 280

शिरो निष्पीड्य देवस्य वहुधा च ततः परम्।
केशानाबघ्य मालाभिः सूक्ष्मेण प्लोतकेन तु ॥ 280 ॥

मूलम् - 280

शिरो निष्पीड्य देवस्य वहुधा च ततः परम्।
केशानाबघ्य मालाभिः सूक्ष्मेण प्लोतकेन तु ॥ 280 ॥

विश्वास-प्रस्तुतिः - 281

ललाटोपरि बध्वा तु तथा मुखसरोरुहे।
देवस्य तैलनिष्यन्दा नापतन्ति यथा द्विज! ॥ 281 ॥

मूलम् - 281

ललाटोपरि बध्वा तु तथा मुखसरोरुहे।
देवस्य तैलनिष्यन्दा नापतन्ति यथा द्विज! ॥ 281 ॥

विश्वास-प्रस्तुतिः - 282

ततः स्कन्धप्रदेशात्तु यावत्पादावसानकम्।
अब्यंजयेच्च तैलेन सर्वगात्राणि मर्दयेत् ॥ 282 ॥

मूलम् - 282

ततः स्कन्धप्रदेशात्तु यावत्पादावसानकम्।
अब्यंजयेच्च तैलेन सर्वगात्राणि मर्दयेत् ॥ 282 ॥

विश्वास-प्रस्तुतिः - 283

तस्मिन् काले बहुविधैस्तालवृन्तैश्च चामरैः।
तत्तापशमनार्थं तु वीजयेयुः समन्ततः ॥ 283 ॥

मूलम् - 283

तस्मिन् काले बहुविधैस्तालवृन्तैश्च चामरैः।
तत्तापशमनार्थं तु वीजयेयुः समन्ततः ॥ 283 ॥

विश्वास-प्रस्तुतिः - 284

ततस्तु वाससोद्वर्त्य तथा चूर्णैः पुरोदितैः।
चमषीं च खलिं दत्वा दद्यादुष्णोदकं ततः ॥ 284 ॥

मूलम् - 284

ततस्तु वाससोद्वर्त्य तथा चूर्णैः पुरोदितैः।
चमषीं च खलिं दत्वा दद्यादुष्णोदकं ततः ॥ 284 ॥

विश्वास-प्रस्तुतिः - 285

चन्दनं मुखलेपार्थं घृष्टं कर्पूरभावितम्।
ततस्त्वामलकं कल्कं गन्धद्रव्यैः सुसंस्कृतम् ॥ 285 ॥

मूलम् - 285

चन्दनं मुखलेपार्थं घृष्टं कर्पूरभावितम्।
ततस्त्वामलकं कल्कं गन्धद्रव्यैः सुसंस्कृतम् ॥ 285 ॥

विश्वास-प्रस्तुतिः - 286

दत्वा शिरसि देवस्य प्रक्षाल्य वहुभिर्जलैः।
शनैः शनैः समालोड्य ततोऽर्घ्यं विनिवेद्य च ॥ 286 ॥

मूलम् - 286

दत्वा शिरसि देवस्य प्रक्षाल्य वहुभिर्जलैः।
शनैः शनैः समालोड्य ततोऽर्घ्यं विनिवेद्य च ॥ 286 ॥

विश्वास-प्रस्तुतिः - 287

लोध्रं कालेयकं चैव क्षालनार्घ्यसमन्वितम्।
दत्वा केशान् समाबध्य देवस्य प्लोतवाससा ॥ 287 ॥

मूलम् - 287

लोध्रं कालेयकं चैव क्षालनार्घ्यसमन्वितम्।
दत्वा केशान् समाबध्य देवस्य प्लोतवाससा ॥ 287 ॥

विश्वास-प्रस्तुतिः - 288

अधः शटीं निवेद्याथ पात्रे कृत्वा तु वर्णकम्।
कर्पूरचूर्णसंमिश्रं सम्यग्धूपाधिवासितम् ॥ 288 ॥

मूलम् - 288

अधः शटीं निवेद्याथ पात्रे कृत्वा तु वर्णकम्।
कर्पूरचूर्णसंमिश्रं सम्यग्धूपाधिवासितम् ॥ 288 ॥

विश्वास-प्रस्तुतिः - 289

तेन देवस्य गात्राणि लेपयेत्तु शनैः शनैः।
आकण्ठात् पादपर्यन्तं ततः प्रक्षालयेज्जलैः ॥ 289 ॥

मूलम् - 289

तेन देवस्य गात्राणि लेपयेत्तु शनैः शनैः।
आकण्ठात् पादपर्यन्तं ततः प्रक्षालयेज्जलैः ॥ 289 ॥

विश्वास-प्रस्तुतिः - 290

अपास्याथ शिरःप्लोतम् दद्यादर्घ्यं तु मूर्धनि।
ग्रन्थिपल्लवतोयादि सर्वरत्नोदकान्तिमम् ॥ 290 ॥

मूलम् - 290

अपास्याथ शिरःप्लोतम् दद्यादर्घ्यं तु मूर्धनि।
ग्रन्थिपल्लवतोयादि सर्वरत्नोदकान्तिमम् ॥ 290 ॥

विश्वास-प्रस्तुतिः - 291

संस्नाप्य सप्तभिस्तोयैः शिरःप्लोतं ददेद्विज!।
विनिवेद्याप्यधःशाटीं चन्दनेन सुगन्धिना ॥ 291 ॥

मूलम् - 291

संस्नाप्य सप्तभिस्तोयैः शिरःप्लोतं ददेद्विज!।
विनिवेद्याप्यधःशाटीं चन्दनेन सुगन्धिना ॥ 291 ॥

विश्वास-प्रस्तुतिः - 292

शशिचूर्णसमेतेन वासितेन हिमांबुना।
धूपाधिवासितेनापि समालभ्य विशेषतः ॥ 292 ॥

मूलम् - 292

शशिचूर्णसमेतेन वासितेन हिमांबुना।
धूपाधिवासितेनापि समालभ्य विशेषतः ॥ 292 ॥

विश्वास-प्रस्तुतिः - 293

गात्राणि देवदेवस्य तथा वै कुंकुमेन च।
उपवीतं सोत्तरीयं दत्वा प्लोतमपास्य च ॥ 293 ॥

मूलम् - 293

गात्राणि देवदेवस्य तथा वै कुंकुमेन च।
उपवीतं सोत्तरीयं दत्वा प्लोतमपास्य च ॥ 293 ॥

विश्वास-प्रस्तुतिः - 294

शिरस्यमथ केशांस्तु गन्धधूपाधिवासितान्।
आबद्य विविधैर्माल्यैः स्रग्दामानि निवेद्य च ॥ 294 ॥

मूलम् - 294

शिरस्यमथ केशांस्तु गन्धधूपाधिवासितान्।
आबद्य विविधैर्माल्यैः स्रग्दामानि निवेद्य च ॥ 294 ॥

विश्वास-प्रस्तुतिः - 295

ततस्तु बहुभिस्तोयैः संस्कृतैश्चन्दनादिना।
सहस्रधारया स्नानमाचरेद्देशिको विभोः ॥ 295 ॥

मूलम् - 295

ततस्तु बहुभिस्तोयैः संस्कृतैश्चन्दनादिना।
सहस्रधारया स्नानमाचरेद्देशिको विभोः ॥ 295 ॥

विश्वास-प्रस्तुतिः - 296

व्यापकान् चतुरो मन्त्रान् जपेदेकाग्रमानसः।
तस्मिन् काले बह्‌वृचाद्या द्बिजाः प्रागादिदिक्स्थिताः ॥ 296 ॥

मूलम् - 296

व्यापकान् चतुरो मन्त्रान् जपेदेकाग्रमानसः।
तस्मिन् काले बह्‌वृचाद्या द्बिजाः प्रागादिदिक्स्थिताः ॥ 296 ॥

विश्वास-प्रस्तुतिः - 297

सृक्तानि पौरुषाद्यानि अधीयीरन् समाहिताः।
शंखभेर्यादिकान् सम्यग् धोषयेयुः समन्ततः ॥ 297 ॥

मूलम् - 297

सृक्तानि पौरुषाद्यानि अधीयीरन् समाहिताः।
शंखभेर्यादिकान् सम्यग् धोषयेयुः समन्ततः ॥ 297 ॥

विश्वास-प्रस्तुतिः - 298

मंगलानि च गीतानि तदा गायन्तु गायकाः।
एवं स्नाने कृते पश्चात् देशिकेन्द्रः समाहितः ॥ 298 ॥

मूलम् - 298

मंगलानि च गीतानि तदा गायन्तु गायकाः।
एवं स्नाने कृते पश्चात् देशिकेन्द्रः समाहितः ॥ 298 ॥

विश्वास-प्रस्तुतिः - 299

पूर्णकुम्भं समादाय विभोः स्नपनमाचरेत्।
जपन् पवित्रमन्त्रं च तस्य निर्वचनं तथा ॥ 299 ॥

मूलम् - 299

पूर्णकुम्भं समादाय विभोः स्नपनमाचरेत्।
जपन् पवित्रमन्त्रं च तस्य निर्वचनं तथा ॥ 299 ॥

विश्वास-प्रस्तुतिः - 300

एवं स्नानं समापाद्य दद्यान्नीराजनं विभोः।
सवन्दनाख्यं तत्पश्चच्छाटकं विनिवेद्य च ॥ 300 ॥

मूलम् - 300

एवं स्नानं समापाद्य दद्यान्नीराजनं विभोः।
सवन्दनाख्यं तत्पश्चच्छाटकं विनिवेद्य च ॥ 300 ॥

विश्वास-प्रस्तुतिः - 301

कचोदकापकर्षार्थमपरं देहवारिभृत्।
अधरोत्तरवस्त्रेद्वे गन्धधूपाधिवासिते ॥ 301 ॥

मूलम् - 301

कचोदकापकर्षार्थमपरं देहवारिभृत्।
अधरोत्तरवस्त्रेद्वे गन्धधूपाधिवासिते ॥ 301 ॥

विश्वास-प्रस्तुतिः - 302

स्कन्धप्लोतं निवेद्याथ शिरः स्नानं निवेद्य च।
चन्दनादि सुगन्दं समाल्यानि विनिवेद्य च ॥ 302 ॥

मूलम् - 302

स्कन्धप्लोतं निवेद्याथ शिरः स्नानं निवेद्य च।
चन्दनादि सुगन्दं समाल्यानि विनिवेद्य च ॥ 302 ॥

विश्वास-प्रस्तुतिः - 303

पादुके विनिवेद्याथ तस्मात् स्थानात् समानयेत्।
तृतीयं रत्नखचितं आसनं विनिवेद्य च ॥ 303 ॥

मूलम् - 303

पादुके विनिवेद्याथ तस्मात् स्थानात् समानयेत्।
तृतीयं रत्नखचितं आसनं विनिवेद्य च ॥ 303 ॥

विश्वास-प्रस्तुतिः - 304

तत्रस्थं देवदेवेशमर्घ्याद्यैः पूजयेत् क्रमात्।
सर्वं होमावसानं च कृत्वा भूयः प्रपूज्य च ॥ 304 ॥

मूलम् - 304

तत्रस्थं देवदेवेशमर्घ्याद्यैः पूजयेत् क्रमात्।
सर्वं होमावसानं च कृत्वा भूयः प्रपूज्य च ॥ 304 ॥

विश्वास-प्रस्तुतिः - 305

महाहविर्निबेद्याथ सर्वं प्राग्वत् समाचरेत्।
एवं प्रतिदिनं चैव यावत्तीर्थदिनान्तिमम् ॥ 305 ॥

मूलम् - 305

महाहविर्निबेद्याथ सर्वं प्राग्वत् समाचरेत्।
एवं प्रतिदिनं चैव यावत्तीर्थदिनान्तिमम् ॥ 305 ॥

विश्वास-प्रस्तुतिः - 306

स्नपनं पूजनं चैव विभोः कुर्यादतन्द्रितः।
नित्योत्सवादौ देवस्य स्नपनं तु समाचरेत् ॥ 306 ॥

मूलम् - 306

स्नपनं पूजनं चैव विभोः कुर्यादतन्द्रितः।
नित्योत्सवादौ देवस्य स्नपनं तु समाचरेत् ॥ 306 ॥

विश्वास-प्रस्तुतिः - 307

दिनोत्सवसमारम्भे नाचरेत् स्नपनं विभोः।
यद्वोभयसमारम्भे कुर्यादिच्छानुरूपतः ॥ 307 ॥

मूलम् - 307

दिनोत्सवसमारम्भे नाचरेत् स्नपनं विभोः।
यद्वोभयसमारम्भे कुर्यादिच्छानुरूपतः ॥ 307 ॥

विश्वास-प्रस्तुतिः - 308

कलशे मण्डले चैव अह्नि रात्रौ च पूजनम्।
कुर्यात् प्रतिदिनं सम्यगेकवारं यथाविधि ॥ 308 ॥

मूलम् - 308

कलशे मण्डले चैव अह्नि रात्रौ च पूजनम्।
कुर्यात् प्रतिदिनं सम्यगेकवारं यथाविधि ॥ 308 ॥

विश्वास-प्रस्तुतिः - 309

बिंबंस्थं देवदेवेशमह्नि रात्रौ च पूजयेत्।
एकवारं द्विवारं वा त्रिवारं वा यथारुचि ॥ 309 ॥

मूलम् - 309

बिंबंस्थं देवदेवेशमह्नि रात्रौ च पूजयेत्।
एकवारं द्विवारं वा त्रिवारं वा यथारुचि ॥ 309 ॥

विश्वास-प्रस्तुतिः - 310

प्रासादे मूलबिंबस्थं सविशेषं यजेत् सदा।
पञ्चमे वासरे प्राप्ते पूर्वाह्ने तु दिनोत्सवम् ॥ 310 ॥

मूलम् - 310

प्रासादे मूलबिंबस्थं सविशेषं यजेत् सदा।
पञ्चमे वासरे प्राप्ते पूर्वाह्ने तु दिनोत्सवम् ॥ 310 ॥

विश्वास-प्रस्तुतिः - 311

कृत्वा ततस्तु देवेशं महास्नपनपूर्वकम्।
महता विभवेनैव लक्ष्मीपुष्टिसमन्बितम् ॥ 311 ॥

मूलम् - 311

कृत्वा ततस्तु देवेशं महास्नपनपूर्वकम्।
महता विभवेनैव लक्ष्मीपुष्टिसमन्बितम् ॥ 311 ॥

विश्वास-प्रस्तुतिः - 312

महाहविर्विधानेन विभवे सति पूजयेत्।
षष्ठे दिने तु संप्राप्ते कुम्भाचनपुरस्सरम् ॥ 312 ॥

मूलम् - 312

महाहविर्विधानेन विभवे सति पूजयेत्।
षष्ठे दिने तु संप्राप्ते कुम्भाचनपुरस्सरम् ॥ 312 ॥

विश्वास-प्रस्तुतिः - 313

अग्निसंतर्पणान्तं च पूजयित्वा विधानतः।
पूर्ववद्देवदेवेशं लक्ष्मीपुष्टिसमन्वितम् ॥ 313 ॥

मूलम् - 313

अग्निसंतर्पणान्तं च पूजयित्वा विधानतः।
पूर्ववद्देवदेवेशं लक्ष्मीपुष्टिसमन्वितम् ॥ 313 ॥

विश्वास-प्रस्तुतिः - 314

यानादिके समारोप्य प्रासादस्य बहिः व्कचित्।
उद्याने सुशुभे रम्ये पादपैर्वकुलादिभिः ॥ 314 ॥

मूलम् - 314

यानादिके समारोप्य प्रासादस्य बहिः व्कचित्।
उद्याने सुशुभे रम्ये पादपैर्वकुलादिभिः ॥ 314 ॥

विश्वास-प्रस्तुतिः - 315

प्रोच्छ्रितैर्विविधैर्वापि समन्तात् परिशोभिते।
पुष्पिताभिर्लताभिश्च सर्वतः परिभूषिते ॥ 315 ॥

मूलम् - 315

प्रोच्छ्रितैर्विविधैर्वापि समन्तात् परिशोभिते।
पुष्पिताभिर्लताभिश्च सर्वतः परिभूषिते ॥ 315 ॥

विश्वास-प्रस्तुतिः - 316

नीत्वा देवं समारोप्य यथार्हे विष्टरे पुरः।
श्रीपुष्टिसहितं प्राग्वद्धोमान्तं परिपूजयेत् ॥ 316 ॥

मूलम् - 316

नीत्वा देवं समारोप्य यथार्हे विष्टरे पुरः।
श्रीपुष्टिसहितं प्राग्वद्धोमान्तं परिपूजयेत् ॥ 316 ॥

विश्वास-प्रस्तुतिः - 317

सूक्ष्मवस्त्रदुकूलानि सरत्नाभरणान्यपि।
सुधाकस्तूरिकर्पूरदिव्यगन्धसमन्वितम् ॥ 317 ॥

मूलम् - 317

सूक्ष्मवस्त्रदुकूलानि सरत्नाभरणान्यपि।
सुधाकस्तूरिकर्पूरदिव्यगन्धसमन्वितम् ॥ 317 ॥

विश्वास-प्रस्तुतिः - 318

सर्वांङ्गदेवदेवेशं मृगस्नेहेन लेपयेत्।
पुष्पापचयमाल्यादिभूषितानां विशेषतः ॥ 318 ॥

मूलम् - 318

सर्वांङ्गदेवदेवेशं मृगस्नेहेन लेपयेत्।
पुष्पापचयमाल्यादिभूषितानां विशेषतः ॥ 318 ॥

विश्वास-प्रस्तुतिः - 319

परस्परं वा शक्तीनां क्रीडार्थं वाप्यलंकृताम्।
गरुडारूढदेवाय पारिजातहरं स्मरन् ॥ 319 ॥

मूलम् - 319

परस्परं वा शक्तीनां क्रीडार्थं वाप्यलंकृताम्।
गरुडारूढदेवाय पारिजातहरं स्मरन् ॥ 319 ॥

विश्वास-प्रस्तुतिः - 320

प्राभृतान्यपि पुष्पाणि देवदेवाय दर्शयेत्।
इदमस्मात् समायातं इत्युक्त्वा देशिकः स्वयम् ॥ 320 ॥

मूलम् - 320

प्राभृतान्यपि पुष्पाणि देवदेवाय दर्शयेत्।
इदमस्मात् समायातं इत्युक्त्वा देशिकः स्वयम् ॥ 320 ॥

विश्वास-प्रस्तुतिः - 321

पुष्पापचयकर्मार्थमेवं कृत्वा निवेद्य च।
तत्र वाऽन्यत्र वा स्थाने कर्तुरिच्छानुरूपतः ॥ 321 ॥

मूलम् - 321

पुष्पापचयकर्मार्थमेवं कृत्वा निवेद्य च।
तत्र वाऽन्यत्र वा स्थाने कर्तुरिच्छानुरूपतः ॥ 321 ॥

विश्वास-प्रस्तुतिः - 322

ततस्तु देवदेवेशं लक्ष्मीपुष्टिसमन्वितम्।
पूर्ववद्भ्रामयेत् ग्रामे शेषं प्राग्वत् समाचरेत् ॥ 322 ॥

मूलम् - 322

ततस्तु देवदेवेशं लक्ष्मीपुष्टिसमन्वितम्।
पूर्ववद्भ्रामयेत् ग्रामे शेषं प्राग्वत् समाचरेत् ॥ 322 ॥

