०१२ पवित्रारोपणविधानम्

॥ श्रीः ॥
द्वादशोऽध्यायः
सनकः —

विश्वास-प्रस्तुतिः - 1

जाते ह्याकस्मिके लोपे सद्व्यापारस्य नित्यशः।
स्नानादियोगनिष्ठस्य तथा नैमित्तिकस्य च ॥ 1 ॥

मूलम् - 1

जाते ह्याकस्मिके लोपे सद्व्यापारस्य नित्यशः।
स्नानादियोगनिष्ठस्य तथा नैमित्तिकस्य च ॥ 1 ॥

विश्वास-प्रस्तुतिः - 2

वत्सरोत्सवनिष्ठस्य विविधस्य महामते!।
कृच्छ्रचान्द्रायणादीनां सद्वृत्तानां तथैव च ॥ 2 ॥

मूलम् - 2

वत्सरोत्सवनिष्ठस्य विविधस्य महामते!।
कृच्छ्रचान्द्रायणादीनां सद्वृत्तानां तथैव च ॥ 2 ॥

विश्वास-प्रस्तुतिः - 3

चतुर्णामाश्रमस्थानां वर्णानां च स्त्रियस्तथा।
श्रेष्ठमध्यमवित्तानां न्यू(ज)नानामपि तत्वतः ॥ 3 ॥

मूलम् - 3

विश्वास-प्रस्तुतिः - 4

भक्तानां पुण्डरीकाक्षे श्रद्धासंयमसेविनाम्।
यावज्जीवावधिं कालं तत्पूजाकृतचेतसाम् ॥ 4 ॥

मूलम् - 4

भक्तानां पुण्डरीकाक्षे श्रद्धासंयमसेविनाम्।
यावज्जीवावधिं कालं तत्पूजाकृतचेतसाम् ॥ 4 ॥

विश्वास-प्रस्तुतिः - 5

साक्षात्तन्मन्त्रनिष्ठानां यथावन्मुनिपुङ्गव!।
पातत्राणमुपायं तु श्रोतुमिच्छामि साम्प्रतम् ॥ 5 ॥

मूलम् - 5

कृतेन येन भक्तानां जायते कृतकृत्यता। शाण्डिल्यः --- वक्ष्ये सम्यङ्‌महाबुद्धे! सारमुद्‌धृत्य सर्वतः ॥ 6 ॥
विश्वास-प्रस्तुतिः - 7

सर्वलोकहितार्थाय सावधानेन चेतसा।
लोप(भ)बुद्धिं विना यस्य भोगानामप्यसंभवः ॥ 7 ॥

मूलम् - 7

सर्वलोकहितार्थाय सावधानेन चेतसा।
लोप(भ)बुद्धिं विना यस्य भोगानामप्यसंभवः ॥ 7 ॥

विश्वास-प्रस्तुतिः - 8

सामर्थ्येन विना यस्य कृच्छ्रादीनां वरिच्युतिः।
ज्वरादिव्याधिदोषेण जातं यस्याह्निकक्षयम् ॥ 8 ॥

मूलम् - 8

विश्वास-प्रस्तुतिः - 9

चातुर्मास्तस्य चाप्राप्तिः यस्य स्वातन्त्र्यतो विना।
तस्य तस्य महाबुद्धे! श्रृणु यद्विहितं हितम् ॥ 9 ॥

मूलम् - 9

विश्वास-प्रस्तुतिः - 10

सांस्पर्शिकानां भोगानां मात्रावित्तं हि पूरणम्।
हृदयङ्गमसंज्ञानामन्नं च हविषा प्लुतम् ॥ 10 ॥

मूलम् - 10

सांस्पर्शिकानां भोगानां मात्रावित्तं हि पूरणम्।
हृदयङ्गमसंज्ञानामन्नं च हविषा प्लुतम् ॥ 10 ॥

विश्वास-प्रस्तुतिः - 11

औपचारिकभोगानां बीजानि विविधानि च।
कृच्छ्रचान्द्रायणादीनां व्रतानां परिपूरकः ॥ 11 ॥

मूलम् - 11

औपचारिकभोगानां बीजानि विविधानि च।
कृच्छ्रचान्द्रायणादीनां व्रतानां परिपूरकः ॥ 11 ॥

