०१४ स्नपनविधानम्

॥ श्रीः ॥
चतुर्दशोऽध्यायः
सनकः —

विश्वास-प्रस्तुतिः - 1

स्नपनानां विधिं ब्रह्नन्! समाख्याहि सविस्तरम्।
यझ्ज्ञानात् सकलाः पूर्णाः नित्यनैमित्तिकाः क्रियाः ॥ 1 ॥

मूलम् - 1

शाण्डिल्य :---
विश्वास-प्रस्तुतिः - 2

श्रृणुवत्स! महाबुद्धे! सावधानेन चेतसा।
विधानं स्नपनानां तु बहुभेदविनिर्मितम् ॥ 2 ॥

मूलम् - 2

श्रृणुवत्स! महाबुद्धे! सावधानेन चेतसा।
विधानं स्नपनानां तु बहुभेदविनिर्मितम् ॥ 2 ॥

विश्वास-प्रस्तुतिः - 3

प्रासादस्याग्रतः कुर्यान्मण्डपं तु तदर्थतः।
प्रथमावरणे वापि द्वितीयावरणेऽपि वा ॥ 3 ॥

मूलम् - 3

प्रासादस्याग्रतः कुर्यान्मण्डपं तु तदर्थतः।
प्रथमावरणे वापि द्वितीयावरणेऽपि वा ॥ 3 ॥

विश्वास-प्रस्तुतिः - 4

तृतीयावरणे वापि चतुर्थे पञ्चमेऽथवा।
आग्नेय्यां दक्षिणस्यां वा नैर्ऋत्यां पश्चिमे तु वा ॥ 4 ॥

मूलम् - 4

विश्वास-प्रस्तुतिः - 5

वायव्यामुत्तरस्यां वा ऐशान्यां वा यथा रुचि।
कुर्यान्मानादिकं सर्वं यागमण्डपवद्‌द्विज! ॥ 5 ॥

मूलम् - 5

विश्वास-प्रस्तुतिः - 6

विना यागस्थलान्मद्ये वेदिं चापि तदूर्ध्वतः।
अधिवासश्च कुम्भानां स्थापनं स्नपनं तथा ॥ 6 ॥

मूलम् - 6

विना यागस्थलान्मद्ये वेदिं चापि तदूर्ध्वतः।
अधिवासश्च कुम्भानां स्थापनं स्नपनं तथा ॥ 6 ॥

विश्वास-प्रस्तुतिः - 7

युज्यतेवै यथैकस्यां तथाभ्यूह्य समाचरेत्।
आचार्यांश्चतुरो विप्र! षडष्टौ द्वादशापि वा ॥ 7 ॥

मूलम् - 7

युज्यतेवै यथैकस्यां तथाभ्यूह्य समाचरेत्।
आचार्यांश्चतुरो विप्र! षडष्टौ द्वादशापि वा ॥ 7 ॥

विश्वास-प्रस्तुतिः - 8

यजमानस्तु वरयेच्छास्त्रज्ञान् गुरुणा सह।
प्रवीणांश्च, बहुत्वे तु तत्संख्यानियतिः कृता ॥ 8 ॥

मूलम् - 8

विश्वास-प्रस्तुतिः - 9

तेषां यथोक्तसंख्यानामभिज्ञानामसन्निधौ।
तादृशान् वरयेद्विप्रांश्चतुस्त्रिद्येकमेव वा ॥ 9 ॥

मूलम् - 9

तेषां यथोक्तसंख्यानामभिज्ञानामसन्निधौ।
तादृशान् वरयेद्विप्रांश्चतुस्त्रिद्येकमेव वा ॥ 9 ॥

विश्वास-प्रस्तुतिः - 10

साधकांश्चतुरः षड्‌वा ह्यष्टौ द्वादश षोडश।
वरयेच्छास्त्रकुशलान् प्रवीणानुक्तकर्मसु ॥ 10 ॥

मूलम् - 10

साधकांश्चतुरः षड्‌वा ह्यष्टौ द्वादश षोडश।
वरयेच्छास्त्रकुशलान् प्रवीणानुक्तकर्मसु ॥ 10 ॥

विश्वास-प्रस्तुतिः - 11

एवं सर्वेषु यागेषु नित्यनैमित्तिकात्मसु।
आचार्याणां साधकानां संख्यानियम ईरितः ॥ 11 ॥

मूलम् - 11

एवं सर्वेषु यागेषु नित्यनैमित्तिकात्मसु।
आचार्याणां साधकानां संख्यानियम ईरितः ॥ 11 ॥

विश्वास-प्रस्तुतिः - 12

संख्याहीनं न गृण्डीयादापद्यापि कदाचन।
मोहेन यदि गृण्डीयाद्भयं स्याद्राजराष्ट्रयोः ॥ 12 ॥

मूलम् - 12

संख्याहीनं न गृण्डीयादापद्यापि कदाचन।
मोहेन यदि गृण्डीयाद्भयं स्याद्राजराष्ट्रयोः ॥ 12 ॥

विश्वास-प्रस्तुतिः - 13

प्राङ्‌मुखे मण्डपे भागे तृतीये पश्चिमे स्थिते।
मध्यसूत्रं समाश्रित्य स्नानपीठं प्रकल्पयेत् ॥ 13 ॥

मूलम् - 13

प्राङ्‌मुखे मण्डपे भागे तृतीये पश्चिमे स्थिते।
मध्यसूत्रं समाश्रित्य स्नानपीठं प्रकल्पयेत् ॥ 13 ॥

विश्वास-प्रस्तुतिः - 14

प्राग्गतं प्रत्यगास्ये तु, सौम्यास्ये दक्षिणागतम्।
तदास्ये चोत्तरासंस्थं यथा लक्षणलक्षितम् ॥ 14 ॥

मूलम् - 14

प्राग्गतं प्रत्यगास्ये तु, सौम्यास्ये दक्षिणागतम्।
तदास्ये चोत्तरासंस्थं यथा लक्षणलक्षितम् ॥ 14 ॥

विश्वास-प्रस्तुतिः - 15

यदा स्नपनबिम्बादौ बिम्बे स्नपनमाचरेत्।
एवं तदा प्रकुर्वीत मण्डपं द्विजसत्तम! ॥ 15 ॥

मूलम् - 15

यदा स्नपनबिम्बादौ बिम्बे स्नपनमाचरेत्।
एवं तदा प्रकुर्वीत मण्डपं द्विजसत्तम! ॥ 15 ॥

विश्वास-प्रस्तुतिः - 16

मूलबिम्बे यदा कुर्यात्तदग्रे मण्डपं तदा।
तदानीं न तु कुर्वीत स्नानपीठं द्विजोत्तम! ॥ 16 ॥

मूलम् - 16

मूलबिम्बे यदा कुर्यात्तदग्रे मण्डपं तदा।
तदानीं न तु कुर्वीत स्नानपीठं द्विजोत्तम! ॥ 16 ॥

विश्वास-प्रस्तुतिः - 17

सप्तमे पञ्चमे वापि पूर्वे स्नपनवासरे(रात्)।
तृतीये वा मुनिश्रेष्ठ! तस्मिन्नहनि वा द्विज! ॥ 17 ॥

मूलम् - 17

सप्तमे पञ्चमे वापि पूर्वे स्नपनवासरे(रात्)।
तृतीये वा मुनिश्रेष्ठ! तस्मिन्नहनि वा द्विज! ॥ 17 ॥

विश्वास-प्रस्तुतिः - 18

अङ्‌कुरानर्पयित्वा तु ततः स्नपनमारभेत्।
यदा पूर्वदिने कुर्यात् कुम्भानामधिवासनम् ॥ 18 ॥

मूलम् - 18

अङ्‌कुरानर्पयित्वा तु ततः स्नपनमारभेत्।
यदा पूर्वदिने कुर्यात् कुम्भानामधिवासनम् ॥ 18 ॥

विश्वास-प्रस्तुतिः - 19

तदानीं पूर्वरात्रौ तु कुर्यात् कौतुकबन्धनम्।
पूर्वेद्युर्विघ्निते पश्चात्तस्मिन्नहनि वाचरेत् ॥ 19 ॥

मूलम् - 19

तदानीं पूर्वरात्रौ तु कुर्यात् कौतुकबन्धनम्।
पूर्वेद्युर्विघ्निते पश्चात्तस्मिन्नहनि वाचरेत् ॥ 19 ॥

विश्वास-प्रस्तुतिः - 20

यदा कर्मदिने विप्र! कुर्यात् कुम्भाधिवासनम्।
तदानीं तु दिने तस्मिन् कुर्यात् कौतुकबन्धनम् ॥ 20 ॥

मूलम् - 20

यदा कर्मदिने विप्र! कुर्यात् कुम्भाधिवासनम्।
तदानीं तु दिने तस्मिन् कुर्यात् कौतुकबन्धनम् ॥ 20 ॥

विश्वास-प्रस्तुतिः - 21

ततः प्रभात आचार्यः कृतस्नानः प्रसन्नधीः।
प्रविश्य मण्डपं सार्धं परिचर्यापरैर्जनैः ॥ 21 ॥

मूलम् - 21

ततः प्रभात आचार्यः कृतस्नानः प्रसन्नधीः।
प्रविश्य मण्डपं सार्धं परिचर्यापरैर्जनैः ॥ 21 ॥

विश्वास-प्रस्तुतिः - 22

शलाकासहितैर्दर्भैः सहदेवीविमिश्रितैः।
मार्जयेत् सर्वतो विप्र! प्राङ्‌मुखो वा वाप्युदङ्‌मुखः ॥ 22 ॥

मूलम् - 22

शलाकासहितैर्दर्भैः सहदेवीविमिश्रितैः।
मार्जयेत् सर्वतो विप्र! प्राङ्‌मुखो वा वाप्युदङ्‌मुखः ॥ 22 ॥

विश्वास-प्रस्तुतिः - 23

आलेपयेद्गोमयेन पूर्वादीशानपश्चिमम्।
नूतनेनाम्बरेणैव गालितेन जलेन तु ॥ 23 ॥

मूलम् - 23

आलेपयेद्गोमयेन पूर्वादीशानपश्चिमम्।
नूतनेनाम्बरेणैव गालितेन जलेन तु ॥ 23 ॥

विश्वास-प्रस्तुतिः - 24

प्रोक्षयेत् सर्वदिग्विप्र! पञ्चगव्यकुशाम्बुभिः।
एको द्वौ बहवो वापि देशिकाः स्नपने स्मृताः ॥ 24 ॥

मूलम् - 24

प्रोक्षयेत् सर्वदिग्विप्र! पञ्चगव्यकुशाम्बुभिः।
एको द्वौ बहवो वापि देशिकाः स्नपने स्मृताः ॥ 24 ॥

विश्वास-प्रस्तुतिः - 25

नवसूत्रधराः सर्वे सर्वालङ्कारसंयुताः।
नववस्त्रोत्तरीयाश्च सोष्णीषा गुरुसम्भताः ॥ 25 ॥

मूलम् - 25

नवसूत्रधराः सर्वे सर्वालङ्कारसंयुताः।
नववस्त्रोत्तरीयाश्च सोष्णीषा गुरुसम्भताः ॥ 25 ॥

विश्वास-प्रस्तुतिः - 26

नियमस्थास्तु बहवस्तथैव परिचारकाः।
यद्यद्योग्यं भवेद्ब्रह्नन्! स्नपने यत्र यत्र तु ॥ 26 ॥

मूलम् - 26

नियमस्थास्तु बहवस्तथैव परिचारकाः।
यद्यद्योग्यं भवेद्ब्रह्नन्! स्नपने यत्र यत्र तु ॥ 26 ॥

विश्वास-प्रस्तुतिः - 27

तत् समस्तं समाहृत्य मण्डपे संप्रवेश्य च।
स्नपनं प्रारभेत् पश्चाद्देशिकः शास्त्रपारगः ॥ 27 ॥

मूलम् - 27

तत् समस्तं समाहृत्य मण्डपे संप्रवेश्य च।
स्नपनं प्रारभेत् पश्चाद्देशिकः शास्त्रपारगः ॥ 27 ॥

विश्वास-प्रस्तुतिः - 28

स्नपनं द्विविधं विद्धि परापरविभेदतः।
परं तु दशधा प्रोक्तं प्रधानादिविभेदतः ॥ 28 ॥

मूलम् - 28

स्नपनं द्विविधं विद्धि परापरविभेदतः।
परं तु दशधा प्रोक्तं प्रधानादिविभेदतः ॥ 28 ॥

विश्वास-प्रस्तुतिः - 29

प्रधानं प्रथमं विद्धि द्वितीयं तु परं स्मृतम्।
तृतीयं परसूक्ष्मं स्यात् परस्थूलं चतुर्थकम् ॥ 29 ॥

मूलम् - 29

प्रधानं प्रथमं विद्धि द्वितीयं तु परं स्मृतम्।
तृतीयं परसूक्ष्मं स्यात् परस्थूलं चतुर्थकम् ॥ 29 ॥

विश्वास-प्रस्तुतिः - 30

पञ्चमं स्यात् सूक्ष्मपरं सूक्ष्मसूक्ष्मं तु षष्ठकम्।
सूक्ष्मस्थूलं सप्तमं स्यात् स्थूलं स्यात् परमष्टमम् ॥ 30 ॥

मूलम् - 30

विश्वास-प्रस्तुतिः - 31

स्थूलसूक्ष्मं तु नवमं स्थूलस्थूलं तदुत्तरम्।
चतुर्धा त्वपरं विद्धि ह्येकैकं नवधा स्थितम् ॥ 31 ॥

मूलम् - 31

स्थूलसूक्ष्मं तु नवमं स्थूलस्थूलं तदुत्तरम्।
चतुर्धा त्वपरं विद्धि ह्येकैकं नवधा स्थितम् ॥ 31 ॥

विश्वास-प्रस्तुतिः - 32

उत्तमोत्तमपूर्वेण भेदेन द्विजसत्तम!।
परापरविभेदानामेषां साधारणं स्थितम् ॥ 32 ॥

मूलम् - 32

उत्तमोत्तमपूर्वेण भेदेन द्विजसत्तम!।
परापरविभेदानामेषां साधारणं स्थितम् ॥ 32 ॥

विश्वास-प्रस्तुतिः - 33

अनन्तकलशं नाम्ना स्नपनं सर्वपूरकम्।
एषां प्रधानपूर्वाणां सूत्रपातपुरस्सरम् ॥ 33 ॥

मूलम् - 33

अनन्तकलशं नाम्ना स्नपनं सर्वपूरकम्।
एषां प्रधानपूर्वाणां सूत्रपातपुरस्सरम् ॥ 33 ॥

विश्वास-प्रस्तुतिः - 34

सर्वमुद्धारपर्यन्तं क्रमेण श्रृणु सत्तम!।
लोहजं दारुजं वापि मृण्मयं वा सुशोभनम् ॥ 34 ॥

मूलम् - 34

सर्वमुद्धारपर्यन्तं क्रमेण श्रृणु सत्तम!।
लोहजं दारुजं वापि मृण्मयं वा सुशोभनम् ॥ 34 ॥

विश्वास-प्रस्तुतिः - 35

मण्डपेशानदिग्भागे संस्थाप्य जलभाजनम्।
वेदिं प्रक्षाल्य तोयेन वस्त्रैः संवेष्ट्य नूतनैः ॥ 35 ॥

मूलम् - 35

मण्डपेशानदिग्भागे संस्थाप्य जलभाजनम्।
वेदिं प्रक्षाल्य तोयेन वस्त्रैः संवेष्ट्य नूतनैः ॥ 35 ॥

विश्वास-प्रस्तुतिः - 36

सूत्रपातं ततः कुर्यात् कुम्भसंख्यानुरूपतः।
यथोक्तमानविस्तीर्णक्षेत्रमण्डपमध्यतः ॥ 36 ॥

मूलम् - 36

सूत्रपातं ततः कुर्यात् कुम्भसंख्यानुरूपतः।
यथोक्तमानविस्तीर्णक्षेत्रमण्डपमध्यतः ॥ 36 ॥

विश्वास-प्रस्तुतिः - 37

मण्डपस्य तु विप्रेन्द्व! प्राग्भागमवलम्ब्य वा।
स्वीकृत्य पश्चात् प्राक् प्रत्यक् दद्यात् सूत्रचतुष्टयम् ॥ 37 ॥

मूलम् - 37

विश्वास-प्रस्तुतिः - 38

दक्षिणोत्तरगं सूत्रपञ्चकं विनिवेशयेत्।
एवं कृते भवन्त्यत्र पदानि द्वादश द्विज! ॥ 38 ॥

मूलम् - 38

दक्षिणोत्तरगं सूत्रपञ्चकं विनिवेशयेत्।
एवं कृते भवन्त्यत्र पदानि द्वादश द्विज! ॥ 38 ॥

विश्वास-प्रस्तुतिः - 39

एकैकस्य तु विस्तारं तालं प्रादेशभेव वा।
हस्तं वाऽरत्निमात्रं वा मण्डपस्यानुरूपतः ॥ 39 ॥

मूलम् - 39

एकैकस्य तु विस्तारं तालं प्रादेशभेव वा।
हस्तं वाऽरत्निमात्रं वा मण्डपस्यानुरूपतः ॥ 39 ॥

विश्वास-प्रस्तुतिः - 40

सहत्त्वस्य च कुम्भानामेवं सर्वत्र चोर्ध्वतः।
पिष्टचूर्णैरलङ्‌कृत्य चतुर्दिक्षु समन्ततः ॥ 40 ॥

मूलम् - 40

सहत्त्वस्य च कुम्भानामेवं सर्वत्र चोर्ध्वतः।
पिष्टचूर्णैरलङ्‌कृत्य चतुर्दिक्षु समन्ततः ॥ 40 ॥

विश्वास-प्रस्तुतिः - 41

कोष्ठेषु पीठिकां कुर्यात्तण्डुलैव्रीहिभिस्तु वा।
तासां हि प्रतिकोष्ठं तु कुर्यादाढकसंमितैः ॥ 41 ॥

मूलम् - 41

कोष्ठेषु पीठिकां कुर्यात्तण्डुलैव्रीहिभिस्तु वा।
तासां हि प्रतिकोष्ठं तु कुर्यादाढकसंमितैः ॥ 41 ॥

विश्वास-प्रस्तुतिः - 42

अर्धाथिकैस्त्रिभिः प्रश्थैरथवा केवलैस्त्रिभिः।
अर्धोत्तरेण वा विप्र! कुर्यात् प्रस्थद्वयेन वा ॥ 42 ॥

मूलम् - 42

अर्धाथिकैस्त्रिभिः प्रश्थैरथवा केवलैस्त्रिभिः।
अर्धोत्तरेण वा विप्र! कुर्यात् प्रस्थद्वयेन वा ॥ 42 ॥

विश्वास-प्रस्तुतिः - 43

यद्वा प्रस्थद्वयेनैव प्रस्थेनार्धोत्तरेण वा।
प्रस्थेन वा तदर्धेन तत्पादेनाथवा द्विज! ॥ 43 ॥

मूलम् - 43

यद्वा प्रस्थद्वयेनैव प्रस्थेनार्धोत्तरेण वा।
प्रस्थेन वा तदर्धेन तत्पादेनाथवा द्विज! ॥ 43 ॥

विश्वास-प्रस्तुतिः - 44

तुर्याश्रामथवा वृत्तां कृत्वैवं पीठिकां ततः।
सौवर्णा राजता ग्राह्यास्तम्रा वा भेदवर्जिताः ॥ 44 ॥

मूलम् - 44

तुर्याश्रामथवा वृत्तां कृत्वैवं पीठिकां ततः।
सौवर्णा राजता ग्राह्यास्तम्रा वा भेदवर्जिताः ॥ 44 ॥

विश्वास-प्रस्तुतिः - 45

श्र्लक्ष्णा न सुषिराः कुम्भा चतुर्विंशाङ्‌गुलोन्नताः।
विस्तृतेर्मध्यतस्तद्वत्तद्गलं त्र्यङ्‌गुलोन्नतम् ॥ 45 ॥

मूलम् - 45

विश्वास-प्रस्तुतिः - 46

ततमङ्‌गुलिषट्‌केन तत्रास्यं त्र्यङ्‌गुलं स्मतम्।
मेखला परितो ज्ञेया त्र्यङ्‌गुला द्विजसत्तम! ॥ 46 ॥

मूलम् - 46

ततमङ्‌गुलिषट्‌केन तत्रास्यं त्र्यङ्‌गुलं स्मतम्।
मेखला परितो ज्ञेया त्र्यङ्‌गुला द्विजसत्तम! ॥ 46 ॥

विश्वास-प्रस्तुतिः - 47

यद्वा तदर्धमानं तु सर्वमुच्छ्रायपूर्वकम्।
यद्वोत्तमोत्तमा विप्र! द्रोणमानोदपूरकाः ॥ 47 ॥

मूलम् - 47

यद्वा तदर्धमानं तु सर्वमुच्छ्रायपूर्वकम्।
यद्वोत्तमोत्तमा विप्र! द्रोणमानोदपूरकाः ॥ 47 ॥

विश्वास-प्रस्तुतिः - 48

तदष्टमांशतो न्यूनाः क्रमात् प्रस्थद्वयाबधि।
अधमाधमकुम्भास्तु प्रस्थमात्रोदपूरकाः ॥ 48 ॥

मूलम् - 48

तदष्टमांशतो न्यूनाः क्रमात् प्रस्थद्वयाबधि।
अधमाधमकुम्भास्तु प्रस्थमात्रोदपूरकाः ॥ 48 ॥

विश्वास-प्रस्तुतिः - 49

एवं लक्षणयुक्तास्तु कार्या वित्तानुरूपतः।
चक्राधारोपरिस्थास्तु वितताः कमठो(लो)दराः ॥ 49 ॥

मूलम् - 49

एवं लक्षणयुक्तास्तु कार्या वित्तानुरूपतः।
चक्राधारोपरिस्थास्तु वितताः कमठो(लो)दराः ॥ 49 ॥

विश्वास-प्रस्तुतिः - 50

पाञ्चजन्यवलिग्रीवाः शतपत्रमुखाननाः।
ऊर्ध्वाधः (र्ध्वतः) कौमुदीमालामण्डलालंकतृता द्विज! ॥ 50 ॥

मूलम् - 50

पाञ्चजन्यवलिग्रीवाः शतपत्रमुखाननाः।
ऊर्ध्वाधः (र्ध्वतः) कौमुदीमालामण्डलालंकतृता द्विज! ॥ 50 ॥

विश्वास-प्रस्तुतिः - 51

मकाराननशेषाभिः (हि ?) अमृताम्बुप्रबाहकाः।
नदीसमुद्र(?)श्रीवृक्षनानामाल्येः परिष्कताः ॥ 51 ॥

मूलम् - 51

मकाराननशेषाभिः (हि ?) अमृताम्बुप्रबाहकाः।
नदीसमुद्र(?)श्रीवृक्षनानामाल्येः परिष्कताः ॥ 51 ॥

विश्वास-प्रस्तुतिः - 52

चक्राधाराधिभिर्यद्वा रहिताः सत्यसंभवे।
मृण्मया वानुकल्पे तु भेदश्छिद्रविवर्जिताः ॥ 52 ॥

मूलम् - 52

चक्राधाराधिभिर्यद्वा रहिताः सत्यसंभवे।
मृण्मया वानुकल्पे तु भेदश्छिद्रविवर्जिताः ॥ 52 ॥

विश्वास-प्रस्तुतिः - 53

पव्कविम्बफलाकाराः कालवृत्तैर्विवर्जिताः।
न द्वितप्ताः सुतप्ताश्च ह्येकवर्णास्तु सुस्वनाः ॥ 53 ॥

मूलम् - 53

पव्कविम्बफलाकाराः कालवृत्तैर्विवर्जिताः।
न द्वितप्ताः सुतप्ताश्च ह्येकवर्णास्तु सुस्वनाः ॥ 53 ॥

विश्वास-प्रस्तुतिः - 54

संगृह्य क्षालयेत् सम्यक् शुद्धतोयैश्च सर्वतः।
सूत्रेण वेष्टयेद्यत्नादङ्‌गुलाङ्‌गुलमन्तरम् ॥ 54 ॥

मूलम् - 54

संगृह्य क्षालयेत् सम्यक् शुद्धतोयैश्च सर्वतः।
सूत्रेण वेष्टयेद्यत्नादङ्‌गुलाङ्‌गुलमन्तरम् ॥ 54 ॥

विश्वास-प्रस्तुतिः - 55

पश्चिमे कलशस्थानात् कलशानधिवासयेत्।
शालिभिः स्थण्डिलं कृत्वा केवले स्थण्डिले तु वा ॥ 55 ॥

मूलम् - 55

पश्चिमे कलशस्थानात् कलशानधिवासयेत्।
शालिभिः स्थण्डिलं कृत्वा केवले स्थण्डिले तु वा ॥ 55 ॥

विश्वास-प्रस्तुतिः - 56

पूर्वाग्रानुत्तराग्रांश्च कुशांस्तत्र परिस्तरेत्।
तारेण तत्र कलशान् न्यस्य पुष्पेण पूज्य च ॥ 56 ॥

मूलम् - 56

पूर्वाग्रानुत्तराग्रांश्च कुशांस्तत्र परिस्तरेत्।
तारेण तत्र कलशान् न्यस्य पुष्पेण पूज्य च ॥ 56 ॥

विश्वास-प्रस्तुतिः - 57

अधोमुखांस्तु तानेव न्यस्य पङ्‌क्तिक्रमेण तु।
कुशानुपरि संस्तीर्य प्राङ्‌मुखं परमेष्ठिना ॥ 57 ॥

मूलम् - 57

अधोमुखांस्तु तानेव न्यस्य पङ्‌क्तिक्रमेण तु।
कुशानुपरि संस्तीर्य प्राङ्‌मुखं परमेष्ठिना ॥ 57 ॥

विश्वास-प्रस्तुतिः - 58

दर्भमुद्रां प्रदर्श्याथ गन्धतोयेन सर्वतः।
संप्रोक्ष्य “पुंसा” “विश्वेन” विकिरेदक्षतानि च ॥ 58 ॥

मूलम् - 58

दर्भमुद्रां प्रदर्श्याथ गन्धतोयेन सर्वतः।
संप्रोक्ष्य “पुंसा” “विश्वेन” विकिरेदक्षतानि च ॥ 58 ॥

विश्वास-प्रस्तुतिः - 59

“निवृत्या” चोन्मुखीकृत्य, सर्वेण मुनिपुड्गव!।
पृथगुद्धृत्य कलशान्, स्वस्थानेषु क्रमान्न्यसेत् ॥ 59 ॥

मूलम् - 59

“निवृत्या” चोन्मुखीकृत्य, सर्वेण मुनिपुड्गव!।
पृथगुद्धृत्य कलशान्, स्वस्थानेषु क्रमान्न्यसेत् ॥ 59 ॥

विश्वास-प्रस्तुतिः - 60

कुम्भन्यासादि सर्वं तु द्विषट्कार्णेन वाचरेत्।
निरीक्षणादिसंशुद्धान् कृत्वा सहृदयेन तु ॥ 60 ॥

मूलम् - 60

कुम्भन्यासादि सर्वं तु द्विषट्कार्णेन वाचरेत्।
निरीक्षणादिसंशुद्धान् कृत्वा सहृदयेन तु ॥ 60 ॥

विश्वास-प्रस्तुतिः - 61

द्वादशाक्षरमन्त्रेण मन्त्रयेत् तान् सकृत् सकृत्।
तेनैव पूजयेत् पश्चादर्घ्यस्रकचन्दनादिना ॥ 61 ॥

मूलम् - 61

द्वादशाक्षरमन्त्रेण मन्त्रयेत् तान् सकृत् सकृत्।
तेनैव पूजयेत् पश्चादर्घ्यस्रकचन्दनादिना ॥ 61 ॥

विश्वास-प्रस्तुतिः - 62

तदाहरणोहमं तु यथाशक्ति समाचरेत्।
पूर्णान्तमथ संपूर्य क्रमाद्‌द्रव्यैर्निबोध तत् ॥ 62 ॥

मूलम् - 62

तदाहरणोहमं तु यथाशक्ति समाचरेत्।
पूर्णान्तमथ संपूर्य क्रमाद्‌द्रव्यैर्निबोध तत् ॥ 62 ॥

विश्वास-प्रस्तुतिः - 63

पङ्‌क्तित्रये पश्चिमादि पूर्वान्तं च चतुश्चतुः।
तत्र दक्षिणदिक्‌पङ्‌क्तौ कलशे पश्चिमे स्थिते ॥ 63 ॥

मूलम् - 63

पङ्‌क्तित्रये पश्चिमादि पूर्वान्तं च चतुश्चतुः।
तत्र दक्षिणदिक्‌पङ्‌क्तौ कलशे पश्चिमे स्थिते ॥ 63 ॥

विश्वास-प्रस्तुतिः - 64

धात्रीफलोदकं चैव लोध्रतोयमनन्तरम्।
रक्तचन्दनतोयं च रजनीनीरमुत्तमम् ॥ 64 ॥

मूलम् - 64

धात्रीफलोदकं चैव लोध्रतोयमनन्तरम्।
रक्तचन्दनतोयं च रजनीनीरमुत्तमम् ॥ 64 ॥

विश्वास-प्रस्तुतिः - 65

ततस्तु मध्यपङ्‌क्तौ तु तथैव विनिवेशयेत्।
ग्रन्थिपल्लववार्येव ततस्तु तगरोदकम् ॥ 65 ॥

मूलम् - 65

ततस्तु मध्यपङ्‌क्तौ तु तथैव विनिवेशयेत्।
ग्रन्थिपल्लववार्येव ततस्तु तगरोदकम् ॥ 65 ॥

विश्वास-प्रस्तुतिः - 66

प्रियङ्‌गुवारि तदनु मांसीजलमतः परम्।
तथैवोत्तरपङ्‌क्तौ तु भवेदेतच्चतुष्टयम् ॥ 66 ॥

मूलम् - 66

प्रियङ्‌गुवारि तदनु मांसीजलमतः परम्।
तथैवोत्तरपङ्‌क्तौ तु भवेदेतच्चतुष्टयम् ॥ 66 ॥

विश्वास-प्रस्तुतिः - 67

सिद्धार्थकोदकं चैव सर्वौषधिजलं ततः।
सर्वरत्नोदकं चैव शुद्धोदकमतः परम् ॥ 67 ॥

मूलम् - 67

सिद्धार्थकोदकं चैव सर्वौषधिजलं ततः।
सर्वरत्नोदकं चैव शुद्धोदकमतः परम् ॥ 67 ॥

विश्वास-प्रस्तुतिः - 68

न्यसेत्, कूर्चं कुशं दार्भमुदग्रं षोडशाङ्‌गुलम्।
अङ्‌गुलं ग्रन्थिमानं तु मूलं वै द्वादशाङ्‌गुलम् ॥ 68 ॥

मूलम् - 68

विश्वास-प्रस्तुतिः - 69

शेषमग्रं बिजानीयादित्येतत् कूर्चलक्षणम्।
अधवार्थाङ्‌गुलो ग्रन्थिरग्रं वै व्द्यङ्‌गुलं भवेत् ॥ 69 ॥

मूलम् - 69

शेषमग्रं बिजानीयादित्येतत् कूर्चलक्षणम्।
अधवार्थाङ्‌गुलो ग्रन्थिरग्रं वै व्द्यङ्‌गुलं भवेत् ॥ 69 ॥

विश्वास-प्रस्तुतिः - 70

मूलं कुर्यात्तु विप्रेन्द्र! द्वादशाङ्गुलसंमितम्।
ब्राह्नणस्य चतुर्दर्भं त्रिदर्भं क्षत्रियस्य तु ॥ 70 ॥

मूलम् - 70

विश्वास-प्रस्तुतिः - 71

द्विदर्भं तु विशां कुर्चं स्त्रीशूद्राणां तथा भवेत्।
सर्वेषामथवा कूर्चं चतुस्सप्तकृतं तु वा ॥ 71 ॥

मूलम् - 71

द्विदर्भं तु विशां कुर्चं स्त्रीशूद्राणां तथा भवेत्।
सर्वेषामथवा कूर्चं चतुस्सप्तकृतं तु वा ॥ 71 ॥