विश्वास-प्रस्तुतिः - 323

सप्तमे दिवसे प्राप्ते प्रासादं संप्रविश्य च।
देशिकः साधकैः सार्धं प्रणिपत्य जगद्‌गुरुम् ॥ 323 ॥

मूलम् - 323

सप्तमे दिवसे प्राप्ते प्रासादं संप्रविश्य च।
देशिकः साधकैः सार्धं प्रणिपत्य जगद्‌गुरुम् ॥ 323 ॥

विश्वास-प्रस्तुतिः - 324

विज्ञापयेत्तु देवाय सम्यगुच्चस्थया गिरा।
“भगवन् पुण्डरीकाक्ष शरणागतवत्सल! ॥ 324 ॥

मूलम् - 324

विज्ञापयेत्तु देवाय सम्यगुच्चस्थया गिरा।
“भगवन् पुण्डरीकाक्ष शरणागतवत्सल! ॥ 324 ॥

विश्वास-प्रस्तुतिः - 325

अस्मिन्नहनि कर्तव्या जलक्रीडा त्वया विभो।
शुद्धये सर्वलोकानां देवानां प्रीतयेपि च ॥ 325 ॥

मूलम् - 325

अस्मिन्नहनि कर्तव्या जलक्रीडा त्वया विभो।
शुद्धये सर्वलोकानां देवानां प्रीतयेपि च ॥ 325 ॥

यात्रा तदर्थं कर्तव्या मदनुग्रहकाम्यया।" इति विज्ञाप्य देवाय प्रणम्य च पुनः पुनः ॥ 326 ॥
विश्वास-प्रस्तुतिः - 327

यानादौ देवमारोप्य लक्ष्मीपुष्टिसमन्वितम्।
नीत्वा मज्जनशालां तु स्नानोपकरणैर्युताम् ॥ 327 ॥

मूलम् - 327

यानादौ देवमारोप्य लक्ष्मीपुष्टिसमन्वितम्।
नीत्वा मज्जनशालां तु स्नानोपकरणैर्युताम् ॥ 327 ॥

विश्वास-प्रस्तुतिः - 328

तद्गतान् सर्वसंभारान् दर्शायित्वा विभोस्ततः।
चन्दनाद्यैः समालभ्य देवं माल्यैर्विभूष्य च ॥ 328 ॥

मूलम् - 328

तद्गतान् सर्वसंभारान् दर्शायित्वा विभोस्ततः।
चन्दनाद्यैः समालभ्य देवं माल्यैर्विभूष्य च ॥ 328 ॥

विश्वास-प्रस्तुतिः - 329

विनिवेद्य च ताम्बूलं मुखवाससमन्वितम्।
समाहूय च तत्रस्थानाज्ञाप्य परिचारकान् ॥ 329 ॥

मूलम् - 329

विनिवेद्य च ताम्बूलं मुखवाससमन्वितम्।
समाहूय च तत्रस्थानाज्ञाप्य परिचारकान् ॥ 329 ॥

विश्वास-प्रस्तुतिः - 330

प्राप्तेऽपराह्वसमये जलक्रीडा भविष्यति।
तदर्थाः सर्वसंभाराः स्थापितव्यास्तु मण्डपे ॥ 330 ॥

मूलम् - 330

प्राप्तेऽपराह्वसमये जलक्रीडा भविष्यति।
तदर्थाः सर्वसंभाराः स्थापितव्यास्तु मण्डपे ॥ 330 ॥

विश्वास-प्रस्तुतिः - 331

इत्याज्ञाप्य ततस्तस्माद्‌धान्यागारं प्रविश्य च।
दर्शयित्वा तु धान्यानि विभोस्तेषां समृद्धये ॥ 331 ॥

मूलम् - 331

इत्याज्ञाप्य ततस्तस्माद्‌धान्यागारं प्रविश्य च।
दर्शयित्वा तु धान्यानि विभोस्तेषां समृद्धये ॥ 331 ॥

विश्वास-प्रस्तुतिः - 332

उद्यानादौ समानीय विनिवेद्य च तत्स्थितान्।
उपहारान् यथायोगं तत आस्थानमण्टपे ॥ 332 ॥

मूलम् - 332

उद्यानादौ समानीय विनिवेद्य च तत्स्थितान्।
उपहारान् यथायोगं तत आस्थानमण्टपे ॥ 332 ॥

विश्वास-प्रस्तुतिः - 333

पूजयेद्देवदेवेशं श्रीपुष्टिभ्यां समन्वितम्।
सविशेषं ततो लक्ष्मीं पुष्टिमन्तः प्रवेशयेत् ॥ 333 ॥

मूलम् - 333

पूजयेद्देवदेवेशं श्रीपुष्टिभ्यां समन्वितम्।
सविशेषं ततो लक्ष्मीं पुष्टिमन्तः प्रवेशयेत् ॥ 333 ॥

विश्वास-प्रस्तुतिः - 334

प्राग्वद्दिनोचितं सम्यक् कृत्वा पश्चात्तु मण्टपे।
देवदेवं समानीय समारोप्य च विष्टरे ॥ 334 ॥

मूलम् - 334

प्राग्वद्दिनोचितं सम्यक् कृत्वा पश्चात्तु मण्टपे।
देवदेवं समानीय समारोप्य च विष्टरे ॥ 334 ॥

विश्वास-प्रस्तुतिः - 335

अर्ध्यात् ताम्बूलपर्यन्तं सर्वं प्राग्वन्निवेद्य च।
स्नानार्थं शाटिकां वापि विनिवेद्य जगत्पतेः ॥ 335 ॥

मूलम् - 335

अर्ध्यात् ताम्बूलपर्यन्तं सर्वं प्राग्वन्निवेद्य च।
स्नानार्थं शाटिकां वापि विनिवेद्य जगत्पतेः ॥ 335 ॥

विश्वास-प्रस्तुतिः - 336

मण्डपस्यैकदेशे तु शालितण्डुलनिर्मिते।
विष्टरे तु जलद्रोणीं सौवर्णीं वापि राजतीम् ॥ 336 ॥

मूलम् - 336

मण्डपस्यैकदेशे तु शालितण्डुलनिर्मिते।
विष्टरे तु जलद्रोणीं सौवर्णीं वापि राजतीम् ॥ 336 ॥

विश्वास-प्रस्तुतिः - 337

ताम्रजं वा यथालाभं चतुस्त्रिद्विकरायताः।
तदर्धविस्तृतामूर्ध्वे मूले तत्पादविस्तृताम् ॥ 337 ॥

मूलम् - 337

ताम्रजं वा यथालाभं चतुस्त्रिद्विकरायताः।
तदर्धविस्तृतामूर्ध्वे मूले तत्पादविस्तृताम् ॥ 337 ॥

विश्वास-प्रस्तुतिः - 338

वृत्तायतामधोभागे प्रणालेन समन्विताम्।
उन्मत्तकुसुमाकारसदृशामथवा द्विज! ॥ 338 ॥

मूलम् - 338

वृत्तायतामधोभागे प्रणालेन समन्विताम्।
उन्मत्तकुसुमाकारसदृशामथवा द्विज! ॥ 338 ॥

विश्वास-प्रस्तुतिः - 339

बिंबमानानुरूपां तां सर्वलक्षणसंयुताम्।
निवेश्य तां समापूर्य गालितेन जलेन तु ॥ 339 ॥

मूलम् - 339

बिंबमानानुरूपां तां सर्वलक्षणसंयुताम्।
निवेश्य तां समापूर्य गालितेन जलेन तु ॥ 339 ॥

विश्वास-प्रस्तुतिः - 340

कुंकुमक्षोदयुक्तेन चन्दनेनान्वितेन च।
कर्पूरचूर्णयुक्तेन कुसुमैर्वासितेन च ॥ 340 ॥

मूलम् - 340

कुंकुमक्षोदयुक्तेन चन्दनेनान्वितेन च।
कर्पूरचूर्णयुक्तेन कुसुमैर्वासितेन च ॥ 340 ॥

विश्वास-प्रस्तुतिः - 341

तत्पार्श्वे देवमानीय चार्घ्याद्यैः परिपूज्य च।
भेरीपटहवादित्रशंखघोपसमन्वितम् ॥ 341 ॥

मूलम् - 341

तत्पार्श्वे देवमानीय चार्घ्याद्यैः परिपूज्य च।
भेरीपटहवादित्रशंखघोपसमन्वितम् ॥ 341 ॥

विश्वास-प्रस्तुतिः - 342

स्तुतिमंगलघोषैस्तु श्रुतिघोषसमन्वितम्।
सूक्तेन पौरुषेणैव विभोः कृत्वावगाहनम् ॥ 342 ॥

मूलम् - 342

स्तुतिमंगलघोषैस्तु श्रुतिघोषसमन्वितम्।
सूक्तेन पौरुषेणैव विभोः कृत्वावगाहनम् ॥ 342 ॥

विश्वास-प्रस्तुतिः - 343

याने देवं समारोप्य सह स्नानार्द्रवाससा।
कुंकुमेन समालिप्य आपादान्मस्तकावधि ॥ 343 ॥

मूलम् - 343

याने देवं समारोप्य सह स्नानार्द्रवाससा।
कुंकुमेन समालिप्य आपादान्मस्तकावधि ॥ 343 ॥

विश्वास-प्रस्तुतिः - 344

ब्रामयेत् प्रांकणं वीधीं प्रीतये वरुणस्य च।
जनानामपि सर्वेषां पवित्रीकरणाय च ॥ 344 ॥

मूलम् - 344

ब्रामयेत् प्रांकणं वीधीं प्रीतये वरुणस्य च।
जनानामपि सर्वेषां पवित्रीकरणाय च ॥ 344 ॥

विश्वास-प्रस्तुतिः - 345

तत्काले देवदेवेशं भक्त्या पश्यन्ति ये जनाः।
ते सर्वे धूतपाप्मानो भवन्ति निरुपद्रवाः ॥ 345 ॥

मूलम् - 345

तत्काले देवदेवेशं भक्त्या पश्यन्ति ये जनाः।
ते सर्वे धूतपाप्मानो भवन्ति निरुपद्रवाः ॥ 345 ॥

विश्वास-प्रस्तुतिः - 346

ततस्तु मण्डपे देवं विष्टरे विनिवेश्य च।
स्नानवस्त्रादि सकलमाचार्यः स्वयमाहरेत् ॥ 346 ॥

मूलम् - 346

ततस्तु मण्डपे देवं विष्टरे विनिवेश्य च।
स्नानवस्त्रादि सकलमाचार्यः स्वयमाहरेत् ॥ 346 ॥

विश्वास-प्रस्तुतिः - 347

ततो निशोत्सवान्तं च सर्वं पूर्ववदाचरेत्।
अष्टमे दिवसे प्राप्ते आचरेन्मृगयां विभोः ॥ 347 ॥

मूलम् - 347

ततो निशोत्सवान्तं च सर्वं पूर्ववदाचरेत्।
अष्टमे दिवसे प्राप्ते आचरेन्मृगयां विभोः ॥ 347 ॥

विश्वास-प्रस्तुतिः - 348

प्रातरारभ्य पूर्वाह्वे देवमिष्ट्वा तु पूर्ववत्।
अश्वरत्नं समानीय सर्वालंकारशोबितम् ॥ 348 ॥

मूलम् - 348

प्रातरारभ्य पूर्वाह्वे देवमिष्ट्वा तु पूर्ववत्।
अश्वरत्नं समानीय सर्वालंकारशोबितम् ॥ 348 ॥

विश्वास-प्रस्तुतिः - 349

बहुभिस्तुरगैः सार्धं हस्तिनं वा तथाविधम्।
स्वभावं कृत्रिणं वापि तत्रारोप्य जगत्पतिम् ॥ 349 ॥

मूलम् - 349

बहुभिस्तुरगैः सार्धं हस्तिनं वा तथाविधम्।
स्वभावं कृत्रिणं वापि तत्रारोप्य जगत्पतिम् ॥ 349 ॥

विश्वास-प्रस्तुतिः - 350

मृगयानुगुणैः सर्वैर्भूषणाद्यैर्विभूषितम्।
आरोप्य याने सौवर्णे श्रियं च धरणीं तथा ॥ 350 ॥

मूलम् - 350

मृगयानुगुणैः सर्वैर्भूषणाद्यैर्विभूषितम्।
आरोप्य याने सौवर्णे श्रियं च धरणीं तथा ॥ 350 ॥

विश्वास-प्रस्तुतिः - 351

ताभ्यां सह परिब्राम्य ग्रामादौ पूर्ववद्विभुम्।
सैन्यैश्च विविधैः सार्धं भक्ताद्यैश्च तथैव हि ॥ 351 ॥

मूलम् - 351

ताभ्यां सह परिब्राम्य ग्रामादौ पूर्ववद्विभुम्।
सैन्यैश्च विविधैः सार्धं भक्ताद्यैश्च तथैव हि ॥ 351 ॥

विश्वास-प्रस्तुतिः - 352

ततो ग्रामस्य बाह्ये तु क्रोशमात्रान्तरीकृते।
उद्याने वितते रम्ये विचित्रैः पादपैर्द्विज! ॥ 352 ॥

मूलम् - 352

ततो ग्रामस्य बाह्ये तु क्रोशमात्रान्तरीकृते।
उद्याने वितते रम्ये विचित्रैः पादपैर्द्विज! ॥ 352 ॥

विश्वास-प्रस्तुतिः - 353

सरसीभिर्विचित्राभिः लताब-न्दैश्च पुष्पितैः।
शोभिते च समानीय देवं तन्मध्यसंस्थिते ॥ 353 ॥

मूलम् - 353

सरसीभिर्विचित्राभिः लताब-न्दैश्च पुष्पितैः।
शोभिते च समानीय देवं तन्मध्यसंस्थिते ॥ 353 ॥

विश्वास-प्रस्तुतिः - 354

मण्टपे तु वितानाद्यैः सर्वतः परिभूषिते।
सौवर्णे विष्टरे रम्ये समारोप्य जगत्पतिम् ॥ 354 ॥

मूलम् - 354

मण्टपे तु वितानाद्यैः सर्वतः परिभूषिते।
सौवर्णे विष्टरे रम्ये समारोप्य जगत्पतिम् ॥ 354 ॥

विश्वास-प्रस्तुतिः - 355

श्रीभूमिसहितं पश्चाच्छीतलैर्व्यजनानिलैः।
चन्दनाद्यैः सुगन्धैश्च हिमतोयैस्च शीतलैः ॥ 355 ॥

मूलम् - 355

श्रीभूमिसहितं पश्चाच्छीतलैर्व्यजनानिलैः।
चन्दनाद्यैः सुगन्धैश्च हिमतोयैस्च शीतलैः ॥ 355 ॥

विश्वास-प्रस्तुतिः - 356

स्वेदशान्तिं समापाद्य विशेषाद्राजराजवत्।
ततोऽर्घ्यादिबिरभ्यर्च्य दघ्यन्नं विनिवेदयेत् ॥ 356 ॥

मूलम् - 356

स्वेदशान्तिं समापाद्य विशेषाद्राजराजवत्।
ततोऽर्घ्यादिबिरभ्यर्च्य दघ्यन्नं विनिवेदयेत् ॥ 356 ॥

विश्वास-प्रस्तुतिः - 357

मरीचिचूर्णसंमिश्रं जीरकादिसन्वितम्।
गुलखण्डयुतं शुद्धं पानकानि बहूनि च ॥ 357 ॥

मूलम् - 357

मरीचिचूर्णसंमिश्रं जीरकादिसन्वितम्।
गुलखण्डयुतं शुद्धं पानकानि बहूनि च ॥ 357 ॥

विश्वास-प्रस्तुतिः - 358

कदलीफलपूर्वाणि मधुराणि फलान्यपि।
सर्वं ताम्बूलदानान्तं क्रमात् कृत्वा ततः परम् ॥ 358 ॥

मूलम् - 358

कदलीफलपूर्वाणि मधुराणि फलान्यपि।
सर्वं ताम्बूलदानान्तं क्रमात् कृत्वा ततः परम् ॥ 358 ॥

विश्वास-प्रस्तुतिः - 359

स्नानपूर्वं समभ्यर्च्य महता विभवेन तु।
यथाक्रमेण देवेशं लक्ष्मीपुष्टिसमन्वितम् ॥ 359 ॥

मूलम् - 359

स्नानपूर्वं समभ्यर्च्य महता विभवेन तु।
यथाक्रमेण देवेशं लक्ष्मीपुष्टिसमन्वितम् ॥ 359 ॥

विश्वास-प्रस्तुतिः - 360

निवेद्य च प्रमूतान्नमलंकृत्य विशेषतः।
तुरगादौ समारोप्य अस्तं याते दिवाकरे ॥ 360 ॥

मूलम् - 360

निवेद्य च प्रमूतान्नमलंकृत्य विशेषतः।
तुरगादौ समारोप्य अस्तं याते दिवाकरे ॥ 360 ॥

विश्वास-प्रस्तुतिः - 361

दीपानेकशतैर्युक्तं ग्रामं नीत्वा प्रदक्षिणम्।
देवं गेहे प्रवेश्याथ प्राग्वत् कुर्यान्निशोत्सवम् ॥ 361 ॥

मूलम् - 361

दीपानेकशतैर्युक्तं ग्रामं नीत्वा प्रदक्षिणम्।
देवं गेहे प्रवेश्याथ प्राग्वत् कुर्यान्निशोत्सवम् ॥ 361 ॥

विश्वास-प्रस्तुतिः - 362

तद्रात्रौ तीर्थबिंबस्य कुर्यात् कौतुकबन्धनम्।
आचार्यो यजमानेन साधकैश्च समन्वितः ॥ 362 ॥

मूलम् - 362

तद्रात्रौ तीर्थबिंबस्य कुर्यात् कौतुकबन्धनम्।
आचार्यो यजमानेन साधकैश्च समन्वितः ॥ 362 ॥

विश्वास-प्रस्तुतिः - 363

प्रासादं संप्रविश्याथ प्रणम्य च मुहुर्मुहुः।
दण्डवत्प्रणिपातेन इमं मन्त्रमुदीरयेत् ॥ 363 ॥

मूलम् - 363

प्रासादं संप्रविश्याथ प्रणम्य च मुहुर्मुहुः।
दण्डवत्प्रणिपातेन इमं मन्त्रमुदीरयेत् ॥ 363 ॥

विश्वास-प्रस्तुतिः - 364

“तीर्थयात्रा त्वया देव! श्वः कर्तव्या सुरेश्वर!।
तत्र प्रतिसरारम्भं त्वमनुज्ञातुमर्हसि” ॥ 364 ॥

मूलम् - 364

“तीर्थयात्रा त्वया देव! श्वः कर्तव्या सुरेश्वर!।
तत्र प्रतिसरारम्भं त्वमनुज्ञातुमर्हसि” ॥ 364 ॥

विश्वास-प्रस्तुतिः - 365

इति विज्ञाप्य देवस्य तीर्थबिंबं समानयेत्।
तदलाभे मुनिश्रेष्ठ! नित्यस्नपनकौतुकम् ॥ 365 ॥

मूलम् - 365

इति विज्ञाप्य देवस्य तीर्थबिंबं समानयेत्।
तदलाभे मुनिश्रेष्ठ! नित्यस्नपनकौतुकम् ॥ 365 ॥

विश्वास-प्रस्तुतिः - 366

अलाभे त्वस्य बिंबस्य बलिबिंबं तु वा द्विज!।
मूलिबंबस्य पुरतः संस्थाप्यावाह्य पूज्य च ॥ 366 ॥