विश्वास-प्रस्तुतिः - 12

विशेषार्चनसंयुक्तश्चातुर्मास्यस्य संयमः।
सौत्रं प्रतिसरं चित्रं मुक्ताहारोपमं शुभम् ॥ 12 ॥

मूलम् - 12

विशेषार्चनसंयुक्तश्चातुर्मास्यस्य संयमः।
सौत्रं प्रतिसरं चित्रं मुक्ताहारोपमं शुभम् ॥ 12 ॥

विश्वास-प्रस्तुतिः - 13

शमं नयति भक्तानां सर्वदा लोपमाह्निकम्।
यथाश्वमेधं विप्राणां सर्वेच्छापरिपूरकम् ॥ 13 ॥

मूलम् - 13

शमं नयति भक्तानां सर्वदा लोपमाह्निकम्।
यथाश्वमेधं विप्राणां सर्वेच्छापरिपूरकम् ॥ 13 ॥

विश्वास-प्रस्तुतिः - 14

राजसूयं नृपाणां च भक्तानां भूषणं तथा।
भूषणानां यथा मध्ये कौस्तुभं वरभूषणम् ॥ 14 ॥

मूलम् - 14

राजसूयं नृपाणां च भक्तानां भूषणं तथा।
भूषणानां यथा मध्ये कौस्तुभं वरभूषणम् ॥ 14 ॥

विश्वास-प्रस्तुतिः - 15

ज्ञेयं पवित्रकं तद्वद्भोगजालस्य चान्तरे।
यत्‌ पूरयति भक्तानां व्यापारं पारमेश्वरम् ॥ 15 ॥

मूलम् - 15

ज्ञेयं पवित्रकं तद्वद्भोगजालस्य चान्तरे।
यत्‌ पूरयति भक्तानां व्यापारं पारमेश्वरम् ॥ 15 ॥

विश्वास-प्रस्तुतिः - 16

भोगमोक्षाप्तये शश्वद्भोदस्तस्मात्तु कोऽधिकः।
भक्तानां सततं भक्त्या सालोक्यं विदधाति वै ॥ 16 ॥

मूलम् - 16

भोगमोक्षाप्तये शश्वद्भोदस्तस्मात्तु कोऽधिकः।
भक्तानां सततं भक्त्या सालोक्यं विदधाति वै ॥ 16 ॥

विश्वास-प्रस्तुतिः - 17

सामीप्यं साधकानां च नानासिद्धिसमन्वितम्।
सायुज्यं साधकेन्द्राणां स्वमन्त्रात्मनि यच्छति ॥ 17 ॥

मूलम् - 17

सामीप्यं साधकानां च नानासिद्धिसमन्वितम्।
सायुज्यं साधकेन्द्राणां स्वमन्त्रात्मनि यच्छति ॥ 17 ॥

विश्वास-प्रस्तुतिः - 18

तदुत्तरायणेऽतीते चातुर्मास्यस्य मध्यतः।
कुर्याच्छुभे दिने विप्र! सर्वदोषविवर्जिते ॥ 18 ॥

मूलम् - 18

तदुत्तरायणेऽतीते चातुर्मास्यस्य मध्यतः।
कुर्याच्छुभे दिने विप्र! सर्वदोषविवर्जिते ॥ 18 ॥

विश्वास-प्रस्तुतिः - 19

कालोऽपि त्रिविधः प्रोक्तश्चातुर्मास्योपलक्षितः।
आषाढपञ्चदश्यास्तु यावद्वै कार्तिकस्य च ॥ 19 ॥

मूलम् - 19

कालोऽपि त्रिविधः प्रोक्तश्चातुर्मास्योपलक्षितः।
आषाढपञ्चदश्यास्तु यावद्वै कार्तिकस्य च ॥ 19 ॥

विश्वास-प्रस्तुतिः - 20

संपूर्णचन्द्रदिवसं तं कालं चान्द्रमन्तिमम्।
आकर्कटकसंक्रान्तेस्तुलाभोगक्षयावधि ॥ 20 ॥

मूलम् - 20

संपूर्णचन्द्रदिवसं तं कालं चान्द्रमन्तिमम्।
आकर्कटकसंक्रान्तेस्तुलाभोगक्षयावधि ॥ 20 ॥

