०१६ देवतावाहनान्तविधानम्

॥ श्रीः ॥
?0?2 षोडशोऽध्यायः
सनकः ———

विश्वास-प्रस्तुतिः - 1

स्थापनं मन्त्रबिम्बानां परिज्ञातं यथाविधि।
महोत्सवविधानं तु श्रोतुमिच्छामि सांप्रतम् ॥ 1 ॥

मूलम् - 1

स्थापनं मन्त्रबिम्बानां परिज्ञातं यथाविधि।
महोत्सवविधानं तु श्रोतुमिच्छामि सांप्रतम् ॥ 1 ॥

शाण्डिल्यः -------
विश्वास-प्रस्तुतिः - 2

महोत्सवं प्रवक्ष्यामि यथावन्मुनिपुङ्गव!।
सव इत्युच्यते दुःखं विद्वद्भिः समुदाहृतम् ॥ 2 ॥

मूलम् - 2

महोत्सवं प्रवक्ष्यामि यथावन्मुनिपुङ्गव!।
सव इत्युच्यते दुःखं विद्वद्भिः समुदाहृतम् ॥ 2 ॥

विश्वास-प्रस्तुतिः - 3

उद्गतः स सवो यस्मात् तस्मादुत्सव उच्यते।
नित्यो नैमित्तिकः काम्यस्त्रिविधः स महोत्सवः ॥ 3 ॥

मूलम् - 3

विश्वास-प्रस्तुतिः - 4

वत्सरे वत्सरे यस्तु क्रियते स तु नित्यकः।
भूमिकंपे दिशां दाहे महोत्पातेषु सत्सु च ॥ 4 ॥

मूलम् - 4

वत्सरे वत्सरे यस्तु क्रियते स तु नित्यकः।
भूमिकंपे दिशां दाहे महोत्पातेषु सत्सु च ॥ 4 ॥

विश्वास-प्रस्तुतिः - 5

दुर्भिक्षे व्याधिते राष्ट्रे तथा वै शत्रुसंकटे।
अनावृष्टौ च सर्वत्र नक्षत्रपतने च खात् ॥ 5 ॥

मूलम् - 5

विश्वास-प्रस्तुतिः - 6

हसने भगवन्मूर्तेरङ्गानां चलने सति।
रोदने चासनाद्‌बिम्बे परिभ्रमति सत्तम! ॥ 6 ॥

मूलम् - 6

हसने भगवन्मूर्तेरङ्गानां चलने सति।
रोदने चासनाद्‌बिम्बे परिभ्रमति सत्तम! ॥ 6 ॥

विश्वास-प्रस्तुतिः - 7

व्यत्यासे शशि (दिशि) सूर्यस्य तथान्येष्वेवमादिषु।
शान्त्यर्थं यत् प्रकुर्वीत स नैमित्तिक उच्यते ॥ 7 ॥

मूलम् - 7

विश्वास-प्रस्तुतिः - 8

चतुर्णां पुरुषार्थानामुद्दिश्यान्यतमं फलम्।
उत्सवोऽनुष्ठितः काम्यः संकल्पितफलप्रदः ॥ 8 ॥

मूलम् - 8

चतुर्णां पुरुषार्थानामुद्दिश्यान्यतमं फलम्।
उत्सवोऽनुष्ठितः काम्यः संकल्पितफलप्रदः ॥ 8 ॥

विश्वास-प्रस्तुतिः - 9

एकैकमुत्सवं विद्धि त्रिविधं मुनिपुंगव!।
उत्तमादिविभेदेन तत्र चोत्सवकौतुके ॥ 9 ॥

मूलम् - 9

एकैकमुत्सवं विद्धि त्रिविधं मुनिपुंगव!।
उत्तमादिविभेदेन तत्र चोत्सवकौतुके ॥ 9 ॥

विश्वास-प्रस्तुतिः - 10

क्रियते हयुत्सवो यस्तु स उत्तम उदाहृतः।
नित्यः स्नपनबिंबे यः स मध्यम उदीर्यते ॥ 10 ॥

मूलम् - 10

क्रियते हयुत्सवो यस्तु स उत्तम उदाहृतः।
नित्यः स्नपनबिंबे यः स मध्यम उदीर्यते ॥ 10 ॥

विश्वास-प्रस्तुतिः - 11

बिम्बे नित्योत्सवार्थे तु यः स्यात् स तु कनीयसः (!)।
कुम्भे वा विष्टरे चक्रे यः स आभाससंज्ञितः ॥ 11 ॥

मूलम् - 11

विश्वास-प्रस्तुतिः - 12

अन्येनापि प्रकारेण भूयस्त्रैविध्यमुच्यते।
परिभ्रमणकाले तु यात्राबिंबस्य पूर्वतः ॥ 12 ॥

मूलम् - 12

अन्येनापि प्रकारेण भूयस्त्रैविध्यमुच्यते।
परिभ्रमणकाले तु यात्राबिंबस्य पूर्वतः ॥ 12 ॥

विश्वास-प्रस्तुतिः - 13

कुमुदाद्यैस्तु भूतेशैः पटेषु लिखितैर्द्विज!।
सध्यानंसिद्धये यद्वा हेमादिद्रव्यनिर्मितैः ॥ 13 ॥

मूलम् - 13

कुमुदाद्यैस्तु भूतेशैः पटेषु लिखितैर्द्विज!।
सध्यानंसिद्धये यद्वा हेमादिद्रव्यनिर्मितैः ॥ 13 ॥

विश्वास-प्रस्तुतिः - 14

विभवस्यानुगुण्येन रक्षार्थं हेतिना तथा।
सर्वसंपूरणार्थं तु गरुडेनापि वै सह ॥ 14 ॥

मूलम् - 14

विभवस्यानुगुण्येन रक्षार्थं हेतिना तथा।
सर्वसंपूरणार्थं तु गरुडेनापि वै सह ॥ 14 ॥

विश्वास-प्रस्तुतिः - 15

ग्रामादौ बलिदानं तु यत्र नित्यं समाचरेत्।
स एष उत्सवो विप्र! भवेदुत्तमसंज्ञितः ॥ 15 ॥

मूलम् - 15

ग्रामादौ बलिदानं तु यत्र नित्यं समाचरेत्।
स एष उत्सवो विप्र! भवेदुत्तमसंज्ञितः ॥ 15 ॥

विश्वास-प्रस्तुतिः - 16

परिभ्रमसमारम्भात् पूर्वमेव महामते!।
नित्योत्सवार्थबिंबस्य सन्निधावन्नमूर्तिना ॥ 16 ॥

मूलम् - 16

परिभ्रमसमारम्भात् पूर्वमेव महामते!।
नित्योत्सवार्थबिंबस्य सन्निधावन्नमूर्तिना ॥ 16 ॥

विश्वास-प्रस्तुतिः - 17

सार्धं च चक्रराजेन, अथवा केवलस्य तु।
सन्निधौ बलिबिंबस्य बलिं दत्वा विधानतः ॥ 17 ॥

मूलम् - 17

सार्धं च चक्रराजेन, अथवा केवलस्य तु।
सन्निधौ बलिबिंबस्य बलिं दत्वा विधानतः ॥ 17 ॥

विश्वास-प्रस्तुतिः - 18

प्रासादे बलिबिंबादि प्रवेश्य तदनन्तरम्।
यत्र यात्रार्थबिंबस्य परिभ्रमणमाचरेत् ॥ 18 ॥

मूलम् - 18

प्रासादे बलिबिंबादि प्रवेश्य तदनन्तरम्।
यत्र यात्रार्थबिंबस्य परिभ्रमणमाचरेत् ॥ 18 ॥

विश्वास-प्रस्तुतिः - 19

ग्रामे वा नगरे वापि स तु मध्यमसंज्ञितः।
सन्निधौ चक्रराजस्य बलिं दत्वा पुरैव तु ॥ 19 ॥

मूलम् - 19

ग्रामे वा नगरे वापि स तु मध्यमसंज्ञितः।
सन्निधौ चक्रराजस्य बलिं दत्वा पुरैव तु ॥ 19 ॥

विश्वास-प्रस्तुतिः - 20

देवयात्रा भवेद्यत्र भवेत् स तु कनीयसः (!)।
मुख्यानुकल्पभेदाच्च द्विविधः परिकीर्तितः ॥ 20 ॥

मूलम् - 20

देवयात्रा भवेद्यत्र भवेत् स तु कनीयसः (!)।
मुख्यानुकल्पभेदाच्च द्विविधः परिकीर्तितः ॥ 20 ॥

विश्वास-प्रस्तुतिः - 21

कलशे मण्डले बिंबे वह्नौ च यजनं विभोः।
नित्यशः क्रियते यत्र मुख्यकल्पः स कीर्तितः ॥ 21 ॥

मूलम् - 21

कलशे मण्डले बिंबे वह्नौ च यजनं विभोः।
नित्यशः क्रियते यत्र मुख्यकल्पः स कीर्तितः ॥ 21 ॥

विश्वास-प्रस्तुतिः - 22

बिंबे वह्नौ च यजनं यत्र स्यात् सोनुकल्पकः।
परसूक्ष्मस्थूलभेदादेकैकस्त्रिविधः स्मृतः ॥ 22 ॥

मूलम् - 22

बिंबे वह्नौ च यजनं यत्र स्यात् सोनुकल्पकः।
परसूक्ष्मस्थूलभेदादेकैकस्त्रिविधः स्मृतः ॥ 22 ॥

विश्वास-प्रस्तुतिः - 23

एकत्रिपच्चसप्ताहो नवाहश्च परः स्मृतः।
द्वादशाहोऽर्धमासश्च एकविंशतिवासरः ॥ 23 ॥

मूलम् - 23

एकत्रिपच्चसप्ताहो नवाहश्च परः स्मृतः।
द्वादशाहोऽर्धमासश्च एकविंशतिवासरः ॥ 23 ॥

विश्वास-प्रस्तुतिः - 24

सूक्ष्मः, स्थूलः सप्तविंशद्दिनो मासस्तथा ऋतुः।
षण्मास अभ्दमेवं हि उत्सवास्तु त्रयोदश ॥ 24 ॥

मूलम् - 24

सूक्ष्मः, स्थूलः सप्तविंशद्दिनो मासस्तथा ऋतुः।
षण्मास अभ्दमेवं हि उत्सवास्तु त्रयोदश ॥ 24 ॥

विश्वास-प्रस्तुतिः - 25

भूयो मुख्यादिबेदेन द्विविधः स तु कीर्तितः।
उत्सवाहर्गणात् पूर्वं यथोक्ते वासरे द्विज! ॥ 25 ॥

मूलम् - 25

भूयो मुख्यादिबेदेन द्विविधः स तु कीर्तितः।
उत्सवाहर्गणात् पूर्वं यथोक्ते वासरे द्विज! ॥ 25 ॥

विश्वास-प्रस्तुतिः - 26

ध्वजस्यारोहणं कृत्वा तत्पश्चात् क्रियते तु यः।
मुख्यकल्पमिदं विद्धि दैवाद्वा मानुषात्तु वा ॥ 26 ॥

मूलम् - 26

ध्वजस्यारोहणं कृत्वा तत्पश्चात् क्रियते तु यः।
मुख्यकल्पमिदं विद्धि दैवाद्वा मानुषात्तु वा ॥ 26 ॥

विश्वास-प्रस्तुतिः - 27

कुतश्चित् कारणाद्विप्र! पूर्वमुक्ते तु वासरे।
न कल्पिते ध्वजारोहे तूत्सवारम्भवासरे ॥ 27 ॥

मूलम् - 27

कुतश्चित् कारणाद्विप्र! पूर्वमुक्ते तु वासरे।
न कल्पिते ध्वजारोहे तूत्सवारम्भवासरे ॥ 27 ॥

विश्वास-प्रस्तुतिः - 28

ध्वजस्यारोहणं कृत्वा तत्पश्चात् क्रियते तु यः।
अनुकल्पमिदं विद्धि ह्येष तु त्रिविधः स्मृतः ॥ 28 ॥

मूलम् - 28

ध्वजस्यारोहणं कृत्वा तत्पश्चात् क्रियते तु यः।
अनुकल्पमिदं विद्धि ह्येष तु त्रिविधः स्मृतः ॥ 28 ॥

विश्वास-प्रस्तुतिः - 29

ध्वजारोहणपूर्वस्तु देवताह्वानपूर्वकः।
अह्‌कुरार्पणपूर्वस्तु तथा च मुनिपुंगव! ॥ 29 ॥

मूलम् - 29

ध्वजारोहणपूर्वस्तु देवताह्वानपूर्वकः।
अह्‌कुरार्पणपूर्वस्तु तथा च मुनिपुंगव! ॥ 29 ॥

विश्वास-प्रस्तुतिः - 30

ध्वजारोहणपूर्वस्तु राजराज्यसुखप्रदः।
देवताह्वानपूर्वस्तु स्वर्गभोगफलप्रदः ॥ 30 ॥

मूलम् - 30

ध्वजारोहणपूर्वस्तु राजराज्यसुखप्रदः।
देवताह्वानपूर्वस्तु स्वर्गभोगफलप्रदः ॥ 30 ॥

विश्वास-प्रस्तुतिः - 31

अङ्‌कुरार्पणपूर्वस्तु सर्वेषां मोक्षदो भवेत्।
उत्सवारंभदिवसे दिवारोप्य ध्वजं निशि ॥ 31 ॥

मूलम् - 31

अङ्‌कुरार्पणपूर्वस्तु सर्वेषां मोक्षदो भवेत्।
उत्सवारंभदिवसे दिवारोप्य ध्वजं निशि ॥ 31 ॥

विश्वास-प्रस्तुतिः - 32

भेरीताडनमन्वक् च पालिकास्वंकुरान् क्षिपेत्।
ध्वजारोहणपूर्वस्तु ह्येष उत्सव उच्यते ॥ 32 ॥

मूलम् - 32

भेरीताडनमन्वक् च पालिकास्वंकुरान् क्षिपेत्।
ध्वजारोहणपूर्वस्तु ह्येष उत्सव उच्यते ॥ 32 ॥

विश्वास-प्रस्तुतिः - 33

आघोष्य भेरीं प्रथमं ध्वजारोहणमन्वतः।
ततोंकुरार्पणं ह्येष देवताह्वानपूर्वकः ॥ 33 ॥

मूलम् - 33

आघोष्य भेरीं प्रथमं ध्वजारोहणमन्वतः।
ततोंकुरार्पणं ह्येष देवताह्वानपूर्वकः ॥ 33 ॥

विश्वास-प्रस्तुतिः - 34

अङ्‌कुरारोपणं विप्र! पूर्वं तु रजनीममुखे।
ततोन्वक् स्याद्‌ध्वजारोहो भेरीताडनमन्वतः ॥ 34 ॥

मूलम् - 34

अङ्‌कुरारोपणं विप्र! पूर्वं तु रजनीममुखे।
ततोन्वक् स्याद्‌ध्वजारोहो भेरीताडनमन्वतः ॥ 34 ॥

विश्वास-प्रस्तुतिः - 35

अह्‌कुरारोपपूर्वस्तु ह्येष उत्सव उच्यते।
उत्सवं हयुत्तमं विद्धि त्रिवारं प्रतिवत्सरम् ॥ 35 ॥

मूलम् - 35

अह्‌कुरारोपपूर्वस्तु ह्येष उत्सव उच्यते।
उत्सवं हयुत्तमं विद्धि त्रिवारं प्रतिवत्सरम् ॥ 35 ॥

विश्वास-प्रस्तुतिः - 36

द्विवारं मध्यमं प्रोक्तं ह्येकवारं कनीयसम्।
चतुर्वारं पञ्चवारं षड्वारं विभवे भवेत् ॥ 36 ॥

मूलम् - 36

द्विवारं मध्यमं प्रोक्तं ह्येकवारं कनीयसम्।
चतुर्वारं पञ्चवारं षड्वारं विभवे भवेत् ॥ 36 ॥

विश्वास-प्रस्तुतिः - 37

मन्त्रमूर्तिप्रतिष्ठानकाल एव महामते!।
प्रासादस्य शिखाग्रे तु स्थापितः खगराड्‌ध्वजः ॥ 37 ॥

मूलम् - 37

मन्त्रमूर्तिप्रतिष्ठानकाल एव महामते!।
प्रासादस्य शिखाग्रे तु स्थापितः खगराड्‌ध्वजः ॥ 37 ॥

विश्वास-प्रस्तुतिः - 38

हेतिराजसमायुक्तौ यत्र तत्र सदा द्विज!।
विना त्वन्यध्वजारोहमुत्सवं परिकल्पयेत् ॥ 38 ॥

मूलम् - 38

हेतिराजसमायुक्तौ यत्र तत्र सदा द्विज!।
विना त्वन्यध्वजारोहमुत्सवं परिकल्पयेत् ॥ 38 ॥

विश्वास-प्रस्तुतिः - 39

तत्राप्यन्यध्वजारोहं कुर्याद्वा विभवे सति।
कुर्यादुत्सवमन्यत्र ध्वजारोहणपूर्वकम् ॥ 39 ॥

मूलम् - 39

तत्राप्यन्यध्वजारोहं कुर्याद्वा विभवे सति।
कुर्यादुत्सवमन्यत्र ध्वजारोहणपूर्वकम् ॥ 39 ॥

विश्वास-प्रस्तुतिः - 40

तीर्थयात्रानुगुण्येन ध्वजारोहं प्रकल्पयेत्।
उत्सवेषु च सर्वेषु तीर्थयात्रादिनं श्रृणु ॥ 40 ॥

मूलम् - 40

तीर्थयात्रानुगुण्येन ध्वजारोहं प्रकल्पयेत्।
उत्सवेषु च सर्वेषु तीर्थयात्रादिनं श्रृणु ॥ 40 ॥

विश्वास-प्रस्तुतिः - 41

चैत्रादिषु च मासेषु श्रवणर्क्षेऽयनद्वये।
विषुवद्वितये वापि चन्द्रसूर्योपरागयोः ॥ 41 ॥

मूलम् - 41

चैत्रादिषु च मासेषु श्रवणर्क्षेऽयनद्वये।
विषुवद्वितये वापि चन्द्रसूर्योपरागयोः ॥ 41 ॥

विश्वास-प्रस्तुतिः - 42

द्वादश्यां पौर्णमास्यां च दर्शे च नवमीतिथौ।
मासर्क्षेपि च रोहिण्यां तथा चोत्तरफलगुने ॥ 42 ॥

मूलम् - 42

द्वादश्यां पौर्णमास्यां च दर्शे च नवमीतिथौ।
मासर्क्षेपि च रोहिण्यां तथा चोत्तरफलगुने ॥ 42 ॥

विश्वास-प्रस्तुतिः - 43

पुनर्वस्वाख्यनक्षत्रे प्रतिष्ठादिवसे तथा।
नगरग्रामजन्मर्क्षे प्रासादारम्भवासरे ॥ 43 ॥

मूलम् - 43

पुनर्वस्वाख्यनक्षत्रे प्रतिष्ठादिवसे तथा।
नगरग्रामजन्मर्क्षे प्रासादारम्भवासरे ॥ 43 ॥

विश्वास-प्रस्तुतिः - 44

राज्ञां जन्मदिने वापि अबिषेकदिने तथा।
एकस्मिन्नेषु सर्वेषु तीर्थयात्रां समाचरेत् ॥ 44 ॥

मूलम् - 44

राज्ञां जन्मदिने वापि अबिषेकदिने तथा।
एकस्मिन्नेषु सर्वेषु तीर्थयात्रां समाचरेत् ॥ 44 ॥

विश्वास-प्रस्तुतिः - 45

एतेषु यस्मिन्नक्षत्ते तीर्थयात्रा प्रकल्पिता।
यदा तु तत् स्याद्‌द्विगुणं मासि ह्‌युत्सवकल्पिते ॥ 45 ॥

मूलम् - 45

विश्वास-प्रस्तुतिः - 46

तदा कुर्यात् तीर्थयात्रां मासान्तस्थे तु तद्दिने।
फाल्गुणादिषु सर्वेषु मासेष्वेवं प्रकल्पयेत् ॥ 46 ॥

मूलम् - 46

तदा कुर्यात् तीर्थयात्रां मासान्तस्थे तु तद्दिने।
फाल्गुणादिषु सर्वेषु मासेष्वेवं प्रकल्पयेत् ॥ 46 ॥

विश्वास-प्रस्तुतिः - 47

पञ्चाहात्तु समारभ्य एकत्रिंशद्दिनान्तिमम्।
तीर्थयात्रादिनादर्वागेकविंशतिमे दिने ॥ 47 ॥

मूलम् - 47

पञ्चाहात्तु समारभ्य एकत्रिंशद्दिनान्तिमम्।
तीर्थयात्रादिनादर्वागेकविंशतिमे दिने ॥ 47 ॥

विश्वास-प्रस्तुतिः - 48

द्वजस्यरोहणं कुर्यादुत्सवार्थं प्रयत्नतः।
यद्वा कल्याणदिवसं त्रिगुणीकृत्य तावताम् ॥ 48 ॥

मूलम् - 48

द्वजस्यरोहणं कुर्यादुत्सवार्थं प्रयत्नतः।
यद्वा कल्याणदिवसं त्रिगुणीकृत्य तावताम् ॥ 48 ॥

विश्वास-प्रस्तुतिः - 49

आदौ दिनानां कर्तव्यो ध्वजारोहो द्विजोत्तम!।
सप्तविंशतिमे ब्रह्नन्! उत्सवारम्भवासरात् ॥ 49 ॥

मूलम् - 49

आदौ दिनानां कर्तव्यो ध्वजारोहो द्विजोत्तम!।
सप्तविंशतिमे ब्रह्नन्! उत्सवारम्भवासरात् ॥ 49 ॥

विश्वास-प्रस्तुतिः - 50

पूर्वं दिने तु तत्संख्ये ध्वजमारोहयेत् सुधीः।
त्रिंशद्दिने तु तत्संख्ये दिने पूर्वे समाचरेत् ॥ 50 ॥

मूलम् - 50

पूर्वं दिने तु तत्संख्ये ध्वजमारोहयेत् सुधीः।
त्रिंशद्दिने तु तत्संख्ये दिने पूर्वे समाचरेत् ॥ 50 ॥

विश्वास-प्रस्तुतिः - 51

ऋतूत्सवादित्रितये ह्‌युत्सवारंभवासरात्।
एकोनविंशतिदिने ध्वजारोहणमाचरेत् ॥ 51 ॥

मूलम् - 51

ऋतूत्सवादित्रितये ह्‌युत्सवारंभवासरात्।
एकोनविंशतिदिने ध्वजारोहणमाचरेत् ॥ 51 ॥

विश्वास-प्रस्तुतिः - 52

अष्टादशदिने वापि द्वादशाहेथवा भवेत्।
एकविंशद्दिनाद्ये(दे)वमुत्सवानां त्रिकेपि च ॥ 52 ॥

मूलम् - 52

अष्टादशदिने वापि द्वादशाहेथवा भवेत्।
एकविंशद्दिनाद्ये(दे)वमुत्सवानां त्रिकेपि च ॥ 52 ॥

विश्वास-प्रस्तुतिः - 53

एवमेव ध्वजारोहमाचरेद्देशिकोत्तमः।
अंकुरानर्पयित्वा हि पुण्ये पूर्वं यथोदिते ॥ 53 ॥

मूलम् - 53

एवमेव ध्वजारोहमाचरेद्देशिकोत्तमः।
अंकुरानर्पयित्वा हि पुण्ये पूर्वं यथोदिते ॥ 53 ॥

विश्वास-प्रस्तुतिः - 54

ध्वजमारोहयेत् पश्चान्मङ्गलं मङ्गले दिने।
यस्मिन् दिने ध्वजारोहं कुर्यात् तत्पूर्वमेव तु ॥ 54 ॥

मूलम् - 54

ध्वजमारोहयेत् पश्चान्मङ्गलं मङ्गले दिने।
यस्मिन् दिने ध्वजारोहं कुर्यात् तत्पूर्वमेव तु ॥ 54 ॥

विश्वास-प्रस्तुतिः - 55

द्वादशाहे नवाहे वा सप्ताहे पञ्चमेहनि।
तृतीयेऽहनि वा कुर्यादंकुरारोपणं द्विज! ॥ 55 ॥

मूलम् - 55

द्वादशाहे नवाहे वा सप्ताहे पञ्चमेहनि।
तृतीयेऽहनि वा कुर्यादंकुरारोपणं द्विज! ॥ 55 ॥

विश्वास-प्रस्तुतिः - 56

तद्विधानं हि विस्तारात् समाकर्णय सांप्रतम्।
त्रिविधानि च पात्राणि मंगलांकुररोपणे ॥ 56 ॥

मूलम् - 56

तद्विधानं हि विस्तारात् समाकर्णय सांप्रतम्।
त्रिविधानि च पात्राणि मंगलांकुररोपणे ॥ 56 ॥

विश्वास-प्रस्तुतिः - 57

पालिका घटिकाश्चेति शरावाश्चेतिभेदतः।
पालिकानामथोच्छ्रायः पच्चविंशांगुलो भवेत् ॥ 57 ॥

मूलम् - 57

पालिका घटिकाश्चेति शरावाश्चेतिभेदतः।
पालिकानामथोच्छ्रायः पच्चविंशांगुलो भवेत् ॥ 57 ॥

विश्वास-प्रस्तुतिः - 58

तदाननस्य विस्तारो भवेद्वै षोडशांगुलः।
अष्टांगुलस्तदुच्छ्रायो ह्यं(द्वयं)गुलं वलयं ततः ॥ 58 ॥

मूलम् - 58

तदाननस्य विस्तारो भवेद्वै षोडशांगुलः।
अष्टांगुलस्तदुच्छ्रायो ह्यं(द्वयं)गुलं वलयं ततः ॥ 58 ॥

विश्वास-प्रस्तुतिः - 59

भवेत् कण्ठबिलं विप्र! ततोष्टांगुलविस्तृतम्।
आरभ्य वक्त्रवलयात् यावत्कण्ठबिलं द्विज! ॥ 59 ॥

मूलम् - 59

भवेत् कण्ठबिलं विप्र! ततोष्टांगुलविस्तृतम्।
आरभ्य वक्त्रवलयात् यावत्कण्ठबिलं द्विज! ॥ 59 ॥

विश्वास-प्रस्तुतिः - 60

ह्रासयेदनुपातेन, तन्नालं द्वादशांगुलम्।
उच्छ्रायादथ विस्तारान्मध्यतस्तु षडंगुलम् ॥ 60 ॥

मूलम् - 60

ह्रासयेदनुपातेन, तन्नालं द्वादशांगुलम्।
उच्छ्रायादथ विस्तारान्मध्यतस्तु षडंगुलम् ॥ 60 ॥

विश्वास-प्रस्तुतिः - 61

अधस्तादंगुलानां तु चतुष्कं विस्तृतं भवेत्।
ततः कण्ठबिलाच्चैव ह्रासयेदनुपाततः ॥ 61 ॥

मूलम् - 61

अधस्तादंगुलानां तु चतुष्कं विस्तृतं भवेत्।
ततः कण्ठबिलाच्चैव ह्रासयेदनुपाततः ॥ 61 ॥

विश्वास-प्रस्तुतिः - 62

पादपीठमधोत्सेधाद्विज्ञेयं चतुरंगुलम्।
दशांगुलस्तद्विस्तारस्तत्संधिश्चांगुलो भवेत् ॥ 62 ॥

मूलम् - 62

पादपीठमधोत्सेधाद्विज्ञेयं चतुरंगुलम्।
दशांगुलस्तद्विस्तारस्तत्संधिश्चांगुलो भवेत् ॥ 62 ॥

विश्वास-प्रस्तुतिः - 63

तत्सन्धेश्च भवेन्नाहं सार्धमेकांगुलं द्विज!।
उन्मत्तकुसुमाकारं वक्त्रं पझाकृतिर्भवनेत् ॥ 63 ॥

मूलम् - 63

तत्सन्धेश्च भवेन्नाहं सार्धमेकांगुलं द्विज!।
उन्मत्तकुसुमाकारं वक्त्रं पझाकृतिर्भवनेत् ॥ 63 ॥

विश्वास-प्रस्तुतिः - 64

पालिकोत्सेधतुल्यास्तु घटिकाः समुदाहृताः।
अंगुलत्रयहीना वा तदूर्ध्वं कलशाकृतिः ॥ 64 ॥

मूलम् - 64

पालिकोत्सेधतुल्यास्तु घटिकाः समुदाहृताः।
अंगुलत्रयहीना वा तदूर्ध्वं कलशाकृतिः ॥ 64 ॥

विश्वास-प्रस्तुतिः - 65

घटिकाः पञ्चवक्त्राः स्युरेतासां मध्यमं मुखम्।
षडंगुलं च विस्तीर्णं चतुर्दिक्षु चतुष्टयम् ॥ 65 ॥

मूलम् - 65

घटिकाः पञ्चवक्त्राः स्युरेतासां मध्यमं मुखम्।
षडंगुलं च विस्तीर्णं चतुर्दिक्षु चतुष्टयम् ॥ 65 ॥

विश्वास-प्रस्तुतिः - 66

चतुरंगुलविस्तारं कलशोदरविस्तृतिः।
षोडशांगुलमानोत्था शेषं प्राग्वत् समाचरेत् ॥ 66 ॥

मूलम् - 66

चतुरंगुलविस्तारं कलशोदरविस्तृतिः।
षोडशांगुलमानोत्था शेषं प्राग्वत् समाचरेत् ॥ 66 ॥

विश्वास-प्रस्तुतिः - 67

यदांगुलत्रयन्यूनास्तदा सप्तांगुलोच्छ्रितम्।
तदाननं तु तन्नालं अर्धोत्तरदशांगुलम् ॥ 67 ॥

मूलम् - 67

यदांगुलत्रयन्यूनास्तदा सप्तांगुलोच्छ्रितम्।
तदाननं तु तन्नालं अर्धोत्तरदशांगुलम् ॥ 67 ॥

विश्वास-प्रस्तुतिः - 68

सार्धत्रयांगुलं पीठं प्राग्वत् सर्वत्र विस्तरः।
शरावाः पालिकोत्सेधतुल्याः पञ्चभिरंगुलैः ॥ 68 ॥

मूलम् - 68

सार्धत्रयांगुलं पीठं प्राग्वत् सर्वत्र विस्तरः।
शरावाः पालिकोत्सेधतुल्याः पञ्चभिरंगुलैः ॥ 68 ॥

विश्वास-प्रस्तुतिः - 69

हीना वा, वक्त्रविस्तारात् समारभ्य महामते!।
पादपीठस्य विस्तारं यावत्तावत्क्रमेण तु ॥ 69 ॥

मूलम् - 69

हीना वा, वक्त्रविस्तारात् समारभ्य महामते!।
पादपीठस्य विस्तारं यावत्तावत्क्रमेण तु ॥ 69 ॥

विश्वास-प्रस्तुतिः - 70

पूर्वोक्तात् पादहीना तु भवेत् सर्वत्र विस्तृतिः।
भवेत् त्रिपादहीना तु पादपीठस्य विस्तृतिः ॥ 70 ॥

मूलम् - 70

पूर्वोक्तात् पादहीना तु भवेत् सर्वत्र विस्तृतिः।
भवेत् त्रिपादहीना तु पादपीठस्य विस्तृतिः ॥ 70 ॥

विश्वास-प्रस्तुतिः - 71

यदा शरावा हीनाः स्युरंगुलैः पञ्चभिस्तदा।
मुखं षडंगुलोच्छ्रायं तन्नालं तु दशांगुलम् ॥ 71 ॥