मूलम् - 366

अलाभे त्वस्य बिंबस्य बलिबिंबं तु वा द्विज!।
मूलिबंबस्य पुरतः संस्थाप्यावाह्य पूज्य च ॥ 366 ॥

विश्वास-प्रस्तुतिः - 367

प्रासादाब्यन्तरे कुर्याद्‌वेदिकां व्रीहिभिः शुभाम्।
हस्तमात्रोन्नतायामविस्तारां पझसन्निभाम् ॥ 367 ॥

मूलम् - 367

प्रासादाब्यन्तरे कुर्याद्‌वेदिकां व्रीहिभिः शुभाम्।
हस्तमात्रोन्नतायामविस्तारां पझसन्निभाम् ॥ 367 ॥

विश्वास-प्रस्तुतिः - 368

वासोभिर्वेष्टयित्वा तां चतुरश्रायतां ततः।
पालिकाः सांकुरा बाह्ये स्थापयेत् ककुभष्टके ॥ 368 ॥

मूलम् - 368

वासोभिर्वेष्टयित्वा तां चतुरश्रायतां ततः।
पालिकाः सांकुरा बाह्ये स्थापयेत् ककुभष्टके ॥ 368 ॥

विश्वास-प्रस्तुतिः - 369

तद्बहिर्घटिकास्तद्वच्छरावांस्तद्वहिस्तथा।
तद्‌र्ध्वे देवमारोप्य घृतारोपणमाचरेत् ॥ 369 ॥

मूलम् - 369

तद्बहिर्घटिकास्तद्वच्छरावांस्तद्वहिस्तथा।
तद्‌र्ध्वे देवमारोप्य घृतारोपणमाचरेत् ॥ 369 ॥

विश्वास-प्रस्तुतिः - 370

देवस्य पुरतः स्थाप्य पात्रं लोहविनिर्मितम्।
घृतेनापूर्य तत् पात्रं प्राग्वत् संस्कृत्य देशिकः ॥ 370 ॥

मूलम् - 370

देवस्य पुरतः स्थाप्य पात्रं लोहविनिर्मितम्।
घृतेनापूर्य तत् पात्रं प्राग्वत् संस्कृत्य देशिकः ॥ 370 ॥

विश्वास-प्रस्तुतिः - 371

उभाभ्यां चैव हस्ताभ्यां दूर्वामादाय मूलतः।
घृते निमज्य चाग्राणि देवपादेषु सेचयेत् ॥ 371 ॥

मूलम् - 371

उभाभ्यां चैव हस्ताभ्यां दूर्वामादाय मूलतः।
घृते निमज्य चाग्राणि देवपादेषु सेचयेत् ॥ 371 ॥

विश्वास-प्रस्तुतिः - 372

ततस्तु कण्ठपार्श्वे तु ततो देवस्य भूर्धनि।
पाणिप्रक्षालनं कुर्यादन्तरान्तरयोगतः ॥ 372 ॥

मूलम् - 372

ततस्तु कण्ठपार्श्वे तु ततो देवस्य भूर्धनि।
पाणिप्रक्षालनं कुर्यादन्तरान्तरयोगतः ॥ 372 ॥

विश्वास-प्रस्तुतिः - 373

दूर्वाभेदस्तथा प्रोक्तो घृतारोपणकर्मणि।
हस्तव्यत्यासमार्गेण घृतारोपणमाचरेत् ॥ 373 ॥

मूलम् - 373

दूर्वाभेदस्तथा प्रोक्तो घृतारोपणकर्मणि।
हस्तव्यत्यासमार्गेण घृतारोपणमाचरेत् ॥ 373 ॥

विश्वास-प्रस्तुतिः - 374

पादे “सुमंगलं चे” ति कठे भद्रमिति द्विज!।
“सुशोभनं” तु शिरसि क्रमान्मन्त्रः प्रतिष्ठितः ॥ 374 ॥

मूलम् - 374

पादे “सुमंगलं चे” ति कठे भद्रमिति द्विज!।
“सुशोभनं” तु शिरसि क्रमान्मन्त्रः प्रतिष्ठितः ॥ 374 ॥

विश्वास-प्रस्तुतिः - 375

यद्वा सर्वस्य मन्त्रस्य द्वादशाक्षरसंज्ञितः।
अक्षतस्यार्पणं कृत्वा कुर्यात् कौतुकबन्धनम् ॥ 375 ॥

मूलम् - 375

यद्वा सर्वस्य मन्त्रस्य द्वादशाक्षरसंज्ञितः।
अक्षतस्यार्पणं कृत्वा कुर्यात् कौतुकबन्धनम् ॥ 375 ॥

विश्वास-प्रस्तुतिः - 376

ऊर्णामयेन सूत्रेण क्षौमसूत्रेण तेन च।
प्राग्विधानेन तत्पस्चाच्चामराद्यैश्च वीजयेत् ॥ 376 ॥

मूलम् - 376

ऊर्णामयेन सूत्रेण क्षौमसूत्रेण तेन च।
प्राग्विधानेन तत्पस्चाच्चामराद्यैश्च वीजयेत् ॥ 376 ॥

विश्वास-प्रस्तुतिः - 377

दर्शयेद्दर्पणं छत्रमन्यानि मंगलान्यपि।
निवेद्य पायसं पश्चाद्‌विभवानुगुणं ततः ॥ 377 ॥

मूलम् - 377

दर्शयेद्दर्पणं छत्रमन्यानि मंगलान्यपि।
निवेद्य पायसं पश्चाद्‌विभवानुगुणं ततः ॥ 377 ॥

विश्वास-प्रस्तुतिः - 378

शिरसा शाययित्वा तु देवेशं शयनोपरि।
गुग्गुल्वगरुधूपैश्च धूपयित्वा समन्ततः ॥ 378 ॥

मूलम् - 378

शिरसा शाययित्वा तु देवेशं शयनोपरि।
गुग्गुल्वगरुधूपैश्च धूपयित्वा समन्ततः ॥ 378 ॥

विश्वास-प्रस्तुतिः - 379

अनिर्वाणैः प्रदीपैस्तु रात्रिशेषं समापयेत्।
आचार्यः प्रातरुथाय कृत्वा स्नानादिकं ततः ॥ 379 ॥

मूलम् - 379

अनिर्वाणैः प्रदीपैस्तु रात्रिशेषं समापयेत्।
आचार्यः प्रातरुथाय कृत्वा स्नानादिकं ततः ॥ 379 ॥

विश्वास-प्रस्तुतिः - 380

देवमुत्सवबिंबस्थं प्राग्वत्पूज्य विधानतः।
पूर्वाह्वे वाथ मध्याह्वे कृत्वा पूर्वं रथोत्सवम् ॥ 380 ॥

मूलम् - 380

देवमुत्सवबिंबस्थं प्राग्वत्पूज्य विधानतः।
पूर्वाह्वे वाथ मध्याह्वे कृत्वा पूर्वं रथोत्सवम् ॥ 380 ॥

विश्वास-प्रस्तुतिः - 381

कारयेत्तीर्थपूर्वाह्ने अथ मध्याह्वपूर्ववत्।
देवं गेहे समानीय स्वस्थाने सन्निवेशयेत् ॥ 381 ॥

मूलम् - 381

कारयेत्तीर्थपूर्वाह्ने अथ मध्याह्वपूर्ववत्।
देवं गेहे समानीय स्वस्थाने सन्निवेशयेत् ॥ 381 ॥

विश्वास-प्रस्तुतिः - 382

देवोपयुक्तमाल्यानि चन्दनादीन्यपि द्विज!।
प्रदद्याद्देशिकेन्द्राय सोपि तैः परिभूषितः ॥ 382 ॥

मूलम् - 382

देवोपयुक्तमाल्यानि चन्दनादीन्यपि द्विज!।
प्रदद्याद्देशिकेन्द्राय सोपि तैः परिभूषितः ॥ 382 ॥

विश्वास-प्रस्तुतिः - 383

कारयेत्तीर्थयात्रां चदेवेशस्य विधानतः।
तीर्थबिंबगतं देवं शयनात् प्रतिबोध्य च ॥ 383 ॥

मूलम् - 383

कारयेत्तीर्थयात्रां चदेवेशस्य विधानतः।
तीर्थबिंबगतं देवं शयनात् प्रतिबोध्य च ॥ 383 ॥

विश्वास-प्रस्तुतिः - 384

पूजयित्वार्घ्यगन्धाद्यैरानीयास्थानमण्टपे।
पूजयित्वार्घ्यपाद्याद्यैर्धृतारोपं तु पूर्ववत् ॥ 384 ॥

मूलम् - 384

पूजयित्वार्घ्यगन्धाद्यैरानीयास्थानमण्टपे।
पूजयित्वार्घ्यपाद्याद्यैर्धृतारोपं तु पूर्ववत् ॥ 384 ॥

विश्वास-प्रस्तुतिः - 385

कृत्वा पुरोदितानां तु स्नपनानां चतुर्थके।
नवके स्नपनं स्थाष्य मद्यमद्यमसंज्ञितत् ॥ 385 ॥

मूलम् - 385

कृत्वा पुरोदितानां तु स्नपनानां चतुर्थके।
नवके स्नपनं स्थाष्य मद्यमद्यमसंज्ञितत् ॥ 385 ॥

विश्वास-प्रस्तुतिः - 386

पुरतः स्थण्डिलं कृत्वोलूखलं तत्र विन्यसेत्।
मुसलानि चतुर्दिक्षु विन्यस्योलूखलोपरि ॥ 386 ॥

मूलम् - 386

पुरतः स्थण्डिलं कृत्वोलूखलं तत्र विन्यसेत्।
मुसलानि चतुर्दिक्षु विन्यस्योलूखलोपरि ॥ 386 ॥

विश्वास-प्रस्तुतिः - 387

मुसरोलूखले गृह्य दूर्वाकाण्डानि बन्धयेत्।
नववस्त्रेण संवेष्ट्य तत्र चूर्णं विनिक्षिपेत् ॥ 387 ॥

मूलम् - 387

मुसरोलूखले गृह्य दूर्वाकाण्डानि बन्धयेत्।
नववस्त्रेण संवेष्ट्य तत्र चूर्णं विनिक्षिपेत् ॥ 387 ॥

विश्वास-प्रस्तुतिः - 388

सौवर्णरजनीचूर्णसंमिश्रं गन्धसंयुतम्।
चतुर्भिर्वैष्णवैर्विप्रैर्वैष्णवीभिस्तु वा द्विज! ॥ 388 ॥

मूलम् - 388

सौवर्णरजनीचूर्णसंमिश्रं गन्धसंयुतम्।
चतुर्भिर्वैष्णवैर्विप्रैर्वैष्णवीभिस्तु वा द्विज! ॥ 388 ॥

विश्वास-प्रस्तुतिः - 389

कारयेदवघातं तु गीयमानेपि मंगले।
स्थापितस्नपनाद्विप्र! प्राग्भागे वा तदुत्तरे ॥ 389 ।

मूलम् - 389

कारयेदवघातं तु गीयमानेपि मंगले।
स्थापितस्नपनाद्विप्र! प्राग्भागे वा तदुत्तरे ॥ 389 ।

विश्वास-प्रस्तुतिः - 390

तण्डुलैः पीठिकां कृत्वा तत्र कुंभं निवेश्य च।
ससूत्रं तत्र निक्षिष्य चूर्णं वस्त्रेण वेष्ट्य च ॥ 390 ॥

मूलम् - 390

तण्डुलैः पीठिकां कृत्वा तत्र कुंभं निवेश्य च।
ससूत्रं तत्र निक्षिष्य चूर्णं वस्त्रेण वेष्ट्य च ॥ 390 ॥

विश्वास-प्रस्तुतिः - 391

अथवा पञ्च नव वा कलशांश्चूर्णपूरितान्।
अर्चयित्वा तु मूलेन ततः संस्नापयेद्विभुम् ॥ 391 ॥

मूलम् - 391

अथवा पञ्च नव वा कलशांश्चूर्णपूरितान्।
अर्चयित्वा तु मूलेन ततः संस्नापयेद्विभुम् ॥ 391 ॥

विश्वास-प्रस्तुतिः - 392

तैलेनाभ्यज्य देवेशं समुद्वर्त्य च पूर्ववत्।
ततः संस्नाप्य विधिना घृताद्यं मंगलान्तिमम् ॥ 392 ॥

मूलम् - 392

तैलेनाभ्यज्य देवेशं समुद्वर्त्य च पूर्ववत्।
ततः संस्नाप्य विधिना घृताद्यं मंगलान्तिमम् ॥ 392 ॥

विश्वास-प्रस्तुतिः - 393

सहस्रधारया स्नानं कृत्वा संशुद्धवारिणा।
अधरोत्तरवस्त्राभ्यां नवाभ्यां परिधाप्य च ॥ 393 ॥

मूलम् - 393

सहस्रधारया स्नानं कृत्वा संशुद्धवारिणा।
अधरोत्तरवस्त्राभ्यां नवाभ्यां परिधाप्य च ॥ 393 ॥

विश्वास-प्रस्तुतिः - 394

सूक्ष्माभ्यां धूपिताभ्यां च ततो देवं समर्च्य च।
अर्घ्यालभनमाल्याद्यैर्हेमचूर्णादिपूरितम् ॥ 394 ॥

मूलम् - 394

सूक्ष्माभ्यां धूपिताभ्यां च ततो देवं समर्च्य च।
अर्घ्यालभनमाल्याद्यैर्हेमचूर्णादिपूरितम् ॥ 394 ॥

विश्वास-प्रस्तुतिः - 395

कुम्भमादाय तेनैव चूर्णैः समभिषेचयेत्।
अर्घ्याद्यैः पूजयित्वा तु बिंबं तु परिमृज्य च ॥ 395 ॥

मूलम् - 395

कुम्भमादाय तेनैव चूर्णैः समभिषेचयेत्।
अर्घ्याद्यैः पूजयित्वा तु बिंबं तु परिमृज्य च ॥ 395 ॥

विश्वास-प्रस्तुतिः - 396

भुक्रावशिष्टं तच्चूर्णं भक्तानां मूर्ध्नि दापयेत्।
गंगास्नानफलं चूर्णं सर्वपापप्रणाशनम् ॥ 396 ॥

मूलम् - 396

भुक्रावशिष्टं तच्चूर्णं भक्तानां मूर्ध्नि दापयेत्।
गंगास्नानफलं चूर्णं सर्वपापप्रणाशनम् ॥ 396 ॥

विश्वास-प्रस्तुतिः - 397

क्रीडया वापि तच्चूर्णं शिरसा धारयेन्नरः।
तस्य देहगतं पापं तत्क्षणादेव नश्यति ॥ 397 ॥

मूलम् - 397

क्रीडया वापि तच्चूर्णं शिरसा धारयेन्नरः।
तस्य देहगतं पापं तत्क्षणादेव नश्यति ॥ 397 ॥

विश्वास-प्रस्तुतिः - 398

ततो देवं समभ्यर्च्य परमान्नं निवेद्य च।
मुद्गान्नं चापि शुद्धान्नं तदन्यत्र विधानतः ॥ 398 ॥

मूलम् - 398

ततो देवं समभ्यर्च्य परमान्नं निवेद्य च।
मुद्गान्नं चापि शुद्धान्नं तदन्यत्र विधानतः ॥ 398 ॥

विश्वास-प्रस्तुतिः - 399

सर्वं द्विजप्रदानान्तं कृत्वा देशिकसत्तमः।
यात्रावसानात् प्रागेव सर्वं चोक्तं समाचरेत् ॥ 399 ॥

मूलम् - 399

सर्वं द्विजप्रदानान्तं कृत्वा देशिकसत्तमः।
यात्रावसानात् प्रागेव सर्वं चोक्तं समाचरेत् ॥ 399 ॥

विश्वास-प्रस्तुतिः - 400

ततस्तु रजनीपिण्डं प्रबूतं कुंकुमान्वितम्।
निवेद्य देवदेवाय दद्याद्वै देशिकोत्तमः ॥ 400 ॥

मूलम् - 400

ततस्तु रजनीपिण्डं प्रबूतं कुंकुमान्वितम्।
निवेद्य देवदेवाय दद्याद्वै देशिकोत्तमः ॥ 400 ॥

विश्वास-प्रस्तुतिः - 401

आचार्येभ्यः साधकेभ्यस्तथा चान्येभ्य एव च।
तत्तत्कर्म नियुक्तेब्यस्तेऽपि पिण्डेन तेन वै ॥ 401 ॥

मूलम् - 401

आचार्येभ्यः साधकेभ्यस्तथा चान्येभ्य एव च।
तत्तत्कर्म नियुक्तेब्यस्तेऽपि पिण्डेन तेन वै ॥ 401 ॥

विश्वास-प्रस्तुतिः - 402

आलब्य सर्वगात्राणि तथा संहृष्टमानसाः।
उपतिष्टन्तु देवेशं प्रणामैः सप्रदक्षिणैः ॥ 402 ॥

मूलम् - 402

आलब्य सर्वगात्राणि तथा संहृष्टमानसाः।
उपतिष्टन्तु देवेशं प्रणामैः सप्रदक्षिणैः ॥ 402 ॥

विश्वास-प्रस्तुतिः - 403

यात्रावाहनमानीय रथाद्येकतमं तु यत्।
तत्र देवं समारोप्य ततोऽन्यस्मिंस्तु यानके ॥ 403 ॥

मूलम् - 403

यात्रावाहनमानीय रथाद्येकतमं तु यत्।
तत्र देवं समारोप्य ततोऽन्यस्मिंस्तु यानके ॥ 403 ॥

विश्वास-प्रस्तुतिः - 404

आरोप्य चक्रं तार्क्ष्यं वा हनुमन्तं विभीषणम्।
छत्रचामरशङ्खादिसर्वसाधनसंयुतम् ॥ 404 ॥

मूलम् - 404

आरोप्य चक्रं तार्क्ष्यं वा हनुमन्तं विभीषणम्।
छत्रचामरशङ्खादिसर्वसाधनसंयुतम् ॥ 404 ॥

विश्वास-प्रस्तुतिः - 405

प्रदक्षिणं परिभ्राम्य सर्वेष्वावरणेष्वपि।
तीर्थपार्श्वे समासाद्य बिंबं पीठे निवेश्य च ॥ 405 ॥

मूलम् - 405

प्रदक्षिणं परिभ्राम्य सर्वेष्वावरणेष्वपि।
तीर्थपार्श्वे समासाद्य बिंबं पीठे निवेश्य च ॥ 405 ॥

विश्वास-प्रस्तुतिः - 406

प्रभया पुष्पया चैव वितानाद्यैरलंकृते।
प्रणामं दण्डवत् कृत्वा पुष्पांजलिपुरस्सरम् ॥ 406 ॥

मूलम् - 406

प्रभया पुष्पया चैव वितानाद्यैरलंकृते।
प्रणामं दण्डवत् कृत्वा पुष्पांजलिपुरस्सरम् ॥ 406 ॥

विश्वास-प्रस्तुतिः - 407

ततः संस्थाप्य देवेशं साधकस्यैव मूर्धनि।
भूषितस्य च वस्त्राद्यैस्तीर्थमासाद्य तत्र तु ॥ 407 ॥

मूलम् - 407

ततः संस्थाप्य देवेशं साधकस्यैव मूर्धनि।
भूषितस्य च वस्त्राद्यैस्तीर्थमासाद्य तत्र तु ॥ 407 ॥