विश्वास-प्रस्तुतिः - 72

मूलमन्त्रेण तदनु पूजयेद् द्‌द्वादशात्मना।
अर्घ्यालभनपुष्पैश्च धूपेन मुनिपुह्गव! ॥ 72 ॥

मूलम् - 72

मूलमन्त्रेण तदनु पूजयेद् द्‌द्वादशात्मना।
अर्घ्यालभनपुष्पैश्च धूपेन मुनिपुह्गव! ॥ 72 ॥

विश्वास-प्रस्तुतिः - 73

अपिधाय क्रमेणैव विधानैः सूत्रवेष्टितैः।
प्रतिकुम्भं तु वसनैवेर्ष्टयेद्‌विभवे सति ॥ 73 ॥

मूलम् - 73

अपिधाय क्रमेणैव विधानैः सूत्रवेष्टितैः।
प्रतिकुम्भं तु वसनैवेर्ष्टयेद्‌विभवे सति ॥ 73 ॥

विश्वास-प्रस्तुतिः - 74

आच्छाद्य नववस्त्रेण सर्वतः प्रागुदङ्‌मुखः।
पूर्ववत् पूजयित्वा तु ततो होमं समारभेत् ॥ 74 ॥

मूलम् - 74

आच्छाद्य नववस्त्रेण सर्वतः प्रागुदङ्‌मुखः।
पूर्ववत् पूजयित्वा तु ततो होमं समारभेत् ॥ 74 ॥

विश्वास-प्रस्तुतिः - 75

अष्टोत्तरशतं हुत्वा समिदादीन् पृथक् पृथक्।
पूर्णाहुतिं ततो हुत्तत्वा कलशानभिमन्त्रयेत् ॥ 75 ॥

मूलम् - 75

अष्टोत्तरशतं हुत्वा समिदादीन् पृथक् पृथक्।
पूर्णाहुतिं ततो हुत्तत्वा कलशानभिमन्त्रयेत् ॥ 75 ॥

विश्वास-प्रस्तुतिः - 76

मूलमन्त्रेण सर्वेषां म्नपनं विहितं द्विज!।
अन्तरान्तरयोगेन कुम्भैः शुद्धोदपूरितैः ॥ 76 ॥

मूलम् - 76

मूलमन्त्रेण सर्वेषां म्नपनं विहितं द्विज!।
अन्तरान्तरयोगेन कुम्भैः शुद्धोदपूरितैः ॥ 76 ॥

विश्वास-प्रस्तुतिः - 77

स्नपनं चार्घ्यदानं च द्रव्याणां तु समाचरेत्।
द्रव्यन्यासक्रमेणैव तदुद्धारः प्रकीर्तितः ॥ 77 ॥

मूलम् - 77

स्नपनं चार्घ्यदानं च द्रव्याणां तु समाचरेत्।
द्रव्यन्यासक्रमेणैव तदुद्धारः प्रकीर्तितः ॥ 77 ॥

विश्वास-प्रस्तुतिः - 78

प्रधानमेतत् कथितं द्विषट्‌ककलशात्मकम्।
सर्वेषां कारणमिदं कार्याण्यन्यानि सत्तम! ॥ 78 ॥

मूलम् - 78

प्रधानमेतत् कथितं द्विषट्‌ककलशात्मकम्।
सर्वेषां कारणमिदं कार्याण्यन्यानि सत्तम! ॥ 78 ॥

विश्वास-प्रस्तुतिः - 79

अम्बुना पञ्चगव्येन क्षीरेण तदनन्तरम्।
दद्ना धृतेन मधुना सर्वौषधिजलेन तु ॥ 79 ॥

मूलम् - 79

अम्बुना पञ्चगव्येन क्षीरेण तदनन्तरम्।
दद्ना धृतेन मधुना सर्वौषधिजलेन तु ॥ 79 ॥

विश्वास-प्रस्तुतिः - 80

बीजाम्बुफलतोयं च गन्धपुष्पाम्बुना ततः।
हेमरत्नोदकेनाथ पूरितं तु यथाक्रमम् ॥ 80 ॥

मूलम् - 80

बीजाम्बुफलतोयं च गन्धपुष्पाम्बुना ततः।
हेमरत्नोदकेनाथ पूरितं तु यथाक्रमम् ॥ 80 ॥

विश्वास-प्रस्तुतिः - 81

कलशानां द्विषट्‌कं यत् परमेतदुदात्हृतम्।
पच्चगव्यदधिक्षीरघृतमध्विक्षुवारिणा ॥ 81 ॥

मूलम् - 81

कलशानां द्विषट्‌कं यत् परमेतदुदात्हृतम्।
पच्चगव्यदधिक्षीरघृतमध्विक्षुवारिणा ॥ 81 ॥

विश्वास-प्रस्तुतिः - 82

सर्वौषधीगन्धरत्नफलपुष्पजलैस्तथा।
केवलेनोदकेनापि क्रमेण परिपूरितम् ॥ 82 ॥

मूलम् - 82

सर्वौषधीगन्धरत्नफलपुष्पजलैस्तथा।
केवलेनोदकेनापि क्रमेण परिपूरितम् ॥ 82 ॥

विश्वास-प्रस्तुतिः - 83

द्विषट्‌कमेतत् कुम्भानां परसूक्ष्ममुदाहृतम्।
पयोदधिघृतक्षौद्रैः सर्वगन्धोदकेन च ॥ 83 ॥

मूलम् - 83

द्विषट्‌कमेतत् कुम्भानां परसूक्ष्ममुदाहृतम्।
पयोदधिघृतक्षौद्रैः सर्वगन्धोदकेन च ॥ 83 ॥

विश्वास-प्रस्तुतिः - 84

सर्वौषधिजलेनापि पत्रपुष्पफलाम्बुभिः।
बीजाम्बुना हेमरत्नजलेनैकीकृतेन च ॥ 84 ॥

मूलम् - 84

सर्वौषधिजलेनापि पत्रपुष्पफलाम्बुभिः।
बीजाम्बुना हेमरत्नजलेनैकीकृतेन च ॥ 84 ॥

विश्वास-प्रस्तुतिः - 85

मिश्रैः पुण्यसरित्तोयैः परिपूर्णं क्रमेण तु।
परस्थूलमिमिदं विद्धि कलशं द्वादशात्मकम् ॥ 85 ॥

मूलम् - 85

मिश्रैः पुण्यसरित्तोयैः परिपूर्णं क्रमेण तु।
परस्थूलमिमिदं विद्धि कलशं द्वादशात्मकम् ॥ 85 ॥

विश्वास-प्रस्तुतिः - 86

सूत्रपातादिकं चान्यत् त्रितयेऽस्मिन् प्रधानवत्।
पञ्चधा भाजिते क्षेत्ने भागाः स्युः पञ्चविंशतिः ॥ 86 ॥

मूलम् - 86

विश्वास-प्रस्तुतिः - 87

बहिः प्रागादियोगेन कलशानां द्विरष्टके।
क्षीरं दधि घृतं चैवमधुवै रसमैक्षवम् ॥ 87 ॥

मूलम् - 87

बहिः प्रागादियोगेन कलशानां द्विरष्टके।
क्षीरं दधि घृतं चैवमधुवै रसमैक्षवम् ॥ 87 ॥

विश्वास-प्रस्तुतिः - 88

धात्रीफलादिदशकं सर्वौषध्यन्तमेव हि।
पत्रोदकं ततः पश्चात् तदन्तः कलशाष्टके ॥ 88 ॥

मूलम् - 88

धात्रीफलादिदशकं सर्वौषध्यन्तमेव हि।
पत्रोदकं ततः पश्चात् तदन्तः कलशाष्टके ॥ 88 ॥

विश्वास-प्रस्तुतिः - 89

प्रागादिपुष्पतोयं फलबीजोदके त्वथ।
गन्धोदकं च तदनु हेमरत्नजले तथा ॥ 89 ॥

मूलम् - 89

प्रागादिपुष्पतोयं फलबीजोदके त्वथ।
गन्धोदकं च तदनु हेमरत्नजले तथा ॥ 89 ॥

विश्वास-प्रस्तुतिः - 90

पुण्यतर्त्सरेत्तोयं, मद्ये शुद्धोदकम् न्यसते।
द्रव्यन्यासक्रमेणैव तदुद्धार उदाहृतः ॥ 90 ॥

मूलम् - 90

पुण्यतर्त्सरेत्तोयं, मद्ये शुद्धोदकम् न्यसते।
द्रव्यन्यासक्रमेणैव तदुद्धार उदाहृतः ॥ 90 ॥

विश्वास-प्रस्तुतिः - 91

एवं क्रमाद् द्रव्ययुक्तकलशैर्द्विजसत्तम!।
स्नपनं पञ्चविंशद्भि रेतत् सूक्ष्मपरं स्मृतम् ॥ 91 ॥

मूलम् - 91

एवं क्रमाद् द्रव्ययुक्तकलशैर्द्विजसत्तम!।
स्नपनं पञ्चविंशद्भि रेतत् सूक्ष्मपरं स्मृतम् ॥ 91 ॥

विश्वास-प्रस्तुतिः - 92

पञ्चविंशतिकोष्ठानि कल्पयित्वा तु पूर्ववत्।
मध्ये शुद्धोदकं न्यस्य बहिरिन्द्रादियोगतः ॥ 92 ॥

मूलम् - 92

पञ्चविंशतिकोष्ठानि कल्पयित्वा तु पूर्ववत्।
मध्ये शुद्धोदकं न्यस्य बहिरिन्द्रादियोगतः ॥ 92 ॥

विश्वास-प्रस्तुतिः - 93

पूर्वं क्षीराम्भसा पूर्णं परं शुद्धेन वारिणा।
तृतीयं रत्नतोयेन हेमतोयेन चापरम् ॥ 93 ॥

मूलम् - 93

पूर्वं क्षीराम्भसा पूर्णं परं शुद्धेन वारिणा।
तृतीयं रत्नतोयेन हेमतोयेन चापरम् ॥ 93 ॥

विश्वास-प्रस्तुतिः - 94

गन्धसंमिश्रितं चान्यत् फलपुष्पोदकान्वितम्।
शालिबीजाम्भसा पूर्णभष्टमं परिकीर्तितम् ॥ 94 ॥

मूलम् - 94

गन्धसंमिश्रितं चान्यत् फलपुष्पोदकान्वितम्।
शालिबीजाम्भसा पूर्णभष्टमं परिकीर्तितम् ॥ 94 ॥

विश्वास-प्रस्तुतिः - 95

कुम्भाष्टकं तु तद्बाह्यदिगष्टकसमाश्रितम्।
धात्रीफलोदकं पूर्वे पथ्यातोयं ततोऽपरे ॥ 95 ॥

मूलम् - 95

कुम्भाष्टकं तु तद्बाह्यदिगष्टकसमाश्रितम्।
धात्रीफलोदकं पूर्वे पथ्यातोयं ततोऽपरे ॥ 95 ॥

विश्वास-प्रस्तुतिः - 96

गलूचीक्षोदमन्मस्मिन् विभीतकजलं परे।
कुमारीव्कथितं तोयं व्याघ्रीसलिलमेव च ॥ 96 ॥

मूलम् - 96

गलूचीक्षोदमन्मस्मिन् विभीतकजलं परे।
कुमारीव्कथितं तोयं व्याघ्रीसलिलमेव च ॥ 96 ॥

विश्वास-प्रस्तुतिः - 97

नागरोदकमन्यस्मिन् तथान्यस्मिन् मधूदकम्।
विहितोऽत्र समुद्धारो द्रव्यन्यासक्रमेण तु ॥ 97 ॥

मूलम् - 97

नागरोदकमन्यस्मिन् तथान्यस्मिन् मधूदकम्।
विहितोऽत्र समुद्धारो द्रव्यन्यासक्रमेण तु ॥ 97 ॥

विश्वास-प्रस्तुतिः - 98

सत्याद्यैः पञ्चभिर्मन्त्रैस्त्रिभिः सिंहादिभिः क्रमात्।
अन्तरावरणस्थानां कलशानां महामते! ॥ 98 ॥

मूलम् - 98

सत्याद्यैः पञ्चभिर्मन्त्रैस्त्रिभिः सिंहादिभिः क्रमात्।
अन्तरावरणस्थानां कलशानां महामते! ॥ 98 ॥

विश्वास-प्रस्तुतिः - 99

एकैकं सप्तधामन्त्र्य प्रागादौ, तद्बहिः स्थितान्।
कलशांश्चक्रमन्त्रेण हृदाद्येनाभिमन्त्रयेत् ॥ 99 ॥

मूलम् - 99

एकैकं सप्तधामन्त्र्य प्रागादौ, तद्बहिः स्थितान्।
कलशांश्चक्रमन्त्रेण हृदाद्येनाभिमन्त्रयेत् ॥ 99 ॥

विश्वास-प्रस्तुतिः - 100

गायत्र्यान्तर्गतैर्विप्र! कलशैः स्नापयेत् क्रमात्।
द्वितीयावरणस्थैस्तु उपचारा “हृदा” मुने! ॥ 100 ॥

मूलम् - 100

गायत्र्यान्तर्गतैर्विप्र! कलशैः स्नापयेत् क्रमात्।
द्वितीयावरणस्थैस्तु उपचारा “हृदा” मुने! ॥ 100 ॥

विश्वास-प्रस्तुतिः - 101

केवलेनोदकेनाथ अस्त्रजप्तेन सेचयेत्।
यद्वा प्रागुदितेनैव वर्त्मना सर्वमाचरेत् ॥ 101 ॥

मूलम् - 101

केवलेनोदकेनाथ अस्त्रजप्तेन सेचयेत्।
यद्वा प्रागुदितेनैव वर्त्मना सर्वमाचरेत् ॥ 101 ॥

विश्वास-प्रस्तुतिः - 102

दशभिः सप्तभि- कुम्भैः सूक्ष्मसूक्ष्ममिदं स्मृतम्।
चतुर्हस्तं त्रिहस्तं वा क्षेत्रं सार्धद्विहस्तकम् ॥ 102 ॥

मूलम् - 102

दशभिः सप्तभि- कुम्भैः सूक्ष्मसूक्ष्ममिदं स्मृतम्।
चतुर्हस्तं त्रिहस्तं वा क्षेत्रं सार्धद्विहस्तकम् ॥ 102 ॥

विश्वास-प्रस्तुतिः - 103

द्विहस्तं वा समापाद्य तदर्धं तु द्विधा भवेत्।
एकेन कर्णिकां कुर्याद्‌द्वितयेन द्विरष्टकम् ॥ 103 ॥

मूलम् - 103

द्विहस्तं वा समापाद्य तदर्धं तु द्विधा भवेत्।
एकेन कर्णिकां कुर्याद्‌द्वितयेन द्विरष्टकम् ॥ 103 ॥

विश्वास-प्रस्तुतिः - 104

दलानां तु, ततो ब्रह्नन्! कर्णिकोपरि विन्यसेत्।
कलशानां चतुष्कं तु दिक्‌चतुष्कसमाश्रितम् ॥ 104 ॥

मूलम् - 104

दलानां तु, ततो ब्रह्नन्! कर्णिकोपरि विन्यसेत्।
कलशानां चतुष्कं तु दिक्‌चतुष्कसमाश्रितम् ॥ 104 ॥

विश्वास-प्रस्तुतिः - 105

पूर्वं तु पुष्पतोयेन गन्धोदेन ततः परम्।
स्वर्णोदेनापरं चान्यत् सर्वरत्नजलेन तु ॥ 105 ॥

मूलम् - 105

पूर्वं तु पुष्पतोयेन गन्धोदेन ततः परम्।
स्वर्णोदेनापरं चान्यत् सर्वरत्नजलेन तु ॥ 105 ॥

विश्वास-प्रस्तुतिः - 106

पूर्वपत्रात् समारभ्य यावदीशानगोचरम्।
षोडशान्यान् प्रतिष्ठाप्य तत्रैव कलशान्मुने! ॥ 106 ॥

मूलम् - 106

पूर्वपत्रात् समारभ्य यावदीशानगोचरम्।
षोडशान्यान् प्रतिष्ठाप्य तत्रैव कलशान्मुने! ॥ 106 ॥

विश्वास-प्रस्तुतिः - 107

प्रथमं पञ्चगव्येन केवलेन तु पूरयेत्।
गोमूत्रेण द्वितीयं तु तृतीयं गोमयाम्बुना ॥ 107 ॥

मूलम् - 107

प्रथमं पञ्चगव्येन केवलेन तु पूरयेत्।
गोमूत्रेण द्वितीयं तु तृतीयं गोमयाम्बुना ॥ 107 ॥

विश्वास-प्रस्तुतिः - 108

त्रेताग्निभूतिना विप्र! चतुर्थं सोदकेन तु।
गजगोवृषभश्रृङ्गवल्मीकाक्यमृदा परम् ॥ 108 ॥

मूलम् - 108

त्रेताग्निभूतिना विप्र! चतुर्थं सोदकेन तु।
गजगोवृषभश्रृङ्गवल्मीकाक्यमृदा परम् ॥ 108 ॥

विश्वास-प्रस्तुतिः - 109

शालिक्षेत्रान्नदीमध्यात् पझषण्डाच्च पर्वतात्।
मृद्भिः षष्ठं तु कलशं पूरणीयं ततो द्विज! ॥ 109 ॥

मूलम् - 109

शालिक्षेत्रान्नदीमध्यात् पझषण्डाच्च पर्वतात्।
मृद्भिः षष्ठं तु कलशं पूरणीयं ततो द्विज! ॥ 109 ॥

विश्वास-प्रस्तुतिः - 110

सप्तमं सर्षपाम्भोभिः सर्वौषधिभिरष्टमम्।
क्षीरेण नवमं विद्धि दध्ना दशममुच्यते ॥ 110 ॥

मूलम् - 110

सप्तमं सर्षपाम्भोभिः सर्वौषधिभिरष्टमम्।
क्षीरेण नवमं विद्धि दध्ना दशममुच्यते ॥ 110 ॥

विश्वास-प्रस्तुतिः - 111

घृतेन चैकादशमं मधुना द्वादशं द्विज!।
सर्वैस्त्रयोदशं बीजैः फलैः सर्वैश्चतुर्दशम् ॥ 111 ॥

मूलम् - 111

घृतेन चैकादशमं मधुना द्वादशं द्विज!।
सर्वैस्त्रयोदशं बीजैः फलैः सर्वैश्चतुर्दशम् ॥ 111 ॥

विश्वास-प्रस्तुतिः - 112

समस्तधान्यैरपरं सर्वगन्धैस्तु षोडशम्।
दलस्थान् पूर्वमुद्‌धृत्य द्रव्यन्यासक्रमेण तु ॥ 112 ॥

मूलम् - 112

समस्तधान्यैरपरं सर्वगन्धैस्तु षोडशम्।
दलस्थान् पूर्वमुद्‌धृत्य द्रव्यन्यासक्रमेण तु ॥ 112 ॥

विश्वास-प्रस्तुतिः - 113

पश्चात्तु कर्णिकासंस्थांस्तथैव तु सुमुद्धरेत्।
हृदाभिमन्त्रितं कृत्वा एकैकं कलशं पुरा ॥ 113 ॥

मूलम् - 113

पश्चात्तु कर्णिकासंस्थांस्तथैव तु सुमुद्धरेत्।
हृदाभिमन्त्रितं कृत्वा एकैकं कलशं पुरा ॥ 113 ॥

विश्वास-प्रस्तुतिः - 114

स्नापयेन्मूलमन्त्रैण एकैकेन ततः क्रमात्।
इति विंशतिभिः कुम्भैरन्वितं द्विजसत्तम! ॥ 114 ॥

मूलम् - 114

स्नापयेन्मूलमन्त्रैण एकैकेन ततः क्रमात्।
इति विंशतिभिः कुम्भैरन्वितं द्विजसत्तम! ॥ 114 ॥

विश्वास-प्रस्तुतिः - 115

सूक्ष्मस्थूलमिदं प्रोक्तं ततोऽन्यच्छृणु विस्तृतम्।
प्राक्‌प्रत्यगायतं सूत्रपञ्चकं विनिवेश्य च ॥ 115 ॥

मूलम् - 115

सूक्ष्मस्थूलमिदं प्रोक्तं ततोऽन्यच्छृणु विस्तृतम्।
प्राक्‌प्रत्यगायतं सूत्रपञ्चकं विनिवेश्य च ॥ 115 ॥

विश्वास-प्रस्तुतिः - 116

दक्षिणोत्तरसूत्रानामेकादश विनिक्षिपेत्।
एवं कृते तु कोष्ठानि चत्वारिंशद्भवन्ति हि ॥ 116 ॥

मूलम् - 116

दक्षिणोत्तरसूत्रानामेकादश विनिक्षिपेत्।
एवं कृते तु कोष्ठानि चत्वारिंशद्भवन्ति हि ॥ 116 ॥

विश्वास-प्रस्तुतिः - 117

तत्र पश्चिमदिक्‌पङ्‌क्तेरारभ्य क्रमयोगतः।
दक्षिणादुत्तरान्तं च कलशानां चतुश्चतुः ॥ 117 ॥

मूलम् - 117

तत्र पश्चिमदिक्‌पङ्‌क्तेरारभ्य क्रमयोगतः।
दक्षिणादुत्तरान्तं च कलशानां चतुश्चतुः ॥ 117 ॥

विश्वास-प्रस्तुतिः - 118

विन्यस्य पूरयेत्तांस्तु क्रमाद्‌द्रव्यैर्निबोध तत्।
पाद्यार्घ्याचमनीयार्थद्रव्यैः पूर्वोदितैस्त्रयम् । 118 ॥

मूलम् - 118

विन्यस्य पूरयेत्तांस्तु क्रमाद्‌द्रव्यैर्निबोध तत्।
पाद्यार्घ्याचमनीयार्थद्रव्यैः पूर्वोदितैस्त्रयम् । 118 ॥

विश्वास-प्रस्तुतिः - 119

नगादाद्यन्तमध्येभ्यो नदीमृत्तीरसंभवा।
ह्रदाद्वल्मीकशिखरादूगजदन्तक्षतीकृतात् ॥ 119 ॥

मूलम् - 119

नगादाद्यन्तमध्येभ्यो नदीमृत्तीरसंभवा।
ह्रदाद्वल्मीकशिखरादूगजदन्तक्षतीकृतात् ॥ 119 ॥

विश्वास-प्रस्तुतिः - 120

हलोत्था गोवृषश्रृङ्गशालीनां तु समुद्भवा।
तथा च पझषण्डोत्था त्वेकस्मिन् गोमयं परे ॥ 120 ॥

मूलम् - 120

हलोत्था गोवृषश्रृङ्गशालीनां तु समुद्भवा।
तथा च पझषण्डोत्था त्वेकस्मिन् गोमयं परे ॥ 120 ॥

विश्वास-प्रस्तुतिः - 121

वनदाहसमुद्भतं तथैव च महानसात्।
त्रेताग्निभस्म त्वपरे विनिवेश्य घटान्तरे ॥ 121 ॥

मूलम् - 121

वनदाहसमुद्भतं तथैव च महानसात्।
त्रेताग्निभस्म त्वपरे विनिवेश्य घटान्तरे ॥ 121 ॥

विश्वास-प्रस्तुतिः - 122

अन्यस्मिन् पञ्चगव्यं तु कुशोदकसमन्वितम्।
सघृतं तैलकुम्भं तु चमसीवारिपूरितम् ॥ 122 ॥

मूलम् - 122

अन्यस्मिन् पञ्चगव्यं तु कुशोदकसमन्वितम्।
सघृतं तैलकुम्भं तु चमसीवारिपूरितम् ॥ 122 ॥

विश्वास-प्रस्तुतिः - 123

पलाशखदिराश्वत्थशमीलोहितचन्दनम्।
कषायोदकमन्यस्मिन् परे तु त्रिफलोदकम् ॥ 123 ॥

मूलम् - 123

पलाशखदिराश्वत्थशमीलोहितचन्दनम्।
कषायोदकमन्यस्मिन् परे तु त्रिफलोदकम् ॥ 123 ॥

विश्वास-प्रस्तुतिः - 124

वचा शतावरी कन्या' व्याघ्री’ सिंही' कृताञ्जलिः’।
गोलोमी सिंहलोमी च कुष्ठं भूम्यञ्जनं तथा ॥ 124 ॥

मूलम् - 124

वचा शतावरी कन्या' व्याघ्री’ सिंही' कृताञ्जलिः’।
गोलोमी सिंहलोमी च कुष्ठं भूम्यञ्जनं तथा ॥ 124 ॥

विश्वास-प्रस्तुतिः - 125

महागरुडवेगा च कलशेऽन्यत्र सत्तम!।
महानीला गलूची च सहदेवी शतावरी ॥ 125 ॥

मूलम् - 125

महागरुडवेगा च कलशेऽन्यत्र सत्तम!।
महानीला गलूची च सहदेवी शतावरी ॥ 125 ॥

विश्वास-प्रस्तुतिः - 126

विष्णुक्रान्ता च कार्कोटा सांहा वह्निशिखापरे।
यष्टी वराहकर्णी चाप्यन्यस्मिन् गजपिप्पली ॥ 126 ॥

मूलम् - 126

विष्णुक्रान्ता च कार्कोटा सांहा वह्निशिखापरे।
यष्टी वराहकर्णी चाप्यन्यस्मिन् गजपिप्पली ॥ 126 ॥

विश्वास-प्रस्तुतिः - 127

श्रीफलाद्यानि चान्यस्मिन् पावनानि फलानि च।
दधिक्षीराज्यकुम्भांश्च द्वौ मध्विक्षुरसान्वितौ ॥ 127 ॥

मूलम् - 127

श्रीफलाद्यानि चान्यस्मिन् पावनानि फलानि च।
दधिक्षीराज्यकुम्भांश्च द्वौ मध्विक्षुरसान्वितौ ॥ 127 ॥

विश्वास-प्रस्तुतिः - 128

मूलान्यम्भोरुहाणां च तान्यन्यस्मिन् घटे न्यसेत्।
द्रुमाणां पावनानां तु सक्षीराणां विशेषतः ॥ 128 ॥

मूलम् - 128

मूलान्यम्भोरुहाणां च तान्यन्यस्मिन् घटे न्यसेत्।
द्रुमाणां पावनानां तु सक्षीराणां विशेषतः ॥ 128 ॥

विश्वास-प्रस्तुतिः - 129

पत्रपुष्पफलोपेतमेकस्मिन् मञ्जरीगणम्।
जात्यादिकमथैकस्मिन् कौसुमीयं लताचयम् ॥ 129 ॥

मूलम् - 129

पत्रपुष्पफलोपेतमेकस्मिन् मञ्जरीगणम्।
जात्यादिकमथैकस्मिन् कौसुमीयं लताचयम् ॥ 129 ॥

विश्वास-प्रस्तुतिः - 130

रोचनारजनीयुग्मं बालमोटाथ पझकम्।
इति पञ्चकमन्यस्मिन् दर्भदूर्वाङ्‌कुराणि च ॥ 130 ॥

मूलम् - 130

रोचनारजनीयुग्मं बालमोटाथ पझकम्।
इति पञ्चकमन्यस्मिन् दर्भदूर्वाङ्‌कुराणि च ॥ 130 ॥

विश्वास-प्रस्तुतिः - 131

सास्यं शाल्यङ्‌कुरचयं कलशे ह्यपरे तु वै।
सिदधार्थकान् सिताद्यांस्तु प्रियङ्‌गुं गन्धसंज्ञकम् ॥ 131 ॥

मूलम् - 131

सास्यं शाल्यङ्‌कुरचयं कलशे ह्यपरे तु वै।
सिदधार्थकान् सिताद्यांस्तु प्रियङ्‌गुं गन्धसंज्ञकम् ॥ 131 ॥

विश्वास-प्रस्तुतिः - 132

अपरस्मिन् न्यसेत् कुम्भे सह वै नागकेसरैः।
ग्राम्याश्चोषधयः सप्त सप्तारण्या घटद्वये ॥ 132 ॥

मूलम् - 132

अपरस्मिन् न्यसेत् कुम्भे सह वै नागकेसरैः।
ग्राम्याश्चोषधयः सप्त सप्तारण्या घटद्वये ॥ 132 ॥

विश्वास-प्रस्तुतिः - 133

बाह्‌लीकं चन्दनं चैव रसं कर्पूरमेव च।
चतुष्कमेतदपरे त्वन्यस्मिन् धातवः शुभाः ॥ 133 ॥

मूलम् - 133

बाह्‌लीकं चन्दनं चैव रसं कर्पूरमेव च।
चतुष्कमेतदपरे त्वन्यस्मिन् धातवः शुभाः ॥ 133 ॥

विश्वास-प्रस्तुतिः - 134

ताम्रजाम्बूनदाद्यास्तु परे रत्नचयं महत्।
न्यसेद्‌विद्रुमजालं च द्वये मुक्ताफलानि च ॥ 134 ॥

मूलम् - 134

ताम्रजाम्बूनदाद्यास्तु परे रत्नचयं महत्।
न्यसेद्‌विद्रुमजालं च द्वये मुक्ताफलानि च ॥ 134 ॥

विश्वास-प्रस्तुतिः - 135

अर्घ्योदकमकमथैकस्मिन्नदीतीर्थोदकं द्वये।
सर्वौषधिघटं चैव सुशीताम्भोघटं ततः ॥ 135 ॥

मूलम् - 135

अर्घ्योदकमकमथैकस्मिन्नदीतीर्थोदकं द्वये।
सर्वौषधिघटं चैव सुशीताम्भोघटं ततः ॥ 135 ॥

विश्वास-प्रस्तुतिः - 136

सुगन्धपुष्पकलशं चत्वारिंशत् त्वमी स्मृताः।
द्रव्यन्यासक्रमोद्धार इदं स्थूलं परं स्मृतम् ॥ 136 ॥

मूलम् - 136

सुगन्धपुष्पकलशं चत्वारिंशत् त्वमी स्मृताः।
द्रव्यन्यासक्रमोद्धार इदं स्थूलं परं स्मृतम् ॥ 136 ॥

विश्वास-प्रस्तुतिः - 137

शीताम्बुपूरितानां च घटानां केवलं द्विज!।
चत्वारिंशत् समायुक्तं स्थूलसूक्ष्मं प्रकाशितम् ॥ 137 ॥

मूलम् - 137

शीताम्बुपूरितानां च घटानां केवलं द्विज!।
चत्वारिंशत् समायुक्तं स्थूलसूक्ष्मं प्रकाशितम् ॥ 137 ॥

विश्वास-प्रस्तुतिः - 138

गन्धोदकेन पूर्णानां चत्वारिंशद्भिरेव च।
समन्वितं घटानां तु स्थूलस्थूलं प्रकीर्तितम् ॥ 138 ॥

मूलम् - 138

गन्धोदकेन पूर्णानां चत्वारिंशद्भिरेव च।
समन्वितं घटानां तु स्थूलस्थूलं प्रकीर्तितम् ॥ 138 ॥

विश्वास-प्रस्तुतिः - 139

सूत्रपातविधानं च कुम्भन्यासक्रमं ततः।
उद्धारं चानयोः कुर्यात् स्थूलाद्यसदृशं द्विज! ॥ 139 ॥

मूलम् - 139

सूत्रपातविधानं च कुम्भन्यासक्रमं ततः।
उद्धारं चानयोः कुर्यात् स्थूलाद्यसदृशं द्विज! ॥ 139 ॥

विश्वास-प्रस्तुतिः - 140

भक्तिश्रद्धावशाच्चापि विभवानुगुणं तु वा।
त्रिविधं स्थूलभेदं तु द्विगुणं तु समाचरेत् ॥ 140 ॥

मूलम् - 140

भक्तिश्रद्धावशाच्चापि विभवानुगुणं तु वा।
त्रिविधं स्थूलभेदं तु द्विगुणं तु समाचरेत् ॥ 140 ॥

विश्वास-प्रस्तुतिः - 141

अनुकल्पे तदर्धं वा पादमष्टांशमेव वा।
चतुष्टयं वा कुम्भानां प्रत्येकं वा द्वयं द्वयम् ॥ 141 ॥