मूलम् - 71

यदा शरावा हीनाः स्युरंगुलैः पञ्चभिस्तदा।
मुखं षडंगुलोच्छ्रायं तन्नालं तु दशांगुलम् ॥ 71 ॥

विश्वास-प्रस्तुतिः - 72

त्र्यंगुलं पादपीठं स्यात् प्राग्वत् सर्वत्र विस्तृतिः।
तदुत्तममानं तु पात्राणां कथितं द्विज! ॥ 72 ॥

मूलम् - 72

त्र्यंगुलं पादपीठं स्यात् प्राग्वत् सर्वत्र विस्तृतिः।
तदुत्तममानं तु पात्राणां कथितं द्विज! ॥ 72 ॥

विश्वास-प्रस्तुतिः - 73

एतदेव मुनिश्रेष्ठ! पादहीनं तु मध्यमम्।
अर्धहीनं तु तन्मानमधमं परिकीर्तितम् ॥ 73 ॥

मूलम् - 73

एतदेव मुनिश्रेष्ठ! पादहीनं तु मध्यमम्।
अर्धहीनं तु तन्मानमधमं परिकीर्तितम् ॥ 73 ॥

विश्वास-प्रस्तुतिः - 74

अतो न्यूनं न कर्तव्यं कदाचित् सिद्धिकांक्षिभिः।
हेमादिलोहजाः सर्वे मृण्मया वा यथावसु ॥ 74 ॥

मूलम् - 74

अतो न्यूनं न कर्तव्यं कदाचित् सिद्धिकांक्षिभिः।
हेमादिलोहजाः सर्वे मृण्मया वा यथावसु ॥ 74 ॥

विश्वास-प्रस्तुतिः - 75

प्रत्येकं पालिकादीनां द्विषट्‌कं चोत्तमं भवेत्।
द्विरष्टकं वा षट्‌त्रिंशद्‌विभवे सति कल्पयेत् ॥ 75 ॥

मूलम् - 75

प्रत्येकं पालिकादीनां द्विषट्‌कं चोत्तमं भवेत्।
द्विरष्टकं वा षट्‌त्रिंशद्‌विभवे सति कल्पयेत् ॥ 75 ॥

विश्वास-प्रस्तुतिः - 76

प्रत्यष्टकं मध्यमं स्याच्चतुष्कमधमं भवेत्।
सर्वार्थे पालिकाः प्राग्वत् षोडशाष्टौ यथाबलम् ॥ 76 ॥

मूलम् - 76

प्रत्यष्टकं मध्यमं स्याच्चतुष्कमधमं भवेत्।
सर्वार्थे पालिकाः प्राग्वत् षोडशाष्टौ यथाबलम् ॥ 76 ॥

विश्वास-प्रस्तुतिः - 77

चतस्रो वा ततस्तासु मंगलांकुरकल्पनम्।
अयुग्मा मानुषे कार्ये दैवे युग्मास्तु पालिकाः ॥ 77 ॥

मूलम् - 77

चतस्रो वा ततस्तासु मंगलांकुरकल्पनम्।
अयुग्मा मानुषे कार्ये दैवे युग्मास्तु पालिकाः ॥ 77 ॥

विश्वास-प्रस्तुतिः - 78

महोत्सवे ध्वजारोहे ह्‌युत्सवावसरेऽथवा।
पवित्रारोहणे चैव तथा स्थापनकर्मणि ॥ 78 ॥

मूलम् - 78

महोत्सवे ध्वजारोहे ह्‌युत्सवावसरेऽथवा।
पवित्रारोहणे चैव तथा स्थापनकर्मणि ॥ 78 ॥

विश्वास-प्रस्तुतिः - 79

जीर्णोद्धारविधौ चापि सहस्रकलशे तथा।
त्रिवर्गपालिका यद्वा भवेदुत्तमसंख्यया ॥ 79 ॥

मूलम् - 79

जीर्णोद्धारविधौ चापि सहस्रकलशे तथा।
त्रिवर्गपालिका यद्वा भवेदुत्तमसंख्यया ॥ 79 ॥

विश्वास-प्रस्तुतिः - 80

भवेन्मध्यमया वापि नान्यथा द्विजसत्तम!।
कर्मस्वन्येषु सर्वेषु यथावित्तं यथारुचि ॥ 80 ॥

मूलम् - 80

भवेन्मध्यमया वापि नान्यथा द्विजसत्तम!।
कर्मस्वन्येषु सर्वेषु यथावित्तं यथारुचि ॥ 80 ॥

विश्वास-प्रस्तुतिः - 81

अंकुरावापनस्थानमण्टपं परिकलपयेत्।
प्रथमावरणे वापि द्वितीयावरणेपि वा ॥ 81 ॥

मूलम् - 81

अंकुरावापनस्थानमण्टपं परिकलपयेत्।
प्रथमावरणे वापि द्वितीयावरणेपि वा ॥ 81 ॥

विश्वास-प्रस्तुतिः - 82

तृतीयावरणे वापि चतुर्थावरणेपि वा।
शुभे विविक्तेऽभिमते देशे वै देशिकोत्तमः ॥ 82 ॥

मूलम् - 82

तृतीयावरणे वापि चतुर्थावरणेपि वा।
शुभे विविक्तेऽभिमते देशे वै देशिकोत्तमः ॥ 82 ॥

विश्वास-प्रस्तुतिः - 83

चतुर्दिक्षु चतुर्द्वारं चतुर्वन्दनमालिकम्।
दर्भमालापरिक्षिप्तं मुक्तादामविराजितम् ॥ 83 ॥

मूलम् - 83

चतुर्दिक्षु चतुर्द्वारं चतुर्वन्दनमालिकम्।
दर्भमालापरिक्षिप्तं मुक्तादामविराजितम् ॥ 83 ॥

विश्वास-प्रस्तुतिः - 84

विततक्षौमसंछन्नं गोमयालिप्तभूतलम्।
प्रदीपमालाविततमक्षतैश्चापि सर्वतः ॥ 84 ॥

मूलम् - 84

विततक्षौमसंछन्नं गोमयालिप्तभूतलम्।
प्रदीपमालाविततमक्षतैश्चापि सर्वतः ॥ 84 ॥

विश्वास-प्रस्तुतिः - 85

सुधाचूर्णैश्च धवलैः चित्रिताभ्यन्तरस्थलम्।
मण्टपं कल्पयित्वैवं यद्वा स्नपनमण्टपे ॥ 85 ॥

मूलम् - 85

सुधाचूर्णैश्च धवलैः चित्रिताभ्यन्तरस्थलम्।
मण्टपं कल्पयित्वैवं यद्वा स्नपनमण्टपे ॥ 85 ॥

विश्वास-प्रस्तुतिः - 86

यागाख्यमण्डपे वापि कुर्यादंकुररोपणम्।
अंकुरानर्पयेद्रात्रौ य इच्छेद्राष्ट्रवर्धनम् ॥ 86 ॥

मूलम् - 86

यागाख्यमण्डपे वापि कुर्यादंकुररोपणम्।
अंकुरानर्पयेद्रात्रौ य इच्छेद्राष्ट्रवर्धनम् ॥ 86 ॥

विश्वास-प्रस्तुतिः - 87

बीजानामधिपः सोम ओषधीशोऽमृतात्मकः।
न प्रीणाति सदा ब्रह्नन्! अंकुरार्पणमह्नि चेत् ॥ 87 ॥

मूलम् - 87

बीजानामधिपः सोम ओषधीशोऽमृतात्मकः।
न प्रीणाति सदा ब्रह्नन्! अंकुरार्पणमह्नि चेत् ॥ 87 ॥

विश्वास-प्रस्तुतिः - 88

तस्मात् सर्वप्रयत्नेन रात्र्यामेवांकुरार्पणम्।
कुर्यात् सम्यग्विधानेन भगवद्भक्तिसंयुतः ॥ 88 ॥

मूलम् - 88

तस्मात् सर्वप्रयत्नेन रात्र्यामेवांकुरार्पणम्।
कुर्यात् सम्यग्विधानेन भगवद्भक्तिसंयुतः ॥ 88 ॥

विश्वास-प्रस्तुतिः - 89

तस्मिन् जगत्प्रिये प्रीते शीतांशौ प्राणिजीवने।
तद्देशे सर्वसस्यानां संपत्तिर्महती भवेत् ॥ 89 ॥

मूलम् - 89

तस्मिन् जगत्प्रिये प्रीते शीतांशौ प्राणिजीवने।
तद्देशे सर्वसस्यानां संपत्तिर्महती भवेत् ॥ 89 ॥

विश्वास-प्रस्तुतिः - 90

गवां च लोकमातॄणां नॄणामपि च सर्वशः।
अज्ञानादह्नि कुर्याच्चेदंकुराणामथार्पणम् ॥ 90 ॥

मूलम् - 90

गवां च लोकमातॄणां नॄणामपि च सर्वशः।
अज्ञानादह्नि कुर्याच्चेदंकुराणामथार्पणम् ॥ 90 ॥

विश्वास-प्रस्तुतिः - 91

अशोभनं भवेद्राष्ट्रं असमृद्धजनान्वितम्।
सद्यः कालीनके विप्र! कर्मणि स्याद्दिवापि च ॥ 91 ॥

मूलम् - 91

अशोभनं भवेद्राष्ट्रं असमृद्धजनान्वितम्।
सद्यः कालीनके विप्र! कर्मणि स्याद्दिवापि च ॥ 91 ॥

विश्वास-प्रस्तुतिः - 92

यद्यदत्रोपयोग्यं स्यात्तत् सर्वं तु समार्जयेत्।
संभृत्य सर्वसंभारानाचार्यो मूर्तिपैः सह ॥ 92 ॥

मूलम् - 92

यद्यदत्रोपयोग्यं स्यात्तत् सर्वं तु समार्जयेत्।
संभृत्य सर्वसंभारानाचार्यो मूर्तिपैः सह ॥ 92 ॥

विश्वास-प्रस्तुतिः - 93

स्नातः कृताह्निकश्चैव सोत्तरीयः स्वलंकृतः।
नूतनक्षौमवसनः सोष्णीषः सांगुलीयकः ॥ 93 ॥

मूलम् - 93

स्नातः कृताह्निकश्चैव सोत्तरीयः स्वलंकृतः।
नूतनक्षौमवसनः सोष्णीषः सांगुलीयकः ॥ 93 ॥

विश्वास-प्रस्तुतिः - 94

सुरभीकृतसर्वांगः स्रग्वी संमृष्टकुण्डलः।
श्वेतया मृत्स्नया सम्यक् परिक्लृप्तोर्ध्वपुण्ड्रकः ॥ 94 ॥

मूलम् - 94

सुरभीकृतसर्वांगः स्रग्वी संमृष्टकुण्डलः।
श्वेतया मृत्स्नया सम्यक् परिक्लृप्तोर्ध्वपुण्ड्रकः ॥ 94 ॥

विश्वास-प्रस्तुतिः - 95

पवित्रपाणिर्नियतः प्राणायामपरायणः।
कृताचामः कृतन्यासो जपन् वै द्वादशाक्षरम् ॥ 95 ॥

मूलम् - 95

पवित्रपाणिर्नियतः प्राणायामपरायणः।
कृताचामः कृतन्यासो जपन् वै द्वादशाक्षरम् ॥ 95 ॥

विश्वास-प्रस्तुतिः - 96

तदर्थमर्थयित्वा तु यजमानसमन्वितः।
भगवन्तं जगद्योनिं पूजयित्वा विधानतः ॥ 96 ॥

मूलम् - 96

तदर्थमर्थयित्वा तु यजमानसमन्वितः।
भगवन्तं जगद्योनिं पूजयित्वा विधानतः ॥ 96 ॥

विश्वास-प्रस्तुतिः - 97

कलशे मण्डले बिंबे वह्नौ सन्तर्प्य वै क्रमात्।
बिंबेऽग्ना, वथ बिंबे वा उत्तमादिव्यपेक्षया ॥ 97 ॥

मूलम् - 97

कलशे मण्डले बिंबे वह्नौ सन्तर्प्य वै क्रमात्।
बिंबेऽग्ना, वथ बिंबे वा उत्तमादिव्यपेक्षया ॥ 97 ॥

विश्वास-प्रस्तुतिः - 98

ततस्त्वभिनवे पात्रे सौवर्णे राजतेऽथवा।
तिलसर्षपनीवारशालिमाषप्रियंगवः ॥ 98 ॥

मूलम् - 98

ततस्त्वभिनवे पात्रे सौवर्णे राजतेऽथवा।
तिलसर्षपनीवारशालिमाषप्रियंगवः ॥ 98 ॥

विश्वास-प्रस्तुतिः - 99

कुलुत्थमुद्गनिष्पावयवगोधूमवेणवः।
बीजानि द्वादशैतानि ष्टथक् पात्रेषु वा द्विज! ॥ 99 ॥

मूलम् - 99

कुलुत्थमुद्गनिष्पावयवगोधूमवेणवः।
बीजानि द्वादशैतानि ष्टथक् पात्रेषु वा द्विज! ॥ 99 ॥

विश्वास-प्रस्तुतिः - 100

संभृत्य तु मुनिश्रेष्ठ! स्थापयित्वा तु मूर्धनि।
दीक्षितस्य तु विप्रस्य, पुष्पाक्षतकरांजलिः ॥ 100 ॥

मूलम् - 100

संभृत्य तु मुनिश्रेष्ठ! स्थापयित्वा तु मूर्धनि।
दीक्षितस्य तु विप्रस्य, पुष्पाक्षतकरांजलिः ॥ 100 ॥

विश्वास-प्रस्तुतिः - 101

आचार्यः प्रविशेत् सार्धं साधकैर्भगवन्मयैः।
प्रासादाभ्यन्तरं विप्र! तत्राधारोपरि न्यसेत् ॥ 101 ॥

मूलम् - 101

आचार्यः प्रविशेत् सार्धं साधकैर्भगवन्मयैः।
प्रासादाभ्यन्तरं विप्र! तत्राधारोपरि न्यसेत् ॥ 101 ॥

विश्वास-प्रस्तुतिः - 102

बीजपात्रं ततोऽर्घ्येण गन्धैः पुष्पैश्च धूपकैः।
संपूज्य मूलबिंबस्थं तथा चोत्सवबिंबगम् ॥ 102 ॥

मूलम् - 102

बीजपात्रं ततोऽर्घ्येण गन्धैः पुष्पैश्च धूपकैः।
संपूज्य मूलबिंबस्थं तथा चोत्सवबिंबगम् ॥ 102 ॥

विश्वास-प्रस्तुतिः - 103

बीजपात्रं ततोऽभ्यर्च्य देवाय विनिवेदयेत्।
सह शंखनिनादैश्च मंगलैर्गीतनिस्वनैः ॥ 103 ॥

मूलम् - 103

बीजपात्रं ततोऽभ्यर्च्य देवाय विनिवेदयेत्।
सह शंखनिनादैश्च मंगलैर्गीतनिस्वनैः ॥ 103 ॥

विश्वास-प्रस्तुतिः - 104

तूर्यनादैश्च विविधैः श्रुतिघोषैः समन्ततः।
ततो विज्ञापयेन्मन्त्रमिममुच्चस्थया गिरा ॥ 104 ॥

मूलम् - 104

तूर्यनादैश्च विविधैः श्रुतिघोषैः समन्ततः।
ततो विज्ञापयेन्मन्त्रमिममुच्चस्थया गिरा ॥ 104 ॥

विश्वास-प्रस्तुतिः - 105

“देवदेव! जगन्नाथ! यात्रोत्सवनिमित्ततः।
ध्वजार्थमंकुरारोपं करिष्यामि प्रसीद ओम” ॥ 105 ॥

मूलम् - 105

“देवदेव! जगन्नाथ! यात्रोत्सवनिमित्ततः।
ध्वजार्थमंकुरारोपं करिष्यामि प्रसीद ओम” ॥ 105 ॥

विश्वास-प्रस्तुतिः - 106

इति विज्ञाप्य देवस्य तत्रानुज्ञामवाप्य च।
स्थापयित्वा तु तत् पात्रं दीक्षितस्यैव मूर्धनि ॥ 106 ॥

मूलम् - 106

इति विज्ञाप्य देवस्य तत्रानुज्ञामवाप्य च।
स्थापयित्वा तु तत् पात्रं दीक्षितस्यैव मूर्धनि ॥ 106 ॥

विश्वास-प्रस्तुतिः - 107

साधकैः सहितो विप्र! बहिर्निर्गत्य देशिकः।
विष्वक्सेनं तु वा तार्क्ष्यं हनुमत्प्रमुखं तु वा ॥ 107 ॥

मूलम् - 107

साधकैः सहितो विप्र! बहिर्निर्गत्य देशिकः।
विष्वक्सेनं तु वा तार्क्ष्यं हनुमत्प्रमुखं तु वा ॥ 107 ॥

विश्वास-प्रस्तुतिः - 108

हेतीशं वापि वस्त्राद्यैरलङ्‌कृत्य विशेषतः।
यानादिकं समारोप्य प्रक्षाल्याद्भिः खनित्रकम् ॥ 108 ॥

मूलम् - 108

हेतीशं वापि वस्त्राद्यैरलङ्‌कृत्य विशेषतः।
यानादिकं समारोप्य प्रक्षाल्याद्भिः खनित्रकम् ॥ 108 ॥

विश्वास-प्रस्तुतिः - 109

नवेन वाससाच्छाद्य भूषयित्वा तु माल्यकैः।
देशिको वाहयेद्विप्रैः शूद्रैर्वा दीक्षितैर्द्विज! ॥ 109 ॥

मूलम् - 109

नवेन वाससाच्छाद्य भूषयित्वा तु माल्यकैः।
देशिको वाहयेद्विप्रैः शूद्रैर्वा दीक्षितैर्द्विज! ॥ 109 ॥

विश्वास-प्रस्तुतिः - 110

च्छत्रध्वजपताकाभिः सार्धमंकुरपात्रकैः।
त्रिविधैः पालिकाद्यैश्च शंखतूर्यादिभिः सह ॥ 110 ॥

मूलम् - 110

च्छत्रध्वजपताकाभिः सार्धमंकुरपात्रकैः।
त्रिविधैः पालिकाद्यैश्च शंखतूर्यादिभिः सह ॥ 110 ॥

विश्वास-प्रस्तुतिः - 111

आम्नायोद्धोषणपरैर्भक्तैर्भागवतैर्विभोः।
गायकैर्गणिकाभिश्च तथान्यैर्मङ्गलैः सह ॥ 111 ॥

मूलम् - 111

आम्नायोद्धोषणपरैर्भक्तैर्भागवतैर्विभोः।
गायकैर्गणिकाभिश्च तथान्यैर्मङ्गलैः सह ॥ 111 ॥

विश्वास-प्रस्तुतिः - 112

क्रमात् प्रदक्षिणीकृत्य सर्वेष्वावरणेषु च।
दिशं प्राचीमुदीचीं वा अथवा प्रागुदग्दिशम् ॥ 112 ॥

मूलम् - 112

क्रमात् प्रदक्षिणीकृत्य सर्वेष्वावरणेषु च।
दिशं प्राचीमुदीचीं वा अथवा प्रागुदग्दिशम् ॥ 112 ॥

विश्वास-प्रस्तुतिः - 113

अदूरं समनुप्राप्य तत्रोद्याने मनोहरे।
केवले वा शुचौ देशे मृदं शुद्धां समाहरेत् ॥ 113 ॥

मूलम् - 113

अदूरं समनुप्राप्य तत्रोद्याने मनोहरे।
केवले वा शुचौ देशे मृदं शुद्धां समाहरेत् ॥ 113 ॥

विश्वास-प्रस्तुतिः - 114

अस्त्रमन्त्रेण धरणीं संप्रोक्ष्य प्रथमं गुरुः।
महीसूक्तेन संस्पृश्य ध्यायन्नेकाग्रचेतसा ॥ 114 ॥

मूलम् - 114

अस्त्रमन्त्रेण धरणीं संप्रोक्ष्य प्रथमं गुरुः।
महीसूक्तेन संस्पृश्य ध्यायन्नेकाग्रचेतसा ॥ 114 ॥

विश्वास-प्रस्तुतिः - 115

मूर्तिं देवस्य वाराहीमभ्यर्च्य कुसुमैर्भुवम्।
अस्त्रांबुना प्रोक्षितेन पुष्पैरभ्यर्चितेन च ॥ 115 ॥

मूलम् - 115

मूर्तिं देवस्य वाराहीमभ्यर्च्य कुसुमैर्भुवम्।
अस्त्रांबुना प्रोक्षितेन पुष्पैरभ्यर्चितेन च ॥ 115 ॥

विश्वास-प्रस्तुतिः - 116

खनित्रेण खनेद्‌भूमिं प्राङ्‌मुखः क्रोडमन्त्रतः।
लोहजे भाजने मृत्स्नां वेत्रजे वा यथारुचि ॥ 116 ॥

मूलम् - 116

खनित्रेण खनेद्‌भूमिं प्राङ्‌मुखः क्रोडमन्त्रतः।
लोहजे भाजने मृत्स्नां वेत्रजे वा यथारुचि ॥ 116 ॥

विश्वास-प्रस्तुतिः - 117

गृहीत्वा मूलमन्त्रेण वेष्टयित्वा च वाससा।
प्रत्यग्रेण तथा नद्या वालुकां गोमयं तथा ॥ 117 ॥

मूलम् - 117

गृहीत्वा मूलमन्त्रेण वेष्टयित्वा च वाससा।
प्रत्यग्रेण तथा नद्या वालुकां गोमयं तथा ॥ 117 ॥

विश्वास-प्रस्तुतिः - 118

गोकुलात् पूर्ववत् पात्रे गृहीत्वाऽऽच्छाद्य वाससा।
यानादिके समारोप्य यद्वा दीक्षितमूर्धनि ॥ 118 ॥

मूलम् - 118

गोकुलात् पूर्ववत् पात्रे गृहीत्वाऽऽच्छाद्य वाससा।
यानादिके समारोप्य यद्वा दीक्षितमूर्धनि ॥ 118 ॥

विश्वास-प्रस्तुतिः - 119

गत्वा प्रदक्षिणं ग्रामं प्रविशेन्मण्टपं ततः।
मण्टपं शोधयित्वा तु स्नपनोदितवर्त्मना ॥ 119 ॥

मूलम् - 119

गत्वा प्रदक्षिणं ग्रामं प्रविशेन्मण्टपं ततः।
मण्टपं शोधयित्वा तु स्नपनोदितवर्त्मना ॥ 119 ॥

विश्वास-प्रस्तुतिः - 120

ततो मण्टपमध्ये तु सूत्राण्यास्फालयेत् क्रमात्।
प्रागायतानि प्रथमं क्रमात् सप्तदश क्षिपेत् ॥ 120 ॥

मूलम् - 120

ततो मण्टपमध्ये तु सूत्राण्यास्फालयेत् क्रमात्।
प्रागायतानि प्रथमं क्रमात् सप्तदश क्षिपेत् ॥ 120 ॥

विश्वास-प्रस्तुतिः - 121

उदगायतसूत्राणि चतुर्दश निपातयेत्।
सूत्रात् सूत्रादन्तरालं षोडशांगुलसम्मितम् ॥ 121 ॥

मूलम् - 121

उदगायतसूत्राणि चतुर्दश निपातयेत्।
सूत्रात् सूत्रादन्तरालं षोडशांगुलसम्मितम् ॥ 121 ॥

विश्वास-प्रस्तुतिः - 122

त्रयाधिकदशैव स्युः पूर्वपश्चिमपङ्‌क्तयः।
एवं षोडशसंख्याता दक्षिणोत्तरपङ्‌क्तयः ॥ 122 ॥

मूलम् - 122

त्रयाधिकदशैव स्युः पूर्वपश्चिमपङ्‌क्तयः।
एवं षोडशसंख्याता दक्षिणोत्तरपङ्‌क्तयः ॥ 122 ॥

विश्वास-प्रस्तुतिः - 123

बीजपात्रप्रतिष्ठार्थं पूर्वपश्चिमपङ्‌क्तिषु।
मध्ये पङ्‌क्तित्रयं स्थाप्य वीध्यर्थं द्वितयं मृजेत् ॥ 123 ॥

मूलम् - 123

बीजपात्रप्रतिष्ठार्थं पूर्वपश्चिमपङ्‌क्तिषु।
मध्ये पङ्‌क्तित्रयं स्थाप्य वीध्यर्थं द्वितयं मृजेत् ॥ 123 ॥

विश्वास-प्रस्तुतिः - 124

भूयश्च पङ्‌क्तित्रितयं स्थापयेत् पाश्वयोर्द्वयोः।
दक्षिणोत्तरमध्ये तु स्थाप्यं पङ्‌क्तिचतुष्टयम् ॥ 124 ॥

मूलम् - 124

भूयश्च पङ्‌क्तित्रितयं स्थापयेत् पाश्वयोर्द्वयोः।
दक्षिणोत्तरमध्ये तु स्थाप्यं पङ्‌क्तिचतुष्टयम् ॥ 124 ॥

विश्वास-प्रस्तुतिः - 125

द्वितयं द्वितयं पार्श्वे वीथ्यर्थं विमृजेत् पुनः।
चतुश्चतुश्च पङ्‌क्तीनां स्थापयेत् क्रमयोगतः ॥ 125 ॥

मूलम् - 125

द्वितयं द्वितयं पार्श्वे वीथ्यर्थं विमृजेत् पुनः।
चतुश्चतुश्च पङ्‌क्तीनां स्थापयेत् क्रमयोगतः ॥ 125 ॥

विश्वास-प्रस्तुतिः - 126

अशास्वष्टासु मध्ये च शराबघटपालिकाः।
द्वादश द्वादश स्थाप्या शतमष्टोत्तरं भवेत् ॥ 126 ॥

मूलम् - 126

अशास्वष्टासु मध्ये च शराबघटपालिकाः।
द्वादश द्वादश स्थाप्या शतमष्टोत्तरं भवेत् ॥ 126 ॥

विश्वास-प्रस्तुतिः - 127

आग्नेये दक्षिणे भागे नैर्ऋतेपि च पालिकाः।
घटिका वारुणे ब्राह्ने तथा पौरन्दरेपि च ॥ 127 ।

मूलम् - 127

आग्नेये दक्षिणे भागे नैर्ऋतेपि च पालिकाः।
घटिका वारुणे ब्राह्ने तथा पौरन्दरेपि च ॥ 127 ।

विश्वास-प्रस्तुतिः - 128

शरावा मारुते सौम्ये त्वीशाने च यथाविधि।
प्रत्येकं पालिकादीनां षोडशत्वेन कल्पयेत् ॥ 128 ॥

मूलम् - 128

शरावा मारुते सौम्ये त्वीशाने च यथाविधि।
प्रत्येकं पालिकादीनां षोडशत्वेन कल्पयेत् ॥ 128 ॥

विश्वास-प्रस्तुतिः - 129

दक्षिणोत्तरगं सूत्रपञ्चकं विनिवेशयेत्।
प्रागायतानि सूत्राणि पूर्ववद्विनिवेशयेत् ॥ 129 ॥

मूलम् - 129

दक्षिणोत्तरगं सूत्रपञ्चकं विनिवेशयेत्।
प्रागायतानि सूत्राणि पूर्ववद्विनिवेशयेत् ॥ 129 ॥

विश्वास-प्रस्तुतिः - 130

आचरेत् पूर्ववद्विप्र! प्राक्प्रत्यक्पङ्‌क्तिकल्पनम्।
तत्र दक्षिणतः पङ्‌क्तिचतुष्के स्थापयेत् क्रमात् ॥ 130 ॥

मूलम् - 130

आचरेत् पूर्ववद्विप्र! प्राक्प्रत्यक्पङ्‌क्तिकल्पनम्।
तत्र दक्षिणतः पङ्‌क्तिचतुष्के स्थापयेत् क्रमात् ॥ 130 ॥

विश्वास-प्रस्तुतिः - 131

पालिकाः षोडश पुरो मध्ये पङ्‌क्तिचतुष्टये।
घटिकाः षोडश न्यस्य उत्तरे विनिवेशयेत् ॥ 131 ॥

मूलम् - 131

पालिकाः षोडश पुरो मध्ये पङ्‌क्तिचतुष्टये।
घटिकाः षोडश न्यस्य उत्तरे विनिवेशयेत् ॥ 131 ॥

विश्वास-प्रस्तुतिः - 132

शरावानपि तत्संख्यानथ द्वादशकल्पने।
दक्षिणोत्तरसूत्राणि चत्वार्यत्र विनिक्षिपेत् ॥ 132 ॥

मूलम् - 132

शरावानपि तत्संख्यानथ द्वादशकल्पने।
दक्षिणोत्तरसूत्राणि चत्वार्यत्र विनिक्षिपेत् ॥ 132 ॥

विश्वास-प्रस्तुतिः - 133

पूर्वापराणि सूत्राणि पूर्ववद्विनिपातयेत्।
अष्टाधिकानि कोष्ठानि चत्वारिंशद्भवन्ति हि ॥ 133 ॥

मूलम् - 133

पूर्वापराणि सूत्राणि पूर्ववद्विनिपातयेत्।
अष्टाधिकानि कोष्ठानि चत्वारिंशद्भवन्ति हि ॥ 133 ॥

विश्वास-प्रस्तुतिः - 134

याम्ये द्वादश कोष्ठानि स्थापयित्वा ततो मृजेत्।
वीथ्यर्थं भागषट्‌कं तु मद्यतः स्थापयेत् ततः ॥ 134 ॥

मूलम् - 134

याम्ये द्वादश कोष्ठानि स्थापयित्वा ततो मृजेत्।
वीथ्यर्थं भागषट्‌कं तु मद्यतः स्थापयेत् ततः ॥ 134 ॥

विश्वास-प्रस्तुतिः - 135

भागद्वादशकं पश्चात् भागषट्‌कं विलोपयेत्।
भूयश्चोत्तरदिकस्थाप्यं कोष्ठद्वादशकं क्रमात् ॥ 135 ॥

मूलम् - 135

भागद्वादशकं पश्चात् भागषट्‌कं विलोपयेत्।
भूयश्चोत्तरदिकस्थाप्यं कोष्ठद्वादशकं क्रमात् ॥ 135 ॥

विश्वास-प्रस्तुतिः - 136

न्यसेत्तु पालिकादीनि भागद्वादशकत्रये।
आग्नेयादीशपर्यन्तं दक्षिणाशादितः क्रमात् ॥ 136 ॥

मूलम् - 136

न्यसेत्तु पालिकादीनि भागद्वादशकत्रये।
आग्नेयादीशपर्यन्तं दक्षिणाशादितः क्रमात् ॥ 136 ॥

विश्वास-प्रस्तुतिः - 137

प्रत्येकं पालिकादीनामष्टसंख्याप्रकल्पने।
दक्षिणोत्तरसूत्राणि त्रितयं तु निपातयेत् ॥ 137 ॥

मूलम् - 137

प्रत्येकं पालिकादीनामष्टसंख्याप्रकल्पने।
दक्षिणोत्तरसूत्राणि त्रितयं तु निपातयेत् ॥ 137 ॥

विश्वास-प्रस्तुतिः - 138

अन्यत् सर्वं भवेत् प्राग्वत्, अथ प्रतिचतुष्टये।
दक्षिणोत्तरगं सूत्रं त्रितयं विनिपातयेत् ॥ 138 ॥

मूलम् - 138

अन्यत् सर्वं भवेत् प्राग्वत्, अथ प्रतिचतुष्टये।
दक्षिणोत्तरगं सूत्रं त्रितयं विनिपातयेत् ॥ 138 ॥