विश्वास-प्रस्तुतिः - 408

नाभिदघ्ने जले स्थित्वा देशिकेन्द्रः समाहितः।
तत्रीर्थे सर्वतीर्थानि समावाह्य द्विजोत्तम! ॥ 408 ॥

मूलम् - 408

नाभिदघ्ने जले स्थित्वा देशिकेन्द्रः समाहितः।
तत्रीर्थे सर्वतीर्थानि समावाह्य द्विजोत्तम! ॥ 408 ॥

विश्वास-प्रस्तुतिः - 409

कृत्वा पुण्याहघोषं च अर्घ्याद्यैः संप्रपूज्य च।
मुहूर्ते शोभने प्राप्ते रवौ मध्यन्दिनं गते ॥ 409 ॥

मूलम् - 409

कृत्वा पुण्याहघोषं च अर्घ्याद्यैः संप्रपूज्य च।
मुहूर्ते शोभने प्राप्ते रवौ मध्यन्दिनं गते ॥ 409 ॥

विश्वास-प्रस्तुतिः - 410

शंखतूर्यादिसंयुक्तं देवमादाय देशिकः।
वामहस्ततले कुर्यात् क्ष्मामण्डलगतं त्विव ॥ 410 ॥

मूलम् - 410

शंखतूर्यादिसंयुक्तं देवमादाय देशिकः।
वामहस्ततले कुर्यात् क्ष्मामण्डलगतं त्विव ॥ 410 ॥

विश्वास-प्रस्तुतिः - 411

विधृयान्मध्यभागे तु पाणिना दक्षिणेन तु।
जपन् वै मूलमन्त्रं तु निमज्जेत् सह तेन वै ॥ 411 ॥

मूलम् - 411

विधृयान्मध्यभागे तु पाणिना दक्षिणेन तु।
जपन् वै मूलमन्त्रं तु निमज्जेत् सह तेन वै ॥ 411 ॥

विश्वास-प्रस्तुतिः - 412

तार्क्ष्यादिमूर्तिभिः सार्धमाचार्यः साधकैस्तथा।
स्वयंव्यक्तादिके स्थाने मध्याह्ने वाऽपराह्नके ॥ 412 ॥

मूलम् - 412

तार्क्ष्यादिमूर्तिभिः सार्धमाचार्यः साधकैस्तथा।
स्वयंव्यक्तादिके स्थाने मध्याह्ने वाऽपराह्नके ॥ 412 ॥

विश्वास-प्रस्तुतिः - 413

रजन्यां पूर्वभागे वा कुर्यादवभृथं विभोः।
मुहूर्तातिक्रमप्राप्तदोषस्तत्र न विद्यते ॥ 413 ॥

मूलम् - 413

रजन्यां पूर्वभागे वा कुर्यादवभृथं विभोः।
मुहूर्तातिक्रमप्राप्तदोषस्तत्र न विद्यते ॥ 413 ॥

विश्वास-प्रस्तुतिः - 414

जलद्रोण्यादिके पात्रे गन्धतोयैः सुपूरिते।
मुहूर्ते मज्जयेद्देवं अर्ग्याद्यैः संप्रपूज्य च ॥ 414 ॥

मूलम् - 414

जलद्रोण्यादिके पात्रे गन्धतोयैः सुपूरिते।
मुहूर्ते मज्जयेद्देवं अर्ग्याद्यैः संप्रपूज्य च ॥ 414 ॥

विश्वास-प्रस्तुतिः - 415

तत्काले ये नराः स्नानं कुर्वन्ति विमलाशयाः।
विमुक्तकल्मषास्ते वै प्राप्नुयुः परमां गतिम् ॥ 415 ॥

मूलम् - 415

तत्काले ये नराः स्नानं कुर्वन्ति विमलाशयाः।
विमुक्तकल्मषास्ते वै प्राप्नुयुः परमां गतिम् ॥ 415 ॥

विश्वास-प्रस्तुतिः - 416

ततस्तीरे समारोप्य विष्टरे हेमनिर्मिते।
शाटकद्वितयं दत्वा स्नानवस्त्रे विसृज्य च ॥ 416 ॥

मूलम् - 416

ततस्तीरे समारोप्य विष्टरे हेमनिर्मिते।
शाटकद्वितयं दत्वा स्नानवस्त्रे विसृज्य च ॥ 416 ॥

विश्वास-प्रस्तुतिः - 417

देशिकः स्वयमादाय ते वस्त्रे मूर्घ्नि धारयेत्।
अर्ध्याद्यैस्तु समभ्यर्च्य अलंकृत्य बिशेषतः ॥ 417 ॥

मूलम् - 417

देशिकः स्वयमादाय ते वस्त्रे मूर्घ्नि धारयेत्।
अर्ध्याद्यैस्तु समभ्यर्च्य अलंकृत्य बिशेषतः ॥ 417 ॥

विश्वास-प्रस्तुतिः - 418

याने देवं समारोप्य प्रासादं प्रविशेत् ततः।
सुस्नाता धौतवसनास्तत्काले गणिकाजनाः ॥ 418 ॥

मूलम् - 418

याने देवं समारोप्य प्रासादं प्रविशेत् ततः।
सुस्नाता धौतवसनास्तत्काले गणिकाजनाः ॥ 418 ॥

विश्वास-प्रस्तुतिः - 419

जलेनापूरितं पात्रं दौपपात्रं च दर्पणम्।
धारयन्त्योऽग्रतो विप्र! गच्छेयुर्मंगलार्थतः ॥ 419 ॥

मूलम् - 419

जलेनापूरितं पात्रं दौपपात्रं च दर्पणम्।
धारयन्त्योऽग्रतो विप्र! गच्छेयुर्मंगलार्थतः ॥ 419 ॥

विश्वास-प्रस्तुतिः - 420

अनुधारापदेनैव प्रादक्षिण्यक्रमेण तु।
द्वितीयावरणद्वारं समासाद्याथवा द्विज! ॥ 420 ॥

मूलम् - 420

अनुधारापदेनैव प्रादक्षिण्यक्रमेण तु।
द्वितीयावरणद्वारं समासाद्याथवा द्विज! ॥ 420 ॥

विश्वास-प्रस्तुतिः - 421

प्रथमावरणद्वारमन्तः कृत्वा तु मण्डलम्।
सुवृत्तं गोमयेनैव सुधाचूर्णैरलंकृतम् ॥ 421 ॥

मूलम् - 421

प्रथमावरणद्वारमन्तः कृत्वा तु मण्डलम्।
सुवृत्तं गोमयेनैव सुधाचूर्णैरलंकृतम् ॥ 421 ॥

विश्वास-प्रस्तुतिः - 422

आशासु दीपान् संस्थाप्य पालिका विदिशासु च।
संपूर्णमंभसा कुंभं स्रगाद्यैः परिभूषितम् ॥ 422 ॥

मूलम् - 422

आशासु दीपान् संस्थाप्य पालिका विदिशासु च।
संपूर्णमंभसा कुंभं स्रगाद्यैः परिभूषितम् ॥ 422 ॥

विश्वास-प्रस्तुतिः - 423

आधारस्योपरि स्थाप्य मध्ये पुष्पेण पूज्य च।
सकृत् प्रणवजप्तेन ततो वै तज्जलेन तु ॥ 423 ॥

मूलम् - 423

आधारस्योपरि स्थाप्य मध्ये पुष्पेण पूज्य च।
सकृत् प्रणवजप्तेन ततो वै तज्जलेन तु ॥ 423 ॥

विश्वास-प्रस्तुतिः - 424

अर्चयेद्देवदेवेशं पुष्पांजलिपुरस्सरम्।
प्रासादद्वारदेशे तु अर्घ्याद्यैः संप्रपूज्य च ॥ 424 ॥

मूलम् - 424

अर्चयेद्देवदेवेशं पुष्पांजलिपुरस्सरम्।
प्रासादद्वारदेशे तु अर्घ्याद्यैः संप्रपूज्य च ॥ 424 ॥

विश्वास-प्रस्तुतिः - 425

देवं निवेश्य स्वस्थाने मूलबिंबे विसर्जयेत्।
पश्चादुत्सवबिंबं तु स्नानाद्यैस्तु विधानतः ॥ 425 ॥

मूलम् - 425

देवं निवेश्य स्वस्थाने मूलबिंबे विसर्जयेत्।
पश्चादुत्सवबिंबं तु स्नानाद्यैस्तु विधानतः ॥ 425 ॥

विश्वास-प्रस्तुतिः - 426

पूर्ववत् पूजयेद्विप्र! परिभ्रमणवर्जितम्।
दशमेऽहनि संप्राप्ते देशिकेन्द्रः समाहितः ॥ 426 ॥

मूलम् - 426

पूर्ववत् पूजयेद्विप्र! परिभ्रमणवर्जितम्।
दशमेऽहनि संप्राप्ते देशिकेन्द्रः समाहितः ॥ 426 ॥

विश्वास-प्रस्तुतिः - 427

प्रातस्नानादिकं कृत्वा वसनाद्यैर्विभूषितः।
देशिकैः साधकैः सार्धं यजमानेन चैव हि ॥ 427 ॥

मूलम् - 427

प्रातस्नानादिकं कृत्वा वसनाद्यैर्विभूषितः।
देशिकैः साधकैः सार्धं यजमानेन चैव हि ॥ 427 ॥

विश्वास-प्रस्तुतिः - 428

प्रासादं संप्रविश्याथ प्रणम्य च मुहुर्मुहुः।
देवेशस्याग्रतः स्थित्वा विज्ञापनमथाचरेत् ॥ 428 ॥

मूलम् - 428

प्रासादं संप्रविश्याथ प्रणम्य च मुहुर्मुहुः।
देवेशस्याग्रतः स्थित्वा विज्ञापनमथाचरेत् ॥ 428 ॥

विश्वास-प्रस्तुतिः - 429

“भगवन्! पुण्डरीकाक्ष! शरणागतवत्सल!।
ध्वजार्थांकुरमारम्य उत्सवावभृथान्तिमम् ॥ 429 ॥

मूलम् - 429

“भगवन्! पुण्डरीकाक्ष! शरणागतवत्सल!।
ध्वजार्थांकुरमारम्य उत्सवावभृथान्तिमम् ॥ 429 ॥

विश्वास-प्रस्तुतिः - 430

यन्मयानुष्टितं कर्म तव संप्रीतये विभो!।
तथाऽन्यैर्मदनुज्ञातैर्देशिकैश्चापि यत् कृतम् ॥ 430 ॥

मूलम् - 430

यन्मयानुष्टितं कर्म तव संप्रीतये विभो!।
तथाऽन्यैर्मदनुज्ञातैर्देशिकैश्चापि यत् कृतम् ॥ 430 ॥

विश्वास-प्रस्तुतिः - 431

साधकैश्च तथान्यैश्च विविधैः परिचारकैः।
तत्तत्संपूरणार्थं च न्यूनाधिक्योपशान्तये ॥ 431 ॥

मूलम् - 431

साधकैश्च तथान्यैश्च विविधैः परिचारकैः।
तत्तत्संपूरणार्थं च न्यूनाधिक्योपशान्तये ॥ 431 ॥

विश्वास-प्रस्तुतिः - 432

त्वामद्य वासरे यष्टुं चतुःस्थानस्थितं विभो!।
प्रवृत्तामनुजानीहि मदनुग्रहकाम्यया” ॥ 432 ॥

मूलम् - 432

त्वामद्य वासरे यष्टुं चतुःस्थानस्थितं विभो!।
प्रवृत्तामनुजानीहि मदनुग्रहकाम्यया” ॥ 432 ॥

विश्वास-प्रस्तुतिः - 433

इति विज्ञाप्य देवस्य तत्रानुज्ञामवाप्य च।
देवमुत्सवबिंबस्थं यानमारोप्य देशिकः ॥ 433 ॥

मूलम् - 433

इति विज्ञाप्य देवस्य तत्रानुज्ञामवाप्य च।
देवमुत्सवबिंबस्थं यानमारोप्य देशिकः ॥ 433 ॥

विश्वास-प्रस्तुतिः - 434

आस्थानमण्टपं नीत्वा तत्र वै दर्भविष्टरे।
देवमारोप्य तत्पश्चात् वेदाध्ययनतत्परान् ॥ 434 ॥

मूलम् - 434

आस्थानमण्टपं नीत्वा तत्र वै दर्भविष्टरे।
देवमारोप्य तत्पश्चात् वेदाध्ययनतत्परान् ॥ 434 ॥

विश्वास-प्रस्तुतिः - 435

इतिहासपुराणज्ञान् तथा मंगलगायकान्।
नर्तकांश्च यथायोगं विनोदार्थं जगत्पतेः ॥ 435 ॥

मूलम् - 435

इतिहासपुराणज्ञान् तथा मंगलगायकान्।
नर्तकांश्च यथायोगं विनोदार्थं जगत्पतेः ॥ 435 ॥

विश्वास-प्रस्तुतिः - 436

तत्तत्स्थाने समावेश्य ततो देशिकसत्तमः।
तस्मिन् वा मण्टपे न्यस्य विस्तारस्यानुरूपतः ॥ 436 ॥

मूलम् - 436

तत्तत्स्थाने समावेश्य ततो देशिकसत्तमः।
तस्मिन् वा मण्टपे न्यस्य विस्तारस्यानुरूपतः ॥ 436 ॥

विश्वास-प्रस्तुतिः - 437

यागगेहोदितैः सर्वैर्वितानाद्यैरलंकृते।
तन्मध्यदेशमाश्रित्य कुर्याच्चक्राब्जमण्डलम् ॥ 437 ॥

मूलम् - 437

यागगेहोदितैः सर्वैर्वितानाद्यैरलंकृते।
तन्मध्यदेशमाश्रित्य कुर्याच्चक्राब्जमण्डलम् ॥ 437 ॥

विश्वास-प्रस्तुतिः - 438

मातुलंगसमाकारैर्द्वादशारैः परिष्कृतम्।
सपीठद्वारमार्गाद्यं पञ्चरंगपुरान्वितम् ॥ 438 ॥

मूलम् - 438

मातुलंगसमाकारैर्द्वादशारैः परिष्कृतम्।
सपीठद्वारमार्गाद्यं पञ्चरंगपुरान्वितम् ॥ 438 ॥

विश्वास-प्रस्तुतिः - 439

अथवा भूषितं विप्र! पीठेन सपुरेण तु।
पञ्चपुष्पोज्वलेनैव केवलेन पुरेण वा ॥ 439 ॥

मूलम् - 439

अथवा भूषितं विप्र! पीठेन सपुरेण तु।
पञ्चपुष्पोज्वलेनैव केवलेन पुरेण वा ॥ 439 ॥

विश्वास-प्रस्तुतिः - 440

यथाकालोद्भवै रम्यैस्तत्तद्वर्णसमन्वितैः।
स्वयं भगवता प्रोक्तः पौष्करे त्वस्य विस्तरः ॥ 440 ॥

मूलम् - 440

यथाकालोद्भवै रम्यैस्तत्तद्वर्णसमन्वितैः।
स्वयं भगवता प्रोक्तः पौष्करे त्वस्य विस्तरः ॥ 440 ॥

विश्वास-प्रस्तुतिः - 441

एवं सर्वं समापाद्य साधकैश्चक्रपंकजम्।
संप्राप्य साधकैः सार्धं देशिको देवसन्निधिम् ॥ 441 ॥

मूलम् - 441

एवं सर्वं समापाद्य साधकैश्चक्रपंकजम्।
संप्राप्य साधकैः सार्धं देशिको देवसन्निधिम् ॥ 441 ॥

विश्वास-प्रस्तुतिः - 442

विज्ञाप्य देवमानीय पश्चिमे मण्डपस्य तु।
भद्रासने तु सौवर्णे मसूरकवरान्विते ॥ 442 ॥

मूलम् - 442

विज्ञाप्य देवमानीय पश्चिमे मण्डपस्य तु।
भद्रासने तु सौवर्णे मसूरकवरान्विते ॥ 442 ॥

विश्वास-प्रस्तुतिः - 443

शुभास्तरणसंयुक्ते प्राङमुखं विवनिवेश्य च।
यागपूर्वोक्तमार्गेण कलशे चक्रपंकजे ॥ 443 ॥

मूलम् - 443

शुभास्तरणसंयुक्ते प्राङमुखं विवनिवेश्य च।
यागपूर्वोक्तमार्गेण कलशे चक्रपंकजे ॥ 443 ॥

विश्वास-प्रस्तुतिः - 444

गीतं नृत्तं च वाद्यं च चतुर्दिग्वेदघोषितम्।
बिंबे च पूजनं कुर्याद्‌देशिकः सुसमाहितः ॥ 444 ॥

मूलम् - 444

गीतं नृत्तं च वाद्यं च चतुर्दिग्वेदघोषितम्।
बिंबे च पूजनं कुर्याद्‌देशिकः सुसमाहितः ॥ 444 ॥

विश्वास-प्रस्तुतिः - 445

सविशेषं यथावद्वै द्विजदानावसानकम्।
तत्काले तु विशेषेण गुरोः संमानमाचरेत् ॥ 445 ॥

मूलम् - 445

सविशेषं यथावद्वै द्विजदानावसानकम्।
तत्काले तु विशेषेण गुरोः संमानमाचरेत् ॥ 445 ॥

विश्वास-प्रस्तुतिः - 446

वसनैश्च दुकूलाद्यैर्देवस्य प्राङ्‌निवेदितैः।
विविधैः स्रग्वरैश्चापि सुगन्धैश्चन्दनादिकैः ॥ 446 ॥

मूलम् - 446

वसनैश्च दुकूलाद्यैर्देवस्य प्राङ्‌निवेदितैः।
विविधैः स्रग्वरैश्चापि सुगन्धैश्चन्दनादिकैः ॥ 446 ॥

विश्वास-प्रस्तुतिः - 447

आचार्योपि समादाय दुकूलाद्यमनुत्तमम्।
बद्ध्वा चोष्णीषवत् स्वस्मिन् शिरसि द्विजसत्तम! ॥ 447 ॥

मूलम् - 447

आचार्योपि समादाय दुकूलाद्यमनुत्तमम्।
बद्ध्वा चोष्णीषवत् स्वस्मिन् शिरसि द्विजसत्तम! ॥ 447 ॥

विश्वास-प्रस्तुतिः - 448

माल्यादि च यथायोगं धारयन् प्रणिपत्य च।
मुहुर्मुहुर्देवदेवं ततो यागनिकेतनम् ॥ 448 ॥

मूलम् - 448

माल्यादि च यथायोगं धारयन् प्रणिपत्य च।
मुहुर्मुहुर्देवदेवं ततो यागनिकेतनम् ॥ 448 ॥

विश्वास-प्रस्तुतिः - 449

संप्राप्य तत्र वैकुण्डे होमं कृत्वा यथापुरम्।
गत्वा देवसमीपं तु कृत्वा होमसमर्पणम् ॥ 449 ॥

मूलम् - 449

संप्राप्य तत्र वैकुण्डे होमं कृत्वा यथापुरम्।
गत्वा देवसमीपं तु कृत्वा होमसमर्पणम् ॥ 449 ॥

विश्वास-प्रस्तुतिः - 450

संविभागं पितॄणां च यथावत् प्रतिपाद्य च।
कुमुदादींश्च चक्रं च खगेशं गणनायकम् ॥ 450 ॥