मूलम् - 141

अनुकल्पे तदर्धं वा पादमष्टांशमेव वा।
चतुष्टयं वा कुम्भानां प्रत्येकं वा द्वयं द्वयम् ॥ 141 ॥

विश्वास-प्रस्तुतिः - 142

एकैकं वापि विप्रेन्द्र! सर्वद्रव्यमयं घटम्।
नवानां परिपूर्णानामुक्तादन्यदपेक्षितम् ॥ 142 ॥

मूलम् - 142

एकैकं वापि विप्रेन्द्र! सर्वद्रव्यमयं घटम्।
नवानां परिपूर्णानामुक्तादन्यदपेक्षितम् ॥ 142 ॥

विश्वास-प्रस्तुतिः - 143

कुर्यादभ्यूह्य तत् सर्वं प्रधानोदितवर्त्मना।
एवं तु दशधा विप्र! परभेदाः प्रकाशिताः ॥ 143 ॥

मूलम् - 143

कुर्यादभ्यूह्य तत् सर्वं प्रधानोदितवर्त्मना।
एवं तु दशधा विप्र! परभेदाः प्रकाशिताः ॥ 143 ॥

विश्वास-प्रस्तुतिः - 144

अपरस्य विभेदांस्तु क्रमेण श्रृणु सत्तम!।
चतुरश्रीकृते क्षेत्रे ह्येकत्रिंशद्विभाजिते ॥ 144 ॥

मूलम् - 144

अपरस्य विभेदांस्तु क्रमेण श्रृणु सत्तम!।
चतुरश्रीकृते क्षेत्रे ह्येकत्रिंशद्विभाजिते ॥ 144 ॥

विश्वास-प्रस्तुतिः - 145

कोष्ठकानां नवशतमेकपष्टिस्तथैव च।
मध्ये पङ्‌क्तित्रयं स्थाप्य मार्जयेत्तद्बहिर्द्वयम् ॥ 145 ॥

मूलम् - 145

कोष्ठकानां नवशतमेकपष्टिस्तथैव च।
मध्ये पङ्‌क्तित्रयं स्थाप्य मार्जयेत्तद्बहिर्द्वयम् ॥ 145 ॥

विश्वास-प्रस्तुतिः - 146

वीथ्यर्थं तद्बहिर्भूयः स्थाप्य पङ्‌क्तित्रयं पुनः।
द्वयं विमृज्य वीथ्यर्थं स्थापयेत् सप्तकं पुनः ॥ 146 ॥

मूलम् - 146

वीथ्यर्थं तद्बहिर्भूयः स्थाप्य पङ्‌क्तित्रयं पुनः।
द्वयं विमृज्य वीथ्यर्थं स्थापयेत् सप्तकं पुनः ॥ 146 ॥

विश्वास-प्रस्तुतिः - 147

विभज्य वा त्रिणवधा ह्येकैकं विमृजेद्‌द्विज!।
वीथ्यर्थं संकटे देशे कलशानां तु पूर्ववत् ॥ 147 ॥

मूलम् - 147

विभज्य वा त्रिणवधा ह्येकैकं विमृजेद्‌द्विज!।
वीथ्यर्थं संकटे देशे कलशानां तु पूर्ववत् ॥ 147 ॥

विश्वास-प्रस्तुतिः - 148

क्रमेण तेषु कोष्ठेषु कलशान् पूर्ववन्न्यसेत्।
घृतमुष्णोदकं चैव रत्नवारि फलोदकम् ॥ 148 ॥

मूलम् - 148

क्रमेण तेषु कोष्ठेषु कलशान् पूर्ववन्न्यसेत्।
घृतमुष्णोदकं चैव रत्नवारि फलोदकम् ॥ 148 ॥

विश्वास-प्रस्तुतिः - 149

लोहाम्भो मार्जनाम्भश्च गन्धाम्भोऽक्षतवारि च।
यवोदकमथेशान्तं मध्यादारभ्य मध्यमे ॥ 149 ॥

मूलम् - 149

लोहाम्भो मार्जनाम्भश्च गन्धाम्भोऽक्षतवारि च।
यवोदकमथेशान्तं मध्यादारभ्य मध्यमे ॥ 149 ॥

विश्वास-प्रस्तुतिः - 150

पाद्यमर्घ्य तथाचामं पञ्चगव्यं क्रमेण तु।
द्विचतुष्केण संवीतनकानां तु मध्यमे ॥ 150 ॥

मूलम् - 150

पाद्यमर्घ्य तथाचामं पञ्चगव्यं क्रमेण तु।
द्विचतुष्केण संवीतनकानां तु मध्यमे ॥ 150 ॥

विश्वास-प्रस्तुतिः - 151

ऐन्द्राद्युत्तरपर्यन्तं विदिक्‌स्थानां तु मध्यमे।
दधि क्षीरं मधु तथा कषायं वह्निदिक्‌क्रमात् ॥ 151 ॥

मूलम् - 151

ऐन्द्राद्युत्तरपर्यन्तं विदिक्‌स्थानां तु मध्यमे।
दधि क्षीरं मधु तथा कषायं वह्निदिक्‌क्रमात् ॥ 151 ॥

विश्वास-प्रस्तुतिः - 152

एवं सप्तदश प्रोक्तः प्रधानद्रव्यसंयुताः।
शेषाश्चान्ये चतुष्षष्टिः शुद्धोदकसमन्विताः ॥ 152 ॥

मूलम् - 152

एवं सप्तदश प्रोक्तः प्रधानद्रव्यसंयुताः।
शेषाश्चान्ये चतुष्षष्टिः शुद्धोदकसमन्विताः ॥ 152 ॥

विश्वास-प्रस्तुतिः - 153

इत्येकाशीतिकलशा मध्यतः संस्थिता द्विज!।
ततस्त्वेकोनपञ्चाशत्कलशास्तद्दिगष्टके ॥ 153 ॥

मूलम् - 153

इत्येकाशीतिकलशा मध्यतः संस्थिता द्विज!।
ततस्त्वेकोनपञ्चाशत्कलशास्तद्दिगष्टके ॥ 153 ॥

विश्वास-प्रस्तुतिः - 154

तत्र मध्यमकुम्भेषु दिक्‌स्थितानां च सेचयेत्।
गुलोदकं चेक्षुरसं नालिकेररसं तथा ॥ 154 ॥

मूलम् - 154

तत्र मध्यमकुम्भेषु दिक्‌स्थितानां च सेचयेत्।
गुलोदकं चेक्षुरसं नालिकेररसं तथा ॥ 154 ॥

विश्वास-प्रस्तुतिः - 155

`शान्तिवारि’ मुनिश्रेष्ठ! पूर्वदिक्‌क्रमयोगतः।
विदिक्‌स्थब्रह्नकुम्भेषु सेचयेन्मड्गलोदकम् ॥ 155 ॥

मूलम् - 155

`शान्तिवारि’ मुनिश्रेष्ठ! पूर्वदिक्‌क्रमयोगतः।
विदिक्‌स्थब्रह्नकुम्भेषु सेचयेन्मड्गलोदकम् ॥ 155 ॥

विश्वास-प्रस्तुतिः - 156

आग्नेयादीशपर्यन्तं शिष्टमन्यच्छतत्रयम्।
असीतियुक्तं कुम्भानां तथैव चतुरुत्तरम् ॥ 156 ॥

मूलम् - 156

आग्नेयादीशपर्यन्तं शिष्टमन्यच्छतत्रयम्।
असीतियुक्तं कुम्भानां तथैव चतुरुत्तरम् ॥ 156 ॥

विश्वास-प्रस्तुतिः - 157

सुगन्धैः शीतलैस्तोयैः संपूर्णं द्विजसत्तम!।
पस्चान्मध्यस्थनवके मध्यादीशानपश्चिमम् ॥ 157 ॥

मूलम् - 157

सुगन्धैः शीतलैस्तोयैः संपूर्णं द्विजसत्तम!।
पस्चान्मध्यस्थनवके मध्यादीशानपश्चिमम् ॥ 157 ॥

विश्वास-प्रस्तुतिः - 158

वासुदेवाद्वराहान्तं मूर्तीनां नवकं यजेत्।
अर्घ्यालभनमाल्यैश्च धूपेन च यथाक्रमम् ॥ 158 ॥

मूलम् - 158

वासुदेवाद्वराहान्तं मूर्तीनां नवकं यजेत्।
अर्घ्यालभनमाल्यैश्च धूपेन च यथाक्रमम् ॥ 158 ॥

विश्वास-प्रस्तुतिः - 159

तद्वहिर्नवकानां तु ब्रह्नकुम्भेषु पूजयेत्।
केशवाद्वामनान्तं च द्विचतुः पूर्वदिक्‌क्रमात् ॥ 159 ।

मूलम् - 159

तद्वहिर्नवकानां तु ब्रह्नकुम्भेषु पूजयेत्।
केशवाद्वामनान्तं च द्विचतुः पूर्वदिक्‌क्रमात् ॥ 159 ।

विश्वास-प्रस्तुतिः - 160

तत एकोनपञ्चाशत् कलशानां महामते!।
पूजयेद्ब्रह्नकुम्भेषु श्रीधराद्यं चतुष्टयम् ॥ 160 ॥

मूलम् - 160

तत एकोनपञ्चाशत् कलशानां महामते!।
पूजयेद्ब्रह्नकुम्भेषु श्रीधराद्यं चतुष्टयम् ॥ 160 ॥

विश्वास-प्रस्तुतिः - 161

पूर्वाद्युत्तरपर्यन्तं वह्न्यादीशानपश्चिमम्।
नराद्यं कृष्णपर्यन्तं चतुष्कं पूजयेद्‌द्विज! ॥ 161 ॥

मूलम् - 161

पूर्वाद्युत्तरपर्यन्तं वह्न्यादीशानपश्चिमम्।
नराद्यं कृष्णपर्यन्तं चतुष्कं पूजयेद्‌द्विज! ॥ 161 ॥

विश्वास-प्रस्तुतिः - 162

प्राग्वत् कूर्चानि संन्यस्य चक्रिकाभिः पिधाय च।
तत आच्छादयेद्वर्स्त्रैनूतनैस्तु पृथक् पृथक् ॥ 162 ॥

मूलम् - 162

प्राग्वत् कूर्चानि संन्यस्य चक्रिकाभिः पिधाय च।
तत आच्छादयेद्वर्स्त्रैनूतनैस्तु पृथक् पृथक् ॥ 162 ॥

विश्वास-प्रस्तुतिः - 163

तत ऊर्ध्वं यजेद्देवं वासुदेवं जगत्पतिम्।
पाद्यमर्घ्यं तथाचामं पञ्चगव्यं, घृतं, दधि ॥ 163 ॥

मूलम् - 163

तत ऊर्ध्वं यजेद्देवं वासुदेवं जगत्पतिम्।
पाद्यमर्घ्यं तथाचामं पञ्चगव्यं, घृतं, दधि ॥ 163 ॥

विश्वास-प्रस्तुतिः - 164

पयो, मधु, कषायं च, उष्णाम्भः फलपारि च।
मार्जनाम्भो, ऽक्षताम्भश्च, रत्नाम्भो, लोहवारि च ॥ 164 ॥

मूलम् - 164

पयो, मधु, कषायं च, उष्णाम्भः फलपारि च।
मार्जनाम्भो, ऽक्षताम्भश्च, रत्नाम्भो, लोहवारि च ॥ 164 ॥

विश्वास-प्रस्तुतिः - 165

गन्धाम्भश्च, यवाम्भश्च, गुलोदेक्षुरसौ, तथा।
नालिकेररसं, चापि शान्तितोयं, च मङ्गलम् ॥ 165 ॥

मूलम् - 165

गन्धाम्भश्च, यवाम्भश्च, गुलोदेक्षुरसौ, तथा।
नालिकेररसं, चापि शान्तितोयं, च मङ्गलम् ॥ 165 ॥

विश्वास-प्रस्तुतिः - 166

क्रमेणानेन विप्रेन्द्र! ह्याचरेत् स्नपनं विभोः।
मूलमन्त्रेण सर्वेषां स्नपनं विहितं द्विज! ॥ 166 ॥

मूलम् - 166

क्रमेणानेन विप्रेन्द्र! ह्याचरेत् स्नपनं विभोः।
मूलमन्त्रेण सर्वेषां स्नपनं विहितं द्विज! ॥ 166 ॥

विश्वास-प्रस्तुतिः - 167

अथवा पाद्यपूर्वं तु गन्धतोयावसानकम्।
ऋग्भिः पुरुषसूक्तस्य, तथेदं विष्णुरित्यृचा ॥ 167 ॥

मूलम् - 167

अथवा पाद्यपूर्वं तु गन्धतोयावसानकम्।
ऋग्भिः पुरुषसूक्तस्य, तथेदं विष्णुरित्यृचा ॥ 167 ॥

विश्वास-प्रस्तुतिः - 168

यवाम्भो, गुलतोयाद्यं चतुष्कं शान्तिपश्चिमम्।
त्वं विष्णुरिति मन्त्रेण, विष्णोर्नुकमिति द्विज! ॥ 168 ॥

मूलम् - 168

यवाम्भो, गुलतोयाद्यं चतुष्कं शान्तिपश्चिमम्।
त्वं विष्णुरिति मन्त्रेण, विष्णोर्नुकमिति द्विज! ॥ 168 ॥

विश्वास-प्रस्तुतिः - 169

स्नापयेन्मङ्गलाद्येन तोयेन मुनिपुङ्गव!।
येनाभिषिञ्चेद्देवेशं प्रधानकलशेन तु ॥ 169 ॥

मूलम् - 169

स्नापयेन्मङ्गलाद्येन तोयेन मुनिपुङ्गव!।
येनाभिषिञ्चेद्देवेशं प्रधानकलशेन तु ॥ 169 ॥

विश्वास-प्रस्तुतिः - 170

तच्छुद्धवारिकलशैस्तन्मन्त्रेणाभिषेचयेत्।
प्रतिद्रव्यं तु वस्त्रेण ह्यर्घ्यालभनमाल्यकैः ॥ 170 ॥

मूलम् - 170

तच्छुद्धवारिकलशैस्तन्मन्त्रेणाभिषेचयेत्।
प्रतिद्रव्यं तु वस्त्रेण ह्यर्घ्यालभनमाल्यकैः ॥ 170 ॥

विश्वास-प्रस्तुतिः - 171

धूयेन च समभ्यर्च्य ततस्तेनाभिषेचयेत्।
यद्वार्घ्यं पाद्यमाचामं गन्धस्रग्धूपदीपकम् ॥ 171 ॥

मूलम् - 171

धूयेन च समभ्यर्च्य ततस्तेनाभिषेचयेत्।
यद्वार्घ्यं पाद्यमाचामं गन्धस्रग्धूपदीपकम् ॥ 171 ॥

विश्वास-प्रस्तुतिः - 172

दद्याद्यथाक्रमं सर्वं, केवलं चार्ध्यमेव वा।
युक्तं शतचतुष्केण सप्तत्या च त्रयेण च ॥ 172 ॥

मूलम् - 172

दद्याद्यथाक्रमं सर्वं, केवलं चार्ध्यमेव वा।
युक्तं शतचतुष्केण सप्तत्या च त्रयेण च ॥ 172 ॥

विश्वास-प्रस्तुतिः - 173

कुम्भानां स्नपनं ह्येतदुत्तमोतममुच्यते।
हीनमष्टाष्टसंख्यातैरन्तश्शुद्धोदवारिभिः ॥ 173 ॥

मूलम् - 173

कुम्भानां स्नपनं ह्येतदुत्तमोतममुच्यते।
हीनमष्टाष्टसंख्यातैरन्तश्शुद्धोदवारिभिः ॥ 173 ॥

विश्वास-प्रस्तुतिः - 174

कलशैः स्नपनं यत्तु तत् स्यादुत्तममध्यमम्।
तथा पङ्‌क्तिचतुष्कं तु हीनं स्यात् पूर्वनिश्चितात् ॥ 174 ॥

मूलम् - 174

कलशैः स्नपनं यत्तु तत् स्यादुत्तममध्यमम्।
तथा पङ्‌क्तिचतुष्कं तु हीनं स्यात् पूर्वनिश्चितात् ॥ 174 ॥

विश्वास-प्रस्तुतिः - 175

यदेतत् स्नपनं युक्तमेकाशीत्या च मध्यतः।
दिक्षु चैकोनपञ्चाशच्चतुष्केन विदिक्षु च ॥ 175 ॥

मूलम् - 175

यदेतत् स्नपनं युक्तमेकाशीत्या च मध्यतः।
दिक्षु चैकोनपञ्चाशच्चतुष्केन विदिक्षु च ॥ 175 ॥

विश्वास-प्रस्तुतिः - 176

ब्राह्नदैविकभागस्थैः कलशैरन्वितं द्विज!।
शेषैःषष्टयुत्तरशतसंख्यातैः शुद्धवारिभिः ॥ 176 ॥

मूलम् - 176

ब्राह्नदैविकभागस्थैः कलशैरन्वितं द्विज!।
शेषैःषष्टयुत्तरशतसंख्यातैः शुद्धवारिभिः ॥ 176 ॥

विश्वास-प्रस्तुतिः - 177

विहीनं कलशैर्विप्र! तद्भवेदुत्तमाधमम्।
शतद्वयेन कुम्भानां चतुर्दिक्संस्थितेन च ॥ 177 ॥

मूलम् - 177

विहीनं कलशैर्विप्र! तद्भवेदुत्तमाधमम्।
शतद्वयेन कुम्भानां चतुर्दिक्संस्थितेन च ॥ 177 ॥

विश्वास-प्रस्तुतिः - 178

चतुर्हीनेन वै विप्र! ह्येकाशीत्या च मध्यतः।
संयुक्तं स्नपनं प्राग्वत् तद्भवेन्मध्यमोत्तमम् ॥ 178 ॥

मूलम् - 178

चतुर्हीनेन वै विप्र! ह्येकाशीत्या च मध्यतः।
संयुक्तं स्नपनं प्राग्वत् तद्भवेन्मध्यमोत्तमम् ॥ 178 ॥

विश्वास-प्रस्तुतिः - 179

अष्टाष्टपरिसङ्ख्यातैरन्तः शुद्धोदवारिभिः।
कलशैर्यद् भवेद्धीनं तत् स्यान्मद्यममध्यमम् ॥ 179 ॥

मूलम् - 179

अष्टाष्टपरिसङ्ख्यातैरन्तः शुद्धोदवारिभिः।
कलशैर्यद् भवेद्धीनं तत् स्यान्मद्यममध्यमम् ॥ 179 ॥

विश्वास-प्रस्तुतिः - 180

एकाशीत्या च कुम्भानां मध्यतस्तु समन्वितम्।
दिक्षु चैकोनपञ्चाशन्मध्यस्थनवसंयुतम् ॥ 180 ॥

मूलम् - 180

एकाशीत्या च कुम्भानां मध्यतस्तु समन्वितम्।
दिक्षु चैकोनपञ्चाशन्मध्यस्थनवसंयुतम् ॥ 180 ॥

विश्वास-प्रस्तुतिः - 181

शेषैः शुद्धोदकलशैर्विहीनं मध्यमाधमम्।
पङ्‌क्तीनामष्टकेनात्र हीनं क्षेत्रं तु कल्पयेत् ॥ 181 ॥

मूलम् - 181

शेषैः शुद्धोदकलशैर्विहीनं मध्यमाधमम्।
पङ्‌क्तीनामष्टकेनात्र हीनं क्षेत्रं तु कल्पयेत् ॥ 181 ॥

विश्वास-प्रस्तुतिः - 182

एकाशीत्या च कुम्भानां केवलं पूर्ववद् द्विज!।
अधमोत्तममेतत्तु स्नपनं परिकीर्तितम् ॥ 182 ॥

मूलम् - 182

एकाशीत्या च कुम्भानां केवलं पूर्ववद् द्विज!।
अधमोत्तममेतत्तु स्नपनं परिकीर्तितम् ॥ 182 ॥

विश्वास-प्रस्तुतिः - 183

द्वात्रिंशद्भिस्तु कल्शैः सौणस्थैः शुद्धवारिभिः।
विहीनं स्नपनं यत्तद्‌ भवेद धममध्यमम् ॥ 183 ॥

मूलम् - 183

द्वात्रिंशद्भिस्तु कल्शैः सौणस्थैः शुद्धवारिभिः।
विहीनं स्नपनं यत्तद्‌ भवेद धममध्यमम् ॥ 183 ॥

विश्वास-प्रस्तुतिः - 184

यच्चतुष्षष्टिकलशैर्विहीनं सर्वदिक्‌स्थितैः।
शुद्धोदकैर्द्विजश्रेष्ठ! तद्भवेद धमाधमम् ॥ 184 ॥

मूलम् - 184

यच्चतुष्षष्टिकलशैर्विहीनं सर्वदिक्‌स्थितैः।
शुद्धोदकैर्द्विजश्रेष्ठ! तद्भवेद धमाधमम् ॥ 184 ॥

विश्वास-प्रस्तुतिः - 185

नवधा सप्तधा वात्र क्षेत्रं कृत्वा तु पीडयेत्।
द्वयं चतुष्कं वा शिष्टं, कुम्भानां स्थापनार्थतः । 185 ॥

मूलम् - 185

नवधा सप्तधा वात्र क्षेत्रं कृत्वा तु पीडयेत्।
द्वयं चतुष्कं वा शिष्टं, कुम्भानां स्थापनार्थतः । 185 ॥

विश्वास-प्रस्तुतिः - 186

इत्युक्तमाद्यं नवधा, द्वितीयं श्रृणु सत्तम!।
चतुरश्रीकृते क्षेत्रे ह्यष्टादशविभाजिते ॥ 186 ॥

मूलम् - 186

इत्युक्तमाद्यं नवधा, द्वितीयं श्रृणु सत्तम!।
चतुरश्रीकृते क्षेत्रे ह्यष्टादशविभाजिते ॥ 186 ॥

विश्वास-प्रस्तुतिः - 187

यद्वा षोडशधा विप्र! पङ्‌क्तिषट्‌कं तु मध्यतः।
संस्थाप्य तद्बहिर्वीथ्यै मार्जयेद्‌द्वितयं द्विज! ॥ 187 ॥

मूलम् - 187

यद्वा षोडशधा विप्र! पङ्‌क्तिषट्‌कं तु मध्यतः।
संस्थाप्य तद्बहिर्वीथ्यै मार्जयेद्‌द्वितयं द्विज! ॥ 187 ॥

विश्वास-प्रस्तुतिः - 188

एकैकं वापि तद्बाह्ये स्थापयेत्तु चतुष्टयम्।
पूर्ववत्तेषु कलशान् न्यस्य द्रव्याणि निक्षिपेत् ॥ 188 ॥

मूलम् - 188

एकैकं वापि तद्बाह्ये स्थापयेत्तु चतुष्टयम्।
पूर्ववत्तेषु कलशान् न्यस्य द्रव्याणि निक्षिपेत् ॥ 188 ॥

विश्वास-प्रस्तुतिः - 189

मध्ये कुम्भचतुष्के तु सर्वरत्नजलं ततः।
द्वितये मौक्तिकं प्राच्यामेकस्मिन् वह्निदिग्गते ॥ 189 ॥

मूलम् - 189

मध्ये कुम्भचतुष्के तु सर्वरत्नजलं ततः।
द्वितये मौक्तिकं प्राच्यामेकस्मिन् वह्निदिग्गते ॥ 189 ॥

विश्वास-प्रस्तुतिः - 190

वज्रं याम्यद्वये विप्र! गोमेदकमनन्तरे।
एकस्मिन्निन्द्रनीलं तु पुष्यरागं ततो द्वये ॥ 190 ॥

मूलम् - 190

वज्रं याम्यद्वये विप्र! गोमेदकमनन्तरे।
एकस्मिन्निन्द्रनीलं तु पुष्यरागं ततो द्वये ॥ 190 ॥

विश्वास-प्रस्तुतिः - 191

पश्चिमस्थे तु वायव्ये ह्येकस्मिन् ब्रह्नरागकम्।
चन्द्रकान्तं द्वये सौम्ये ह्येकस्मिन् विद्रुमं परे ॥ 191 ॥

मूलम् - 191

पश्चिमस्थे तु वायव्ये ह्येकस्मिन् ब्रह्नरागकम्।
चन्द्रकान्तं द्वये सौम्ये ह्येकस्मिन् विद्रुमं परे ॥ 191 ॥

विश्वास-प्रस्तुतिः - 192

द्वितीयावरणे प्राच्यामाज्यं कुम्भद्वये द्विज!।
कुम्भ आग्नेयकोणस्थे ह्येकस्मिग्नौपमानिकम् ॥ 192 ॥

मूलम् - 192

द्वितीयावरणे प्राच्यामाज्यं कुम्भद्वये द्विज!।
कुम्भ आग्नेयकोणस्थे ह्येकस्मिग्नौपमानिकम् ॥ 192 ॥

विश्वास-प्रस्तुतिः - 193

क्षीरं द्वये दक्षिणस्थे नैर्ऋत्यां मार्जनं तथा।
दधि द्वये पश्चिमस्थे गन्धो वायव्यकोणगे ॥ 193 ॥

मूलम् - 193

क्षीरं द्वये दक्षिणस्थे नैर्ऋत्यां मार्जनं तथा।
दधि द्वये पश्चिमस्थे गन्धो वायव्यकोणगे ॥ 193 ॥

विश्वास-प्रस्तुतिः - 194

सौम्यद्वये माक्षिकं स्यात् कषायं चेशकोणगे।
गन्धोदकेन संपूर्णं कुम्भानां शिष्टमष्टकम् । 194 ॥

मूलम् - 194

सौम्यद्वये माक्षिकं स्यात् कषायं चेशकोणगे।
गन्धोदकेन संपूर्णं कुम्भानां शिष्टमष्टकम् । 194 ॥

विश्वास-प्रस्तुतिः - 195

एवं मध्यस्थिताः कुम्भाः षट्‌त्रिंशत्संख्यया द्विज!।
चतुर्विंशत्तु कलशाः प्रतिदिक्कं तु तद्बहिः ॥ 195 ॥

मूलम् - 195

एवं मध्यस्थिताः कुम्भाः षट्‌त्रिंशत्संख्यया द्विज!।
चतुर्विंशत्तु कलशाः प्रतिदिक्कं तु तद्बहिः ॥ 195 ॥

विश्वास-प्रस्तुतिः - 196

विदिक्‌स्थितास्तु प्रत्येकं कलशाः षोडश द्विज!।
पूर्वदिक्‌संस्थितानां तु कुम्भानां मध्यमे स्थिते ॥ 196 ॥

मूलम् - 196

विदिक्‌स्थितास्तु प्रत्येकं कलशाः षोडश द्विज!।
पूर्वदिक्‌संस्थितानां तु कुम्भानां मध्यमे स्थिते ॥ 196 ॥

विश्वास-प्रस्तुतिः - 197

चतुष्केऽर्घ्य, तथा पाद्यं दक्षिणे पश्चिमे तथा।
आचामं, सौम्यमध्यस्थचतुष्के पञ्चगव्यकम् ॥ 197 ॥

मूलम् - 197

चतुष्केऽर्घ्य, तथा पाद्यं दक्षिणे पश्चिमे तथा।
आचामं, सौम्यमध्यस्थचतुष्के पञ्चगव्यकम् ॥ 197 ॥

विश्वास-प्रस्तुतिः - 198

वह्निदिक्कलशानां तु चतुष्के मध्यसंस्थिते।
तैलं, गुलोदं निर्ऋतौ, वायुसंस्थे तिलोदकम् ॥ 198 ॥

मूलम् - 198

वह्निदिक्कलशानां तु चतुष्के मध्यसंस्थिते।
तैलं, गुलोदं निर्ऋतौ, वायुसंस्थे तिलोदकम् ॥ 198 ॥

विश्वास-प्रस्तुतिः - 199

अक्षतं त्वीशदिक्‌संस्थे, ह्यष्टाविशोत्तरं शतम्।
अवशिष्टं तु कुम्भानां पूर्णं गन्धोदकेन तु ॥ 199 ॥

मूलम् - 199

अक्षतं त्वीशदिक्‌संस्थे, ह्यष्टाविशोत्तरं शतम्।
अवशिष्टं तु कुम्भानां पूर्णं गन्धोदकेन तु ॥ 199 ॥

विश्वास-प्रस्तुतिः - 200

अर्घ्यादिसर्वरत्नान्तमुद्धारक्रम इष्यते।
अर्घ्यं पाद्यं तथाचामं पञ्चगव्यं ततः परम् ॥ 200 ॥

मूलम् - 200

अर्घ्यादिसर्वरत्नान्तमुद्धारक्रम इष्यते।
अर्घ्यं पाद्यं तथाचामं पञ्चगव्यं ततः परम् ॥ 200 ॥

विश्वास-प्रस्तुतिः - 201

तैलं गुलोदकं चैब तिलोदं चाक्षतोदकम्।
आज्यं तथा चौपमान्यं क्षीरं मार्जनमेव च ॥ 201 ॥

मूलम् - 201

तैलं गुलोदकं चैब तिलोदं चाक्षतोदकम्।
आज्यं तथा चौपमान्यं क्षीरं मार्जनमेव च ॥ 201 ॥

विश्वास-प्रस्तुतिः - 202

दधि गन्धं माक्षिकानि कषायं मौक्तिकं तथा।
वज्रादिसर्वरत्नान्तमष्टकं क्रमशो द्विज! ॥ 202 ॥

मूलम् - 202

दधि गन्धं माक्षिकानि कषायं मौक्तिकं तथा।
वज्रादिसर्वरत्नान्तमष्टकं क्रमशो द्विज! ॥ 202 ॥

विश्वास-प्रस्तुतिः - 203

शतद्वयेन कुम्भानां चतुर्न्यूनेन संयुतम्।
एतत् स्नपनमाख्यातमुत्तमोत्तमसंज्ञितम् ॥ 203 ॥

मूलम् - 203

शतद्वयेन कुम्भानां चतुर्न्यूनेन संयुतम्।
एतत् स्नपनमाख्यातमुत्तमोत्तमसंज्ञितम् ॥ 203 ॥

विश्वास-प्रस्तुतिः - 204

चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते।
कोष्ठकानां भवत्यत्र चतुर्न्यूनं शतद्वयम् ॥ 204 ॥

मूलम् - 204

चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते।
कोष्ठकानां भवत्यत्र चतुर्न्यूनं शतद्वयम् ॥ 204 ॥

विश्वास-प्रस्तुतिः - 205

मध्ये पङ्‌क्तिचतुष्कं तु संस्थाप्य परिमार्जयेत्।
एकैकं वीथये बाह्ये स्थापयेच्च चतुष्टयम् ॥ 205 ॥

मूलम् - 205

मध्ये पङ्‌क्तिचतुष्कं तु संस्थाप्य परिमार्जयेत्।
एकैकं वीथये बाह्ये स्थापयेच्च चतुष्टयम् ॥ 205 ॥

विश्वास-प्रस्तुतिः - 206

तत्रापि कोष्ठकानां तु कलशस्थापनार्थतः।
संश्थाप्याष्टोत्तरशतं शेषाणि परिमार्जयेत् ॥ 206 ॥

मूलम् - 206

तत्रापि कोष्ठकानां तु कलशस्थापनार्थतः।
संश्थाप्याष्टोत्तरशतं शेषाणि परिमार्जयेत् ॥ 206 ॥

विश्वास-प्रस्तुतिः - 207

पूर्ववत्तेषु कलशान् न्यस्य द्रव्याणि निक्षिपेत्।
विन्यसेद्रत्ननिचयं मध्ये कुम्भचतुष्टयम् ॥ 207 ॥

मूलम् - 207

पूर्ववत्तेषु कलशान् न्यस्य द्रव्याणि निक्षिपेत्।
विन्यसेद्रत्ननिचयं मध्ये कुम्भचतुष्टयम् ॥ 207 ॥

विश्वास-प्रस्तुतिः - 208

प्राङ्भध्यसूत्राद्दक्षिणतः कलशे मौक्तिकं द्विज!।
एतद्दक्षिणतः संश्थे वज्रगोमेदके क्रमात् ॥ 208 ॥

