०१३ खापशयनोत्थापनोत्सवबिधिः

॥ श्रीः ॥
त्रयोदशोऽध्यायः
सनकः —

विश्वास-प्रस्तुतिः - 1

शयनस्थे जगन्नाथे चातुर्मास्यस्य मध्यतः।
पवित्रारोहणं प्रोक्तं त्वया मतिमतां वर! ॥ 1 ॥

मूलम् - 1

शयनस्थे जगन्नाथे चातुर्मास्यस्य मध्यतः।
पवित्रारोहणं प्रोक्तं त्वया मतिमतां वर! ॥ 1 ॥

विश्वास-प्रस्तुतिः - 2

किं देवशयनं नाम; किं देवः स्वप्स्यतीत्यसौ।
देवः किमर्थं स्वपिति; किं विधानं तथा वद ॥ 2 ॥

मूलम् - 2

किं देवशयनं नाम; किं देवः स्वप्स्यतीत्यसौ।
देवः किमर्थं स्वपिति; किं विधानं तथा वद ॥ 2 ॥

विश्वास-प्रस्तुतिः - 3

के मन्त्राः ; के च नियमाः ; व्रतान्यस्य क्रिया तु का।
किं ग्राह्यं ; किं च मोक्तव्यं सुप्ते देवे जनार्दने ॥ 3 ॥

मूलम् - 3

शाण्डिल्यः ---
विश्वास-प्रस्तुतिः - 4

श्रूयतामभिधास्यामि गुह्याद्‌गुह्यतरं तव।
पुरा तपः प्रभावेन तोषितो योगनिद्रया ॥ 4 ॥

मूलम् - 4

श्रूयतामभिधास्यामि गुह्याद्‌गुह्यतरं तव।
पुरा तपः प्रभावेन तोषितो योगनिद्रया ॥ 4 ॥

विश्वास-प्रस्तुतिः - 5

“ममाङ्गं मानयस्वे” ति प्रार्थितो जगतांपतिः।
निरीक्ष्य चात्मनो देहे रुद्धं लक्ष्म्या उरःस्थलम् ॥ 5 ॥

मूलम् - 5

विश्वास-प्रस्तुतिः - 6

शङ्खचक्रासिशार्ङ्गाद्यैर्बाहवः सुविभूषिताः।
अधोनाभेर्निरुद्धं च वैनतेयेन पक्षिणा ॥ 6 ॥

मूलम् - 6

शङ्खचक्रासिशार्ङ्गाद्यैर्बाहवः सुविभूषिताः।
अधोनाभेर्निरुद्धं च वैनतेयेन पक्षिणा ॥ 6 ॥

विश्वास-प्रस्तुतिः - 7

मकुटेन शिरो रुद्धं कुण्डलाभ्यां श्रवोयुगम्।
ततो ददौ सुसन्तुष्टो नेत्रयोः स्थानमादरात् ॥ 7 ॥

मूलम् - 7

"चतुरो वार्षिकान् मासान् वासं प्रीता गमिष्यसि।" योगनिद्रापि तद्वाक्यं श्रुत्वा हृष्टतनूरुहा ॥ 8 ॥
विश्वास-प्रस्तुतिः - 9

चकार लोचनावासमत्यर्थं शार्ङ्गधन्वनः।
द्वादश्यां शुक्लपक्षस्य आषाढस्य द्विजाधिप! ॥ 9 ॥

मूलम् - 9

चकार लोचनावासमत्यर्थं शार्ङ्गधन्वनः।
द्वादश्यां शुक्लपक्षस्य आषाढस्य द्विजाधिप! ॥ 9 ॥

विश्वास-प्रस्तुतिः - 10

तदादौ कौमुदाख्यस्य यावन्मासस्य तद्दिनम्।
देवः सर्वेश्वरस्तां तु मानयन्नयनस्थिताम् ॥ 10 ॥

मूलम् - 10

तदादौ कौमुदाख्यस्य यावन्मासस्य तद्दिनम्।
देवः सर्वेश्वरस्तां तु मानयन्नयनस्थिताम् ॥ 10 ॥

विश्वास-प्रस्तुतिः - 11

योगनिद्रां महानिद्रां शेषाहिशयने स्वपन्।
क्षीरोदतोयबीच्यग्रैः धौतपादः समाहितः ॥ 11 ॥

मूलम् - 11

योगनिद्रां महानिद्रां शेषाहिशयने स्वपन्।
क्षीरोदतोयबीच्यग्रैः धौतपादः समाहितः ॥ 11 ॥

विश्वास-प्रस्तुतिः - 12

लक्ष्मीकराम्बुजश्लक्ष्णमृज्यमानपदद्वयः।
प्रवृत्ते तौहिने काले प्रबुद्ध्यति जनार्दनः ॥ 12 ॥

मूलम् - 12

लक्ष्मीकराम्बुजश्लक्ष्णमृज्यमानपदद्वयः।
प्रवृत्ते तौहिने काले प्रबुद्ध्यति जनार्दनः ॥ 12 ॥

विश्वास-प्रस्तुतिः - 13

वासुदेवो जगन्नाथः क्रियार्थं स्वेच्छया द्विज!।
सेवमानोऽपि तां निद्रां जडतां न व्रजेत् प्रभुः ॥ 13 ॥

मूलम् - 13

वासुदेवो जगन्नाथः क्रियार्थं स्वेच्छया द्विज!।
सेवमानोऽपि तां निद्रां जडतां न व्रजेत् प्रभुः ॥ 13 ॥

विश्वास-प्रस्तुतिः - 14

यथा प्राकृतिकः सुप्तः कश्चिन्मलिनमानसः।
अकर्ता सर्वकार्याणां योगनिद्रावशीकृतः ॥ 14 ॥

मूलम् - 14

यथा प्राकृतिकः सुप्तः कश्चिन्मलिनमानसः।
अकर्ता सर्वकार्याणां योगनिद्रावशीकृतः ॥ 14 ॥

विश्वास-प्रस्तुतिः - 15

न तादृक्‌त्वे जगद्धातुरप्रमेयः सनातनः।
यतः प्रबुद्धःसर्वज्ञो नित्योऽजः परमेश्वरः ॥ 15 ॥

मूलम् - 15

न तादृक्‌त्वे जगद्धातुरप्रमेयः सनातनः।
यतः प्रबुद्धःसर्वज्ञो नित्योऽजः परमेश्वरः ॥ 15 ॥

विश्वास-प्रस्तुतिः - 16

तस्य निद्रादयो दोषाः सततं यान्ति वश्यताम्।
निद्रादिदोषरहिते प्रसुप्ते ह्यच्युतेऽमले ॥ 16 ॥

मूलम् - 16

तस्य निद्रादयो दोषाः सततं यान्ति वश्यताम्।
निद्रादिदोषरहिते प्रसुप्ते ह्यच्युतेऽमले ॥ 16 ॥

विश्वास-प्रस्तुतिः - 17

निवर्तन्ते क्रियाः सर्वाश्चातुर्वर्ण्यस्य सर्वशः।
विवाहव्रतबन्धादिचूडासंस्कारदीक्षणम् ॥ 17 ॥

मूलम् - 17

निवर्तन्ते क्रियाः सर्वाश्चातुर्वर्ण्यस्य सर्वशः।
विवाहव्रतबन्धादिचूडासंस्कारदीक्षणम् ॥ 17 ॥

विश्वास-प्रस्तुतिः - 18

यज्ञो गृहप्रवेशादिगोदानार्चाप्रतिष्ठनम्।
पुण्यानि यानि कर्माणि वर्जयेद्दक्षिणायने ॥ 18 ॥

मूलम् - 18

यज्ञो गृहप्रवेशादिगोदानार्चाप्रतिष्ठनम्।
पुण्यानि यानि कर्माणि वर्जयेद्दक्षिणायने ॥ 18 ॥

विश्वास-प्रस्तुतिः - 19

असङ्‌क्रान्तं तु यन्मासं दिव्ये पित्र्ये च वर्जयेत्।
मलिम्लुचमशौचं च सूर्यसङ्‌क्रान्तिवर्जितम् ॥ 19 ॥

मूलम् - 19

विश्वास-प्रस्तुतिः - 20

नैमित्तिकान् मासि मासि तथा संवत्सरोत्सवान्।
विशेषयागसंयुक्तान् सर्वसंपूरणादृते ॥ 20 ॥

मूलम् - 20

नैमित्तिकान् मासि मासि तथा संवत्सरोत्सवान्।
विशेषयागसंयुक्तान् सर्वसंपूरणादृते ॥ 20 ॥

विश्वास-प्रस्तुतिः - 21

नान्यन्नैमित्तिकं काम्यं कार्यं मासचतुष्टये।
अबीष्टव्रतमाश्रित्य नेतव्यं तच्चतुष्टयम् ॥ 21 ॥

मूलम् - 21

नान्यन्नैमित्तिकं काम्यं कार्यं मासचतुष्टये।
अबीष्टव्रतमाश्रित्य नेतव्यं तच्चतुष्टयम् ॥ 21 ॥

विश्वास-प्रस्तुतिः - 22

भगवद्भक्तिनिष्णातैः कार्यं यच्चापरं श्रृणु।
विष्णोरायतनस्याग्रे कुर्याच्छयनमन्दिरम् ॥ 22 ॥

मूलम् - 22

भगवद्भक्तिनिष्णातैः कार्यं यच्चापरं श्रृणु।
विष्णोरायतनस्याग्रे कुर्याच्छयनमन्दिरम् ॥ 22 ॥

विश्वास-प्रस्तुतिः - 23

षट्‌करादादितो यावच्चतुर्दशकरावधि।
स्तम्भयुक्तं सुधालिप्तं नानारागैः सुरञ्जितम् ॥ 23 ॥

मूलम् - 23

षट्‌करादादितो यावच्चतुर्दशकरावधि।
स्तम्भयुक्तं सुधालिप्तं नानारागैः सुरञ्जितम् ॥ 23 ॥

विश्वास-प्रस्तुतिः - 24

ऊर्ध्वं तथा भित्तिगणं पूरयेच्चित्रनिर्मितैः।
ब्रह्नरुद्रेन्द्रचन्द्रार्कबिम्बैश्चान्यैस्तु वै बुधैः ॥ 24 ॥

मूलम् - 24

विश्वास-प्रस्तुतिः - 25

अष्टयोनिगतैर्विप्र! सर्वैश्चोपनतस्थितैः।
ब्रह्नर्षिसिद्धमनुजैर्भक्तैश्चान्यैस्तथाऽसुरैः ॥ 25 ॥

मूलम् - 25

अष्टयोनिगतैर्विप्र! सर्वैश्चोपनतस्थितैः।
ब्रह्नर्षिसिद्धमनुजैर्भक्तैश्चान्यैस्तथाऽसुरैः ॥ 25 ॥

विश्वास-प्रस्तुतिः - 26

अप्सरोभिश्च विविधैस्तुवद्बद्धाञ्जलीयकैः।
सम्मुखे देवदेवस्य सर्वाभरणभूषितैः ॥ 26 ॥

मूलम् - 26

अप्सरोभिश्च विविधैस्तुवद्बद्धाञ्जलीयकैः।
सम्मुखे देवदेवस्य सर्वाभरणभूषितैः ॥ 26 ॥

विश्वास-प्रस्तुतिः - 27

एवं तु शयनागारं कृत्वा वस्त्रादिभूषितम्।
ब्रह्नस्थानं समाश्रित्य तस्मिन् कुर्यात्ततो द्विज! ॥ 27 ॥

मूलम् - 27

एवं तु शयनागारं कृत्वा वस्त्रादिभूषितम्।
ब्रह्नस्थानं समाश्रित्य तस्मिन् कुर्यात्ततो द्विज! ॥ 27 ॥

विश्वास-प्रस्तुतिः - 28

एकद्विचतुरष्टाभिः स्वकीयैस्तु करैः स्थलाम्।
कोणेषु तत्समैर्दण्डैः शुभैर्यज्ञतरूद्भवैः ॥ 28 ॥

मूलम् - 28

एकद्विचतुरष्टाभिः स्वकीयैस्तु करैः स्थलाम्।
कोणेषु तत्समैर्दण्डैः शुभैर्यज्ञतरूद्भवैः ॥ 28 ॥