विश्वास-प्रस्तुतिः - 139

पूर्वपश्चिमसूत्राणि ह्येकादश विनिक्षिपेत्।
सर्वार्थे पालिकानां तु षोडशानां परिग्रहे ॥ 139 ॥

मूलम् - 139

पूर्वपश्चिमसूत्राणि ह्येकादश विनिक्षिपेत्।
सर्वार्थे पालिकानां तु षोडशानां परिग्रहे ॥ 139 ॥

विश्वास-प्रस्तुतिः - 140

पञ्च दक्षिणसूत्राणि प्राक्सूत्राणि तथा क्षिपेत्।
प्राक्सूत्रान् पञ्च चाष्टानां दक्षसूत्रत्रयं क्षिपेत् ॥ 140 ॥

मूलम् - 140

पञ्च दक्षिणसूत्राणि प्राक्सूत्राणि तथा क्षिपेत्।
प्राक्सूत्रान् पञ्च चाष्टानां दक्षसूत्रत्रयं क्षिपेत् ॥ 140 ॥

विश्वास-प्रस्तुतिः - 141

चतुर्विंशतिसंख्यानां पालिकानां परिग्रहे।
पूर्वदक्षिणसूत्राणां सप्तकं पञ्चकं क्षिपेत् ॥ 141 ॥

मूलम् - 141

चतुर्विंशतिसंख्यानां पालिकानां परिग्रहे।
पूर्वदक्षिणसूत्राणां सप्तकं पञ्चकं क्षिपेत् ॥ 141 ॥

विश्वास-प्रस्तुतिः - 142

चतुः परिग्रहे सूत्रत्रितयं त्रितय क्षिपेत्।
पूर्ववत् सूत्रपातः स्यादाद्यः संख्यासु पञ्चसु ॥ 142 ॥

मूलम् - 142

चतुः परिग्रहे सूत्रत्रितयं त्रितय क्षिपेत्।
पूर्ववत् सूत्रपातः स्यादाद्यः संख्यासु पञ्चसु ॥ 142 ॥

विश्वास-प्रस्तुतिः - 143

एवमास्फाल्य सूत्राणि विभवेच्छानुसारतः।
पदेषु पालिकादीनां शालिभिर्व्रीहिभिस्तथा ॥ 143 ॥

मूलम् - 143

एवमास्फाल्य सूत्राणि विभवेच्छानुसारतः।
पदेषु पालिकादीनां शालिभिर्व्रीहिभिस्तथा ॥ 143 ॥

विश्वास-प्रस्तुतिः - 144

आढकादिमितैः प्राग्वदुत्तमादिव्यपेक्षया।
वृत्तां वा चतुरश्रां वा कल्पयेत् पीठिकां क्रमात् ॥ 144 ॥

मूलम् - 144

आढकादिमितैः प्राग्वदुत्तमादिव्यपेक्षया।
वृत्तां वा चतुरश्रां वा कल्पयेत् पीठिकां क्रमात् ॥ 144 ॥

विश्वास-प्रस्तुतिः - 145

पालिकादीनि पात्राणि क्षालयेन्मूलमन्त्रतः।
सहदेवीं च दूर्वां च सार्धमश्वत्थपल्लवैः ॥ 145 ॥

मूलम् - 145

पालिकादीनि पात्राणि क्षालयेन्मूलमन्त्रतः।
सहदेवीं च दूर्वां च सार्धमश्वत्थपल्लवैः ॥ 145 ॥

विश्वास-प्रस्तुतिः - 146

शिरीषपल्लवैश्चापि निशापत्रैस्तथैव च।
कण्ठेषु पालिकादीनां बन्धयेत्तदनन्तरम् ॥ 146 ॥

मूलम् - 146

शिरीषपल्लवैश्चापि निशापत्रैस्तथैव च।
कण्ठेषु पालिकादीनां बन्धयेत्तदनन्तरम् ॥ 146 ॥

विश्वास-प्रस्तुतिः - 147

कुशकाशतृणैस्तेषां बिलमूलानि पूरयेत्।
बिलानि प्रथमं मृद्भिर्वालुकाभिरनन्तरम् ॥ 147 ॥

मूलम् - 147

कुशकाशतृणैस्तेषां बिलमूलानि पूरयेत्।
बिलानि प्रथमं मृद्भिर्वालुकाभिरनन्तरम् ॥ 147 ॥

विश्वास-प्रस्तुतिः - 148

करीषचूर्णैरुपरि समृद्धं पूरयेद्विलम्।
यद्वा मृदादिकं विप्र! सर्वं संमिश्र्य पूरयेत् ॥ 148 ॥

मूलम् - 148

करीषचूर्णैरुपरि समृद्धं पूरयेद्विलम्।
यद्वा मृदादिकं विप्र! सर्वं संमिश्र्य पूरयेत् ॥ 148 ॥

विश्वास-प्रस्तुतिः - 149

कोष्ठेषु विन्यसेत्तानि पालिकादीन्यनुक्रमात्।
आग्नेयादीशपर्यन्तं प्रतिस्कन्धं द्विजोत्तम! ॥ 149 ॥

मूलम् - 149

कोष्ठेषु विन्यसेत्तानि पालिकादीन्यनुक्रमात्।
आग्नेयादीशपर्यन्तं प्रतिस्कन्धं द्विजोत्तम! ॥ 149 ॥

विश्वास-प्रस्तुतिः - 150

द्वादशानां तु नवकं अष्टोत्तरशेतं न्यसेत्।
ब्राह्नादीशानपर्यन्तमुदितक्रमयोगतः ॥ 150 ॥

मूलम् - 150

द्वादशानां तु नवकं अष्टोत्तरशेतं न्यसेत्।
ब्राह्नादीशानपर्यन्तमुदितक्रमयोगतः ॥ 150 ॥

विश्वास-प्रस्तुतिः - 151

एवं सर्वं समापाद्य दीक्षितैः परिचारकैः।
तत्तत् सर्वं समापाद्य यद्यत् प्रागनुपार्जितम् ॥ 151 ॥

मूलम् - 151

एवं सर्वं समापाद्य दीक्षितैः परिचारकैः।
तत्तत् सर्वं समापाद्य यद्यत् प्रागनुपार्जितम् ॥ 151 ॥

विश्वास-प्रस्तुतिः - 152

समारभेत् ततः कर्म देशिकः प्राङ्‌मुखः पदे।
पश्चिमे घटिकास्थानादुपाविश्यासने शुभे ॥ 152 ॥

मूलम् - 152

समारभेत् ततः कर्म देशिकः प्राङ्‌मुखः पदे।
पश्चिमे घटिकास्थानादुपाविश्यासने शुभे ॥ 152 ॥

विश्वास-प्रस्तुतिः - 153

न्यासमुद्दिश्य विधिना प्रोक्षणार्घ्यं प्रकल्पयेत्।
देहविन्यस्तमन्त्राणां कुर्यादर्घ्यादिनार्चनम् ॥ 153 ॥

मूलम् - 153

न्यासमुद्दिश्य विधिना प्रोक्षणार्घ्यं प्रकल्पयेत्।
देहविन्यस्तमन्त्राणां कुर्यादर्घ्यादिनार्चनम् ॥ 153 ॥

विश्वास-प्रस्तुतिः - 154

द्वारपालार्चनं कृत्वा विभवेच्छानुरूपतः।
तोरणानि ध्वजांश्चैव द्वारकुंभांश्च पूजयेत् ॥ 154 ॥

मूलम् - 154

द्वारपालार्चनं कृत्वा विभवेच्छानुरूपतः।
तोरणानि ध्वजांश्चैव द्वारकुंभांश्च पूजयेत् ॥ 154 ॥

विश्वास-प्रस्तुतिः - 155

सौवर्णं राजतं वापि ताम्रजं मृण्मयं तु वा।
सुगन्धतोयैः संपूर्णमुपरिष्टाद्विभूषितम् ॥ 155 ॥

मूलम् - 155

सौवर्णं राजतं वापि ताम्रजं मृण्मयं तु वा।
सुगन्धतोयैः संपूर्णमुपरिष्टाद्विभूषितम् ॥ 155 ॥

विश्वास-प्रस्तुतिः - 156

स्रक्चन्दनाक्षतैः कुम्भमाधारस्योपरि न्यसेत्।
आत्मनस्त्वग्रतः पश्चाद् बह्‌वृचादीन् क्रमेण तु ॥ 156 ॥

मूलम् - 156

स्रक्चन्दनाक्षतैः कुम्भमाधारस्योपरि न्यसेत्।
आत्मनस्त्वग्रतः पश्चाद् बह्‌वृचादीन् क्रमेण तु ॥ 156 ॥

विश्वास-प्रस्तुतिः - 157

वाचयेत् स्वस्तिपुण्याहं देशिकेन्द्रः स्वयं ततः।
आचार्यैः साधकैश्चापि सार्धमर्घ्यादिपूजितैः ॥ 157 ॥

मूलम् - 157

वाचयेत् स्वस्तिपुण्याहं देशिकेन्द्रः स्वयं ततः।
आचार्यैः साधकैश्चापि सार्धमर्घ्यादिपूजितैः ॥ 157 ॥

विश्वास-प्रस्तुतिः - 158

पुण्याहं वाचयेद्विप्र! मङ्गलं कलशं वहन्।
यजेदर्घ्यादिभिः पश्चात् पालिकाद्यधिदेवताः ॥ 158 ॥

मूलम् - 158

पुण्याहं वाचयेद्विप्र! मङ्गलं कलशं वहन्।
यजेदर्घ्यादिभिः पश्चात् पालिकाद्यधिदेवताः ॥ 158 ॥

विश्वास-प्रस्तुतिः - 159

अढ्जनाभं परं चैव पझनाभं ध्रुवं तथा।
पात्रस्कन्धत्रिके विप्र! क्रमेण परिपूजयेत् ॥ 159 ॥

मूलम् - 159

अढ्जनाभं परं चैव पझनाभं ध्रुवं तथा।
पात्रस्कन्धत्रिके विप्र! क्रमेण परिपूजयेत् ॥ 159 ॥

विश्वास-प्रस्तुतिः - 160

पालिकानां द्वादशके वह्न्यादीशानपश्चिमम्।
अनन्तादि द्वादशकं घटिकाद्वादशे ततः ॥ 160 ॥

मूलम् - 160

पालिकानां द्वादशके वह्न्यादीशानपश्चिमम्।
अनन्तादि द्वादशकं घटिकाद्वादशे ततः ॥ 160 ॥

विश्वास-प्रस्तुतिः - 161

कूर्मादीनां द्वादशकं शरावाणां तु द्वादशे।
द्विषट्‌कमेकश्रृंगाद्यं क्रमेण परिपूजयेत् ॥ 161 ॥

मूलम् - 161

कूर्मादीनां द्वादशकं शरावाणां तु द्वादशे।
द्विषट्‌कमेकश्रृंगाद्यं क्रमेण परिपूजयेत् ॥ 161 ॥

विश्वास-प्रस्तुतिः - 162

प्रत्येकं पालिकादीनां कृते षोडशकल्पने।
अनन्ताद्यं च षट्‌त्रिंशत् पातालशयनान्तिमम् ॥ 162 ॥

मूलम् - 162

प्रत्येकं पालिकादीनां कृते षोडशकल्पने।
अनन्ताद्यं च षट्‌त्रिंशत् पातालशयनान्तिमम् ॥ 162 ॥

विश्वास-प्रस्तुतिः - 163

लक्ष्म्यादिमतिपर्यन्तं शान्तिद्वादशकं यजेत्।
प्रत्येकं पालिकादीनां षट्‌त्रिंशत् पातालशयनान्तिमम् ॥ 163 ॥

मूलम् - 163

लक्ष्म्यादिमतिपर्यन्तं शान्तिद्वादशकं यजेत्।
प्रत्येकं पालिकादीनां षट्‌त्रिंशत् पातालशयनान्तिमम् ॥ 163 ॥

विश्वास-प्रस्तुतिः - 164

चतुष्टयं तु मूर्तीनां स्वप्नाख्यपदसंस्थितम्।
प्रभवाप्यययोगेन जाग्रद्रूपं तथाष्टकम् ॥ 164 ॥

मूलम् - 164

चतुष्टयं तु मूर्तीनां स्वप्नाख्यपदसंस्थितम्।
प्रभवाप्यययोगेन जाग्रद्रूपं तथाष्टकम् ॥ 164 ॥

विश्वास-प्रस्तुतिः - 165

मूर्त्यन्तराणां द्वादशकं तच्छक्तीनां चतुस्त्रयम्।
अनन्ताद्यं च्च षट्‌त्रिंशत् पातालशयनान्तिमम् ॥ 165 ॥

मूलम् - 165

मूर्त्यन्तराणां द्वादशकं तच्छक्तीनां चतुस्त्रयम्।
अनन्ताद्यं च्च षट्‌त्रिंशत् पातालशयनान्तिमम् ॥ 165 ॥

विश्वास-प्रस्तुतिः - 166

स्वधादीनां च शक्तीनां चतुस्त्रिंशच्च तत्परम्।
चक्रशंखौ क्रमाद्भोगैरर्घ्यगन्धादिर्भियजेत् ॥ 166 ॥

मूलम् - 166

स्वधादीनां च शक्तीनां चतुस्त्रिंशच्च तत्परम्।
चक्रशंखौ क्रमाद्भोगैरर्घ्यगन्धादिर्भियजेत् ॥ 166 ॥

विश्वास-प्रस्तुतिः - 167

अष्टके केशवाद्याश्च तदीयाः शक्तयो यजेत्।
चतुष्के केशवाद्यांस्तु केवलान् द्वादशे यजेत् ॥ 167 ॥

मूलम् - 167

अष्टके केशवाद्याश्च तदीयाः शक्तयो यजेत्।
चतुष्के केशवाद्यांस्तु केवलान् द्वादशे यजेत् ॥ 167 ॥

विश्वास-प्रस्तुतिः - 168

सर्वार्थे पालिकानां तु क्रमात् षोडशके यजेत्।
वासुदेवादिचतुरः केशवादींश्च द्वादश ॥ 168 ॥

मूलम् - 168

सर्वार्थे पालिकानां तु क्रमात् षोडशके यजेत्।
वासुदेवादिचतुरः केशवादींश्च द्वादश ॥ 168 ॥

विश्वास-प्रस्तुतिः - 169

अष्टके वासुदेवादीन् प्रभवाप्यययोगतः।
चतुष्के वासुदेवादीन् प्रभवानुक्रमेण तु ॥ 169 ॥

मूलम् - 169

अष्टके वासुदेवादीन् प्रभवाप्यययोगतः।
चतुष्के वासुदेवादीन् प्रभवानुक्रमेण तु ॥ 169 ॥

विश्वास-प्रस्तुतिः - 170

एममिष्ट्वा क्रमेणैव बीजानि क्षालयेत् ततः।
गव्येन पयसा सम्यङ्भन्त्रेण द्वादशात्मना ॥ 170 ॥

मूलम् - 170

एममिष्ट्वा क्रमेणैव बीजानि क्षालयेत् ततः।
गव्येन पयसा सम्यङ्भन्त्रेण द्वादशात्मना ॥ 170 ॥

विश्वास-प्रस्तुतिः - 171

बीजानां नामधेयैस्तु चतुर्थ्यन्ते पृथक् पृथक्।
अर्घ्याद्यैः पूजयित्वा तु वाससा परिवेष्ट्य च ॥ 171 ॥

मूलम् - 171

बीजानां नामधेयैस्तु चतुर्थ्यन्ते पृथक् पृथक्।
अर्घ्याद्यैः पूजयित्वा तु वाससा परिवेष्ट्य च ॥ 171 ॥

विश्वास-प्रस्तुतिः - 172

हुतावशिष्टमाज्यं तु तदन्यं वापि संस्कृतम्।
आदाय लोहजे पात्रे मृण्मये वा यथारुचि ॥ 172 ॥

मूलम् - 172

हुतावशिष्टमाज्यं तु तदन्यं वापि संस्कृतम्।
आदाय लोहजे पात्रे मृण्मये वा यथारुचि ॥ 172 ॥

विश्वास-प्रस्तुतिः - 173

उभाभ्यां चैव हस्ताभ्यां दूर्वामादाय मूलतः।
घृते निमज्य चाग्राणि पालिकादिषु सेचयेत् ॥ 173 ॥

मूलम् - 173

उभाभ्यां चैव हस्ताभ्यां दूर्वामादाय मूलतः।
घृते निमज्य चाग्राणि पालिकादिषु सेचयेत् ॥ 173 ॥

विश्वास-प्रस्तुतिः - 174

हस्तव्यत्यासमार्गेण वह्व्यादीशानपश्चिमम्।
प्रतिस्कन्धं घृतारोपे दूर्वाभेदः प्रकीर्तितः ॥ 174 ॥

मूलम् - 174

हस्तव्यत्यासमार्गेण वह्व्यादीशानपश्चिमम्।
प्रतिस्कन्धं घृतारोपे दूर्वाभेदः प्रकीर्तितः ॥ 174 ॥

विश्वास-प्रस्तुतिः - 175

एवं कृत्वा घृतारोपं भूयऋ स्कन्धादिदेवताः।
प्रपूज्य सर्वबीजानि मन्त्रयेद्‌द्वादशात्मना ॥ 175 ॥

मूलम् - 175

एवं कृत्वा घृतारोपं भूयऋ स्कन्धादिदेवताः।
प्रपूज्य सर्वबीजानि मन्त्रयेद्‌द्वादशात्मना ॥ 175 ॥

विश्वास-प्रस्तुतिः - 176

आचार्यादीननुज्ञाप्य देशिकेन्द्र उदङ्‌मुखः।
प्राङ्‌मुखो वा मुहूर्ते तु शोभने पालिकादिषु ॥ 176 ॥

मूलम् - 176

आचार्यादीननुज्ञाप्य देशिकेन्द्र उदङ्‌मुखः।
प्राङ्‌मुखो वा मुहूर्ते तु शोभने पालिकादिषु ॥ 176 ॥

विश्वास-प्रस्तुतिः - 177

द्वादशाक्षरमन्त्रेण सर्वबीजानि वापयेत्।
यद्वाजितन्तामन्त्रेण ह्‌युभयेनाथवा द्विज! ॥ 177 ॥

मूलम् - 177

द्वादशाक्षरमन्त्रेण सर्वबीजानि वापयेत्।
यद्वाजितन्तामन्त्रेण ह्‌युभयेनाथवा द्विज! ॥ 177 ॥

विश्वास-प्रस्तुतिः - 178

आग्नेयादीशपर्यन्तं प्रतिस्कन्धं क्रमेण तु।
शंखदुंदुभिनिर्घोषजयनादसमन्वितम् ॥ 178 ॥

मूलम् - 178

आग्नेयादीशपर्यन्तं प्रतिस्कन्धं क्रमेण तु।
शंखदुंदुभिनिर्घोषजयनादसमन्वितम् ॥ 178 ॥

विश्वास-प्रस्तुतिः - 179

बीजानि द्वादशोक्तानि वपेद्‌द्वादशसु क्रमात्।
यद्वा सर्वाणि संमिश्य वपेदिच्छानुरूपतः ॥ 179 ॥

मूलम् - 179

बीजानि द्वादशोक्तानि वपेद्‌द्वादशसु क्रमात्।
यद्वा सर्वाणि संमिश्य वपेदिच्छानुरूपतः ॥ 179 ॥

विश्वास-प्रस्तुतिः - 180

बीजानामप्यलाभे तु मुद्गमेकं तु वापयेत्।
आचार्यानुमताश्चान्ये देशिकाः साधका अपि ॥ 180 ॥

मूलम् - 180

बीजानामप्यलाभे तु मुद्गमेकं तु वापयेत्।
आचार्यानुमताश्चान्ये देशिकाः साधका अपि ॥ 180 ॥

विश्वास-प्रस्तुतिः - 181

वपेयुर्ध्यानसंयुक्ताः केवलं गुरुरेव वा।
हरिद्राचूर्णसंमिश्रैर्जलैः कुसुमवासितैः ॥ 181 ॥

मूलम् - 181

वपेयुर्ध्यानसंयुक्ताः केवलं गुरुरेव वा।
हरिद्राचूर्णसंमिश्रैर्जलैः कुसुमवासितैः ॥ 181 ॥

विश्वास-प्रस्तुतिः - 182

बहुभिः सेचयेद्विप्र! देशिकेन्द्रः क्रमेण तु।
प्रतिस्कन्धोपरिष्टात्तु चन्द्रमण्डलमध्यगम् ॥ 182 ॥

मूलम् - 182

बहुभिः सेचयेद्विप्र! देशिकेन्द्रः क्रमेण तु।
प्रतिस्कन्धोपरिष्टात्तु चन्द्रमण्डलमध्यगम् ॥ 182 ॥

विश्वास-प्रस्तुतिः - 183

तत्कान्तिसन्निभं देवं स्वदेहोत्थैर्निरन्तरैः।
सिंचन्तममृतौघैश्तु बीजान्युप्तानि सर्वतः ॥ 183 ॥

मूलम् - 183

तत्कान्तिसन्निभं देवं स्वदेहोत्थैर्निरन्तरैः।
सिंचन्तममृतौघैश्तु बीजान्युप्तानि सर्वतः ॥ 183 ॥

विश्वास-प्रस्तुतिः - 184

ध्यात्वार्चयित्वा पात्राणि नवैस्तु सदृशौः शुभैः।
आच्छादयित्वा वसनैः प्रतिस्कन्धं क्रमेण तु ॥ 184 ॥

मूलम् - 184

ध्यात्वार्चयित्वा पात्राणि नवैस्तु सदृशौः शुभैः।
आच्छादयित्वा वसनैः प्रतिस्कन्धं क्रमेण तु ॥ 184 ॥

विश्वास-प्रस्तुतिः - 185

वासुदेवं जगद्योनिं सर्वेषामूर्ध्वतो यजेत्।
भूतक्रूरबलिं दद्यादष्टदिक्षु द्विजोत्तम! ॥ 185 ॥

मूलम् - 185

वासुदेवं जगद्योनिं सर्वेषामूर्ध्वतो यजेत्।
भूतक्रूरबलिं दद्यादष्टदिक्षु द्विजोत्तम! ॥ 185 ॥

विश्वास-प्रस्तुतिः - 186

भूतानां कुमुदादीनां पूर्वादिक्रमयोगतः।
तदाप्रभृति ते सर्वे (ताः सर्वा) रक्षन्ति कुमुदादयः ॥ 186 ॥

मूलम् - 186

भूतानां कुमुदादीनां पूर्वादिक्रमयोगतः।
तदाप्रभृति ते सर्वे (ताः सर्वा) रक्षन्ति कुमुदादयः ॥ 186 ॥

विश्वास-प्रस्तुतिः - 187

आचार्यांश्च गुरूपन् सर्वान् साधकान् वैष्णवानपि।
प्रभूतैस्तु ततोद्दिष्टैस्ताम्बूलीसुमनःफलैः ॥ 187 ॥

मूलम् - 187

आचार्यांश्च गुरूपन् सर्वान् साधकान् वैष्णवानपि।
प्रभूतैस्तु ततोद्दिष्टैस्ताम्बूलीसुमनःफलैः ॥ 187 ॥

विश्वास-प्रस्तुतिः - 188

गुरुं च तोषयेद्वित्तैर्यजमामानः प्रयत्नवान्।
क्रमादुत्यद्‌धृत्य तान् सर्वान् सुगुप्ते स्थापयेत् ततः ॥ 188 ॥

मूलम् - 188

गुरुं च तोषयेद्वित्तैर्यजमामानः प्रयत्नवान्।
क्रमादुत्यद्‌धृत्य तान् सर्वान् सुगुप्ते स्थापयेत् ततः ॥ 188 ॥

विश्वास-प्रस्तुतिः - 189

मण्टपेशानकोणे वा देशेऽन्यत्र यथारुचि।
तत्रापि पालिकादीनां परितोष्टासु दिक्षु च ॥ 189 ॥

मूलम् - 189

मण्टपेशानकोणे वा देशेऽन्यत्र यथारुचि।
तत्रापि पालिकादीनां परितोष्टासु दिक्षु च ॥ 189 ॥

विश्वास-प्रस्तुतिः - 190

भूतानां कुमुदादीनां ऐन्द्रादिक्रमयोगतः।
बलिं तु मण्‍टपे दद्यात् भूतक्रूरविधानतः ॥ 190 ॥

मूलम् - 190

भूतानां कुमुदादीनां ऐन्द्रादिक्रमयोगतः।
बलिं तु मण्‍टपे दद्यात् भूतक्रूरविधानतः ॥ 190 ॥

विश्वास-प्रस्तुतिः - 191

दीपान् बहूननिर्वाणान् परितः परिदीपयेत्।
ऊनाधिक्योपशान्त्यर्थं शतमष्टोत्तरं हुनेत् ॥ 191 ॥

मूलम् - 191

दीपान् बहूननिर्वाणान् परितः परिदीपयेत्।
ऊनाधिक्योपशान्त्यर्थं शतमष्टोत्तरं हुनेत् ॥ 191 ॥

विश्वास-प्रस्तुतिः - 192

द्वादशाक्षरमन्त्रं तु जपेद्वा बिंबसन्निधौ।
कुम्भादिस्थानगस्याथ विभोः कुर्याद्विसर्जनम् ॥ 192 ॥

मूलम् - 192

द्वादशाक्षरमन्त्रं तु जपेद्वा बिंबसन्निधौ।
कुम्भादिस्थानगस्याथ विभोः कुर्याद्विसर्जनम् ॥ 192 ॥

विश्वास-प्रस्तुतिः - 193

परितः पालिकादीनां प्रतिरात्रं पृथक् पृथक्।
दद्याद्दिवा रजन्यां वा बलिं कालद्वयेपि बा ॥ 193 ॥

मूलम् - 193

परितः पालिकादीनां प्रतिरात्रं पृथक् पृथक्।
दद्याद्दिवा रजन्यां वा बलिं कालद्वयेपि बा ॥ 193 ॥

विश्वास-प्रस्तुतिः - 194

प्रातः कर्मदिने दद्याद्बलिं देशिकसत्तमः।
यदा चोप्तानि बीजानि तदाप्रभृति नित्यशः ॥ 194 ॥

मूलम् - 194

प्रातः कर्मदिने दद्याद्बलिं देशिकसत्तमः।
यदा चोप्तानि बीजानि तदाप्रभृति नित्यशः ॥ 194 ॥

विश्वास-प्रस्तुतिः - 195

न कश्चित् प्रविशेत् तत्र न स्पृशेद्वा कथंचन।
आचार्य एव प्रविशेत् तच्छिष्यो वा समाहितः ॥ 195 ॥

मूलम् - 195

न कश्चित् प्रविशेत् तत्र न स्पृशेद्वा कथंचन।
आचार्य एव प्रविशेत् तच्छिष्यो वा समाहितः ॥ 195 ॥

विश्वास-प्रस्तुतिः - 196

उच्छिष्टादीनि सर्वाणि दूरतः परिवर्जयेत्।
अदत्वा तु बलिं कांचिन्न कुर्यात् पालिकाक्रियाम् ॥ 196 ॥

मूलम् - 196

उच्छिष्टादीनि सर्वाणि दूरतः परिवर्जयेत्।
अदत्वा तु बलिं कांचिन्न कुर्यात् पालिकाक्रियाम् ॥ 196 ॥

विश्वास-प्रस्तुतिः - 197

हरिद्रावारिभिः सिञ्चेदङ्‌कुराण्यभिवृद्धये।
अंकुरान् श्यामलान् रक्तान् कृष्णान् तिर्व्यग्गतांस्तथा ॥ 197 ॥

मूलम् - 197

हरिद्रावारिभिः सिञ्चेदङ्‌कुराण्यभिवृद्धये।
अंकुरान् श्यामलान् रक्तान् कृष्णान् तिर्व्यग्गतांस्तथा ॥ 197 ॥

विश्वास-प्रस्तुतिः - 198

अप्ररूढान् मुनिश्रेष्ठ! वर्जयेत्तु प्रयत्नतः।
श्यामेषु द्रव्यनाशः स्याद्रक्तेषु कलहो भवेत् ॥ 198 ॥

मूलम् - 198

अप्ररूढान् मुनिश्रेष्ठ! वर्जयेत्तु प्रयत्नतः।
श्यामेषु द्रव्यनाशः स्याद्रक्तेषु कलहो भवेत् ॥ 198 ॥

विश्वास-प्रस्तुतिः - 199

कृष्णेषु मानसी पीडा रोगी तिर्यग्गतेषु च।
अप्ररूढेषु मरणं भवेत् तत्र न संशयः ॥ 199 ॥

मूलम् - 199

कृष्णेषु मानसी पीडा रोगी तिर्यग्गतेषु च।
अप्ररूढेषु मरणं भवेत् तत्र न संशयः ॥ 199 ॥

विश्वास-प्रस्तुतिः - 200

शुभं पीतेषु शुक्लेषु ऋजुष्वूर्ध्वगतेष्वपि।
सर्वसंपत्समृद्धिश्च कर्तुः कारयितुर्भवेत् ॥ 200 ॥

मूलम् - 200

शुभं पीतेषु शुक्लेषु ऋजुष्वूर्ध्वगतेष्वपि।
सर्वसंपत्समृद्धिश्च कर्तुः कारयितुर्भवेत् ॥ 200 ॥

विश्वास-प्रस्तुतिः - 201

कर्मार्थमह्कुराण्यादौ यः समारोपयेदगुरुः।
स एव कर्म कार्त्स्न्येन कुर्यात् प्राज्ञोपि नेतरः ॥ 201 ॥

मूलम् - 201

कर्मार्थमह्कुराण्यादौ यः समारोपयेदगुरुः।
स एव कर्म कार्त्स्न्येन कुर्यात् प्राज्ञोपि नेतरः ॥ 201 ॥

विश्वास-प्रस्तुतिः - 202

अनुज्ञया वा तत्पुत्रः शिष्यो वा तत् समापयेत्।
एवं सर्वेषु यागेषु अङ्‌कुरारोपणं भवेत् ॥ 202 ॥

मूलम् - 202

अनुज्ञया वा तत्पुत्रः शिष्यो वा तत् समापयेत्।
एवं सर्वेषु यागेषु अङ्‌कुरारोपणं भवेत् ॥ 202 ॥

विश्वास-प्रस्तुतिः - 203

देशं कालं यथा वित्तं ज्ञात्वा स्वाधीनतां तथा।
उक्तं सर्वं समभ्यूह्य कुर्यात् कर्म प्रधानकम् ॥ 203 ॥

मूलम् - 203

देशं कालं यथा वित्तं ज्ञात्वा स्वाधीनतां तथा।
उक्तं सर्वं समभ्यूह्य कुर्यात् कर्म प्रधानकम् ॥ 203 ॥

विश्वास-प्रस्तुतिः - 204

एवं कृत्वांकुरारोपं ध्वजार्थं पटमाहरेत्।
यथावित्तानुसारेण क्रीतं वाऽभिनवं शुभं ॥ 204 ॥

मूलम् - 204

एवं कृत्वांकुरारोपं ध्वजार्थं पटमाहरेत्।
यथावित्तानुसारेण क्रीतं वाऽभिनवं शुभं ॥ 204 ॥

विश्वास-प्रस्तुतिः - 205

दुकूलपट्टं देवाङ्गं चित्रक्षौममथापि वा।
अथ कार्पासिकं वापि नीलरोमादिवर्जितम् ॥ 205 ॥

मूलम् - 205

दुकूलपट्टं देवाङ्गं चित्रक्षौममथापि वा।
अथ कार्पासिकं वापि नीलरोमादिवर्जितम् ॥ 205 ॥