विश्वास-प्रस्तुतिः - 21

कालं तमष्टपक्षं च सौरं मध्यमसंज्ञितम्।
एकादश्यादि (मा) वाऽन्तो यश्चातुर्मास्योपलक्षितः ॥ 21 ॥

मूलम् - 21

कालं तमष्टपक्षं च सौरं मध्यमसंज्ञितम्।
एकादश्यादि (मा) वाऽन्तो यश्चातुर्मास्योपलक्षितः ॥ 21 ॥

विश्वास-प्रस्तुतिः - 22

कालं तं वैष्णवं विद्धि तूत्तमं सर्वसिद्धिदम्।
अप्राप्तेरस्य कालस्य त्वन्तरायेण केनचित् ॥ 22 ॥

मूलम् - 22

कालं तं वैष्णवं विद्धि तूत्तमं सर्वसिद्धिदम्।
अप्राप्तेरस्य कालस्य त्वन्तरायेण केनचित् ॥ 22 ॥

विश्वास-प्रस्तुतिः - 23

निर्वाहणीयो ह्यपरः कालश्चान्द्रायणादिना।
सम्पाद्यं चैव तन्मध्ये विधिवद्यागपूरकम् ॥ 23 ॥

मूलम् - 23

निर्वाहणीयो ह्यपरः कालश्चान्द्रायणादिना।
सम्पाद्यं चैव तन्मध्ये विधिवद्यागपूरकम् ॥ 23 ॥

विश्वास-प्रस्तुतिः - 24

प्रावृट्‌काले प्रवृत्ते तु त्रैलोक्योदरवर्तिनाम्।
मनुष्यामरसिद्धानां कर्तव्यं चाग्रवर्तिनाम् ॥ 24 ॥

मूलम् - 24

प्रावृट्‌काले प्रवृत्ते तु त्रैलोक्योदरवर्तिनाम्।
मनुष्यामरसिद्धानां कर्तव्यं चाग्रवर्तिनाम् ॥ 24 ॥

विश्वास-प्रस्तुतिः - 25

प्रवर्तन्ते हि वै येन श्रद्धया वत्सरं प्रति।
महत्यस्मिन् महाबुद्धे! व्यापारे पारमेश्वरे ॥ 25 ॥

मूलम् - 25

प्रवर्तन्ते हि वै येन श्रद्धया वत्सरं प्रति।
महत्यस्मिन् महाबुद्धे! व्यापारे पारमेश्वरे ॥ 25 ॥

विश्वास-प्रस्तुतिः - 26

विभोः शयनसंस्थस्य काले पुष्पफलाकुले।
गगने लम्बमाने तु सबलाकैर्वलाहकैः ॥ 26 ॥

मूलम् - 26

विभोः शयनसंस्थस्य काले पुष्पफलाकुले।
गगने लम्बमाने तु सबलाकैर्वलाहकैः ॥ 26 ॥

विश्वास-प्रस्तुतिः - 27

कुमुदोत्पलकल्हारैर्भूषिते वसुधातले।
वनोपवन उद्यानैर्हरिते शाद्वलादिकैः ॥ 27 ॥

मूलम् - 27

कुमुदोत्पलकल्हारैर्भूषिते वसुधातले।
वनोपवन उद्यानैर्हरिते शाद्वलादिकैः ॥ 27 ॥

विश्वास-प्रस्तुतिः - 28

शालिसस्यादिकैर्युक्ते पल्वलोदकशोभिते।
पवित्रकं कृतं विष्णोरनन्तस्यातितुष्टिदम् ॥ 28 ॥

मूलम् - 28

शालिसस्यादिकैर्युक्ते पल्वलोदकशोभिते।
पवित्रकं कृतं विष्णोरनन्तस्यातितुष्टिदम् ॥ 28 ॥

विश्वास-प्रस्तुतिः - 29

तस्माद्यत्नेन तत् कुर्याच्चातुर्मास्यस्य मध्यतः।
श्रावण्यां शुक्लपक्षे तु द्वादश्यां द्विजसत्तम! ॥ 29 ॥

मूलम् - 29

विश्वास-प्रस्तुतिः - 30

आदावन्ते तथा कुर्यादद्वादशीष्वखिलासु च।
सङ्‌क्रान्तिषु च सर्वासु पौर्णमासीषु वा द्विज! ॥ 30 ॥