विश्वास-प्रस्तुतिः - 29

सुश्लक्ष्णैर्वेदिका कार्या चतुर्भिस्तोरणान्विता।
वितानकं तदूर्ध्वे तु मध्ये पङ्कजभूषितम् ॥ 29 ॥

मूलम् - 29

सुश्लक्ष्णैर्वेदिका कार्या चतुर्भिस्तोरणान्विता।
वितानकं तदूर्ध्वे तु मध्ये पङ्कजभूषितम् ॥ 29 ॥

विश्वास-प्रस्तुतिः - 30

प्रलम्बिपुष्पमालाभिर्घण्टाचामरदर्पणैः।
भूषयेद्‌बुद्‌बुदाद्यैश्च सुवर्णरजतोद्भवैः ॥ 30 ॥

मूलम् - 30

प्रलम्बिपुष्पमालाभिर्घण्टाचामरदर्पणैः।
भूषयेद्‌बुद्‌बुदाद्यैश्च सुवर्णरजतोद्भवैः ॥ 30 ॥

विश्वास-प्रस्तुतिः - 31

मुक्तेन्द्रनीलवैडूर्यपझरागविचित्रितैः।
सितादिवस्त्रभेदेन पताकाभिस्तथा ध्वजैः ॥ 31 ॥

मूलम् - 31

मुक्तेन्द्रनीलवैडूर्यपझरागविचित्रितैः।
सितादिवस्त्रभेदेन पताकाभिस्तथा ध्वजैः ॥ 31 ॥

विश्वास-प्रस्तुतिः - 32

खगेन्द्रतालमकरऋश्यसंज्ञैः समुच्छ्रितैः।
पूर्वादिदिक्षु संयुक्तैः कोणे पूर्णघटैर्युतम् ॥ 32 ॥

मूलम् - 32

खगेन्द्रतालमकरऋश्यसंज्ञैः समुच्छ्रितैः।
पूर्वादिदिक्षु संयुक्तैः कोणे पूर्णघटैर्युतम् ॥ 32 ॥

विश्वास-प्रस्तुतिः - 33

बीजैर्गन्धैस्त्वगेलाद्यैः पूरितैः पात्रसञ्चयैः।
राजद्भिः सत्फलोपेतैर्विविधैः परितो वृताम् ॥ 33 ॥

मूलम् - 33

बीजैर्गन्धैस्त्वगेलाद्यैः पूरितैः पात्रसञ्चयैः।
राजद्भिः सत्फलोपेतैर्विविधैः परितो वृताम् ॥ 33 ॥

विश्वास-प्रस्तुतिः - 34

विचित्रपुष्पप्रकरां चन्दनाद्यनुलेपिताम्।
विचित्रवस्त्रसञ्छन्नां कुर्याद्वेदिं जगद्‌गुरोः ॥ 34 ॥

मूलम् - 34

विचित्रपुष्पप्रकरां चन्दनाद्यनुलेपिताम्।
विचित्रवस्त्रसञ्छन्नां कुर्याद्वेदिं जगद्‌गुरोः ॥ 34 ॥

विश्वास-प्रस्तुतिः - 35

इत्येवं शयनागारं संपाद्यादौ मनोहरम्।
हेमरत्नविचित्राङ्गं शयनं लक्षणान्वितम् ॥ 35 ॥

मूलम् - 35

इत्येवं शयनागारं संपाद्यादौ मनोहरम्।
हेमरत्नविचित्राङ्गं शयनं लक्षणान्वितम् ॥ 35 ॥

विश्वास-प्रस्तुतिः - 36

सुपर्णतालमकरऋश्यैर्दिक्‌स्थैर्विभूषितम्।
मकरास्यसमायुक्तं व्याघ्राङ्‌घ्रिसदृशाङ्‌घ्रिकम् ॥ 36 ॥

मूलम् - 36

सुपर्णतालमकरऋश्यैर्दिक्‌स्थैर्विभूषितम्।
मकरास्यसमायुक्तं व्याघ्राङ्‌घ्रिसदृशाङ्‌घ्रिकम् ॥ 36 ॥

विश्वास-प्रस्तुतिः - 37

यद्वा गर्भगृहे विष्णोर्मूलमूर्तेस्तु दक्षिणे।
शयनं कल्पयेद्विप्र! स्वगृहे वाऽनुकल्पने ॥ 37 ॥

मूलम् - 37

यद्वा गर्भगृहे विष्णोर्मूलमूर्तेस्तु दक्षिणे।
शयनं कल्पयेद्विप्र! स्वगृहे वाऽनुकल्पने ॥ 37 ॥

विश्वास-प्रस्तुतिः - 38

एवं पुरा समापाद्य यथा वित्तानुरूपतः।
संगृह्य सर्वसंभारान् दशम्यां द्विजसत्तम! ॥ 38 ॥

मूलम् - 38

एवं पुरा समापाद्य यथा वित्तानुरूपतः।
संगृह्य सर्वसंभारान् दशम्यां द्विजसत्तम! ॥ 38 ॥

विश्वास-प्रस्तुतिः - 39

संकल्प्य पूर्वविधिना पूर्वोक्तं यागमण्डपम्।
प्रविशेद्देशिकेन्द्राख्य एकादश्यां निशामुखे ॥ 39 ॥

मूलम् - 39

संकल्प्य पूर्वविधिना पूर्वोक्तं यागमण्डपम्।
प्रविशेद्देशिकेन्द्राख्य एकादश्यां निशामुखे ॥ 39 ॥

विश्वास-प्रस्तुतिः - 40

पूर्ववत् पूजनं कुर्यात् कलशे मण्डले क्षितौ।
संप्रविश्य ततः प्राग्वन्मूलमूर्तौ तु पूजनम् ॥ 40 ॥

मूलम् - 40

पूर्ववत् पूजनं कुर्यात् कलशे मण्डले क्षितौ।
संप्रविश्य ततः प्राग्वन्मूलमूर्तौ तु पूजनम् ॥ 40 ॥

विश्वास-प्रस्तुतिः - 41

कुर्यात् स्नपनयोग्यायां यात्रामूर्तावतोऽन्यथा।
वह्नौ सन्तर्पयेन्मन्त्रं समिद्भिः सप्तभिः क्रमात् ॥ 41 ॥

मूलम् - 41

विश्वास-प्रस्तुतिः - 42

यागमण्डपमासाद्य जागरेण नयेन्निशाम्।
ब्राह्ने मुहूर्ते संप्राप्ते उत्थाय शयनात्ततः ॥ 42 ॥

मूलम् - 42

यागमण्डपमासाद्य जागरेण नयेन्निशाम्।
ब्राह्ने मुहूर्ते संप्राप्ते उत्थाय शयनात्ततः ॥ 42 ॥

विश्वास-प्रस्तुतिः - 43

स्नातः कृताभिगमनो नित्यं निर्वर्त्य पूरयेत्।
पूर्वोक्तमण्डलं विप्र! रजोभिर्विविधैस्ततः ॥ 43 ॥

मूलम् - 43

स्नातः कृताभिगमनो नित्यं निर्वर्त्य पूरयेत्।
पूर्वोक्तमण्डलं विप्र! रजोभिर्विविधैस्ततः ॥ 43 ॥

विश्वास-प्रस्तुतिः - 44

कुम्भमण्डलयोः पूर्वं समाराध्य यथाक्रमम्।
ततो नैमित्तिकं बिम्बं पश्चिमे मण्डपस्य तु ॥ 44 ॥

मूलम् - 44

कुम्भमण्डलयोः पूर्वं समाराध्य यथाक्रमम्।
ततो नैमित्तिकं बिम्बं पश्चिमे मण्डपस्य तु ॥ 44 ॥

विश्वास-प्रस्तुतिः - 45

संस्थाप्य संयजेत् सम्यग्भोगैर्व्यक्तैः क्रमोदितैः।
अष्टाष्टसंख्यासंख्यातैर्विविधैरौपचनारिकैः ॥ 45 ॥

मूलम् - 45

संस्थाप्य संयजेत् सम्यग्भोगैर्व्यक्तैः क्रमोदितैः।
अष्टाष्टसंख्यासंख्यातैर्विविधैरौपचनारिकैः ॥ 45 ॥

विश्वास-प्रस्तुतिः - 46

सांस्पर्शिकैस्ततो ब्रह्नन्! हृदयङ्गमसंज्ञकैः।
एवमिष्ट्वा तु होमान्तं सविशेषं विधानतः ॥ 46 ॥

मूलम् - 46

सांस्पर्शिकैस्ततो ब्रह्नन्! हृदयङ्गमसंज्ञकैः।
एवमिष्ट्वा तु होमान्तं सविशेषं विधानतः ॥ 46 ॥

विश्वास-प्रस्तुतिः - 47

इन्द्रादिलोकपालानां बलिं दद्याद्‌द्विजोत्तम!।
ततो विसृज्य मन्त्रेशं कुम्भमण्डलकुण्डगम् ॥ 47 ॥

मूलम् - 47

इन्द्रादिलोकपालानां बलिं दद्याद्‌द्विजोत्तम!।
ततो विसृज्य मन्त्रेशं कुम्भमण्डलकुण्डगम् ॥ 47 ॥

विश्वास-प्रस्तुतिः - 48

विष्वक्‌सेनं यजेत् साङ्गं भोगैर्मण्डलमध्यतः।
ततस्तां भगवद्व्यक्तिं प्रासादान्तः प्रवेशयेत् ॥ 48 ॥

मूलम् - 48

विष्वक्‌सेनं यजेत् साङ्गं भोगैर्मण्डलमध्यतः।
ततस्तां भगवद्व्यक्तिं प्रासादान्तः प्रवेशयेत् ॥ 48 ॥

विश्वास-प्रस्तुतिः - 49

उत्सवोक्तविधानेन सर्वालङ्कारसंयुतम्।
संप्रवेश्य प्रेवद्याथ मूलमूर्तिं महामते! ॥ 49 ॥

मूलम् - 49

उत्सवोक्तविधानेन सर्वालङ्कारसंयुतम्।
संप्रवेश्य प्रेवद्याथ मूलमूर्तिं महामते! ॥ 49 ॥

विश्वास-प्रस्तुतिः - 50

अर्घ्येण गन्धपुष्पाभ्यां धूपेन सुशुभेन च।
प्रपूज्यावाह्य शय्यार्थमूर्तौ वै मूलमूर्तितः ॥ 50 ॥

मूलम् - 50

अर्घ्येण गन्धपुष्पाभ्यां धूपेन सुशुभेन च।
प्रपूज्यावाह्य शय्यार्थमूर्तौ वै मूलमूर्तितः ॥ 50 ॥

विश्वास-प्रस्तुतिः - 51

तां समानीय यागार्थमण्डपे स्नापयेत् क्रमात्।
अलह्‌कृतामलङ्कारैर्नू पुरान्तैः समुज्ज्वलैः ॥ 51 ॥

मूलम् - 51

तां समानीय यागार्थमण्डपे स्नापयेत् क्रमात्।
अलह्‌कृतामलङ्कारैर्नू पुरान्तैः समुज्ज्वलैः ॥ 51 ॥

विश्वास-प्रस्तुतिः - 52

श्रीखण्डशशिबाह्‌लीकविलिप्तां पुष्पवेष्टिताम्।
प्रावृतां नेत्रवस्त्रेण मृष्टधूपैः सुधूपिताम् ॥ 52 ॥

मूलम् - 52

श्रीखण्डशशिबाह्‌लीकविलिप्तां पुष्पवेष्टिताम्।
प्रावृतां नेत्रवस्त्रेण मृष्टधूपैः सुधूपिताम् ॥ 52 ॥

विश्वास-प्रस्तुतिः - 53

पूजयेद्विभवेनैव भोगपूगैस्तु पावनैः।
यद्वाह्यनुमतो विप्र! देशिको गुरुणा मुने! ॥ 53 ॥

मूलम् - 53

पूजयेद्विभवेनैव भोगपूगैस्तु पावनैः।
यद्वाह्यनुमतो विप्र! देशिको गुरुणा मुने! ॥ 53 ॥

विश्वास-प्रस्तुतिः - 54

पूर्वमेव यजेन्मूर्तिमेनां स्नपनपूर्वकम्।
ततो निशामुखे प्राप्ते देशिकः साधकैः सह ॥ 54 ॥