विश्वास-प्रस्तुतिः - 206

सुलक्षणं दृढं स्निग्धं, हस्तमानमिहोच्यते।
शिष्यदेशिककर्तृस्थैर्हस्तैर्मानं प्रकल्पयेत् ॥ 206 ॥

मूलम् - 206

सुलक्षणं दृढं स्निग्धं, हस्तमानमिहोच्यते।
शिष्यदेशिककर्तृस्थैर्हस्तैर्मानं प्रकल्पयेत् ॥ 206 ॥

विश्वास-प्रस्तुतिः - 207

आद्यं द्वादशहस्तं स्यात् दशहस्तं तु मध्यमम्।
अधमं चाष्टहस्तं स्यात् विस्तारं च चतुष्करम् ॥ 207 ॥

मूलम् - 207

आद्यं द्वादशहस्तं स्यात् दशहस्तं तु मध्यमम्।
अधमं चाष्टहस्तं स्यात् विस्तारं च चतुष्करम् ॥ 207 ॥

विश्वास-प्रस्तुतिः - 208

उत्तमं स्यात्, त्रिहस्तं तु मध्यमर्धाधिकं भवेत्।
त्रिहस्तमधमं विद्धि तत्राद्ये द्विजसत्तम! ॥ 208 ॥

मूलम् - 208

उत्तमं स्यात्, त्रिहस्तं तु मध्यमर्धाधिकं भवेत्।
त्रिहस्तमधमं विद्धि तत्राद्ये द्विजसत्तम! ॥ 208 ॥

विश्वास-प्रस्तुतिः - 209

द्विहस्तं शिखरार्थं तु कल्पयेद्देशिकोत्तमः।
तद्वत् पुञ्छं प्रकुर्वींत अधोभागे ध्वजस्य तु ॥ 209 ॥

मूलम् - 209

द्विहस्तं शिखरार्थं तु कल्पयेद्देशिकोत्तमः।
तद्वत् पुञ्छं प्रकुर्वींत अधोभागे ध्वजस्य तु ॥ 209 ॥

विश्वास-प्रस्तुतिः - 210

मध्यतःसप्तहस्तेन लेखयेद्विनतासुतम्।
शिरोदण्डनिवेशार्थं हस्तार्धं परिकीर्तितम् ॥ 210 ॥

मूलम् - 210

मध्यतःसप्तहस्तेन लेखयेद्विनतासुतम्।
शिरोदण्डनिवेशार्थं हस्तार्धं परिकीर्तितम् ॥ 210 ॥

विश्वास-प्रस्तुतिः - 211

पाददण्डनिवेशार्थं तद्वन्मानं भवेद्‌द्विज!।
मध्यमस्याथ वक्ष्यामि समासादवधारय ॥ 211 ॥

मूलम् - 211

पाददण्डनिवेशार्थं तद्वन्मानं भवेद्‌द्विज!।
मध्यमस्याथ वक्ष्यामि समासादवधारय ॥ 211 ॥

विश्वास-प्रस्तुतिः - 212

हस्तमर्धादिकं विप्र! संयुक्तं त्रिभिरंगुलैः।
कल्पयेच्छिखरार्थं तु तद्वत् पुच्छं प्रकीर्तितम् ॥ 212 ॥

मूलम् - 212

हस्तमर्धादिकं विप्र! संयुक्तं त्रिभिरंगुलैः।
कल्पयेच्छिखरार्थं तु तद्वत् पुच्छं प्रकीर्तितम् ॥ 212 ॥

विश्वास-प्रस्तुतिः - 213

मध्यतो हस्तषट्‌केण गरुडं तु समालिखेत्।
दण्डद्वयनिवेशार्थं शेषं तु परिकल्पयेत् ॥ 213 ॥

मूलम् - 213

मध्यतो हस्तषट्‌केण गरुडं तु समालिखेत्।
दण्डद्वयनिवेशार्थं शेषं तु परिकल्पयेत् ॥ 213 ॥

विश्वास-प्रस्तुतिः - 214

अधमस्याथ वक्ष्यामि पटस्य मुनिपुंगव!।
पादाधिकेन हस्तेन शिखरं स्यात् तथा भवेत् ॥ 214 ॥

मूलम् - 214

अधमस्याथ वक्ष्यामि पटस्य मुनिपुंगव!।
पादाधिकेन हस्तेन शिखरं स्यात् तथा भवेत् ॥ 214 ॥

विश्वास-प्रस्तुतिः - 215

अधः पुच्छं तु हस्तार्थे दण्डद्वयनिवेशनम्।
मध्यतः पञ्चहस्तेन वैनतेयं समालिखेत् ॥ 215 ॥

मूलम् - 215

अधः पुच्छं तु हस्तार्थे दण्डद्वयनिवेशनम्।
मध्यतः पञ्चहस्तेन वैनतेयं समालिखेत् ॥ 215 ॥

विश्वास-प्रस्तुतिः - 216

भूयो विध्यन्तरं वक्ष्ये विभवेच्छानुसारतः।
आद्यं त्रिपञ्चहस्तं स्यान्मध्यमं तु त्रयोदशम् ॥ 216 ॥

मूलम् - 216

भूयो विध्यन्तरं वक्ष्ये विभवेच्छानुसारतः।
आद्यं त्रिपञ्चहस्तं स्यान्मध्यमं तु त्रयोदशम् ॥ 216 ॥

विश्वास-प्रस्तुतिः - 217

एकादशकरायाममधमं परिकीर्तितम्।
अर्धाधिकं चतुर्हस्तं विस्तारं चोत्तमं भवेत् ॥ 217 ॥

मूलम् - 217

एकादशकरायाममधमं परिकीर्तितम्।
अर्धाधिकं चतुर्हस्तं विस्तारं चोत्तमं भवेत् ॥ 217 ॥

विश्वास-प्रस्तुतिः - 218

पादाधिकं मध्यमं स्यादधमं पादहीनकम्।
पादाधिकं द्विहस्तं तु उत्तमे शिखरार्थतः ॥ 218 ॥

मूलम् - 218

पादाधिकं मध्यमं स्यादधमं पादहीनकम्।
पादाधिकं द्विहस्तं तु उत्तमे शिखरार्थतः ॥ 218 ॥

विश्वास-प्रस्तुतिः - 219

तद्वत् पुच्छं तु हस्तेन दण्डद्वयनिवेशनम्।
मद्यतश्चाष्टभिर्हस्तैर्गरुडं तु समालिखेत् ॥ 219 ॥

मूलम् - 219

तद्वत् पुच्छं तु हस्तेन दण्डद्वयनिवेशनम्।
मद्यतश्चाष्टभिर्हस्तैर्गरुडं तु समालिखेत् ॥ 219 ॥

विश्वास-प्रस्तुतिः - 220

मध्यमे शिखरं हस्तयुग्मं पुच्छमधस्तथा।
दण्डद्वयनिवेशार्थं अष्टांशोनेन हस्ततः ॥ 220 ॥

मूलम् - 220

मध्यमे शिखरं हस्तयुग्मं पुच्छमधस्तथा।
दण्डद्वयनिवेशार्थं अष्टांशोनेन हस्ततः ॥ 220 ॥

विश्वास-प्रस्तुतिः - 221

त्र्यंगुलोत्तरसप्तार्धैर्हस्तैर्गरुडमालिखेत्।
अधमं त्वथ वक्ष्यामि पादोनात्तु करद्वयात् ॥ 221 ॥

मूलम् - 221

त्र्यंगुलोत्तरसप्तार्धैर्हस्तैर्गरुडमालिखेत्।
अधमं त्वथ वक्ष्यामि पादोनात्तु करद्वयात् ॥ 221 ॥

विश्वास-प्रस्तुतिः - 222

शिखरं स्यात्तथा पुच्छं पादोनेन करेण तु।
दण्डद्वयनिवेशः स्यात् पादोनकरसप्तके ॥ 222 ॥

मूलम् - 222

शिखरं स्यात्तथा पुच्छं पादोनेन करेण तु।
दण्डद्वयनिवेशः स्यात् पादोनकरसप्तके ॥ 222 ॥

विश्वास-प्रस्तुतिः - 223

गरुडं तु लिखेद्विद्वान्, भूयो विध्यन्तरं श्रृणु।
उत्तमं नवहस्तं तु सप्तहस्तं तु मध्यमम् ॥ 223 ॥

मूलम् - 223

गरुडं तु लिखेद्विद्वान्, भूयो विध्यन्तरं श्रृणु।
उत्तमं नवहस्तं तु सप्तहस्तं तु मध्यमम् ॥ 223 ॥

विश्वास-प्रस्तुतिः - 224

अथमं पञ्चहस्तं तु त्रिविधः पठ उच्यते।
तदर्धं चैव विस्तारं तदर्धं शिखरं भवेत् ॥ 224 ॥

मूलम् - 224

अथमं पञ्चहस्तं तु त्रिविधः पठ उच्यते।
तदर्धं चैव विस्तारं तदर्धं शिखरं भवेत् ॥ 224 ॥

विश्वास-प्रस्तुतिः - 225

तत्समं पुच्छमप्युक्तं कर्णपुच्छं तथैव च।
मूलबिंबसमायामं द्वारायाममथापि वा ॥ 225 ॥

मूलम् - 225

तत्समं पुच्छमप्युक्तं कर्णपुच्छं तथैव च।
मूलबिंबसमायामं द्वारायाममथापि वा ॥ 225 ॥

विश्वास-प्रस्तुतिः - 226

आयामार्धेन विस्तीर्णं पादेन कृतशेखरम्।
शिखरेण समं पुच्छं तदर्धं कर्णपुच्छकम् ॥ 226 ॥

मूलम् - 226

आयामार्धेन विस्तीर्णं पादेन कृतशेखरम्।
शिखरेण समं पुच्छं तदर्धं कर्णपुच्छकम् ॥ 226 ॥

विश्वास-प्रस्तुतिः - 227

पक्षद्वयेपि पूर्वोक्ते कर्णपुच्छेन कल्पयेत्।
बालाख्यध्वजवस्त्रं तु पटाख्यपरिसम्मितम् ॥ 227 ॥

मूलम् - 227

पक्षद्वयेपि पूर्वोक्ते कर्णपुच्छेन कल्पयेत्।
बालाख्यध्वजवस्त्रं तु पटाख्यपरिसम्मितम् ॥ 227 ॥

विश्वास-प्रस्तुतिः - 228

विस्तारं पटतुल्यं तु पूर्ववच्छिखरं भवेत्।
निर्णेजितं खलीयुक्तं शोषितं लक्षणान्वितम् ॥ 228 ॥

मूलम् - 228

विस्तारं पटतुल्यं तु पूर्ववच्छिखरं भवेत्।
निर्णेजितं खलीयुक्तं शोषितं लक्षणान्वितम् ॥ 228 ॥

विश्वास-प्रस्तुतिः - 229

पटं विचित्रयेद्विद्वान् शिल्पिना कुशलेन वै।
च्छत्रं तु शिखरे कुर्यात् पार्श्वयोः श्वेतचामरे ॥ 229 ॥

मूलम् - 229

पटं विचित्रयेद्विद्वान् शिल्पिना कुशलेन वै।
च्छत्रं तु शिखरे कुर्यात् पार्श्वयोः श्वेतचामरे ॥ 229 ॥

विश्वास-प्रस्तुतिः - 230

अधोऽनेकदलं पझं तदधः पूर्णकुम्भकम्।
कुम्भस्य पार्श्वे विलिखेत् सांकुरं पालिकागणम् ॥ 230 ॥

मूलम् - 230

अधोऽनेकदलं पझं तदधः पूर्णकुम्भकम्।
कुम्भस्य पार्श्वे विलिखेत् सांकुरं पालिकागणम् ॥ 230 ॥

विश्वास-प्रस्तुतिः - 231

दीपौ सुशोभनौ कुर्यात् पालिकानां तु पार्श्वयोः।
ध्वजं तु गरुडाकारं एकमूर्तेस्तु सत्तम! ॥ 231 ॥

मूलम् - 231

दीपौ सुशोभनौ कुर्यात् पालिकानां तु पार्श्वयोः।
ध्वजं तु गरुडाकारं एकमूर्तेस्तु सत्तम! ॥ 231 ॥

विश्वास-प्रस्तुतिः - 232

सत्यः सुपर्णो गरुडस्तार्क्ष्यश्च चतुरात्मनः।
पञ्चमूर्तेस्तु चत्वारो विहगेश्वरसंयुताः ॥ 232 ॥

मूलम् - 232

सत्यः सुपर्णो गरुडस्तार्क्ष्यश्च चतुरात्मनः।
पञ्चमूर्तेस्तु चत्वारो विहगेश्वरसंयुताः ॥ 232 ॥

विश्वास-प्रस्तुतिः - 233

सुपर्णतालमकरऋश्या वा चतुरात्मनः।
तत ऊर्ध्वं तु सर्वेषां व्यूहानां गरुडो ध्वजः ॥ 233 ॥

मूलम् - 233

सुपर्णतालमकरऋश्या वा चतुरात्मनः।
तत ऊर्ध्वं तु सर्वेषां व्यूहानां गरुडो ध्वजः ॥ 233 ॥

विश्वास-प्रस्तुतिः - 234

पटमध्ये तु गरुडं द्विभुजं विधृताञ्जलिम्।
पुष्पांजलिपुटं वाथ सुवर्णाचलसन्निभम् ॥ 234 ॥

मूलम् - 234

पटमध्ये तु गरुडं द्विभुजं विधृताञ्जलिम्।
पुष्पांजलिपुटं वाथ सुवर्णाचलसन्निभम् ॥ 234 ॥

विश्वास-प्रस्तुतिः - 235

गगने गमनारंभपक्षविक्षेपणान्वितम्।
कुञ्चितो वामपादस्तु दक्षिणः पृष्ठतः स्थितः ॥ 235 ॥

मूलम् - 235

गगने गमनारंभपक्षविक्षेपणान्वितम्।
कुञ्चितो वामपादस्तु दक्षिणः पृष्ठतः स्थितः ॥ 235 ॥

विश्वास-प्रस्तुतिः - 236

किंचिदायतवृत्ताक्षं नीलदीर्घाग्रनासिकम्।
अतीव शान्तवेषं तु तथा प्रहसिताननम् ॥ 236 ॥

मूलम् - 236

किंचिदायतवृत्ताक्षं नीलदीर्घाग्रनासिकम्।
अतीव शान्तवेषं तु तथा प्रहसिताननम् ॥ 236 ॥

विश्वास-प्रस्तुतिः - 237

बालचन्द्रसमाकारदंष्ट्राद्वयविराजितम्।
कुटिलभ्रकुटीभंगं भंगुरालकशोभितम् ॥ 237 ॥

मूलम् - 237

बालचन्द्रसमाकारदंष्ट्राद्वयविराजितम्।
कुटिलभ्रकुटीभंगं भंगुरालकशोभितम् ॥ 237 ॥

विश्वास-प्रस्तुतिः - 238

कम्बुग्रीवं बृहद्बाहुं पीनांसं दृढवक्षसम्।
पृथूदरं निम्ननाबिं रोमराजिविराजितम् ॥ 238 ॥

मूलम् - 238

कम्बुग्रीवं बृहद्बाहुं पीनांसं दृढवक्षसम्।
पृथूदरं निम्ननाबिं रोमराजिविराजितम् ॥ 238 ॥

विश्वास-प्रस्तुतिः - 239

सुवृत्तकनकस्तम्भपीवरो रुद्वयान्वितम्।
हेमरंभासमाकारजंघाक्रान्तपदद्बयम् ॥ 239 ॥

मूलम् - 239

सुवृत्तकनकस्तम्भपीवरो रुद्वयान्वितम्।
हेमरंभासमाकारजंघाक्रान्तपदद्बयम् ॥ 239 ॥

विश्वास-प्रस्तुतिः - 240

करण्डमकुटाक्रान्तपुष्पापीडविराजितम्।
वृत्तवैपुल्यमानेन लोचने पझपत्रवत् ॥ 240 ॥

मूलम् - 240

करण्डमकुटाक्रान्तपुष्पापीडविराजितम्।
वृत्तवैपुल्यमानेन लोचने पझपत्रवत् ॥ 240 ॥

विश्वास-प्रस्तुतिः - 241

भ्रूयुग्मं नारसिंहोक्तं घ्राणाग्रं शुकतुण्डवत्।
सिंहवन्मध्यदेशस्तु तद्वंशं गजपृष्ठवत् ॥ 241 ॥

मूलम् - 241

भ्रूयुग्मं नारसिंहोक्तं घ्राणाग्रं शुकतुण्डवत्।
सिंहवन्मध्यदेशस्तु तद्वंशं गजपृष्ठवत् ॥ 241 ॥

विश्वास-प्रस्तुतिः - 242

तदेवं दैवदैर्घ्येण विस्तृतं हंसपक्षवत्।
स्वपक्षमानाद्‌द्विगुणं तत्पुच्छं शतशाखिनम् ॥ 242 ॥

मूलम् - 242

तदेवं दैवदैर्घ्येण विस्तृतं हंसपक्षवत्।
स्वपक्षमानाद्‌द्विगुणं तत्पुच्छं शतशाखिनम् ॥ 242 ॥

विश्वास-प्रस्तुतिः - 243

सर्वेषां विद्धि सामान्यं विशेषाख्यमथोच्यते।
मकुटादिसपादान्तं नानारत्नेन शोभितम् ॥ 243 ॥

मूलम् - 243

सर्वेषां विद्धि सामान्यं विशेषाख्यमथोच्यते।
मकुटादिसपादान्तं नानारत्नेन शोभितम् ॥ 243 ॥

विश्वास-प्रस्तुतिः - 244

हारकेयूरकटकब्रह्नसूत्रविभूषितम्।
प्रलंबकर्णपाशान्तविश्रान्तशुभकुण्डलम् ॥ 244 ॥

मूलम् - 244

हारकेयूरकटकब्रह्नसूत्रविभूषितम्।
प्रलंबकर्णपाशान्तविश्रान्तशुभकुण्डलम् ॥ 244 ॥

विश्वास-प्रस्तुतिः - 245

ललाटतिलकोपेतं पुष्पकर्णावतंसकम्।
रत्नांगुलीयकोपेतं शिंजिनीरंञ्जितांघ्रिकम् ॥ 245 ॥

मूलम् - 245

ललाटतिलकोपेतं पुष्पकर्णावतंसकम्।
रत्नांगुलीयकोपेतं शिंजिनीरंञ्जितांघ्रिकम् ॥ 245 ॥

विश्वास-प्रस्तुतिः - 246

अन्यैराभरणैर्दिव्यैर्भूषितं सर्पभूषणम्।
नीलांबरधरं नीलवारवाणविराजितम् ॥ 246 ॥

मूलम् - 246

अन्यैराभरणैर्दिव्यैर्भूषितं सर्पभूषणम्।
नीलांबरधरं नीलवारवाणविराजितम् ॥ 246 ॥

विश्वास-प्रस्तुतिः - 247

फुल्लरक्तोत्फलदलस्रग्भिर्मण्डितकन्धरम्।
तथाविचित्रकुसुमस्रग्भिरन्याभिरुज्ज्वलम् ॥ 247 ॥

मूलम् - 247

फुल्लरक्तोत्फलदलस्रग्भिर्मण्डितकन्धरम्।
तथाविचित्रकुसुमस्रग्भिरन्याभिरुज्ज्वलम् ॥ 247 ॥

विश्वास-प्रस्तुतिः - 248

अनन्तो वामकटको, यज्ञसूत्रं तु वासुकिः।
तक्षकः कटिसूत्रं तु, हारः कार्कोटकस्तथा ॥ 248 ॥

मूलम् - 248

अनन्तो वामकटको, यज्ञसूत्रं तु वासुकिः।
तक्षकः कटिसूत्रं तु, हारः कार्कोटकस्तथा ॥ 248 ॥

विश्वास-प्रस्तुतिः - 249

पझो, पक्षिणकर्णे तु महापझस्तु वामतः।
शंखः शिरः प्रदेशे तु गुलिकच भूजान्तरे ॥ 249 ॥

मूलम् - 249

पझो, पक्षिणकर्णे तु महापझस्तु वामतः।
शंखः शिरः प्रदेशे तु गुलिकच भूजान्तरे ॥ 249 ॥

विश्वास-प्रस्तुतिः - 250

एतैरष्टोरगैराद्यैर्भूषितं भुजगोत्तमैः।
अनन्तः शुक्लवर्णाभः, रक्तवर्णस्तु वासुकिः ॥ 250 ॥

मूलम् - 250

एतैरष्टोरगैराद्यैर्भूषितं भुजगोत्तमैः।
अनन्तः शुक्लवर्णाभः, रक्तवर्णस्तु वासुकिः ॥ 250 ॥

विश्वास-प्रस्तुतिः - 251

तक्षकः पीतवर्णआभो धूम्रः कार्कोटकस्तथा।
शंखस्तुहिनवर्णाभो गुलिकस्त्वलिसन्निभः ॥ 251 ॥

मूलम् - 251

तक्षकः पीतवर्णआभो धूम्रः कार्कोटकस्तथा।
शंखस्तुहिनवर्णाभो गुलिकस्त्वलिसन्निभः ॥ 251 ॥

विश्वास-प्रस्तुतिः - 252

पझः पझसमानाभो महापझस्तु पिंगलः।
पञ्चवर्णैर्लिखेदेवं देवं पञ्चायुधं तथा ॥ 252 ॥

मूलम् - 252

पझः पझसमानाभो महापझस्तु पिंगलः।
पञ्चवर्णैर्लिखेदेवं देवं पञ्चायुधं तथा ॥ 252 ॥

विश्वास-प्रस्तुतिः - 253

चक्रं खङ्गं शरं चैव शंखं शार्ङ्गं गदां क्रमात्।
पटोर्ध्वे हयुभये पार्श्वे विलिखेच्च यथाविधि ॥ 253 ॥

मूलम् - 253

चक्रं खङ्गं शरं चैव शंखं शार्ङ्गं गदां क्रमात्।
पटोर्ध्वे हयुभये पार्श्वे विलिखेच्च यथाविधि ॥ 253 ॥

विश्वास-प्रस्तुतिः - 254

तदधो दक्षिणे भागे वह्विमण्डलमालिखेत्।
तद्वल्लिखेद्वामभागे स्वस्तिकं लक्षणान्वितम् ॥ 254 ॥

मूलम् - 254

तदधो दक्षिणे भागे वह्विमण्डलमालिखेत्।
तद्वल्लिखेद्वामभागे स्वस्तिकं लक्षणान्वितम् ॥ 254 ॥

विश्वास-प्रस्तुतिः - 255

लेपयेत् पटशेषं तु श्यामलेनासितेन वा।
विचित्रपुष्पसंयुक्तपत्रवल्लीसमन्वितम् ॥ 255 ॥

मूलम् - 255

लेपयेत् पटशेषं तु श्यामलेनासितेन वा।
विचित्रपुष्पसंयुक्तपत्रवल्लीसमन्वितम् ॥ 255 ॥

विश्वास-प्रस्तुतिः - 256

एवं शिल्पिवरेणैव कारयेद्देशिकोत्तमः।
शूद्रेण वा द्विजश्रेष्ठ! दीक्षितेन यथाविधि ॥ 256 ॥

मूलम् - 256

एवं शिल्पिवरेणैव कारयेद्देशिकोत्तमः।
शूद्रेण वा द्विजश्रेष्ठ! दीक्षितेन यथाविधि ॥ 256 ॥

विश्वास-प्रस्तुतिः - 257

कुलालेनाथवा मन्त्री कारयेत् कुशलेन च।
सामान्यलक्षणं ह्येतत् कीर्तितं द्विजसत्तम! ॥ 257 ॥

मूलम् - 257

कुलालेनाथवा मन्त्री कारयेत् कुशलेन च।
सामान्यलक्षणं ह्येतत् कीर्तितं द्विजसत्तम! ॥ 257 ॥

विश्वास-प्रस्तुतिः - 258

अङ्‌गुलादिविभागेन विशेषणवधारय।
अष्टाधिकशतैकांशाद्‌यद्बिंबेंऽगुलमीरितम् ॥ 258 ॥

मूलम् - 258

अङ्‌गुलादिविभागेन विशेषणवधारय।
अष्टाधिकशतैकांशाद्‌यद्बिंबेंऽगुलमीरितम् ॥ 258 ॥

विश्वास-प्रस्तुतिः - 259

तत्रैव मूलबिंबोत्थैरङ्‌गुलैः परिकल्पयेत्।
तद्वाहनस्य मानं तु विभागमवधारय ॥ 259 ॥

मूलम् - 259

तत्रैव मूलबिंबोत्थैरङ्‌गुलैः परिकल्पयेत्।
तद्वाहनस्य मानं तु विभागमवधारय ॥ 259 ॥

विश्वास-प्रस्तुतिः - 260

तस्य बिंबसमुत्थेन तालेन मुखमण्डलम्।
द्व्यंगुलं तु ललाटोर्ध्वं जटाबन्धो द्विलोचनम् ॥ 260 ॥

मूलम् - 260

तस्य बिंबसमुत्थेन तालेन मुखमण्डलम्।
द्व्यंगुलं तु ललाटोर्ध्वं जटाबन्धो द्विलोचनम् ॥ 260 ॥

विश्वास-प्रस्तुतिः - 261

द्व्यंगुलेनोन्नतं कण्ठं उरः पञ्चांगुलं स्मृतम्।
अष्टांगुलं तदुदरं कटिः पञ्चांगुलोन्नता ॥ 261 ॥

मूलम् - 261

द्व्यंगुलेनोन्नतं कण्ठं उरः पञ्चांगुलं स्मृतम्।
अष्टांगुलं तदुदरं कटिः पञ्चांगुलोन्नता ॥ 261 ॥

विश्वास-प्रस्तुतिः - 262

नवांगुलोन्नतावूरू जानुनी द्व्यंगुले स्मृते।
अष्टांगुलोच्छ्रिते जंधे द्व्यंगुले पादपिण्डिके ॥ 262 ॥

मूलम् - 262

नवांगुलोन्नतावूरू जानुनी द्व्यंगुले स्मृते।
अष्टांगुलोच्छ्रिते जंधे द्व्यंगुले पादपिण्डिके ॥ 262 ॥

विश्वास-प्रस्तुतिः - 263

शममेकं कलाहीनं तद्‌ग्रीवायास्च वेष्टनम्।
बिंबतुल्या परिज्ञेया सर्वदास्यांगविस्तृतिः ॥ 263 ॥

मूलम् - 263

शममेकं कलाहीनं तद्‌ग्रीवायास्च वेष्टनम्।
बिंबतुल्या परिज्ञेया सर्वदास्यांगविस्तृतिः ॥ 263 ॥

विश्वास-प्रस्तुतिः - 264

द्विषड्‌भागादिकं विद्धि वेष्टनं ह्युदरस्य वा।
परिधिः कटिदेशस्य चतुर्णेत्राधिकस्तु वै ॥ 264 ॥

मूलम् - 264

द्विषड्‌भागादिकं विद्धि वेष्टनं ह्युदरस्य वा।
परिधिः कटिदेशस्य चतुर्णेत्राधिकस्तु वै ॥ 264 ॥

विश्वास-प्रस्तुतिः - 265

बिंबोक्तसदृशं बिद्धि तदूर्वोमूलवेष्टनम्।
तदेव जंघामध्यस्य जंघानत्स्य तदेव हि ॥ 265 ॥

मूलम् - 265

बिंबोक्तसदृशं बिद्धि तदूर्वोमूलवेष्टनम्।
तदेव जंघामध्यस्य जंघानत्स्य तदेव हि ॥ 265 ॥

विश्वास-प्रस्तुतिः - 266

पादः पञ्चकलायामश्चतुरंगुलविस्तृतः।
त्र्यंगुलं पार्ण्णिदेशाच्चाप्यंगुष्ठौ च कलासमौ ॥ 266 ॥

मूलम् - 266

पादः पञ्चकलायामश्चतुरंगुलविस्तृतः।
त्र्यंगुलं पार्ण्णिदेशाच्चाप्यंगुष्ठौ च कलासमौ ॥ 266 ॥

विश्वास-प्रस्तुतिः - 267

विज्ञेयास्त्वंघ्रिदैर्घ्या(!)यवोनांगुलयः क्रमात्।
नाभिरन्ध्रं सुविस्तीर्णं द्व्यर्धलोचनविस्तृतम् ॥ 267 ॥

मूलम् - 267

विज्ञेयास्त्वंघ्रिदैर्घ्या(!)यवोनांगुलयः क्रमात्।
नाभिरन्ध्रं सुविस्तीर्णं द्व्यर्धलोचनविस्तृतम् ॥ 267 ॥

विश्वास-प्रस्तुतिः - 268

तद्वाहुमस्तकं विद्धि उच्छ्रायेण द्विलोचनम्।
भुजोपभुजयुग्मं यत् तद्‌द्वितालसमं स्मृतम् ॥ 268 ॥

मूलम् - 268

तद्वाहुमस्तकं विद्धि उच्छ्रायेण द्विलोचनम्।
भुजोपभुजयुग्मं यत् तद्‌द्वितालसमं स्मृतम् ॥ 268 ॥

विश्वास-प्रस्तुतिः - 269

मध्यमांगुलिपर्यन्तं मणिबन्धान्नवांगुलम्।
त्रिकलः पाणिविस्तारस्तन्नखा निशितोन्नताः ॥ 269 ॥

मूलम् - 269

मध्यमांगुलिपर्यन्तं मणिबन्धान्नवांगुलम्।
त्रिकलः पाणिविस्तारस्तन्नखा निशितोन्नताः ॥ 269 ॥

विश्वास-प्रस्तुतिः - 270

कलार्धेनाधिकं बाहोस्तदर्धं बाहुवेष्टनम्।
बिंबोक्तांशद्वयेनैव स्तनभूर्लोचनेन तु ॥ 270 ॥

मूलम् - 270

कलार्धेनाधिकं बाहोस्तदर्धं बाहुवेष्टनम्।
बिंबोक्तांशद्वयेनैव स्तनभूर्लोचनेन तु ॥ 270 ॥

विश्वास-प्रस्तुतिः - 271

वृत्तवैपुल्यमानेन लोचने पझपत्रवत्।
भ्रूयुग्मं नारसिंहोक्तं घ्राणाग्रं शुकचञ्चुवत् ॥ 271 ॥

मूलम् - 271

वृत्तवैपुल्यमानेन लोचने पझपत्रवत्।
भ्रूयुग्मं नारसिंहोक्तं घ्राणाग्रं शुकचञ्चुवत् ॥ 271 ॥

विश्वास-प्रस्तुतिः - 272

कलार्धमानदीर्धं च तद्वंशं गजपृष्ठवत्।
स्वायामदीर्धं तत्पक्षयुगलं कुक्षिदेशगम् ॥ 272 ॥

मूलम् - 272

कलार्धमानदीर्धं च तद्वंशं गजपृष्ठवत्।
स्वायामदीर्धं तत्पक्षयुगलं कुक्षिदेशगम् ॥ 272 ॥

विश्वास-प्रस्तुतिः - 273

तदेव दैर्घ्यादर्धेन विस्तृतं हंसपक्षवत्।
स्वपक्षमानाद्‌द्विगुणं तत्पुच्छं शतशाखिनः (खकम्) ॥ 273 ॥

मूलम् - 273

तदेव दैर्घ्यादर्धेन विस्तृतं हंसपक्षवत्।
स्वपक्षमानाद्‌द्विगुणं तत्पुच्छं शतशाखिनः (खकम्) ॥ 273 ॥

विश्वास-प्रस्तुतिः - 274

सपक्षमेवमायामं सात्यं त्ववयबान्वितम्।
सर्वेषां विद्धि सामान्यं विशेषाख्यमथोच्यते ॥ 274 ॥