मूलम् - 30

आदावन्ते तथा कुर्यादद्वादशीष्वखिलासु च।
सङ्‌क्रान्तिषु च सर्वासु पौर्णमासीषु वा द्विज! ॥ 30 ॥

विश्वास-प्रस्तुतिः - 31

अमावास्यास्वशेषासु तृतीयासु तथैव च।
नभस्येषु च रोहिण्यामष्टम्यां च महामते! ॥ 31 ॥

मूलम् - 31

अमावास्यास्वशेषासु तृतीयासु तथैव च।
नभस्येषु च रोहिण्यामष्टम्यां च महामते! ॥ 31 ॥

विश्वास-प्रस्तुतिः - 32

प्रथमा च द्वितीया च पञ्चमी च त्रयोदशी।
दशम्येकादशीत्येवमेतास्वपि यथारुचि ॥ 32 ॥

मूलम् - 32

प्रथमा च द्वितीया च पञ्चमी च त्रयोदशी।
दशम्येकादशीत्येवमेतास्वपि यथारुचि ॥ 32 ॥

विश्वास-प्रस्तुतिः - 33

कृष्णपक्षेऽप्रशस्ताःस्युः शुक्लपक्षे विशेषतः।
चन्द्रो गुरुस्सितश्चान्द्रो ज्ञेयास्त्वेते शुभप्रदाः ॥ 33 ॥

मूलम् - 33

विश्वास-प्रस्तुतिः - 34

पवित्रारोहणादौ तु नक्षत्राणि श्रृणुष्व मे।
त्र्युत्तरासु च रेवत्यामश्बिन्यां भरणीषु च ॥ 34 ॥

मूलम् - 34

पवित्रारोहणादौ तु नक्षत्राणि श्रृणुष्व मे।
त्र्युत्तरासु च रेवत्यामश्बिन्यां भरणीषु च ॥ 34 ॥

विश्वास-प्रस्तुतिः - 35

पुनर्वसौ तथा हस्ते रोहिण्यां श्रवणेऽपि च।
वैष्णवेष्वथ ऋक्षेषु तत्क्षणेष्वखिलेषु च ॥ 35 ॥

मूलम् - 35

पुनर्वसौ तथा हस्ते रोहिण्यां श्रवणेऽपि च।
वैष्णवेष्वथ ऋक्षेषु तत्क्षणेष्वखिलेषु च ॥ 35 ॥

विश्वास-प्रस्तुतिः - 36

चातुर्मास्यस्य कालस्य तूत्थानद्वादशी तु या।
षडशीतिमुखा दिव्या तस्यामारोपयेत्तु यः ॥ 36 ॥

मूलम् - 36

चातुर्मास्यस्य कालस्य तूत्थानद्वादशी तु या।
षडशीतिमुखा दिव्या तस्यामारोपयेत्तु यः ॥ 36 ॥

विश्वास-प्रस्तुतिः - 37

पवित्रकं जगद्योनेः स पवित्रीकरोति च।
अतीतां वर्तमानां च एष्यां स्वकुलसन्ततिम् ॥ 37 ॥

मूलम् - 37

पवित्रकं जगद्योनेः स पवित्रीकरोति च।
अतीतां वर्तमानां च एष्यां स्वकुलसन्ततिम् ॥ 37 ॥

विश्वास-प्रस्तुतिः - 38

तत्र सन्निहितः साक्षान्नानानिर्माणविग्रहैः।
भक्तानां पुण्डरीकाक्षः परमात्माच्युतो हरिः ॥ 38 ॥

मूलम् - 38

तत्र सन्निहितः साक्षान्नानानिर्माणविग्रहैः।
भक्तानां पुण्डरीकाक्षः परमात्माच्युतो हरिः ॥ 38 ॥

विश्वास-प्रस्तुतिः - 39

यद्यप्येवं महाबुद्धे! भक्तानां नित्यमेव हि।
नारायणस्तु मन्त्रात्मा स्थितः सन्निहितः स्वयम् ॥ 39 ॥

मूलम् - 39

यद्यप्येवं महाबुद्धे! भक्तानां नित्यमेव हि।
नारायणस्तु मन्त्रात्मा स्थितः सन्निहितः स्वयम् ॥ 39 ॥