मूलम् - 54

पूर्वमेव यजेन्मूर्तिमेनां स्नपनपूर्वकम्।
ततो निशामुखे प्राप्ते देशिकः साधकैः सह ॥ 54 ॥

विश्वास-प्रस्तुतिः - 55

यानेनाभिमतेनैव प्रदक्षिणचतुष्टयम्।
प्रासादं संपरिक्रम्य सर्वाण्यावरणानि वा ॥ 55 ॥

मूलम् - 55

यानेनाभिमतेनैव प्रदक्षिणचतुष्टयम्।
प्रासादं संपरिक्रम्य सर्वाण्यावरणानि वा ॥ 55 ॥

विश्वास-प्रस्तुतिः - 56

सह चैकायनैर्विप्रैर्द्विजेन्द्रैः पाञ्चकालिकैः।
सिद्धान्तनिष्ठैस्तत्कर्मनिरतैर्भगवन्मयैः ॥ 56 ॥

मूलम् - 56

सह चैकायनैर्विप्रैर्द्विजेन्द्रैः पाञ्चकालिकैः।
सिद्धान्तनिष्ठैस्तत्कर्मनिरतैर्भगवन्मयैः ॥ 56 ॥

विश्वास-प्रस्तुतिः - 57

मङ्गलानि प्रयुञ्जानैः पुष्पाक्षतकरैर्द्विज!।
कृत्वा द्वार्स्थार्चनं सार्घ्यैः पुष्पगन्धानुलेपनैः ॥ 57 ॥

मूलम् - 57

विश्वास-प्रस्तुतिः - 58

“लक्ष्मीनिवासेश! विभो! भोगपर्यङ्कशायन!।
ममाशु पापनिचयं विघ्नजालं विनाशय” ॥ 58 ॥

मूलम् - 58

“लक्ष्मीनिवासेश! विभो! भोगपर्यङ्कशायन!।
ममाशु पापनिचयं विघ्नजालं विनाशय” ॥ 58 ॥

विश्वास-प्रस्तुतिः - 59

पठन्मन्त्रमिमं सम्यक् प्रणबब्रह्नंसयुतम्।
प्रविशेच्छयनागारं हृदि मन्त्रमनुस्मरन् ॥ 59 ॥

मूलम् - 59

पठन्मन्त्रमिमं सम्यक् प्रणबब्रह्नंसयुतम्।
प्रविशेच्छयनागारं हृदि मन्त्रमनुस्मरन् ॥ 59 ॥

विश्वास-प्रस्तुतिः - 60

ततः शयनदेशे तु पश्चिमे हेमविष्टरे।
निवेश्य प्राङ्‌मुखीं मूर्तिं, यदा गर्भगृहे तदा ॥ 60 ॥

मूलम् - 60

ततः शयनदेशे तु पश्चिमे हेमविष्टरे।
निवेश्य प्राङ्‌मुखीं मूर्तिं, यदा गर्भगृहे तदा ॥ 60 ॥

विश्वास-प्रस्तुतिः - 61

निवेश्य द्वाराभिमुखीं स्वयं समुपविश्य तु।
पञ्चगव्येन चाभ्युक्ष्य ततः शय्यास्थलं द्विज! ॥ 61 ॥

मूलम् - 61

निवेश्य द्वाराभिमुखीं स्वयं समुपविश्य तु।
पञ्चगव्येन चाभ्युक्ष्य ततः शय्यास्थलं द्विज! ॥ 61 ॥

विश्वास-प्रस्तुतिः - 62

कुङ्‌कुमागरुकर्पूरेरुपलिप्य च चन्दनैः।
तस्मिन् मध्ये शुभं कुर्यात् स्वस्तिकं सूक्ष्मलक्षणम् ॥ 62 ॥

मूलम् - 62

कुङ्‌कुमागरुकर्पूरेरुपलिप्य च चन्दनैः।
तस्मिन् मध्ये शुभं कुर्यात् स्वस्तिकं सूक्ष्मलक्षणम् ॥ 62 ॥

विश्वास-प्रस्तुतिः - 63

शुक्लारुणैस्तथा पीतैर्धातुभिश्चासितैर्मुने!।
चतुर्विधेन रजसा कुर्याद्रत्नोद्भवेन वा ॥ 63 ॥

मूलम् - 63

शुक्लारुणैस्तथा पीतैर्धातुभिश्चासितैर्मुने!।
चतुर्विधेन रजसा कुर्याद्रत्नोद्भवेन वा ॥ 63 ॥

विश्वास-प्रस्तुतिः - 64

मूर्धोपथानसंयुक्तं मसूरकबरान्वितम्।
गग्डोपधानसंयुक्तं चरणाधारसंयुतम् ॥ 64 ॥

मूलम् - 64

मूर्धोपथानसंयुक्तं मसूरकबरान्वितम्।
गग्डोपधानसंयुक्तं चरणाधारसंयुतम् ॥ 64 ॥

विश्वास-प्रस्तुतिः - 65

ज्योत्स्नावितानसदृशप्रच्छादनपटान्वितम्।
सुधूपितं च शयनं संस्थाप्य च तथोपरि ॥ 65 ॥

मूलम् - 65

ज्योत्स्नावितानसदृशप्रच्छादनपटान्वितम्।
सुधूपितं च शयनं संस्थाप्य च तथोपरि ॥ 65 ॥

विश्वास-प्रस्तुतिः - 66

प्रागुत्तरशिरश्शुभ्रं प्राक्‌छिरस्त्वथवा द्विज!।
मूलबिम्बे शयनगे स्थाप्यं तदनुरूपतः ॥ 66 ॥

मूलम् - 66

प्रागुत्तरशिरश्शुभ्रं प्राक्‌छिरस्त्वथवा द्विज!।
मूलबिम्बे शयनगे स्थाप्यं तदनुरूपतः ॥ 66 ॥

विश्वास-प्रस्तुतिः - 67

तद्दक्षिणेऽथ दिग्भागे देशं समवलम्ब्य वै।
तस्मिन् शुभतरे ब्रह्नन्! शयने शशिवासिते ॥ 67 ॥

मूलम् - 67

तद्दक्षिणेऽथ दिग्भागे देशं समवलम्ब्य वै।
तस्मिन् शुभतरे ब्रह्नन्! शयने शशिवासिते ॥ 67 ॥

विश्वास-प्रस्तुतिः - 68

क्षीरोदार्णवमद्यस्थं सहस्रफणमौलिनम्।
हिमकुन्देन्दुधवलं नागराजं महामते! ॥ 68 ॥

मूलम् - 68

क्षीरोदार्णवमद्यस्थं सहस्रफणमौलिनम्।
हिमकुन्देन्दुधवलं नागराजं महामते! ॥ 68 ॥

विश्वास-प्रस्तुतिः - 69

प्रणवेन स्वनाम्ना च वर्णान्तेन सबिन्दुना।
घ्यात्वार्चयित्वा स्तुत्वा च नमस्कृत्वा प्रसाद्य च ॥ 69 ॥

मूलम् - 69

प्रणवेन स्वनाम्ना च वर्णान्तेन सबिन्दुना।
घ्यात्वार्चयित्वा स्तुत्वा च नमस्कृत्वा प्रसाद्य च ॥ 69 ॥

विश्वास-प्रस्तुतिः - 70

निवेश्य तस्मिंस्तां मूर्तिं केवलां वा श्रिया सह।
स्वबीजं मन्त्रपूतं (वर्णं) तु “ओं लक्ष्मीपतये नमः” ॥ 70 ॥

मूलम् - 70

विश्वास-प्रस्तुतिः - 71

समुदीर्य धियाचार्य अङ्गोपाङ्गक्रमेण तु।
द्वादशाक्षरवर्णैस्तु स्वनामपदसंयुतैः ॥ 71 ॥

मूलम् - 71

समुदीर्य धियाचार्य अङ्गोपाङ्गक्रमेण तु।
द्वादशाक्षरवर्णैस्तु स्वनामपदसंयुतैः ॥ 71 ॥

विश्वास-प्रस्तुतिः - 72

दत्वा गन्धानि माल्यं च धूपं शव्यास्थितं प्रभुम्।
पूजयेत् पूर्वविधिना भोगैः सर्वैर्यथोदितैः ॥ 72 ॥

मूलम् - 72

दत्वा गन्धानि माल्यं च धूपं शव्यास्थितं प्रभुम्।
पूजयेत् पूर्वविधिना भोगैः सर्वैर्यथोदितैः ॥ 72 ॥

विश्वास-प्रस्तुतिः - 73

ततस्त्वभिनवं कुण्डं संस्कृत्याभ्यन्तरे द्विज!।
तेजस्तस्मिन् समाहूय मन्त्रेणानेन विन्यसेत् ॥ 73 ॥

मूलम् - 73

ततस्त्वभिनवं कुण्डं संस्कृत्याभ्यन्तरे द्विज!।
तेजस्तस्मिन् समाहूय मन्त्रेणानेन विन्यसेत् ॥ 73 ॥

विश्वास-प्रस्तुतिः - 74

“(ओं) हुताशनागच्छ विभो! कुण्डेऽस्मिन् हव्यवाहन!।
सन्निधानं घटे चास्मिन् कुरु मासचतुष्टयम्” ॥ 74 ॥

मूलम् - 74

“(ओं) हुताशनागच्छ विभो! कुण्डेऽस्मिन् हव्यवाहन!।
सन्निधानं घटे चास्मिन् कुरु मासचतुष्टयम्” ॥ 74 ॥

विश्वास-प्रस्तुतिः - 75

ततश्चावाह्य देवेशं तर्पयेत् पूर्ववत् क्रमात्।
होमं समाप्य संपूज्य ह्यर्घ्याद्येः संपठेदिदम् ॥ 75 ॥

मूलम् - 75

ततश्चावाह्य देवेशं तर्पयेत् पूर्ववत् क्रमात्।
होमं समाप्य संपूज्य ह्यर्घ्याद्येः संपठेदिदम् ॥ 75 ॥

विश्वास-प्रस्तुतिः - 76

“सुप्ते त्वयि जगन्नाथे जगत् सुप्तं भवेदिदम्।
प्रबुद्धेद त्वयि बुध्येत जगत् सर्वं चराचरम्” ॥ 76 ॥

मूलम् - 76

“सुप्ते त्वयि जगन्नाथे जगत् सुप्तं भवेदिदम्।
प्रबुद्धेद त्वयि बुध्येत जगत् सर्वं चराचरम्” ॥ 76 ॥

विश्वास-प्रस्तुतिः - 77

शाययित्वोपरि सितं दुकूलं धूपधूपितम्।
दत्वोपरि समभ्यर्च्य पुष्पधूपविलेपनैः ॥ 77 ॥

मूलम् - 77

शाययित्वोपरि सितं दुकूलं धूपधूपितम्।
दत्वोपरि समभ्यर्च्य पुष्पधूपविलेपनैः ॥ 77 ॥

विश्वास-प्रस्तुतिः - 78

सर्वसत्वोपसंहारां चिन्ताशक्तिं च विन्यसेत्।
दक्षिणे त्वभिमानाक्यमूर्तिं तु चमरोद्यताम् ॥ 78 ॥

मूलम् - 78

सर्वसत्वोपसंहारां चिन्ताशक्तिं च विन्यसेत्।
दक्षिणे त्वभिमानाक्यमूर्तिं तु चमरोद्यताम् ॥ 78 ॥

(एवं ज्ञाननिशां वामे तालवृन्तकरोद्यताम्।) उत्तमाङ्गपदे निद्रां करसंवाहने रताम् ॥ 79 ॥
विश्वास-प्रस्तुतिः - 80

पदारविन्ददेशस्थां लालयन्तीं कराम्बुजैः।
आदाय चरणौ दिव्यौ साक्षाच्छ्रीं निधिसंश्रिताम् ॥ 80 ॥

मूलम् - 80

पदारविन्ददेशस्थां लालयन्तीं कराम्बुजैः।
आदाय चरणौ दिव्यौ साक्षाच्छ्रीं निधिसंश्रिताम् ॥ 80 ॥

विश्वास-प्रस्तुतिः - 81

आनन्दं ब्रह्नणो रूपं तस्यै देवोऽदिदेवता।
तदन्तः स्मरणानन्दजातविस्मयलोचनाम् ॥ 81 ॥