मूलम् - 450

संविभागं पितॄणां च यथावत् प्रतिपाद्य च।
कुमुदादींश्च चक्रं च खगेशं गणनायकम् ॥ 450 ॥

विश्वास-प्रस्तुतिः - 451

इन्द्रादिलोकपालानां दापयित्वा बलिं क्रमात्।
ततश्चैकायनीं शाखां त्रयीं चाथर्वसंयुताम् ॥ 451 ॥

मूलम् - 451

इन्द्रादिलोकपालानां दापयित्वा बलिं क्रमात्।
ततश्चैकायनीं शाखां त्रयीं चाथर्वसंयुताम् ॥ 451 ॥

विश्वास-प्रस्तुतिः - 452

इतिहासं पुराणं च वैष्णवं स्तोत्रमद्भुतम्।
गीतं नृत्तं च वाद्यं च शंखभेर्यादिकांस्तथा ॥ 452 ॥

मूलम् - 452

इतिहासं पुराणं च वैष्णवं स्तोत्रमद्भुतम्।
गीतं नृत्तं च वाद्यं च शंखभेर्यादिकांस्तथा ॥ 452 ॥

विश्वास-प्रस्तुतिः - 453

वन्दिमंगलशब्दांश्च तथा मंगलगीतकम्।
श्रावयित्वा यथायोगं दर्शयित्वा विभोस्ततः ॥ 453 ॥

मूलम् - 453

वन्दिमंगलशब्दांश्च तथा मंगलगीतकम्।
श्रावयित्वा यथायोगं दर्शयित्वा विभोस्ततः ॥ 453 ॥

विश्वास-प्रस्तुतिः - 454

कुम्भस्थं मण्डलस्थं च देवं हृदि विसृज्य च।
विष्वक्सेनं समभ्यर्च्य प्राग्वन्मण्डलमध्यतः ॥ 454 ॥

मूलम् - 454

कुम्भस्थं मण्डलस्थं च देवं हृदि विसृज्य च।
विष्वक्सेनं समभ्यर्च्य प्राग्वन्मण्डलमध्यतः ॥ 454 ॥

विश्वास-प्रस्तुतिः - 455

ततो देवं समारोप्य यानादौ हेमनिर्मिते।
सर्वमंगलसंयुक्तं सर्वाण्यावरणानि च ॥ 455 ॥

मूलम् - 455

ततो देवं समारोप्य यानादौ हेमनिर्मिते।
सर्वमंगलसंयुक्तं सर्वाण्यावरणानि च ॥ 455 ॥

विश्वास-प्रस्तुतिः - 456

परिब्रम्य च बाह्यादि त्वन्तरावरणान्तिकम्।
प्रथमावरणे वापि द्वितीयावरणेपि च ॥ 456 ॥

मूलम् - 456

परिब्रम्य च बाह्यादि त्वन्तरावरणान्तिकम्।
प्रथमावरणे वापि द्वितीयावरणेपि च ॥ 456 ॥

विश्वास-प्रस्तुतिः - 457

मण्डपे देवदेवेशं विष्टरे विनिवेशयेत्।
तत्काले यजमानस्तु अलंकृत्य तु देशिकम् ॥ 457 ॥

मूलम् - 457

मण्डपे देवदेवेशं विष्टरे विनिवेशयेत्।
तत्काले यजमानस्तु अलंकृत्य तु देशिकम् ॥ 457 ॥

विश्वास-प्रस्तुतिः - 458

वस्त्रस्रक्‌चन्दनाद्यैश्च समारोप्य च यानके।
शंखकाहलवादित्रभेरीपटहसंयुतम् ॥ 458 ॥

मूलम् - 458

वस्त्रस्रक्‌चन्दनाद्यैश्च समारोप्य च यानके।
शंखकाहलवादित्रभेरीपटहसंयुतम् ॥ 458 ॥

विश्वास-प्रस्तुतिः - 459

छत्रदीपसमायुक्तं गायकादिसमन्वितम्।
देशिकं देववत् स्मृत्वा स्वगृहे संप्रवेशयेत् ॥ 459 ॥

मूलम् - 459

छत्रदीपसमायुक्तं गायकादिसमन्वितम्।
देशिकं देववत् स्मृत्वा स्वगृहे संप्रवेशयेत् ॥ 459 ॥

विश्वास-प्रस्तुतिः - 460

अथानुयागमाचार्यः कुर्याद्वन्धुसमन्वितः।
अस्तंगते दिनकरे देवं संपूज्य वै क्रमात् ॥ 460 ॥

मूलम् - 460

अथानुयागमाचार्यः कुर्याद्वन्धुसमन्वितः।
अस्तंगते दिनकरे देवं संपूज्य वै क्रमात् ॥ 460 ॥

विश्वास-प्रस्तुतिः - 461

गुलखंडादिसंयुक्तं मुद्गान्नं तु निवेदयेत्।
ततस्तु भगवद्भक्ताः देशान्तरनिवासिनः ॥ 461 ॥

मूलम् - 461

गुलखंडादिसंयुक्तं मुद्गान्नं तु निवेदयेत्।
ततस्तु भगवद्भक्ताः देशान्तरनिवासिनः ॥ 461 ॥

विश्वास-प्रस्तुतिः - 462

देवस्योत्सवसेवार्थं ये नराः पूर्वमागताः।
तेषां स्वदेशयानार्थं देवानुज्ञापुरस्सरम् ॥ 462 ॥

मूलम् - 462

देवस्योत्सवसेवार्थं ये नराः पूर्वमागताः।
तेषां स्वदेशयानार्थं देवानुज्ञापुरस्सरम् ॥ 462 ॥

विश्वास-प्रस्तुतिः - 463

कृत्वा विसर्जनं पश्चात् देवं यागनिकेतने।
नीत्वा तत्र समावेश्य विष्टरे शुभसंस्तरे ॥ 463 ॥

मूलम् - 463

कृत्वा विसर्जनं पश्चात् देवं यागनिकेतने।
नीत्वा तत्र समावेश्य विष्टरे शुभसंस्तरे ॥ 463 ॥

विश्वास-प्रस्तुतिः - 464

कुम्भपूर्वं क्रमेणैव चतुः स्थानस्थितं विभुम्।
यथाविधि समभ्यर्च्य प्रभूतान्नसमन्वितम् ॥ 464 ॥

मूलम् - 464

कुम्भपूर्वं क्रमेणैव चतुः स्थानस्थितं विभुम्।
यथाविधि समभ्यर्च्य प्रभूतान्नसमन्वितम् ॥ 464 ॥

विश्वास-प्रस्तुतिः - 465

उत्सवान्तोदितं कृत्वा स्नपनं चापि कल्पयेत्।
यात्राबिंबे द्विजश्रेष्ठ! बिंबे वा स्नपनार्थतः ॥ 465 ॥

मूलम् - 465

उत्सवान्तोदितं कृत्वा स्नपनं चापि कल्पयेत्।
यात्राबिंबे द्विजश्रेष्ठ! बिंबे वा स्नपनार्थतः ॥ 465 ॥

विश्वास-प्रस्तुतिः - 466

एवं क्रमेण संपूज्य प्रदाप्य विधिना बलिम्।
कुम्भमण्डलकुण्डस्थान् मन्त्रेशान् मन्त्रवित्तमः ॥ 466 ॥

मूलम् - 466

एवं क्रमेण संपूज्य प्रदाप्य विधिना बलिम्।
कुम्भमण्डलकुण्डस्थान् मन्त्रेशान् मन्त्रवित्तमः ॥ 466 ॥

विश्वास-प्रस्तुतिः - 467

विसर्जयेद्यथावच्चयथोक्तविधिना ततः।
विष्वक्सेनं यजेत् पश्चाद्देवमन्तः प्रवेशयेत् ॥ 467 ॥

मूलम् - 467

विसर्जयेद्यथावच्चयथोक्तविधिना ततः।
विष्वक्सेनं यजेत् पश्चाद्देवमन्तः प्रवेशयेत् ॥ 467 ॥

विश्वास-प्रस्तुतिः - 468

अर्घ्यगन्धादिनाभ्यर्च्य मूलबिंबे विसर्जयेत्।
ग्रामे चावाहितान् विप्र! कुमुदादीन् गणान्वितान् ॥ 468 ॥

मूलम् - 468

अर्घ्यगन्धादिनाभ्यर्च्य मूलबिंबे विसर्जयेत्।
ग्रामे चावाहितान् विप्र! कुमुदादीन् गणान्वितान् ॥ 468 ॥

विश्वास-प्रस्तुतिः - 469

सन्तोष्य बलिदानेन सविशेषं विसर्जयेत्।
ध्वजस्थानं समासाद्य कुम्भं संस्थाप्य पूर्ववत् ॥ 469 ॥

मूलम् - 469

सन्तोष्य बलिदानेन सविशेषं विसर्जयेत्।
ध्वजस्थानं समासाद्य कुम्भं संस्थाप्य पूर्ववत् ॥ 469 ॥

विश्वास-प्रस्तुतिः - 470

पतत्रीशं समभ्यर्च्य ध्वजस्थं च विशेषतः।
महाहविर्निवेद्याथ ध्वजस्थं विहगेश्वरम् ॥ 470 ॥

मूलम् - 470

पतत्रीशं समभ्यर्च्य ध्वजस्थं च विशेषतः।
महाहविर्निवेद्याथ ध्वजस्थं विहगेश्वरम् ॥ 470 ॥

विश्वास-प्रस्तुतिः - 471

विसर्जयित्वा स्वहृदि कुम्भस्थे वा खगेश्वरे।
ततोऽवरोहयेद्विप्र ध्वजं पूर्वक्रमेण तु ॥ 471 ॥

मूलम् - 471

विसर्जयित्वा स्वहृदि कुम्भस्थे वा खगेश्वरे।
ततोऽवरोहयेद्विप्र ध्वजं पूर्वक्रमेण तु ॥ 471 ॥

विश्वास-प्रस्तुतिः - 472

कुम्भस्थं विहगेशं तु स्वस्मिन् हृदि विसर्जयेत्।
यद्वा गरुडगेहं तु गत्वा कुम्भस्थवारिणा ॥ 472 ॥

मूलम् - 472

कुम्भस्थं विहगेशं तु स्वस्मिन् हृदि विसर्जयेत्।
यद्वा गरुडगेहं तु गत्वा कुम्भस्थवारिणा ॥ 472 ॥

विश्वास-प्रस्तुतिः - 473

संप्रोक्ष्य गरुडं तत्र कुम्भस्थं तु विसर्जयेत्।
ध्वजदण्डं ध्वजपटं तद्यष्टिं तत्प्रपां तथा ॥ 473 ॥

मूलम् - 473

संप्रोक्ष्य गरुडं तत्र कुम्भस्थं तु विसर्जयेत्।
ध्वजदण्डं ध्वजपटं तद्यष्टिं तत्प्रपां तथा ॥ 473 ॥

विश्वास-प्रस्तुतिः - 474

आचार्यः स्वयमादद्याद् यागोपकरणान्यपि।
अन्यथा चेन्महान् दोषः कर्तुर्देशाधिपस्य च ॥ 474 ॥

मूलम् - 474

आचार्यः स्वयमादद्याद् यागोपकरणान्यपि।
अन्यथा चेन्महान् दोषः कर्तुर्देशाधिपस्य च ॥ 474 ॥

विश्वास-प्रस्तुतिः - 475

निष्फलं स्यात् कृतं कर्म विहगेशोपि कुप्यति।
यागकर्मणि पर्याप्ते तद्रात्रौ वाऽपरेहनि ॥ 475 ॥

मूलम् - 475

निष्फलं स्यात् कृतं कर्म विहगेशोपि कुप्यति।
यागकर्मणि पर्याप्ते तद्रात्रौ वाऽपरेहनि ॥ 475 ॥

विश्वास-प्रस्तुतिः - 476

यजमानो गुरुं हैमैर्भूषणैः कटकादिभिः।
वसनैर्गन्धपुष्पाद्यैः अलंकृत्याभिपूज्य च ॥ 476 ॥

मूलम् - 476

यजमानो गुरुं हैमैर्भूषणैः कटकादिभिः।
वसनैर्गन्धपुष्पाद्यैः अलंकृत्याभिपूज्य च ॥ 476 ॥

विश्वास-प्रस्तुतिः - 477

उत्तमां दक्षिणां दद्यात् खर्णनिष्कशतान्विताम्।
ततोधिकां तु वा दद्यात् विभवस्यानुगुण्यतः ॥ 477 ॥

मूलम् - 477

उत्तमां दक्षिणां दद्यात् खर्णनिष्कशतान्विताम्।
ततोधिकां तु वा दद्यात् विभवस्यानुगुण्यतः ॥ 477 ॥

विश्वास-प्रस्तुतिः - 478

तदर्धं मद्यमं विद्धि तत्पादं ह्यधमं भवेत्।
यथावित्तानुरूपं तु यथाश्रद्धं तु वा ददेत् ॥ 478 ॥

मूलम् - 478

तदर्धं मद्यमं विद्धि तत्पादं ह्यधमं भवेत्।
यथावित्तानुरूपं तु यथाश्रद्धं तु वा ददेत् ॥ 478 ॥

विश्वास-प्रस्तुतिः - 479

तदर्धं ऋत्विजां दद्यात् तदर्धं परिचारके।
अन्यान् गायकपूर्वांस्तु यथावित्तानुसारतः ॥ 479 ॥

मूलम् - 479

तदर्धं ऋत्विजां दद्यात् तदर्धं परिचारके।
अन्यान् गायकपूर्वांस्तु यथावित्तानुसारतः ॥ 479 ॥

विश्वास-प्रस्तुतिः - 480

यागस्तु दक्षिणाहीनो निष्फलः स्यान्न संशयः।
तस्माद्वित्तानुगुण्येन देया चाल्पापि दक्षिणा ॥ 480 ॥

मूलम् - 480

यागस्तु दक्षिणाहीनो निष्फलः स्यान्न संशयः।
तस्माद्वित्तानुगुण्येन देया चाल्पापि दक्षिणा ॥ 480 ॥

विश्वास-प्रस्तुतिः - 481

एवं तु गदितः सम्यक् यात्राख्योत्सवविस्तरः।
तत्र यो यो विशेषस्तु तं तमाकर्णयाधुना ॥ 481 ॥

मूलम् - 481

एवं तु गदितः सम्यक् यात्राख्योत्सवविस्तरः।
तत्र यो यो विशेषस्तु तं तमाकर्णयाधुना ॥ 481 ॥

विश्वास-प्रस्तुतिः - 482

देशिके साधके वापि एकस्मिन्नेव कल्पिते।
स एव सकलं कर्म कुर्यात्‌ पूर्वोदितं क्रमात् ॥ 482 ॥

मूलम् - 482

देशिके साधके वापि एकस्मिन्नेव कल्पिते।
स एव सकलं कर्म कुर्यात्‌ पूर्वोदितं क्रमात् ॥ 482 ॥

विश्वास-प्रस्तुतिः - 483

बहुष्वेतेषु क्लृप्तेषु त्वेकः कुर्याद्यथाक्रमम्।
ध्वजांकुरं ध्वजारोपं उत्सवार्थांकुरार्पणम् ॥ 483 ॥

मूलम् - 483

बहुष्वेतेषु क्लृप्तेषु त्वेकः कुर्याद्यथाक्रमम्।
ध्वजांकुरं ध्वजारोपं उत्सवार्थांकुरार्पणम् ॥ 483 ॥

विश्वास-प्रस्तुतिः - 484

उत्सवारम्भदिवसात् पूर्वेद्युः कौतुकक्रियाम्।
उत्सवारम्भदिवसे अधिवासार्थमीरितम् ॥ 484 ॥

मूलम् - 484

उत्सवारम्भदिवसात् पूर्वेद्युः कौतुकक्रियाम्।
उत्सवारम्भदिवसे अधिवासार्थमीरितम् ॥ 484 ॥

विश्वास-प्रस्तुतिः - 485

चतुः स्थानार्चनं विप्र! तथा तीर्थांकुरार्पणम्।
तद्रात्रावपि यात्रार्थं चतुः स्थानार्चनक्रियाम् ॥ 485 ॥

मूलम् - 485

चतुः स्थानार्चनं विप्र! तथा तीर्थांकुरार्पणम्।
तद्रात्रावपि यात्रार्थं चतुः स्थानार्चनक्रियाम् ॥ 485 ॥

विश्वास-प्रस्तुतिः - 486

यात्राप्रतिसराबन्धं तथा चावभृधक्रियाम्।
पुष्पयागदिने वापि चतुः स्थानार्चनं तथा ॥ 486 ॥

मूलम् - 486

यात्राप्रतिसराबन्धं तथा चावभृधक्रियाम्।
पुष्पयागदिने वापि चतुः स्थानार्चनं तथा ॥ 486 ॥

विश्वास-प्रस्तुतिः - 487

कुम्भमण्डलकुण्डस्थमन्त्राणां च विसर्जनम्।
ध्वजावरोहणं चैव प्रयत्नान्नियतव्रतः ॥ 487 ॥

मूलम् - 487

कुम्भमण्डलकुण्डस्थमन्त्राणां च विसर्जनम्।
ध्वजावरोहणं चैव प्रयत्नान्नियतव्रतः ॥ 487 ॥

विश्वास-प्रस्तुतिः - 488

तदन्ये देशिकाः कुर्युः साधका वा यथाक्रमम्।
अन्यानि सर्वकर्माणि यथायोगं समाचरेत् ॥ 488 ॥

मूलम् - 488

तदन्ये देशिकाः कुर्युः साधका वा यथाक्रमम्।
अन्यानि सर्वकर्माणि यथायोगं समाचरेत् ॥ 488 ॥

विश्वास-प्रस्तुतिः - 489

कुम्भस्थस्यार्चनं केचित् केचिद्बिं बस्य पूजनम्।
अग्नौ संतर्पणं केचित् केचित् स्नपनकौतुके ॥ 489 ॥

मूलम् - 489

कुम्भस्थस्यार्चनं केचित् केचिद्बिं बस्य पूजनम्।
अग्नौ संतर्पणं केचित् केचित् स्नपनकौतुके ॥ 489 ॥

विश्वास-प्रस्तुतिः - 490

स्नपनाद्यर्चनं केचित् यथाकालं यथाविधि।
यद्येकेनैव शक्यं स्याच्चतुः स्थानार्चनं द्विज! ॥ 490 ॥

मूलम् - 490

स्नपनाद्यर्चनं केचित् यथाकालं यथाविधि।
यद्येकेनैव शक्यं स्याच्चतुः स्थानार्चनं द्विज! ॥ 490 ॥

विश्वास-प्रस्तुतिः - 491

कर्तुं न कर्तृभेदः स्याच्चतुःस्थानार्चनाविधौ।
एकस्मिन् पूजने विप्र! वर्तमानेपि मध्यतः ॥ 491 ॥

मूलम् - 491

कर्तुं न कर्तृभेदः स्याच्चतुःस्थानार्चनाविधौ।
एकस्मिन् पूजने विप्र! वर्तमानेपि मध्यतः ॥ 491 ॥

विश्वास-प्रस्तुतिः - 492

केनचिद्व्याधिना कर्तुरशाक्तिर्यदि संभवेत्।
अंगादंगान्तरारम्भे आसनादासनस्य हि ॥ 492 ॥

मूलम् - 492

केनचिद्व्याधिना कर्तुरशाक्तिर्यदि संभवेत्।
अंगादंगान्तरारम्भे आसनादासनस्य हि ॥ 492 ॥