मूलम् - 208

प्राङ्भध्यसूत्राद्दक्षिणतः कलशे मौक्तिकं द्विज!।
एतद्दक्षिणतः संश्थे वज्रगोमेदके क्रमात् ॥ 208 ॥

विश्वास-प्रस्तुतिः - 209

इन्द्रनीलं पुष्यरागं पश्चिमस्थे द्वये तथा।
ब्रह्नरागं चन्द्रकान्तं सोमदिक्‌स्थे द्वये द्विज! ॥ 209 ॥

मूलम् - 209

इन्द्रनीलं पुष्यरागं पश्चिमस्थे द्वये तथा।
ब्रह्नरागं चन्द्रकान्तं सोमदिक्‌स्थे द्वये द्विज! ॥ 209 ॥

विश्वास-प्रस्तुतिः - 210

प्राङ्भध्यसूत्रोत्तरतो विद्रुमं कलशे द्विज!।
एवं द्विषट्‌कं कुम्भानां मध्यतः ; तद्दिगष्टके ॥ 210 ॥

मूलम् - 210

प्राङ्भध्यसूत्रोत्तरतो विद्रुमं कलशे द्विज!।
एवं द्विषट्‌कं कुम्भानां मध्यतः ; तद्दिगष्टके ॥ 210 ॥

विश्वास-प्रस्तुतिः - 211

प्रतिदिक्कलशानां तु द्विषट्‌कं द्विजसत्तम!।
तेषां मध्यस्थिते कुम्भे चतुष्के प्राग्दिगादितः ॥ 211 ॥

मूलम् - 211

प्रतिदिक्कलशानां तु द्विषट्‌कं द्विजसत्तम!।
तेषां मध्यस्थिते कुम्भे चतुष्के प्राग्दिगादितः ॥ 211 ॥

विश्वास-प्रस्तुतिः - 212

अर्घ्यं तैलं तथा पाद्यं गुलाम्ब्वाचमनीयकम्।
तिलोदकं पञ्चगव्यमक्षतं त्वीशपश्चिमम् ॥ 212 ॥

मूलम् - 212

अर्घ्यं तैलं तथा पाद्यं गुलाम्ब्वाचमनीयकम्।
तिलोदकं पञ्चगव्यमक्षतं त्वीशपश्चिमम् ॥ 212 ॥

विश्वास-प्रस्तुतिः - 213

शेषाः कुम्भाश्चतुष्षष्टिः पूर्णा गन्धोदकेन तु।
अर्घ्यादिसर्वरत्नान्तमुद्धारक्रम इष्यते ॥ 213 ॥

मूलम् - 213

शेषाः कुम्भाश्चतुष्षष्टिः पूर्णा गन्धोदकेन तु।
अर्घ्यादिसर्वरत्नान्तमुद्धारक्रम इष्यते ॥ 213 ॥

विश्वास-प्रस्तुतिः - 214

एवमष्टोत्तरशतैः कुम्भैरुत्तमध्यमम्।
चतुरश्रीकृते क्षेत्रे त्रयोदशविभाजिते ॥ 214 ॥

मूलम् - 214

एवमष्टोत्तरशतैः कुम्भैरुत्तमध्यमम्।
चतुरश्रीकृते क्षेत्रे त्रयोदशविभाजिते ॥ 214 ॥

विश्वास-प्रस्तुतिः - 215

पङ्‌क्तीनां पञ्चमं मद्ये संस्थाप्य परिमार्जयेत्।
एकैकं वीथये बाह्ये स्थापयेत् त्रितयं पुनः ॥ 215 ॥

मूलम् - 215

पङ्‌क्तीनां पञ्चमं मद्ये संस्थाप्य परिमार्जयेत्।
एकैकं वीथये बाह्ये स्थापयेत् त्रितयं पुनः ॥ 215 ॥

विश्वास-प्रस्तुतिः - 216

मध्यमे रत्नकुम्भं तत् प्रागादीशावसानकम्।
मुक्ताफलं तथा वज्रं गोमेदकेन्द्रनीलकौ ॥ 216 ॥

मूलम् - 216

मध्यमे रत्नकुम्भं तत् प्रागादीशावसानकम्।
मुक्ताफलं तथा वज्रं गोमेदकेन्द्रनीलकौ ॥ 216 ॥

विश्वास-प्रस्तुतिः - 217

पुष्यरागो ब्रह्नरागश्चन्द्रकान्तश्च विद्रुमः।
तद्बहिः प्राकक्रमेणैव धृतं चैवोपमानिकम् ॥ 217 ॥

मूलम् - 217

पुष्यरागो ब्रह्नरागश्चन्द्रकान्तश्च विद्रुमः।
तद्बहिः प्राकक्रमेणैव धृतं चैवोपमानिकम् ॥ 217 ॥

विश्वास-प्रस्तुतिः - 218

क्षीरं मार्जनतोयं च दधि गन्धं च माक्षिकम्।
कषायमष्टौ शिष्टाश्च गन्धाम्भः परिपूरिताः ॥ 218 ॥

मूलम् - 218

क्षीरं मार्जनतोयं च दधि गन्धं च माक्षिकम्।
कषायमष्टौ शिष्टाश्च गन्धाम्भः परिपूरिताः ॥ 218 ॥

विश्वास-प्रस्तुतिः - 219

एवं मध्यस्थिता विप्र! कलशाः पञ्चविंशतिः।
अष्टकं नवकानां तु तद्बहिस्तु दिगष्टके ॥ 219 ॥

मूलम् - 219

एवं मध्यस्थिता विप्र! कलशाः पञ्चविंशतिः।
अष्टकं नवकानां तु तद्बहिस्तु दिगष्टके ॥ 219 ॥

विश्वास-प्रस्तुतिः - 220

तेषां मध्ये क्रमादर्ध्यं तैलं पाद्यं गुलोदकम्।
आचामं तिलतोयं च पञ्चगव्यं तथाक्षतम् ॥ 220 ॥

मूलम् - 220

तेषां मध्ये क्रमादर्ध्यं तैलं पाद्यं गुलोदकम्।
आचामं तिलतोयं च पञ्चगव्यं तथाक्षतम् ॥ 220 ॥

विश्वास-प्रस्तुतिः - 221

प्रागाशादीशदिङ्‌निष्ठं शिष्टमष्टाष्टकं द्विज!।
पूरितं गन्धतोयेन ह्येवं कुम्भसमन्वितम् ॥ 221 ॥

मूलम् - 221

प्रागाशादीशदिङ्‌निष्ठं शिष्टमष्टाष्टकं द्विज!।
पूरितं गन्धतोयेन ह्येवं कुम्भसमन्वितम् ॥ 221 ॥

विश्वास-प्रस्तुतिः - 222

नवत्या सप्ताधिकया तद्भवेदुत्तमाधमम्।
त्रिपञ्चधा कृते क्षेत्रे भागानां तु भवन्ति हि ॥ 222 ॥

मूलम् - 222

नवत्या सप्ताधिकया तद्भवेदुत्तमाधमम्।
त्रिपञ्चधा कृते क्षेत्रे भागानां तु भवन्ति हि ॥ 222 ॥

विश्वास-प्रस्तुतिः - 223

शतद्वयं तथा पञ्चविंशतिर्मुनिपुङ्गव!।
पङ्‌क्तीनां पञ्चकं मध्ये तद्बहिर्विमृजेद्‌द्वयम् ॥ 223 ॥

मूलम् - 223

शतद्वयं तथा पञ्चविंशतिर्मुनिपुङ्गव!।
पङ्‌क्तीनां पञ्चकं मध्ये तद्बहिर्विमृजेद्‌द्वयम् ॥ 223 ॥

विश्वास-प्रस्तुतिः - 224

वीथ्यर्थं तद्बहिर्भूयः स्थापयेत् त्रितयं द्विज!।
तन्मध्ये रत्नकलशं दिक्‌स्थिते तु चतुष्टये ॥ 224 ॥

मूलम् - 224

वीथ्यर्थं तद्बहिर्भूयः स्थापयेत् त्रितयं द्विज!।
तन्मध्ये रत्नकलशं दिक्‌स्थिते तु चतुष्टये ॥ 224 ॥

विश्वास-प्रस्तुतिः - 225

रत्नाष्टकं मौक्तिकादि द्वन्द्वशः पूर्वदिक्क्रमात्।
प्रागादीशानपर्यन्तं तद्बहिः कलशाष्टके ॥ 225 ॥

मूलम् - 225

रत्नाष्टकं मौक्तिकादि द्वन्द्वशः पूर्वदिक्क्रमात्।
प्रागादीशानपर्यन्तं तद्बहिः कलशाष्टके ॥ 225 ॥

विश्वास-प्रस्तुतिः - 226

घृतपूर्वकषायान्तद्रव्याणामष्टकं द्विज!।
ऐन्द्रादिनवकानां तु ह्यष्टानां द्विज! मध्यमे ॥ 226 ॥

मूलम् - 226

घृतपूर्वकषायान्तद्रव्याणामष्टकं द्विज!।
ऐन्द्रादिनवकानां तु ह्यष्टानां द्विज! मध्यमे ॥ 226 ॥

विश्वास-प्रस्तुतिः - 227

अर्घ्याद्यक्षतपर्यन्तं क्रमादीशानपश्चिमम्।
शेषाः कुम्भास्चतुष्षष्टिर्गन्धोदकसमन्विताः ॥ 227 ॥

मूलम् - 227

अर्घ्याद्यक्षतपर्यन्तं क्रमादीशानपश्चिमम्।
शेषाः कुम्भास्चतुष्षष्टिर्गन्धोदकसमन्विताः ॥ 227 ॥

विश्वास-प्रस्तुतिः - 228

पञ्चाशीतिघटोपेतमेतत् स्यान्मध्यमोत्तमम्।
मध्यमे रत्नतोयं तु तद्बहिः कलशाष्टकम् ॥ 228 ॥

मूलम् - 228

पञ्चाशीतिघटोपेतमेतत् स्यान्मध्यमोत्तमम्।
मध्यमे रत्नतोयं तु तद्बहिः कलशाष्टकम् ॥ 228 ॥

विश्वास-प्रस्तुतिः - 229

मुक्तादिद्रुव्यसंयुक्तं पूर्ववन्नवकाद्बहिः।
इत्येकाशीतिकलशैर्भवेन्मध्यममध्यमम् ॥ 229 ॥

मूलम् - 229

मुक्तादिद्रुव्यसंयुक्तं पूर्ववन्नवकाद्बहिः।
इत्येकाशीतिकलशैर्भवेन्मध्यममध्यमम् ॥ 229 ॥

विश्वास-प्रस्तुतिः - 230

सप्तधा भाजिते क्षेत्रे चत्वारिंशन्नवोत्तरम्।
कोष्ठकानि भवन्त्यत्र कलशान् विन्यसेत्ततः ॥ 230 ॥

मूलम् - 230

सप्तधा भाजिते क्षेत्रे चत्वारिंशन्नवोत्तरम्।
कोष्ठकानि भवन्त्यत्र कलशान् विन्यसेत्ततः ॥ 230 ॥

विश्वास-प्रस्तुतिः - 231

पूर्ववद्‌द्रव्यसंयुक्ताः कलशाः पञ्चविंशतिः।
चपुर्विंशतिशेषास्तु शुद्धोदकसमन्विताः ॥ 231 ॥

मूलम् - 231

पूर्ववद्‌द्रव्यसंयुक्ताः कलशाः पञ्चविंशतिः।
चपुर्विंशतिशेषास्तु शुद्धोदकसमन्विताः ॥ 231 ॥

विश्वास-प्रस्तुतिः - 232

एवमेकोनपञ्चाशत्कलशैर्मध्यमाधमम्।
रत्नादिककषायान्ता युक्ताः सप्तोत्तरा दश ॥ 232 ॥

मूलम् - 232

एवमेकोनपञ्चाशत्कलशैर्मध्यमाधमम्।
रत्नादिककषायान्ता युक्ताः सप्तोत्तरा दश ॥ 232 ॥

विश्वास-प्रस्तुतिः - 233

अष्टौ गन्धोदसंयुक्ता एतत् स्यादधमोत्तमम्।
शुद्धोदाष्टकहीनं तद्भवेदधममध्यमम् ॥ 233 ॥

मूलम् - 233

अष्टौ गन्धोदसंयुक्ता एतत् स्यादधमोत्तमम्।
शुद्धोदाष्टकहीनं तद्भवेदधममध्यमम् ॥ 233 ॥

विश्वास-प्रस्तुतिः - 234

रत्नादिविद्रमान्तेन द्रव्यसङ्‌घेन संयुतम्।
नवकं कलशानां यत् तद्भवेदधमाधमम् ॥ 234 ॥

मूलम् - 234

रत्नादिविद्रमान्तेन द्रव्यसङ्‌घेन संयुतम्।
नवकं कलशानां यत् तद्भवेदधमाधमम् ॥ 234 ॥

विश्वास-प्रस्तुतिः - 235

एवं द्वितीयभेदास्तु कीर्तिताः ; तृतीयं श्रृणु।
क्षेत्रं तु सप्तधा कृत्वा प्राग्वदापाद्य संस्थितम् ॥ 235 ॥

मूलम् - 235

एवं द्वितीयभेदास्तु कीर्तिताः ; तृतीयं श्रृणु।
क्षेत्रं तु सप्तधा कृत्वा प्राग्वदापाद्य संस्थितम् ॥ 235 ॥

विश्वास-प्रस्तुतिः - 236

उदङ्‌मुखस्थितो बूत्वा प्रणवं बन्धयेत्ततः।
तन्मुद्रां विन्यसेत् कुम्भे जितन्ताख्येन मध्यतः ॥ 236 ॥

मूलम् - 236

उदङ्‌मुखस्थितो बूत्वा प्रणवं बन्धयेत्ततः।
तन्मुद्रां विन्यसेत् कुम्भे जितन्ताख्येन मध्यतः ॥ 236 ॥

विश्वास-प्रस्तुतिः - 237

दैविकेऽष्टाक्षरैः कुम्भान् प्राङ्‌मुखःप्राग्दिगादितः।
मानुषांस्तु द्विषट्‌केन षोडशप्रागुदड्‌मुखः ॥ 237 ॥

मूलम् - 237

दैविकेऽष्टाक्षरैः कुम्भान् प्राङ्‌मुखःप्राग्दिगादितः।
मानुषांस्तु द्विषट्‌केन षोडशप्रागुदड्‌मुखः ॥ 237 ॥

विश्वास-प्रस्तुतिः - 238

फट्‌कारैः पैतृकान् विप्र! न्यसेत् प्रत्यगुदङ्‌मुखः।
तन्मुद्रां बन्धयित्वा तु मध्यादुत्तरपश्चिमम् ॥ 238 ॥

मूलम् - 238

फट्‌कारैः पैतृकान् विप्र! न्यसेत् प्रत्यगुदङ्‌मुखः।
तन्मुद्रां बन्धयित्वा तु मध्यादुत्तरपश्चिमम् ॥ 238 ॥

विश्वास-प्रस्तुतिः - 239

कुम्भानां पञ्चके विप्र! पाद्यार्घ्याचमनान्यपि।
पञ्चगव्यं घृतं चापि पञ्चोपनिषदैः क्रमात् ॥ 239 ॥

मूलम् - 239

कुम्भानां पञ्चके विप्र! पाद्यार्घ्याचमनान्यपि।
पञ्चगव्यं घृतं चापि पञ्चोपनिषदैः क्रमात् ॥ 239 ॥

विश्वास-प्रस्तुतिः - 240

विदिक्कुम्भचतुष्के तु वह्न्यादीशानपश्चिमम्।
दधि क्षीरं मधु तथा ह्युष्णाम्भोमूर्तिवाचकैः ॥ 240 ॥

मूलम् - 240

विदिक्कुम्भचतुष्के तु वह्न्यादीशानपश्चिमम्।
दधि क्षीरं मधु तथा ह्युष्णाम्भोमूर्तिवाचकैः ॥ 240 ॥

विश्वास-प्रस्तुतिः - 241

चतुर्भिः कलशैर्विप्र! तद्वहिर्दिक्‌चतुष्टये।
कषायं मार्जनाम्भश्च फलाम्भः परिमार्जनम् ॥ 241 ॥

मूलम् - 241

चतुर्भिः कलशैर्विप्र! तद्वहिर्दिक्‌चतुष्टये।
कषायं मार्जनाम्भश्च फलाम्भः परिमार्जनम् ॥ 241 ॥

विश्वास-प्रस्तुतिः - 242

आग्नेयादीशपर्यन्तं कलशानां चतुष्टये।
रत्नोदं सर्वलोहाम्भः कुशाम्भः सक्तुवारि च ॥ 242 ॥

मूलम् - 242

आग्नेयादीशपर्यन्तं कलशानां चतुष्टये।
रत्नोदं सर्वलोहाम्भः कुशाम्भः सक्तुवारि च ॥ 242 ॥

विश्वास-प्रस्तुतिः - 243

क्षिपेत् क्रमेण विप्रेन्द्र! वर्णैरष्टाक्षरोदितैः।
शुद्धाम्भसान्तरालस्थं पूरितं कलशाष्टकम् ॥ 243 ॥

मूलम् - 243

क्षिपेत् क्रमेण विप्रेन्द्र! वर्णैरष्टाक्षरोदितैः।
शुद्धाम्भसान्तरालस्थं पूरितं कलशाष्टकम् ॥ 243 ॥

विश्वास-प्रस्तुतिः - 244

प्रागग्निमध्यादारभ्य ईशप्राङ्भध्यपश्चिमम्।
प्रणवाख्येन मन्त्रेण केवलेन ततो वहिः ॥ 244 ॥

मूलम् - 244

प्रागग्निमध्यादारभ्य ईशप्राङ्भध्यपश्चिमम्।
प्रणवाख्येन मन्त्रेण केवलेन ततो वहिः ॥ 244 ॥

विश्वास-प्रस्तुतिः - 245

दिक्कुम्भानां चतुष्के तु गन्धाम्भः पुष्पवारि च।
औपमानिकसंज्ञं च तथाचामलकोदकम् ॥ 245 ॥

मूलम् - 245

दिक्कुम्भानां चतुष्के तु गन्धाम्भः पुष्पवारि च।
औपमानिकसंज्ञं च तथाचामलकोदकम् ॥ 245 ॥

विश्वास-प्रस्तुतिः - 246

आग्नेयादिक्रमेणैव कलशानां चतुष्टये।
अक्षताम्भस्तिलाम्भश्च यवाम्भस्तण्डुलोदकम् ॥ 246 ॥

मूलम् - 246

आग्नेयादिक्रमेणैव कलशानां चतुष्टये।
अक्षताम्भस्तिलाम्भश्च यवाम्भस्तण्डुलोदकम् ॥ 246 ॥

विश्वास-प्रस्तुतिः - 247

द्विषट्‌कमन्त्रेण ततो विष्णुगायत्रिया द्विज!।
शेषाः षोडश शुद्धाम्भः परिपूर्णाः क्रभेण तु ॥ 247 ॥

मूलम् - 247

द्विषट्‌कमन्त्रेण ततो विष्णुगायत्रिया द्विज!।
शेषाः षोडश शुद्धाम्भः परिपूर्णाः क्रभेण तु ॥ 247 ॥

विश्वास-प्रस्तुतिः - 248

एवं संपूरयित्वा तु प्रणम्याञ्जलिमुद्रया।
वासुदेवादियागाद्यं सर्वं कृत्वा तु पूर्ववत् ॥ 248 ॥

मूलम् - 248

एवं संपूरयित्वा तु प्रणम्याञ्जलिमुद्रया।
वासुदेवादियागाद्यं सर्वं कृत्वा तु पूर्ववत् ॥ 248 ॥

विश्वास-प्रस्तुतिः - 249

द्रव्यन्यासक्रमेणैव समुद्धारः प्रकीर्तितः।
मूलमन्त्रेण वै दद्यात् सर्वं यद्वा द्विजोत्तम! ॥ 249 ॥

मूलम् - 249

द्रव्यन्यासक्रमेणैव समुद्धारः प्रकीर्तितः।
मूलमन्त्रेण वै दद्यात् सर्वं यद्वा द्विजोत्तम! ॥ 249 ॥

विश्वास-प्रस्तुतिः - 250

इदं विष्ण्वाख्यतः पाद्यमर्घ्यमापो वहन्त्विति।
आपः पुनन्त्वित्याचामं गायत्र्या पञ्चगव्यकम् ॥ 250 ॥

मूलम् - 250

इदं विष्ण्वाख्यतः पाद्यमर्घ्यमापो वहन्त्विति।
आपः पुनन्त्वित्याचामं गायत्र्या पञ्चगव्यकम् ॥ 250 ॥

विश्वास-प्रस्तुतिः - 251

धृतं दद्यात्ततो विप्र! घृतं शुक्रमसीति च।
दधिक्रा इति मन्त्रेण दधि दद्यात्ततः परम् ॥ 251 ॥

मूलम् - 251

धृतं दद्यात्ततो विप्र! घृतं शुक्रमसीति च।
दधिक्रा इति मन्त्रेण दधि दद्यात्ततः परम् ॥ 251 ॥

विश्वास-प्रस्तुतिः - 252

क्षीरमाप्याययस्वेति पधुवातेति वै मधु।
आदित्यः शुक्रमित्येवमुष्णाम्भो मुनिपुङ्गव! ॥ 252 ॥

मूलम् - 252

क्षीरमाप्याययस्वेति पधुवातेति वै मधु।
आदित्यः शुक्रमित्येवमुष्णाम्भो मुनिपुङ्गव! ॥ 252 ॥

विश्वास-प्रस्तुतिः - 253

ततः कषायतोयं तु शदसस्पतिमित्यृचा।
शन्नोदेवीरित्यनेन दद्याद्वै मार्जनं ततः ॥ 253 ॥

मूलम् - 253

ततः कषायतोयं तु शदसस्पतिमित्यृचा।
शन्नोदेवीरित्यनेन दद्याद्वै मार्जनं ततः ॥ 253 ॥

विश्वास-प्रस्तुतिः - 254

गणानामिति मन्त्रेण दद्याच्चैव फलोदकम्।
त्वं विष्णुरिति मन्त्रेण दद्यात्तु परिमार्जनम् ॥ 254 ॥

मूलम् - 254

गणानामिति मन्त्रेण दद्याच्चैव फलोदकम्।
त्वं विष्णुरिति मन्त्रेण दद्यात्तु परिमार्जनम् ॥ 254 ॥

विश्वास-प्रस्तुतिः - 255

अग्न आयाहिवीतये इति रत्नोदकं ततः।
इषेत्वेति च लोहाम्भस्त्वग्निमीके कुशोदकम् ॥ 255 ॥

मूलम् - 255

अग्न आयाहिवीतये इति रत्नोदकं ततः।
इषेत्वेति च लोहाम्भस्त्वग्निमीके कुशोदकम् ॥ 255 ॥

विश्वास-प्रस्तुतिः - 256

किमित्त इति मन्त्रेण दद्यात् सक्तूदकं ततः।
दद्याच्छुद्धोदकान्यष्टावापो अस्मानिति क्रमात् ॥ 256 ॥

मूलम् - 256

किमित्त इति मन्त्रेण दद्यात् सक्तूदकं ततः।
दद्याच्छुद्धोदकान्यष्टावापो अस्मानिति क्रमात् ॥ 256 ॥

विश्वास-प्रस्तुतिः - 257

अष्टौ गन्धोदकादीनि मानस्तोक्या निवेदयेत्।
शेषान् पुरुषसूक्तेन षोडश प्रत्यृचं क्रमात् ॥ 257 ॥

मूलम् - 257

अष्टौ गन्धोदकादीनि मानस्तोक्या निवेदयेत्।
शेषान् पुरुषसूक्तेन षोडश प्रत्यृचं क्रमात् ॥ 257 ॥

विश्वास-प्रस्तुतिः - 258

एवमेकोनपञ्चाशत्कलशैरुत्तमोत्तमम्।
बहिःषोडश शुद्धोदैर्हीनमुत्तममध्यमम् ॥ 258 ॥

मूलम् - 258

एवमेकोनपञ्चाशत्कलशैरुत्तमोत्तमम्।
बहिःषोडश शुद्धोदैर्हीनमुत्तममध्यमम् ॥ 258 ॥

विश्वास-प्रस्तुतिः - 259

तत्रस्थेः कोणकलशैर्हीनं स्यादुत्तमाधमम्।
अन्तः शुद्धोदकस्थाने स्थितं गन्धोदकाष्टकम् ॥ 259 ॥

मूलम् - 259

तत्रस्थेः कोणकलशैर्हीनं स्यादुत्तमाधमम्।
अन्तः शुद्धोदकस्थाने स्थितं गन्धोदकाष्टकम् ॥ 259 ॥

विश्वास-प्रस्तुतिः - 260

विहीनं सर्वकलशैर्बहिरावरणस्थितैः।
तदन्तः पञ्चविंशद्भिरन्वितं मध्यमोत्तमम् ॥ 260 ॥

मूलम् - 260

विहीनं सर्वकलशैर्बहिरावरणस्थितैः।
तदन्तः पञ्चविंशद्भिरन्वितं मध्यमोत्तमम् ॥ 260 ॥

विश्वास-प्रस्तुतिः - 261

मानुषे दिक्‌चतुष्केन हीनं मध्यममध्यमम्।
तत्रस्थैः सर्वकलशैर्हीनं स्यान्मध्यमाधमम् ॥ 261 ॥

मूलम् - 261

मानुषे दिक्‌चतुष्केन हीनं मध्यममध्यमम्।
तत्रस्थैः सर्वकलशैर्हीनं स्यान्मध्यमाधमम् ॥ 261 ॥

विश्वास-प्रस्तुतिः - 262

नवकं कलशानां यत्तद्भवेदधमोत्तमम्।
तृतीयमेवं कथितं चतुर्थं श्रृणु सत्तम! ॥ 262 ॥

मूलम् - 262

नवकं कलशानां यत्तद्भवेदधमोत्तमम्।
तृतीयमेवं कथितं चतुर्थं श्रृणु सत्तम! ॥ 262 ॥

विश्वास-प्रस्तुतिः - 263

मध्यस्थितैककुम्भेन तद्भवेदधमाधमम्।
तृतीयमेवं कथितं चतुर्थं श्रृणु सत्तम! ॥ 263 ॥

मूलम् - 263

मध्यस्थितैककुम्भेन तद्भवेदधमाधमम्।
तृतीयमेवं कथितं चतुर्थं श्रृणु सत्तम! ॥ 263 ॥

विश्वास-प्रस्तुतिः - 264

सप्तभक्ते स्थिता भागाश्चत्वारिंशन्नवोत्तरम्।
घृतमुष्णोदकं चैव रत्नवारि फलोदकम् ॥ 264 ॥

मूलम् - 264

सप्तभक्ते स्थिता भागाश्चत्वारिंशन्नवोत्तरम्।
घृतमुष्णोदकं चैव रत्नवारि फलोदकम् ॥ 264 ॥

विश्वास-प्रस्तुतिः - 265

लोहाम्भो मार्जनाम्भश्च गन्धाम्भोऽक्षतवारि च।
यवोदकमथेशान्तं मध्यादारब्य मध्यमे ॥ 265 ॥

मूलम् - 265

लोहाम्भो मार्जनाम्भश्च गन्धाम्भोऽक्षतवारि च।
यवोदकमथेशान्तं मध्यादारब्य मध्यमे ॥ 265 ॥

विश्वास-प्रस्तुतिः - 266

पाद्यमर्घ्यं तथाऽऽचामं पञ्चगव्यं तथा दधि।
पयो मधु कषायं च दिग्विदिक्षु च तद्बहिः ॥ 266 ॥

मूलम् - 266

पाद्यमर्घ्यं तथाऽऽचामं पञ्चगव्यं तथा दधि।
पयो मधु कषायं च दिग्विदिक्षु च तद्बहिः ॥ 266 ॥

विश्वास-प्रस्तुतिः - 267

गुलोदकं चेक्षुरसं नालिकेररसं तथा।
शान्तिवारि चतुर्दिक्षु पूर्वादिक्रमयोगतः ॥ 267 ॥

मूलम् - 267

गुलोदकं चेक्षुरसं नालिकेररसं तथा।
शान्तिवारि चतुर्दिक्षु पूर्वादिक्रमयोगतः ॥ 267 ॥

विश्वास-प्रस्तुतिः - 268

विदिक्कुम्भचतुष्केषु विन्यसेन्मङ्गलोदकम्।
शेषा भागाश्चतुर्विशच्छून्याः स्युर्द्विजसत्तम! ॥ 268 ॥

मूलम् - 268

विदिक्कुम्भचतुष्केषु विन्यसेन्मङ्गलोदकम्।
शेषा भागाश्चतुर्विशच्छून्याः स्युर्द्विजसत्तम! ॥ 268 ॥

विश्वास-प्रस्तुतिः - 269

मन्त्रार्चनं तथोद्धारो यथा चाद्योत्तमोत्तमे।
उत्तमोत्तममेतद्धि स्नपनं परिकीर्तितम् ॥ 269 ॥

मूलम् - 269

मन्त्रार्चनं तथोद्धारो यथा चाद्योत्तमोत्तमे।
उत्तमोत्तममेतद्धि स्नपनं परिकीर्तितम् ॥ 269 ॥

विश्वास-प्रस्तुतिः - 270

पञ्चभागीकृते स्थाने कलशाः पञ्चविंशतिः।
मूलमन्त्रेण कलशान् विन्यस्य प्रोक्षयेत्ततः ॥ 270 ॥

मूलम् - 270

पञ्चभागीकृते स्थाने कलशाः पञ्चविंशतिः।
मूलमन्त्रेण कलशान् विन्यस्य प्रोक्षयेत्ततः ॥ 270 ॥

विश्वास-प्रस्तुतिः - 271

द्रव्याणि निक्षिपेत्तेन प्राङ्‌मुखः प्रयतो वशी।
ब्राह्नं तु मध्यमं कुम्भं स्नानतोयेन पूरयेत् ॥ 271 ॥

मूलम् - 271

द्रव्याणि निक्षिपेत्तेन प्राङ्‌मुखः प्रयतो वशी।
ब्राह्नं तु मध्यमं कुम्भं स्नानतोयेन पूरयेत् ॥ 271 ॥

विश्वास-प्रस्तुतिः - 272

ततस्तु मानुषे भागे प्रागाद्ये दिक्‌चतुष्टये।
पाद्यमर्घ्यं तथाऽऽचामं पञ्चगव्यं तथैव च ॥ 272 ॥

मूलम् - 272

ततस्तु मानुषे भागे प्रागाद्ये दिक्‌चतुष्टये।
पाद्यमर्घ्यं तथाऽऽचामं पञ्चगव्यं तथैव च ॥ 272 ॥

विश्वास-प्रस्तुतिः - 273

घृतं दधि तथा क्षीरं मधु चाग्नेयपूर्वकम्।
इन्द्राग्निमध्यादारब्य तदीशान्तरपश्चिमम् ॥ 273 ॥

मूलम् - 273

घृतं दधि तथा क्षीरं मधु चाग्नेयपूर्वकम्।
इन्द्राग्निमध्यादारब्य तदीशान्तरपश्चिमम् ॥ 273 ॥

विश्वास-प्रस्तुतिः - 274

उष्णोदकं कषायं च मार्जनं च फलोदकम्।
तिलाम्बु रत्नतोयं च लोहतोयं कुशोदकम् ॥ 274 ॥

मूलम् - 274

उष्णोदकं कषायं च मार्जनं च फलोदकम्।
तिलाम्बु रत्नतोयं च लोहतोयं कुशोदकम् ॥ 274 ॥

विश्वास-प्रस्तुतिः - 275

ततस्तु दैविके भागे पूर्ववद्दिक्चतुष्टये।
गन्धोदकं च पुष्पाम्भ औपमान्यामलोदके ॥ 275 ॥

मूलम् - 275

ततस्तु दैविके भागे पूर्ववद्दिक्चतुष्टये।
गन्धोदकं च पुष्पाम्भ औपमान्यामलोदके ॥ 275 ॥