मूलम् - 81

आनन्दं ब्रह्नणो रूपं तस्यै देवोऽदिदेवता।
तदन्तः स्मरणानन्दजातविस्मयलोचनाम् ॥ 81 ॥

विश्वास-प्रस्तुतिः - 82

स्वनामपदमन्त्रैस्ताः सम्पूज्याः प्रणवादिभिः।
राजती काञ्चनी मूर्तिस्ताम्रजा रीतिजाऽथवा ॥ 82 ॥

मूलम् - 82

स्वनामपदमन्त्रैस्ताः सम्पूज्याः प्रणवादिभिः।
राजती काञ्चनी मूर्तिस्ताम्रजा रीतिजाऽथवा ॥ 82 ॥

विश्वास-प्रस्तुतिः - 83

पूर्वा पूर्वा प्रशस्ता स्याच्छयनोत्थानकर्मणि।
यदि कुर्याद्विपर्यासं राजा राष्ट्रं विनश्यति ॥ 83 ॥

मूलम् - 83

पूर्वा पूर्वा प्रशस्ता स्याच्छयनोत्थानकर्मणि।
यदि कुर्याद्विपर्यासं राजा राष्ट्रं विनश्यति ॥ 83 ॥

विश्वास-प्रस्तुतिः - 84

दर्भमञ्जरिजे कूर्चे सर्वाभावे तदाऽचरेत्।
एवं हि देवशयनं प्रतिष्ठाप्य द्विजोत्तम! ॥ 84 ॥

मूलम् - 84

दर्भमञ्जरिजे कूर्चे सर्वाभावे तदाऽचरेत्।
एवं हि देवशयनं प्रतिष्ठाप्य द्विजोत्तम! ॥ 84 ॥

विश्वास-प्रस्तुतिः - 85

तस्यैवाग्रे स्वयं वाचा गृह्णीयान्नियमान्नरः।
चतुरो वार्षिकान् मासान् देवस्योत्थापनावधि ॥ 85 ॥

मूलम् - 85

तस्यैवाग्रे स्वयं वाचा गृह्णीयान्नियमान्नरः।
चतुरो वार्षिकान् मासान् देवस्योत्थापनावधि ॥ 85 ॥

विश्वास-प्रस्तुतिः - 86

स्त्री वा नरो वा तद्भक्तो धर्मार्थी सुदृढव्रतः।
गृह्णीयान्नियमानेतान् दन्तधावनपूर्वकम् ॥ 86 ॥

मूलम् - 86

स्त्री वा नरो वा तद्भक्तो धर्मार्थी सुदृढव्रतः।
गृह्णीयान्नियमानेतान् दन्तधावनपूर्वकम् ॥ 86 ॥

विश्वास-प्रस्तुतिः - 87

तेषां फलानि वक्ष्यामि तत्कर्तॄणां पृथक् पृथक्।
मधुस्वरो भवेद्विप्र! पुरुषो गुडवर्जनात् ॥ 87 ॥

मूलम् - 87

तेषां फलानि वक्ष्यामि तत्कर्तॄणां पृथक् पृथक्।
मधुस्वरो भवेद्विप्र! पुरुषो गुडवर्जनात् ॥ 87 ॥

विश्वास-प्रस्तुतिः - 88

लभेत सन्ततिं दीर्घां तैलसेवाविवर्जनात्।
अभ्यह्गवर्जनाद्ब्रह्नन्! सुन्दराङ्गः प्रजायते ॥ 88 ॥

मूलम् - 88

लभेत सन्ततिं दीर्घां तैलसेवाविवर्जनात्।
अभ्यह्गवर्जनाद्ब्रह्नन्! सुन्दराङ्गः प्रजायते ॥ 88 ॥

विश्वास-प्रस्तुतिः - 89

कटुतैलपरित्यागाच्छक्रावासमावाप्नुयात्।
प्रधूकतैलत्यागेन सौभाग्यमतुलं लभेत् ॥ 89 ॥

मूलम् - 89

कटुतैलपरित्यागाच्छक्रावासमावाप्नुयात्।
प्रधूकतैलत्यागेन सौभाग्यमतुलं लभेत् ॥ 89 ॥

विश्वास-प्रस्तुतिः - 90

पुष्पादिभोगत्यागेन स्वर्गे विद्याधरो भवेत्।
योगाभ्यासी भवेद्यस्तु स ब्रह्नपदमाप्नुयात् ॥ 90 ॥

मूलम् - 90

पुष्पादिभोगत्यागेन स्वर्गे विद्याधरो भवेत्।
योगाभ्यासी भवेद्यस्तु स ब्रह्नपदमाप्नुयात् ॥ 90 ॥

विश्वास-प्रस्तुतिः - 91

कस्तूरीकुङ्‌कुमक्षोदचन्दनाद्यनुलेपनम्।
यो वर्जयेत् स वैरूप्यं दौर्गन्ध्यं न तु वाप्नुयात् ॥ 91 ॥

मूलम् - 91

कस्तूरीकुङ्‌कुमक्षोदचन्दनाद्यनुलेपनम्।
यो वर्जयेत् स वैरूप्यं दौर्गन्ध्यं न तु वाप्नुयात् ॥ 91 ॥

विश्वास-प्रस्तुतिः - 92

ताम्बूलवर्जनाद्भोगी रक्तकण्ठश्च जायते।
घृतत्यागात् स लावण्यं सर्वस्निग्धतनुर्भवेत् ॥ 92 ॥

मूलम् - 92

ताम्बूलवर्जनाद्भोगी रक्तकण्ठश्च जायते।
घृतत्यागात् स लावण्यं सर्वस्निग्धतनुर्भवेत् ॥ 92 ॥

विश्वास-प्रस्तुतिः - 93

फलत्यागाच्च मतिमान् वहुपुत्रश्च जायते।
पादाभ्यह्गपरित्यागाच्छिरोभ्यङ्गविवर्जनात् ॥ 93 ॥

मूलम् - 93

फलत्यागाच्च मतिमान् वहुपुत्रश्च जायते।
पादाभ्यह्गपरित्यागाच्छिरोभ्यङ्गविवर्जनात् ॥ 93 ॥

विश्वास-प्रस्तुतिः - 94

दीप्तिमान् दीप्तकरणः साक्षाद्‌द्रव्यपतिर्भवेत्।
दधिदुग्धतक्रनियमाद्गोलोकं लभते नरः ॥ 94 ॥

मूलम् - 94

दीप्तिमान् दीप्तकरणः साक्षाद्‌द्रव्यपतिर्भवेत्।
दधिदुग्धतक्रनियमाद्गोलोकं लभते नरः ॥ 94 ॥

विश्वास-प्रस्तुतिः - 95

इन्द्रातिथित्वमाप्नोति स्थालीपाकविवर्जनात्।
लभते सन्ततिं दीर्घामपि पव्कमभक्षयन् ॥ 95 ॥

मूलम् - 95

इन्द्रातिथित्वमाप्नोति स्थालीपाकविवर्जनात्।
लभते सन्ततिं दीर्घामपि पव्कमभक्षयन् ॥ 95 ॥

विश्वास-प्रस्तुतिः - 96

भूमौ प्रस्तरशायी च विष्णोरनुचरो भवेत्।
सदा मुनिः सदा योगी मधुमांसस्य वर्जनात् ॥ 96 ॥

मूलम् - 96

भूमौ प्रस्तरशायी च विष्णोरनुचरो भवेत्।
सदा मुनिः सदा योगी मधुमांसस्य वर्जनात् ॥ 96 ॥

विश्वास-प्रस्तुतिः - 97

एवमादिपरित्यागाद्धर्मी स्याद्धर्मनन्दनः।
एकान्तरोपवासेन ब्रह्नलोके महीयते ॥ 97 ॥

मूलम् - 97

एवमादिपरित्यागाद्धर्मी स्याद्धर्मनन्दनः।
एकान्तरोपवासेन ब्रह्नलोके महीयते ॥ 97 ॥

विश्वास-प्रस्तुतिः - 98

धारणान्नखरोमाणां गङ्गास्नानं दिने दिने।
मौनव्रती भवेद्यस्तु तस्याज्ञा तुलिता भवेत् ॥ 98 ॥

मूलम् - 98

धारणान्नखरोमाणां गङ्गास्नानं दिने दिने।
मौनव्रती भवेद्यस्तु तस्याज्ञा तुलिता भवेत् ॥ 98 ॥

विश्वास-प्रस्तुतिः - 99

द्विषट्‌काक्षरनिष्णातः प्राप्नुयात् परमं पदम्।
नमो नारायणायेति जपन्नामशतं फलम् ॥ 99 ॥

मूलम् - 99

द्विषट्‌काक्षरनिष्णातः प्राप्नुयात् परमं पदम्।
नमो नारायणायेति जपन्नामशतं फलम् ॥ 99 ॥

विश्वास-प्रस्तुतिः - 100

पादाभिवन्दनाद्विष्णोर्लभेद्गोदानजं फलम्।
विष्णुपादाम्बुसंस्पर्शात् कृतकृत्यो भवेन्नरः ॥ 100 ॥

मूलम् - 100

पादाभिवन्दनाद्विष्णोर्लभेद्गोदानजं फलम्।
विष्णुपादाम्बुसंस्पर्शात् कृतकृत्यो भवेन्नरः ॥ 100 ॥

विश्वास-प्रस्तुतिः - 101

विष्णोरायतने कुर्यादुपलेपनमार्जने।
कल्पस्थायी भवेद्विप्र! स नरो नात्र संशयः ॥ 101 ॥

मूलम् - 101

विष्णोरायतने कुर्यादुपलेपनमार्जने।
कल्पस्थायी भवेद्विप्र! स नरो नात्र संशयः ॥ 101 ॥

विश्वास-प्रस्तुतिः - 102

प्रदक्षिणशतं यस्तु करोति स्तुतिपाठकः।
हंसयुक्तविमानेन स च विष्णुपुरं व्रजेत् ॥ 102 ॥

मूलम् - 102

प्रदक्षिणशतं यस्तु करोति स्तुतिपाठकः।
हंसयुक्तविमानेन स च विष्णुपुरं व्रजेत् ॥ 102 ॥

विश्वास-प्रस्तुतिः - 103

गीतवाद्यकरो विष्णोर्गान्धर्वं लोकमाप्नुयात्।
कृत्वा प्रदक्षिणं दिव्यं स्थानमप्सरसां व्रजेत् ॥ 103 ॥

मूलम् - 103

गीतवाद्यकरो विष्णोर्गान्धर्वं लोकमाप्नुयात्।
कृत्वा प्रदक्षिणं दिव्यं स्थानमप्सरसां व्रजेत् ॥ 103 ॥

विश्वास-प्रस्तुतिः - 104

नित्यं शास्त्रविनोदेन लोकान् यस्तु प्रबोधयेत्।
स व्यासरूपी विष्ण्वग्रे अन्ते विष्णुपुरं व्रजेत् ॥ 104 ॥

मूलम् - 104

नित्यं शास्त्रविनोदेन लोकान् यस्तु प्रबोधयेत्।
स व्यासरूपी विष्ण्वग्रे अन्ते विष्णुपुरं व्रजेत् ॥ 104 ॥

विश्वास-प्रस्तुतिः - 105

पुष्पमालाकुलां पूजां कृत्वा विष्णोःपुरं व्रजेत्।
प्रातःस्नायी नरो यस्तु नरकं स न गच्छति ॥ 105 ॥

मूलम् - 105

पुष्पमालाकुलां पूजां कृत्वा विष्णोःपुरं व्रजेत्।
प्रातःस्नायी नरो यस्तु नरकं स न गच्छति ॥ 105 ॥

विश्वास-प्रस्तुतिः - 106

भोजनं वर्जयेद्यस्तु स स्नानं पौष्करं लभेत्।
तीर्थाम्बुना हरेःस्नानान्निर्मलं देहमाप्नुयात् ॥ 106 ॥

मूलम् - 106

भोजनं वर्जयेद्यस्तु स स्नानं पौष्करं लभेत्।
तीर्थाम्बुना हरेःस्नानान्निर्मलं देहमाप्नुयात् ॥ 106 ॥

विश्वास-प्रस्तुतिः - 107

पञ्चगव्याशनाद्विप्र! चान्द्रायणफलं लभेत्।
पर्णेषु यो नरो भुङ्‌क्ते कुरुक्षेत्रफलं लभेत् ॥ 107 ॥