विश्वास-प्रस्तुतिः - 40

तथापि बलवत्ता वै तत्तिथेस्तत्र कर्मणि।
सन्निधिं भजते येन मन्त्रिणां मन्त्रराट्‌ प्रभुः ॥ 40 ॥

मूलम् - 40

तथापि बलवत्ता वै तत्तिथेस्तत्र कर्मणि।
सन्निधिं भजते येन मन्त्रिणां मन्त्रराट्‌ प्रभुः ॥ 40 ॥

विश्वास-प्रस्तुतिः - 41

ग्रीष्मकालं समासाद्य यथार्कस्तीक्ष्णतां ब्रजेत्।
स्वरूपमजहन्नेव सन्निधानतरं विभोः ॥ 41 ॥

मूलम् - 41

ग्रीष्मकालं समासाद्य यथार्कस्तीक्ष्णतां ब्रजेत्।
स्वरूपमजहन्नेव सन्निधानतरं विभोः ॥ 41 ॥

विश्वास-प्रस्तुतिः - 42

सत्पात्रदेशकालानामासृष्टेः स्थितये तु वै।
अतः पवित्रकं तस्यामन्यस्यां तदसम्भवात् ॥ 42 ॥

मूलम् - 42

सत्पात्रदेशकालानामासृष्टेः स्थितये तु वै।
अतः पवित्रकं तस्यामन्यस्यां तदसम्भवात् ॥ 42 ॥

विश्वास-प्रस्तुतिः - 43

कार्यं क्रियापरैर्भक्त्या साखण्डा येन जायते।
पवित्रारोहणं विष्णोर्वर्जयेदितरेषु च ॥ 43 ॥

मूलम् - 43

कार्यं क्रियापरैर्भक्त्या साखण्डा येन जायते।
पवित्रारोहणं विष्णोर्वर्जयेदितरेषु च ॥ 43 ॥

विश्वास-प्रस्तुतिः - 44

प्रासादस्याग्रतः कुर्यात्तदर्थं मण्टपं द्विज!।
प्रथमावरणे वापि द्वितीयावरणेऽपि वा ॥ 44 ॥

मूलम् - 44

प्रासादस्याग्रतः कुर्यात्तदर्थं मण्टपं द्विज!।
प्रथमावरणे वापि द्वितीयावरणेऽपि वा ॥ 44 ॥

विश्वास-प्रस्तुतिः - 45

तृतीयावरणे वाथ चतुर्थे पञ्चमेऽपि वा।
अग्रालाभे तदन्यत्र यथावाञ्छितदिग्गतम् ॥ 45 ॥

मूलम् - 45

तृतीयावरणे वाथ चतुर्थे पञ्चमेऽपि वा।
अग्रालाभे तदन्यत्र यथावाञ्छितदिग्गतम् ॥ 45 ॥

विश्वास-प्रस्तुतिः - 46

चतुरश्रं समं वापि प्राक्‌पश्चिमदिगायतम्।
सौम्ययाम्यायतं वापि कर्तुरिच्छानुरूपतः ॥ 46 ॥

मूलम् - 46

चतुरश्रं समं वापि प्राक्‌पश्चिमदिगायतम्।
सौम्ययाम्यायतं वापि कर्तुरिच्छानुरूपतः ॥ 46 ॥

विश्वास-प्रस्तुतिः - 47

तथा प्रागाननं यद्वा यथाभिमतदिङ्‌मुखम्।
द्वाविंशतिधनुर्मानं मण्टपं चोत्तमं भवेत् ॥ 47 ॥

मूलम् - 47

तथा प्रागाननं यद्वा यथाभिमतदिङ्‌मुखम्।
द्वाविंशतिधनुर्मानं मण्टपं चोत्तमं भवेत् ॥ 47 ॥

विश्वास-प्रस्तुतिः - 48

अष्टादशधनुर्मानं मण्‍टपं मध्यमं भवेत्।
अधमं द्वादशधनुर्मानं स्यादथवा द्विज! ॥ 48 ॥

मूलम् - 48

अष्टादशधनुर्मानं मण्‍टपं मध्यमं भवेत्।
अधमं द्वादशधनुर्मानं स्यादथवा द्विज! ॥ 48 ॥