विश्वास-प्रस्तुतिः - 493

शेषमन्येन कर्तव्यं जष्त्वा मूलं सहस्तकम्।
अन्यथासंभवेत्सा चेत् कर्तुरन्यस्तु पूजकः ॥ 493 ॥

मूलम् - 493

शेषमन्येन कर्तव्यं जष्त्वा मूलं सहस्तकम्।
अन्यथासंभवेत्सा चेत् कर्तुरन्यस्तु पूजकः ॥ 493 ॥

विश्वास-प्रस्तुतिः - 494

भूयश्चादित आरभ्य पूजनं तु समाचरेत्।
दिनोदितेन मार्गेण कुर्याच्चेदन्यथा द्विज! ॥ 494 ॥

मूलम् - 494

भूयश्चादित आरभ्य पूजनं तु समाचरेत्।
दिनोदितेन मार्गेण कुर्याच्चेदन्यथा द्विज! ॥ 494 ॥

विश्वास-प्रस्तुतिः - 495

कर्तुः स्यान्मानसी पीडा पूजनं चापि निष्फलम्।
यदोत्सवे नियुक्तं तु नित्यस्नपनकौतुकम् ॥ 495 ॥

मूलम् - 495

कर्तुः स्यान्मानसी पीडा पूजनं चापि निष्फलम्।
यदोत्सवे नियुक्तं तु नित्यस्नपनकौतुकम् ॥ 495 ॥

विश्वास-प्रस्तुतिः - 496

तदेकदैव कुर्वीत रात्रावहनि वोत्सवम्।
यदा महोत्सवविधौ बलिबिंबं प्रयुज्यते ॥ 496 ॥

मूलम् - 496

तदेकदैव कुर्वीत रात्रावहनि वोत्सवम्।
यदा महोत्सवविधौ बलिबिंबं प्रयुज्यते ॥ 496 ॥

विश्वास-प्रस्तुतिः - 497

कालयोरुभयोः कुर्यात् कर्तुरिच्छानुरूपतः।
यात्राबिंबे नियुक्ते तु कुर्यात् कालद्बये सदा ॥ 497 ॥

मूलम् - 497

कालयोरुभयोः कुर्यात् कर्तुरिच्छानुरूपतः।
यात्राबिंबे नियुक्ते तु कुर्यात् कालद्बये सदा ॥ 497 ॥

विश्वास-प्रस्तुतिः - 498

उत्सवं मुखयकल्पे तु अनुकल्पे महामते।
दिवा वापि रजन्यां वा कुर्याद्यात्रोत्सवं द्विज! ॥ 498 ॥

मूलम् - 498

उत्सवं मुखयकल्पे तु अनुकल्पे महामते।
दिवा वापि रजन्यां वा कुर्याद्यात्रोत्सवं द्विज! ॥ 498 ॥

विश्वास-प्रस्तुतिः - 499

कुम्भे वा विष्टरे चक्रे यदा कुर्यान्महोत्सवम्।
तदानीं मूलबिंबे तु यात्रा बिंबोदितां क्रियाम् ॥ 499 ॥

मूलम् - 499

कुम्भे वा विष्टरे चक्रे यदा कुर्यान्महोत्सवम्।
तदानीं मूलबिंबे तु यात्रा बिंबोदितां क्रियाम् ॥ 499 ॥

विश्वास-प्रस्तुतिः - 500

सर्वामपि क्रमात् कृत्वा परिभ्रमणवर्जितम्।
कुम्भे वा विष्टरे वापि दर्भमंजरिजे शुभे ॥ 500 ॥

मूलम् - 500

सर्वामपि क्रमात् कृत्वा परिभ्रमणवर्जितम्।
कुम्भे वा विष्टरे वापि दर्भमंजरिजे शुभे ॥ 500 ॥

विश्वास-प्रस्तुतिः - 501

चक्रे वा देवमावाह्य अर्घ्याद्यैः परिपूज्य च।
यानादिके समारोप्य सर्वसाधनसंयुतम् ॥ 501 ॥

मूलम् - 501

चक्रे वा देवमावाह्य अर्घ्याद्यैः परिपूज्य च।
यानादिके समारोप्य सर्वसाधनसंयुतम् ॥ 501 ॥

विश्वास-प्रस्तुतिः - 502

ग्रामादौ भ्रामयेत् प्राग्वत् बलिदानसमन्वितम्।
ग्रामादि बलिदानोक्तकाले दद्यात् बलिं सदा ॥ 502 ॥

मूलम् - 502

ग्रामादौ भ्रामयेत् प्राग्वत् बलिदानसमन्वितम्।
ग्रामादि बलिदानोक्तकाले दद्यात् बलिं सदा ॥ 502 ॥

विश्वास-प्रस्तुतिः - 503

कुमुदादि गणेशानां पालिकावसथेपि च।
उत्सवे देवदेवेशं सदा सर्वत्र पूजयेत् ॥ 503 ॥

मूलम् - 503

कुमुदादि गणेशानां पालिकावसथेपि च।
उत्सवे देवदेवेशं सदा सर्वत्र पूजयेत् ॥ 503 ॥

विश्वास-प्रस्तुतिः - 504

वस्तुपुष्पादिकैर्भोगैः यथाभिमतदिङ्‌मुखः।
आसीनो वा स्थितो बापि साधकस्तु यथारुचि ॥ 504 ॥

मूलम् - 504

वस्तुपुष्पादिकैर्भोगैः यथाभिमतदिङ्‌मुखः।
आसीनो वा स्थितो बापि साधकस्तु यथारुचि ॥ 504 ॥

विश्वास-प्रस्तुतिः - 505

एवं तु भ्रमणं कुर्यात् एकाहाद्युत्सवेष्वपि।
एकाहे पूर्वरात्रे वा यात्रा बिंबाधिवासनम् ॥ 505 ॥

मूलम् - 505

एवं तु भ्रमणं कुर्यात् एकाहाद्युत्सवेष्वपि।
एकाहे पूर्वरात्रे वा यात्रा बिंबाधिवासनम् ॥ 505 ॥

विश्वास-प्रस्तुतिः - 506

तीर्थबिंबाधिवासं च तथा कर्मदिने ततः।
प्रातर्ग्रामं परिभ्राम्य यात्राबिंबं तु पूर्ववत् ॥ 506 ॥

मूलम् - 506

तीर्थबिंबाधिवासं च तथा कर्मदिने ततः।
प्रातर्ग्रामं परिभ्राम्य यात्राबिंबं तु पूर्ववत् ॥ 506 ॥

विश्वास-प्रस्तुतिः - 507

तत्पश्चादाचरेत् प्राग्वत् तीर्थबिंबाधिवासनम्।
अपरस्मिन् दिने कुर्यात् पुष्पयागं न वा द्विज ॥ 507 ॥

मूलम् - 507

तत्पश्चादाचरेत् प्राग्वत् तीर्थबिंबाधिवासनम्।
अपरस्मिन् दिने कुर्यात् पुष्पयागं न वा द्विज ॥ 507 ॥

विश्वास-प्रस्तुतिः - 508

त्रिवासरेपि पञ्चाहे सप्ताहे तूत्सवे द्विज!।
आरंभाहात्तु पूर्वेद्युः यात्रा बिंबाधिवासनम् ॥ 508 ॥

मूलम् - 508

त्रिवासरेपि पञ्चाहे सप्ताहे तूत्सवे द्विज!।
आरंभाहात्तु पूर्वेद्युः यात्रा बिंबाधिवासनम् ॥ 508 ॥

विश्वास-प्रस्तुतिः - 509

तीर्थाहात् पूर्वरात्रौ तु तीर्थबिंबादिवासनम्।
तीर्थाहादपरस्मिन् वै पुष्पयागं समाचरेत् ॥ 509 ॥

मूलम् - 509

तीर्थाहात् पूर्वरात्रौ तु तीर्थबिंबादिवासनम्।
तीर्थाहादपरस्मिन् वै पुष्पयागं समाचरेत् ॥ 509 ॥

विश्वास-प्रस्तुतिः - 510

एकाहात् सप्तरात्रान्तमुसवानां चतुष्टये।
पुष्पापचयलीलां च मृगयामपि नाचरेत् ॥ 510 ॥

मूलम् - 510

एकाहात् सप्तरात्रान्तमुसवानां चतुष्टये।
पुष्पापचयलीलां च मृगयामपि नाचरेत् ॥ 510 ॥

विश्वास-प्रस्तुतिः - 511

दशाहादिषु सर्वेषु नवाहोदितवर्त्मना।
सर्वं कुर्याद्यथायोगं कर्तुरिच्छानुरूपतः ॥ 511 ॥

मूलम् - 511

दशाहादिषु सर्वेषु नवाहोदितवर्त्मना।
सर्वं कुर्याद्यथायोगं कर्तुरिच्छानुरूपतः ॥ 511 ॥

विश्वास-प्रस्तुतिः - 512

स्वयं व्यक्ते विमानादौ स्थाने तु न समाचरेत्।
एकाहात् सप्तरात्रान्तमुत्सवानां चतुष्टयम् ॥ 512 ॥

मूलम् - 512

स्वयं व्यक्ते विमानादौ स्थाने तु न समाचरेत्।
एकाहात् सप्तरात्रान्तमुत्सवानां चतुष्टयम् ॥ 512 ॥

विश्वास-प्रस्तुतिः - 513

तथा तत्रानुकल्पोक्तमुत्सवं न समाचरेत्।
स्वयं व्यक्ते जलक्रीडा भवेन्नान्यत्र कल्पयेत् ॥ 513 ॥

मूलम् - 513

तथा तत्रानुकल्पोक्तमुत्सवं न समाचरेत्।
स्वयं व्यक्ते जलक्रीडा भवेन्नान्यत्र कल्पयेत् ॥ 513 ॥

विश्वास-प्रस्तुतिः - 514

एकाहाद्यास्तु सकला उत्सवा वत्सरीन्तिमाः।
बहुबेरविधाने तु कर्तव्या द्विजसत्तम! ॥ 514 ॥

मूलम् - 514

एकाहाद्यास्तु सकला उत्सवा वत्सरीन्तिमाः।
बहुबेरविधाने तु कर्तव्या द्विजसत्तम! ॥ 514 ॥

विश्वास-प्रस्तुतिः - 515

एकत्रिपञ्चसप्ताहनवाहद्वादशाहिकाः।
एकबेरविधाने तु कर्तव्या नान्यथा भवेत् ॥ 515 ॥

मूलम् - 515

एकत्रिपञ्चसप्ताहनवाहद्वादशाहिकाः।
एकबेरविधाने तु कर्तव्या नान्यथा भवेत् ॥ 515 ॥

विश्वास-प्रस्तुतिः - 516

ग्रामे वा नगरे वापि प्रतिलोमानधिष्ठिते।
अशून्ये पत्तने वापि रथ्यासु सुसमाचरेत् ॥ 516 ॥

मूलम् - 516

ग्रामे वा नगरे वापि प्रतिलोमानधिष्ठिते।
अशून्ये पत्तने वापि रथ्यासु सुसमाचरेत् ॥ 516 ॥

विश्वास-प्रस्तुतिः - 517

बलिदानादिकं सर्वं अन्यथा चेद् द्विजोत्तम!।
अन्तरावरणेष्वेव विभोः कुर्यान्महोत्सवम् ॥ 517 ॥

मूलम् - 517

बलिदानादिकं सर्वं अन्यथा चेद् द्विजोत्तम!।
अन्तरावरणेष्वेव विभोः कुर्यान्महोत्सवम् ॥ 517 ॥

विश्वास-प्रस्तुतिः - 518

देवस्य यात्राकर्मार्थं प्रवेशश्च विनिर्गमः।
भवेत्तदग्रद्वारेण सर्वेष्वावरणेष्वपि ॥ 518 ॥

मूलम् - 518

देवस्य यात्राकर्मार्थं प्रवेशश्च विनिर्गमः।
भवेत्तदग्रद्वारेण सर्वेष्वावरणेष्वपि ॥ 518 ॥

विश्वास-प्रस्तुतिः - 519

प्रवेशनिर्गमऔ स्यातां ग्रामाद्यभिमुखेन वा।
प्रधानैर्नेतरैर्द्वारैः कार्यौ वेशविनिर्गमौ ॥ 519 ॥

मूलम् - 519

प्रवेशनिर्गमऔ स्यातां ग्रामाद्यभिमुखेन वा।
प्रधानैर्नेतरैर्द्वारैः कार्यौ वेशविनिर्गमौ ॥ 519 ॥

विश्वास-प्रस्तुतिः - 520

नोपद्वौरैर्न शौभैस्च नोपशोभैः कदाचन।
यदि कुर्यात् प्रमादेन तद्देशनृपतेर्भवेत् ॥ 520 ॥

मूलम् - 520

नोपद्वौरैर्न शौभैस्च नोपशोभैः कदाचन।
यदि कुर्यात् प्रमादेन तद्देशनृपतेर्भवेत् ॥ 520 ॥

विश्वास-प्रस्तुतिः - 521

प्रधानस्य विपर्यासः स्वस्थानप्रच्युतिस्तथा।
ग्रामादावपि विप्रेन्द्र! प्राकारादिपरिष्कृते ॥ 521 ॥

मूलम् - 521

प्रधानस्य विपर्यासः स्वस्थानप्रच्युतिस्तथा।
ग्रामादावपि विप्रेन्द्र! प्राकारादिपरिष्कृते ॥ 521 ॥

विश्वास-प्रस्तुतिः - 522

यात्रा कर्मणि देवस्य प्रवेशश्चापि निर्गमः।
उपद्वारैर्न कर्तव्यः कृते यात्रादि निष्फलम् ॥ 522 ॥

मूलम् - 522

यात्रा कर्मणि देवस्य प्रवेशश्चापि निर्गमः।
उपद्वारैर्न कर्तव्यः कृते यात्रादि निष्फलम् ॥ 522 ॥

विश्वास-प्रस्तुतिः - 523

ग्रामस्यापि विनाशः स्यात् ततो देशाधिपस्य च।
चतुर्ष्वपि प्रधानेषु विशेषमवधारय ॥ 523 ॥

मूलम् - 523

ग्रामस्यापि विनाशः स्यात् ततो देशाधिपस्य च।
चतुर्ष्वपि प्रधानेषु विशेषमवधारय ॥ 523 ॥

विश्वास-प्रस्तुतिः - 524

देवागारस्य पूर्वस्यां दिशि ग्रामादिकं यदि।
प्रत्यक्‌दिक्संस्थितद्वारा भवेत्तत्रोदितद्वयम् ॥ 524 ॥

मूलम् - 524

देवागारस्य पूर्वस्यां दिशि ग्रामादिकं यदि।
प्रत्यक्‌दिक्संस्थितद्वारा भवेत्तत्रोदितद्वयम् ॥ 524 ॥

विश्वास-प्रस्तुतिः - 525

ग्रामादिकं भवेत् प्रत्यक् यदा देवगृहस्य तु।
प्राग्द्वारेण तदा स्यातां प्रवेशश्च विनिर्गभः ॥ 525 ॥

मूलम् - 525

ग्रामादिकं भवेत् प्रत्यक् यदा देवगृहस्य तु।
प्राग्द्वारेण तदा स्यातां प्रवेशश्च विनिर्गभः ॥ 525 ॥

विश्वास-प्रस्तुतिः - 526

यदा ग्रामादिकं क्लृप्तं प्रासादस्य तु दक्षिणे।
तदानीमुत्तरद्वारा प्राग्द्वारा वा पुरोदिता ॥ 526 ॥

मूलम् - 526

यदा ग्रामादिकं क्लृप्तं प्रासादस्य तु दक्षिणे।
तदानीमुत्तरद्वारा प्राग्द्वारा वा पुरोदिता ॥ 526 ॥

विश्वास-प्रस्तुतिः - 527

यदा देवगृहस्योदक् ग्रामाद्यं परिकल्पितम्।
तदानीं दक्षिणद्वारा प्रत्यग्द्वारेण वा भवेत् ॥ 527 ॥

मूलम् - 527

यदा देवगृहस्योदक् ग्रामाद्यं परिकल्पितम्।
तदानीं दक्षिणद्वारा प्रत्यग्द्वारेण वा भवेत् ॥ 527 ॥

विश्वास-प्रस्तुतिः - 528

प्रवेशाद्यं द्वयं यद्वा दक्षिणोत्तरदिक्स्थिते।
ग्रामादावपि विप्रेन्द्र! प्राक्‌प्रत्यक्द्वारदेशतः ॥ 528 ॥

मूलम् - 528

प्रवेशाद्यं द्वयं यद्वा दक्षिणोत्तरदिक्स्थिते।
ग्रामादावपि विप्रेन्द्र! प्राक्‌प्रत्यक्द्वारदेशतः ॥ 528 ॥

विश्वास-प्रस्तुतिः - 529

प्रवेशनिर्गमौ मुख्यकल्पे तु विहितौ द्विज!।
अनुकल्पे तदन्याभ्यां द्वाराभ्यां परिकीर्तितौ ॥ 529 ॥

मूलम् - 529

प्रवेशनिर्गमौ मुख्यकल्पे तु विहितौ द्विज!।
अनुकल्पे तदन्याभ्यां द्वाराभ्यां परिकीर्तितौ ॥ 529 ॥

विश्वास-प्रस्तुतिः - 530

देवागारांगभूते तु तस्माद्‌दूरेण संस्थिते।
ग्रामादौ देबदेवस्य यात्रायां वेशनिर्गमौ ॥ 530 ॥

मूलम् - 530

देवागारांगभूते तु तस्माद्‌दूरेण संस्थिते।
ग्रामादौ देबदेवस्य यात्रायां वेशनिर्गमौ ॥ 530 ॥

विश्वास-प्रस्तुतिः - 531

कथितौ, सन्निकृष्टेथ विधानमवधारय।
प्रासादपूर्वदिक्‌संस्थे ग्रामे प्रागग्रवीधिषु ॥ 531 ॥

मूलम् - 531

कथितौ, सन्निकृष्टेथ विधानमवधारय।
प्रासादपूर्वदिक्‌संस्थे ग्रामे प्रागग्रवीधिषु ॥ 531 ॥

विश्वास-प्रस्तुतिः - 532

मध्यवीथ्यग्रदेशेन पश्चिमश्थेन वै विभोः।
प्रवेशनिर्गमौ स्यातां एतत्पश्चिमसंस्थिते ॥ 532 ॥

मूलम् - 532

मध्यवीथ्यग्रदेशेन पश्चिमश्थेन वै विभोः।
प्रवेशनिर्गमौ स्यातां एतत्पश्चिमसंस्थिते ॥ 532 ॥

विश्वास-प्रस्तुतिः - 533

मध्यवीथ्यग्रदेशेन पूर्वदिकसंस्थितेन च।
दक्षिणोत्तरसंस्थे तु यथायोगं समाचरेत् ॥ 533 ॥

मूलम् - 533

मध्यवीथ्यग्रदेशेन पूर्वदिकसंस्थितेन च।
दक्षिणोत्तरसंस्थे तु यथायोगं समाचरेत् ॥ 533 ॥

विश्वास-प्रस्तुतिः - 534

ग्रामाद्यं न कृतं यत्र कृता रथ्यावृतिस्तदा।
रथ्यावरणदेवानां बलिं दत्वा तु पूर्वतः ॥ 534 ॥

मूलम् - 534

ग्रामाद्यं न कृतं यत्र कृता रथ्यावृतिस्तदा।
रथ्यावरणदेवानां बलिं दत्वा तु पूर्वतः ॥ 534 ॥

विश्वास-प्रस्तुतिः - 535

पश्चाद्‌ग्रामोक्तदेवानां तत्रैव च बलिं ददेत्।
सर्वेषां च क्रमादेवं देवयात्रां द्विराचरेत् ॥ 535 ॥

मूलम् - 535

पश्चाद्‌ग्रामोक्तदेवानां तत्रैव च बलिं ददेत्।
सर्वेषां च क्रमादेवं देवयात्रां द्विराचरेत् ॥ 535 ॥

विश्वास-प्रस्तुतिः - 536

ग्राममध्योदितं कुर्यान्मुख्यद्वारार्थदेशतः।
रथ्यावृतिस्तु न कृता यदा ग्रामः कृतस्तदा ॥ 536 ॥

मूलम् - 536

ग्राममध्योदितं कुर्यान्मुख्यद्वारार्थदेशतः।
रथ्यावृतिस्तु न कृता यदा ग्रामः कृतस्तदा ॥ 536 ॥

विश्वास-प्रस्तुतिः - 537

यथ्यावृत्युक्तदेवानां न तत्र प्रददेद्बलिम्।
तदर्थी देवयात्रापि न कर्तव्या महामते! ॥ 537 ॥

मूलम् - 537

यथ्यावृत्युक्तदेवानां न तत्र प्रददेद्बलिम्।
तदर्थी देवयात्रापि न कर्तव्या महामते! ॥ 537 ॥

विश्वास-प्रस्तुतिः - 538

यदा तु वीथ्यावरणं ग्रामश्चापि न कल्पितः।
तदा ग्रामोक्तदेवानां बहिरावरणे बलिम् ॥ 538 ॥

मूलम् - 538

यदा तु वीथ्यावरणं ग्रामश्चापि न कल्पितः।
तदा ग्रामोक्तदेवानां बहिरावरणे बलिम् ॥ 538 ॥

विश्वास-प्रस्तुतिः - 539

तदुक्तदेवबल्यन्ते प्रदद्यात्तु दिने दिने।
ग्रामोक्त देवयात्रां च तथा तत्र समाचरेत् ॥ 539 ॥

मूलम् - 539

तदुक्तदेवबल्यन्ते प्रदद्यात्तु दिने दिने।
ग्रामोक्त देवयात्रां च तथा तत्र समाचरेत् ॥ 539 ॥

विश्वास-प्रस्तुतिः - 540

ग्राममध्ये तु यत् कर्म विहितं तत् समाचरेत्।
बलिषीठे तदा सर्वं यथोक्तविधिना द्विज! ॥ 540 ॥?