विश्वास-प्रस्तुतिः - 276

आग्नेयादीशपर्यन्तमक्षताम्भस्तथैव च।
नालिकेररसं चेक्षुरसं वै तण्डुलोदकम् ॥ 276 ॥

मूलम् - 276

आग्नेयादीशपर्यन्तमक्षताम्भस्तथैव च।
नालिकेररसं चेक्षुरसं वै तण्डुलोदकम् ॥ 276 ॥

विश्वास-प्रस्तुतिः - 277

एवं च पञ्चविंशद्भिः कुम्भैरुत्तममध्यमम्।
पाद्यं च मध्यमे भागे प्रागादीशानपश्चिमम् ॥ 277 ॥

मूलम् - 277

एवं च पञ्चविंशद्भिः कुम्भैरुत्तममध्यमम्।
पाद्यं च मध्यमे भागे प्रागादीशानपश्चिमम् ॥ 277 ॥

विश्वास-प्रस्तुतिः - 278

अर्घ्यमाचमनं चापि पञ्चगव्यं घृत दधि।
क्षीरं मधूष्णतोयं च अन्तरालेषु वै क्रमात् ॥ 278 ॥

मूलम् - 278

अर्घ्यमाचमनं चापि पञ्चगव्यं घृत दधि।
क्षीरं मधूष्णतोयं च अन्तरालेषु वै क्रमात् ॥ 278 ॥

विश्वास-प्रस्तुतिः - 279

कषायं मार्जनाम्भश्च फलाम्भः परिमार्जनम्।
रत्नाम्भो लोहतोयं च कुशाम्भश्चोष्णतोयकम् ॥ 279 ॥

मूलम् - 279

कषायं मार्जनाम्भश्च फलाम्भः परिमार्जनम्।
रत्नाम्भो लोहतोयं च कुशाम्भश्चोष्णतोयकम् ॥ 279 ॥

विश्वास-प्रस्तुतिः - 280

ततस्तु दैविके भागे प्रागादीशानपश्चिमम्।
गन्धाम्भः पुष्वतोयं च औपमान्यामलाम्बुनी ॥ 280 ॥

मूलम् - 280

ततस्तु दैविके भागे प्रागादीशानपश्चिमम्।
गन्धाम्भः पुष्वतोयं च औपमान्यामलाम्बुनी ॥ 280 ॥

विश्वास-प्रस्तुतिः - 281

अक्षताम्भस्तिलोदं च यवोदं तण्डुलोदकम्।
विहितश्च समुद्धारः पाद्यात्तण्डुलपश्चिमाः ॥ 281॥

मूलम् - 281

अक्षताम्भस्तिलोदं च यवोदं तण्डुलोदकम्।
विहितश्च समुद्धारः पाद्यात्तण्डुलपश्चिमाः ॥ 281॥

विश्वास-प्रस्तुतिः - 282

एवं तु पञ्चविंशद्भिः स्नपनं चोत्तमाधमम्।
सप्तभक्ते स्थले प्राग्वद्धृताच्छान्त्यम्बु पश्चिमम् ॥ 282 ॥

मूलम् - 282

एवं तु पञ्चविंशद्भिः स्नपनं चोत्तमाधमम्।
सप्तभक्ते स्थले प्राग्वद्धृताच्छान्त्यम्बु पश्चिमम् ॥ 282 ॥

विश्वास-प्रस्तुतिः - 283

कलशैरेकविंशद्भिः स्नपनं मध्यमोत्तमम्।
त्रिधा विभक्ते कोष्ठानां नवकं तत्र सत्तम! ॥ 283 ॥

मूलम् - 283

कलशैरेकविंशद्भिः स्नपनं मध्यमोत्तमम्।
त्रिधा विभक्ते कोष्ठानां नवकं तत्र सत्तम! ॥ 283 ॥

विश्वास-प्रस्तुतिः - 284

मध्यादीशानपर्यन्तं धृतं दधि पयो मधु।
तथोद्वर्तनचूर्णं च ततः कोणचतुष्टये ॥ 284 ॥

मूलम् - 284

मध्यादीशानपर्यन्तं धृतं दधि पयो मधु।
तथोद्वर्तनचूर्णं च ततः कोणचतुष्टये ॥ 284 ॥

विश्वास-प्रस्तुतिः - 285

उष्णोदकं च गन्धाम्भः पुष्पाम्भो मङ्गलोदकम्।
द्रव्यन्यासक्रमेणैव समुद्धारः प्रकीर्तितः ॥ 285 ॥

मूलम् - 285

उष्णोदकं च गन्धाम्भः पुष्पाम्भो मङ्गलोदकम्।
द्रव्यन्यासक्रमेणैव समुद्धारः प्रकीर्तितः ॥ 285 ॥

विश्वास-प्रस्तुतिः - 286

एवं तु नवभिः कुम्भैर्भवेन्मध्यममध्यमम्।
घृतं पयो दधि मधु गन्धहेमाम्बुनी तथा ॥ 286 ॥

मूलम् - 286

एवं तु नवभिः कुम्भैर्भवेन्मध्यममध्यमम्।
घृतं पयो दधि मधु गन्धहेमाम्बुनी तथा ॥ 286 ॥

विश्वास-प्रस्तुतिः - 287

रत्नाम्भश्चोषधीवारि शालिचूर्णानि च क्रमात्।
मध्यमादीशदिङ्‌निष्ठमेतत् स्यान्मध्यमाधमम्॥ 287 ॥

मूलम् - 287

रत्नाम्भश्चोषधीवारि शालिचूर्णानि च क्रमात्।
मध्यमादीशदिङ्‌निष्ठमेतत् स्यान्मध्यमाधमम्॥ 287 ॥

विश्वास-प्रस्तुतिः - 288

मध्यमे दिक्‌चतुष्के तु पञ्चगन्यैस्तु पञ्चकम्।
आग्नेयादीशपर्यन्तं कलशानां चतुष्टयम् ॥ 288 ॥

मूलम् - 288

मध्यमे दिक्‌चतुष्के तु पञ्चगन्यैस्तु पञ्चकम्।
आग्नेयादीशपर्यन्तं कलशानां चतुष्टयम् ॥ 288 ॥

विश्वास-प्रस्तुतिः - 289

शुद्धाम्भसा तु संपूर्णमेतत् स्यादधमोत्तमम्।
मध्ये रत्नजलं दिक्षु कुम्भानां तु चतुष्टयम् ॥ 289 ॥

मूलम् - 289

शुद्धाम्भसा तु संपूर्णमेतत् स्यादधमोत्तमम्।
मध्ये रत्नजलं दिक्षु कुम्भानां तु चतुष्टयम् ॥ 289 ॥

विश्वास-प्रस्तुतिः - 290

मुक्तादिरत्नसंयुक्तं द्वन्द्वयोगेन सत्तम!।
एवं तु पञ्चभिः कुम्भैर्भवेदधममध्यम् ॥ 290 ॥

मूलम् - 290

मुक्तादिरत्नसंयुक्तं द्वन्द्वयोगेन सत्तम!।
एवं तु पञ्चभिः कुम्भैर्भवेदधममध्यम् ॥ 290 ॥

विश्वास-प्रस्तुतिः - 291

सर्वरत्रजलं मध्ये दिग्द्वये पूर्वपश्चिमे।
द्वौ कुम्भौ तत्र पूर्वस्मिन् मौक्तिकादिचतुष्टयम् ॥ 291 ॥

मूलम् - 291

सर्वरत्रजलं मध्ये दिग्द्वये पूर्वपश्चिमे।
द्वौ कुम्भौ तत्र पूर्वस्मिन् मौक्तिकादिचतुष्टयम् ॥ 291 ॥

विश्वास-प्रस्तुतिः - 292

चतुष्कं पुष्परागादि ह्यन्यस्मिन् द्विजसत्तम!।
एवं कुम्भत्रयेणैव स्नपनं त्वधमाधमम् ॥ 292 ॥

मूलम् - 292

चतुष्कं पुष्परागादि ह्यन्यस्मिन् द्विजसत्तम!।
एवं कुम्भत्रयेणैव स्नपनं त्वधमाधमम् ॥ 292 ॥

विश्वास-प्रस्तुतिः - 293

एवं ह्यपरभेदास्तु षट्‌त्रिंशत् संप्रकाशिताः।
कुम्भाधिवासपूर्वं तु सर्वं पूर्ववदाचरेत् ॥ 293 ॥

मूलम् - 293

एवं ह्यपरभेदास्तु षट्‌त्रिंशत् संप्रकाशिताः।
कुम्भाधिवासपूर्वं तु सर्वं पूर्ववदाचरेत् ॥ 293 ॥

विश्वास-प्रस्तुतिः - 294

आज्यस्य दैवतं देवो वासुदेवः परः स्मृतः।
उष्णाम्भसः सङ्कर्षणः प्रद्युम्नो रत्नबारिणः ॥ 294 ॥

मूलम् - 294

आज्यस्य दैवतं देवो वासुदेवः परः स्मृतः।
उष्णाम्भसः सङ्कर्षणः प्रद्युम्नो रत्नबारिणः ॥ 294 ॥

विश्वास-प्रस्तुतिः - 295

फलाम्भसोऽनिरुद्धस्तु भगवान् दैवतं द्विज!।
नारायणस्तु मन्त्रात्मा लोहतोयस्य दैवतम् ॥ 295 ॥

मूलम् - 295

फलाम्भसोऽनिरुद्धस्तु भगवान् दैवतं द्विज!।
नारायणस्तु मन्त्रात्मा लोहतोयस्य दैवतम् ॥ 295 ॥

विश्वास-प्रस्तुतिः - 296

मार्जनस्य हयग्रीवो विष्णुः स्याद्गन्धवारिणः।
नृसिंहोऽक्षततोयस्य वराहो यववारिणः ॥ 296 ॥

मूलम् - 296

मार्जनस्य हयग्रीवो विष्णुः स्याद्गन्धवारिणः।
नृसिंहोऽक्षततोयस्य वराहो यववारिणः ॥ 296 ॥

विश्वास-प्रस्तुतिः - 297

पाद्यस्य केशवो देवोऽर्घ्यस्य नारायणः स्मृतः।
देव आचमनीयस्य माधवस्त्वधिदेवता ॥ 297 ॥

मूलम् - 297

पाद्यस्य केशवो देवोऽर्घ्यस्य नारायणः स्मृतः।
देव आचमनीयस्य माधवस्त्वधिदेवता ॥ 297 ॥

विश्वास-प्रस्तुतिः - 298

गोविन्दः पञ्चगव्यस्य विष्णुस्तु दधिदैवतम्।
मधुसूदनसंज्ञस्तु पयसो देवता स्मृता ॥ 298 ॥

मूलम् - 298

गोविन्दः पञ्चगव्यस्य विष्णुस्तु दधिदैवतम्।
मधुसूदनसंज्ञस्तु पयसो देवता स्मृता ॥ 298 ॥

विश्वास-प्रस्तुतिः - 299

त्रिविक्रमाख्यो मधुनः कषायस्य च वामनः।
भगवान् श्रीधराख्यस्तु गुलतोयस्य देवता ॥ 299 ॥

मूलम् - 299

त्रिविक्रमाख्यो मधुनः कषायस्य च वामनः।
भगवान् श्रीधराख्यस्तु गुलतोयस्य देवता ॥ 299 ॥

विश्वास-प्रस्तुतिः - 300

देवदेवो हृषीकेश इक्षुसारस्य दैवतम्।
दामोदरोऽधिदैवं तु नालिकेराम्भसो द्विज! ॥ 300 ॥

मूलम् - 300

देवदेवो हृषीकेश इक्षुसारस्य दैवतम्।
दामोदरोऽधिदैवं तु नालिकेराम्भसो द्विज! ॥ 300 ॥

विश्वास-प्रस्तुतिः - 301

पझनाभस्तु भगवान् शान्तितोयस्य देवता।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥ 301 ॥

मूलम् - 301

पझनाभस्तु भगवान् शान्तितोयस्य देवता।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥ 301 ॥

विश्वास-प्रस्तुतिः - 302

आग्नेयादीशपर्यन्तं देवता मङ्गलाम्भसः।
परिमार्जनसंज्ञे तु शङ्खः स्यादधितैवतम् ॥ 302 ॥

मूलम् - 302

आग्नेयादीशपर्यन्तं देवता मङ्गलाम्भसः।
परिमार्जनसंज्ञे तु शङ्खः स्यादधितैवतम् ॥ 302 ॥

विश्वास-प्रस्तुतिः - 303

कुशोदकस्य पझं स्याद्गदा स्यात् सक्तुनो द्विज!।
वनमाला पुष्पतोये चक्रं स्यादौपमानिके ॥ 303 ॥

मूलम् - 303

कुशोदकस्य पझं स्याद्गदा स्यात् सक्तुनो द्विज!।
वनमाला पुष्पतोये चक्रं स्यादौपमानिके ॥ 303 ॥

विश्वास-प्रस्तुतिः - 304

किरीटमधिदैवं तु भवेदामलकाम्भसः।
कौस्तुभस्तिलतोयस्य श्रीवत्सस्तण्डुलाम्भसः । 304 ॥

मूलम् - 304

किरीटमधिदैवं तु भवेदामलकाम्भसः।
कौस्तुभस्तिलतोयस्य श्रीवत्सस्तण्डुलाम्भसः । 304 ॥

विश्वास-प्रस्तुतिः - 305

एकाशीतिस्थितानां तु शुद्धोदानां तु देवता।
कान्त्याद्युन्नतिपर्यन्तमष्टकं प्रतिदिक्‌क्रमात् ॥ 305 ॥

मूलम् - 305

एकाशीतिस्थितानां तु शुद्धोदानां तु देवता।
कान्त्याद्युन्नतिपर्यन्तमष्टकं प्रतिदिक्‌क्रमात् ॥ 305 ॥

विश्वास-प्रस्तुतिः - 306

बहिरेकोनपञ्चाशच्छुद्धतोयेषु च क्रमात्।
स्वधादिगायत्र्यन्तास्तु शक्तयो ह्यधिदेवताः ॥ 306 ॥

मूलम् - 306

बहिरेकोनपञ्चाशच्छुद्धतोयेषु च क्रमात्।
स्वधादिगायत्र्यन्तास्तु शक्तयो ह्यधिदेवताः ॥ 306 ॥

विश्वास-प्रस्तुतिः - 307

अष्टावष्टौ तु पूर्वादिदिक्ष्वगन्यादिविदिक्षु च।
अन्येषां स्नपनानां तु सर्वेषां द्विजसत्तम! ॥ 307 ॥

मूलम् - 307

अष्टावष्टौ तु पूर्वादिदिक्ष्वगन्यादिविदिक्षु च।
अन्येषां स्नपनानां तु सर्वेषां द्विजसत्तम! ॥ 307 ॥

विश्वास-प्रस्तुतिः - 308

मर्यादा चैव हृष्टिश्च शुद्धोदेष्वधिदेवता।
कलशानां तु गरुडः, शेषः सूत्रस्य दैवतम् ॥ 308 ॥

मूलम् - 308

मर्यादा चैव हृष्टिश्च शुद्धोदेष्वधिदेवता।
कलशानां तु गरुडः, शेषः सूत्रस्य दैवतम् ॥ 308 ॥

विश्वास-प्रस्तुतिः - 309

कूर्चानां तु परं ब्रह्न, चक्रिकानां तु चक्रराट्।
वाससां वासुदेवस्तु, सर्वेषां च स एव वा ॥ 309 ॥

मूलम् - 309

कूर्चानां तु परं ब्रह्न, चक्रिकानां तु चक्रराट्।
वाससां वासुदेवस्तु, सर्वेषां च स एव वा ॥ 309 ॥

विश्वास-प्रस्तुतिः - 310

मार्जनं प्रोक्षणं चैव शकृता चानुलेपनम्।
सूत्रपातमलङ्कारं पिष्टचूर्णैः समन्ततः ॥ 310 ॥

मूलम् - 310

मार्जनं प्रोक्षणं चैव शकृता चानुलेपनम्।
सूत्रपातमलङ्कारं पिष्टचूर्णैः समन्ततः ॥ 310 ॥

विश्वास-प्रस्तुतिः - 311

द्वादशाक्षरमन्त्रेण कारयेत् पञ्च मन्त्रवित्।
पञ्चोपनिषदा मन्त्री कलशानधिवासयेत् ॥ 311 ॥

मूलम् - 311

द्वादशाक्षरमन्त्रेण कारयेत् पञ्च मन्त्रवित्।
पञ्चोपनिषदा मन्त्री कलशानधिवासयेत् ॥ 311 ॥

विश्वास-प्रस्तुतिः - 312

विष्णुगायत्रिया तत्र कोष्ठेषु कलशान् न्यसेत्।
तत्र द्रव्याधिदेवानां वाचकैः पूरयेत् क्रमात् ॥ 312 ॥

मूलम् - 312

विष्णुगायत्रिया तत्र कोष्ठेषु कलशान् न्यसेत्।
तत्र द्रव्याधिदेवानां वाचकैः पूरयेत् क्रमात् ॥ 312 ॥

विश्वास-प्रस्तुतिः - 313

कूर्चांस्तु प्रक्षिपेत्तेषु द्विषट्‌कब्रह्नविद्यया।
तत्तद्‌द्रव्याधिदेवांस्तु तत्तद्‌द्रव्येषु पूजयेत् ॥ 313 ॥

मूलम् - 313

कूर्चांस्तु प्रक्षिपेत्तेषु द्विषट्‌कब्रह्नविद्यया।
तत्तद्‌द्रव्याधिदेवांस्तु तत्तद्‌द्रव्येषु पूजयेत् ॥ 313 ॥

विश्वास-प्रस्तुतिः - 314

चक्रिकाः स्थापयेत् पश्चाच्चक्रमन्त्रेण साधकः।
वासोभिश्छादयेत् पश्चाद्‌द्विषट्‌कार्णेन मन्त्रवित् ॥ 314 ॥

मूलम् - 314

चक्रिकाः स्थापयेत् पश्चाच्चक्रमन्त्रेण साधकः।
वासोभिश्छादयेत् पश्चाद्‌द्विषट्‌कार्णेन मन्त्रवित् ॥ 314 ॥

विश्वास-प्रस्तुतिः - 315

वस्त्रापनयनं, कुर्यान्मूलमन्त्रेण मन्त्रवित्।
प्रणवेन तु सूत्राणि च्छित्त्वा तेनाभिवन्द्य च ॥ 315 ॥

मूलम् - 315

वस्त्रापनयनं, कुर्यान्मूलमन्त्रेण मन्त्रवित्।
प्रणवेन तु सूत्राणि च्छित्त्वा तेनाभिवन्द्य च ॥ 315 ॥

विश्वास-प्रस्तुतिः - 316

उद्ध्त्य, विष्णुगायत्र्या दद्याद्धस्ते गुरोस्तथा।
यस्मिन् यस्मिन्न मन्त्रोऽत्र विहितः कर्मणि द्विज! ॥ 316 ॥

मूलम् - 316

उद्ध्त्य, विष्णुगायत्र्या दद्याद्धस्ते गुरोस्तथा।
यस्मिन् यस्मिन्न मन्त्रोऽत्र विहितः कर्मणि द्विज! ॥ 316 ॥

विश्वास-प्रस्तुतिः - 317

द्वादशाक्षरमन्त्रण तत्तत्‌ कुर्याद्विचक्षणः।
अथवा सर्वकर्माणि द्वादशाक्षरविद्यया ॥ 317 ॥

मूलम् - 317

द्वादशाक्षरमन्त्रण तत्तत्‌ कुर्याद्विचक्षणः।
अथवा सर्वकर्माणि द्वादशाक्षरविद्यया ॥ 317 ॥

विश्वास-प्रस्तुतिः - 318

पूर्वोक्तः परभेदानां स्नपनानां महामते!।
अर्घ्यादिद्रव्यनिचयः, इतरेषां तु कथ्यते ॥ 318 ॥

मूलम् - 318

पूर्वोक्तः परभेदानां स्नपनानां महामते!।
अर्घ्यादिद्रव्यनिचयः, इतरेषां तु कथ्यते ॥ 318 ॥

विश्वास-प्रस्तुतिः - 319

विष्णुपर्णी च दूर्वा च पझं श्यामाकमेव च।
एतानि पाद्यस्याङ्गानि चत्वारि द्विजपुङ्गव! ॥ 319 ॥

मूलम् - 319

विष्णुपर्णी च दूर्वा च पझं श्यामाकमेव च।
एतानि पाद्यस्याङ्गानि चत्वारि द्विजपुङ्गव! ॥ 319 ॥

विश्वास-प्रस्तुतिः - 320

गन्धपुष्पेऽक्षतफले यवसिद्धार्थकं तिलम्।
कुशाग्रमर्घ्यस्याङ्गानि ह्येतान्यष्टौ भवन्ति हि ॥ 320 ॥

मूलम् - 320

गन्धपुष्पेऽक्षतफले यवसिद्धार्थकं तिलम्।
कुशाग्रमर्घ्यस्याङ्गानि ह्येतान्यष्टौ भवन्ति हि ॥ 320 ॥

विश्वास-प्रस्तुतिः - 321

लवङ्गजातितक्कोलमङ्गमाचमनीयके।
शकृद्रसं च गोमूत्रं क्षीरं दधि घृतं तथा ॥ 321 ॥

मूलम् - 321

लवङ्गजातितक्कोलमङ्गमाचमनीयके।
शकृद्रसं च गोमूत्रं क्षीरं दधि घृतं तथा ॥ 321 ॥

विश्वास-प्रस्तुतिः - 322

अङ्गानि पञ्चगव्यस्य पञ्चैतानि च सर्वतः।
शम्योदुम्बरबिल्वानां पलाशवटयोस्तथा ॥ 322 ॥

मूलम् - 322

अङ्गानि पञ्चगव्यस्य पञ्चैतानि च सर्वतः।
शम्योदुम्बरबिल्वानां पलाशवटयोस्तथा ॥ 322 ॥

विश्वास-प्रस्तुतिः - 323

खदिराश्वत्थयोश्चापि विकङ्कततरोस्तथा।
त्वक्‌सारं तु कषायं स्यात् सर्वपापापनोदनम् ॥ 323 ॥

मूलम् - 323

खदिराश्वत्थयोश्चापि विकङ्कततरोस्तथा।
त्वक्‌सारं तु कषायं स्यात् सर्वपापापनोदनम् ॥ 323 ॥

विश्वास-प्रस्तुतिः - 324

कुष्ठं मांसी हरिद्रे द्वे मुराशैलेयचम्पकाः।
वचाकच्चोरमुस्ताश्च `सर्वौषध्यः’ प्रकीर्तिताः ॥ 324 ॥

मूलम् - 324

कुष्ठं मांसी हरिद्रे द्वे मुराशैलेयचम्पकाः।
वचाकच्चोरमुस्ताश्च `सर्वौषध्यः’ प्रकीर्तिताः ॥ 324 ॥

विश्वास-प्रस्तुतिः - 325

पलाशबिल्ववकुलकदम्बाम्रशिरीषजाः।
न्यग्रोधाश्वत्थजाश्चापि पल्लवाः `पत्रवारिणः’ ॥ 325 ॥

मूलम् - 325

पलाशबिल्ववकुलकदम्बाम्रशिरीषजाः।
न्यग्रोधाश्वत्थजाश्चापि पल्लवाः `पत्रवारिणः’ ॥ 325 ॥

विश्वास-प्रस्तुतिः - 326

केतकीमल्लिका जातिनन्द्यावर्तोत्पलोद्भवाः।
पझचम्पककुन्दोत्थाः कुसुमाः `पुष्पवारिणः’ ॥ 326 ॥

मूलम् - 326

केतकीमल्लिका जातिनन्द्यावर्तोत्पलोद्भवाः।
पझचम्पककुन्दोत्थाः कुसुमाः `पुष्पवारिणः’ ॥ 326 ॥

विश्वास-प्रस्तुतिः - 327

कदलीविल्वचूताश्च पनसं मातुलङ्गकम्।
नालिकेरं चामलकं बीजपूरं `फलाम्भसः’ ॥ 327 ॥

मूलम् - 327

कदलीविल्वचूताश्च पनसं मातुलङ्गकम्।
नालिकेरं चामलकं बीजपूरं `फलाम्भसः’ ॥ 327 ॥

विश्वास-प्रस्तुतिः - 328

अङ्गान्येतानि विप्राष्टौ फलानि कथितानि वै।
यवगोधूमकत्रीहिशालिमुद्गप्रियङ्‌गुकाः ॥ 328 ॥

मूलम् - 328

अङ्गान्येतानि विप्राष्टौ फलानि कथितानि वै।
यवगोधूमकत्रीहिशालिमुद्गप्रियङ्‌गुकाः ॥ 328 ॥

विश्वास-प्रस्तुतिः - 329

माषनीवारकौ चाङ्गं कथितं `बीजवारिणः’।
बाह्‌लीकं चन्दनं चैव कर्पूरमगरुं तथा ॥ 329 ॥

मूलम् - 329

माषनीवारकौ चाङ्गं कथितं `बीजवारिणः’।
बाह्‌लीकं चन्दनं चैव कर्पूरमगरुं तथा ॥ 329 ॥

विश्वास-प्रस्तुतिः - 330

गन्धाङ्गानि च चत्वारि, त्वथवा मुनिपुङ्गव!।
चन्दनं कुङ्‌कुमं मांसी हरिबेरं मुतं तथा ॥ 330 ॥

मूलम् - 330

गन्धाङ्गानि च चत्वारि, त्वथवा मुनिपुङ्गव!।
चन्दनं कुङ्‌कुमं मांसी हरिबेरं मुतं तथा ॥ 330 ॥

विश्वास-प्रस्तुतिः - 331

उशीरं कुष्ठमगरु `गन्धाम्भो’ ऽङ्गं तु चाष्टकम्।
सूर्यकान्तं पझरागमिन्द्रकान्तं तथैव च ॥ 331 ॥

मूलम् - 331

उशीरं कुष्ठमगरु `गन्धाम्भो’ ऽङ्गं तु चाष्टकम्।
सूर्यकान्तं पझरागमिन्द्रकान्तं तथैव च ॥ 331 ॥

विश्वास-प्रस्तुतिः - 332

वैडूर्यं चाप्ययस्कान्तमिन्द्रनीलप्रवालकौ।
गरुडं पुष्यरागं च स्फटिकब्रह्नरागकौ ॥ 332 ॥

मूलम् - 332

वैडूर्यं चाप्ययस्कान्तमिन्द्रनीलप्रवालकौ।
गरुडं पुष्यरागं च स्फटिकब्रह्नरागकौ ॥ 332 ॥

विश्वास-प्रस्तुतिः - 333

वज्रं मौक्तिकमङ्गानि `रत्नोदस्य’, अथवा द्विज!।
मणिमुक्ताफलं वज्रं प्रवालं पुष्यकं तथा ॥ 333 ॥

मूलम् - 333

वज्रं मौक्तिकमङ्गानि `रत्नोदस्य’, अथवा द्विज!।
मणिमुक्ताफलं वज्रं प्रवालं पुष्यकं तथा ॥ 333 ॥

विश्वास-प्रस्तुतिः - 334

रत्नोदकाङ्गान्येतानि पञ्च वै कथितानि ते।
अपरस्नपनानां तु द्वितीयं नवकं विना ॥ 334 ॥

मूलम् - 334

रत्नोदकाङ्गान्येतानि पञ्च वै कथितानि ते।
अपरस्नपनानां तु द्वितीयं नवकं विना ॥ 334 ॥

विश्वास-प्रस्तुतिः - 335

तत्र मुक्ताफलं वज्रं गोमेदकेन्द्रनीलकौ।
पुष्यरागं ब्रह्नरागं चन्द्रकान्तं च विद्रुमम् ॥ 335 ॥

मूलम् - 335

तत्र मुक्ताफलं वज्रं गोमेदकेन्द्रनीलकौ।
पुष्यरागं ब्रह्नरागं चन्द्रकान्तं च विद्रुमम् ॥ 335 ॥

विश्वास-प्रस्तुतिः - 336

रत्नाम्भसोऽष्टावङ्गानि ह्यमूनि घदितानि वै।
सहदेवी शिरीषं च रजनी सूर्यवर्तिनी ॥ 336 ॥

मूलम् - 336

रत्नाम्भसोऽष्टावङ्गानि ह्यमूनि घदितानि वै।
सहदेवी शिरीषं च रजनी सूर्यवर्तिनी ॥ 336 ॥

विश्वास-प्रस्तुतिः - 337

सदाभद्रा कुशाग्राणि मार्जनाङ्गानि षड्‌ द्विज!।
रुक्‌मं रूप्यं च ताम्रं चाप्ययस्त्रपुकमेव च ॥ 337 ॥

मूलम् - 337

सदाभद्रा कुशाग्राणि मार्जनाङ्गानि षड्‌ द्विज!।
रुक्‌मं रूप्यं च ताम्रं चाप्ययस्त्रपुकमेव च ॥ 337 ॥

विश्वास-प्रस्तुतिः - 338

अह्गानि कथितान्येव पञ्च वै `लोहवारिणः’।
तिलसिद्धार्थनीवारयववेणुयवानि च ॥ 338 ॥

मूलम् - 338

अह्गानि कथितान्येव पञ्च वै `लोहवारिणः’।
तिलसिद्धार्थनीवारयववेणुयवानि च ॥ 338 ॥

विश्वास-प्रस्तुतिः - 339

तुलसीपत्रयुक्तानि `शान्तम्भो’ ऽङ्गानि चैव षट्।
इन्द्रवल्ल्यङ्कुरं पझमश्वत्थाङ्‌कुरमेव च ॥ 339 ॥

मूलम् - 339

तुलसीपत्रयुक्तानि `शान्तम्भो’ ऽङ्गानि चैव षट्।
इन्द्रवल्ल्यङ्कुरं पझमश्वत्थाङ्‌कुरमेव च ॥ 339 ॥

विश्वास-प्रस्तुतिः - 340

एकपझं च चत्वार्यङ्गानि `मङ्गलवारिणः’।
नद्यां तटाके वल्मीके पर्वते चैव मृत्तिका ॥ 340 ॥

मूलम् - 340

एकपझं च चत्वार्यङ्गानि `मङ्गलवारिणः’।
नद्यां तटाके वल्मीके पर्वते चैव मृत्तिका ॥ 340 ॥

विश्वास-प्रस्तुतिः - 341

`परिमार्जनवस्तूनि’ कथितानि द्विजोत्तम!।
शङ्खं चक्रं च कूर्मं च वैनतेयं तथैव च ॥ 341 ॥

मूलम् - 341

`परिमार्जनवस्तूनि’ कथितानि द्विजोत्तम!।
शङ्खं चक्रं च कूर्मं च वैनतेयं तथैव च ॥ 341 ॥

विश्वास-प्रस्तुतिः - 342

कुर्यात् प्रतिकृतिं लोहैरौपमानिकमुच्यते।
शुद्धोदकलशाः सर्वे चन्दनैकाङ्गसंयुताः ॥ 342 ॥

मूलम् - 342

कुर्यात् प्रतिकृतिं लोहैरौपमानिकमुच्यते।
शुद्धोदकलशाः सर्वे चन्दनैकाङ्गसंयुताः ॥ 342 ॥

विश्वास-प्रस्तुतिः - 343

अथवानन्तकलशं नाम्ना सकलपूरकम्।
यदेतस्य विधानं त्व क्रमेण श्रृणु विस्तृतम् ॥ 343 ॥

मूलम् - 343

अथवानन्तकलशं नाम्ना सकलपूरकम्।
यदेतस्य विधानं त्व क्रमेण श्रृणु विस्तृतम् ॥ 343 ॥

विश्वास-प्रस्तुतिः - 344

पूर्ववन्मण्डपं कुर्याच्चत्वारिंशत्करायतम्।
द्वात्रिंशत्करविस्तारं चतुर्द्वारादिसंयुतम् ॥ 344 ॥

मूलम् - 344

पूर्ववन्मण्डपं कुर्याच्चत्वारिंशत्करायतम्।
द्वात्रिंशत्करविस्तारं चतुर्द्वारादिसंयुतम् ॥ 344 ॥