मूलम् - 107

पञ्चगव्याशनाद्विप्र! चान्द्रायणफलं लभेत्।
पर्णेषु यो नरो भुङ्‌क्ते कुरुक्षेत्रफलं लभेत् ॥ 107 ॥

विश्वास-प्रस्तुतिः - 108

शिलायां भोजनान्नित्यं स्नानं प्रायागजं लभेत्।
यामद्वयाशनत्यागान्न रोगैः परिभूयते ॥ 108 ॥

मूलम् - 108

शिलायां भोजनान्नित्यं स्नानं प्रायागजं लभेत्।
यामद्वयाशनत्यागान्न रोगैः परिभूयते ॥ 108 ॥

विश्वास-प्रस्तुतिः - 109

एवमादिव्रतैर्देवस्तुष्टिमाप्नोति तोषितः।
यस्मिन् देशे तु तद्भक्तो यो मासांश्चतुरः क्षिपेत् ॥ 109 ॥

मूलम् - 109

एवमादिव्रतैर्देवस्तुष्टिमाप्नोति तोषितः।
यस्मिन् देशे तु तद्भक्तो यो मासांश्चतुरः क्षिपेत् ॥ 109 ॥

विश्वास-प्रस्तुतिः - 110

व्रतैरनेकैर्नियमैर्महद्भिः श्रेष्ठमानसः।
कल्पस्थायी विष्णुलोके संवसेन्नात्र संशयः ॥ 110 ॥

मूलम् - 110

व्रतैरनेकैर्नियमैर्महद्भिः श्रेष्ठमानसः।
कल्पस्थायी विष्णुलोके संवसेन्नात्र संशयः ॥ 110 ॥

विश्वास-प्रस्तुतिः - 111

चतुरो वार्षिकान् मासान्नियमो येन यत्कृते।
कथयित्वा द्विजेन्द्रेभ्यो भुक्तेभ्यस्तं स दक्षिणाम् ॥ 111 ॥

मूलम् - 111

चतुरो वार्षिकान् मासान्नियमो येन यत्कृते।
कथयित्वा द्विजेन्द्रेभ्यो भुक्तेभ्यस्तं स दक्षिणाम् ॥ 111 ॥

विश्वास-प्रस्तुतिः - 112

दत्वा विसर्जयेद्विप्रांस्ततो भुञ्जीत च स्वयम्।
यन्नक्तं चतुरो मासान् प्रवृत्तिं तस्य वाऽचरेत् ॥ 112 ॥

मूलम् - 112

दत्वा विसर्जयेद्विप्रांस्ततो भुञ्जीत च स्वयम्।
यन्नक्तं चतुरो मासान् प्रवृत्तिं तस्य वाऽचरेत् ॥ 112 ॥

विश्वास-प्रस्तुतिः - 113

एवं य आचरेद्विद्वान् सोऽनन्तं धर्ममाप्नुयात्।
यस्य विष्णोः समाप्येत चातुर्मास्यव्रतं द्विज! ॥ 113 ॥

मूलम् - 113

एवं य आचरेद्विद्वान् सोऽनन्तं धर्ममाप्नुयात्।
यस्य विष्णोः समाप्येत चातुर्मास्यव्रतं द्विज! ॥ 113 ॥

विश्वास-प्रस्तुतिः - 114

स भवेत् कृतकृत्यस्तु न पुनर्मानुषो भवेत्।
तदन्ते जन्म चासाद्य शुचीनां श्रीमता गृहे ॥ 114 ॥

मूलम् - 114

स भवेत् कृतकृत्यस्तु न पुनर्मानुषो भवेत्।
तदन्ते जन्म चासाद्य शुचीनां श्रीमता गृहे ॥ 114 ॥

विश्वास-प्रस्तुतिः - 115

शास्त्रमेकायनं ज्ञात्वा सम्यक् कृत्वा तदुद्भवम्।
त्रयोदशविधं कर्म भगवन्तं समाप्नुयात् ॥ 115 ॥

मूलम् - 115

शास्त्रमेकायनं ज्ञात्वा सम्यक् कृत्वा तदुद्भवम्।
त्रयोदशविधं कर्म भगवन्तं समाप्नुयात् ॥ 115 ॥

विश्वास-प्रस्तुतिः - 116

एवं संकल्प्य नियमानन्यान् वै शास्त्रचोदितान्।
कार्यात्र प्रत्यहं पूजा मार्जनं चोपलेपनम् ॥ 116 ॥

मूलम् - 116

एवं संकल्प्य नियमानन्यान् वै शास्त्रचोदितान्।
कार्यात्र प्रत्यहं पूजा मार्जनं चोपलेपनम् ॥ 116 ॥

विश्वास-प्रस्तुतिः - 117

मृदा धातुविकारैर्वा सुगन्धैश्चन्दनादिकैः।
प्रदानं धूपदीपानां व्यजनेनानिलोत्थितिः ॥ 117 ॥

मूलम् - 117

मृदा धातुविकारैर्वा सुगन्धैश्चन्दनादिकैः।
प्रदानं धूपदीपानां व्यजनेनानिलोत्थितिः ॥ 117 ॥

विश्वास-प्रस्तुतिः - 118

शशिचन्दनसंमिश्रं शीतलोदकसत् क्रिया।
कदलीफलकल्हारैः पझोत्पलविमिश्रितैः ॥ 118 ॥

मूलम् - 118

शशिचन्दनसंमिश्रं शीतलोदकसत् क्रिया।
कदलीफलकल्हारैः पझोत्पलविमिश्रितैः ॥ 118 ॥

विश्वास-प्रस्तुतिः - 119

स्वेदशान्तिं समापाद्य पौनः पुन्येन पूजनम्।
वेणुवीणासमोपेतां गीतिं च मधुरस्वनाम् ॥ 119 ॥

मूलम् - 119

स्वेदशान्तिं समापाद्य पौनः पुन्येन पूजनम्।
वेणुवीणासमोपेतां गीतिं च मधुरस्वनाम् ॥ 119 ॥

विश्वास-प्रस्तुतिः - 120

एवं मासद्वये याते याते मेघरवेऽम्बरात्।
ब्रह्नन्! भाद्रपदे मासि द्वादश्यां हि निशामुखे ॥ 120 ॥

मूलम् - 120

एवं मासद्वये याते याते मेघरवेऽम्बरात्।
ब्रह्नन्! भाद्रपदे मासि द्वादश्यां हि निशामुखे ॥ 120 ॥

विश्वास-प्रस्तुतिः - 121

ईषत् प्रबोधमाश्रित्य देवदेवो ह्यधोक्षजः।
स्थित्यर्थममराणां च परिवर्तनमाचरेत् ॥ 121 ॥

मूलम् - 121

ईषत् प्रबोधमाश्रित्य देवदेवो ह्यधोक्षजः।
स्थित्यर्थममराणां च परिवर्तनमाचरेत् ॥ 121 ॥

विश्वास-प्रस्तुतिः - 122

दक्षिणेनाङ्गसङ्गेन त्यक्त्वा चोत्तानशायिनीम्।
योगनिद्रां समाश्रित्य प्रकुर्वन् प्रभवाप्ययौ ॥ 122 ॥

मूलम् - 122

दक्षिणेनाङ्गसङ्गेन त्यक्त्वा चोत्तानशायिनीम्।
योगनिद्रां समाश्रित्य प्रकुर्वन् प्रभवाप्ययौ ॥ 122 ॥

विश्वास-प्रस्तुतिः - 123

वायुचक्रान्तरस्थस्य जगद्बीजचयस्य च।
मुखेन्दुमण्डलाच्चाथ अपोह्याच्छादनाम्बरम् ॥ 123 ॥

मूलम् - 123

वायुचक्रान्तरस्थस्य जगद्बीजचयस्य च।
मुखेन्दुमण्डलाच्चाथ अपोह्याच्छादनाम्बरम् ॥ 123 ॥

विश्वास-प्रस्तुतिः - 124

आस्ते चाश्वयुजे चैव द्वादश्यां परमेश्वरः।
सन्त्यज्य शयनं दिव्यं निशायां कार्तिकस्य तु ॥ 124 ॥

मूलम् - 124

आस्ते चाश्वयुजे चैव द्वादश्यां परमेश्वरः।
सन्त्यज्य शयनं दिव्यं निशायां कार्तिकस्य तु ॥ 124 ॥

विश्वास-प्रस्तुतिः - 125

उत्थायामरनाथस्तु समाक्रम्य पतत्रिराट्।
निश्शेषभुवनग्रामवीधीनां दोषशान्तये ॥ 125 ॥

मूलम् - 125

उत्थायामरनाथस्तु समाक्रम्य पतत्रिराट्।
निश्शेषभुवनग्रामवीधीनां दोषशान्तये ॥ 125 ॥

विश्वास-प्रस्तुतिः - 126

विचरत्यप्रमेयात्मा नन्दयंस्तु सुरादिकान्।
संहर्षयन् जगत्यस्मिन् सुकृतां धर्मपद्धतिम् ॥ 126 ॥

मूलम् - 126

विचरत्यप्रमेयात्मा नन्दयंस्तु सुरादिकान्।
संहर्षयन् जगत्यस्मिन् सुकृतां धर्मपद्धतिम् ॥ 126 ॥

विश्वास-प्रस्तुतिः - 127

एवं भक्तजनैः कार्यं तस्य तच्चेष्टितं महत्।
विविधैरुत्सवैर्दानैर्जपजागरणस्तवैः ॥ 127 ॥

मूलम् - 127

एवं भक्तजनैः कार्यं तस्य तच्चेष्टितं महत्।
विविधैरुत्सवैर्दानैर्जपजागरणस्तवैः ॥ 127 ॥

विश्वास-प्रस्तुतिः - 128

नृत्तगीतसमोपेतैर्विलासैर्हास्यसंयुतैः।
क्रीडमानैः सुमनसैः प्रयतैः प्रणतैर्विभोः ॥ 128 ॥

मूलम् - 128

नृत्तगीतसमोपेतैर्विलासैर्हास्यसंयुतैः।
क्रीडमानैः सुमनसैः प्रयतैः प्रणतैर्विभोः ॥ 128 ॥

विश्वास-प्रस्तुतिः - 129

एकदेशस्थितैर्विप्र! अननय्मनसैः सदा।
विशेषयागपूर्वं तु परिवर्तनमाचरेत् ॥ 129 ॥

मूलम् - 129

एकदेशस्थितैर्विप्र! अननय्मनसैः सदा।
विशेषयागपूर्वं तु परिवर्तनमाचरेत् ॥ 129 ॥

विश्वास-प्रस्तुतिः - 130

तद्वत् प्रभातवेलायामासनं च विधीयते।
प्रबोधनं ततः कुर्याच्छयनस्थस्य वै विभोः ॥ 130 ॥

मूलम् - 130

तद्वत् प्रभातवेलायामासनं च विधीयते।
प्रबोधनं ततः कुर्याच्छयनस्थस्य वै विभोः ॥ 130 ॥

विश्वास-प्रस्तुतिः - 131

द्वादश्यां शुक्लपक्षस्य कार्तिके मासि वै द्विज!।
दशम्यां विधिवत् कृत्वा संकल्पं पूर्ववद्‌बुधः ॥ 131 ॥

मूलम् - 131

द्वादश्यां शुक्लपक्षस्य कार्तिके मासि वै द्विज!।
दशम्यां विधिवत् कृत्वा संकल्पं पूर्ववद्‌बुधः ॥ 131 ॥

विश्वास-प्रस्तुतिः - 132

निमन्त्रणं द्विजातीनामेकादश्यां तथैव च।
पूर्ववते पूजनं कृत्वा चतुःस्थानस्थितस्य वै ॥ 132 ॥

मूलम् - 132

निमन्त्रणं द्विजातीनामेकादश्यां तथैव च।
पूर्ववते पूजनं कृत्वा चतुःस्थानस्थितस्य वै ॥ 132 ॥

विश्वास-प्रस्तुतिः - 133

रात्रौ प्रजागरं कुर्यात् सहायैः सह देशिकः।
पुण्याख्यानकथाभिस्तु स्तोत्रपूर्वैस्तु गीतकैः ॥ 133 ॥

मूलम् - 133

रात्रौ प्रजागरं कुर्यात् सहायैः सह देशिकः।
पुण्याख्यानकथाभिस्तु स्तोत्रपूर्वैस्तु गीतकैः ॥ 133 ॥