मूलम् - 540

ग्राममध्ये तु यत् कर्म विहितं तत् समाचरेत्।
बलिषीठे तदा सर्वं यथोक्तविधिना द्विज! ॥ 540 ॥?

विश्वास-प्रस्तुतिः - 541

बाह्यावृत्यादौ न तदा कुर्यात्तत् प्रथमावृतौ।
तदभावे तु तत् सर्वं प्रासादद्वारपूर्वतः ॥ 541 ॥

मूलम् - 541

बाह्यावृत्यादौ न तदा कुर्यात्तत् प्रथमावृतौ।
तदभावे तु तत् सर्वं प्रासादद्वारपूर्वतः ॥ 541 ॥

विश्वास-प्रस्तुतिः - 542

यदा ग्रामादिके क्लृप्ता देवयात्रोत्सवक्रिया।
राष्ट्रक्षोभादिविघ्नेन यदि कर्तुं न शक्यते ॥ 542 ॥

मूलम् - 542

यदा ग्रामादिके क्लृप्ता देवयात्रोत्सवक्रिया।
राष्ट्रक्षोभादिविघ्नेन यदि कर्तुं न शक्यते ॥ 542 ॥

विश्वास-प्रस्तुतिः - 543

एवमेव तदापि स्यात् देवयात्रोत्सवक्रमः।
बलिदानोदिते काले बलिदानं समाचरेत् ॥ 543 ॥

मूलम् - 543

एवमेव तदापि स्यात् देवयात्रोत्सवक्रमः।
बलिदानोदिते काले बलिदानं समाचरेत् ॥ 543 ॥

विश्वास-प्रस्तुतिः - 544

कुमुदादिगणेशानां प्रथमावरणेपि च।
पालिकावसथे चापि मण्डपे यागनिर्मिते ॥ 544 ॥

मूलम् - 544

कुमुदादिगणेशानां प्रथमावरणेपि च।
पालिकावसथे चापि मण्डपे यागनिर्मिते ॥ 544 ॥

विश्वास-प्रस्तुतिः - 545

ग्रामादिकेपि विप्रेन्द्र नित्यं स्थानचतुष्टये।
यदि रथ्यावृतिः क्लृप्ता तत्रापि च बलिं ददेत् ॥ 545 ॥

मूलम् - 545

ग्रामादिकेपि विप्रेन्द्र नित्यं स्थानचतुष्टये।
यदि रथ्यावृतिः क्लृप्ता तत्रापि च बलिं ददेत् ॥ 545 ॥

विश्वास-प्रस्तुतिः - 546

ग्रामाद्ये सगणानां तु बलिं दद्याद्दिने दिने।
अन्यस्थानचतुष्के तु केवलानां बलिं ददेत् ॥ 546 ॥

मूलम् - 546

ग्रामाद्ये सगणानां तु बलिं दद्याद्दिने दिने।
अन्यस्थानचतुष्के तु केवलानां बलिं ददेत् ॥ 546 ॥

विश्वास-प्रस्तुतिः - 547

ग्रामाद्यं पालिकावासं विनान्यत्र समाचरेत्।
देवप्रागादियोगेन बलिं स्थानत्रयेपि च ॥ 547 ॥

मूलम् - 547

ग्रामाद्यं पालिकावासं विनान्यत्र समाचरेत्।
देवप्रागादियोगेन बलिं स्थानत्रयेपि च ॥ 547 ॥

विश्वास-प्रस्तुतिः - 548

ग्रामादौ नोत्सवं कुर्याद्योजनात् परतः स्थिते।
नद्यादिव्यवधानेपि क्लृप्ते वा योजनावधेः ॥ 548 ॥

मूलम् - 548

ग्रामादौ नोत्सवं कुर्याद्योजनात् परतः स्थिते।
नद्यादिव्यवधानेपि क्लृप्ते वा योजनावधेः ॥ 548 ॥

विश्वास-प्रस्तुतिः - 549

ग्रामादौ उत्सवं कुर्यात् स्वतन्त्रे वांग एव वा।
देवतान्तरयात्रार्थं निर्मिंते नगरादिके ॥ 549 ॥

मूलम् - 549

ग्रामादौ उत्सवं कुर्यात् स्वतन्त्रे वांग एव वा।
देवतान्तरयात्रार्थं निर्मिंते नगरादिके ॥ 549 ॥

विश्वास-प्रस्तुतिः - 550

न कुर्याद्देवदेवस्य विभोर्यात्रोत्सवक्रियाम्।
विभोर्यात्रोत्सवार्थं तु कल्पिते नगरादिके ॥ 550 ॥

मूलम् - 550

न कुर्याद्देवदेवस्य विभोर्यात्रोत्सवक्रियाम्।
विभोर्यात्रोत्सवार्थं तु कल्पिते नगरादिके ॥ 550 ॥

विश्वास-प्रस्तुतिः - 551

देबतान्तरयात्रां तु न कदाचित् समाचरेत्।
ग्रामाद्यंगतया क्लृप्ते प्रासादे तु महमते ॥ 551 ॥

मूलम् - 551

देबतान्तरयात्रां तु न कदाचित् समाचरेत्।
ग्रामाद्यंगतया क्लृप्ते प्रासादे तु महमते ॥ 551 ॥

विश्वास-प्रस्तुतिः - 552

तदंगिनं तु ग्रामाद्यं विनान्यत्र बलिक्रियाम्।
न कल्पयेद्देवयात्रां तथैव न समाचरेत् ॥ 552 ॥

मूलम् - 552

तदंगिनं तु ग्रामाद्यं विनान्यत्र बलिक्रियाम्।
न कल्पयेद्देवयात्रां तथैव न समाचरेत् ॥ 552 ॥

विश्वास-प्रस्तुतिः - 553

देवतान्तरकल्याणे वर्तमाने कदाचन।
देवतान्तरयात्रार्थं तोरणानि कृतान्यपि ॥ 553 ॥

मूलम् - 553

देवतान्तरकल्याणे वर्तमाने कदाचन।
देवतान्तरयात्रार्थं तोरणानि कृतान्यपि ॥ 553 ॥

विश्वास-प्रस्तुतिः - 554

देवदेवस्य यागार्थं न स्बीकुर्यात् कदाचन।
एकस्मिन्नुत्सवेनैव दद्याद् ग्रामद्वये बलिम् ॥ 554 ॥

मूलम् - 554

देवदेवस्य यागार्थं न स्बीकुर्यात् कदाचन।
एकस्मिन्नुत्सवेनैव दद्याद् ग्रामद्वये बलिम् ॥ 554 ॥

विश्वास-प्रस्तुतिः - 555

न कुर्याद्देवयात्रां च कृता चेन्निप्फला भवेत्।
तथा ध्वजद्वयं न स्यात् भेदछिद्रादिदूषिते ॥ 555 ॥

मूलम् - 555

न कुर्याद्देवयात्रां च कृता चेन्निप्फला भवेत्।
तथा ध्वजद्वयं न स्यात् भेदछिद्रादिदूषिते ॥ 555 ॥

विश्वास-प्रस्तुतिः - 556

पटस्थे विहगेन्द्रे तु कुर्यात् सन्धानमेव तु।
तच्चेदशक्यं तत्त्यकत्वा कृत्वान्यं प्राग्वदाचरेत् ॥ 556 ॥

मूलम् - 556

पटस्थे विहगेन्द्रे तु कुर्यात् सन्धानमेव तु।
तच्चेदशक्यं तत्त्यकत्वा कृत्वान्यं प्राग्वदाचरेत् ॥ 556 ॥

विश्वास-प्रस्तुतिः - 557

अन्यथा तत्परित्यागे दोषः स्याद्राजराष्ट्रयोः।
एवं तु देवदेवस्य उत्सवं कल्पयेत्तु यः ॥ 557 ॥

मूलम् - 557

अन्यथा तत्परित्यागे दोषः स्याद्राजराष्ट्रयोः।
एवं तु देवदेवस्य उत्सवं कल्पयेत्तु यः ॥ 557 ॥

विश्वास-प्रस्तुतिः - 558

इह लोके सुखं भुक्त्‌वा चिरं भोगान् यथेप्सितान्।
देहसन्यासकाले तु प्राप्नोति भगवत्पदम् ॥ 558 ॥

मूलम् - 558

इह लोके सुखं भुक्त्‌वा चिरं भोगान् यथेप्सितान्।
देहसन्यासकाले तु प्राप्नोति भगवत्पदम् ॥ 558 ॥

विश्वास-प्रस्तुतिः - 559

यात्रायां वर्तमानायां अनुगच्छन्ति ये विभुम्।
पदे पदे क्रतुफलं लभन्ते ते नरोत्तमाः ॥ 559 ॥

मूलम् - 559

यात्रायां वर्तमानायां अनुगच्छन्ति ये विभुम्।
पदे पदे क्रतुफलं लभन्ते ते नरोत्तमाः ॥ 559 ॥

विश्वास-प्रस्तुतिः - 560

ये तोषयन्ति ते काले देवदेवं जगत्पतिम्।
विविधैरूपचारैस्तु छत्रचामरपूर्वकैः ॥ 560 ॥

मूलम् - 560

ये तोषयन्ति ते काले देवदेवं जगत्पतिम्।
विविधैरूपचारैस्तु छत्रचामरपूर्वकैः ॥ 560 ॥

विश्वास-प्रस्तुतिः - 561

ऐहिकामुप्मिकान् भोगान् प्राप्नोत्यभिभतान् सदा।
इति सम्यङ्‌मुनिश्रेष्ठ! कीर्तितो वत्सरोत्सवः ॥ 561 ॥

मूलम् - 561

ऐहिकामुप्मिकान् भोगान् प्राप्नोत्यभिभतान् सदा।
इति सम्यङ्‌मुनिश्रेष्ठ! कीर्तितो वत्सरोत्सवः ॥ 561 ॥

विश्वास-प्रस्तुतिः - 562

एवं नैमित्तिकं चान्यं कुर्यादेकाहमुत्सवम्।
ध्वजारोहादिपूर्वोक्तयात्रांगपरिवर्जितम् ॥ 562 ॥

मूलम् - 562

एवं नैमित्तिकं चान्यं कुर्यादेकाहमुत्सवम्।
ध्वजारोहादिपूर्वोक्तयात्रांगपरिवर्जितम् ॥ 562 ॥

विश्वास-प्रस्तुतिः - 563

विभवानुगुणं विप्र! विशेषस्नपनान्वितम्।
महता हविषा युक्तं यथाश्रद्धानुरूपतः ॥ 563 ॥

मूलम् - 563

विभवानुगुणं विप्र! विशेषस्नपनान्वितम्।
महता हविषा युक्तं यथाश्रद्धानुरूपतः ॥ 563 ॥

विश्वास-प्रस्तुतिः - 564

तस्मिन् प्रदाननक्षत्रे पत्रपुष्पफलान्विते।
पञ्चविंशतिकुम्भांस्तु स्थापयित्वाभिषेचयेत् ॥ 564 ॥

मूलम् - 564

तस्मिन् प्रदाननक्षत्रे पत्रपुष्पफलान्विते।
पञ्चविंशतिकुम्भांस्तु स्थापयित्वाभिषेचयेत् ॥ 564 ॥

विश्वास-प्रस्तुतिः - 565

चैत्रे मासि पुनर्वस्वोः वसन्तोत्सवमाचरेत्।
तस्मिंस्तु शुक्लद्वादश्यां कुर्याद्दमनकोत्सवम् ॥ 565 ॥

मूलम् - 565

चैत्रे मासि पुनर्वस्वोः वसन्तोत्सवमाचरेत्।
तस्मिंस्तु शुक्लद्वादश्यां कुर्याद्दमनकोत्सवम् ॥ 565 ॥

विश्वास-प्रस्तुतिः - 566

पवित्रारोहवत् कुर्यात् चतुस्थानार्चनादिकम्।
भूषणान्युत्तमादीनि कुर्याद्दमनकैस्तथा ॥ 566 ॥

मूलम् - 566

पवित्रारोहवत् कुर्यात् चतुस्थानार्चनादिकम्।
भूषणान्युत्तमादीनि कुर्याद्दमनकैस्तथा ॥ 566 ॥

विश्वास-प्रस्तुतिः - 567

तत्तु संख्याविरहितं यथाशोभानुरूपतः।
पञ्चविंशतिकुम्भांस्तु स्थापयित्वाभिषेचयेत् ॥ 567 ॥

मूलम् - 567

तत्तु संख्याविरहितं यथाशोभानुरूपतः।
पञ्चविंशतिकुम्भांस्तु स्थापयित्वाभिषेचयेत् ॥ 567 ॥

विश्वास-प्रस्तुतिः - 568

एको ह वै नारायण इति प्राव्कलशेन तु।
तस्य ध्यानान्तस्थस्येति द्वितीयकलशेन तु ॥ 568 ॥

मूलम् - 568

एको ह वै नारायण इति प्राव्कलशेन तु।
तस्य ध्यानान्तस्थस्येति द्वितीयकलशेन तु ॥ 568 ॥

विश्वास-प्रस्तुतिः - 569

अथ पुनरेव नारायण इति तृतीयकलशेन तु।
अथ पुनरेव नारायण इति चतुर्थतः ॥ 569 ॥

मूलम् - 569

अथ पुनरेव नारायण इति तृतीयकलशेन तु।
अथ पुनरेव नारायण इति चतुर्थतः ॥ 569 ॥

विश्वास-प्रस्तुतिः - 570

सहस्रशीर्षा पुरुष इति पञ्चमकुम्भतः।
पतिं विश्वस्यात्मेश्वरमिति वै षष्ठकुम्भतः । 570 ॥

मूलम् - 570

सहस्रशीर्षा पुरुष इति पञ्चमकुम्भतः।
पतिं विश्वस्यात्मेश्वरमिति वै षष्ठकुम्भतः । 570 ॥

विश्वास-प्रस्तुतिः - 571

नारायण परं ब्रह्न इति वै सप्तमेन तु।
यच्च किंचिज्जगत्यस्मिन् इति ह्यष्टमकुम्भतः ॥ 571 ॥

मूलम् - 571

नारायण परं ब्रह्न इति वै सप्तमेन तु।
यच्च किंचिज्जगत्यस्मिन् इति ह्यष्टमकुम्भतः ॥ 571 ॥

विश्वास-प्रस्तुतिः - 572

अनन्तमव्ययं कविमिति नवमेनाभिषेचयेत्।
अतो निष्ट्या वितस्त्यां तु इति स्याद्दशमेन वै ॥ 572 ॥

मूलम् - 572

अनन्तमव्ययं कविमिति नवमेनाभिषेचयेत्।
अतो निष्ट्या वितस्त्यां तु इति स्याद्दशमेन वै ॥ 572 ॥

विश्वास-प्रस्तुतिः - 573

सन्ततं सिराभिस्तु लमित्येकादशेन तु।
तस्य मद्ये महानग्निरिति द्वादशमेन वै ॥ 573 ॥

मूलम् - 573

सन्ततं सिराभिस्तु लमित्येकादशेन तु।
तस्य मद्ये महानग्निरिति द्वादशमेन वै ॥ 573 ॥

विश्वास-प्रस्तुतिः - 574

सन्तापयति स्वं देहमिति त्रयोदशमेन वै।
नीलतोयदमद्यस्था इति चतुर्दशमेन वै ॥ 574 ॥

मूलम् - 574

सन्तापयति स्वं देहमिति त्रयोदशमेन वै।
नीलतोयदमद्यस्था इति चतुर्दशमेन वै ॥ 574 ॥

विश्वास-प्रस्तुतिः - 575

तस्याश्शिखाया मध्ये इति पञ्चदशमेन वै।
सर्वस्य वशिनं देवं इति षोडशमेन तु ॥ 575 ॥

मूलम् - 575

तस्याश्शिखाया मध्ये इति पञ्चदशमेन वै।
सर्वस्य वशिनं देवं इति षोडशमेन तु ॥ 575 ॥

विश्वास-प्रस्तुतिः - 576

बहिरावरणस्थैस्तु कलशैरभियेचयेत्।
बहिरावरणे नास्ति इति प्राक्‌संस्थितेन तु ॥ 576 ॥

मूलम् - 576

बहिरावरणस्थैस्तु कलशैरभियेचयेत्।
बहिरावरणे नास्ति इति प्राक्‌संस्थितेन तु ॥ 576 ॥

विश्वास-प्रस्तुतिः - 577

यन्नाबिपझादभवदिति वह्निगतेन तु।
धृतोर्ध्वपुम्ड्रं परमेति याम्यदिकसंस्थितेन तु ॥ 577 ॥

मूलम् - 577

यन्नाबिपझादभवदिति वह्निगतेन तु।
धृतोर्ध्वपुम्ड्रं परमेति याम्यदिकसंस्थितेन तु ॥ 577 ॥