विश्वास-प्रस्तुतिः - 345

ध्वजाद्यैरप्यलंकारैः पूर्ववत् सुविभूषितम्।
आपाद्या वा प्रपामात्रं यथाभिमतदेशगम् ॥ 345 ॥

मूलम् - 345

ध्वजाद्यैरप्यलंकारैः पूर्ववत् सुविभूषितम्।
आपाद्या वा प्रपामात्रं यथाभिमतदेशगम् ॥ 345 ॥

विश्वास-प्रस्तुतिः - 346

यागार्थमण्डपं प्राग्वत् कल्पयेत् तत्समीपतः।
उक्ते दिनेऽङ्‌कुरारोपं कृत्वा कर्मदिनात् पुरा ॥ 346 ॥

मूलम् - 346

यागार्थमण्डपं प्राग्वत् कल्पयेत् तत्समीपतः।
उक्ते दिनेऽङ्‌कुरारोपं कृत्वा कर्मदिनात् पुरा ॥ 346 ॥

विश्वास-प्रस्तुतिः - 347

तदर्थान् सर्वसंभारान् संभृत्य सुसमाहितः।
देशिकेन्द्रस्तु पूर्वेद्युः सुस्नातश्च कृताह्निकः ॥ 347 ॥

मूलम् - 347

तदर्थान् सर्वसंभारान् संभृत्य सुसमाहितः।
देशिकेन्द्रस्तु पूर्वेद्युः सुस्नातश्च कृताह्निकः ॥ 347 ॥

विश्वास-प्रस्तुतिः - 348

भूषणैर्विविधैर्वस्त्रैर्नूतनैश्च विभूषितः।
सितोष्णीषोत्तरीयश्च चित्रैर्माल्यैरलंकृतः ॥ 348 ॥

मूलम् - 348

भूषणैर्विविधैर्वस्त्रैर्नूतनैश्च विभूषितः।
सितोष्णीषोत्तरीयश्च चित्रैर्माल्यैरलंकृतः ॥ 348 ॥

विश्वास-प्रस्तुतिः - 349

चतुर्भिरष्टभिर्वा(चा!) र्यैस्तादृशैरपि साधकैः।
तत्संख्यैः शास्त्रकुशलैः कञ्चुकादिविभूषितैः ॥ 349 ॥

मूलम् - 349

चतुर्भिरष्टभिर्वा(चा!) र्यैस्तादृशैरपि साधकैः।
तत्संख्यैः शास्त्रकुशलैः कञ्चुकादिविभूषितैः ॥ 349 ॥

विश्वास-प्रस्तुतिः - 350

अन्यैश्च सुसितैर्वस्त्रैः स्थगितानननासिकैः।
तत्तत्प्रयोगकुशलैरनेकैः परिचारकैः ॥ 350 ॥

मूलम् - 350

अन्यैश्च सुसितैर्वस्त्रैः स्थगितानननासिकैः।
तत्तत्प्रयोगकुशलैरनेकैः परिचारकैः ॥ 350 ॥

विश्वास-प्रस्तुतिः - 351

प्राप्तेऽपराङ्णसमये कृत्वा द्वार्स्थार्चनं विशेत्।
यागार्थमण्डपं तत्र देवं कुम्भादिके यजेत् ॥ 351 ॥

मूलम् - 351

प्राप्तेऽपराङ्णसमये कृत्वा द्वार्स्थार्चनं विशेत्।
यागार्थमण्डपं तत्र देवं कुम्भादिके यजेत् ॥ 351 ॥

विश्वास-प्रस्तुतिः - 352

तत्रैव वा यजेद्बिम्बं बह्नौ सन्तर्प्य पूर्ववत्।
ततोऽनुज्ञां समादाय क्रमेण मुनिपुङ्गव! ॥ 352 ॥

मूलम् - 352

तत्रैव वा यजेद्बिम्बं बह्नौ सन्तर्प्य पूर्ववत्।
ततोऽनुज्ञां समादाय क्रमेण मुनिपुङ्गव! ॥ 352 ॥

विश्वास-प्रस्तुतिः - 353

अनुकल्पविधाने तु प्रासादं संप्रविश्य च।
मूलबिम्बं तु संपूज्य अर्घ्यालभनमाल्यकैः ॥ 353 ॥

मूलम् - 353

अनुकल्पविधाने तु प्रासादं संप्रविश्य च।
मूलबिम्बं तु संपूज्य अर्घ्यालभनमाल्यकैः ॥ 353 ॥

विश्वास-प्रस्तुतिः - 354

धूपेन च ततोऽनुज्ञां समादायारभेत् ततः।
द्वार्स्थाभ्यर्चनपूर्वं तु विशेत् स्नपनमण्डपम् ॥ 354 ॥

मूलम् - 354

धूपेन च ततोऽनुज्ञां समादायारभेत् ततः।
द्वार्स्थाभ्यर्चनपूर्वं तु विशेत् स्नपनमण्डपम् ॥ 354 ॥

विश्वास-प्रस्तुतिः - 355

प्रोक्षयेत् पञ्चगव्येन द्विषट्‌कार्णेन सर्वतः।
नानाविधानि पुष्पाणि विकिरेत् सर्वदिक् तथा ॥ 355 ॥

मूलम् - 355

प्रोक्षयेत् पञ्चगव्येन द्विषट्‌कार्णेन सर्वतः।
नानाविधानि पुष्पाणि विकिरेत् सर्वदिक् तथा ॥ 355 ॥

विश्वास-प्रस्तुतिः - 356

सिद्धार्थकांश्च बीजानि ततो मण्डपमध्यतः।
सार्धद्वाविंशतिकरं भजेत् क्षेत्रं तु पञ्चधा ॥ 356 ॥

मूलम् - 356

सिद्धार्थकांश्च बीजानि ततो मण्डपमध्यतः।
सार्धद्वाविंशतिकरं भजेत् क्षेत्रं तु पञ्चधा ॥ 356 ॥

विश्वास-प्रस्तुतिः - 357

एकैकं नवधा भूयश्चचत्वारिंशच्च पञ्च च।
पङ्‌क्तयश्चापि कोष्ठानां पञ्चविंशोत्तरं भवेत् ॥ 357 ॥

मूलम् - 357

एकैकं नवधा भूयश्चचत्वारिंशच्च पञ्च च।
पङ्‌क्तयश्चापि कोष्ठानां पञ्चविंशोत्तरं भवेत् ॥ 357 ॥

विश्वास-प्रस्तुतिः - 358

द्विसहस्रं, ततो मध्ये कलशस्थापनार्थतः।
एकाशीति च कोष्ठानि संस्थाप्य परिमार्जयेत् ॥ 358 ॥

मूलम् - 358

द्विसहस्रं, ततो मध्ये कलशस्थापनार्थतः।
एकाशीति च कोष्ठानि संस्थाप्य परिमार्जयेत् ॥ 358 ॥

विश्वास-प्रस्तुतिः - 359

परितोवीथये पङ्‌क्तिद्वितयं, तद्बहिः पुनः।
पूर्वादिदिक्‌चतुष्के तु एकाशीतिपदानि च ॥ 359 ॥

मूलम् - 359

परितोवीथये पङ्‌क्तिद्वितयं, तद्बहिः पुनः।
पूर्वादिदिक्‌चतुष्के तु एकाशीतिपदानि च ॥ 359 ॥

विश्वास-प्रस्तुतिः - 360

कल्पयेत् पार्श्वतो वीथ्यै पुनः पङ्‌क्तिद्वयं भवेत्।
चतुर्षु कोणेष्वेकोनपञ्चाशत्कोष्ठकानि तु ॥ 360 ॥

मूलम् - 360

कल्पयेत् पार्श्वतो वीथ्यै पुनः पङ्‌क्तिद्वयं भवेत्।
चतुर्षु कोणेष्वेकोनपञ्चाशत्कोष्ठकानि तु ॥ 360 ॥

विश्वास-प्रस्तुतिः - 361

कल्पयेत्तत्र चाप्येकाशीतिमध्यानुसारतः।
मध्यतो नवकं स्थाप्य पङ्‌क्त्यैकां लोपयेत् परि ॥ 361 ॥

मूलम् - 361

कल्पयेत्तत्र चाप्येकाशीतिमध्यानुसारतः।
मध्यतो नवकं स्थाप्य पङ्‌क्त्यैकां लोपयेत् परि ॥ 361 ॥

विश्वास-प्रस्तुतिः - 362

बहिः पङ्‌क्तिद्वये दिक्षु षट्‌कं षट्‌कं विदिक्षु च।
चतुश्चतुश्च संस्थाप्य शेषाणि परिमार्जयेत् ॥ 362 ॥

मूलम् - 362

बहिः पङ्‌क्तिद्वये दिक्षु षट्‌कं षट्‌कं विदिक्षु च।
चतुश्चतुश्च संस्थाप्य शेषाणि परिमार्जयेत् ॥ 362 ॥

विश्वास-प्रस्तुतिः - 363

तद्बहिः परितो वीथ्यै लुम्पेत् पङ्‌क्तिद्वयं ततः।
कोणानि कल्पयेद्यत्नात् पदषोडशकानि तु ॥ 363 ॥

मूलम् - 363

तद्बहिः परितो वीथ्यै लुम्पेत् पङ्‌क्तिद्वयं ततः।
कोणानि कल्पयेद्यत्नात् पदषोडशकानि तु ॥ 363 ॥

विश्वास-प्रस्तुतिः - 364

तत्पार्श्वे लोपयेत् पङ्‌क्तिमेकैकां दिक्‌चतुष्टये।
पङ्‌क्तिद्वयेन द्वाराणामन्तर्भागास्त्रयो बहिः ॥ 364 ॥

मूलम् - 364

तत्पार्श्वे लोपयेत् पङ्‌क्तिमेकैकां दिक्‌चतुष्टये।
पङ्‌क्तिद्वयेन द्वाराणामन्तर्भागास्त्रयो बहिः ॥ 364 ॥

विश्वास-प्रस्तुतिः - 365

पञ्चपार्श्वे तु शोभार्थं चतुरतर्बहिर्द्वयम्।
तदन्तः पङ्‌क्तित्रितये त्नयस्त्रिंशत्पदानि तु ॥ 365 ॥

मूलम् - 365

पञ्चपार्श्वे तु शोभार्थं चतुरतर्बहिर्द्वयम्।
तदन्तः पङ्‌क्तित्रितये त्नयस्त्रिंशत्पदानि तु ॥ 365 ॥

विश्वास-प्रस्तुतिः - 366

वींथ्या सहैकतां नीत्वा ह्येकैकं स्थापयेद्बहिः।
द्वाराणामपि कोणानां मध्ये षोडशसंख्यया ॥ 366 ॥

मूलम् - 366

वींथ्या सहैकतां नीत्वा ह्येकैकं स्थापयेद्बहिः।
द्वाराणामपि कोणानां मध्ये षोडशसंख्यया ॥ 366 ॥

विश्वास-प्रस्तुतिः - 367

पच्चविंशतिकोष्ठानि स्थापयित्वा तु पार्श्वतः।
अन्ययोन्यं लोपयेत् पङ्‌क्तिमेकैकां तु महामुने! ॥ 367 ॥

मूलम् - 367

पच्चविंशतिकोष्ठानि स्थापयित्वा तु पार्श्वतः।
अन्ययोन्यं लोपयेत् पङ्‌क्तिमेकैकां तु महामुने! ॥ 367 ॥

विश्वास-प्रस्तुतिः - 368

एवमापाद्य कुम्भानां पदानि स्थापनार्थतः।
ततः सुगन्धरजसा सितेन सुसमा द्विज! ॥ 368 ॥

मूलम् - 368

एवमापाद्य कुम्भानां पदानि स्थापनार्थतः।
ततः सुगन्धरजसा सितेन सुसमा द्विज! ॥ 368 ॥

विश्वास-प्रस्तुतिः - 369

अङ्गुष्ठविस्तरोत्सेधा ऋज्वी रेखास्तु कल्पयेत्।
विकीर्य कोष्ठेषु रजः पश्चाद्‌द्वाराणि पूरयेत् ॥ 369 ॥

मूलम् - 369

अङ्गुष्ठविस्तरोत्सेधा ऋज्वी रेखास्तु कल्पयेत्।
विकीर्य कोष्ठेषु रजः पश्चाद्‌द्वाराणि पूरयेत् ॥ 369 ॥

विश्वास-प्रस्तुतिः - 370

तेनैव शोभां पीतेन विचित्रैः कुसुमान्वितैः।
लताबृन्दैर्मुनिश्रेष्ठ! वीथीः सर्वत्र भूषयेत् ॥ 370 ॥

मूलम् - 370

तेनैव शोभां पीतेन विचित्रैः कुसुमान्वितैः।
लताबृन्दैर्मुनिश्रेष्ठ! वीथीः सर्वत्र भूषयेत् ॥ 370 ॥

विश्वास-प्रस्तुतिः - 371

ततः संगृह्य कलशान् पूर्वलक्षणलक्षितान्।
अष्टोत्तरशतं कृत्वा मूलमन्त्रेण वै घृतम् ॥ 371 ॥

मूलम् - 371

ततः संगृह्य कलशान् पूर्वलक्षणलक्षितान्।
अष्टोत्तरशतं कृत्वा मूलमन्त्रेण वै घृतम् ॥ 371 ॥

विश्वास-प्रस्तुतिः - 372

गायत्र्या वा ततो द्वारा चतुष्के पूर्वदिक्क्रमात्।
द्वौ द्वौ संस्थाप्य कलशौ कुमुदादीन् प्रपूज्य च ॥ 372 ॥

मूलम् - 372

गायत्र्या वा ततो द्वारा चतुष्के पूर्वदिक्क्रमात्।
द्वौ द्वौ संस्थाप्य कलशौ कुमुदादीन् प्रपूज्य च ॥ 372 ॥

विश्वास-प्रस्तुतिः - 373

पुष्पैरभ्यर्च्य कोष्ठानि विचित्रैर्मन्त्नमन्त्नितैः।
सर्वधान्यैः प्रयत्नेन कल्पयित्वा तु पीठिकाः ॥ 373 ॥

मूलम् - 373

पुष्पैरभ्यर्च्य कोष्ठानि विचित्रैर्मन्त्नमन्त्नितैः।
सर्वधान्यैः प्रयत्नेन कल्पयित्वा तु पीठिकाः ॥ 373 ॥

विश्वास-प्रस्तुतिः - 374

तासु द्वौ द्वौ कुशाग्रौ च निक्षिपेन्मूलमन्त्रतः।
सूत्रेण वेष्ठितान् कृत्वा कलशान् पूर्ववद्‌द्विज! ॥ 374 ॥

मूलम् - 374

तासु द्वौ द्वौ कुशाग्रौ च निक्षिपेन्मूलमन्त्रतः।
सूत्रेण वेष्ठितान् कृत्वा कलशान् पूर्ववद्‌द्विज! ॥ 374 ॥

विश्वास-प्रस्तुतिः - 375

गायत्र्या क्षालयित्वा तान्, कोष्ठेषु न्यस्य `तारतः’।
अधोमुखान् न्यसेत् पृष्ठे परमेष्ठ्यात्मना कुशान् ॥ 375 ॥

मूलम् - 375

गायत्र्या क्षालयित्वा तान्, कोष्ठेषु न्यस्य `तारतः’।
अधोमुखान् न्यसेत् पृष्ठे परमेष्ठ्यात्मना कुशान् ॥ 375 ॥

विश्वास-प्रस्तुतिः - 376

ततः संप्रोक्षयेत् पुंसा' पञ्चगव्येन तान् कुशैः। विश्वेन’ विकिरेत् सर्वानक्षतांश्च तदूर्ध्वतः ॥ 376 ॥

मूलम् - 376

ततः संप्रोक्षयेत् पुंसा' पञ्चगव्येन तान् कुशैः। विश्वेन’ विकिरेत् सर्वानक्षतांश्च तदूर्ध्वतः ॥ 376 ॥

विश्वास-प्रस्तुतिः - 377

उत्तानये `न्निवृत्या’ तान् क्रमाद्यत्नेन वै ततः।
गालितेन तु तोयेन सुगन्धैश्चन्दनादिकैः ॥ 377 ॥

मूलम् - 377

उत्तानये `न्निवृत्या’ तान् क्रमाद्यत्नेन वै ततः।
गालितेन तु तोयेन सुगन्धैश्चन्दनादिकैः ॥ 377 ॥

विश्वास-प्रस्तुतिः - 378

वासितेन तु तान्‌ विप्र! सर्वेणापूरयेत् क्रमात्।
मध्यैकाशीतिमघ्यस्थनवके मध्यकुम्भके ॥ 378 ॥

मूलम् - 378

वासितेन तु तान्‌ विप्र! सर्वेणापूरयेत् क्रमात्।
मध्यैकाशीतिमघ्यस्थनवके मध्यकुम्भके ॥ 378 ॥

विश्वास-प्रस्तुतिः - 379

सूर्यकान्तं पझरागं वैडूर्यं चन्द्रकान्तकम्।
अयस्कान्तमिन्द्रनीलं प्रवालं गारुडं तथा ॥ 379 ॥

मूलम् - 379

सूर्यकान्तं पझरागं वैडूर्यं चन्द्रकान्तकम्।
अयस्कान्तमिन्द्रनीलं प्रवालं गारुडं तथा ॥ 379 ॥

विश्वास-प्रस्तुतिः - 380

पुष्यरागं स्फाटिकं च ब्रह्नरागं च मेचकम्।
वज्रं च रजतं चैव मौक्तिकं ताम्रमेव च ॥ 380 ॥

मूलम् - 380

पुष्यरागं स्फाटिकं च ब्रह्नरागं च मेचकम्।
वज्रं च रजतं चैव मौक्तिकं ताम्रमेव च ॥ 380 ॥

विश्वास-प्रस्तुतिः - 381

सर्वाण्येतानि निक्षिप्य तद्बहिर्नवकाष्टके।
पूर्वादीशानपर्यन्तं मध्यकुम्भेषु वै क्रमात् ॥ 381 ॥

मूलम् - 381

सर्वाण्येतानि निक्षिप्य तद्बहिर्नवकाष्टके।
पूर्वादीशानपर्यन्तं मध्यकुम्भेषु वै क्रमात् ॥ 381 ॥

विश्वास-प्रस्तुतिः - 382

द्रव्याणि षोडशैतानि द्वन्द्वयोगेन विन्यसेत्।
द्विसप्तति च (क) संख्येषु न्यसेच्छेषेषु मौक्तिकम् ॥ 382 ॥

मूलम् - 382

द्रव्याणि षोडशैतानि द्वन्द्वयोगेन विन्यसेत्।
द्विसप्तति च (क) संख्येषु न्यसेच्छेषेषु मौक्तिकम् ॥ 382 ॥

विश्वास-प्रस्तुतिः - 383

पूर्वैकाशीतिमध्यस्थनवके मध्यगोचरे।
कदलीपनसाम्राणां क्षीरिकाबदराख्ययोः ॥ 383 ॥

मूलम् - 383

पूर्वैकाशीतिमध्यस्थनवके मध्यगोचरे।
कदलीपनसाम्राणां क्षीरिकाबदराख्ययोः ॥ 383 ॥

विश्वास-प्रस्तुतिः - 384

मातुलङ्गकेसरयोः ह (भ) व्यजम्बीरयोरपि।
फलानि निक्षिपेत् पश्चात्तद्बहिर्नवकाष्टके ॥ 384 ॥

मूलम् - 384

मातुलङ्गकेसरयोः ह (भ) व्यजम्बीरयोरपि।
फलानि निक्षिपेत् पश्चात्तद्बहिर्नवकाष्टके ॥ 384 ॥

विश्वास-प्रस्तुतिः - 386

प्रागादीशानपर्यन्तं मातुलङ्गं च दाडिमम्।
नारङ्गं चापि जम्बीरं तक्कोलं बदरीं तथा ॥ 386 ॥

मूलम् - 386

प्रागादीशानपर्यन्तं मातुलङ्गं च दाडिमम्।
नारङ्गं चापि जम्बीरं तक्कोलं बदरीं तथा ॥ 386 ॥

विश्वास-प्रस्तुतिः - 387

क्षुद्रपूर्वं च पनसं कदलीमोचके तथा।
क्रमाद्‌द्वन्द्वप्रयोगेण मद्यकुम्मेषु विन्यसेत् ॥ 387 ॥

मूलम् - 387

क्षुद्रपूर्वं च पनसं कदलीमोचके तथा।
क्रमाद्‌द्वन्द्वप्रयोगेण मद्यकुम्मेषु विन्यसेत् ॥ 387 ॥

विश्वास-प्रस्तुतिः - 388

नवकाष्टककुम्मेषु बदराणि विनिक्षिपेत्।
उशीर कुङ्‌कुमं चैव मांसी मलयजं तथा ॥ 388 ॥

मूलम् - 388

नवकाष्टककुम्मेषु बदराणि विनिक्षिपेत्।
उशीर कुङ्‌कुमं चैव मांसी मलयजं तथा ॥ 388 ॥

विश्वास-प्रस्तुतिः - 389

मुरं च हरिबेरं च कुष्ठं चागरुमेव च।
एकाशीतिपदे याम्ये विश्वान्येतानि निक्षिपेत् ॥ 389 ॥

मूलम् - 389

मुरं च हरिबेरं च कुष्ठं चागरुमेव च।
एकाशीतिपदे याम्ये विश्वान्येतानि निक्षिपेत् ॥ 389 ॥

विश्वास-प्रस्तुतिः - 390

मध्ये मध्यस्थकलशे पूर्वादिक्रमयोगतः।
शेषेषु मध्यकुम्भेषु न्यसेदेकैकजं फलम् ॥ 390 ॥

मूलम् - 390

मध्ये मध्यस्थकलशे पूर्वादिक्रमयोगतः।
शेषेषु मध्यकुम्भेषु न्यसेदेकैकजं फलम् ॥ 390 ॥

विश्वास-प्रस्तुतिः - 391

विनिक्षिपेन्मलयजमेतेषामष्टकेषु च।
समुद्रवापीकूपानां तटाकानां ह्रदस्य च ॥ 391 ॥

मूलम् - 391

विनिक्षिपेन्मलयजमेतेषामष्टकेषु च।
समुद्रवापीकूपानां तटाकानां ह्रदस्य च ॥ 391 ॥

विश्वास-प्रस्तुतिः - 392

वृष्टीनदीहिमानां च तोयानि प्रतिपादयेत्।
वारुणे मध्यमे कुम्भे एकैकं शेषमध्यमे ॥ 392 ॥

मूलम् - 392

वृष्टीनदीहिमानां च तोयानि प्रतिपादयेत्।
वारुणे मध्यमे कुम्भे एकैकं शेषमध्यमे ॥ 392 ॥

विश्वास-प्रस्तुतिः - 393

शेषेषु चाष्टवर्ग्येषु शुद्धोदानि विनिक्षिपेत्।
यवगोधूमकब्रीहिशालिमुद्गप्रियङ्‌गुकान् ॥ 393 ॥

मूलम् - 393

शेषेषु चाष्टवर्ग्येषु शुद्धोदानि विनिक्षिपेत्।
यवगोधूमकब्रीहिशालिमुद्गप्रियङ्‌गुकान् ॥ 393 ॥

विश्वास-प्रस्तुतिः - 394

माषनीवारकौ वापि नवके मध्यमे घटे।
शेषेषु धान्यमेकैकं मद्यकुम्भेषु च क्रमात् ॥ 394 ॥

मूलम् - 394

माषनीवारकौ वापि नवके मध्यमे घटे।
शेषेषु धान्यमेकैकं मद्यकुम्भेषु च क्रमात् ॥ 394 ॥

विश्वास-प्रस्तुतिः - 395

अष्टकेषु च सिद्धानि तोयानि प्रतिपादयेत्।
आग्नेयैकोनपञ्चाशन्नवके पूरयेद्‌घृतम् ॥ 395 ॥

मूलम् - 395

अष्टकेषु च सिद्धानि तोयानि प्रतिपादयेत्।
आग्नेयैकोनपञ्चाशन्नवके पूरयेद्‌घृतम् ॥ 395 ॥

विश्वास-प्रस्तुतिः - 396

षट्‌केष्वैन्द्रादियोगेन गोमूत्रं गोमयं तथा।
क्षीरं दधि विनिक्षिप्य कोणेषूष्णोदकं न्यसेत् ॥ 396 ॥

मूलम् - 396

षट्‌केष्वैन्द्रादियोगेन गोमूत्रं गोमयं तथा।
क्षीरं दधि विनिक्षिप्य कोणेषूष्णोदकं न्यसेत् ॥ 396 ॥

विश्वास-प्रस्तुतिः - 397

नैर्ऋते मध्यनवके तैलं विन्यस्य तद्बषिः।
शेषेषु चत्वारिंशत्सु कलशेषु गुलोदकम् ॥ 397 ॥

मूलम् - 397

नैर्ऋते मध्यनवके तैलं विन्यस्य तद्बषिः।
शेषेषु चत्वारिंशत्सु कलशेषु गुलोदकम् ॥ 397 ॥

विश्वास-प्रस्तुतिः - 398

वायव्यनवके मध्ये न्यसेत् तैलं तु सार्षपम्।
कलशेषु च शेषेषु विन्यसेदैक्षवं रसम् ॥ 398 ॥

मूलम् - 398

वायव्यनवके मध्ये न्यसेत् तैलं तु सार्षपम्।
कलशेषु च शेषेषु विन्यसेदैक्षवं रसम् ॥ 398 ॥

विश्वास-प्रस्तुतिः - 399

ईशानैकोनपञ्चाशन्नवके मधु विन्यसेत्।
शेषेषु नालिकेराम्भः तत्क्षीरं वापि विन्यसेत् ॥ 399 ॥

मूलम् - 399

ईशानैकोनपञ्चाशन्नवके मधु विन्यसेत्।
शेषेषु नालिकेराम्भः तत्क्षीरं वापि विन्यसेत् ॥ 399 ॥

विश्वास-प्रस्तुतिः - 400

ऐन्द्रादिपञ्चविंशत्सु प्रथमे मध्यमे घटे।
क्षेत्रतीर्थाब्धिशैलेभ्यः सूकराख्यबिलाद्गजात् ॥ 400 ॥

मूलम् - 400

ऐन्द्रादिपञ्चविंशत्सु प्रथमे मध्यमे घटे।
क्षेत्रतीर्थाब्धिशैलेभ्यः सूकराख्यबिलाद्गजात् ॥ 400 ॥

विश्वास-प्रस्तुतिः - 401

वल्मीकाद्वृषशृङ्गाच्च मृदमादाय पूरयेत्।
शेषेष्वष्टसु चैकैकं, षोडसे गन्धवारि च ॥ 401 ॥

मूलम् - 401

वल्मीकाद्वृषशृङ्गाच्च मृदमादाय पूरयेत्।
शेषेष्वष्टसु चैकैकं, षोडसे गन्धवारि च ॥ 401 ॥

विश्वास-प्रस्तुतिः - 402

सहदेवी वचा चैव शतमूली शतावरी।
कुमारी च गलूची च सिंही व्याग्री तथैव च ॥ 402 ॥

मूलम् - 402

सहदेवी वचा चैव शतमूली शतावरी।
कुमारी च गलूची च सिंही व्याग्री तथैव च ॥ 402 ॥

विश्वास-प्रस्तुतिः - 403

द्वितीये मध्यमे कुम्भे विन्यस्य, बहिरष्टके।
एकैकं प्राक्‌क्रमेणैव, षोडशे पूर्ववद्भवेत् ॥ 403 ॥

मूलम् - 403

द्वितीये मध्यमे कुम्भे विन्यस्य, बहिरष्टके।
एकैकं प्राक्‌क्रमेणैव, षोडशे पूर्ववद्भवेत् ॥ 403 ॥

विश्वास-प्रस्तुतिः - 404

न्यग्रोधोदुम्बराश्वत्थजम्बूबिल्वपलाशजैः।
शिरीषमधुकोत्थैश्च त्वग्रसैर्मध्यमं घटम् ॥ 404 ॥

मूलम् - 404

न्यग्रोधोदुम्बराश्वत्थजम्बूबिल्वपलाशजैः।
शिरीषमधुकोत्थैश्च त्वग्रसैर्मध्यमं घटम् ॥ 404 ॥

विश्वास-प्रस्तुतिः - 405

तृतीये पूरयित्वाष्टौ व्यस्तैः षोडशपूर्ववत्।
पलाशबिल्ववकुलकदम्बाम्रशिरीषजान् ॥ 405 ॥

मूलम् - 405

तृतीये पूरयित्वाष्टौ व्यस्तैः षोडशपूर्ववत्।
पलाशबिल्ववकुलकदम्बाम्रशिरीषजान् ॥ 405 ॥

विश्वास-प्रस्तुतिः - 406

न्यग्रोधाश्वत्थजान् क्षिप्त्वा चतुर्थे पल्लवान् घटे।
मध्यमेऽष्टासु च व्यस्तान् प्राग्वत् षोडश विन्यसेत् ॥ 406 ॥

मूलम् - 406

विश्वास-प्रस्तुतिः - 407

मल्लिकाजातिवकुलनन्द्यावर्तप्रियङ्‌गुजैः।
पझचम्पककुन्दैश्च पुष्पैरापूर्य मध्यमम् ॥ 407 ॥

मूलम् - 407

मल्लिकाजातिवकुलनन्द्यावर्तप्रियङ्‌गुजैः।
पझचम्पककुन्दैश्च पुष्पैरापूर्य मध्यमम् ॥ 407 ॥

विश्वास-प्रस्तुतिः - 408

कलशं पञ्चमव्यस्तैरष्टौ शेषांस्तु पूर्ववत्।
सिद्धार्थं सर्षपं माषं रोचनां गोसमुद्भवाम् ॥ 408 ॥

मूलम् - 408

कलशं पञ्चमव्यस्तैरष्टौ शेषांस्तु पूर्ववत्।
सिद्धार्थं सर्षपं माषं रोचनां गोसमुद्भवाम् ॥ 408 ॥

विश्वास-प्रस्तुतिः - 409

इन्द्रयवं वेणुयवं शमीश्यामाकबीजके।
षष्ठे मध्यस्थिते कुम्भे न्यसेदष्टासु च क्रमात् ॥ 409 ॥

मूलम् - 409

इन्द्रयवं वेणुयवं शमीश्यामाकबीजके।
षष्ठे मध्यस्थिते कुम्भे न्यसेदष्टासु च क्रमात् ॥ 409 ॥

विश्वास-प्रस्तुतिः - 410

व्यस्तानि तानि द्रव्याणि प्राग्वत् शेषांस्तु षोडश।
तिलं वनतिलं चैव जीरकं कृष्णजीरकम् ॥ 410 ॥

मूलम् - 410

व्यस्तानि तानि द्रव्याणि प्राग्वत् शेषांस्तु षोडश।
तिलं वनतिलं चैव जीरकं कृष्णजीरकम् ॥ 410 ॥

विश्वास-प्रस्तुतिः - 411

अतसीं शतपुष्पां च कुठारच्छिन्नमेव च।
ऋषिबीजं च विन्यस्य मध्यकुम्भे तु सप्तमे ॥ 411 ॥

मूलम् - 411

अतसीं शतपुष्पां च कुठारच्छिन्नमेव च।
ऋषिबीजं च विन्यस्य मध्यकुम्भे तु सप्तमे ॥ 411 ॥

विश्वास-प्रस्तुतिः - 412

एकैकं बहिरष्टासु प्राग्वत् षोडशसु द्विज!।
षष्टिश्यामाकशालीनां नीवारस्य च तण्डुलम् ॥ 412 ॥

मूलम् - 412

एकैकं बहिरष्टासु प्राग्वत् षोडशसु द्विज!।
षष्टिश्यामाकशालीनां नीवारस्य च तण्डुलम् ॥ 412 ॥

विश्वास-प्रस्तुतिः - 413

दूर्वाकुशेन्द्रवल्लीनामङ्‌कुरान् पिप्पलस्य च।
न्यसेन्मध्येष्टमेऽष्टासु व्यस्तानन्येषु पूर्ववत् ॥ 413 ॥