विश्वास-प्रस्तुतिः - 49

पञ्चहस्तात् समारभ्य द्विद्विहस्तविवर्धनात्।
त्रिसप्तकरपर्यन्तं मानैर्नवविधं भवेत् ॥ 49 ॥

मूलम् - 49

पञ्चहस्तात् समारभ्य द्विद्विहस्तविवर्धनात्।
त्रिसप्तकरपर्यन्तं मानैर्नवविधं भवेत् ॥ 49 ॥

विश्वास-प्रस्तुतिः - 50

यद्वोत्तमं दशकरं मध्यमं चाष्टहस्तकम्।
ष़ड्द्दस्तमधमं विद्यात् क्षुद्रं हस्तत्रयायतम् ॥ 50 ॥

मूलम् - 50

यद्वोत्तमं दशकरं मध्यमं चाष्टहस्तकम्।
ष़ड्द्दस्तमधमं विद्यात् क्षुद्रं हस्तत्रयायतम् ॥ 50 ॥

विश्वास-प्रस्तुतिः - 51

त्रिंशत्करावसानं वा षट्‌करात् पञ्जविंशतिः।
एकं संगृह्यमानेषु ह्येषु वित्तानुरूपतः ॥ 51 ॥

मूलम् - 51

त्रिंशत्करावसानं वा षट्‌करात् पञ्जविंशतिः।
एकं संगृह्यमानेषु ह्येषु वित्तानुरूपतः ॥ 51 ॥

विश्वास-प्रस्तुतिः - 52

सोपपीठमधिष्ठानं केवलं वा मसूरकम्।
अधिष्ठानोपरिस्तम्भं प्रस्तरं च त्रिवर्गकम् ॥ 52 ॥

मूलम् - 52

सोपपीठमधिष्ठानं केवलं वा मसूरकम्।
अधिष्ठानोपरिस्तम्भं प्रस्तरं च त्रिवर्गकम् ॥ 52 ॥

विश्वास-प्रस्तुतिः - 53

कपोतवृतिसंयुक्तं यद्वोक्ताकृतिवर्जितम्।
एकत्रिपञ्चसप्तादिभित्तिभेदैः समावृतम् ॥ 53 ॥

मूलम् - 53

कपोतवृतिसंयुक्तं यद्वोक्ताकृतिवर्जितम्।
एकत्रिपञ्चसप्तादिभित्तिभेदैः समावृतम् ॥ 53 ॥

विश्वास-प्रस्तुतिः - 54

प्रत्यङ्गोक्तैरलङ्कारैर्युक्तं वा तद्विवर्जितम।
शिलयेष्टकया वापि प्कया वाप्यव्कया ॥ 54 ॥

मूलम् - 54

प्रत्यङ्गोक्तैरलङ्कारैर्युक्तं वा तद्विवर्जितम।
शिलयेष्टकया वापि प्कया वाप्यव्कया ॥ 54 ॥

विश्वास-प्रस्तुतिः - 55

एकद्वारं चतुर्द्वारं यद्वा द्वारद्वयान्वितम्।
बित्तियुक्तमयुक्तं वा कोणभित्तियुतं तु वा ॥ 55 ॥

मूलम् - 55

एकद्वारं चतुर्द्वारं यद्वा द्वारद्वयान्वितम्।
बित्तियुक्तमयुक्तं वा कोणभित्तियुतं तु वा ॥ 55 ॥

विश्वास-प्रस्तुतिः - 56

केवलं वा प्रपामात्रमुक्तलक्षणवर्जितम्।
क्षिप्रकर्मप्रसिद्ध्यर्थं शरकाष्ठमयं शुभम् ॥ 56 ॥

मूलम् - 56

केवलं वा प्रपामात्रमुक्तलक्षणवर्जितम्।
क्षिप्रकर्मप्रसिद्ध्यर्थं शरकाष्ठमयं शुभम् ॥ 56 ॥

विश्वास-प्रस्तुतिः - 57

गवाक्षकान्वितं चैव द्वारैस्तु परिभूषितम्।
छन्नं वितानकेनोर्ध्वे प्राकारं परिकल्पयेत् ॥ 57 ॥