विश्वास-प्रस्तुतिः - 134

सवाद्यैर्मधुरैर्नृत्तैरपहासैस्तु हर्षदैः।
जयशब्दैर्नमस्कारैः करतालसमन्वितैः ॥ 134 ॥

मूलम् - 134

सवाद्यैर्मधुरैर्नृत्तैरपहासैस्तु हर्षदैः।
जयशब्दैर्नमस्कारैः करतालसमन्वितैः ॥ 134 ॥

विश्वास-प्रस्तुतिः - 135

सोपवासः शुचिः स्नात्वा समाराध्य परं प्रभुम्।
भोगैः षड्रसपूर्णैस्तु सुपूर्णैरौपचारिकैः ॥ 135 ॥

मूलम् - 135

सोपवासः शुचिः स्नात्वा समाराध्य परं प्रभुम्।
भोगैः षड्रसपूर्णैस्तु सुपूर्णैरौपचारिकैः ॥ 135 ॥

विश्वास-प्रस्तुतिः - 136

अर्घ्यैर्विलेपनैर्माल्यैर्मृष्टधूपसमन्वितैः।
ब्राह्ने मुहूर्ते द्वादश्यां मन्त्रमूर्तिं प्रबोधयेत् ॥ 136 ॥

मूलम् - 136

अर्घ्यैर्विलेपनैर्माल्यैर्मृष्टधूपसमन्वितैः।
ब्राह्ने मुहूर्ते द्वादश्यां मन्त्रमूर्तिं प्रबोधयेत् ॥ 136 ॥

विश्वास-प्रस्तुतिः - 137

“प्रबुद्ध! त्वं जगन्नाथ! प्रबुद्ध! परमेश्वर!।
प्रबुद्ध! पुण्डरीकाक्ष! भक्तानामनुकम्पया ॥ 137 ॥

मूलम् - 137

“प्रबुद्ध! त्वं जगन्नाथ! प्रबुद्ध! परमेश्वर!।
प्रबुद्ध! पुण्डरीकाक्ष! भक्तानामनुकम्पया ॥ 137 ॥

विश्वास-प्रस्तुतिः - 138

त्वयि प्रबुद्धे देवेश! तवाग्रे परमेश्वर!।
लौकिकानीह यज्ञानि तानि निर्वर्तयाम्यहम् ॥ 138 ॥

मूलम् - 138

त्वयि प्रबुद्धे देवेश! तवाग्रे परमेश्वर!।
लौकिकानीह यज्ञानि तानि निर्वर्तयाम्यहम् ॥ 138 ॥

विश्वास-प्रस्तुतिः - 139

अग्रतः सर्वयज्ञानां त्वं प्रभुर्नामतः सदा।
नापरेषु जगन्नाथ! पूजितेषु सुरेषु च ॥ 139 ॥

मूलम् - 139

अग्रतः सर्वयज्ञानां त्वं प्रभुर्नामतः सदा।
नापरेषु जगन्नाथ! पूजितेषु सुरेषु च ॥ 139 ॥

विश्वास-प्रस्तुतिः - 140

मयि यज्ञसमाप्तिः स्यात् त्वयि सन्तर्पितेऽनले।
सर्वे देवानलमुखाः स चाग्निस्त्वन्मुखे कृतः । 140 ॥

मूलम् - 140

मयि यज्ञसमाप्तिः स्यात् त्वयि सन्तर्पितेऽनले।
सर्वे देवानलमुखाः स चाग्निस्त्वन्मुखे कृतः । 140 ॥

विश्वास-प्रस्तुतिः - 141

ब्रह्ना स्वयं ब्रह्नलोके स्वर्गे स्वर्गनिवासिनः।
सात्विका मानुषे लोके नागाद्याश्च रसातले ॥ 141 ॥

मूलम् - 141

ब्रह्ना स्वयं ब्रह्नलोके स्वर्गे स्वर्गनिवासिनः।
सात्विका मानुषे लोके नागाद्याश्च रसातले ॥ 141 ॥

विश्वास-प्रस्तुतिः - 142

त्वयि प्रबोधयन्त्येते स्वार्थसंसिद्धये सदा।
त्यज योगमयीं निद्रां कृपां कुरु सनातन!” ॥ 142 ॥

मूलम् - 142

त्वयि प्रबोधयन्त्येते स्वार्थसंसिद्धये सदा।
त्यज योगमयीं निद्रां कृपां कुरु सनातन!” ॥ 142 ॥

विश्वास-प्रस्तुतिः - 143

बोधश्च मामनिर्बोध' इति मन्त्रमुदाहरन्। उत्तिष्ठ ब्रह्नणस्पते उदुत्यं जातवेदसम्’ ॥ 143 ॥

मूलम् - 143

बोधश्च मामनिर्बोध' इति मन्त्रमुदाहरन्। उत्तिष्ठ ब्रह्नणस्पते उदुत्यं जातवेदसम्’ ॥ 143 ॥

`इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्।' `समूढमस्य पाँ सुरे स्वाहा' ॥ 144 ॥
विश्वास-प्रस्तुतिः - 145

जितंतेनोच्चया वाचा समस्तव्यस्तयोगतः।
शङ्खध्वनिसमोपेतैः दुन्दुभीपटहस्वनैः ॥ 145 ॥

मूलम् - 145

जितंतेनोच्चया वाचा समस्तव्यस्तयोगतः।
शङ्खध्वनिसमोपेतैः दुन्दुभीपटहस्वनैः ॥ 145 ॥

विश्वास-प्रस्तुतिः - 146

वन्दिबृन्दोत्थितोच्चाभिर्नानावाग्भिर्महामते!।
महाजयजयारावैः पुनःपुनरुदीरितैः ॥ 146 ॥

मूलम् - 146

वन्दिबृन्दोत्थितोच्चाभिर्नानावाग्भिर्महामते!।
महाजयजयारावैः पुनःपुनरुदीरितैः ॥ 146 ॥

विश्वास-प्रस्तुतिः - 147

प्रवोधलक्षणैः स्तोत्रैरुत्थाप्य शयनात्ततः।
अर्घ्यगन्धादिनाभ्यर्च्य प्रविशेद्यागमण्डपम् ॥ 147 ॥

मूलम् - 147

प्रवोधलक्षणैः स्तोत्रैरुत्थाप्य शयनात्ततः।
अर्घ्यगन्धादिनाभ्यर्च्य प्रविशेद्यागमण्डपम् ॥ 147 ॥

विश्वास-प्रस्तुतिः - 148

संपूर्याभिमतं रागैर्मण्डलं चाधिवासितम्।
कुम्भमण्डलयोः पूर्वं पूजां कृत्वा विधानतः ॥ 148 ॥

मूलम् - 148

संपूर्याभिमतं रागैर्मण्डलं चाधिवासितम्।
कुम्भमण्डलयोः पूर्वं पूजां कृत्वा विधानतः ॥ 148 ॥

विश्वास-प्रस्तुतिः - 149

पश्चादुत्सवमूर्तिं च यजेन्मण्डलपश्चिमे।
महास्नपनपूर्वैस्तु भोगैः पूर्णैर्यथोचितैः ॥ 149 ॥

मूलम् - 149

पश्चादुत्सवमूर्तिं च यजेन्मण्डलपश्चिमे।
महास्नपनपूर्वैस्तु भोगैः पूर्णैर्यथोचितैः ॥ 149 ॥

विश्वास-प्रस्तुतिः - 150

होमं तु विधिवत् कृत्वा तोषयेत् परितो द्विज!।
एकायनीयशाखोत्थैः साक्षात्तत्प्रतिपादकैः ॥ 150 ॥

मूलम् - 150

होमं तु विधिवत् कृत्वा तोषयेत् परितो द्विज!।
एकायनीयशाखोत्थैः साक्षात्तत्प्रतिपादकैः ॥ 150 ॥

विश्वास-प्रस्तुतिः - 151

दिव्यैर्बलादिकैर्मन्त्रैर्व्यापकैः प्रणवान्वितैः।
ऋग्यजुस्सामसंभूतैर्मन्त्रैः स्तोत्रैः पृथग्विधैः ॥ 151 ॥

मूलम् - 151

दिव्यैर्बलादिकैर्मन्त्रैर्व्यापकैः प्रणवान्वितैः।
ऋग्यजुस्सामसंभूतैर्मन्त्रैः स्तोत्रैः पृथग्विधैः ॥ 151 ॥

विश्वास-प्रस्तुतिः - 152

गीतकैर्विविधैर्नृत्तैर्वाद्यैस्तन्त्र्यादिभिस्तदा।
एवं प्रवृत्ते गीताद्ये यायाच्छ्य्यानिकेतनम् ॥ 152 ॥

मूलम् - 152

गीतकैर्विविधैर्नृत्तैर्वाद्यैस्तन्त्र्यादिभिस्तदा।
एवं प्रवृत्ते गीताद्ये यायाच्छ्य्यानिकेतनम् ॥ 152 ॥

विश्वास-प्रस्तुतिः - 153

प्रबोधितं तु विधिवत् स्नापयेत् पूर्ववत् प्रभुम्।
संपूज्य च तथा भक्त्या क्रमेण च महामुने! ॥ 153 ॥

मूलम् - 153

प्रबोधितं तु विधिवत् स्नापयेत् पूर्ववत् प्रभुम्।
संपूज्य च तथा भक्त्या क्रमेण च महामुने! ॥ 153 ॥

विश्वास-प्रस्तुतिः - 154

महाविभूतिसंभारैः पुष्पधूपानुलेपनैः।
नैवेद्यैर्विविधैर्विप्र! स्तोत्रवादित्रपूर्वकैः ॥ 154 ॥

मूलम् - 154

महाविभूतिसंभारैः पुष्पधूपानुलेपनैः।
नैवेद्यैर्विविधैर्विप्र! स्तोत्रवादित्रपूर्वकैः ॥ 154 ॥

विश्वास-प्रस्तुतिः - 155

अग्नौ सन्तर्पयेत् पश्चात् सविशेषं यथाविधि।
पश्चादुत्सवमूर्तिं तां पूजितां यागमण्डपात् ॥ 155 ॥

मूलम् - 155

अग्नौ सन्तर्पयेत् पश्चात् सविशेषं यथाविधि।
पश्चादुत्सवमूर्तिं तां पूजितां यागमण्डपात् ॥ 155 ॥

विश्वास-प्रस्तुतिः - 156

समानीय रथाद्येषु यानेत्वभिमतेर्चिते।
स्थाप्य प्रासादपूर्वं वा भ्रामयेद्‌ग्रामपूर्वकम् ॥ 156 ॥

मूलम् - 156

समानीय रथाद्येषु यानेत्वभिमतेर्चिते।
स्थाप्य प्रासादपूर्वं वा भ्रामयेद्‌ग्रामपूर्वकम् ॥ 156 ॥

विश्वास-प्रस्तुतिः - 157

वक्राधिष्ठानपूर्वं वा संस्थाप्य भ्रामयेद्‌द्विज!।
गणिका भगवद्भक्तैः सह नागरिकैर्जनैः ॥ 157 ॥

मूलम् - 157

वक्राधिष्ठानपूर्वं वा संस्थाप्य भ्रामयेद्‌द्विज!।
गणिका भगवद्भक्तैः सह नागरिकैर्जनैः ॥ 157 ॥

विश्वास-प्रस्तुतिः - 158

परिव्राड्‌ब्रह्नचारिभिः जपस्तुतिपरायणैः।
द्विजेन्द्रप्रमुखैर्वृत्तसंयुक्तैस्तत्परायणैः ॥ 158 ॥

मूलम् - 158

परिव्राड्‌ब्रह्नचारिभिः जपस्तुतिपरायणैः।
द्विजेन्द्रप्रमुखैर्वृत्तसंयुक्तैस्तत्परायणैः ॥ 158 ॥

विश्वास-प्रस्तुतिः - 159

श्वेताम्बरधरैः सर्वैर्ध्वजोत्तरकरैः शुभैः।
वालव्यजनहस्तैश्च पताकोद्यतपाणिभिः ॥ 159 ॥

मूलम् - 159

श्वेताम्बरधरैः सर्वैर्ध्वजोत्तरकरैः शुभैः।
वालव्यजनहस्तैश्च पताकोद्यतपाणिभिः ॥ 159 ॥