विश्वास-प्रस्तुतिः - 578

दक्षिणे तु भुजे विप्रः इति यातुगतेन वै।
विष्णुनाक्तमश्रन्तीति वारुणीदिक्स्थितेन तु ॥ 578 ॥

मूलम् - 578

दक्षिणे तु भुजे विप्रः इति यातुगतेन वै।
विष्णुनाक्तमश्रन्तीति वारुणीदिक्स्थितेन तु ॥ 578 ॥

विश्वास-प्रस्तुतिः - 579

पुंप्रधानेश्वरो विष्णुरिति वायुगतेन वै।
य इमां महोपनिषदमिति सोमगतेन तु ॥ 579 ॥

मूलम् - 579

पुंप्रधानेश्वरो विष्णुरिति वायुगतेन वै।
य इमां महोपनिषदमिति सोमगतेन तु ॥ 579 ॥

विश्वास-प्रस्तुतिः - 580

ओमिते प्रथमं नाम इतीशानगतेन तु।
पुरुषोहं वै वासुदेव इति मध्यगतेन तु ॥ 580 ॥

मूलम् - 580

ओमिते प्रथमं नाम इतीशानगतेन तु।
पुरुषोहं वै वासुदेव इति मध्यगतेन तु ॥ 580 ॥

विश्वास-प्रस्तुतिः - 581

यद्वा पुरुषसूक्तीयैर्मन्त्रैः षोडशभिः क्रमात्।
बहिरावरणस्थैस्तु कलशैरमिषिच्य च ॥ 581 ॥

मूलम् - 581

यद्वा पुरुषसूक्तीयैर्मन्त्रैः षोडशभिः क्रमात्।
बहिरावरणस्थैस्तु कलशैरमिषिच्य च ॥ 581 ॥

विश्वास-प्रस्तुतिः - 582

पूर्वोक्तैर्ब्रह्नसूक्तस्थैर्मन्त्रैर्द्विद्विकसंख्यया।
अन्तरावरणस्थैस्तु संस्नाप्य कलशैः क्रमात् ॥ 582 ॥

मूलम् - 582

पूर्वोक्तैर्ब्रह्नसूक्तस्थैर्मन्त्रैर्द्विद्विकसंख्यया।
अन्तरावरणस्थैस्तु संस्नाप्य कलशैः क्रमात् ॥ 582 ॥

विश्वास-प्रस्तुतिः - 583

अवशिष्टैस्त्रिभिश्चान्ते मध्यकुंभेन सेचयेत्।
रजनीचूर्णसंपूर्णान् संस्थाप्य नवकुम्भकान् ॥ 583 ॥

मूलम् - 583

अवशिष्टैस्त्रिभिश्चान्ते मध्यकुंभेन सेचयेत्।
रजनीचूर्णसंपूर्णान् संस्थाप्य नवकुम्भकान् ॥ 583 ॥

विश्वास-प्रस्तुतिः - 584

अर्घ्याद्यैरर्चयित्वा तु चक्ररश्मिसमप्रभान्।
रजनीचूर्णनिचयान् ध्यात्वा तैरमिषेचयेत् ॥ 584 ॥

मूलम् - 584

अर्घ्याद्यैरर्चयित्वा तु चक्ररश्मिसमप्रभान्।
रजनीचूर्णनिचयान् ध्यात्वा तैरमिषेचयेत् ॥ 584 ॥

विश्वास-प्रस्तुतिः - 585

सर्वविघ्ननिरासार्थं सर्वसंपूरणाय च।
दक्षिणे तु भुजे विप्र! इति प्राक्‌संस्थितेन च ॥ 585 ॥

मूलम् - 585

सर्वविघ्ननिरासार्थं सर्वसंपूरणाय च।
दक्षिणे तु भुजे विप्र! इति प्राक्‌संस्थितेन च ॥ 585 ॥

विश्वास-प्रस्तुतिः - 586

निचिकिद्वा सुषणमिति वह्निगतेन तु।
प्रते विष्णो अब्ज चक्रे इति याम्यगतेन तु ॥ 586 ॥

मूलम् - 586

निचिकिद्वा सुषणमिति वह्निगतेन तु।
प्रते विष्णो अब्ज चक्रे इति याम्यगतेन तु ॥ 586 ॥

विश्वास-प्रस्तुतिः - 587

एभिर्वयमुरुक्रमस्येति यातुगतेन तु।
धृतोर्ध्वपुण्ड्रः कृतचक्रेति पश्चिमाशागतेन तु ॥ 587 ॥

मूलम् - 587

एभिर्वयमुरुक्रमस्येति यातुगतेन तु।
धृतोर्ध्वपुण्ड्रः कृतचक्रेति पश्चिमाशागतेन तु ॥ 587 ॥

विश्वास-प्रस्तुतिः - 588

पवित्रमित्यग्निरिति वायुगतेन तु।
चरणं पवित्रं विततमिति सोमगतेन तु ॥ 588 ॥

मूलम् - 588

पवित्रमित्यग्निरिति वायुगतेन तु।
चरणं पवित्रं विततमिति सोमगतेन तु ॥ 588 ॥

विश्वास-प्रस्तुतिः - 589

लोकस्य द्वारमर्चिमदिति रुद्रगतेन तु।
मन्त्रैरेतैस्तु चाष्टाभिः अन्यैः सौदर्शनैस्तथा ॥ 589 ॥

मूलम् - 589

लोकस्य द्वारमर्चिमदिति रुद्रगतेन तु।
मन्त्रैरेतैस्तु चाष्टाभिः अन्यैः सौदर्शनैस्तथा ॥ 589 ॥

विश्वास-प्रस्तुतिः - 590

संस्नाप्य मध्यकुम्भेन शुद्धोदैरभिषिच्य च।
महोपनिषदन्तस्थैः ब्रह्नसूक्तैः पुरोदितैः ॥ 590 ॥

मूलम् - 590

संस्नाप्य मध्यकुम्भेन शुद्धोदैरभिषिच्य च।
महोपनिषदन्तस्थैः ब्रह्नसूक्तैः पुरोदितैः ॥ 590 ॥

विश्वास-प्रस्तुतिः - 591

मन्त्रैश्चतुर्भिः पुंसूक्तैः मन्त्रैः षोडशभिस्तथा।
वासुदेवद्विषट्‌कार्णब्राह्नणद्वितयेन तु ॥ 591 ॥

मूलम् - 591

मन्त्रैश्चतुर्भिः पुंसूक्तैः मन्त्रैः षोडशभिस्तथा।
वासुदेवद्विषट्‌कार्णब्राह्नणद्वितयेन तु ॥ 591 ॥

विश्वास-प्रस्तुतिः - 592

ओंकारादिपवित्रान्तैः चतुभिर्व्यापकैस्तथा।
सहस्रधारया देवं स्नापयेद्विधिपूर्वकम् ॥ 592 ॥

मूलम् - 592

ओंकारादिपवित्रान्तैः चतुभिर्व्यापकैस्तथा।
सहस्रधारया देवं स्नापयेद्विधिपूर्वकम् ॥ 592 ॥

विश्वास-प्रस्तुतिः - 593

यद्वा द्विषट्‌कमन्त्रेण सर्वं स्नपनमाचरेत्।
ततोऽन्यैः सकलैर्भोगैः प्राग्वदिष्ट्वा क्रमेण तु ॥ 593 ॥

मूलम् - 593

यद्वा द्विषट्‌कमन्त्रेण सर्वं स्नपनमाचरेत्।
ततोऽन्यैः सकलैर्भोगैः प्राग्वदिष्ट्वा क्रमेण तु ॥ 593 ॥

विश्वास-प्रस्तुतिः - 594

सर्वैः पुरोदितैर्मन्त्रैः द्विषट्‌कार्णेन वा द्विज!।
होमं कृत्वा विशेषेण समिद्भिस्त्रिमधुप्लुतैः ॥ 594 ॥

मूलम् - 594

सर्वैः पुरोदितैर्मन्त्रैः द्विषट्‌कार्णेन वा द्विज!।
होमं कृत्वा विशेषेण समिद्भिस्त्रिमधुप्लुतैः ॥ 594 ॥

विश्वास-प्रस्तुतिः - 595

ततो दमनकारोपमाचरेत्तु यथाविधि।
अत्रानुक्तं तु सकलं पवित्रारोहवद्भेत् ॥ 595 ॥

मूलम् - 595

ततो दमनकारोपमाचरेत्तु यथाविधि।
अत्रानुक्तं तु सकलं पवित्रारोहवद्भेत् ॥ 595 ॥

विश्वास-प्रस्तुतिः - 596

माघमासे पुनर्वस्वोश्चैत्रे वा द्वितयेपि वा।
वैशाखे श्रवणे ऋक्षे रोहिण्यां श्रवणे तथा ॥ 596 ॥

मूलम् - 596

माघमासे पुनर्वस्वोश्चैत्रे वा द्वितयेपि वा।
वैशाखे श्रवणे ऋक्षे रोहिण्यां श्रवणे तथा ॥ 596 ॥

विश्वास-प्रस्तुतिः - 597

आर्द्रायां मार्गशीर्षाख्ये आषाढे हस्ततारके।
कार्तिके मासि रोहिण्यामन्येष्वेवंविधेष्वपि ॥ 597 ॥

मूलम् - 597

आर्द्रायां मार्गशीर्षाख्ये आषाढे हस्ततारके।
कार्तिके मासि रोहिण्यामन्येष्वेवंविधेष्वपि ॥ 597 ॥

विश्वास-प्रस्तुतिः - 598

अवतारदिनेष्वेवं कुर्यादेकाहमुत्सवम्।
ग्रामे वा नगराद्ये वा सर्वेष्वावरणेषु वा ॥ 598 ॥

मूलम् - 598

अवतारदिनेष्वेवं कुर्यादेकाहमुत्सवम्।
ग्रामे वा नगराद्ये वा सर्वेष्वावरणेषु वा ॥ 598 ॥

विश्वास-प्रस्तुतिः - 599

शुभलीलासमायुक्तमाचरेत्तु परिभ्रमम्।
पक्षे पक्षे च द्वादश्यां मासि मासि तथैव च ॥ 599 ॥

मूलम् - 599

शुभलीलासमायुक्तमाचरेत्तु परिभ्रमम्।
पक्षे पक्षे च द्वादश्यां मासि मासि तथैव च ॥ 599 ॥

विश्वास-प्रस्तुतिः - 600

अमावास्यां पौर्णमास्यां श्रवणे चोत्तरे दिने।
अन्येष्वपि प्रशस्तेषु विभवेच्छानुरूपतः ॥ 600 ॥

मूलम् - 600

अमावास्यां पौर्णमास्यां श्रवणे चोत्तरे दिने।
अन्येष्वपि प्रशस्तेषु विभवेच्छानुरूपतः ॥ 600 ॥

विश्वास-प्रस्तुतिः - 601

यजमानादिजन्मर्क्षे चैत्रादि विषुवद्वये।
अयनद्वितये चापि सूक्ष्मस्थूले विशेषतः ॥ 601 ॥

मूलम् - 601

यजमानादिजन्मर्क्षे चैत्रादि विषुवद्वये।
अयनद्वितये चापि सूक्ष्मस्थूले विशेषतः ॥ 601 ॥

विश्वास-प्रस्तुतिः - 602

तथा चाग्रयणाख्यं तु वत्सरे वत्सरे द्वयम्।
आषाढे पूर्वफल्गुन्यां पुष्ये चैव विशेषतः ॥ 602 ॥

मूलम् - 602

तथा चाग्रयणाख्यं तु वत्सरे वत्सरे द्वयम्।
आषाढे पूर्वफल्गुन्यां पुष्ये चैव विशेषतः ॥ 602 ॥

विश्वास-प्रस्तुतिः - 603

माघमासे तु पञ्चम्यां सप्तम्यामथवा द्विज!।
विशेषयजनं कुर्याद्विभवेच्छानुरूपतः ॥ 603 ॥

मूलम् - 603

माघमासे तु पञ्चम्यां सप्तम्यामथवा द्विज!।
विशेषयजनं कुर्याद्विभवेच्छानुरूपतः ॥ 603 ॥

विश्वास-प्रस्तुतिः - 604

एकादश्यां मार्गशीर्षे पूर्वपक्षे विशेषतः।
कुर्याद्विशेषयजनं त्त संश्रावयेद्विभुम् ॥ 604 ॥

मूलम् - 604

एकादश्यां मार्गशीर्षे पूर्वपक्षे विशेषतः।
कुर्याद्विशेषयजनं त्त संश्रावयेद्विभुम् ॥ 604 ॥

विश्वास-प्रस्तुतिः - 605

सदागमादिकान् सर्वान् वेदान् वै वेदघोषणम्।
इतिहासपुराणं च तथा दैवं च मानुषम् ॥ 605 ॥

मूलम् - 605

सदागमादिकान् सर्वान् वेदान् वै वेदघोषणम्।
इतिहासपुराणं च तथा दैवं च मानुषम् ॥ 605 ॥

विश्वास-प्रस्तुतिः - 606

वेदेपवृह्नणं त्वन्यत् संस्कृतं प्राकृतं तु वा।
भाषान्तरगतं वापि यथाश्रद्धानुरूपतः ॥ 606 ॥

मूलम् - 606

वेदेपवृह्नणं त्वन्यत् संस्कृतं प्राकृतं तु वा।
भाषान्तरगतं वापि यथाश्रद्धानुरूपतः ॥ 606 ॥

विश्वास-प्रस्तुतिः - 607

एवं विशेषयजनं द्वादश्यां तु समाचरेत्।
पायसान्नं गुलान्नं वा प्रभूतं विनिवेदयेत् ॥ 607 ॥

मूलम् - 607

एवं विशेषयजनं द्वादश्यां तु समाचरेत्।
पायसान्नं गुलान्नं वा प्रभूतं विनिवेदयेत् ॥ 607 ॥

विश्वास-प्रस्तुतिः - 608

समाप्ते भगवद्व्यागे पारणं तु समाचरेत्।
एतत्तिथिद्वययुतमुत्तमं व्रतमीरितम् ॥ 608 ॥

मूलम् - 608

समाप्ते भगवद्व्यागे पारणं तु समाचरेत्।
एतत्तिथिद्वययुतमुत्तमं व्रतमीरितम् ॥ 608 ॥

विश्वास-प्रस्तुतिः - 609

अतः परं स्याद्विस्तारो विभवेच्छानुरूपतः।
तदादिपौर्णमास्यान्तं पञ्चम्यन्तं तु वा द्विज ॥ 609 ॥

मूलम् - 609

अतः परं स्याद्विस्तारो विभवेच्छानुरूपतः।
तदादिपौर्णमास्यान्तं पञ्चम्यन्तं तु वा द्विज ॥ 609 ॥

विश्वास-प्रस्तुतिः - 610

दशम्यमावास्यान्तं वा पञ्चमी दशमी तु वा।
एवं त्रिंशद्दिनान्तं तु विभवानुगुणं भवेत् ॥ 610 ॥

मूलम् - 610

दशम्यमावास्यान्तं वा पञ्चमी दशमी तु वा।
एवं त्रिंशद्दिनान्तं तु विभवानुगुणं भवेत् ॥ 610 ॥

विश्वास-प्रस्तुतिः - 611

वैशाखे च विशाखर्क्षे विशेषयजनं भवेत्।
सहकारफलैः पव्कैः गुलक्षीरादिपाचितैः ॥ 611 ॥

मूलम् - 611

वैशाखे च विशाखर्क्षे विशेषयजनं भवेत्।
सहकारफलैः पव्कैः गुलक्षीरादिपाचितैः ॥ 611 ॥

विश्वास-प्रस्तुतिः - 612

कार्तिके मासि कार्तिक्यां विशेषार्चनमाचरेत्।
घृततैलमहादीपैः प्रभूतैर्दर्शयेत् प्रबुम् ॥ 612 ॥

मूलम् - 612

कार्तिके मासि कार्तिक्यां विशेषार्चनमाचरेत्।
घृततैलमहादीपैः प्रभूतैर्दर्शयेत् प्रबुम् ॥ 612 ॥

विश्वास-प्रस्तुतिः - 613

शुभैरन्यैर्लाजपूर्वैः शुभैर्भक्ष्यादिभिः सह।
फलपुप्पादिकैः पूतैः तत्तत्काले समर्चयेत् ॥ 613 ॥

मूलम् - 613

शुभैरन्यैर्लाजपूर्वैः शुभैर्भक्ष्यादिभिः सह।
फलपुप्पादिकैः पूतैः तत्तत्काले समर्चयेत् ॥ 613 ॥

विश्वास-प्रस्तुतिः - 614

पौषे मासि च पुष्ये तु विशेषस्नपनान्वितम्।
कार्तिके मासि विप्रेन्द्र! शुक्लैकादशिका तु या ॥ 614 ॥

मूलम् - 614

पौषे मासि च पुष्ये तु विशेषस्नपनान्वितम्।
कार्तिके मासि विप्रेन्द्र! शुक्लैकादशिका तु या ॥ 614 ॥

विश्वास-प्रस्तुतिः - 615

तस्यामुपोष्य रात्र्यां तु जागरेण जगत्पतिम्।
तत्कालोचितरागोत्थैः तोषयित्वा तु गीतकैः ॥ 615 ॥

मूलम् - 615

तस्यामुपोष्य रात्र्यां तु जागरेण जगत्पतिम्।
तत्कालोचितरागोत्थैः तोषयित्वा तु गीतकैः ॥ 615 ॥

विश्वास-प्रस्तुतिः - 616

ब्राह्ने मुहूर्ते संप्राप्ते विशेषेण यजेद्विभुम्।
संश्रावयेद्गीतकानि स्तोत्राणि विविधाः कथा ॥ 616 ॥

मूलम् - 616

ब्राह्ने मुहूर्ते संप्राप्ते विशेषेण यजेद्विभुम्।
संश्रावयेद्गीतकानि स्तोत्राणि विविधाः कथा ॥ 616 ॥

विश्वास-प्रस्तुतिः - 617

होमावसानं सर्वं तु सविशेषं समाचरेत्।
तत्काले ये च गायन्ति तच्च श्रृण्वन्ति ये जनाः ॥ 617 ॥

मूलम् - 617

होमावसानं सर्वं तु सविशेषं समाचरेत्।
तत्काले ये च गायन्ति तच्च श्रृण्वन्ति ये जनाः ॥ 617 ॥

विश्वास-प्रस्तुतिः - 618

तेषां पुण्यफलावाप्तिं कः शक्नोत्यभिवर्णितुम्।
आचार्याः साधका वापि कुर्वीरन्नेवमुत्सवम् ॥ 618 ॥

मूलम् - 618

तेषां पुण्यफलावाप्तिं कः शक्नोत्यभिवर्णितुम्।
आचार्याः साधका वापि कुर्वीरन्नेवमुत्सवम् ॥ 618 ॥

विश्वास-प्रस्तुतिः - 619

आचार्यास्तेषु सोष्णीषा भवेयुस्सोत्तरीयकाः।
अकंचुकाः सदा विप्र! साधकाः स्युः सकञ्चुकाः ॥ 619 ॥

मूलम् - 619

आचार्यास्तेषु सोष्णीषा भवेयुस्सोत्तरीयकाः।
अकंचुकाः सदा विप्र! साधकाः स्युः सकञ्चुकाः ॥ 619 ॥

सकञ्चुका यद्याचार्यास्तत्पूजा निष्फला भवेत्। इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे महोत्सवादिविधिर्नाम सप्तदशोऽध्यायः॥ ****************