मूलम् - 274

सपक्षमेवमायामं सात्यं त्ववयबान्वितम्।
सर्वेषां विद्धि सामान्यं विशेषाख्यमथोच्यते ॥ 274 ॥

विश्वास-प्रस्तुतिः - 275

ऊरु, द्वयान्नयेद्‌ध्रासमङ्‌गुलानां त्रयं तथा।
जंघाकाण्डोच्छ्रितेः कुर्याज्जङ्‌घाभ्यां चात्र वेष्टनम् ॥ 275 ॥

मूलम् - 275

ऊरु, द्वयान्नयेद्‌ध्रासमङ्‌गुलानां त्रयं तथा।
जंघाकाण्डोच्छ्रितेः कुर्याज्जङ्‌घाभ्यां चात्र वेष्टनम् ॥ 275 ॥

विश्वास-प्रस्तुतिः - 276

बिंबाख्यमणिबन्धस्य समं मूलान्महामते!।
जंघादेशात्तदर्देन सह चार्धाङ्‌गुलेन तु ॥ 276 ॥

मूलम् - 276

बिंबाख्यमणिबन्धस्य समं मूलान्महामते!।
जंघादेशात्तदर्देन सह चार्धाङ्‌गुलेन तु ॥ 276 ॥

विश्वास-प्रस्तुतिः - 277

पादे जालं परिज्ञेयं विस्तारेण षडंगुलम्।
शेषं सत्योदित्तं सर्वं सर्वेषां विद्धि सर्वदा ॥ 277 ॥

मूलम् - 277

पादे जालं परिज्ञेयं विस्तारेण षडंगुलम्।
शेषं सत्योदित्तं सर्वं सर्वेषां विद्धि सर्वदा ॥ 277 ॥

विश्वास-प्रस्तुतिः - 278

किन्तु पादोत्थितौ पक्षौ दैर्घ्यात्तद्दलविस्तृतौ।
एषां चोड्डीयमानानां सायामा पक्षविस्तृतिः ॥ 278 ॥

मूलम् - 278

किन्तु पादोत्थितौ पक्षौ दैर्घ्यात्तद्दलविस्तृतौ।
एषां चोड्डीयमानानां सायामा पक्षविस्तृतिः ॥ 278 ॥

विश्वास-प्रस्तुतिः - 279

पञ्चानां च परिज्ञेया स्थितानामर्धलक्षणा।
पटे तु लिख्यमाने तु पक्षदैर्घ्यं तु पार्श्वयोः ॥ 279 ॥

मूलम् - 279

पञ्चानां च परिज्ञेया स्थितानामर्धलक्षणा।
पटे तु लिख्यमाने तु पक्षदैर्घ्यं तु पार्श्वयोः ॥ 279 ॥

विश्वास-प्रस्तुतिः - 280

यावत् पटसमाप्तिः स्यात् पक्षास्त्वग्रसमन्विताः।
संख्याताः संख्यया विप्र! पच्च सप्ताद्ययुग्मया ॥ 280 ॥

मूलम् - 280

यावत् पटसमाप्तिः स्यात् पक्षास्त्वग्रसमन्विताः।
संख्याताः संख्यया विप्र! पच्च सप्ताद्ययुग्मया ॥ 280 ॥

विश्वास-प्रस्तुतिः - 281

यद्वा बिंबोक्तमार्गेण अष्टोत्तरशतांगुलैः।
सत्यादीनां तु पच्चानां अंगप्रत्यंगकल्पना ॥ 281 ॥

मूलम् - 281

यद्वा बिंबोक्तमार्गेण अष्टोत्तरशतांगुलैः।
सत्यादीनां तु पच्चानां अंगप्रत्यंगकल्पना ॥ 281 ॥

विश्वास-प्रस्तुतिः - 282

यद्वा मध्यांगुलैर्मध्यपर्वदैर्ध्यसमुत्थितैः।
देशिकीयैरंगुलैस्तु सनैरष्टाभिरेव च ॥ 282 ॥

मूलम् - 282

यद्वा मध्यांगुलैर्मध्यपर्वदैर्ध्यसमुत्थितैः।
देशिकीयैरंगुलैस्तु सनैरष्टाभिरेव च ॥ 282 ॥

विश्वास-प्रस्तुतिः - 283

सत्यादीनां तु पञ्चानां मानं कुर्यात्तु देशिकः।
मूलबिंबस्य बाह्वन्तो नाभ्यन्तो वा तदुच्छ्रयः ॥ 283 ॥

मूलम् - 283

सत्यादीनां तु पञ्चानां मानं कुर्यात्तु देशिकः।
मूलबिंबस्य बाह्वन्तो नाभ्यन्तो वा तदुच्छ्रयः ॥ 283 ॥

विश्वास-प्रस्तुतिः - 284

मानमेतत्तु कथितमुन्मानमवधारय।
गरुडस्य पटस्थस्य सत्यादीनां तथा यदा ॥ 284 ॥

मूलम् - 284

मानमेतत्तु कथितमुन्मानमवधारय।
गरुडस्य पटस्थस्य सत्यादीनां तथा यदा ॥ 284 ॥

विश्वास-प्रस्तुतिः - 285

मद्यमांगुलमद्यस्थदीर्घपर्वेण कल्पयेत्।
देशिखीयेन मानं तु अष्टोत्तरशतांगु लैः ॥ 285 ॥

मूलम् - 285

मद्यमांगुलमद्यस्थदीर्घपर्वेण कल्पयेत्।
देशिखीयेन मानं तु अष्टोत्तरशतांगु लैः ॥ 285 ॥

विश्वास-प्रस्तुतिः - 286

शिरःप्रभृति पादान्तं तदाचोन्मानमुच्यते।
अंगुलत्रितयं मूर्घ्नि मुखं षड्‌गोलकं भवेत् ॥ 286 ॥

मूलम् - 286

शिरःप्रभृति पादान्तं तदाचोन्मानमुच्यते।
अंगुलत्रितयं मूर्घ्नि मुखं षड्‌गोलकं भवेत् ॥ 286 ॥

विश्वास-प्रस्तुतिः - 287

कण्ठं त्र्यंगुलमानं स्यात् तदधो द्वादशांगुलम्।
स्तनान्तरं समारभ्य नाभ्यन्तं षट्‌कलं भवेत् ॥ 287 ॥

मूलम् - 287

कण्ठं त्र्यंगुलमानं स्यात् तदधो द्वादशांगुलम्।
स्तनान्तरं समारभ्य नाभ्यन्तं षट्‌कलं भवेत् ॥ 287 ॥

विश्वास-प्रस्तुतिः - 288

तदधः कटिपर्यन्तं भवेदंगुलपञ्चकम्।
तदधो योनिपर्यन्तं अंगुलानां च सप्तकम् ॥ 288 ॥

मूलम् - 288

तदधः कटिपर्यन्तं भवेदंगुलपञ्चकम्।
तदधो योनिपर्यन्तं अंगुलानां च सप्तकम् ॥ 288 ॥

विश्वास-प्रस्तुतिः - 289

जान्वन्तं द्वादशकलं त्र्यंगुलं जानुमण्डलम्।
तदधो गुल्फकान्तं तु भवेद्‌द्वादशगोलकम् ॥ 289 ॥

मूलम् - 289

जान्वन्तं द्वादशकलं त्र्यंगुलं जानुमण्डलम्।
तदधो गुल्फकान्तं तु भवेद्‌द्वादशगोलकम् ॥ 289 ॥

विश्वास-प्रस्तुतिः - 290

त्र्यंगुलं गुल्फमानं स्यात् प्रमाणं क्रमतः श्रृणु।
मुखभागे।़क्षिसूत्रान्तं उपरिष्टाद्‌द्विगोलकम् ॥ 290 ॥

मूलम् - 290

त्र्यंगुलं गुल्फमानं स्यात् प्रमाणं क्रमतः श्रृणु।
मुखभागे।़क्षिसूत्रान्तं उपरिष्टाद्‌द्विगोलकम् ॥ 290 ॥

विश्वास-प्रस्तुतिः - 291

तथा नासापुटान्तं च चिबुकान्तं तथैव च।
षट्‌कलः कर्णसूत्रान्तं मध्यतो मुखविस्तरः ॥ 291 ॥

मूलम् - 291

तथा नासापुटान्तं च चिबुकान्तं तथैव च।
षट्‌कलः कर्णसूत्रान्तं मध्यतो मुखविस्तरः ॥ 291 ॥

विश्वास-प्रस्तुतिः - 292

नवांगुलो ह्यधोभागे ललाटांशे दशांगुलिः।
केशभ्रूरेखयोर्मध्यमेकांगुलमिदं भवेत् ॥ 292 ॥

मूलम् - 292

नवांगुलो ह्यधोभागे ललाटांशे दशांगुलिः।
केशभ्रूरेखयोर्मध्यमेकांगुलमिदं भवेत् ॥ 292 ॥

विश्वास-प्रस्तुतिः - 293

अक्षिभ्रुवोरन्तरं स्यात् सपादांगुलिविस्तरम्।
नेत्रायामस्तु पादोनमंगुलत्रितयं भवेत् ॥ 293 ॥

मूलम् - 293

अक्षिभ्रुवोरन्तरं स्यात् सपादांगुलिविस्तरम्।
नेत्रायामस्तु पादोनमंगुलत्रितयं भवेत् ॥ 293 ॥

विश्वास-प्रस्तुतिः - 294

तद्विस्तारस्तु पादोनमंगुलिद्वितयं भवेत्।
एकांगुलं तारकं स्यान्नासाया मूलविस्तरः ॥ 294 ॥

मूलम् - 294

तद्विस्तारस्तु पादोनमंगुलिद्वितयं भवेत्।
एकांगुलं तारकं स्यान्नासाया मूलविस्तरः ॥ 294 ॥

विश्वास-प्रस्तुतिः - 295

द्व्यंगुलं मध्यतः सांशं तत् त्र्यंगुलमधो भवेत्।
तदग्रायाम एकः स्यात् तदर्धं विस्तृतिर्भवेत् ॥ 295 ॥

मूलम् - 295

द्व्यंगुलं मध्यतः सांशं तत् त्र्यंगुलमधो भवेत्।
तदग्रायाम एकः स्यात् तदर्धं विस्तृतिर्भवेत् ॥ 295 ॥

विश्वास-प्रस्तुतिः - 296

आस्यायामो द्विगोलः स्यात् तद्विस्तारोंऽगुलो भवेत्।
साधरोष्ठं तदोष्ठं स्याद्‌व्यायामो द्व्यंगुलं भवेत् ॥ 296 ॥

मूलम् - 296

आस्यायामो द्विगोलः स्यात् तद्विस्तारोंऽगुलो भवेत्।
साधरोष्ठं तदोष्ठं स्याद्‌व्यायामो द्व्यंगुलं भवेत् ॥ 296 ॥

विश्वास-प्रस्तुतिः - 297

सपादो दंष्ट्रयोर्मघ्ये तयोरायाम ईरितः।
सपादमंगुलं विप्र! विस्तारोथांगुलो भवेत् ॥ 297 ॥

मूलम् - 297

सपादो दंष्ट्रयोर्मघ्ये तयोरायाम ईरितः।
सपादमंगुलं विप्र! विस्तारोथांगुलो भवेत् ॥ 297 ॥

विश्वास-प्रस्तुतिः - 298

मूलदेशे तयोरग्रौ शितौ चन्द्रदलाग्रवत्।
पंचांगुलं कण्ठदैर्घ्यं विस्तारो गोलकं भवेत् ॥ 298 ॥

मूलम् - 298

मूलदेशे तयोरग्रौ शितौ चन्द्रदलाग्रवत्।
पंचांगुलं कण्ठदैर्घ्यं विस्तारो गोलकं भवेत् ॥ 298 ॥

विश्वास-प्रस्तुतिः - 299

पडंगुलं पाददैर्त्र्यं कर्णआधारश्चतुष्कलः।
सार्धांगुलः स्यात्तदधोवक्षः पीठोर्ध्वदेशतः ॥ 299 ॥

मूलम् - 299

पडंगुलं पाददैर्त्र्यं कर्णआधारश्चतुष्कलः।
सार्धांगुलः स्यात्तदधोवक्षः पीठोर्ध्वदेशतः ॥ 299 ॥

विश्वास-प्रस्तुतिः - 300

अष्टादशकलस्तारो बाहुव्यासावधि द्विज!।
तदधः कक्षपर्यन्तं तारो द्वादशगोलकः ॥ 300 ॥

मूलम् - 300

अष्टादशकलस्तारो बाहुव्यासावधि द्विज!।
तदधः कक्षपर्यन्तं तारो द्वादशगोलकः ॥ 300 ॥

विश्वास-प्रस्तुतिः - 301

तदधोभागविस्तारः सांगुलं नवगोलकम्।
उदरस्य तु विस्तार एकविंशांगुलो भवेत् ॥ 301 ॥

मूलम् - 301

तदधोभागविस्तारः सांगुलं नवगोलकम्।
उदरस्य तु विस्तार एकविंशांगुलो भवेत् ॥ 301 ॥

विश्वास-प्रस्तुतिः - 302

तत्रैकांगुलिसन्नाहं नाभिवृत्तं सुशोभनम्।
श्रोणीभागस्य विस्तारः सांगुलं नवगोलकम् ॥ 302 ॥

मूलम् - 302

तत्रैकांगुलिसन्नाहं नाभिवृत्तं सुशोभनम्।
श्रोणीभागस्य विस्तारः सांगुलं नवगोलकम् ॥ 302 ॥

विश्वास-प्रस्तुतिः - 303

ऊरुमूलस्य विस्तारस्त्रयोदशांगुलो भवेत्।
तन्मध्ये विस्तृतिर्विप्र! द्वादशांगुलसम्मिता ॥ 303 ॥

मूलम् - 303

ऊरुमूलस्य विस्तारस्त्रयोदशांगुलो भवेत्।
तन्मध्ये विस्तृतिर्विप्र! द्वादशांगुलसम्मिता ॥ 303 ॥

विश्वास-प्रस्तुतिः - 304

सप्तांगुलमुपस्थं स्यात् त्रिकला जानुविस्तृतिः।
अधः पञ्चांगुलं सार्धं पद्दैर्ध्यं सप्तगोलकम् ॥ 304 ॥

मूलम् - 304

सप्तांगुलमुपस्थं स्यात् त्रिकला जानुविस्तृतिः।
अधः पञ्चांगुलं सार्धं पद्दैर्ध्यं सप्तगोलकम् ॥ 304 ॥

विश्वास-प्रस्तुतिः - 305

अङ्‌गुष्ठाग्रावधिर्यावत् पार्प्ण्योः प्रभृति तत्र तत्।
अङ्‌गुष्ठं त्र्यंगुलं सार्धं अन्या अंगुलयः क्रमात् ॥ 305 ॥

मूलम् - 305

विश्वास-प्रस्तुतिः - 306

अङ्‌गुलाष्टांशहीनाः स्युः, अंगुष्ठस्य तु विस्तृतिः।
सार्धांगुला तदन्यासां क्रमान्न्यूना तु पूर्ववत् ॥ 306 ॥

मूलम् - 306

अङ्‌गुलाष्टांशहीनाः स्युः, अंगुष्ठस्य तु विस्तृतिः।
सार्धांगुला तदन्यासां क्रमान्न्यूना तु पूर्ववत् ॥ 306 ॥

विश्वास-प्रस्तुतिः - 307

अंगुष्ठनखदैर्व्यं तु सांशमेकाङ्‌गुलं भवेत्।
तद्विस्तारस्त्रिपादः स्यात् तदन्या ह्रासयेत् क्रमात् ॥ 307 ॥

मूलम् - 307

अंगुष्ठनखदैर्व्यं तु सांशमेकाङ्‌गुलं भवेत्।
तद्विस्तारस्त्रिपादः स्यात् तदन्या ह्रासयेत् क्रमात् ॥ 307 ॥

विश्वास-प्रस्तुतिः - 308

कनीयो नखदैर्व्यं तु यदा चार्धांगुलं भवेत्।
तद्विस्तारस्तदर्धं स्यादंगुलीमूलदेशतः ॥ 308 ॥

मूलम् - 308

कनीयो नखदैर्व्यं तु यदा चार्धांगुलं भवेत्।
तद्विस्तारस्तदर्धं स्यादंगुलीमूलदेशतः ॥ 308 ॥

विश्वास-प्रस्तुतिः - 309

चरणस्य तु विस्तारः सार्धपञ्चांगुलो भवेत्।
पञ्च मध्ये पार्ष्णिभागे सार्धं तु चतुरंगुलम् ॥ 309 ॥

मूलम् - 309

चरणस्य तु विस्तारः सार्धपञ्चांगुलो भवेत्।
पञ्च मध्ये पार्ष्णिभागे सार्धं तु चतुरंगुलम् ॥ 309 ॥

विश्वास-प्रस्तुतिः - 310

शाखापार्श्वे तदुच्छ्रायस्त्र्यंगुलं परिकीर्तितम्।
मध्यतस्तद्भवेत् सार्धं भुजयोरथ तच्छृणु ॥ 310 ॥

मूलम् - 310

शाखापार्श्वे तदुच्छ्रायस्त्र्यंगुलं परिकीर्तितम्।
मध्यतस्तद्भवेत् सार्धं भुजयोरथ तच्छृणु ॥ 310 ॥

विश्वास-प्रस्तुतिः - 311

स्कन्धाग्रात् कूपरान्तं च चतुर्विंशाङगुलो भबेत्।
भुजायामोस्य मूलस्य विस्तारः स्यात् षडंगुलम् ॥ 311 ॥

मूलम् - 311

स्कन्धाग्रात् कूपरान्तं च चतुर्विंशाङगुलो भबेत्।
भुजायामोस्य मूलस्य विस्तारः स्यात् षडंगुलम् ॥ 311 ॥

विश्वास-प्रस्तुतिः - 312

तदधः पञ्चकं सार्धं कूर्परान्नवगोलकम्।
मणिबन्धावसानं स्याद्दैर्घ्यं कूर्परविस्तृतिः ॥ 312 ॥

मूलम् - 312

तदधः पञ्चकं सार्धं कूर्परान्नवगोलकम्।
मणिबन्धावसानं स्याद्दैर्घ्यं कूर्परविस्तृतिः ॥ 312 ॥

विश्वास-प्रस्तुतिः - 313

सार्धं षडङगुलं विप्र! मणिबन्धादिकं भवेत्।
अंगुलत्रयविस्तारं कराग्रं षट्‌कलायतम् ॥ 313 ॥

मूलम् - 313

सार्धं षडङगुलं विप्र! मणिबन्धादिकं भवेत्।
अंगुलत्रयविस्तारं कराग्रं षट्‌कलायतम् ॥ 313 ॥

विश्वास-प्रस्तुतिः - 314

विस्तारो द्विकलः प्रेक्तो वामे तु द्व्यंगुलं भवेत्।
दृश्यं तिरोहितं चान्यद्‌द्वयं दक्षकरे तु वै ॥ 314 ॥

मूलम् - 314

विस्तारो द्विकलः प्रेक्तो वामे तु द्व्यंगुलं भवेत्।
दृश्यं तिरोहितं चान्यद्‌द्वयं दक्षकरे तु वै ॥ 314 ॥

विश्वास-प्रस्तुतिः - 315

मध्यमाङ्‌गुलदैर्घ्यं तु पञ्चांगुलविनिमितम्।
अनामितर्जनीन्युनशाखानां तु क्रमेण तु ॥ 315 ॥

मूलम् - 315

मध्यमाङ्‌गुलदैर्घ्यं तु पञ्चांगुलविनिमितम्।
अनामितर्जनीन्युनशाखानां तु क्रमेण तु ॥ 315 ॥

विश्वास-प्रस्तुतिः - 316

अर्धार्धाङगुलहीनं स्यादंगुलं मध्यमार्धकम्।
मध्यमाङष्ठयोस्तारः सार्धमेकाङ्‌लं भवेत् ॥ 316 ॥

मूलम् - 316

अर्धार्धाङगुलहीनं स्यादंगुलं मध्यमार्धकम्।
मध्यमाङष्ठयोस्तारः सार्धमेकाङ्‌लं भवेत् ॥ 316 ॥

विश्वास-प्रस्तुतिः - 317

तर्जन्यनामयोरेकं कनीयस्यास्त्रिपादकम्।
सार्धांगुलं नखायामं तदर्धं विस्तृतिर्भदेत् ॥ 317 ॥

मूलम् - 317

तर्जन्यनामयोरेकं कनीयस्यास्त्रिपादकम्।
सार्धांगुलं नखायामं तदर्धं विस्तृतिर्भदेत् ॥ 317 ॥

विश्वास-प्रस्तुतिः - 318

मकुटस्योच्छ्रयो विप्र! भवेदष्टादशांगुलः।
तन्मूलविस्तृतिर्विप्र! षोडशांगुलसम्मिता ॥ 318 ॥

मूलम् - 318

मकुटस्योच्छ्रयो विप्र! भवेदष्टादशांगुलः।
तन्मूलविस्तृतिर्विप्र! षोडशांगुलसम्मिता ॥ 318 ॥

विश्वास-प्रस्तुतिः - 319

ष्‌टकला मध्यतो ज्ञेया अग्रतस्त्रिकला भवेत्।
शिखामणेः समुच्छ्रायं कल्पयेत् सार्धमङ्‌लम् ॥ 319 ॥

मूलम् - 319

ष्‌टकला मध्यतो ज्ञेया अग्रतस्त्रिकला भवेत्।
शिखामणेः समुच्छ्रायं कल्पयेत् सार्धमङ्‌लम् ॥ 319 ॥

विश्वास-प्रस्तुतिः - 320

विस्तारः स्यात् सपादस्तत्पक्षयाणं त्रितालकम्।
यद्वा पटावसानं स्याद्यथाशोभानुरूपतः ॥ 320 ॥

मूलम् - 320

विस्तारः स्यात् सपादस्तत्पक्षयाणं त्रितालकम्।
यद्वा पटावसानं स्याद्यथाशोभानुरूपतः ॥ 320 ॥

विश्वास-प्रस्तुतिः - 321

एकैकपक्षतिस्तारं त्र्यंगुलं त्र्यंगुलं भवेत्।
नागानामास्यदैर्घ्यं तु साधमेकाङ्‌गुलं भवेत् ॥ 321 ॥

मूलम् - 321

एकैकपक्षतिस्तारं त्र्यंगुलं त्र्यंगुलं भवेत्।
नागानामास्यदैर्घ्यं तु साधमेकाङ्‌गुलं भवेत् ॥ 321 ॥

विश्वास-प्रस्तुतिः - 322

तद्विस्तारोङगुलं विप्र! तत्सरोङगुलविस्तृतिः।
द्व्यंगुलं तदधस्तात् स्यात् वालमर्धांगुलं तथा ॥ 322 ॥

मूलम् - 322

तद्विस्तारोङगुलं विप्र! तत्सरोङगुलविस्तृतिः।
द्व्यंगुलं तदधस्तात् स्यात् वालमर्धांगुलं तथा ॥ 322 ॥

विश्वास-प्रस्तुतिः - 323

यथा क्रमेण हीनः स्यान्नागानां भोगविस्तरः।
अनन्तस्य प्रधानस्य दैर्घ्यं द्व्यंगुलसम्मितम् ॥ 323 ॥

मूलम् - 323

यथा क्रमेण हीनः स्यान्नागानां भोगविस्तरः।
अनन्तस्य प्रधानस्य दैर्घ्यं द्व्यंगुलसम्मितम् ॥ 323 ॥

विश्वास-प्रस्तुतिः - 324

तत्तारः सार्धमेकं स्याद्‌द्वयं तद्गलविस्तरः।
तदधो द्वितयं सार्धं शीर्षाणीतरनागवत् ॥ 324 ॥

मूलम् - 324

तत्तारः सार्धमेकं स्याद्‌द्वयं तद्गलविस्तरः।
तदधो द्वितयं सार्धं शीर्षाणीतरनागवत् ॥ 324 ॥

विश्वास-प्रस्तुतिः - 325

वालाग्रमेकविस्तारं यथा स्यात् कल्पयेत् तथा।
नागाना भोगदैघ्यस्य मानं कुर्याद्यथारुचि ॥ 325 ॥

मूलम् - 325

वालाग्रमेकविस्तारं यथा स्यात् कल्पयेत् तथा।
नागाना भोगदैघ्यस्य मानं कुर्याद्यथारुचि ॥ 325 ॥

विश्वास-प्रस्तुतिः - 326

दैर्घ्यं विष्टरपझस्य पञ्चाशच्चतुरंगुलम्।
षड्‌गोलकस्तद्विस्तारः कर्णिकायाः समायतिः ॥ 326 ॥

मूलम् - 326

विश्वास-प्रस्तुतिः - 327

एकविंशत् कलाःप्रोक्तास्तद्विस्तारस्त्रिगोलकः।
अन्यच्च वैनतेयस्य मानं यद्यत् प्रकल्पितम् ॥ 327 ॥

मूलम् - 327

एकविंशत् कलाःप्रोक्तास्तद्विस्तारस्त्रिगोलकः।
अन्यच्च वैनतेयस्य मानं यद्यत् प्रकल्पितम् ॥ 327 ॥

विश्वास-प्रस्तुतिः - 328

सुसमं यद्विभक्तव्यमष्टोत्तरशतांगुलम्।
प्राग्वत् तदंगुलं कृत्वा उन्मानाद्यं प्रकल्पयेत् ॥ 328 ॥

मूलम् - 328

सुसमं यद्विभक्तव्यमष्टोत्तरशतांगुलम्।
प्राग्वत् तदंगुलं कृत्वा उन्मानाद्यं प्रकल्पयेत् ॥ 328 ॥

विश्वास-प्रस्तुतिः - 329

तदंगुलानुसारेण नागाद्यं चापि कल्पयेत्।
आद्यपक्षे तु नागाद्यं कुर्यादाद्यानुसारतः ॥ 329 ॥

मूलम् - 329

तदंगुलानुसारेण नागाद्यं चापि कल्पयेत्।
आद्यपक्षे तु नागाद्यं कुर्यादाद्यानुसारतः ॥ 329 ॥

विश्वास-प्रस्तुतिः - 330

पञ्चांगभूषणायुक्तं वस्त्रस्रग्गन्धवासितम्।
एवं सर्वं समापाद्य देशिकःसुसमाहितः ॥ 330 ॥

मूलम् - 330

पञ्चांगभूषणायुक्तं वस्त्रस्रग्गन्धवासितम्।
एवं सर्वं समापाद्य देशिकःसुसमाहितः ॥ 330 ॥

विश्वास-प्रस्तुतिः - 331

ध्वजारोहणनक्षत्रात् पूर्वेद्युश्च निशामुखे।
प्रयायात् कर्मशालां च सहितो मूर्तिधारकैः ॥ 331 ॥

मूलम् - 331

ध्वजारोहणनक्षत्रात् पूर्वेद्युश्च निशामुखे।
प्रयायात् कर्मशालां च सहितो मूर्तिधारकैः ॥ 331 ॥

विश्वास-प्रस्तुतिः - 332

लिखितं पटमालोक्य लक्षणं सुपरीक्ष्य च।
शंखदुन्दुभिनिर्घोषैः काहलध्वनिभिस्तथा ॥ 332 ॥

मूलम् - 332

लिखितं पटमालोक्य लक्षणं सुपरीक्ष्य च।
शंखदुन्दुभिनिर्घोषैः काहलध्वनिभिस्तथा ॥ 332 ॥

विश्वास-प्रस्तुतिः - 333

गीतैश्च विविधै रम्यैः श्रुतिघोषैः पृथग्विधैः।
सहध्वजपटं तस्मादानयेन्मुखमण्टपे ॥ 333 ॥

मूलम् - 333

गीतैश्च विविधै रम्यैः श्रुतिघोषैः पृथग्विधैः।
सहध्वजपटं तस्मादानयेन्मुखमण्टपे ॥ 333 ॥

विश्वास-प्रस्तुतिः - 334

प्रविश्याभ्यन्तरं मूलविंबस्थं परमेश्वरम्।
अभिवाद्यार्घ्यगन्धाद्यैः पूजेयत् पुष्पधूपकैः ॥ 334 ॥

मूलम् - 334

प्रविश्याभ्यन्तरं मूलविंबस्थं परमेश्वरम्।
अभिवाद्यार्घ्यगन्धाद्यैः पूजेयत् पुष्पधूपकैः ॥ 334 ॥

विश्वास-प्रस्तुतिः - 335

विसृज्य शिल्पिनं पश्चात् संप्रोक्ष्यार्ध्यांभसा पटम्।
सिद्धार्थकान्वितैः पुष्पैः ताडयेदस्त्रमन्त्रितैः ॥ 335 ॥

मूलम् - 335

विसृज्य शिल्पिनं पश्चात् संप्रोक्ष्यार्ध्यांभसा पटम्।
सिद्धार्थकान्वितैः पुष्पैः ताडयेदस्त्रमन्त्रितैः ॥ 335 ॥

विश्वास-प्रस्तुतिः - 326

दर्शयेद्देवदेवस्य सम्मुखं साधकोत्तमः।
दहनाप्यायनं कुर्यात् विधिदृष्टेन कर्मणा ॥ 326 ॥

मूलम् - 326

दर्शयेद्देवदेवस्य सम्मुखं साधकोत्तमः।
दहनाप्यायनं कुर्यात् विधिदृष्टेन कर्मणा ॥ 326 ॥

विश्वास-प्रस्तुतिः - 337

भूयोर्ध्यगन्धपुष्पाद्यैः प्रपूज्य परमेश्वरम्।
गिरोच्चया त्विमं मन्त्रं बद्धांजलिकरः पठेत् ॥ 337 ॥

मूलम् - 337

भूयोर्ध्यगन्धपुष्पाद्यैः प्रपूज्य परमेश्वरम्।
गिरोच्चया त्विमं मन्त्रं बद्धांजलिकरः पठेत् ॥ 337 ॥

विश्वास-प्रस्तुतिः - 338

“भगवन्! पुण्डरीकाक्ष! सर्वेश्वर! जगन्मय!।
त्वया यथा तु कथितं तथा कर्तुं न शक्यते ॥ 338 ॥

मूलम् - 338

“भगवन्! पुण्डरीकाक्ष! सर्वेश्वर! जगन्मय!।
त्वया यथा तु कथितं तथा कर्तुं न शक्यते ॥ 338 ॥

विश्वास-प्रस्तुतिः - 339

अस्वातन्त्र्यादसामर्थ्यात् श्रद्धादीनामभावतः।
तस्मान्मानादिसर्वेषां न्यूनाधिक्योपशान्तये ॥ 339 ॥

मूलम् - 339

अस्वातन्त्र्यादसामर्थ्यात् श्रद्धादीनामभावतः।
तस्मान्मानादिसर्वेषां न्यूनाधिक्योपशान्तये ॥ 339 ॥

विश्वास-प्रस्तुतिः - 340

समालोकय नेत्राम्यां शीतलाभ्यां पटस्थितम्।
सर्वदोषापहारिभ्यां वैनतेयं प्रसीद ओम्” ॥ 340 ॥

मूलम् - 340

समालोकय नेत्राम्यां शीतलाभ्यां पटस्थितम्।
सर्वदोषापहारिभ्यां वैनतेयं प्रसीद ओम्” ॥ 340 ॥

विश्वास-प्रस्तुतिः - 341

दीक्षितानां ततो विप्र! हस्ते दत्वा तु तं पटम्।
चतुः प्रदक्षिणीकृत्य तेन सार्धं तु देशिकः ॥ 341 ॥