विश्वास-प्रस्तुतिः - 160

पझोत्पलकरैश्चान्यैर्द्विजैर्वेत्रलताकरैः।
लाजसिद्धार्थककरैरन्यैरक्षतपाणिभिः ॥ 160 ॥

मूलम् - 160

पझोत्पलकरैश्चान्यैर्द्विजैर्वेत्रलताकरैः।
लाजसिद्धार्थककरैरन्यैरक्षतपाणिभिः ॥ 160 ॥

विश्वास-प्रस्तुतिः - 161

सुसुगन्धतयाच्छिन्नधूपपात्रकरैस्तथा।
फलपुष्पकरैश्चान्यैस्तथा पूर्णघटोद्यतैः ॥ 161 ॥

मूलम् - 161

सुसुगन्धतयाच्छिन्नधूपपात्रकरैस्तथा।
फलपुष्पकरैश्चान्यैस्तथा पूर्णघटोद्यतैः ॥ 161 ॥

विश्वास-प्रस्तुतिः - 162

अन्यैः कलशहस्तैश्च गदाचक्रधरैः सदा।
शङ्खातपत्रहस्तैश्च दण्डलाङ्गलधारिभिः ॥ 162 ॥

मूलम् - 162

अन्यैः कलशहस्तैश्च गदाचक्रधरैः सदा।
शङ्खातपत्रहस्तैश्च दण्डलाङ्गलधारिभिः ॥ 162 ॥

विश्वास-प्रस्तुतिः - 163

ऋङ्भन्त्रोद्धोषणपरैर्जपस्तुतिपरैस्तथा।
प्रयत्नाद्देवतासीभिर्नृत्तगीतादि चोत्सवम् ॥ 163 ॥

मूलम् - 163

ऋङ्भन्त्रोद्धोषणपरैर्जपस्तुतिपरैस्तथा।
प्रयत्नाद्देवतासीभिर्नृत्तगीतादि चोत्सवम् ॥ 163 ॥

विश्वास-प्रस्तुतिः - 164

कारयेत् सर्वतो वीथीर्वाद्यैरन्यैः पृथग्विधैः।
प्रदहेत् सुरभिं धूपं पृथक् साज्यं च गुग्गुलुम् ॥ 164 ॥

मूलम् - 164

कारयेत् सर्वतो वीथीर्वाद्यैरन्यैः पृथग्विधैः।
प्रदहेत् सुरभिं धूपं पृथक् साज्यं च गुग्गुलुम् ॥ 164 ॥

विश्वास-प्रस्तुतिः - 165

अर्थिनश्चार्थनिचयैस्तर्पणीयाश्च शक्तितः।
देवीयब्रह्नयानस्य भ्रममाणस्य वै द्विज! ॥ 165 ॥

मूलम् - 165

अर्थिनश्चार्थनिचयैस्तर्पणीयाश्च शक्तितः।
देवीयब्रह्नयानस्य भ्रममाणस्य वै द्विज! ॥ 165 ॥

विश्वास-प्रस्तुतिः - 166

अल्पमात्रं तु यो दद्यात् पञ्चकालपरायणे।
दानं सहस्रगुणितं विस्तारं याति तत्र तत् ॥ 166 ॥

मूलम् - 166

अल्पमात्रं तु यो दद्यात् पञ्चकालपरायणे।
दानं सहस्रगुणितं विस्तारं याति तत्र तत् ॥ 166 ॥

विश्वास-प्रस्तुतिः - 167

पुष्पमूलादिनैवेद्यैः फलमूलैर्धनैस्तथा।
ब्रह्नयानगतं देवं यः पूजयति भक्तितः ॥ 167 ॥

मूलम् - 167

पुष्पमूलादिनैवेद्यैः फलमूलैर्धनैस्तथा।
ब्रह्नयानगतं देवं यः पूजयति भक्तितः ॥ 167 ॥

विश्वास-प्रस्तुतिः - 168

तद्दानं लक्षगुणितं विस्तारं नात्र संशयः।
सर्षपाक्षतपुष्पाणि अग्रतः पृष्ठतो विभोः ॥ 168 ॥

मूलम् - 168

तद्दानं लक्षगुणितं विस्तारं नात्र संशयः।
सर्षपाक्षतपुष्पाणि अग्रतः पृष्ठतो विभोः ॥ 168 ॥

विश्वास-प्रस्तुतिः - 169

क्षेप्तव्यानि द्विजश्रेष्ठ! ऊर्ध्वे च ककुबष्टके।
एवं विधं ब्रह्नरथं वेष्णवं विघ्ननाशनम् ॥ 169 ॥

मूलम् - 169

क्षेप्तव्यानि द्विजश्रेष्ठ! ऊर्ध्वे च ककुबष्टके।
एवं विधं ब्रह्नरथं वेष्णवं विघ्ननाशनम् ॥ 169 ॥

विश्वास-प्रस्तुतिः - 170

ग्रामे पुरे वा नगरे भ्राम्यते यत्र कुत्नचित्।
विपापोऽसौ भवेद्देशो न दुर्भिक्षभयं भवेत् ॥ 170 ॥

मूलम् - 170

ग्रामे पुरे वा नगरे भ्राम्यते यत्र कुत्नचित्।
विपापोऽसौ भवेद्देशो न दुर्भिक्षभयं भवेत् ॥ 170 ॥

विश्वास-प्रस्तुतिः - 171

नाकालमृत्युना किञ्चित् प्राप्यते विधिना तथा।
ईतयोपद्रवाद्याश्च पर्समं यान्ति सर्वदा ॥ 171 ॥

मूलम् - 171

नाकालमृत्युना किञ्चित् प्राप्यते विधिना तथा।
ईतयोपद्रवाद्याश्च पर्समं यान्ति सर्वदा ॥ 171 ॥

विश्वास-प्रस्तुतिः - 172

नश्यन्ति तस्करास्तत्र नाधर्मः संप्रवर्तते।
धर्मयुक्तो भवेद्राजा जना धर्मपरास्तथा ॥ 172 ॥

मूलम् - 172

नश्यन्ति तस्करास्तत्र नाधर्मः संप्रवर्तते।
धर्मयुक्तो भवेद्राजा जना धर्मपरास्तथा ॥ 172 ॥

विश्वास-प्रस्तुतिः - 173

भवन्ति सुखिनः सर्वे दुःखशोकविवर्जिताः।
एवं प्रदक्षिणीकृत्य क्षिप्त्वा पुष्पाञ्जलिं ततः ॥ 173 ॥

मूलम् - 173

भवन्ति सुखिनः सर्वे दुःखशोकविवर्जिताः।
एवं प्रदक्षिणीकृत्य क्षिप्त्वा पुष्पाञ्जलिं ततः ॥ 173 ॥

विश्वास-प्रस्तुतिः - 174

अवतार्य रथान्मन्त्रं चक्राधिष्ठानपूर्वकम्।
यष्टव्यमर्घ्यगन्धाद्यैर्मुद्रां बद्‌ध्वा जपेत्ततः ॥ 174 ॥

मूलम् - 174

अवतार्य रथान्मन्त्रं चक्राधिष्ठानपूर्वकम्।
यष्टव्यमर्घ्यगन्धाद्यैर्मुद्रां बद्‌ध्वा जपेत्ततः ॥ 174 ॥

विश्वास-प्रस्तुतिः - 175

तर्पणीयमथाज्याद्यैर्दद्यात् पूर्णाहुतिं शुभाम्।
अर्घ्यधूपप्रधानाद्यैः क्षमयेत् पुरुषोत्तमम् ॥ 175 ॥

मूलम् - 175

तर्पणीयमथाज्याद्यैर्दद्यात् पूर्णाहुतिं शुभाम्।
अर्घ्यधूपप्रधानाद्यैः क्षमयेत् पुरुषोत्तमम् ॥ 175 ॥

विश्वास-प्रस्तुतिः - 176

ततो यागगृहं नीत्वा प्रणिपत्य मुहुर्मुहुः।
ततः शयनमूर्तेस्तु गत्वैवं सन्निधिं गुरुः ॥ 176 ॥

मूलम् - 176

ततो यागगृहं नीत्वा प्रणिपत्य मुहुर्मुहुः।
ततः शयनमूर्तेस्तु गत्वैवं सन्निधिं गुरुः ॥ 176 ॥

विश्वास-प्रस्तुतिः - 177

चतुः प्रदक्षिणीकृत्य अष्टाङ्गेन नमेत् क्षितौ।
तोषयित्वा जगन्नाथं ब्रह्नयानादिषु द्विज! ॥ 177 ॥

मूलम् - 177

चतुः प्रदक्षिणीकृत्य अष्टाङ्गेन नमेत् क्षितौ।
तोषयित्वा जगन्नाथं ब्रह्नयानादिषु द्विज! ॥ 177 ॥

विश्वास-प्रस्तुतिः - 178

संस्थाप्य भ्रामयेद्भक्त्या प्रासादं साम्प्रतं क्रमात्।
प्रविश्य गर्भगेहं तु द्वारदेशे स्थितः प्रभुम् ॥ 178 ॥

मूलम् - 178

संस्थाप्य भ्रामयेद्भक्त्या प्रासादं साम्प्रतं क्रमात्।
प्रविश्य गर्भगेहं तु द्वारदेशे स्थितः प्रभुम् ॥ 178 ॥

विश्वास-प्रस्तुतिः - 179

अर्घ्यपाद्यादिभिः पूज्य निनयेदन्तरं ततः।
मूलमूर्तिं प्रणम्याथ अर्घ्यगन्धादिभिर्यजेत् ॥ 179 ॥

मूलम् - 179

अर्घ्यपाद्यादिभिः पूज्य निनयेदन्तरं ततः।
मूलमूर्तिं प्रणम्याथ अर्घ्यगन्धादिभिर्यजेत् ॥ 179 ॥

विश्वास-प्रस्तुतिः - 180

विसर्जयेत्तु तन्मूर्तौ मन्त्रं शयनमूर्तिगम्।
पश्चादुत्सवमूर्तिं तां पूजितां यागमण्डपात् ॥ 180 ॥

मूलम् - 180

विसर्जयेत्तु तन्मूर्तौ मन्त्रं शयनमूर्तिगम्।
पश्चादुत्सवमूर्तिं तां पूजितां यागमण्डपात् ॥ 180 ॥

विश्वास-प्रस्तुतिः - 181

प्रदक्षिणक्रमेणऐव गर्भगेहं प्रवेशयेत्।
मूलमूर्तिगतं देवमर्घ्याद्यैः संप्रपूज्य च ॥ 181 ॥

मूलम् - 181

प्रदक्षिणक्रमेणऐव गर्भगेहं प्रवेशयेत्।
मूलमूर्तिगतं देवमर्घ्याद्यैः संप्रपूज्य च ॥ 181 ॥

विश्वास-प्रस्तुतिः - 182

स्तुत्वा विज्ञाप्य तद्‌भूयो गुणातीतमधोक्षजम्।
“अनेनोत्सवयोगेन यागपूजादिकेन च ॥ 182 ॥

मूलम् - 182

स्तुत्वा विज्ञाप्य तद्‌भूयो गुणातीतमधोक्षजम्।
“अनेनोत्सवयोगेन यागपूजादिकेन च ॥ 182 ॥

निर्वर्तितेन भगवंस्त्वं मम प्रीयतामिति।" ततो विसर्जयित्वा तु कुम्भमण्डलमध्यगम् ॥ 183 ॥
विश्वास-प्रस्तुतिः - 184

कृत्वा यागं गणेशस्य कुर्यात्तस्य विसर्जनम्।
अनुकल्पे तु देवस्य परिभ्रमणकर्मणः ॥ 184 ॥

मूलम् - 184

कृत्वा यागं गणेशस्य कुर्यात्तस्य विसर्जनम्।
अनुकल्पे तु देवस्य परिभ्रमणकर्मणः ॥ 184 ॥

विश्वास-प्रस्तुतिः - 185

प्रागेव देवदेवेशं कुम्णमण्डलकुण्डगम्।
विसर्जयित्वा तत्पश्चात् परिभ्रमणमाचरेत् ॥ 185 ॥

मूलम् - 185

प्रागेव देवदेवेशं कुम्णमण्डलकुण्डगम्।
विसर्जयित्वा तत्पश्चात् परिभ्रमणमाचरेत् ॥ 185 ॥