मूलम् - 57

गवाक्षकान्वितं चैव द्वारैस्तु परिभूषितम्।
छन्नं वितानकेनोर्ध्वे प्राकारं परिकल्पयेत् ॥ 57 ॥

विश्वास-प्रस्तुतिः - 58

क्षेत्रसङ्कोचविस्तारौ कर्तुरिच्छानुरूपतः।
शिल्पशास्त्रानुसारेण कृत्वैवं मण्डपं द्विज! ॥ 58 ॥

मूलम् - 58

क्षेत्रसङ्कोचविस्तारौ कर्तुरिच्छानुरूपतः।
शिल्पशास्त्रानुसारेण कृत्वैवं मण्डपं द्विज! ॥ 58 ॥

विश्वास-प्रस्तुतिः - 59

यागार्थं सुशुभं विप्र! तन्मद्येऽथ प्रकल्पयेत्।
दृढां समां तदाकारामीषत् प्रागुत्तरप्लवाम् ॥ 59 ॥

मूलम् - 59

यागार्थं सुशुभं विप्र! तन्मद्येऽथ प्रकल्पयेत्।
दृढां समां तदाकारामीषत् प्रागुत्तरप्लवाम् ॥ 59 ॥

विश्वास-प्रस्तुतिः - 60

प्रोछ्रितां च विशेषेण स्थलां दर्पणसन्निभाम्।
सामान्या न भवेद्येन मेदिनीमण्टपस्य तु ॥ 60 ॥

मूलम् - 60

प्रोछ्रितां च विशेषेण स्थलां दर्पणसन्निभाम्।
सामान्या न भवेद्येन मेदिनीमण्टपस्य तु ॥ 60 ॥

विश्वास-प्रस्तुतिः - 61

द्विद्विकेनाङ्‌गुलीनां तु प्रोन्नतेर्यावदष्टकम्।
एकवृद्ध्याल्पमानानां यागानां तु स्थलांगणम् ॥ 61 ॥

मूलम् - 61

द्विद्विकेनाङ्‌गुलीनां तु प्रोन्नतेर्यावदष्टकम्।
एकवृद्ध्याल्पमानानां यागानां तु स्थलांगणम् ॥ 61 ॥

विश्वास-प्रस्तुतिः - 62

नवाङ्‌गुलोन्नतेस्तावद्‌यावत्पञ्चदशाह्‌गुलम्।
प्रोन्नतत्वं स्थलानां च मध्यमानमितात्मनाम् ॥ 62 ॥

मूलम् - 62

नवाङ्‌गुलोन्नतेस्तावद्‌यावत्पञ्चदशाह्‌गुलम्।
प्रोन्नतत्वं स्थलानां च मध्यमानमितात्मनाम् ॥ 62 ॥

विश्वास-प्रस्तुतिः - 63

चतुर्विंशत्यङ्‌गुलान्तमुछ्रायं षोडशाङ्‌गुलात्।
प्रागुक्तवृद्ध्या कर्तव्यं ज्येष्ठमानमितात्मनाम् ॥ 63 ॥

मूलम् - 63

विश्वास-प्रस्तुतिः - 64

एतदुच्छ्रायमानं च कथितं ते स्थलासु च।
पादमर्धं तु हस्तं वा बिस्तारात् सर्वदिक्षु वै ॥ 64 ॥

मूलम् - 64

एतदुच्छ्रायमानं च कथितं ते स्थलासु च।
पादमर्धं तु हस्तं वा बिस्तारात् सर्वदिक्षु वै ॥ 64 ॥

विश्वास-प्रस्तुतिः - 65

स्थलानामिष्टकाद्यैश्च चिन्वीयात् प्रथमं ततः।
मृदा सम्पूर्य तन्मध्यमीषद्वालुकयान्वितम् ॥ 65 ॥

मूलम् - 65

स्थलानामिष्टकाद्यैश्च चिन्वीयात् प्रथमं ततः।
मृदा सम्पूर्य तन्मध्यमीषद्वालुकयान्वितम् ॥ 65 ॥