मूलम् - 413

दूर्वाकुशेन्द्रवल्लीनामङ्‌कुरान् पिप्पलस्य च।
न्यसेन्मध्येष्टमेऽष्टासु व्यस्तानन्येषु पूर्ववत् ॥ 413 ॥

विश्वास-प्रस्तुतिः - 414

कुशोदीच्येक्षुकाशानामुशीरशरपुङ्खयोः।
अगर्वपामा र्गयोश्च मूलानि नवमे न्यसेत् ॥ 414 ॥

मूलम् - 414

कुशोदीच्येक्षुकाशानामुशीरशरपुङ्खयोः।
अगर्वपामा र्गयोश्च मूलानि नवमे न्यसेत् ॥ 414 ॥

विश्वास-प्रस्तुतिः - 415

कुम्भे मध्यस्थितेः ऽष्टासु व्यस्तानन्येषु पूर्ववत्।
तुलस्याः कृष्णतुलस्याश्च ग्रन्थिवेणोरपिच्छदाः ॥ 415 ॥

मूलम् - 415

कुम्भे मध्यस्थितेः ऽष्टासु व्यस्तानन्येषु पूर्ववत्।
तुलस्याः कृष्णतुलस्याश्च ग्रन्थिवेणोरपिच्छदाः ॥ 415 ॥

विश्वास-प्रस्तुतिः - 416

भृङ्गराजस्य बिल्वस्य शम्याः केतकि, जातयोः।
दशमे मध्यमेऽष्टासु व्यस्तान् शेषेषु पूर्ववत् ॥ 416 ॥

मूलम् - 416

भृङ्गराजस्य बिल्वस्य शम्याः केतकि, जातयोः।
दशमे मध्यमेऽष्टासु व्यस्तान् शेषेषु पूर्ववत् ॥ 416 ॥

विश्वास-प्रस्तुतिः - 417

मुस्तानगरमुस्ताख्यकन्दे कुवलयस्य च।
कुमुदोत्पलयोश्चापि शीतलीयककन्दकम् ॥ 417 ॥

मूलम् - 417

मुस्तानगरमुस्ताख्यकन्दे कुवलयस्य च।
कुमुदोत्पलयोश्चापि शीतलीयककन्दकम् ॥ 417 ॥

विश्वास-प्रस्तुतिः - 418

कल्हारस्य कशेरोश्च कन्दे एकादशे क्षिपेत्।
मध्ये कुम्मेषु चैतानि क्रमादन्येषु पूर्ववत् ॥ 418 ॥

मूलम् - 418

कल्हारस्य कशेरोश्च कन्दे एकादशे क्षिपेत्।
मध्ये कुम्मेषु चैतानि क्रमादन्येषु पूर्ववत् ॥ 418 ॥

विश्वास-प्रस्तुतिः - 419

मुद्गमाषकनिष्पावशिम्बव्रीहियवाङ्‌कुरान्।
आढकानां कुलुत्थानामङ्‌कुरान् द्वादशे क्षिपेत् ॥ 419 ॥

मूलम् - 419

मुद्गमाषकनिष्पावशिम्बव्रीहियवाङ्‌कुरान्।
आढकानां कुलुत्थानामङ्‌कुरान् द्वादशे क्षिपेत् ॥ 419 ॥

विश्वास-प्रस्तुतिः - 420

मध्यकुम्भेऽष्टके व्यस्तान् प्राग्वत् षोडशसु द्विज!।
शङ्खापुष्पी सदाभद्रा विष्णुक्रान्त्येकफझयोः ॥ 420 ॥

मूलम् - 420

मध्यकुम्भेऽष्टके व्यस्तान् प्राग्वत् षोडशसु द्विज!।
शङ्खापुष्पी सदाभद्रा विष्णुक्रान्त्येकफझयोः ॥ 420 ॥

विश्वास-प्रस्तुतिः - 421

बलायाः खरमञ्जर्याः सहायाश्च तथैव च।
अङ्‌कुरान् सहदेव्याश्च यध्ये कुम्भे त्रयोदशे ॥ 421 ॥

मूलम् - 421

बलायाः खरमञ्जर्याः सहायाश्च तथैव च।
अङ्‌कुरान् सहदेव्याश्च यध्ये कुम्भे त्रयोदशे ॥ 421 ॥

विश्वास-प्रस्तुतिः - 422

विन्यस्याष्टासु च व्यस्तानन्येषु प्राग्वदाचरेत्।
श्वेतार्कं ब्रह्नदण्डीं च तथा ब्रह्नसुवर्चलाम् ॥ 422 ॥

मूलम् - 422

विन्यस्याष्टासु च व्यस्तानन्येषु प्राग्वदाचरेत्।
श्वेतार्कं ब्रह्नदण्डीं च तथा ब्रह्नसुवर्चलाम् ॥ 422 ॥

विश्वास-प्रस्तुतिः - 423

सरक्तां च विरक्तां च पृश्निपर्णीं स्थिरां तथा।
परण्डं चापि विन्यस्य मध्ये कुम्भे चतुर्दशे ॥ 423 ॥

मूलम् - 423

सरक्तां च विरक्तां च पृश्निपर्णीं स्थिरां तथा।
परण्डं चापि विन्यस्य मध्ये कुम्भे चतुर्दशे ॥ 423 ॥

विश्वास-प्रस्तुतिः - 424

अष्टासु तानि व्यस्तानि प्राग्वदन्येषु विन्यसेत्।
सुरभीं पझकिञ्जल्कं नागकेसरमेव च ॥ 424 ॥

मूलम् - 424

अष्टासु तानि व्यस्तानि प्राग्वदन्येषु विन्यसेत्।
सुरभीं पझकिञ्जल्कं नागकेसरमेव च ॥ 424 ॥

विश्वास-प्रस्तुतिः - 425

पत्रमेलात्वचं चैव लतां कस्तूरिकां तथा।
जातीफलं च वै पञ्च दशमै मध्यसंस्थिते ॥ 425 ॥

मूलम् - 425

पत्रमेलात्वचं चैव लतां कस्तूरिकां तथा।
जातीफलं च वै पञ्च दशमै मध्यसंस्थिते ॥ 425 ॥

विश्वास-प्रस्तुतिः - 426

कुम्भे न्यस्याष्टके व्यस्तं शेषं पूर्ववदाचरेत्।
सुवर्णं रजतं ताभ्रमायसं त्रपु सीसकम् ॥ 426 ॥

मूलम् - 426

कुम्भे न्यस्याष्टके व्यस्तं शेषं पूर्ववदाचरेत्।
सुवर्णं रजतं ताभ्रमायसं त्रपु सीसकम् ॥ 426 ॥

विश्वास-प्रस्तुतिः - 427

आरं कांस्यं च विन्यस्य षोडशे मध्यसंस्थिते।
कलशेऽष्टासु च व्यस्तं प्राग्वत् षोडशसु द्विज! ॥ 427 ॥

मूलम् - 427

आरं कांस्यं च विन्यस्य षोडशे मध्यसंस्थिते।
कलशेऽष्टासु च व्यस्तं प्राग्वत् षोडशसु द्विज! ॥ 427 ॥

विश्वास-प्रस्तुतिः - 428

एवं द्रव्याणि विन्यस्य क्रमेण सुसमाहितः।
तत आग्नेयकोणे तु देवस्याराधनार्थतः ॥ 428 ॥

मूलम् - 428

एवं द्रव्याणि विन्यस्य क्रमेण सुसमाहितः।
तत आग्नेयकोणे तु देवस्याराधनार्थतः ॥ 428 ॥

विश्वास-प्रस्तुतिः - 429

अर्घ्यादेर्द्रव्यनिचयं मधुपर्कं च विन्यसेत्।
ततो निर्ऋतिकोणे तु सरिद्राशालिपिष्टके ॥ 429 ॥

मूलम् - 429

अर्घ्यादेर्द्रव्यनिचयं मधुपर्कं च विन्यसेत्।
ततो निर्ऋतिकोणे तु सरिद्राशालिपिष्टके ॥ 429 ॥

विश्वास-प्रस्तुतिः - 430

दूर्वामश्वत्थपत्रं च सिद्धार्थं च तथाक्षतम्।
माल्यानि पूर्वकुम्भं च न्यसेन्नीराजनार्थतः ॥ 430 ॥

मूलम् - 430

दूर्वामश्वत्थपत्रं च सिद्धार्थं च तथाक्षतम्।
माल्यानि पूर्वकुम्भं च न्यसेन्नीराजनार्थतः ॥ 430 ॥

विश्वास-प्रस्तुतिः - 431

तथाचोद्वर्तनार्थं च चूर्णं गोधूमशालिजम्।
रजनीचूर्णसंमिश्रमीषत् पझकभावितम् ॥ 431 ॥

मूलम् - 431

तथाचोद्वर्तनार्थं च चूर्णं गोधूमशालिजम्।
रजनीचूर्णसंमिश्रमीषत् पझकभावितम् ॥ 431 ॥

विश्वास-प्रस्तुतिः - 432

चमषीं च खलिं चैव तथा च मुनिपुङ्गव!।
चन्दनं मुखलेपार्थं घृष्टकर्पूरभावितम् ॥ 432 ॥

मूलम् - 432

चमषीं च खलिं चैव तथा च मुनिपुङ्गव!।
चन्दनं मुखलेपार्थं घृष्टकर्पूरभावितम् ॥ 432 ॥

विश्वास-प्रस्तुतिः - 433

चम्पकैर्मुरमांसीभ्यां हरिबेरैः समन्वितम्।
पिष्टमामलकं चैव शिरः स्नानार्थकं न्यसेत् ॥ 433 ॥

मूलम् - 433

चम्पकैर्मुरमांसीभ्यां हरिबेरैः समन्वितम्।
पिष्टमामलकं चैव शिरः स्नानार्थकं न्यसेत् ॥ 433 ॥

विश्वास-प्रस्तुतिः - 434

पृथक्‌ पृथक्‌ च पात्रेषु ततो वायव्यकोणके।
धौतवस्त्रं करण्डं च पुष्पमाल्यादिभाजनम् ॥ 434 ॥

मूलम् - 434

पृथक्‌ पृथक्‌ च पात्रेषु ततो वायव्यकोणके।
धौतवस्त्रं करण्डं च पुष्पमाल्यादिभाजनम् ॥ 434 ॥

विश्वास-प्रस्तुतिः - 435

तत ईशानकोणे तु शलाकान्यायसानि तु।
आयसा गुलिकाश्चैव तथा सन्दंशनं द्विज! ॥ 435 ॥

मूलम् - 435

तत ईशानकोणे तु शलाकान्यायसानि तु।
आयसा गुलिकाश्चैव तथा सन्दंशनं द्विज! ॥ 435 ॥

विश्वास-प्रस्तुतिः - 436

अन्यद्यदुपयोगि स्यात् स्थापयेत् तद्यथारुचि।
एतदुक्तं समस्तं वा यथाभिमतकोणगम् ॥ 436 ॥

मूलम् - 436

अन्यद्यदुपयोगि स्यात् स्थापयेत् तद्यथारुचि।
एतदुक्तं समस्तं वा यथाभिमतकोणगम् ॥ 436 ॥

विश्वास-प्रस्तुतिः - 437

मध्यैकाशीतिमध्यस्थनवके मध्यसंस्थिते।
कुम्भे यजेद्वासुदेवं ततः प्रागादियोगतः ॥ 437 ॥

मूलम् - 437

मध्यैकाशीतिमध्यस्थनवके मध्यसंस्थिते।
कुम्भे यजेद्वासुदेवं ततः प्रागादियोगतः ॥ 437 ॥

विश्वास-प्रस्तुतिः - 438

दिक्‌स्थानां नवकानां तु मध्येषु प्रभवक्रमात्।
चतुरो वासुदेवादीन् विदिक्‌स्थानां तु मध्यतः ॥ 438 ॥

मूलम् - 438

दिक्‌स्थानां नवकानां तु मध्येषु प्रभवक्रमात्।
चतुरो वासुदेवादीन् विदिक्‌स्थानां तु मध्यतः ॥ 438 ॥

विश्वास-प्रस्तुतिः - 439

ईशादिवह्निपर्यन्तं तानेवाप्यययोगतः।
मध्यं शुद्धद्ककुम्मेषु सत्यं सर्वेषु पूजयेत् ॥ 439 ॥

मूलम् - 439

ईशादिवह्निपर्यन्तं तानेवाप्यययोगतः।
मध्यं शुद्धद्ककुम्मेषु सत्यं सर्वेषु पूजयेत् ॥ 439 ॥

विश्वास-प्रस्तुतिः - 440

बहिर्दिङ्‌नवकानां तु शुद्धोदेषु च दिक्‌क्रमात्।
सुपर्णं गरुडं चैव तार्क्ष्यं तु विहगेश्वरम् ॥ 440 ॥

मूलम् - 440

बहिर्दिङ्‌नवकानां तु शुद्धोदेषु च दिक्‌क्रमात्।
सुपर्णं गरुडं चैव तार्क्ष्यं तु विहगेश्वरम् ॥ 440 ॥

विश्वास-प्रस्तुतिः - 441

वह्न्यादीशानपर्यन्तं नवकानां चतुष्टये।
शुद्धोदेषु च तानेव क्रमेण परिपूजयेत् ॥ 441 ॥

मूलम् - 441

वह्न्यादीशानपर्यन्तं नवकानां चतुष्टये।
शुद्धोदेषु च तानेव क्रमेण परिपूजयेत् ॥ 441 ॥

विश्वास-प्रस्तुतिः - 442

एकाशीतिषु दिक्‌स्थेषु पूर्वादिक्रमयोगतः।
मध्यकुम्भेषु षट्‌त्रिंसशत्संख्यातेषु यथाक्रमम् ॥ 442 ॥

मूलम् - 442

एकाशीतिषु दिक्‌स्थेषु पूर्वादिक्रमयोगतः।
मध्यकुम्भेषु षट्‌त्रिंसशत्संख्यातेषु यथाक्रमम् ॥ 442 ॥

विश्वास-प्रस्तुतिः - 443

पझनाभादयो विप्र! देवा वेदविदन्तिमाः।
पूज्या नवकयुक्त्या तु मध्यादिशानपश्चिमम् ॥ 443 ॥

मूलम् - 443

पझनाभादयो विप्र! देवा वेदविदन्तिमाः।
पूज्या नवकयुक्त्या तु मध्यादिशानपश्चिमम् ॥ 443 ॥

विश्वास-प्रस्तुतिः - 444

मध्ये शुद्धोदकुम्भेषु यजेत् कल्किकस्वरूपिणम्।
वहिर्नवकशुद्धोदकलशेषु यजेत् प्रभुम् ॥ 444 ॥

मूलम् - 444

मध्ये शुद्धोदकुम्भेषु यजेत् कल्किकस्वरूपिणम्।
वहिर्नवकशुद्धोदकलशेषु यजेत् प्रभुम् ॥ 444 ॥

विश्वास-प्रस्तुतिः - 445

पातालशयनाख्यं तु, पश्चादग्निदिगादितः।
चतुर्षु कोणेष्वेकोनपञ्चाशन्नवकेषु च ॥ 445 ॥

मूलम् - 445

पातालशयनाख्यं तु, पश्चादग्निदिगादितः।
चतुर्षु कोणेष्वेकोनपञ्चाशन्नवकेषु च ॥ 445 ॥

विश्वास-प्रस्तुतिः - 446

मध्येषु केशवादीनां क्रमात् त्रिकचतुष्टये।
आद्यान्, दिक्‌स्थेषु कुम्भेषु द्विदीयांस्तु चतुर्ष्वपि ॥ 446 ॥

मूलम् - 446

मध्येषु केशवादीनां क्रमात् त्रिकचतुष्टये।
आद्यान्, दिक्‌स्थेषु कुम्भेषु द्विदीयांस्तु चतुर्ष्वपि ॥ 446 ॥

विश्वास-प्रस्तुतिः - 447

विदिक्‌स्थेषु तृतीयांश्च षट्‌कं षोडशके क्रमात्।
चक्रादिवज्रपर्यन्तमस्त्रषोडशकं यजेत् ॥ 447 ॥

मूलम् - 447

विदिक्‌स्थेषु तृतीयांश्च षट्‌कं षोडशके क्रमात्।
चक्रादिवज्रपर्यन्तमस्त्रषोडशकं यजेत् ॥ 447 ॥

विश्वास-प्रस्तुतिः - 448

कोणस्थेषु चतुष्केषु न्यसेच्छक्तिं ततःपरम्।
ऐन्द्री दक्षिणतः पञ्चविंशतौ प्रथमे यजेत् ॥ 448 ॥

मूलम् - 448

कोणस्थेषु चतुष्केषु न्यसेच्छक्तिं ततःपरम्।
ऐन्द्री दक्षिणतः पञ्चविंशतौ प्रथमे यजेत् ॥ 448 ॥

विश्वास-प्रस्तुतिः - 449

सर्वसम्पत्प्रदां लक्ष्मीं मध्यकुम्भेषु तद्बहि।
अष्टास पुष्टि तद्बाह्य कान्ति षोडशके द्विज! ॥ 449 ॥

मूलम् - 449

सर्वसम्पत्प्रदां लक्ष्मीं मध्यकुम्भेषु तद्बहि।
अष्टास पुष्टि तद्बाह्य कान्ति षोडशके द्विज! ॥ 449 ॥

विश्वास-प्रस्तुतिः - 450

एमाद्येषु चान्येषु पञ्चविंशतिषु क्राम।
प्रभादीना च शक्तीनां त्रिय् त्रिययं यजेत् ॥ 450 ॥

मूलम् - 450

एमाद्येषु चान्येषु पञ्चविंशतिषु क्राम।
प्रभादीना च शक्तीनां त्रिय् त्रिययं यजेत् ॥ 450 ॥

विश्वास-प्रस्तुतिः - 451

तत्रापि पञ्चदशमे बहिः षोडशके न्यसेत्।
किरीट, मन्ति मे पञ्चविंशतौ त्रितयं यजेत् ॥ 451 ॥

मूलम् - 451

तत्रापि पञ्चदशमे बहिः षोडशके न्यसेत्।
किरीट, मन्ति मे पञ्चविंशतौ त्रितयं यजेत् ॥ 451 ॥

विश्वास-प्रस्तुतिः - 452

श्रीवत्सकौस्तुभं चापि वनमालां तथैव च।
वासुदेवादिमन्त्रैस्तु वनमालान्तिमैः क्रमात् ॥ 452 ॥

मूलम् - 452

श्रीवत्सकौस्तुभं चापि वनमालां तथैव च।
वासुदेवादिमन्त्रैस्तु वनमालान्तिमैः क्रमात् ॥ 452 ॥

विश्वास-प्रस्तुतिः - 453

अष्टाविंशतिसंख्यं तु हुत्वाज्यं तु (वा) यथारुचि।
पूर्णान् दत्वा ततः कुम्भान् संपातविधिना स्तृशेत् ॥ 453 ॥

मूलम् - 453

अष्टाविंशतिसंख्यं तु हुत्वाज्यं तु (वा) यथारुचि।
पूर्णान् दत्वा ततः कुम्भान् संपातविधिना स्तृशेत् ॥ 453 ॥

विश्वास-प्रस्तुतिः - 454

पिधाय चक्रिकाभिस्तु सर्वानुक्तक्रमेण तु।
वासोभिश्छादयेत् पश्चान्नूतनैस्तु पऋथक् पृथक् ॥ 454 ॥

मूलम् - 454

पिधाय चक्रिकाभिस्तु सर्वानुक्तक्रमेण तु।
वासोभिश्छादयेत् पश्चान्नूतनैस्तु पऋथक् पृथक् ॥ 454 ॥

विश्वास-प्रस्तुतिः - 455

भूयः पूर्णाहुतिं दत्वा दिक्षु भूतबलिं हरेत्।
मृदादिसर्वरत्नान्तमुद्धारक्रम इष्यते ॥ 455 ॥

मूलम् - 455

भूयः पूर्णाहुतिं दत्वा दिक्षु भूतबलिं हरेत्।
मृदादिसर्वरत्नान्तमुद्धारक्रम इष्यते ॥ 455 ॥

विश्वास-प्रस्तुतिः - 456

पूर्वं विष्णोर्नुकमिति मन्त्रेण च महामते!।
पूर्वादीशानपर्यन्तं मृत्कुम्भैरभिषिच्य च ॥ 456 ॥

मूलम् - 456

पूर्वं विष्णोर्नुकमिति मन्त्रेण च महामते!।
पूर्वादीशानपर्यन्तं मृत्कुम्भैरभिषिच्य च ॥ 456 ॥

विश्वास-प्रस्तुतिः - 457

सर्वमृत्कलशेनैव मध्यस्थेन ततो बहिः।
कुम्भैः षोडशभिर्विप्र! प्रागादिक्रमयोगतः ॥ 457 ॥

मूलम् - 457

सर्वमृत्कलशेनैव मध्यस्थेन ततो बहिः।
कुम्भैः षोडशभिर्विप्र! प्रागादिक्रमयोगतः ॥ 457 ॥

विश्वास-प्रस्तुतिः - 458

एवमेव क्रमः सर्वपञ्चविंशतिषु द्विज!।
“प्रतद्विष्णुरि” त्यनेन मूलाद्भिरभिषेचयेत् ॥ 458 ॥

मूलम् - 458

एवमेव क्रमः सर्वपञ्चविंशतिषु द्विज!।
“प्रतद्विष्णुरि” त्यनेन मूलाद्भिरभिषेचयेत् ॥ 458 ॥

विश्वास-प्रस्तुतिः - 459

“प्रतत्ते विष्णुवास” इति कषायैरन्विताम्बुभिः।
यस्य “त्रिपूर्णे” त्येतेन कलशैः पल्लवान्वितैः ॥ 459 ॥

मूलम् - 459

“प्रतत्ते विष्णुवास” इति कषायैरन्विताम्बुभिः।
यस्य “त्रिपूर्णे” त्येतेन कलशैः पल्लवान्वितैः ॥ 459 ॥

विश्वास-प्रस्तुतिः - 460

“तदस्ये” ति च मन्त्रेण पुष्पैरापूरितैर्घटैः।
“तावा"मिति च मन्त्रेण सिद्धार्थादिसमन्वितैः ॥ 460 ॥

मूलम् - 460

“तदस्ये” ति च मन्त्रेण पुष्पैरापूरितैर्घटैः।
“तावा"मिति च मन्त्रेण सिद्धार्थादिसमन्वितैः ॥ 460 ॥

विश्वास-प्रस्तुतिः - 461

“प्रवः पान्तमि” त्येतेन तिलाद्यन्वितवारिभिः।
“परो मात्रे” तिमन्त्रेण षष्ट्यादिद्रव्यवारिभिः ॥ 461 ॥

मूलम् - 461

“प्रवः पान्तमि” त्येतेन तिलाद्यन्वितवारिभिः।
“परो मात्रे” तिमन्त्रेण षष्ट्यादिद्रव्यवारिभिः ॥ 461 ॥

विश्वास-प्रस्तुतिः - 462

“न ते विष्णो” रित्यनेन कुशमूलान्विताम्बुभिः।
“इरावती” ति मन्त्रेण तुलस्यादिजलैस्ततः ॥ 462 ॥

मूलम् - 462

“न ते विष्णो” रित्यनेन कुशमूलान्विताम्बुभिः।
“इरावती” ति मन्त्रेण तुलस्यादिजलैस्ततः ॥ 462 ॥

विश्वास-प्रस्तुतिः - 463

“अतो देवे” ति मन्त्रेण मुस्ताकन्दादिसंयुतैः।
“इदं विष्णुरि” त्यनेन मुद्गाद्यङ्‌कुरपूरितैः ॥ 463 ॥

मूलम् - 463

“अतो देवे” ति मन्त्रेण मुस्ताकन्दादिसंयुतैः।
“इदं विष्णुरि” त्यनेन मुद्गाद्यङ्‌कुरपूरितैः ॥ 463 ॥

विश्वास-प्रस्तुतिः - 464

“त्रीणि पदे” ति मन्त्रेण शङ्खपुष्पादिवारिभिः।
“विष्णोः कर्माणी” त्यनेन श्वेतार्काद्यम्बुभिस्ततः ॥ 464 ॥

मूलम् - 464

“त्रीणि पदे” ति मन्त्रेण शङ्खपुष्पादिवारिभिः।
“विष्णोः कर्माणी” त्यनेन श्वेतार्काद्यम्बुभिस्ततः ॥ 464 ॥

विश्वास-प्रस्तुतिः - 465

“तद्विष्णो” रिति मन्त्रेण सुरभ्यादिजलैस्ततः।
“तद्विप्रास” इत्यनेन स्नापयेल्लोहवारिभिः ॥ 465 ॥

मूलम् - 465

“तद्विष्णो” रिति मन्त्रेण सुरभ्यादिजलैस्ततः।
“तद्विप्रास” इत्यनेन स्नापयेल्लोहवारिभिः ॥ 465 ॥

विश्वास-प्रस्तुतिः - 466

प्रागेकाशीतिकलशैः स्नापयेत् क्रमयोगतः।
पूर्वादिमध्यपर्यन्तनवके स्नपनक्रमः ॥ 466 ॥

मूलम् - 466

प्रागेकाशीतिकलशैः स्नापयेत् क्रमयोगतः।
पूर्वादिमध्यपर्यन्तनवके स्नपनक्रमः ॥ 466 ॥

विश्वास-प्रस्तुतिः - 467

ऐन्द्रेण नवकेनादावुरुयज्ञाय इत्यृचा।
“इन्द्राविष्णू दृंहिते” ति वह्निदिक्‌संस्थितेन च ॥ 467 ॥

मूलम् - 467

ऐन्द्रेण नवकेनादावुरुयज्ञाय इत्यृचा।
“इन्द्राविष्णू दृंहिते” ति वह्निदिक्‌संस्थितेन च ॥ 467 ॥

विश्वास-प्रस्तुतिः - 468

“इयं मनीषे” ति याम्येन नवकेनाभिषेचयेत्।
“वषट्‌ ते विष्णुवासे” ति नैर्ऋतेन ततः परम् ॥ 468 ॥

मूलम् - 468

“इयं मनीषे” ति याम्येन नवकेनाभिषेचयेत्।
“वषट्‌ ते विष्णुवासे” ति नैर्ऋतेन ततः परम् ॥ 468 ॥

विश्वास-प्रस्तुतिः - 469

" तिस्रोवाच” इत्यनेन वारुणेन महामते!।
“योवर्ध ओषधि” मन्त्रेण वायव्यनवकेन तु ॥ 469 ॥

मूलम् - 469

" तिस्रोवाच” इत्यनेन वारुणेन महामते!।
“योवर्ध ओषधि” मन्त्रेण वायव्यनवकेन तु ॥ 469 ॥

विश्वास-प्रस्तुतिः - 470

“स्तरीरत्वदभवती” ति सौम्येन नवकेन तु।
ईशानदिक्‌स्थितेनैव यस्मिन् विश्वेति चेत्यृचा ॥ 470 ॥

मूलम् - 470

“स्तरीरत्वदभवती” ति सौम्येन नवकेन तु।
ईशानदिक्‌स्थितेनैव यस्मिन् विश्वेति चेत्यृचा ॥ 470 ॥

विश्वास-प्रस्तुतिः - 471

" इदं वचः पर्जन्याये" ति स्नापयेन्मघ्यमेन तु।
याम्येकाशीतिकलशैस्ततः संस्नापयेद्विभुम् ॥ 471 ॥

मूलम् - 471

" इदं वचः पर्जन्याये" ति स्नापयेन्मघ्यमेन तु।
याम्येकाशीतिकलशैस्ततः संस्नापयेद्विभुम् ॥ 471 ॥

विश्वास-प्रस्तुतिः - 472

“सहस्रशीर्षं देव” मिति मन्त्रपुरस्सरैः।
“सन्ततं सिराभि” रितिपर्यन्तैश्च क्रमेण तु ॥ 472॥

मूलम् - 472

“सहस्रशीर्षं देव” मिति मन्त्रपुरस्सरैः।
“सन्ततं सिराभि” रितिपर्यन्तैश्च क्रमेण तु ॥ 472॥

विश्वास-प्रस्तुतिः - 473

अष्टमन्त्रैर्मुनिश्रेष्ठ! प्रागादिनवकाष्टकैः।
एतैरेव समस्तैस्तु स्नापयेन्मध्यमेन तु ॥ 473 ॥

मूलम् - 473

अष्टमन्त्रैर्मुनिश्रेष्ठ! प्रागादिनवकाष्टकैः।
एतैरेव समस्तैस्तु स्नापयेन्मध्यमेन तु ॥ 473 ॥

विश्वास-प्रस्तुतिः - 474

एकाशीत्या तु वारुण्या कलशैरभिषेचयेत्।
“समुद्रज्येष्ठा” इत्यनेन पूर्वादिनवकेन तु ॥ 474 ॥

मूलम् - 474

एकाशीत्या तु वारुण्या कलशैरभिषेचयेत्।
“समुद्रज्येष्ठा” इत्यनेन पूर्वादिनवकेन तु ॥ 474 ॥

विश्वास-प्रस्तुतिः - 475

वापीकूपतटाकाब्धिर्ह्रदवृष्टिसमुद्भवैः।
“या आपो दिव्या” इति मन्त्रेणैवाभिषेचयेत् ॥ 475 ॥

मूलम् - 475

वापीकूपतटाकाब्धिर्ह्रदवृष्टिसमुद्भवैः।
“या आपो दिव्या” इति मन्त्रेणैवाभिषेचयेत् ॥ 475 ॥

विश्वास-प्रस्तुतिः - 476

नद्यम्भसा स्नापनीत “यासां राजे” त्यृचा ततः।
“यासु राजे” ति मन्त्रेण हिमतोयेन वै ततः ॥ 476 ॥

मूलम् - 476

नद्यम्भसा स्नापनीत “यासां राजे” त्यृचा ततः।
“यासु राजे” ति मन्त्रेण हिमतोयेन वै ततः ॥ 476 ॥

विश्वास-प्रस्तुतिः - 477

समुद्रज्येष्ठपूर्वैस्तु चतुर्भिर्मध्यमेन तु।
ततोऽभिषिञ्चेत् सौम्यैकाशीतिकुम्भैः क्रमेण तु ॥ 477 ॥

मूलम् - 477

समुद्रज्येष्ठपूर्वैस्तु चतुर्भिर्मध्यमेन तु।
ततोऽभिषिञ्चेत् सौम्यैकाशीतिकुम्भैः क्रमेण तु ॥ 477 ॥

विश्वास-प्रस्तुतिः - 478

“यदिमा” इति मन्त्रेण शाक्रेण नवकेन तु।
“यस्यौषधि” रित्येतेन वह्निदिक्‌संस्थितेन तु ॥ 478 ॥

मूलम् - 478

“यदिमा” इति मन्त्रेण शाक्रेण नवकेन तु।
“यस्यौषधि” रित्येतेन वह्निदिक्‌संस्थितेन तु ॥ 478 ॥

विश्वास-प्रस्तुतिः - 479

“साकं यक्ष्मे” ति याम्येन “अन्यावो” इति नैर्ऋते।
“याः फलिनी” ति मन्त्रेण वारुण्यां नवकेन तु ॥ 479 ॥

मूलम् - 479

“साकं यक्ष्मे” ति याम्येन “अन्यावो” इति नैर्ऋते।
“याः फलिनी” ति मन्त्रेण वारुण्यां नवकेन तु ॥ 479 ॥

विश्वास-प्रस्तुतिः - 480

“मुञ्चतु मा शपय्या” दिति वायुदिङ्‌नवकेन तु।
“आपः पुनन्त्वित्य” नेन सोमदिक्‌संस्थितेन तु ॥ 480 ॥

मूलम् - 480

“मुञ्चतु मा शपय्या” दिति वायुदिङ्‌नवकेन तु।
“आपः पुनन्त्वित्य” नेन सोमदिक्‌संस्थितेन तु ॥ 480 ॥

विश्वास-प्रस्तुतिः - 481

“ओषधीः सोमराज्ञी” ति मन्त्रैणैशानकेन तु।
“या ओषधीस्सोमराज्ञी विष्ठिता” इति मध्यतः ॥ 481 ॥