मूलम् - 341

दीक्षितानां ततो विप्र! हस्ते दत्वा तु तं पटम्।
चतुः प्रदक्षिणीकृत्य तेन सार्धं तु देशिकः ॥ 341 ॥

विश्वास-प्रस्तुतिः - 342

प्रथमावरणे वापि द्वितीयावरणेपि वा।
प्रविशेद्यजमानेन प्रासादाग्रस्थमण्डपम् ॥ 342 ॥

मूलम् - 342

प्रथमावरणे वापि द्वितीयावरणेपि वा।
प्रविशेद्यजमानेन प्रासादाग्रस्थमण्डपम् ॥ 342 ॥

विश्वास-प्रस्तुतिः - 343

तत्र न्यस्त्वा भद्रफीठं तदूर्ध्वे शालितण्डुलैः।
वेदिं कृत्वा तु तत्पृष्ठे भद्राख्यं मण्डलं लिखेत् ॥ 343 ॥

मूलम् - 343

तत्र न्यस्त्वा भद्रफीठं तदूर्ध्वे शालितण्डुलैः।
वेदिं कृत्वा तु तत्पृष्ठे भद्राख्यं मण्डलं लिखेत् ॥ 343 ॥

विश्वास-प्रस्तुतिः - 344

विभवे सति वस्त्रं तु समास्तीर्य तदूर्ध्वतः।
तिलराशिं समुत्कीर्य तन्मध्ये स्वस्तिकं लिखेत् ॥ 344 ॥

मूलम् - 344

विभवे सति वस्त्रं तु समास्तीर्य तदूर्ध्वतः।
तिलराशिं समुत्कीर्य तन्मध्ये स्वस्तिकं लिखेत् ॥ 344 ॥

विश्वास-प्रस्तुतिः - 345

तस्योपरिष्टात् संस्थाप्य प्रासादाभिमुखं पटम्।
उपविश्यासने पश्चादाचार्यः सुसमाहितः ॥ 345 ॥

मूलम् - 345

तस्योपरिष्टात् संस्थाप्य प्रासादाभिमुखं पटम्।
उपविश्यासने पश्चादाचार्यः सुसमाहितः ॥ 345 ॥

विश्वास-प्रस्तुतिः - 346

करशुद्ध्यादि पूर्वोक्तं स्वदेहार्चनपश्चिमम्।
सर्वं खगेशमन्त्रेण सांगेन तु समाचरेत् ॥ 346 ॥

मूलम् - 346

करशुद्ध्यादि पूर्वोक्तं स्वदेहार्चनपश्चिमम्।
सर्वं खगेशमन्त्रेण सांगेन तु समाचरेत् ॥ 346 ॥

विश्वास-प्रस्तुतिः - 347

द्वार्स्थतोरणकुंभादियजनं प्राग्वदाचरेत्।
ततः पुण्याहघोषं तु कारयेत् पूर्ववद्‌द्विज! ॥ 347 ॥

मूलम् - 347

द्वार्स्थतोरणकुंभादियजनं प्राग्वदाचरेत्।
ततः पुण्याहघोषं तु कारयेत् पूर्ववद्‌द्विज! ॥ 347 ॥

विश्वास-प्रस्तुतिः - 348

गरुडस्याग्रतः प्राग्वत् कुम्भं करकसंयुतम्।
भारमात्रोपक्लृप्ते तु धान्यपीठे तु विन्यसेत् ॥ 348 ॥

मूलम् - 348

गरुडस्याग्रतः प्राग्वत् कुम्भं करकसंयुतम्।
भारमात्रोपक्लृप्ते तु धान्यपीठे तु विन्यसेत् ॥ 348 ॥

विश्वास-प्रस्तुतिः - 349

जलद्रोण्यादिकं पात्रं गन्धतोयैः सुपूरितम्।
दक्षिणे करकस्याथ विनिवेश्य च तत्र तु ॥ 349 ॥

मूलम् - 349

जलद्रोण्यादिकं पात्रं गन्धतोयैः सुपूरितम्।
दक्षिणे करकस्याथ विनिवेश्य च तत्र तु ॥ 349 ॥

विश्वास-प्रस्तुतिः - 350

सद्यश्छायाचिवसनमाचरेद्गरुडस्य तु।
स्नपनानां पुरोक्तानां पूर्वस्मिन्नवके द्विज! ॥ 350 ॥

मूलम् - 350

सद्यश्छायाचिवसनमाचरेद्गरुडस्य तु।
स्नपनानां पुरोक्तानां पूर्वस्मिन्नवके द्विज! ॥ 350 ॥

विश्वास-प्रस्तुतिः - 351

अधमाधममार्गेण स्नपनं तु समाचरेत्।
अग्रतो वैनतेयस्य वेदिकोपरि संस्थिते ॥ 351 ॥

मूलम् - 351

अधमाधममार्गेण स्नपनं तु समाचरेत्।
अग्रतो वैनतेयस्य वेदिकोपरि संस्थिते ॥ 351 ॥

विश्वास-प्रस्तुतिः - 352

दर्पणे तु, ततः पश्चान्मुहूर्ते शोभने गुरुः।
नयनोन्मीलनं कुर्यात् प्रागुक्तेनैव वर्त्मना ॥ 352 ॥

मूलम् - 352

दर्पणे तु, ततः पश्चान्मुहूर्ते शोभने गुरुः।
नयनोन्मीलनं कुर्यात् प्रागुक्तेनैव वर्त्मना ॥ 352 ॥

विश्वास-प्रस्तुतिः - 353

सर्वेषामपि सर्पाणां नेत्रोन्मीलनमाचरेत्।
प्राग्वत् संशुद्धदेहस्तु शिल्पी प्रकटतां नयेत् ॥ 353 ॥

मूलम् - 353

सर्वेषामपि सर्पाणां नेत्रोन्मीलनमाचरेत्।
प्राग्वत् संशुद्धदेहस्तु शिल्पी प्रकटतां नयेत् ॥ 353 ॥

विश्वास-प्रस्तुतिः - 354

सर्वं तु पूर्ववत् कुर्यान्नेत्रयोः पूरणादिकम्।
कुम्भे च करके चैव आसनं परिकल्प्य च ॥ 354 ॥

मूलम् - 354

सर्वं तु पूर्ववत् कुर्यान्नेत्रयोः पूरणादिकम्।
कुम्भे च करके चैव आसनं परिकल्प्य च ॥ 354 ॥

विश्वास-प्रस्तुतिः - 355

कुम्भे गरुडमावाह्य करके मन्त्रमस्त्रपम्।
पूजयित्वार्घ्यगन्धाद्यैस्ततो दिक्कलशाष्टकैः ॥ 355 ॥

मूलम् - 355

कुम्भे गरुडमावाह्य करके मन्त्रमस्त्रपम्।
पूजयित्वार्घ्यगन्धाद्यैस्ततो दिक्कलशाष्टकैः ॥ 355 ॥

विश्वास-प्रस्तुतिः - 356

इन्द्रादिलोकपालांस्तु प्रादक्षिण्येन पूज्य च।
भित्तिसंसेचनं कृत्वा भूयः संस्थाप्य तत्र तु ॥ 356 ॥

मूलम् - 356

इन्द्रादिलोकपालांस्तु प्रादक्षिण्येन पूज्य च।
भित्तिसंसेचनं कृत्वा भूयः संस्थाप्य तत्र तु ॥ 356 ॥

विश्वास-प्रस्तुतिः - 357

ततो ध्वजपटे प्राग्वदासनं परिकल्प्य च।
ततो गरुडमन्त्रं तु सहस्रादित्यभास्वरम् ॥ 357 ॥

मूलम् - 357

ततो ध्वजपटे प्राग्वदासनं परिकल्प्य च।
ततो गरुडमन्त्रं तु सहस्रादित्यभास्वरम् ॥ 357 ॥

विश्वास-प्रस्तुतिः - 358

सर्वरोगप्रशमनं सर्वोपद्रवनाशनम्।
सर्वसिद्धिप्रदं नॄणां सर्वदारिद्र्यनाशनम् ॥ 358 ॥

मूलम् - 358

सर्वरोगप्रशमनं सर्वोपद्रवनाशनम्।
सर्वसिद्धिप्रदं नॄणां सर्वदारिद्र्यनाशनम् ॥ 358 ॥

विश्वास-प्रस्तुतिः - 359

हृदयाद्रेच्य विप्रेन्द्र! पटस्थगरुडे न्यसेत्।
सकलीकरणं कृत्वा सन्निधिं च समाचरेत् ॥ 359 ॥

मूलम् - 359

हृदयाद्रेच्य विप्रेन्द्र! पटस्थगरुडे न्यसेत्।
सकलीकरणं कृत्वा सन्निधिं च समाचरेत् ॥ 359 ॥

विश्वास-प्रस्तुतिः - 360

सन्निरोधं च साम्मुख्यं मुद्राबन्धं तथैव च।
लययागं भोगयागं यथावद्‌द्विजसत्तम! ॥ 360 ॥

मूलम् - 360

सन्निरोधं च साम्मुख्यं मुद्राबन्धं तथैव च।
लययागं भोगयागं यथावद्‌द्विजसत्तम! ॥ 360 ॥

विश्वास-प्रस्तुतिः - 361

सर्वं गरुडमन्त्रेण सांगेन तु समाचरेत्।
कुम्भे च करके चैव पटे च क्रमयोगतः ॥ 361 ॥

मूलम् - 361

सर्वं गरुडमन्त्रेण सांगेन तु समाचरेत्।
कुम्भे च करके चैव पटे च क्रमयोगतः ॥ 361 ॥

विश्वास-प्रस्तुतिः - 362

महता विभवेनैव पूजनं तु समाचरेत्।
अलंकारासनान्तं च यथोक्तेन क्रमेण तु ॥ 362 ॥

मूलम् - 362

महता विभवेनैव पूजनं तु समाचरेत्।
अलंकारासनान्तं च यथोक्तेन क्रमेण तु ॥ 362 ॥

विश्वास-प्रस्तुतिः - 363

कृत्वा संपूजनं विप्र! गरुडस्य, ततः परम्।
प्रासादाभ्यन्तरे विप्र! देशिकानुमतेन तु ॥ 363 ॥

मूलम् - 363

कृत्वा संपूजनं विप्र! गरुडस्य, ततः परम्।
प्रासादाभ्यन्तरे विप्र! देशिकानुमतेन तु ॥ 363 ॥

विश्वास-प्रस्तुतिः - 364

अन्येन गुरुणा यद्वा साधकेन विशेषवत्।
पूजनं कारयेत् सम्यङ्‌मूलमूर्तिगतस्य च ॥ 364 ॥

मूलम् - 364

अन्येन गुरुणा यद्वा साधकेन विशेषवत्।
पूजनं कारयेत् सम्यङ्‌मूलमूर्तिगतस्य च ॥ 364 ॥

विश्वास-प्रस्तुतिः - 365

यात्रामूर्तिगतस्यापि विभोर्दानान्तमेव च।
स्नपनं गरुडस्थस्य विशेषार्चनपूर्वकम् ॥ 365 ॥

मूलम् - 365

यात्रामूर्तिगतस्यापि विभोर्दानान्तमेव च।
स्नपनं गरुडस्थस्य विशेषार्चनपूर्वकम् ॥ 365 ॥

विश्वास-प्रस्तुतिः - 366

तत्परं वैनतेयस्य भोज्यासनपुरस्सरैः।
विविधैर्मधुपर्कान्तं हृद्यैः सकलमूलकैः ॥ 366 ॥

मूलम् - 366

तत्परं वैनतेयस्य भोज्यासनपुरस्सरैः।
विविधैर्मधुपर्कान्तं हृद्यैः सकलमूलकैः ॥ 366 ॥

विश्वास-प्रस्तुतिः - 367

अन्नैरतिप्रभूतैश्च तथान्यैर्विविधैरपि।
भोगैरिष्ट्वा जपान्तं च पूर्ववत् क्रमयोगतः ॥ 367 ॥

मूलम् - 367

अन्नैरतिप्रभूतैश्च तथान्यैर्विविधैरपि।
भोगैरिष्ट्वा जपान्तं च पूर्ववत् क्रमयोगतः ॥ 367 ॥

विश्वास-प्रस्तुतिः - 368

संप्रदानं पृथक् कुर्यात् कारिभ्यस्तु यथाविधि।
मन्त्रास्त्रकुम्भयोर्दत्तमाचार्येभ्यो ददेत् ततः ॥ 368 ॥

मूलम् - 368

संप्रदानं पृथक् कुर्यात् कारिभ्यस्तु यथाविधि।
मन्त्रास्त्रकुम्भयोर्दत्तमाचार्येभ्यो ददेत् ततः ॥ 368 ॥

विश्वास-प्रस्तुतिः - 369

पटस्थस्यापि नैवेद्यं किंचिदादाय पात्रगम्।
देशिकः स्वयमादद्याद् गुर्वादिभ्योपि वै ददेत् ॥ 369 ॥

मूलम् - 369

पटस्थस्यापि नैवेद्यं किंचिदादाय पात्रगम्।
देशिकः स्वयमादद्याद् गुर्वादिभ्योपि वै ददेत् ॥ 369 ॥

विश्वास-प्रस्तुतिः - 370

मूलबिंबस्थितस्यापि यात्राबिंबस्थितस्य च।
देवस्य मधुपर्काद्यैर्नैवेद्यं विनिवेदितम् ॥ 370 ॥

मूलम् - 370

मूलबिंबस्थितस्यापि यात्राबिंबस्थितस्य च।
देवस्य मधुपर्काद्यैर्नैवेद्यं विनिवेदितम् ॥ 370 ॥

विश्वास-प्रस्तुतिः - 371

दापयेद्देशिकादिब्यस्ततो होमं समाचरेत्।
कुण्डं सलक्षणं कृत्वा प्राग्भागे गरुडस्य तु ॥ 371 ॥

मूलम् - 371

दापयेद्देशिकादिब्यस्ततो होमं समाचरेत्।
कुण्डं सलक्षणं कृत्वा प्राग्भागे गरुडस्य तु ॥ 371 ॥

विश्वास-प्रस्तुतिः - 372

तत्रानलं च संस्कृत्य आवाह्य विहगेश्वरम्।
समिधां सप्तकं हुत्वा शान्त्यर्थं तु तिलैर्घृतैः ॥ 372 ॥

मूलम् - 372

तत्रानलं च संस्कृत्य आवाह्य विहगेश्वरम्।
समिधां सप्तकं हुत्वा शान्त्यर्थं तु तिलैर्घृतैः ॥ 372 ॥

विश्वास-प्रस्तुतिः - 373

आहुत्यष्टोत्तरशतं हुत्वा पूर्णां निवेदयेत्।
यद्वा नैमित्तिके कुण्डे होमं कुर्यात्तु देशिकः ॥ 373 ॥

मूलम् - 373

आहुत्यष्टोत्तरशतं हुत्वा पूर्णां निवेदयेत्।
यद्वा नैमित्तिके कुण्डे होमं कुर्यात्तु देशिकः ॥ 373 ॥

विश्वास-प्रस्तुतिः - 374

ततस्तु यजमानाय स्नानाद्यैः प्रयतात्मने।
गरुहस्य पटस्थस्य नैवेद्यं यन्निवेदितम् ॥ 374 ॥

मूलम् - 374

ततस्तु यजमानाय स्नानाद्यैः प्रयतात्मने।
गरुहस्य पटस्थस्य नैवेद्यं यन्निवेदितम् ॥ 374 ॥

विश्वास-प्रस्तुतिः - 375

तत्र किंचित् समादाय दत्वा वै देशिकः स्वयम्।
तत्तच्छिष्टं तु नैवेद्यं कृत्वा तु कबलं पृथक् ॥ 375 ॥

मूलम् - 375

तत्र किंचित् समादाय दत्वा वै देशिकः स्वयम्।
तत्तच्छिष्टं तु नैवेद्यं कृत्वा तु कबलं पृथक् ॥ 375 ॥

विश्वास-प्रस्तुतिः - 376

नारीणमप्रजानां तु नराणां रोगिणामपि।
दद्याद्गरुडमन्त्रं तु ध्यायमानः समाहितः ॥ 376 ॥

मूलम् - 376

नारीणमप्रजानां तु नराणां रोगिणामपि।
दद्याद्गरुडमन्त्रं तु ध्यायमानः समाहितः ॥ 376 ॥

विश्वास-प्रस्तुतिः - 377

प्राङ्‌मुखं प्राशयित्वान्नं तत्तीर्थं त्वथ पाययेत्।
एवं कृत्वाधिवासं तु जागरेण नयेन्निशाम् ॥ 377 ॥

मूलम् - 377

प्राङ्‌मुखं प्राशयित्वान्नं तत्तीर्थं त्वथ पाययेत्।
एवं कृत्वाधिवासं तु जागरेण नयेन्निशाम् ॥ 377 ॥

विश्वास-प्रस्तुतिः - 378

ततः प्रभाते सुस्नातस्वाचान्तो देशिकोत्तमः।
नित्यार्चनं विभोः कृत्वा विशेषयजनं तथा ॥ 378 ॥

मूलम् - 378

ततः प्रभाते सुस्नातस्वाचान्तो देशिकोत्तमः।
नित्यार्चनं विभोः कृत्वा विशेषयजनं तथा ॥ 378 ॥

विश्वास-प्रस्तुतिः - 379

वैनतेयं ततोऽभ्यर्च्य कुम्भपूर्वं यथाविधि।
महाहविर्निवेद्याथ होमं कृत्वा तु पूर्ववत् ॥ 379 ॥

मूलम् - 379

वैनतेयं ततोऽभ्यर्च्य कुम्भपूर्वं यथाविधि।
महाहविर्निवेद्याथ होमं कृत्वा तु पूर्ववत् ॥ 379 ॥

विश्वास-प्रस्तुतिः - 380

ततश्चतुर्थावरणे अन्तरा गोपुरस्य तु।
चतुर्हस्तं द्विहस्तं वा ध्वजपीठं समन्ततः ॥ 380 ॥

मूलम् - 380

ततश्चतुर्थावरणे अन्तरा गोपुरस्य तु।
चतुर्हस्तं द्विहस्तं वा ध्वजपीठं समन्ततः ॥ 380 ॥

विश्वास-प्रस्तुतिः - 381

सार्धहस्तोच्छ्रितं विप्र! हस्तोच्छ्रितमथापि वा।
शिलाभिरिष्टकाभिश्च पव्काबिर्वा यथारुचि ॥ 381 ॥

मूलम् - 381

सार्धहस्तोच्छ्रितं विप्र! हस्तोच्छ्रितमथापि वा।
शिलाभिरिष्टकाभिश्च पव्काबिर्वा यथारुचि ॥ 381 ॥

विश्वास-प्रस्तुतिः - 382

खातं कुर्यात्तु तन्मध्ये यावद्भूमितलं द्विज!।
तृतीयावरणे वापि बलिपीठाद्बहिर्द्विज! ॥ 382 ॥

मूलम् - 382

खातं कुर्यात्तु तन्मध्ये यावद्भूमितलं द्विज!।
तृतीयावरणे वापि बलिपीठाद्बहिर्द्विज! ॥ 382 ॥

विश्वास-प्रस्तुतिः - 383

द्वितीयावरणे वा तद्भवेत् कालानुरूपतः।
उत्तरे ध्वजपीठस्य पूर्वस्यां दिशि वा द्विज! ॥ 383 ॥

मूलम् - 383

द्वितीयावरणे वा तद्भवेत् कालानुरूपतः।
उत्तरे ध्वजपीठस्य पूर्वस्यां दिशि वा द्विज! ॥ 383 ॥

विश्वास-प्रस्तुतिः - 384

शाययेत्तु ध्वजस्तंभं ध्वजयष्टिसमन्वितम्।
पूर्वाग्रमुत्तराग्रं वा लक्षणाढ्यं सुशोभनम् ॥ 384 ॥

मूलम् - 384

शाययेत्तु ध्वजस्तंभं ध्वजयष्टिसमन्वितम्।
पूर्वाग्रमुत्तराग्रं वा लक्षणाढ्यं सुशोभनम् ॥ 384 ॥

विश्वास-प्रस्तुतिः - 385

अन्तस्सारो बहिस्सारो निस्सारश्च त्रिधा भवेत्।
चंपको देवदारुश्च चन्दनः खदिरस्तथा ॥ 385 ॥

मूलम् - 385

अन्तस्सारो बहिस्सारो निस्सारश्च त्रिधा भवेत्।
चंपको देवदारुश्च चन्दनः खदिरस्तथा ॥ 385 ॥

विश्वास-प्रस्तुतिः - 386

सालवृक्षश्च बिम्वश्च ककुभालकौ यथा।
इत्येवमादयो वृक्षा अन्तस्सारा उदाहृताः ॥ 386 ॥

मूलम् - 386

सालवृक्षश्च बिम्वश्च ककुभालकौ यथा।
इत्येवमादयो वृक्षा अन्तस्सारा उदाहृताः ॥ 386 ॥

विश्वास-प्रस्तुतिः - 387

क्रमुको नालिकेरश्च हिन्तालस्ताल एव च।
वेणुश्चापि बहिस्साराः प्रशस्ता ध्वजकर्मणि ॥ 387 ॥

मूलम् - 387

क्रमुको नालिकेरश्च हिन्तालस्ताल एव च।
वेणुश्चापि बहिस्साराः प्रशस्ता ध्वजकर्मणि ॥ 387 ॥

विश्वास-प्रस्तुतिः - 388

किंशुकाद्यास्तु ये विप्र! निस्साराः समुदाहृताः।
निस्सारं वर्जयेत् स्तंभं सर्वदा ध्वजकर्मणि ॥ 388 ॥

मूलम् - 388

किंशुकाद्यास्तु ये विप्र! निस्साराः समुदाहृताः।
निस्सारं वर्जयेत् स्तंभं सर्वदा ध्वजकर्मणि ॥ 388 ॥

विश्वास-प्रस्तुतिः - 389

आर्द्रं नवं ऋजुं स्निग्धं वक्रस्फोटनवर्जितम्।
अयुग्मपर्वकं शुद्धं सत्वचं सुस्थिरं द्विज! ॥ 389 ॥

मूलम् - 389

आर्द्रं नवं ऋजुं स्निग्धं वक्रस्फोटनवर्जितम्।
अयुग्मपर्वकं शुद्धं सत्वचं सुस्थिरं द्विज! ॥ 389 ॥

विश्वास-प्रस्तुतिः - 390

ग्राहयित्वा ध्वजस्तम्भं शास्त्रदृष्ट्या परीक्षयेत्।
अशीतितालं मुख्यं स्यान्मध्यमं षष्टितालकम् ॥ 390 ॥

मूलम् - 390

ग्राहयित्वा ध्वजस्तम्भं शास्त्रदृष्ट्या परीक्षयेत्।
अशीतितालं मुख्यं स्यान्मध्यमं षष्टितालकम् ॥ 390 ॥

विश्वास-प्रस्तुतिः - 391

पञ्चाशत्तालमधमं पञ्चतालाधिकं तु वै।
मद्यमोत्तममुद्दिष्टं पञ्चाशत्तालसम्मितम् ॥ 391 ॥

मूलम् - 391

पञ्चाशत्तालमधमं पञ्चतालाधिकं तु वै।
मद्यमोत्तममुद्दिष्टं पञ्चाशत्तालसम्मितम् ॥ 391 ॥

विश्वास-प्रस्तुतिः - 392

पञ्चतालविहीनं तद्‌भवेन्मध्यममध्यमम्।
मध्यमाधममुद्दिष्टं द्विंविंशत्तालसभ्मितम् ॥ 392 ॥

मूलम् - 392

पञ्चतालविहीनं तद्‌भवेन्मध्यममध्यमम्।
मध्यमाधममुद्दिष्टं द्विंविंशत्तालसभ्मितम् ॥ 392 ॥

विश्वास-प्रस्तुतिः - 393

सप्तत्रिंशच्च तालानां पञ्चत्रिंशत्तथैव च।
द्वात्रिंशच्च त्रयं विप्र! अधमोत्तमपूर्वकम् ॥ 393 ॥

मूलम् - 393

सप्तत्रिंशच्च तालानां पञ्चत्रिंशत्तथैव च।
द्वात्रिंशच्च त्रयं विप्र! अधमोत्तमपूर्वकम् ॥ 393 ॥

विश्वास-प्रस्तुतिः - 394

मात्रांगुलवशेनात्र प्रमाणपरिकल्पनम्।
संभवे सति विप्रेन्द्र! शततालं प्रकल्पयेत् ॥ 394 ॥

मूलम् - 394

मात्रांगुलवशेनात्र प्रमाणपरिकल्पनम्।
संभवे सति विप्रेन्द्र! शततालं प्रकल्पयेत् ॥ 394 ॥

विश्वास-प्रस्तुतिः - 395

अन्यच्च नवभेदं तु प्रमाणमधुनोच्यते।
कराणां पञ्चविंशच्च त्रयोविंशत्तथैव च ॥ 395 ॥

मूलम् - 395

अन्यच्च नवभेदं तु प्रमाणमधुनोच्यते।
कराणां पञ्चविंशच्च त्रयोविंशत्तथैव च ॥ 395 ॥

एकविंशच्च विंशच्च तदेकोनं च सत्तम! अष्टादश ततोन्यच्च तथा षोडशकं द्विज ॥ 396 ॥
विश्वास-प्रस्तुतिः - 397

त्रिपञ्च च क्रमेणैव नवकं परिकीर्तितम्।
मानांगुलेन मानं स्यात् त्रिविधेन यथावलम् ॥ 397 ॥

मूलम् - 397

त्रिपञ्च च क्रमेणैव नवकं परिकीर्तितम्।
मानांगुलेन मानं स्यात् त्रिविधेन यथावलम् ॥ 397 ॥

विश्वास-प्रस्तुतिः - 398

तदभावे तु मानं स्यादत्र मात्रांगुलेन वा।
प्रासादशिखराग्रोच्चं प्रासादोच्चमथापि वा ॥ 398 ॥

मूलम् - 398

तदभावे तु मानं स्यादत्र मात्रांगुलेन वा।
प्रासादशिखराग्रोच्चं प्रासादोच्चमथापि वा ॥ 398 ॥

विश्वास-प्रस्तुतिः - 399

कण्ठोच्चं गोपुरोच्चं वा यथावित्तानुरूपतः।
ध्वजस्तंभस्य मूलान्तु नाहं तु नवधा भवेत् ॥ 399 ॥

मूलम् - 399

कण्ठोच्चं गोपुरोच्चं वा यथावित्तानुरूपतः।
ध्वजस्तंभस्य मूलान्तु नाहं तु नवधा भवेत् ॥ 399 ॥

विश्वास-प्रस्तुतिः - 400

मूले द्वादशतालं तु नवतालं तु सप्तकम्।
तन्मध्ये षष्ठतालं तु पञ्चतालं तथा भवेत् ॥ 400 ॥

मूलम् - 400

मूले द्वादशतालं तु नवतालं तु सप्तकम्।
तन्मध्ये षष्ठतालं तु पञ्चतालं तथा भवेत् ॥ 400 ॥

विश्वास-प्रस्तुतिः - 401

तदग्रं पञ्चतालं तु चतुस्तालं द्वितालकम्।
द्वादशांगुलमानेन नाहमष्टांगुलं भवेत् ॥ 401 ॥

मूलम् - 401

तदग्रं पञ्चतालं तु चतुस्तालं द्वितालकम्।
द्वादशांगुलमानेन नाहमष्टांगुलं भवेत् ॥ 401 ॥

विश्वास-प्रस्तुतिः - 402

चतुर्विंशद्दशगुणं स्नंभनाहन वै दृढम्।
त्रिधा विभज्य तत् स्तंभं त्रिधा कृत्वा तृतीयकम् ॥ 402 ॥

मूलम् - 402

चतुर्विंशद्दशगुणं स्नंभनाहन वै दृढम्।
त्रिधा विभज्य तत् स्तंभं त्रिधा कृत्वा तृतीयकम् ॥ 402 ॥

विश्वास-प्रस्तुतिः - 403

अधोभागे ह्यधस्ताच्च मध्यभागे तु मध्यतः।
अग्रतो हयूर्ध्वभागे तु यज्ञकाष्ठविनिर्मितम् ॥ 403 ॥

मूलम् - 403

अधोभागे ह्यधस्ताच्च मध्यभागे तु मध्यतः।
अग्रतो हयूर्ध्वभागे तु यज्ञकाष्ठविनिर्मितम् ॥ 403 ॥

विश्वास-प्रस्तुतिः - 404

मसूग्कत्रयं कृत्वा सुषिरत्रयसंयुतम्।
दण्डयष्टिनिवेशार्थं सुवृत्तं पार्श्वयोर्द्विज! ॥ 404 ॥

मूलम् - 404

मसूग्कत्रयं कृत्वा सुषिरत्रयसंयुतम्।
दण्डयष्टिनिवेशार्थं सुवृत्तं पार्श्वयोर्द्विज! ॥ 404 ॥

विश्वास-प्रस्तुतिः - 405

फैणकाहस्तमानाच्च द्विनवांगुलिविस्तृताः।
मूलदेशेग्रदेशे तु चतुरंगुलविस्तृताः ॥ 405 ॥

मूलम् - 405

फैणकाहस्तमानाच्च द्विनवांगुलिविस्तृताः।
मूलदेशेग्रदेशे तु चतुरंगुलविस्तृताः ॥ 405 ॥

विश्वास-प्रस्तुतिः - 406

द्वितालं सार्धतालं तु एकतालं तु वा द्विज!।
त्यक्त्वा स्तंभाग्रतो विप्र! न्यसेदग्रमसूरकम् ॥ 406 ॥

मूलम् - 406

द्वितालं सार्धतालं तु एकतालं तु वा द्विज!।
त्यक्त्वा स्तंभाग्रतो विप्र! न्यसेदग्रमसूरकम् ॥ 406 ॥

विश्वास-प्रस्तुतिः - 407

अन्यद्‌द्वयं समुदिते स्थाने सम्यङ्‌निवेश्य च।
यद्वा स्तंभाग्रतः प्राग्वन्न्यसेदूर्ध्वमसूरकम् ॥ 407 ॥

मूलम् - 407

अन्यद्‌द्वयं समुदिते स्थाने सम्यङ्‌निवेश्य च।
यद्वा स्तंभाग्रतः प्राग्वन्न्यसेदूर्ध्वमसूरकम् ॥ 407 ॥

विश्वास-प्रस्तुतिः - 408

अधो हस्तद्वयं सार्धं त्यक्त्वा मध्यमसूरकम्।
तदधस्तु तथा त्यक्त्वा न्यसेदन्यमसूरकम् ॥ 408 ॥

मूलम् - 408

अधो हस्तद्वयं सार्धं त्यक्त्वा मध्यमसूरकम्।
तदधस्तु तथा त्यक्त्वा न्यसेदन्यमसूरकम् ॥ 408 ॥

विश्वास-प्रस्तुतिः - 409

एवं तालत्रयं त्यक्त्वा ततस्तस्मिन्निवेशयेत्।
ध्वजयष्टिं दृढां ऋज्वीं लोहयन्त्रसमन्विताम् ॥ 409 ॥

मूलम् - 409

एवं तालत्रयं त्यक्त्वा ततस्तस्मिन्निवेशयेत्।
ध्वजयष्टिं दृढां ऋज्वीं लोहयन्त्रसमन्विताम् ॥ 409 ॥

विश्वास-प्रस्तुतिः - 410

वेष्टयेद्दर्भमालाभिर्ध्वजदण्डं प्रदक्षिणम्।
एवं कृत्वा ध्वजस्तम्भं प्रोक्षयेदस्त्रवारिणा ॥ 410 ॥