विश्वास-प्रस्तुतिः - 186

यद्वा विघ्नेशयागं च तथैव तु समाचरेत्।
प्रागेव मुख्यकाले तु कृत्वा शयनगं विभुम् ॥ 186 ॥

मूलम् - 186

यद्वा विघ्नेशयागं च तथैव तु समाचरेत्।
प्रागेव मुख्यकाले तु कृत्वा शयनगं विभुम् ॥ 186 ॥

विश्वास-प्रस्तुतिः - 187

ततो विसर्जयेद्देवं कुम्भमण्डलकुण्डगम्।
यानपात्रं तथा च्छ्त्रं प्रतिपाद्य सदक्षिणम् ॥ 187 ॥

मूलम् - 187

ततो विसर्जयेद्देवं कुम्भमण्डलकुण्डगम्।
यानपात्रं तथा च्छ्त्रं प्रतिपाद्य सदक्षिणम् ॥ 187 ॥

विश्वास-प्रस्तुतिः - 188

शयनं स्वगुरोर्विप्र! द्विजानां तदसन्निधौ।
देवदेवस्य देवस्य मूलमूर्तिगतस्य च ॥ 188 ॥

मूलम् - 188

शयनं स्वगुरोर्विप्र! द्विजानां तदसन्निधौ।
देवदेवस्य देवस्य मूलमूर्तिगतस्य च ॥ 188 ॥

विश्वास-प्रस्तुतिः - 189

कृत्वा जानुद्वयं भूमौ बद्धाञ्जलिरिदं पठेत्।
“देव! सर्वेश्वरानादे! कर्मणानेन चाखिलाम् ॥ 189 ॥

मूलम् - 189

कृत्वा जानुद्वयं भूमौ बद्धाञ्जलिरिदं पठेत्।
“देव! सर्वेश्वरानादे! कर्मणानेन चाखिलाम् ॥ 189 ॥

शुभां गतिं जनो यातु प्रीतिं च परमां भज।" इति विज्ञाप्य देवस्य बाह्नणान् प्रीणयेत्ततः ॥ 190 ॥
विश्वास-प्रस्तुतिः - 191

विविधैरन्नपानाद्यैर्यथाशक्ति द्विजोत्तम!।
बन्धुभृत्यसमोपेतमनुयागमथाचरेत् ॥ 191 ॥

मूलम् - 191

विविधैरन्नपानाद्यैर्यथाशक्ति द्विजोत्तम!।
बन्धुभृत्यसमोपेतमनुयागमथाचरेत् ॥ 191 ॥

विश्वास-प्रस्तुतिः - 192

अनेन विधिना कुर्याच्छयनस्थस्य बोधनम्।
यदा तु मूलमूर्तौ तु चतुःस्थानार्चनं भवेत् ॥ 192 ॥

मूलम् - 192

अनेन विधिना कुर्याच्छयनस्थस्य बोधनम्।
यदा तु मूलमूर्तौ तु चतुःस्थानार्चनं भवेत् ॥ 192 ॥

विश्वास-प्रस्तुतिः - 193

तदाप्युत्सवमूर्तौ स्यात् पूजितायां तदुत्सवम्।
कुर्याच्छयनमूर्तौ च शयनं शास्त्रकोविदः ॥ 193 ॥

मूलम् - 193

तदाप्युत्सवमूर्तौ स्यात् पूजितायां तदुत्सवम्।
कुर्याच्छयनमूर्तौ च शयनं शास्त्रकोविदः ॥ 193 ॥

विश्वास-प्रस्तुतिः - 194

यात्राव्यक्तेरभावे तु मूलबिम्बेऽर्चनं भवेत्।
तदा स्नपनबिम्बे तु तदीयस्नपनं भवेत् ॥ 194 ॥

मूलम् - 194

यात्राव्यक्तेरभावे तु मूलबिम्बेऽर्चनं भवेत्।
तदा स्नपनबिम्बे तु तदीयस्नपनं भवेत् ॥ 194 ॥

विश्वास-प्रस्तुतिः - 195

तदा शयनमूर्तौ स्यादुत्वो द्विजसत्तम!।
तदभावे तु तत् कर्म दर्भमञ्चरिजे हितम् ॥ 195 ॥

मूलम् - 195

तदा शयनमूर्तौ स्यादुत्वो द्विजसत्तम!।
तदभावे तु तत् कर्म दर्भमञ्चरिजे हितम् ॥ 195 ॥

विश्वास-प्रस्तुतिः - 196

विष्टरे विष्टरं कल्प्य रक्षार्थं किञ्चिदूनतः।
तदा मन्त्रेशकुम्भेस्याच्छस्त्रकुम्भे तदुत्सवम् ॥ 196 ॥

मूलम् - 196

विष्टरे विष्टरं कल्प्य रक्षार्थं किञ्चिदूनतः।
तदा मन्त्रेशकुम्भेस्याच्छस्त्रकुम्भे तदुत्सवम् ॥ 196 ॥

विश्वास-प्रस्तुतिः - 197

अथवा चक्रराजस्य विष्टरे वा समाचरेत्।
अभावे स्नपनव्यक्तेर्दर्पणे स्नपनं भवेत् ॥ 197 ॥

मूलम् - 197

अथवा चक्रराजस्य विष्टरे वा समाचरेत्।
अभावे स्नपनव्यक्तेर्दर्पणे स्नपनं भवेत् ॥ 197 ॥

विश्वास-प्रस्तुतिः - 198

तदभावे निवेद्यैव प्रक्षिपेत् कलशान् क्रमात्।
इत्येवमुक्तं देवस्य शयनं च प्रबोधनम् ॥ 198 ॥

मूलम् - 198

तदभावे निवेद्यैव प्रक्षिपेत् कलशान् क्रमात्।
इत्येवमुक्तं देवस्य शयनं च प्रबोधनम् ॥ 198 ॥

विश्वास-प्रस्तुतिः - 199

यदुक्तमेवामखिलं यथाकालमसंभवात्।
अस्वातन्त्र्यादसामर्थ्याद्वित्ताभावात्तु वा द्विज! ॥ 199 ॥

मूलम् - 199

यदुक्तमेवामखिलं यथाकालमसंभवात्।
अस्वातन्त्र्यादसामर्थ्याद्वित्ताभावात्तु वा द्विज! ॥ 199 ॥

विश्वास-प्रस्तुतिः - 200

द्रादशीष्वखिलास्वेवं कुर्यात् संवत्सरान्तरे।
परीते तु शयानां तु चातुर्मास्ये तु संयमे ॥ 200 ॥

मूलम् - 200

द्रादशीष्वखिलास्वेवं कुर्यात् संवत्सरान्तरे।
परीते तु शयानां तु चातुर्मास्ये तु संयमे ॥ 200 ॥

विश्वास-प्रस्तुतिः - 201

भक्तैर्निर्वहणीयं तु तुलाभोगावसानकम्।
पूर्वोक्तविधिना शय्यां यो विष्णोः परिकल्पयेत् ॥ 201 ॥

मूलम् - 201

भक्तैर्निर्वहणीयं तु तुलाभोगावसानकम्।
पूर्वोक्तविधिना शय्यां यो विष्णोः परिकल्पयेत् ॥ 201 ॥

विश्वास-प्रस्तुतिः - 202

सोऽचिराल्लभते लक्ष्मीं सौभाग्यमतुलं तथा।
पुत्रदारकुटुम्बेषु कदाचित् केनचित् सह ॥ 202 ॥

मूलम् - 202

सोऽचिराल्लभते लक्ष्मीं सौभाग्यमतुलं तथा।
पुत्रदारकुटुम्बेषु कदाचित् केनचित् सह ॥ 202 ॥

विश्वास-प्रस्तुतिः - 203

वियोगं नाप्नुयात् किञ्चिद्योषिद्वा पुरुषस्तथा।
अतुलं पुण्यमाप्नोति दीर्घमायुश्च विन्दति ॥ 203 ॥

मूलम् - 203

वियोगं नाप्नुयात् किञ्चिद्योषिद्वा पुरुषस्तथा।
अतुलं पुण्यमाप्नोति दीर्घमायुश्च विन्दति ॥ 203 ॥

विश्वास-प्रस्तुतिः - 204

रोगाच्च मुच्यते रोगी भीतो मुच्येत वै भयात्।
अजय्यः सर्वशत्रूणां पूज्य सर्वजनस्य च ॥ 204 ॥

मूलम् - 204

रोगाच्च मुच्यते रोगी भीतो मुच्येत वै भयात्।
अजय्यः सर्वशत्रूणां पूज्य सर्वजनस्य च ॥ 204 ॥

विश्वास-प्रस्तुतिः - 205

भुक्त्वा भोगांस्तु विविधान् विष्णुलोके महीयते।
शेषशय्यागतं विष्णुं यः पूजयति भक्तितः ॥ 205 ॥

मूलम् - 205

भुक्त्वा भोगांस्तु विविधान् विष्णुलोके महीयते।
शेषशय्यागतं विष्णुं यः पूजयति भक्तितः ॥ 205 ॥

विश्वास-प्रस्तुतिः - 206

विभवेनाथ भक्त्या वा तस्य तुप्यति केशवः।
तस्मिन् काले तु ये किचित्तत्र तिष्ठन्ति मानवाः ॥ 206 ॥

मूलम् - 206

विभवेनाथ भक्त्या वा तस्य तुप्यति केशवः।
तस्मिन् काले तु ये किचित्तत्र तिष्ठन्ति मानवाः ॥ 206 ॥

विश्वास-प्रस्तुतिः - 207

याति पापं क्षयं तेषामन्ते स्वर्गं व्रजन्ति च।
इदं शय्याविधानं तु श्रृणुयाद्यस्तु वैष्णवः ॥ 207 ॥

मूलम् - 207

याति पापं क्षयं तेषामन्ते स्वर्गं व्रजन्ति च।
इदं शय्याविधानं तु श्रृणुयाद्यस्तु वैष्णवः ॥ 207 ॥

विश्वास-प्रस्तुतिः - 208

त्रिविधस्य तु पापस्य क्षयस्तस्य तु वै क्षणात्।
अनेन विधिना यस्तु कुर्याद्विष्णोः प्रबोधनम् ॥ 208 ॥

मूलम् - 208

त्रिविधस्य तु पापस्य क्षयस्तस्य तु वै क्षणात्।
अनेन विधिना यस्तु कुर्याद्विष्णोः प्रबोधनम् ॥ 208 ॥

विश्वास-प्रस्तुतिः - 209

सकामानखिलान् प्राप्य दीर्घमायुश्च विन्दति।
विधिनानेन यः कुर्यात् प्रतिसंवत्सरं द्विज! ॥ 209 ॥

मूलम् - 209

सकामानखिलान् प्राप्य दीर्घमायुश्च विन्दति।
विधिनानेन यः कुर्यात् प्रतिसंवत्सरं द्विज! ॥ 209 ॥

विश्वास-प्रस्तुतिः - 210

प्रबोधनं तु देवस्य स वै जन्मनि जन्मनि।
सुखप्रबुद्धो भवति सर्वदोषविवर्जितः ॥ 210 ॥

मूलम् - 210

प्रबोधनं तु देवस्य स वै जन्मनि जन्मनि।
सुखप्रबुद्धो भवति सर्वदोषविवर्जितः ॥ 210 ॥

विश्वास-प्रस्तुतिः - 211

सर्वेषां बान्धवादीनां वन्दनीयस्त्वसौ नरः।
विष्णोर्भक्तिपरो ब्रह्नन्! स गच्छेद्वैष्णवं पदम् ॥ 211 ॥

मूलम् - 211

सर्वेषां बान्धवादीनां वन्दनीयस्त्वसौ नरः।
विष्णोर्भक्तिपरो ब्रह्नन्! स गच्छेद्वैष्णवं पदम् ॥ 211 ॥

दुग्धाब्धिभोगिशयने भगवाननतो यस्मिन् दिने स्वपिति वाथ विबुध्यते वा। तस्मिन्ननन्यमनसामुपवासभाजां पुंसां ददाति सुगतिं गरुडांससंस्थः ॥ 212 ॥ इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे खापशयनोत्थापनोत्सवबिधिर्नाम त्रयोदशोऽध्यायः ॥ *****************