मूलम् - 481

“ओषधीः सोमराज्ञी” ति मन्त्रैणैशानकेन तु।
“या ओषधीस्सोमराज्ञी विष्ठिता” इति मध्यतः ॥ 481 ॥

विश्वास-प्रस्तुतिः - 482

ततोऽग्न्येकोनपञ्चाशत्कलशैरभिषेचयेत्।
गायत्र्या चैन्द्रषट्‌केन “गन्धद्वारे” ति याम्यतः ॥ 482 ॥

मूलम् - 482

ततोऽग्न्येकोनपञ्चाशत्कलशैरभिषेचयेत्।
गायत्र्या चैन्द्रषट्‌केन “गन्धद्वारे” ति याम्यतः ॥ 482 ॥

विश्वास-प्रस्तुतिः - 483

“पयस्वतीरोषधय” इति षट्‌केन पश्चिमे।
“दधिक्राव्‌ण” इत्यृचा सौम्यषटकेन तत्परम् ॥ 483 ॥

मूलम् - 483

“पयस्वतीरोषधय” इति षट्‌केन पश्चिमे।
“दधिक्राव्‌ण” इत्यृचा सौम्यषटकेन तत्परम् ॥ 483 ॥

विश्वास-प्रस्तुतिः - 484

सम्यक स्रवन्ति सरितः सूक्तेनैव घृतेन च।
नैर्ऋतैकोनपञ्चाशत्कलशैरभिषेचयेत् ॥ 484 ॥

मूलम् - 484

सम्यक स्रवन्ति सरितः सूक्तेनैव घृतेन च।
नैर्ऋतैकोनपञ्चाशत्कलशैरभिषेचयेत् ॥ 484 ॥

विश्वास-प्रस्तुतिः - 485

“तेजोसी” त्यादियजुषा तैलेन स्नापयेत्ततः।
द्वादशाक्षरमन्त्रेण प्राक्‌क्रमेण गुडोदकेः ॥ 485 ॥

मूलम् - 485

“तेजोसी” त्यादियजुषा तैलेन स्नापयेत्ततः।
द्वादशाक्षरमन्त्रेण प्राक्‌क्रमेण गुडोदकेः ॥ 485 ॥

विश्वास-प्रस्तुतिः - 486

“तेजसीत्यादि” मन्त्रेण वायौ तैलेस्तु सार्षपेः।
द्वादशार्णाख्यमन्त्रेण सर्वैरिक्षुरसैस्ततः ॥ 486 ॥

मूलम् - 486

“तेजसीत्यादि” मन्त्रेण वायौ तैलेस्तु सार्षपेः।
द्वादशार्णाख्यमन्त्रेण सर्वैरिक्षुरसैस्ततः ॥ 486 ॥

विश्वास-प्रस्तुतिः - 487

मधुवातादिभिर्मन्त्रैः कलशैर्मधुपूरितैः।
पूर्वोदितेन मन्त्रेण नालिकेरजलैः क्रमात् ॥ 487 ॥

मूलम् - 487

मधुवातादिभिर्मन्त्रैः कलशैर्मधुपूरितैः।
पूर्वोदितेन मन्त्रेण नालिकेरजलैः क्रमात् ॥ 487 ॥

विश्वास-प्रस्तुतिः - 488

तेनेवोष्णजलैः पश्चाद्वह्‌न्यादीशानपश्चिमम्।
सुतप्तायोगुडक्षेपात् सञ्जातोष्णैस्तदैव तु ॥ 488 ॥

मूलम् - 488

तेनेवोष्णजलैः पश्चाद्वह्‌न्यादीशानपश्चिमम्।
सुतप्तायोगुडक्षेपात् सञ्जातोष्णैस्तदैव तु ॥ 488 ॥

विश्वास-प्रस्तुतिः - 489

उद्वर्तयेत्तयो देवं “द्रपदा” दीति मन्त्रतः।
शिरस्यामलकं दद्या “न्मानस्तोके” ति मन्त्रतः ॥ 489 ॥

मूलम् - 489

उद्वर्तयेत्तयो देवं “द्रपदा” दीति मन्त्रतः।
शिरस्यामलकं दद्या “न्मानस्तोके” ति मन्त्रतः ॥ 489 ॥

विश्वास-प्रस्तुतिः - 490

प्रक्षाल्य शुद्धतोयैश्च बहुभिश्च सुगन्धिभिः।
मध्यैकाशीतिकलशैस्ततः संस्नापयेत् क्रमात् ॥ 490 ॥

मूलम् - 490

प्रक्षाल्य शुद्धतोयैश्च बहुभिश्च सुगन्धिभिः।
मध्यैकाशीतिकलशैस्ततः संस्नापयेत् क्रमात् ॥ 490 ॥

विश्वास-प्रस्तुतिः - 491

“सहस्रशीर्षे” त्यनया ऋचैन्द्रीनवकैर्घटैः।
अष्टाभिरष्टदिक्‌संस्थैर्मघ्यमेन द्वितीयया ॥ 491 ॥

मूलम् - 491

“सहस्रशीर्षे” त्यनया ऋचैन्द्रीनवकैर्घटैः।
अष्टाभिरष्टदिक्‌संस्थैर्मघ्यमेन द्वितीयया ॥ 491 ॥

विश्वास-प्रस्तुतिः - 492

द्वाभ्यां द्वाभ्यां तथा ऋघ्भां क्रमान्नवकसप्तकैः।
पौरुषेण तु सूक्तेन समस्तेन शनैः शनैः ॥ 492 ॥

मूलम् - 492

द्वाभ्यां द्वाभ्यां तथा ऋघ्भां क्रमान्नवकसप्तकैः।
पौरुषेण तु सूक्तेन समस्तेन शनैः शनैः ॥ 492 ॥

विश्वास-प्रस्तुतिः - 493

स्नापयेद्देवदेवेशं मध्यस्थनवकेन तु।
यद्वा “सर्वस्य वशिन” मित्याद्यैर्मनुभिः क्रमात् ॥ 493 ॥

मूलम् - 493

स्नापयेद्देवदेवेशं मध्यस्थनवकेन तु।
यद्वा “सर्वस्य वशिन” मित्याद्यैर्मनुभिः क्रमात् ॥ 493 ॥

विश्वास-प्रस्तुतिः - 494

महोपनिषदन्तस्थैः दिक्‌स्थितैः कलशाष्टकैः।
“एक एव नारायण” इति मध्यगतेन तु ॥ 494 ॥

मूलम् - 494

महोपनिषदन्तस्थैः दिक्‌स्थितैः कलशाष्टकैः।
“एक एव नारायण” इति मध्यगतेन तु ॥ 494 ॥

विश्वास-प्रस्तुतिः - 495

यद्वा द्विषट्‌कमन्त्रेण सर्वकुम्भैः क्रमेण तु ।
मृदादि सर्वरत्नान्तं स्नापयेद्‌द्विजसत्तम! ॥ 495 ॥

मूलम् - 495

यद्वा द्विषट्‌कमन्त्रेण सर्वकुम्भैः क्रमेण तु ।
मृदादि सर्वरत्नान्तं स्नापयेद्‌द्विजसत्तम! ॥ 495 ॥

विश्वास-प्रस्तुतिः - 496

उद्धार एवं कथितः श्रृणु कर्मक्रमं द्विज!।
प्रभाते तु कृतस्नानः कृतकौतुकमङ्गलः ॥ 496 ॥

मूलम् - 496

उद्धार एवं कथितः श्रृणु कर्मक्रमं द्विज!।
प्रभाते तु कृतस्नानः कृतकौतुकमङ्गलः ॥ 496 ॥

विश्वास-प्रस्तुतिः - 497

देशिकेन्द्रस्तथान्यैश्च देशिकैश्च समन्वितः।
प्रासादं संप्रविश्याथ नित्यं निर्वर्त्य पूर्ववत् ॥ 497 ॥

मूलम् - 497

देशिकेन्द्रस्तथान्यैश्च देशिकैश्च समन्वितः।
प्रासादं संप्रविश्याथ नित्यं निर्वर्त्य पूर्ववत् ॥ 497 ॥

विश्वास-प्रस्तुतिः - 498

यागमण्डपमासाद्य रजोभिः पूर्य मण्डलम्।
कुम्भमण्डलयोरिष्ट्वा प्रासादं संप्रविश्य च ॥ 498 ॥

मूलम् - 498

यागमण्डपमासाद्य रजोभिः पूर्य मण्डलम्।
कुम्भमण्डलयोरिष्ट्वा प्रासादं संप्रविश्य च ॥ 498 ॥

विश्वास-प्रस्तुतिः - 499

ततस्त्वर्घ्यादिभिर्भोगैः मूलबिम्वं तु पूजयेत्।
तस्मात् स्नपनबिम्बे तु समावाह्य तथैव च ॥ 499 ॥

मूलम् - 499

ततस्त्वर्घ्यादिभिर्भोगैः मूलबिम्वं तु पूजयेत्।
तस्मात् स्नपनबिम्बे तु समावाह्य तथैव च ॥ 499 ॥

विश्वास-प्रस्तुतिः - 500

इष्ट्वालंकृत्य विविधैर्वस्त्रैर्माल्यैश्च भूषणैः।
शिबिकादौ समारोप्य सर्वालङ्कारसंयुतम् ॥ 500 ॥

मूलम् - 500

इष्ट्वालंकृत्य विविधैर्वस्त्रैर्माल्यैश्च भूषणैः।
शिबिकादौ समारोप्य सर्वालङ्कारसंयुतम् ॥ 500 ॥

विश्वास-प्रस्तुतिः - 501

पूर्वोक्तवर्त्मना विप्र! निनयेत् स्नानमण्डपम्।
स्नानपीठे समारोप्य पूर्वोदितविधानतः ॥ 501 ॥

मूलम् - 501

पूर्वोक्तवर्त्मना विप्र! निनयेत् स्नानमण्डपम्।
स्नानपीठे समारोप्य पूर्वोदितविधानतः ॥ 501 ॥

विश्वास-प्रस्तुतिः - 502

यथाक्रमं समभ्यर्च्य यावदात्मनिवेदनम्।
ततस्तु देवदेवस्य कुर्यात् कौतुकबन्धनम् ॥ 502 ॥

मूलम् - 502

यथाक्रमं समभ्यर्च्य यावदात्मनिवेदनम्।
ततस्तु देवदेवस्य कुर्यात् कौतुकबन्धनम् ॥ 502 ॥

विश्वास-प्रस्तुतिः - 503

देवस्य पुरतः कुर्याच्छकृता मण्डलं शुभम्।
पिष्टचूर्णैरलंकृत्य न्यसेत् कोणेषु पालिकाः ॥ 503 ॥

मूलम् - 503

देवस्य पुरतः कुर्याच्छकृता मण्डलं शुभम्।
पिष्टचूर्णैरलंकृत्य न्यसेत् कोणेषु पालिकाः ॥ 503 ॥

विश्वास-प्रस्तुतिः - 504

व्रीहिभिः पीठिकां कृत्वा तदूर्ध्वं विनिवेशयेत्।
हैमं वा राजतं पात्रं पूरितं शालितण्डुलैः ॥ 504 ॥

मूलम् - 504

व्रीहिभिः पीठिकां कृत्वा तदूर्ध्वं विनिवेशयेत्।
हैमं वा राजतं पात्रं पूरितं शालितण्डुलैः ॥ 504 ॥

विश्वास-प्रस्तुतिः - 505

स्वारिमानैस्तदर्धैर्वा ताम्बूलैश्च विभूषितम्।
तदूर्ध्वे विन्यसेत् सूत्रं पट्टजं तु चतुर्गुणम् ॥ 505 ॥

मूलम् - 505

स्वारिमानैस्तदर्धैर्वा ताम्बूलैश्च विभूषितम्।
तदूर्ध्वे विन्यसेत् सूत्रं पट्टजं तु चतुर्गुणम् ॥ 505 ॥

विश्वास-प्रस्तुतिः - 506

मन्त्रयित्वास्त्रमन्त्रेण संपूज्य कुसुमैरपि।
तत् पात्रं शिरसि स्थाप्य परिचर्यापरस्य च ॥ 506 ॥

मूलम् - 506

मन्त्रयित्वास्त्रमन्त्रेण संपूज्य कुसुमैरपि।
तत् पात्रं शिरसि स्थाप्य परिचर्यापरस्य च ॥ 506 ॥

विश्वास-प्रस्तुतिः - 507

शिष्यस्य मण्डपं पश्चाच्चतुष्कुर्यात् प्रदक्षिणम्।
सर्वमङ्गलसंयुक्तं प्रासादाभ्यन्तरे यदि ॥ 507 ॥

मूलम् - 507

शिष्यस्य मण्डपं पश्चाच्चतुष्कुर्यात् प्रदक्षिणम्।
सर्वमङ्गलसंयुक्तं प्रासादाभ्यन्तरे यदि ॥ 507 ॥

विश्वास-प्रस्तुतिः - 508

प्रथमावरणे वापि द्वितीयावरणेऽथवा।
प्रदक्षिणचतुष्कं तु कुर्याद्वा संकटे द्वयम् ॥ 508 ॥

मूलम् - 508

प्रथमावरणे वापि द्वितीयावरणेऽथवा।
प्रदक्षिणचतुष्कं तु कुर्याद्वा संकटे द्वयम् ॥ 508 ॥

विश्वास-प्रस्तुतिः - 509

देवस्याग्रे तु तत्पात्रमाधारस्योपरि न्यसेत्।
कृत्वा पुण्याहघोषं तु देवमर्घ्यादिभिर्यजेत् ॥ 509 ॥

मूलम् - 509

देवस्याग्रे तु तत्पात्रमाधारस्योपरि न्यसेत्।
कृत्वा पुण्याहघोषं तु देवमर्घ्यादिभिर्यजेत् ॥ 509 ॥

विश्वास-प्रस्तुतिः - 510

ततः प्रतिसरं चेष्ट्वा गन्द्यधूपाधिवासितम्।
कौतुकं देवदेवस्य बन्धयेद्दक्षिणे करे ॥ 510 ॥

मूलम् - 510

ततः प्रतिसरं चेष्ट्वा गन्द्यधूपाधिवासितम्।
कौतुकं देवदेवस्य बन्धयेद्दक्षिणे करे ॥ 510 ॥

विश्वास-प्रस्तुतिः - 511

संपूज्यार्ग्यादिभिर्भूयस्ताम्बूलैस्तोषयेद्‌द्विजान्।
दीक्षितान् वैष्णवांश्चापि देशिकेन्द्रपुरस्सरान् ॥ 511 ॥

मूलम् - 511

संपूज्यार्ग्यादिभिर्भूयस्ताम्बूलैस्तोषयेद्‌द्विजान्।
दीक्षितान् वैष्णवांश्चापि देशिकेन्द्रपुरस्सरान् ॥ 511 ॥

विश्वास-प्रस्तुतिः - 512

आचार्यः स्वयमादद्यात्तदर्धं तण्डुलादिकम्।
एवं सर्वेषु यागेषु कार्यं कौतुकबन्धनम् ॥ 512 ॥

मूलम् - 512

आचार्यः स्वयमादद्यात्तदर्धं तण्डुलादिकम्।
एवं सर्वेषु यागेषु कार्यं कौतुकबन्धनम् ॥ 512 ॥

विश्वास-प्रस्तुतिः - 513

कुम्भानां विहितं कर्म न कृतं यदि व पुरा।
कया त्वनुपपत्या तु तदा तत् सर्वमाचरेत् ॥ 513 ॥

मूलम् - 513

कुम्भानां विहितं कर्म न कृतं यदि व पुरा।
कया त्वनुपपत्या तु तदा तत् सर्वमाचरेत् ॥ 513 ॥

विश्वास-प्रस्तुतिः - 514

स्नानासनोदितैर्भोगैः मुखलेपान्तिमैः क्रमात्।
पूजयित्वा ततः कुम्भैः स्नापयेदुक्तवर्त्मना ॥ 514 ॥

मूलम् - 514

स्नानासनोदितैर्भोगैः मुखलेपान्तिमैः क्रमात्।
पूजयित्वा ततः कुम्भैः स्नापयेदुक्तवर्त्मना ॥ 514 ॥

विश्वास-प्रस्तुतिः - 515

सर्वेषामपि कुम्भानां स्नानशेषं तु पूरयेत्।
घटान्तरं तु द्रव्याणामन्तरान्तरयोगतः ॥ 515 ॥

मूलम् - 515

सर्वेषामपि कुम्भानां स्नानशेषं तु पूरयेत्।
घटान्तरं तु द्रव्याणामन्तरान्तरयोगतः ॥ 515 ॥

विश्वास-प्रस्तुतिः - 516

शुद्धाम्भसा स्नापयित्वा वस्त्रेणार्घ्यादिभिर्यजेत्।
एवं सुस्नाप्य विधिवद्रजनीचूर्णपूरितैः ॥ 516 ॥

मूलम् - 516

शुद्धाम्भसा स्नापयित्वा वस्त्रेणार्घ्यादिभिर्यजेत्।
एवं सुस्नाप्य विधिवद्रजनीचूर्णपूरितैः ॥ 516 ॥

विश्वास-प्रस्तुतिः - 517

कौतुकोक्तेन मार्गेण पुरस्तादधिवासितैः।
पञ्चविंशतिभिः कुम्भैर्नवभिः पञ्चभिस्तु वा ॥ 517 ॥

मूलम् - 517

कौतुकोक्तेन मार्गेण पुरस्तादधिवासितैः।
पञ्चविंशतिभिः कुम्भैर्नवभिः पञ्चभिस्तु वा ॥ 517 ॥

विश्वास-प्रस्तुतिः - 518

एकेन वापि तच्चूर्णं द्विषट्‌कब्रह्नविद्यया।
प्रदद्यान्मूर्घ्निदेवस्य भूयश्चार्घ्यादिभिर्यजेत् ॥ 518 ॥

मूलम् - 518

एकेन वापि तच्चूर्णं द्विषट्‌कब्रह्नविद्यया।
प्रदद्यान्मूर्घ्निदेवस्य भूयश्चार्घ्यादिभिर्यजेत् ॥ 518 ॥

विश्वास-प्रस्तुतिः - 519

सर्वाङ्गं परिमृज्याथ भक्तानां मूर्घ्नि दापयेत्।
विष्वक्‌सेनस्य दत्वा तु तन्मन्त्रेण ततो द्विज! ॥ 519 ॥

मूलम् - 519

सर्वाङ्गं परिमृज्याथ भक्तानां मूर्घ्नि दापयेत्।
विष्वक्‌सेनस्य दत्वा तु तन्मन्त्रेण ततो द्विज! ॥ 519 ॥

विश्वास-प्रस्तुतिः - 520

सहस्रधारास्नपनमाचरेच्छद्धवारिभिः।
सवन्दनादिकं दत्वा ततः पीठात्ततः प्रभुम् ॥ 520 ॥

मूलम् - 520

सहस्रधारास्नपनमाचरेच्छद्धवारिभिः।
सवन्दनादिकं दत्वा ततः पीठात्ततः प्रभुम् ॥ 520 ॥

विश्वास-प्रस्तुतिः - 521

अलङ्कारासनं नीत्वा आसनादिक्रमाद्यजेत्।
भोगैः सांस्पर्शिकैः प्राग्वद्विविधैरौपचारिकैः ॥ 521 ॥

मूलम् - 521

अलङ्कारासनं नीत्वा आसनादिक्रमाद्यजेत्।
भोगैः सांस्पर्शिकैः प्राग्वद्विविधैरौपचारिकैः ॥ 521 ॥

विश्वास-प्रस्तुतिः - 522

हृदयङ्गमसंज्ञैश्च विचित्रैश्च मनोहरैः।
एवं द्विजप्रदानान्तं होमान्तं वा प्रपूज्य च ॥ 522 ॥

मूलम् - 522

हृदयङ्गमसंज्ञैश्च विचित्रैश्च मनोहरैः।
एवं द्विजप्रदानान्तं होमान्तं वा प्रपूज्य च ॥ 522 ॥

विश्वास-प्रस्तुतिः - 523

शिबिकादौ समारोप्य पूर्ववत् संप्रवेशयेत्।
प्रदक्षिणक्रमेणैव प्रासादाभ्यन्तरं ततः ॥ 523 ॥

मूलम् - 523

शिबिकादौ समारोप्य पूर्ववत् संप्रवेशयेत्।
प्रदक्षिणक्रमेणैव प्रासादाभ्यन्तरं ततः ॥ 523 ॥

विश्वास-प्रस्तुतिः - 524

तत्रावरोप्य तद्बिम्बं स्वस्थाने सन्निवेश्य च।
इष्ट्वाचार्घ्यादिभिर्भोगैः मूलबिम्बं तथैव च ॥ 524 ॥

मूलम् - 524

तत्रावरोप्य तद्बिम्बं स्वस्थाने सन्निवेश्य च।
इष्ट्वाचार्घ्यादिभिर्भोगैः मूलबिम्बं तथैव च ॥ 524 ॥

विश्वास-प्रस्तुतिः - 525

समार्प्य च कृतं कर्म कुर्याच्चैव विसर्जनम्।
ततश्चौत्सवबिम्बं तद्विचित्रैर्वसनैस्तथा ॥ 525 ॥

मूलम् - 525

समार्प्य च कृतं कर्म कुर्याच्चैव विसर्जनम्।
ततश्चौत्सवबिम्बं तद्विचित्रैर्वसनैस्तथा ॥ 525 ॥

विश्वास-प्रस्तुतिः - 526

ततश्चोत्सवबिम्बं तद्विचित्रैर्वसनैस्तथा।
अनेकैर्भूषणै रम्यैर्माल्यैश्च सुसुगन्धिभिः ॥ 526 ॥

मूलम् - 526

ततश्चोत्सवबिम्बं तद्विचित्रैर्वसनैस्तथा।
अनेकैर्भूषणै रम्यैर्माल्यैश्च सुसुगन्धिभिः ॥ 526 ॥

विश्वास-प्रस्तुतिः - 527

अलंकृत्य समारोप्य शिबिकां संप्रवेशयेत्।
आस्थानमण्डपं सम्यगुत्सवोदितवर्त्मना ॥ 527 ॥

मूलम् - 527

अलंकृत्य समारोप्य शिबिकां संप्रवेशयेत्।
आस्थानमण्डपं सम्यगुत्सवोदितवर्त्मना ॥ 527 ॥

विश्वास-प्रस्तुतिः - 528

तत्रावरोप्य यानाच्च सौवर्णे वितते शुभे।
भद्रासनेऽथवा विप्र! विचित्रास्तरणान्विते ॥ 528 ॥

मूलम् - 528

तत्रावरोप्य यानाच्च सौवर्णे वितते शुभे।
भद्रासनेऽथवा विप्र! विचित्रास्तरणान्विते ॥ 528 ॥

विश्वास-प्रस्तुतिः - 529

यथाक्रमोदितेनैव वर्त्मना संप्रपूजयेत्।
सांस्पर्शादिकैर्भोगैर्विविधैस्तु विशेषतः ॥ 529 ॥

मूलम् - 529

यथाक्रमोदितेनैव वर्त्मना संप्रपूजयेत्।
सांस्पर्शादिकैर्भोगैर्विविधैस्तु विशेषतः ॥ 529 ॥

विश्वास-प्रस्तुतिः - 530

महाहविर्निवेद्याथ कृत्वा सर्वं क्रमेण तु।
द्विजप्रदानपर्यन्तमग्नौ सन्तर्पयेत् क्रमात् ॥ 530 ॥

मूलम् - 530

महाहविर्निवेद्याथ कृत्वा सर्वं क्रमेण तु।
द्विजप्रदानपर्यन्तमग्नौ सन्तर्पयेत् क्रमात् ॥ 530 ॥

विश्वास-प्रस्तुतिः - 531

समर्पणादिकं सर्वं कृत्वा देवं जगत्पतिम्।
समारोप्य च यानादौ सर्वमङ्गलसंयुतम् ॥ 531 ॥

मूलम् - 531

समर्पणादिकं सर्वं कृत्वा देवं जगत्पतिम्।
समारोप्य च यानादौ सर्वमङ्गलसंयुतम् ॥ 531 ॥

विश्वास-प्रस्तुतिः - 532

प्रवेशयेत्तु प्रासादं यानादेरवरोप्य च।
स्वस्थाने सन्निवेश्याथ अर्घ्यगन्धादिभिर्यजेत् ॥ 532 ॥

मूलम् - 532

प्रवेशयेत्तु प्रासादं यानादेरवरोप्य च।
स्वस्थाने सन्निवेश्याथ अर्घ्यगन्धादिभिर्यजेत् ॥ 532 ॥

विश्वास-प्रस्तुतिः - 533

मूलबिम्बं तथाभ्यर्च्य कृतं कर्म समर्पयेत्।
स्नानशेषेण तोयेन कुम्भस्थेन क्रमेण तु ॥ 533 ॥

मूलम् - 533

मूलबिम्बं तथाभ्यर्च्य कृतं कर्म समर्पयेत्।
स्नानशेषेण तोयेन कुम्भस्थेन क्रमेण तु ॥ 533 ॥

विश्वास-प्रस्तुतिः - 534

द्वारस्थान् सकलान् देवांस्तथा चावरणस्थितान्।
बलिदानक्रमेणैव संप्रोक्ष्य परिपूज्य च ॥ 534 ॥

मूलम् - 534

द्वारस्थान् सकलान् देवांस्तथा चावरणस्थितान्।
बलिदानक्रमेणैव संप्रोक्ष्य परिपूज्य च ॥ 534 ॥

विश्वास-प्रस्तुतिः - 535

बलिं च दत्वा शेषेण गणेशमभिषिच्य च।
पूजयेदर्घ्यगन्धाद्यैरथवा ह्यनुकल्पके ॥ 535 ॥

मूलम् - 535

बलिं च दत्वा शेषेण गणेशमभिषिच्य च।
पूजयेदर्घ्यगन्धाद्यैरथवा ह्यनुकल्पके ॥ 535 ॥

विश्वास-प्रस्तुतिः - 536

पूजावसाने देवस्य स्नपनव्यक्तिगस्य तु।
प्रोक्षणं देवतानां च गणेशस्याभिषेचनम् ॥ 536 ॥

मूलम् - 536

पूजावसाने देवस्य स्नपनव्यक्तिगस्य तु।
प्रोक्षणं देवतानां च गणेशस्याभिषेचनम् ॥ 536 ॥

विश्वास-प्रस्तुतिः - 537

आचरेत् क्रमयोगेन, यजमानस्ततो द्विज!।
आचार्यान् साधकांश्चैव तोषयेद्‌विविधैर्धनैः ॥ 537 ॥

मूलम् - 537

आचरेत् क्रमयोगेन, यजमानस्ततो द्विज!।
आचार्यान् साधकांश्चैव तोषयेद्‌विविधैर्धनैः ॥ 537 ॥

विश्वास-प्रस्तुतिः - 538

अन्यांश्च वैष्णवान् सर्वान् यथाशक्ति च तोषयेत्।
अनिवारितमन्नाद्यं सार्वजन्यं तु कारयेत् ॥ 538 ॥

मूलम् - 538

अन्यांश्च वैष्णवान् सर्वान् यथाशक्ति च तोषयेत्।
अनिवारितमन्नाद्यं सार्वजन्यं तु कारयेत् ॥ 538 ॥

विश्वास-प्रस्तुतिः - 539

एवमेव हि सर्वेषु स्नपनेषु क्रियाक्रमः।
प्रोक्षणं परिवाराणां बलिदानं च वर्जयेत् ॥ 539 ॥

मूलम् - 539

एवमेव हि सर्वेषु स्नपनेषु क्रियाक्रमः।
प्रोक्षणं परिवाराणां बलिदानं च वर्जयेत् ॥ 539 ॥

विश्वास-प्रस्तुतिः - 540

महाहविर्विधानं च विभवे सति कल्पयेत्।
प्रधानादिक्रमेणैव स्नपनानां तु पञ्चकम् ॥ 540 ॥

मूलम् - 540

महाहविर्विधानं च विभवे सति कल्पयेत्।
प्रधानादिक्रमेणैव स्नपनानां तु पञ्चकम् ॥ 540 ॥

विश्वास-प्रस्तुतिः - 541

कुर्यान्नित्यविधौ विप्र! तथा नैमित्तिकेऽपि च।
ततस्तु सूक्ष्मसूक्ष्मादिस्थूलस्थूलान्तपञ्चकम् ॥ 541 ॥

मूलम् - 541

कुर्यान्नित्यविधौ विप्र! तथा नैमित्तिकेऽपि च।
ततस्तु सूक्ष्मसूक्ष्मादिस्थूलस्थूलान्तपञ्चकम् ॥ 541 ॥

विश्वास-प्रस्तुतिः - 542

चातुरात्म्यादिदेवानां कार्यं स्थापनकर्मणि।
अयने विषुवे चैव ग्रहणे सोप्रसूर्ययोः ॥ 542 ॥

मूलम् - 542

चातुरात्म्यादिदेवानां कार्यं स्थापनकर्मणि।
अयने विषुवे चैव ग्रहणे सोप्रसूर्ययोः ॥ 542 ॥

विश्वास-प्रस्तुतिः - 543

स्नपनं मुख्यकल्पे तु कुर्यादाद्योत्तमोत्तमम्।
अनुकल्पे तु तन्मध्यं, तन्न्यूनादि चतुष्टयम् ॥ 543 ॥

मूलम् - 543

स्नपनं मुख्यकल्पे तु कुर्यादाद्योत्तमोत्तमम्।
अनुकल्पे तु तन्मध्यं, तन्न्यूनादि चतुष्टयम् ॥ 543 ॥

विश्वास-प्रस्तुतिः - 544

अयनद्वयमध्यस्थसंक्रान्तिद्विचतुष्टये।
आवृत्तिक्रमयोगेन कल्पयेन्मुनिपुड्गव! ॥ 544 ॥

मूलम् - 544

अयनद्वयमध्यस्थसंक्रान्तिद्विचतुष्टये।
आवृत्तिक्रमयोगेन कल्पयेन्मुनिपुड्गव! ॥ 544 ॥

विश्वास-प्रस्तुतिः - 545

उत्सवारम्भदिवसे तदन्ते च समारभेत्।
अधमोत्तमसंज्ञं तु तन्मध्यं वानुकल्पके ॥ 545 ॥

मूलम् - 545

उत्सवारम्भदिवसे तदन्ते च समारभेत्।
अधमोत्तमसंज्ञं तु तन्मध्यं वानुकल्पके ॥ 545 ॥

विश्वास-प्रस्तुतिः - 546

महाहविर्विधाने तु तन्न्यूनं तु समाचरेत्।
देशकालानुरूपेण द्वितीयं नवकं तु वा ॥ 546 ॥

मूलम् - 546

महाहविर्विधाने तु तन्न्यूनं तु समाचरेत्।
देशकालानुरूपेण द्वितीयं नवकं तु वा ॥ 546 ॥

विश्वास-प्रस्तुतिः - 547

तृतीयं वा चतुर्थं वा कल्पयेत्तु यथाक्रमम्।
प्रायश्चित्तेषु कार्येषु सर्वाण्येतानि कल्पयेत् ॥ 547 ॥

मूलम् - 547

तृतीयं वा चतुर्थं वा कल्पयेत्तु यथाक्रमम्।
प्रायश्चित्तेषु कार्येषु सर्वाण्येतानि कल्पयेत् ॥ 547 ॥

तेषु स्नपनभेदं तु वक्ष्याम्युपरि विस्तृतम्।
विश्वास-प्रस्तुतिः - 548

स्नपनानां विधानं तु दिव्यशास्त्रोक्तवर्त्मना।
यथावत् कथितं सम्यक्किमन्यच्छ्रोतुमिच्छसि ॥ 548 ॥

मूलम् - 548

स्नपनानां विधानं तु दिव्यशास्त्रोक्तवर्त्मना।
यथावत् कथितं सम्यक्किमन्यच्छ्रोतुमिच्छसि ॥ 548 ॥

इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे स्नपनविधानं नाम चतुर्दशोऽध्यायः ॥ **************