मूलम् - 410

वेष्टयेद्दर्भमालाभिर्ध्वजदण्डं प्रदक्षिणम्।
एवं कृत्वा ध्वजस्तम्भं प्रोक्षयेदस्त्रवारिणा ॥ 410 ॥

विश्वास-प्रस्तुतिः - 411

ध्वजपीठस्थिते गर्ते रत्नधान्यानि निक्षिपेत्।
देशिकस्तार्क्ष्यमन्त्रेण ततो ब्राह्नणसत्तमैः ॥ 411 ॥

मूलम् - 411

ध्वजपीठस्थिते गर्ते रत्नधान्यानि निक्षिपेत्।
देशिकस्तार्क्ष्यमन्त्रेण ततो ब्राह्नणसत्तमैः ॥ 411 ॥

विश्वास-प्रस्तुतिः - 412

शूद्रैर्वा दीक्षितैर्विप्र! देवदासैरथापि वा।
शंखभेर्यादिनिर्धोषगीतवादित्रसंयुतम् ॥ 412 ॥

मूलम् - 412

शूद्रैर्वा दीक्षितैर्विप्र! देवदासैरथापि वा।
शंखभेर्यादिनिर्धोषगीतवादित्रसंयुतम् ॥ 412 ॥

विश्वास-प्रस्तुतिः - 413

स्थापयेत्तु ध्वजस्तंभं तस्मिन् गर्ते ऋजुस्थितम्।
प्रासादाभिमुखं स्थाप्य वालुकाभिश्च पूरयेत् ॥ 413 ॥

मूलम् - 413

स्थापयेत्तु ध्वजस्तंभं तस्मिन् गर्ते ऋजुस्थितम्।
प्रासादाभिमुखं स्थाप्य वालुकाभिश्च पूरयेत् ॥ 413 ॥

विश्वास-प्रस्तुतिः - 414

हस्तिपादादिभिः कृत्वा सुदृढं च यथा भवेत्।
यद्वा रजन्यां पूर्वस्यां कृत्वा स्तंभाधिवासनम् ॥ 414 ॥

मूलम् - 414

हस्तिपादादिभिः कृत्वा सुदृढं च यथा भवेत्।
यद्वा रजन्यां पूर्वस्यां कृत्वा स्तंभाधिवासनम् ॥ 414 ॥

विश्वास-प्रस्तुतिः - 415

अद्यत्वे स्थापयेत् पश्चाद गत्वा गरुडसन्निधिम्।
रथे वा कुंजरे याने ध्वजमारोप्य यत्नतः ॥ 415 ॥

मूलम् - 415

अद्यत्वे स्थापयेत् पश्चाद गत्वा गरुडसन्निधिम्।
रथे वा कुंजरे याने ध्वजमारोप्य यत्नतः ॥ 415 ॥

विश्वास-प्रस्तुतिः - 416

प्रभया चित्रकुसुमैः कृतया भूषयेद् ध्वजम्।
वासोविभूषणैः स्रग्भिर्विचित्राभिश्च पूजयेत् ॥ 416 ॥

मूलम् - 416

प्रभया चित्रकुसुमैः कृतया भूषयेद् ध्वजम्।
वासोविभूषणैः स्रग्भिर्विचित्राभिश्च पूजयेत् ॥ 416 ॥

विश्वास-प्रस्तुतिः - 417

च्छत्रचामरपूर्वैश्च मायूरव्यजनैस्ततः।
विचित्रैस्तालबन्तश्चै आतपत्रैर्मनोहरैः ॥ 417 ॥

मूलम् - 417

च्छत्रचामरपूर्वैश्च मायूरव्यजनैस्ततः।
विचित्रैस्तालबन्तश्चै आतपत्रैर्मनोहरैः ॥ 417 ॥

विश्वास-प्रस्तुतिः - 418

केतुदण्डेर्विचित्रैश्च दुकूलपटशोभितैः।
चतुर्वेदमयोद्धोषैः स्तोत्रघोषसमन्वितैः ॥ 418 ॥

मूलम् - 418

केतुदण्डेर्विचित्रैश्च दुकूलपटशोभितैः।
चतुर्वेदमयोद्धोषैः स्तोत्रघोषसमन्वितैः ॥ 418 ॥

विश्वास-प्रस्तुतिः - 419

गीतकैर्विविधैर्वाद्यैः शंखकाहलनिःस्वनैः।
भेरीमृदङ्गपूर्वाणां धोषैरन्यैश्च मंगलैः ॥ 419 ॥

मूलम् - 419

गीतकैर्विविधैर्वाद्यैः शंखकाहलनिःस्वनैः।
भेरीमृदङ्गपूर्वाणां धोषैरन्यैश्च मंगलैः ॥ 419 ॥

विश्वास-प्रस्तुतिः - 420

ब्राह्नणैर्ध्रियमाणैश्च सांकुरैः पालिकागणैः।
सुवेषगणिकासंधैस्तथा भक्तजनैः सह ॥ 420 ॥

मूलम् - 420

ब्राह्नणैर्ध्रियमाणैश्च सांकुरैः पालिकागणैः।
सुवेषगणिकासंधैस्तथा भक्तजनैः सह ॥ 420 ॥

विश्वास-प्रस्तुतिः - 421

क्ष्वेलितास्फोटितैर्युक्तं जयशब्दसमन्वितम्।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमम् ॥ 421 ॥

मूलम् - 421

क्ष्वेलितास्फोटितैर्युक्तं जयशब्दसमन्वितम्।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमम् ॥ 421 ॥

विश्वास-प्रस्तुतिः - 422

भ्रामयित्वा क्रमेणैव सर्वाण्यावरणानि च।
ग्रामं प्रदक्षिणं नीत्वा ग्राममध्ये स्थितो ध्वजम् ॥ 422 ॥

मूलम् - 422

भ्रामयित्वा क्रमेणैव सर्वाण्यावरणानि च।
ग्रामं प्रदक्षिणं नीत्वा ग्राममध्ये स्थितो ध्वजम् ॥ 422 ॥

विश्वास-प्रस्तुतिः - 423

श्रावयेच्चतुरो वेदान् सेतिहासपुराणकान्।
सौपर्यणर्माप वै सूक्तं तत्र संदर्शयेत् पुनः ॥ 423 ॥

मूलम् - 423

श्रावयेच्चतुरो वेदान् सेतिहासपुराणकान्।
सौपर्यणर्माप वै सूक्तं तत्र संदर्शयेत् पुनः ॥ 423 ॥

विश्वास-प्रस्तुतिः - 424

गेयं नृत्तं च वाद्यं च आतोद्यं च चतुर्विधम्।
उपहारांश्च माल्यादीन् ताम्बूलान् विनिवेद्य च ॥ 424 ॥

मूलम् - 424

गेयं नृत्तं च वाद्यं च आतोद्यं च चतुर्विधम्।
उपहारांश्च माल्यादीन् ताम्बूलान् विनिवेद्य च ॥ 424 ॥

विश्वास-प्रस्तुतिः - 425

ततः प्रवेशयेद्विप्र! प्रासादं गरुडध्वजम्।
अंकुरार्पणपूर्वे तु उत्सवे द्विजसत्तम! ॥ 425 ॥

मूलम् - 425

ततः प्रवेशयेद्विप्र! प्रासादं गरुडध्वजम्।
अंकुरार्पणपूर्वे तु उत्सवे द्विजसत्तम! ॥ 425 ॥

विश्वास-प्रस्तुतिः - 426

गरुडस्य पटस्थस्य पश्चाद्भागे यथाविधि।
तद्रात्रौ बलिसंयुक्तं यात्राबिंबं परिभ्रमेत् ॥ 426 ॥

मूलम् - 426

गरुडस्य पटस्थस्य पश्चाद्भागे यथाविधि।
तद्रात्रौ बलिसंयुक्तं यात्राबिंबं परिभ्रमेत् ॥ 426 ॥

विश्वास-प्रस्तुतिः - 427

साधनादेरसंपत्तेः पृथङनेतुमशक्यतः।
तत्रापि सति योग्यत्वे पृथगेव परिभ्रमेत् ॥ 427 ॥

मूलम् - 427

साधनादेरसंपत्तेः पृथङनेतुमशक्यतः।
तत्रापि सति योग्यत्वे पृथगेव परिभ्रमेत् ॥ 427 ॥

विश्वास-प्रस्तुतिः - 428

अन्यत्र केवलं विप्र! ध्जमेव नयेत् सदा।
पत्तने नगरे वापि बलिभ्रमणसंयुतः ॥ 428 ॥

मूलम् - 428

अन्यत्र केवलं विप्र! ध्जमेव नयेत् सदा।
पत्तने नगरे वापि बलिभ्रमणसंयुतः ॥ 428 ॥

विश्वास-प्रस्तुतिः - 429

उत्सवो विहितो यत्र तत्र वै गरुडध्वजम्।
भ्रामयेद्‌द्वितये तस्मिन् यात्राबिंबसमन्वितम् ॥ 429 ॥

मूलम् - 429

उत्सवो विहितो यत्र तत्र वै गरुडध्वजम्।
भ्रामयेद्‌द्वितये तस्मिन् यात्राबिंबसमन्वितम् ॥ 429 ॥

विश्वास-प्रस्तुतिः - 430

तन्मात्राणां योग्यतायै पवित्रीकरणाय च।
ग्रामे तेन च वै सार्धं भ्रामयेद्बिंबमौत्सवम् ॥ 430 ॥

मूलम् - 430

तन्मात्राणां योग्यतायै पवित्रीकरणाय च।
ग्रामे तेन च वै सार्धं भ्रामयेद्बिंबमौत्सवम् ॥ 430 ॥

विश्वास-प्रस्तुतिः - 431

एवं प्रदक्षिणं नीत्वा धाम ग्रामादिकं तथा।
ध्वजं तु मण्डपे स्थाप्य न कृतं यदि पूर्वतः ॥ 431 ॥

मूलम् - 431

एवं प्रदक्षिणं नीत्वा धाम ग्रामादिकं तथा।
ध्वजं तु मण्डपे स्थाप्य न कृतं यदि पूर्वतः ॥ 431 ॥

विश्वास-प्रस्तुतिः - 432

स्थापनं ध्वजदण्डस्य स्थापयित्वा तु तत्तदा।
प्रासादं संप्रविश्याथ यात्राबिंबं वियेषतः ॥ 432 ॥

मूलम् - 432

स्थापनं ध्वजदण्डस्य स्थापयित्वा तु तत्तदा।
प्रासादं संप्रविश्याथ यात्राबिंबं वियेषतः ॥ 432 ॥

विश्वास-प्रस्तुतिः - 433

विचित्रैर्वसनै रम्यैः भूषणैर्विविधैरपि।
माल्यैश्च विविधै रम्यैरलंकृत्य ततः परम् ॥ 433 ॥

मूलम् - 433

विचित्रैर्वसनै रम्यैः भूषणैर्विविधैरपि।
माल्यैश्च विविधै रम्यैरलंकृत्य ततः परम् ॥ 433 ॥

विश्वास-प्रस्तुतिः - 434

शिबिकादौ समारोप्य सर्वसाधनसंयुतम्।
?Bआस्थानमण्डपे नीत्वा ध्वजपीठस्य सम्मुखम् ॥ 434 ॥

मूलम् - 434

शिबिकादौ समारोप्य सर्वसाधनसंयुतम्।
?Bआस्थानमण्डपे नीत्वा ध्वजपीठस्य सम्मुखम् ॥ 434 ॥

विश्वास-प्रस्तुतिः - 435

सौवर्णे विष्टरे रम्ये तल्पाद्यंगोपशोभिते।
विचित्रेण वितानेन उपरिष्टाद्विभूषिते ॥ 435 ॥

मूलम् - 435

सौवर्णे विष्टरे रम्ये तल्पाद्यंगोपशोभिते।
विचित्रेण वितानेन उपरिष्टाद्विभूषिते ॥ 435 ॥

विश्वास-प्रस्तुतिः - 436

सन्निवेश्य ततः पश्चादाचार्यः सुसमाहितः।
साधकाद्यैः परिवृतो ह्यादाय गरुडध्वजम् ॥ 436 ॥

मूलम् - 436

सन्निवेश्य ततः पश्चादाचार्यः सुसमाहितः।
साधकाद्यैः परिवृतो ह्यादाय गरुडध्वजम् ॥ 436 ॥

विश्वास-प्रस्तुतिः - 437

सह शंखनिनादाद्यैः प्रादक्षिण्येन योगतः।
ध्वजपीठे समानीय स्तंभं प्रक्षाल्य सज्जलैः ॥ 437 ॥

मूलम् - 437

सह शंखनिनादाद्यैः प्रादक्षिण्येन योगतः।
ध्वजपीठे समानीय स्तंभं प्रक्षाल्य सज्जलैः ॥ 437 ॥

विश्वास-प्रस्तुतिः - 438

विभवे सति वस्त्रेण संवेष्ट्य ध्वजदण्डकम्।
गरुडं पूजयित्वा तु पुष्पांजलिपुरस्सरम् ॥ 438 ॥

मूलम् - 438

विभवे सति वस्त्रेण संवेष्ट्य ध्वजदण्डकम्।
गरुडं पूजयित्वा तु पुष्पांजलिपुरस्सरम् ॥ 438 ॥

विश्वास-प्रस्तुतिः - 439

अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च धूपकम्।
अपूपान् पृथुकांश्चापि पानकं तर्पणं तथा ॥ 439 ॥

मूलम् - 439

अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च धूपकम्।
अपूपान् पृथुकांश्चापि पानकं तर्पणं तथा ॥ 439 ॥

विश्वास-प्रस्तुतिः - 440

नालिकेरजलैर्युक्तमाचामं तदनन्तरम्।
कर्पूरादिसमोपेतं दत्वा ताम्बूलमुत्तमम् ॥ 440 ॥

मूलम् - 440

नालिकेरजलैर्युक्तमाचामं तदनन्तरम्।
कर्पूरादिसमोपेतं दत्वा ताम्बूलमुत्तमम् ॥ 440 ॥

विश्वास-प्रस्तुतिः - 441

तन्मुद्रां दर्शयित्वा तु रज्जुमादाय वै दृढाम्।
त्रिबृत्कृतैस्तु कार्पाससूत्रैरतिदृढैः कृताम् ॥ 441 ॥

मूलम् - 441

तन्मुद्रां दर्शयित्वा तु रज्जुमादाय वै दृढाम्।
त्रिबृत्कृतैस्तु कार्पाससूत्रैरतिदृढैः कृताम् ॥ 441 ॥

विश्वास-प्रस्तुतिः - 442

यष्ट्यग्रसंस्थिते यन्त्रे योजयित्वा तया ततः।
ध्वजस्य शिखरं विप्र! बन्धयेत् सुदृढं यथा ॥ 442 ॥

मूलम् - 442

यष्ट्यग्रसंस्थिते यन्त्रे योजयित्वा तया ततः।
ध्वजस्य शिखरं विप्र! बन्धयेत् सुदृढं यथा ॥ 442 ॥

विश्वास-प्रस्तुतिः - 443

बालध्वजेन सहितं घण्टया च समन्वितम्।
पुण्याहं वाचयित्वा तु संप्रोक्ष्यास्त्रोदकेन तु ॥ 443 ॥

मूलम् - 443

बालध्वजेन सहितं घण्टया च समन्वितम्।
पुण्याहं वाचयित्वा तु संप्रोक्ष्यास्त्रोदकेन तु ॥ 443 ॥

विश्वास-प्रस्तुतिः - 444

महाकुम्भस्थतोयेन संप्रोक्ष्य गरुडं ततः।
महाकुम्भस्थगरुडं पटस्थे तु निवेशयेत् ॥ 444 ॥

मूलम् - 444

महाकुम्भस्थतोयेन संप्रोक्ष्य गरुडं ततः।
महाकुम्भस्थगरुडं पटस्थे तु निवेशयेत् ॥ 444 ॥

विश्वास-प्रस्तुतिः - 445

स्तम्भमूले समुत्कीर्य सास्त्रकुम्भजलं ततः।
कलशाष्टकतोयं च स्तम्भमूले विनिक्षिपेत् ॥ 445 ॥

मूलम् - 445

स्तम्भमूले समुत्कीर्य सास्त्रकुम्भजलं ततः।
कलशाष्टकतोयं च स्तम्भमूले विनिक्षिपेत् ॥ 445 ॥

विश्वास-प्रस्तुतिः - 446

आचर्य मन्त्रन्यासं तु पुष्पांजलिपुरस्सरम्।
सन्निधिं सन्निरोधं च साम्मुख्यं च समाचरेत् ॥ 446 ॥

मूलम् - 446

आचर्य मन्त्रन्यासं तु पुष्पांजलिपुरस्सरम्।
सन्निधिं सन्निरोधं च साम्मुख्यं च समाचरेत् ॥ 446 ॥

विश्वास-प्रस्तुतिः - 447

“अस्माद्दिनात् समारम्य यावत्तीर्थदिनान्तिमम्।
सन्निधिं कुरु पक्षीन्द्र! राज्ञो जनपदस्य च ॥ 447 ॥

मूलम् - 447

“अस्माद्दिनात् समारम्य यावत्तीर्थदिनान्तिमम्।
सन्निधिं कुरु पक्षीन्द्र! राज्ञो जनपदस्य च ॥ 447 ॥

विश्वास-प्रस्तुतिः - 448

ग्रामस्य यजमानस्य वैष्णवानां विशेषतः।
तुष्टये पुष्टये चैव सर्वशत्रुजयाय च ॥ 448 ॥

मूलम् - 448

ग्रामस्य यजमानस्य वैष्णवानां विशेषतः।
तुष्टये पुष्टये चैव सर्वशत्रुजयाय च ॥ 448 ॥

त्र्प्रपमृत्युजयार्थं च विहगेश! प्रसीद ओम्।" इति विज्ञाप्य पक्षीन्द्रं विकिरेते कुसुमांजलिम् ॥ 449 ॥
विश्वास-प्रस्तुतिः - 450

पूर्वाह्ने वाथ मध्माह्ने मुहूर्ते शोभने गुरुः।
रज्जुनारोहयेद्वीशं ध्वजस्थमनुचिन्तयन् ॥ 450 ॥

मूलम् - 450

पूर्वाह्ने वाथ मध्माह्ने मुहूर्ते शोभने गुरुः।
रज्जुनारोहयेद्वीशं ध्वजस्थमनुचिन्तयन् ॥ 450 ॥

विश्वास-प्रस्तुतिः - 451

रज्जुं च बन्धयेत् स्तंभे प्रादक्षिण्यक्रमेण तु।
प्रासादाभिमुखं स्तम्भे स्थापयेद्गरुडध्वजम् ॥ 451 ॥

मूलम् - 451

रज्जुं च बन्धयेत् स्तंभे प्रादक्षिण्यक्रमेण तु।
प्रासादाभिमुखं स्तम्भे स्थापयेद्गरुडध्वजम् ॥ 451 ॥

विश्वास-प्रस्तुतिः - 452

विहगेश्वरबिंबं च स्तम्भाग्रे योजयेन्न वा।
सन्निधौ देवदेवस्य गत्वा पुष्पांजलिं क्षिपेत् ॥ 452 ॥

मूलम् - 452

विहगेश्वरबिंबं च स्तम्भाग्रे योजयेन्न वा।
सन्निधौ देवदेवस्य गत्वा पुष्पांजलिं क्षिपेत् ॥ 452 ॥

विश्वास-प्रस्तुतिः - 453

“ज्ञानतोऽज्ञानतो वापि यथोक्तं न कृतं मया।
तत् सर्वं पूर्णमेवास्तु सुतृप्तो भव सर्वदा ॥ 453 ॥

मूलम् - 453

“ज्ञानतोऽज्ञानतो वापि यथोक्तं न कृतं मया।
तत् सर्वं पूर्णमेवास्तु सुतृप्तो भव सर्वदा ॥ 453 ॥

विश्वास-प्रस्तुतिः - 454

ओमच्युतक्ष! जगन्नाथ! मन्त्रमूर्ते! जनार्दन!।
रक्ष मां पुण्डरीकाक्ष! क्षमस्वाज! प्रसीद ओम्” ॥ 454 ॥

मूलम् - 454

ओमच्युतक्ष! जगन्नाथ! मन्त्रमूर्ते! जनार्दन!।
रक्ष मां पुण्डरीकाक्ष! क्षमस्वाज! प्रसीद ओम्” ॥ 454 ॥

विश्वास-प्रस्तुतिः - 455

इति विज्ञाप्य देवेशं यात्रामूर्तिगतं विभुम्।
अन्यत्र मण्डपे नीत्वा विशेषार्चनपूर्वकम् ॥ 455 ॥

मूलम् - 455

इति विज्ञाप्य देवेशं यात्रामूर्तिगतं विभुम्।
अन्यत्र मण्डपे नीत्वा विशेषार्चनपूर्वकम् ॥ 455 ॥

विश्वास-प्रस्तुतिः - 456

प्रभूतान्नं निवेद्याथ सर्वं हवनपश्चिमम्।
कृत्वा यथाक्रमेणैव प्रासादं तु प्रवेशयेत् ॥ 456 ॥

मूलम् - 456

प्रभूतान्नं निवेद्याथ सर्वं हवनपश्चिमम्।
कृत्वा यथाक्रमेणैव प्रासादं तु प्रवेशयेत् ॥ 456 ॥

विश्वास-प्रस्तुतिः - 457

ध्वजपीठोपरिष्टात्तु स्तंभमूले प्रकल्पयेत्।
अष्टपत्रं तु कमलं चतुरावरणान्वितम् ॥ 457 ॥

मूलम् - 457

ध्वजपीठोपरिष्टात्तु स्तंभमूले प्रकल्पयेत्।
अष्टपत्रं तु कमलं चतुरावरणान्वितम् ॥ 457 ॥

विश्वास-प्रस्तुतिः - 458

सकर्णिकं यथा स्तम्भः कर्णिकास्थो विराजते।
चतुरंगुलविस्तारास्तावन्मानेन चोन्नताः ॥ 458 ॥

मूलम् - 458

सकर्णिकं यथा स्तम्भः कर्णिकास्थो विराजते।
चतुरंगुलविस्तारास्तावन्मानेन चोन्नताः ॥ 458 ॥

विश्वास-प्रस्तुतिः - 459

कर्तव्या मेखलाः सर्वाश्चतुरश्रा द्विजोत्तम!।
स्तंभमानं विना पझं ष़डंगुलसमन्वितम् ॥ 459 ॥

मूलम् - 459

कर्तव्या मेखलाः सर्वाश्चतुरश्रा द्विजोत्तम!।
स्तंभमानं विना पझं ष़डंगुलसमन्वितम् ॥ 459 ॥

विश्वास-प्रस्तुतिः - 460

तावद्विस्तारसंयुक्तं मेखलोपरि विन्यसेत्।
पीठोर्ध्वे तु प्रपां कुर्यात् चतुस्तंभसमन्विताम् ॥ 460 ॥

मूलम् - 460

तावद्विस्तारसंयुक्तं मेखलोपरि विन्यसेत्।
पीठोर्ध्वे तु प्रपां कुर्यात् चतुस्तंभसमन्विताम् ॥ 460 ॥

विश्वास-प्रस्तुतिः - 461

यद्वा स्तंभाष्टकोपेतां षोडशस्तंभसंयुताम्।
चतुस्तोरण संयुक्तां दर्भमालापरिष्कृताम् ॥ 461 ॥

मूलम् - 461

यद्वा स्तंभाष्टकोपेतां षोडशस्तंभसंयुताम्।
चतुस्तोरण संयुक्तां दर्भमालापरिष्कृताम् ॥ 461 ॥

विश्वास-प्रस्तुतिः - 462

भूषितां तु पताकाद्यैर्बाह्ये यवनिकान्विताम्।
दीपान् प्रदीपयेत्तत्र अनिर्वाणान् समन्ततः ॥ 462 ॥

मूलम् - 462

भूषितां तु पताकाद्यैर्बाह्ये यवनिकान्विताम्।
दीपान् प्रदीपयेत्तत्र अनिर्वाणान् समन्ततः ॥ 462 ॥

विश्वास-प्रस्तुतिः - 463

तद्वासरात् समारभ्य पुष्पयागादिनान्तिमम्।
त्रिसन्ध्यमर्चनं कुर्यात् सविशेषं जपान्तिमम् ॥ 463 ॥

मूलम् - 463

तद्वासरात् समारभ्य पुष्पयागादिनान्तिमम्।
त्रिसन्ध्यमर्चनं कुर्यात् सविशेषं जपान्तिमम् ॥ 463 ॥

विश्वास-प्रस्तुतिः - 464

उत्सवारम्भदिवसात् त्रिसप्तदिनमाचरेत्।
पूजालोपो न कर्तव्यो द्विगुणीकृत्य आचरेत् ॥ 464 ॥

मूलम् - 464

उत्सवारम्भदिवसात् त्रिसप्तदिनमाचरेत्।
पूजालोपो न कर्तव्यो द्विगुणीकृत्य आचरेत् ॥ 464 ॥

विश्वास-प्रस्तुतिः - 465

बलिकाले बलिं दद्यादस्यापि प्रतिवासरम्।
प्रदोषे समनुप्राप्ते यात्रबिंबगर्त विभुम् ॥ 465 ॥

मूलम् - 465

बलिकाले बलिं दद्यादस्यापि प्रतिवासरम्।
प्रदोषे समनुप्राप्ते यात्रबिंबगर्त विभुम् ॥ 465 ॥

विश्वास-प्रस्तुतिः - 466

अलंकृत्य यथान्यायं नयेदास्थानमण्टपम्।
भद्रासने समारोप्य विभवेन तु पूर्ववत् ॥ 466 ॥

मूलम् - 466

अलंकृत्य यथान्यायं नयेदास्थानमण्टपम्।
भद्रासने समारोप्य विभवेन तु पूर्ववत् ॥ 466 ॥

विश्वास-प्रस्तुतिः - 467

कृत्वा होमावसानं तु भेरीताडनमाचरेत्।
अग्रतस्तु विभोः स्थाप्य भेरीं वै धान्यविष्टरे ॥ 467 ॥

मूलम् - 467

कृत्वा होमावसानं तु भेरीताडनमाचरेत्।
अग्रतस्तु विभोः स्थाप्य भेरीं वै धान्यविष्टरे ॥ 467 ॥

विश्वास-प्रस्तुतिः - 468

तत्पूर्वे शंखनिकरं वह्नौ काहलसंचयम्।
याम्ये तु मद्दलं तन्त्रीं वंशयुक्तां तु यातुदिक् ॥ 468 ॥

मूलम् - 468

तत्पूर्वे शंखनिकरं वह्नौ काहलसंचयम्।
याम्ये तु मद्दलं तन्त्रीं वंशयुक्तां तु यातुदिक् ॥ 468 ॥

विश्वास-प्रस्तुतिः - 469

वारुण्यां तु मृदंगं च डुड्‌डुकसंयुतम्।
वायव्ये झल्लरीं न्यस्य कांस्यतालसमन्विताम् ॥ 469 ॥

मूलम् - 469

वारुण्यां तु मृदंगं च डुड्‌डुकसंयुतम्।
वायव्ये झल्लरीं न्यस्य कांस्यतालसमन्विताम् ॥ 469 ॥

विश्वास-प्रस्तुतिः - 470

पटहं ह्रस्वपटहं सोमे डुड्‌डुकसंयुतम्।
एशान्यां डुड्‌डुकां झल्लीं हस्तद्यंटासमन्वितात् ॥ 470 ॥

मूलम् - 470

पटहं ह्रस्वपटहं सोमे डुड्‌डुकसंयुतम्।
एशान्यां डुड्‌डुकां झल्लीं हस्तद्यंटासमन्वितात् ॥ 470 ॥

विश्वास-प्रस्तुतिः - 471

तेषां बाह्ये तु विप्रेन्द्र! दक्षिणे गणिकाजनम्।
न्यसेन्मंगलगानार्थं तत्पाश्वे मन्त्रगायकान् ॥ 471 ॥

मूलम् - 471

तेषां बाह्ये तु विप्रेन्द्र! दक्षिणे गणिकाजनम्।
न्यसेन्मंगलगानार्थं तत्पाश्वे मन्त्रगायकान् ॥ 471 ॥

विश्वास-प्रस्तुतिः - 472

नर्तकानग्रतः स्थाप्य उत्तरे वन्दिबृन्दकान्।
स्वे स्वे स्थानेषु संस्थाप्य अन्यान् वै वाद्यकोविदान् ॥ 472 ॥

मूलम् - 472

नर्तकानग्रतः स्थाप्य उत्तरे वन्दिबृन्दकान्।
स्वे स्वे स्थानेषु संस्थाप्य अन्यान् वै वाद्यकोविदान् ॥ 472 ॥

विश्वास-प्रस्तुतिः - 473

एवं क्रमेण संस्थाप्य संभवानुगुणं द्विज!।
वाससा वेष्टयेद्वापि भेरीं वित्तानुरूपतः ॥ 473 ॥

मूलम् - 473

एवं क्रमेण संस्थाप्य संभवानुगुणं द्विज!।
वाससा वेष्टयेद्वापि भेरीं वित्तानुरूपतः ॥ 473 ॥

विश्वास-प्रस्तुतिः - 474

शब्दविग्रहमाकाशं भेर्यां संस्मृत्य पूजयेत्।
कोणं तद्दाक्षिणे स्थाप्य वायुं तत्र सुपूजयेत् ॥ 474 ॥

मूलम् - 474

शब्दविग्रहमाकाशं भेर्यां संस्मृत्य पूजयेत्।
कोणं तद्दाक्षिणे स्थाप्य वायुं तत्र सुपूजयेत् ॥ 474 ॥

विश्वास-प्रस्तुतिः - 475

ततः पारशवं स्नानं दर्भपाणिमलंकृतम्।
उपवीतादिसंयुक्तं अग्रतःस्थाप्य वीक्षयेत् ॥ 475 ॥

मूलम् - 475

ततः पारशवं स्नानं दर्भपाणिमलंकृतम्।
उपवीतादिसंयुक्तं अग्रतःस्थाप्य वीक्षयेत् ॥ 475 ॥

विश्वास-प्रस्तुतिः - 476

अस्त्रेण प्रोक्षयेत् पश्चादर्घ्यतोयेन तत्परम्।
तेनैव ताडयेद्बैरीं गीतनृत्तपुरस्सरम् ॥ 476 ॥

मूलम् - 476

अस्त्रेण प्रोक्षयेत् पश्चादर्घ्यतोयेन तत्परम्।
तेनैव ताडयेद्बैरीं गीतनृत्तपुरस्सरम् ॥ 476 ॥

विश्वास-प्रस्तुतिः - 477

शंखवाद्यादि संयुक्तं मथवा देशिकः स्वयम्।
मुहूर्ते शोभने प्राप्ते ताडयित्वा तु बेरिकाम् ॥ 477 ॥

मूलम् - 477

शंखवाद्यादि संयुक्तं मथवा देशिकः स्वयम्।
मुहूर्ते शोभने प्राप्ते ताडयित्वा तु बेरिकाम् ॥ 477 ॥

विश्वास-प्रस्तुतिः - 478

कोणेन प्रथमं ध्यायन् हयग्रीवं जनार्दनम्।
त्रिस्थानादिषु देवानां त्रिधा वै तेन ताडयेत् ॥ 478 ॥

मूलम् - 478

कोणेन प्रथमं ध्यायन् हयग्रीवं जनार्दनम्।
त्रिस्थानादिषु देवानां त्रिधा वै तेन ताडयेत् ॥ 478 ॥

विश्वास-प्रस्तुतिः - 479

ततः पारशवेनैव ताडयेत्तु यथेच्छया।
देवतावाहनीं गाधां संस्कृतां प्राकृतां तु वा ॥ 479 ॥

मूलम् - 479

ततः पारशवेनैव ताडयेत्तु यथेच्छया।
देवतावाहनीं गाधां संस्कृतां प्राकृतां तु वा ॥ 479 ॥

विश्वास-प्रस्तुतिः - 480

द्रामिडीं वा यथेच्छातस्तदा संश्रावयेद्विभुम्।
तत्काले देवतानृत्तं तत्तद्गीतादिसंयुतम् ॥ 480 ॥

मूलम् - 480

द्रामिडीं वा यथेच्छातस्तदा संश्रावयेद्विभुम्।
तत्काले देवतानृत्तं तत्तद्गीतादिसंयुतम् ॥ 480 ॥

विश्वास-प्रस्तुतिः - 481

दर्शयेद्देवदेवस्य देवतानां सुतृप्तये।
ततस्तु देवदेवेशं गर्भगेहे प्रवेशयेत् ॥ 481 ॥

मूलम् - 481

दर्शयेद्देवदेवस्य देवतानां सुतृप्तये।
ततस्तु देवदेवेशं गर्भगेहे प्रवेशयेत् ॥ 481 ॥

विश्वास-प्रस्तुतिः - 482

पायसं द्रोणमानं तु समादायाथ पात्रतः।
तथार्घ्यगन्धमाल्यादि धूपं तांबूलमेव च ॥ 482 ॥

मूलम् - 482

पायसं द्रोणमानं तु समादायाथ पात्रतः।
तथार्घ्यगन्धमाल्यादि धूपं तांबूलमेव च ॥ 482 ॥

विश्वास-प्रस्तुतिः - 483

प्रासादद्वारमारभ्य बहिर्द्वारावसानकम्।
आवृतिष्वपि सर्वासु वीथ्यावरणपश्चिमम् ॥ 483 ॥

मूलम् - 483

प्रासादद्वारमारभ्य बहिर्द्वारावसानकम्।
आवृतिष्वपि सर्वासु वीथ्यावरणपश्चिमम् ॥ 483 ॥

विश्वास-प्रस्तुतिः - 484

बलिं प्रदाय विधिना गीतनृत्तादिसंयुतम्।
ततः प्रविश्य ग्रामं तु पूर्वस्यां दिशि संस्थितः ॥ 484 ॥

मूलम् - 484

बलिं प्रदाय विधिना गीतनृत्तादिसंयुतम्।
ततः प्रविश्य ग्रामं तु पूर्वस्यां दिशि संस्थितः ॥ 484 ॥

विश्वास-प्रस्तुतिः - 485

देवतावाहनं कुर्यात् प्राङ्‌मुखो देशिकः स्वयम्।
तत्पुत्रस्तस्य शिष्यो वा स्वरेणोच्चतरेण तु ॥ 485 ॥

मूलम् - 485

देवतावाहनं कुर्यात् प्राङ्‌मुखो देशिकः स्वयम्।
तत्पुत्रस्तस्य शिष्यो वा स्वरेणोच्चतरेण तु ॥ 485 ॥

विश्वास-प्रस्तुतिः - 486

“आगच्छतामरगणाः! प्रागाशां येऽधिशेरते।
विरूपाश्च सुरूपाश्च सपर्यामुद्यतामिमाम् ॥ 486 ॥

मूलम् - 486

“आगच्छतामरगणाः! प्रागाशां येऽधिशेरते।
विरूपाश्च सुरूपाश्च सपर्यामुद्यतामिमाम् ॥ 486 ॥

विश्वास-प्रस्तुतिः - 487

गृहीत्वा पान्तु नस्तृप्ताः कुमुदस्यानुयायिनः।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ 487 ॥”

मूलम् - 487

गृहीत्वा पान्तु नस्तृप्ताः कुमुदस्यानुयायिनः।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ 487 ॥”

विश्वास-प्रस्तुतिः - 488

अनेन मन्त्रेणावाह्य कुमुदं सगणं ततः।
अर्घ्यालेपनमाल्यादि धूपं तोयं यथाक्रमम् ॥ 488 ॥

मूलम् - 488

अनेन मन्त्रेणावाह्य कुमुदं सगणं ततः।
अर्घ्यालेपनमाल्यादि धूपं तोयं यथाक्रमम् ॥ 488 ॥

विश्वास-प्रस्तुतिः - 489

पायसान्नं पुनस्तोयं ताम्बूलं च प्रदापयेत्।
पश्चात् संतोषयेद्रम्यैर्महद्भिः शङ्खजै रवैः ॥ 489 ॥

मूलम् - 489

पायसान्नं पुनस्तोयं ताम्बूलं च प्रदापयेत्।
पश्चात् संतोषयेद्रम्यैर्महद्भिः शङ्खजै रवैः ॥ 489 ॥

विश्वास-प्रस्तुतिः - 490

तदीयतालसङ्गीतनृत्तैश्चापि, ततः परम्।
“आगच्छतामरगणाः! येऽग्न्याशामधिशेरते ॥ 490 ॥

मूलम् - 490

तदीयतालसङ्गीतनृत्तैश्चापि, ततः परम्।
“आगच्छतामरगणाः! येऽग्न्याशामधिशेरते ॥ 490 ॥

विश्वास-प्रस्तुतिः - 491

भीमाभीममुखा रौद्राः सपर्यामुद्यतामिमाम्।
गृहीत्वा पान्तु नस्तृप्ताः कुमुदाक्षानुयानिनः ॥ 491 ॥

मूलम् - 491

भीमाभीममुखा रौद्राः सपर्यामुद्यतामिमाम्।
गृहीत्वा पान्तु नस्तृप्ताः कुमुदाक्षानुयानिनः ॥ 491 ॥

महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः।" अनेन कुमुदाक्षं तु समाबाह्य गणाधिपम् ॥ 492 ॥
विश्वास-प्रस्तुतिः - 493

प्राग्वत् सन्तोषयित्वा तु, ततः संप्राप्य याम्यदिक्।
“आगच्छत पितृगणाः! याम्याशानधिशेरते ॥ 493 ॥

मूलम् - 493

प्राग्वत् सन्तोषयित्वा तु, ततः संप्राप्य याम्यदिक्।
“आगच्छत पितृगणाः! याम्याशानधिशेरते ॥ 493 ॥

विश्वास-प्रस्तुतिः - 494

दारुणाऽदारुणाचाराः सपर्यामुद्यतामिमाम्।
गृहीत्वा पान्तु नस्तृप्ताः पुण्डरीकानुयायिनः ॥ 494 ॥

मूलम् - 494

दारुणाऽदारुणाचाराः सपर्यामुद्यतामिमाम्।
गृहीत्वा पान्तु नस्तृप्ताः पुण्डरीकानुयायिनः ॥ 494 ॥

महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः।" अनेन पुण्डरीकाख्यं समावाह्य गणेश्वरम् ॥ 495 ॥
विश्वास-प्रस्तुतिः - 496

क्रमेण पूजयित्वा तु गत्वा वै यातुधानदिक्।
“आगच्छत यातुगणाः! यात्वाशां येधिशेरते ॥ 496 ॥

मूलम् - 496

क्रमेण पूजयित्वा तु गत्वा वै यातुधानदिक्।
“आगच्छत यातुगणाः! यात्वाशां येधिशेरते ॥ 496 ॥

विश्वास-प्रस्तुतिः - 497

क्रव्याशिनः क्रूरधियः सपर्यामुद्यतामिमाम्।
गृहीत्वा पान्तु नस्तृप्ता वामनस्यानुयायिनः ॥ 497 ॥

मूलम् - 497

क्रव्याशिनः क्रूरधियः सपर्यामुद्यतामिमाम्।
गृहीत्वा पान्तु नस्तृप्ता वामनस्यानुयायिनः ॥ 497 ॥

महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः।" इत्यावाह्य गणेशं तु वामनं पूजयेत् क्रमात् ॥ 498 ॥
विश्वास-प्रस्तुतिः - 499

वारुणाशां ततो गत्वा शंकुकर्णं गणेश्वरम्।
“आगच्छताऽहिप्रथमाः! प्रतीचीं येऽधिशेरते ॥ 499 ॥

मूलम् - 499

वारुणाशां ततो गत्वा शंकुकर्णं गणेश्वरम्।
“आगच्छताऽहिप्रथमाः! प्रतीचीं येऽधिशेरते ॥ 499 ॥

विश्वास-प्रस्तुतिः - 500

महद्विषा दन्दशूकाः सपर्यामुद्यतामिमाम्।
गृहीत्वा पान्तु नस्तृप्ताः शंकुकर्णानुयायिनः ॥ 500 ॥

मूलम् - 500

महद्विषा दन्दशूकाः सपर्यामुद्यतामिमाम्।
गृहीत्वा पान्तु नस्तृप्ताः शंकुकर्णानुयायिनः ॥ 500 ॥

महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः।" इत्यावाह्य यजेत् प्राग्वत्, पश्चात् संप्राप्य वायुदिक ॥ 501 ॥
विश्वास-प्रस्तुतिः - 502

“आयान्तु गन्धर्वगणाः! वाय्वाशां येऽधिशेरते।
सुदर्शना भीमवेगाः सपर्यामुद्यतामिमाम् ॥ 502 ॥

मूलम् - 502

“आयान्तु गन्धर्वगणाः! वाय्वाशां येऽधिशेरते।
सुदर्शना भीमवेगाः सपर्यामुद्यतामिमाम् ॥ 502 ॥

विश्वास-प्रस्तुतिः - 503

गृहीत्वा पान्तु नस्तृप्ताः स(र्प)र्वनेत्रानुयायिनः।
महमिममुपयातु प्रीतास्तेब्यो नमोऽस्तु वः ॥ 503 ॥

मूलम् - 503

गृहीत्वा पान्तु नस्तृप्ताः स(र्प)र्वनेत्रानुयायिनः।
महमिममुपयातु प्रीतास्तेब्यो नमोऽस्तु वः ॥ 503 ॥

विश्वास-प्रस्तुतिः - 504

अनेनावाह्य सगणं सर्वनेत्रं तु तोषयेत्।
ततःसोमदिशं गत्वा सुमुखं तु गणाधिपम् ॥ 504 ॥

मूलम् - 504

अनेनावाह्य सगणं सर्वनेत्रं तु तोषयेत्।
ततःसोमदिशं गत्वा सुमुखं तु गणाधिपम् ॥ 504 ॥

विश्वास-प्रस्तुतिः - 505

“आगच्छत यक्षगणाः! उदीचीं येऽधिशेरते।
विरूपा दण्डहस्ताश्च सपर्यामुद्यतामिमाम् ॥ 505 ॥

मूलम् - 505

“आगच्छत यक्षगणाः! उदीचीं येऽधिशेरते।
विरूपा दण्डहस्ताश्च सपर्यामुद्यतामिमाम् ॥ 505 ॥

विश्वास-प्रस्तुतिः - 506

गृहीत्वा पान्तु नस्तृप्ताः सुमुखस्यानुयायिनः।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ 506 ॥

मूलम् - 506

गृहीत्वा पान्तु नस्तृप्ताः सुमुखस्यानुयायिनः।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ 506 ॥

विश्वास-प्रस्तुतिः - 507

इति मन्त्रेण चावाह्य तोषयेत् पूर्ववर्त्मना।
ततस्त्वीशदिशं गत्वा गणेशं सुप्रतिष्ठितम् ॥ 507 ॥

मूलम् - 507

इति मन्त्रेण चावाह्य तोषयेत् पूर्ववर्त्मना।
ततस्त्वीशदिशं गत्वा गणेशं सुप्रतिष्ठितम् ॥ 507 ॥

विश्वास-प्रस्तुतिः - 508

आयान्तु पिशाचगणाः! ईशाशां येऽधिशेरते।
सशूलायुधहस्ताश्च सपर्यामुद्यतामिमाम् ॥ 508 ॥

मूलम् - 508

आयान्तु पिशाचगणाः! ईशाशां येऽधिशेरते।
सशूलायुधहस्ताश्च सपर्यामुद्यतामिमाम् ॥ 508 ॥

विश्वास-प्रस्तुतिः - 509

गृहीत्वा पान्तु नस्तृप्ताः सुप्रतिष्ठानुयायिनः।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ 509 ॥

मूलम् - 509

गृहीत्वा पान्तु नस्तृप्ताः सुप्रतिष्ठानुयायिनः।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ 509 ॥

विश्वास-प्रस्तुतिः - 510

मन्त्रेणावाह्य संपूज्य गत्वा वै ग्राममध्यतः।
तत्र चावाहयेदूर्ध्वं पृश्निगर्भं गणेश्वरम् ॥ 510 ॥

मूलम् - 510

मन्त्रेणावाह्य संपूज्य गत्वा वै ग्राममध्यतः।
तत्र चावाहयेदूर्ध्वं पृश्निगर्भं गणेश्वरम् ॥ 510 ॥

विश्वास-प्रस्तुतिः - 511

आगच्छत सिद्धगणाः! गगनं येऽधिशेरते।
शुचिमतयः शुचयः सपर्यामुद्यतामिमाम् ॥ 511 ॥

मूलम् - 511

आगच्छत सिद्धगणाः! गगनं येऽधिशेरते।
शुचिमतयः शुचयः सपर्यामुद्यतामिमाम् ॥ 511 ॥

विश्वास-प्रस्तुतिः - 512

गृहीत्वा पान्तु नस्तृप्ताः पृश्निगर्भानुयायिनः।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ 512 ॥

मूलम् - 512

गृहीत्वा पान्तु नस्तृप्ताः पृश्निगर्भानुयायिनः।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ 512 ॥

विश्वास-प्रस्तुतिः - 513

आवाह्य तोषयित्वा तु, अथस्तान्मानवं ततः।
आगच्छताधरगणाः! पृथिवीं येऽधिशेरते ॥ 513 ॥

मूलम् - 513

आवाह्य तोषयित्वा तु, अथस्तान्मानवं ततः।
आगच्छताधरगणाः! पृथिवीं येऽधिशेरते ॥ 513 ॥

विश्वास-प्रस्तुतिः - 514

बहुरूपा बहुज्ञानाः सपर्यामुद्यतामिमाम्।
गृहीत्वा पान्तु नस्तृप्ता मानवस्यानुयायिनः ॥ 514 ॥

मूलम् - 514

बहुरूपा बहुज्ञानाः सपर्यामुद्यतामिमाम्।
गृहीत्वा पान्तु नस्तृप्ता मानवस्यानुयायिनः ॥ 514 ॥

विश्वास-प्रस्तुतिः - 515

महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः।
आवाह्य तोषयेत् प्राग्वत् क्रमान्नृत्तावसानकम् ॥ 515 ॥

मूलम् - 515

महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः।
आवाह्य तोषयेत् प्राग्वत् क्रमान्नृत्तावसानकम् ॥ 515 ॥

विश्वास-प्रस्तुतिः - 516

तृप्तये सर्वभूतानां बलिशेषं ततः क्षिपेत्।
बलिदाने तु पूर्वादिवैबस्वतदिगन्तिमम् ॥ 516 ॥

मूलम् - 516

तृप्तये सर्वभूतानां बलिशेषं ततः क्षिपेत्।
बलिदाने तु पूर्वादिवैबस्वतदिगन्तिमम् ॥ 516 ॥

विश्वास-प्रस्तुतिः - 517

आचार्यः प्राङ्‌मुखः स्थित्वा कुर्यादावाहनादिकम्।
यात्वादिदिक्त्रये कुर्यात् पूर्वोदितमुदङ्‌मुखः ॥ 517 ॥

मूलम् - 517

आचार्यः प्राङ्‌मुखः स्थित्वा कुर्यादावाहनादिकम्।
यात्वादिदिक्त्रये कुर्यात् पूर्वोदितमुदङ्‌मुखः ॥ 517 ॥

विश्वास-प्रस्तुतिः - 518

सोमेशदिग्द्वये ग्राममध्येपि प्राङ्‌मुखो भवेत्।
समतालस्तथाबद्धस्तालो वै भृङ्गिणी तथा ॥ 518 ॥

मूलम् - 518

सोमेशदिग्द्वये ग्राममध्येपि प्राङ्‌मुखो भवेत्।
समतालस्तथाबद्धस्तालो वै भृङ्गिणी तथा ॥ 518 ॥

विश्वास-प्रस्तुतिः - 519

मल्लतालो मंगलश्च जयतालस्तु भद्रकः।
ढक्करीसंज्ञितस्तालो ब्रह्नतालस्तथैव च ॥ 519 ॥

मूलम् - 519

मल्लतालो मंगलश्च जयतालस्तु भद्रकः।
ढक्करीसंज्ञितस्तालो ब्रह्नतालस्तथैव च ॥ 519 ॥

विश्वास-प्रस्तुतिः - 520

अनन्तताल इत्यते दश तालाः प्रकीर्तिताः।
कुमुदादिगणेशानां दशानां क्रमशो द्विज! ॥ 520 ॥

मूलम् - 520

अनन्तताल इत्यते दश तालाः प्रकीर्तिताः।
कुमुदादिगणेशानां दशानां क्रमशो द्विज! ॥ 520 ॥

विश्वास-प्रस्तुतिः - 521

षडजर्षभौ च गान्धारौ मध्यमः पञ्चमस्तथा।
धैवतश्चैव निषदो धैवतो मद्यमस्तथा ॥ 521 ॥

मूलम् - 521

षडजर्षभौ च गान्धारौ मध्यमः पञ्चमस्तथा।
धैवतश्चैव निषदो धैवतो मद्यमस्तथा ॥ 521 ॥

विश्वास-प्रस्तुतिः - 522

पञ्चमश्च क्रमेणैव कथिताः स्युर्दश स्वराः।
गान्धाररागः कौलयाख्यः कैशिको नट्‌टभाषिकः ॥ 522 ॥

मूलम् - 522

पञ्चमश्च क्रमेणैव कथिताः स्युर्दश स्वराः।
गान्धाररागः कौलयाख्यः कैशिको नट्‌टभाषिकः ॥ 522 ॥

विश्वास-प्रस्तुतिः - 523

श्रीकामदश्च तत्केशी दक्षरागस्तथैव च।
चोलापाण्यभिधो रागौ मेधरागश्च पश्चिमः ॥ 523 ॥

मूलम् - 523

श्रीकामदश्च तत्केशी दक्षरागस्तथैव च।
चोलापाण्यभिधो रागौ मेधरागश्च पश्चिमः ॥ 523 ॥

विश्वास-प्रस्तुतिः - 524

इत्येते कुमुदादीनां दश रागाः प्रकीर्तिताः।
विलासं सर्वतोभद्रं खेटकं चक्रमण्डलम् ॥ 524 ॥

मूलम् - 524

इत्येते कुमुदादीनां दश रागाः प्रकीर्तिताः।
विलासं सर्वतोभद्रं खेटकं चक्रमण्डलम् ॥ 524 ॥

विश्वास-प्रस्तुतिः - 525

कान्तारकुट्टिमं पृष्ठकुट्टिमं कटिबन्धनम्।
वामजानूध्वनत्तं च आदिमं च द्वयं पुनः ॥ 525 ॥

मूलम् - 525

कान्तारकुट्टिमं पृष्ठकुट्टिमं कटिबन्धनम्।
वामजानूध्वनत्तं च आदिमं च द्वयं पुनः ॥ 525 ॥

विश्वास-प्रस्तुतिः - 526

एते नृत्तविशेषाश्च कुमुदानां क्रमात् स्मृताः।
एते ह्यावृतिदेवानां क्रमात्तालादयः स्मृताः ॥ 526 ॥

मूलम् - 526

एते नृत्तविशेषाश्च कुमुदानां क्रमात् स्मृताः।
एते ह्यावृतिदेवानां क्रमात्तालादयः स्मृताः ॥ 526 ॥

विश्वास-प्रस्तुतिः - 527

अन्येषां सर्वदेवानां तालो भद्रः प्रशस्यते।
भवेद्गारूडतालस्तु पक्षीशस्य तु, मध्यमः ॥ 527 ॥

मूलम् - 527

अन्येषां सर्वदेवानां तालो भद्रः प्रशस्यते।
भवेद्गारूडतालस्तु पक्षीशस्य तु, मध्यमः ॥ 527 ॥

विश्वास-प्रस्तुतिः - 528

स्वरो, रागस्तु गोडः स्यान्नृत्तं वै विष्णुकान्तकम्।
विघ्नारेर्जयतालं स्यान्नृत्तं स्वस्तिकमुच्यते ॥ 528 ॥

मूलम् - 528

स्वरो, रागस्तु गोडः स्यान्नृत्तं वै विष्णुकान्तकम्।
विघ्नारेर्जयतालं स्यान्नृत्तं स्वस्तिकमुच्यते ॥ 528 ॥

विश्वास-प्रस्तुतिः - 529

ऋषभस्तु स्वरः प्रोक्तो वराटीराग एव च।
भेरीताडनपूर्वं तु देवतावाहनं चरेत् ॥ 529 ॥

मूलम् - 529

ऋषभस्तु स्वरः प्रोक्तो वराटीराग एव च।
भेरीताडनपूर्वं तु देवतावाहनं चरेत् ॥ 529 ॥

विश्वास-प्रस्तुतिः - 530

घोषयेद्गारुडं तालमन्तराले तु वै दिशाम्।
तत्काले देशिकेन्द्रेण स्वयं संस्कृतगाधया ॥ 530 ॥

मूलम् - 530

घोषयेद्गारुडं तालमन्तराले तु वै दिशाम्।
तत्काले देशिकेन्द्रेण स्वयं संस्कृतगाधया ॥ 530 ॥

विश्वास-प्रस्तुतिः - 531

अन्ये चतुर्मुखमुखा आङूतव्या मरुद्‌गुणाः।
देवस्योत्सवसेवार्थं तथान्ये भगवद्गणाः ॥ 531 ॥

मूलम् - 531

अन्ये चतुर्मुखमुखा आङूतव्या मरुद्‌गुणाः।
देवस्योत्सवसेवार्थं तथान्ये भगवद्गणाः ॥ 531 ॥

विश्वास-प्रस्तुतिः - 532

तथान्ये भगवद्भक्ता जनास्तत्पदवासिनः।
यद्वा गुरोरनुमतैर्भगवद्भक्तिबृहितैः ॥ 532 ॥

मूलम् - 532

तथान्ये भगवद्भक्ता जनास्तत्पदवासिनः।
यद्वा गुरोरनुमतैर्भगवद्भक्तिबृहितैः ॥ 532 ॥

विश्वास-प्रस्तुतिः - 533

आहूतव्यास्तु तैर्विप्रैर्दिव्यया गाधया द्विज!।
एवं ग्रामं परिभ्राम्य प्रासादं संप्रविश्य तु ॥ 533 ॥

मूलम् - 533

आहूतव्यास्तु तैर्विप्रैर्दिव्यया गाधया द्विज!।
एवं ग्रामं परिभ्राम्य प्रासादं संप्रविश्य तु ॥ 533 ॥

विश्वास-प्रस्तुतिः - 534

गरुडस्थानमासाद्य तोषयित्वा खगघ्वजम्।
तालादिकैस्ततस्त्वेनं विष्वक्‌सेनं तु तोषयेत् ॥ 534 ॥

मूलम् - 534

गरुडस्थानमासाद्य तोषयित्वा खगघ्वजम्।
तालादिकैस्ततस्त्वेनं विष्वक्‌सेनं तु तोषयेत् ॥ 534 ॥

विश्वास-प्रस्तुतिः - 535

देवतावाहनं येऽत्र द्रष्टुकामाः समाहिताः।
भेरीताडनशब्दं च तथा श्रृण्वन्ति ये जनाः ॥ 535 ॥

मूलम् - 535

देवतावाहनं येऽत्र द्रष्टुकामाः समाहिताः।
भेरीताडनशब्दं च तथा श्रृण्वन्ति ये जनाः ॥ 535 ॥

विश्वास-प्रस्तुतिः - 536

तद्देशात्ते न गच्छेयुर्यावत्तीर्थदिनान्तिमम्।
मोहेन यदि गच्छेयुस्ते भविष्यन्ति रोगिणः ॥ 536 ॥

मूलम् - 536

तद्देशात्ते न गच्छेयुर्यावत्तीर्थदिनान्तिमम्।
मोहेन यदि गच्छेयुस्ते भविष्यन्ति रोगिणः ॥ 536 ॥

विश्वास-प्रस्तुतिः - 537

न कुर्युस्ते नदीतारं न यानं योजनात् परम्।
याताश्चेत् पुनरागसत्य गरुडं संप्रपूज्य तु ॥ 537 ॥

मूलम् - 537

न कुर्युस्ते नदीतारं न यानं योजनात् परम्।
याताश्चेत् पुनरागसत्य गरुडं संप्रपूज्य तु ॥ 537 ॥

विश्वास-प्रस्तुतिः - 538

तीर्थयात्रां तु संसेव्य ते भविष्यन्ति नीरुजः।
एवं तु ध्वजमुत्थाप्य गुरुः पश्चात् समाहितः ॥ 538 ॥

मूलम् - 538

तीर्थयात्रां तु संसेव्य ते भविष्यन्ति नीरुजः।
एवं तु ध्वजमुत्थाप्य गुरुः पश्चात् समाहितः ॥ 538 ॥

विश्वास-प्रस्तुतिः - 539

देवानां केशवादीनां मन्त्रैर्द्वादशभिः क्रमात्।
द्वादशाहं व्रतं कुर्यात् यात्रारंभदिनादितः ॥ 539 ॥

मूलम् - 539

देवानां केशवादीनां मन्त्रैर्द्वादशभिः क्रमात्।
द्वादशाहं व्रतं कुर्यात् यात्रारंभदिनादितः ॥ 539 ॥

विश्वास-प्रस्तुतिः - 540

स्नानार्चनादिकं कृत्वा पीत्वा तच्चरणोदकम्।
कुशोदकसमायुक्तं जपेद्वै द्वादशाक्षरम् ॥ 540 ॥

मूलम् - 540

स्नानार्चनादिकं कृत्वा पीत्वा तच्चरणोदकम्।
कुशोदकसमायुक्तं जपेद्वै द्वादशाक्षरम् ॥ 540 ॥

विश्वास-प्रस्तुतिः - 541

नैवेद्यप्राशनं पूर्वं कुर्यान्नक्ताशनं द्विज!।
जपेद्‌द्वादशनामानि क्रमाद्वाच्यमनुस्मरन् ॥ 541 ॥

मूलम् - 541

नैवेद्यप्राशनं पूर्वं कुर्यान्नक्ताशनं द्विज!।
जपेद्‌द्वादशनामानि क्रमाद्वाच्यमनुस्मरन् ॥ 541 ॥

विश्वास-प्रस्तुतिः - 542

अंकुरारोपणदिनाद्यावत्तु ध्वजवासरम्।
दिनषट्‌केन विप्रेन्द्र! प्रत्यहं व्रतमाचरेत् ॥ 542 ॥

मूलम् - 542

अंकुरारोपणदिनाद्यावत्तु ध्वजवासरम्।
दिनषट्‌केन विप्रेन्द्र! प्रत्यहं व्रतमाचरेत् ॥ 542 ॥

विश्वास-प्रस्तुतिः - 543

द्वादशाक्षरमन्त्रेण कुर्यादंकुरवासरे।
द्वितीये तुर्यमन्त्रेण, परे सुषुप्तिवाचकैः ॥ 543 ॥

मूलम् - 543

द्वादशाक्षरमन्त्रेण कुर्यादंकुरवासरे।
द्वितीये तुर्यमन्त्रेण, परे सुषुप्तिवाचकैः ॥ 543 ॥

विश्वास-प्रस्तुतिः - 544

स्वप्नमन्त्रैश्चतुर्थे तु, जाग्रन्मत्रैस्तु पञ्चमे।
केशवादिषु योनीनां मूर्तीनां वाचकैः परैः ॥ 544 ॥

मूलम् - 544

स्वप्नमन्त्रैश्चतुर्थे तु, जाग्रन्मत्रैस्तु पञ्चमे।
केशवादिषु योनीनां मूर्तीनां वाचकैः परैः ॥ 544 ॥

विश्वास-प्रस्तुतिः - 545

उत्सवारम्भणदिनाद्यावत्तीर्थदिनान्तिमम्।
वाचकैर्नवमूर्तींनां नवाहं व्रतमाचरेत् ॥ 545 ॥

मूलम् - 545

उत्सवारम्भणदिनाद्यावत्तीर्थदिनान्तिमम्।
वाचकैर्नवमूर्तींनां नवाहं व्रतमाचरेत् ॥ 545 ॥

विश्वास-प्रस्तुतिः - 546

यद्वा द्विषट्‌कमन्त्रेण सर्वत्रापि व्रतं चरेत्।
ध्वजार्थांकुरनक्षत्राद्यावत्तीर्थदिनान्तिमम् ॥ 546 ॥

मूलम् - 546

यद्वा द्विषट्‌कमन्त्रेण सर्वत्रापि व्रतं चरेत्।
ध्वजार्थांकुरनक्षत्राद्यावत्तीर्थदिनान्तिमम् ॥ 546 ॥

विश्वास-प्रस्तुतिः - 547

एवं व्रतसमायुक्त आचार्यः कृत्यमाचरेत्।
संकल्प्योत्सवमादौ तु व्रतसंकल्पपूर्वकम् ॥ 547 ॥

मूलम् - 547

एवं व्रतसमायुक्त आचार्यः कृत्यमाचरेत्।
संकल्प्योत्सवमादौ तु व्रतसंकल्पपूर्वकम् ॥ 547 ॥

विश्वास-प्रस्तुतिः - 548

ध्वजार्थमंकुरारोपं कुर्याद्यो देशिकोत्तमः।
कुर्याद्ध्वजावरोहान्तं सर्वं सर्म स एव तु ॥ 548 ॥

मूलम् - 548

ध्वजार्थमंकुरारोपं कुर्याद्यो देशिकोत्तमः।
कुर्याद्ध्वजावरोहान्तं सर्वं सर्म स एव तु ॥ 548 ॥

विश्वास-प्रस्तुतिः - 549

प्राज्ञोपि नेतरः कुर्यात्; यदि, कर्ता विनश्यति।
मृते वा व्याधिते तस्मिन् तदनुज्ञामवाप्य च ॥ 549 ॥

मूलम् - 549

प्राज्ञोपि नेतरः कुर्यात्; यदि, कर्ता विनश्यति।
मृते वा व्याधिते तस्मिन् तदनुज्ञामवाप्य च ॥ 549 ॥

विश्वास-प्रस्तुतिः - 550

नित्यानुष्टानलोपाच्च वैधुर्यादिविदूपिते।
अभ्यनुझां गुरोस्तस्य संप्राप्य विधिपूर्वकम् ॥ 550 ॥

मूलम् - 550

नित्यानुष्टानलोपाच्च वैधुर्यादिविदूपिते।
अभ्यनुझां गुरोस्तस्य संप्राप्य विधिपूर्वकम् ॥ 550 ॥

विश्वास-प्रस्तुतिः - 551

शेषं कुर्यात्तु तत्पुत्रस्तच्छिष्यो वा समाहितः।
अन्यो वा यदि वा भ्राता प्रायश्चित्तपुरस्सरम् ॥ 551 ॥

मूलम् - 551

शेषं कुर्यात्तु तत्पुत्रस्तच्छिष्यो वा समाहितः।
अन्यो वा यदि वा भ्राता प्रायश्चित्तपुरस्सरम् ॥ 551 ॥

इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे देवतावाहनान्तविधानं नाम षोडशोऽध्यायः ॥ *****************