विश्वास-प्रस्तुतिः - 66

परिक्ष्य केशकीटादीनाकोट्य तदनन्तरम्।
यावद्भवति पूर्वोक्तलक्षणं वा विशेषतः ॥ 66 ॥

मूलम् - 66

परिक्ष्य केशकीटादीनाकोट्य तदनन्तरम्।
यावद्भवति पूर्वोक्तलक्षणं वा विशेषतः ॥ 66 ॥

विश्वास-प्रस्तुतिः - 67

स्थलां मध्योन्नतां रम्यां सप्ताहं संपरीक्ष्य सा।
न ददाति यथाभेदं यागयोग्या भवेत्तदा ॥ 67 ॥

मूलम् - 67

स्थलां मध्योन्नतां रम्यां सप्ताहं संपरीक्ष्य सा।
न ददाति यथाभेदं यागयोग्या भवेत्तदा ॥ 67 ॥

विश्वास-प्रस्तुतिः - 68

तदूर्ध्वे वेदिकां कुर्यात् अनेकचरणान्विताम्।
तोरणैश्च समायुक्तां विभवेच्छानुरूपतः ॥ 68 ॥

मूलम् - 68

तदूर्ध्वे वेदिकां कुर्यात् अनेकचरणान्विताम्।
तोरणैश्च समायुक्तां विभवेच्छानुरूपतः ॥ 68 ॥

विश्वास-प्रस्तुतिः - 69

पावनैर्यज्ञकाष्ठेश्च सुदृढैः सरलैः समैः।
यथालक्षणयुक्तानि तोरणानि चतुर्दिशि ॥ 69 ॥

मूलम् - 69

पावनैर्यज्ञकाष्ठेश्च सुदृढैः सरलैः समैः।
यथालक्षणयुक्तानि तोरणानि चतुर्दिशि ॥ 69 ॥

विश्वास-प्रस्तुतिः - 70

द्वाराणां बाह्यतो विप्र! तदन्तर्वा नियोजयेत्।
त्रीणि त्रीण्यथवा सम्यगेकैकस्यां न्यसेद्दिशि ॥ 70 ॥

मूलम् - 70

द्वाराणां बाह्यतो विप्र! तदन्तर्वा नियोजयेत्।
त्रीणि त्रीण्यथवा सम्यगेकैकस्यां न्यसेद्दिशि ॥ 70 ॥

विश्वास-प्रस्तुतिः - 71

बुद्‌ध्वा मण्टपविस्तारं पञ्चकं सप्तकं तु वा।
एतानि हेमरत्नाद्यैश्चित्रयेद्विभवे सति ॥ 71 ॥

मूलम् - 71

बुद्‌ध्वा मण्टपविस्तारं पञ्चकं सप्तकं तु वा।
एतानि हेमरत्नाद्यैश्चित्रयेद्विभवे सति ॥ 71 ॥

विश्वास-प्रस्तुतिः - 72

श्रीवृक्षोदुम्बरवटप्लक्षोत्थैरथवा द्विज!।
पूर्वाद्युत्तरपर्यन्त तोरणानां चतुष्टयम् ॥ 72 ॥

मूलम् - 72

श्रीवृक्षोदुम्बरवटप्लक्षोत्थैरथवा द्विज!।
पूर्वाद्युत्तरपर्यन्त तोरणानां चतुष्टयम् ॥ 72 ॥

विश्वास-प्रस्तुतिः - 73

चतुष्टयं चतुर्दिक्षु ह्येषामेकैकमेव वा।
तोरणानां समुच्छ्रायस्तम्भायामसमः स्मतः ॥ 73 ॥

मूलम् - 73

चतुष्टयं चतुर्दिक्षु ह्येषामेकैकमेव वा।
तोरणानां समुच्छ्रायस्तम्भायामसमः स्मतः ॥ 73 ॥

विश्वास-प्रस्तुतिः - 74

स्तम्भद्वयान्तरस्थेन मानेन स्यात्तु विस्तृतिः।
स्तम्भमस्तकमानेन साधिकेन सदैव हि ॥ 74 ॥

मूलम् - 74

स्तम्भद्वयान्तरस्थेन मानेन स्यात्तु विस्तृतिः।
स्तम्भमस्तकमानेन साधिकेन सदैव हि ॥ 74 ॥

विश्वास-प्रस्तुतिः - 75

तद्दण्डौ विन्यसेदभूमौ स्तम्भाभ्यन्तरगा स्थितिः।
सदैव दृक्‌स्वरूपाणां कार्या वेदविदांवर! ॥ 75 ॥

मूलम् - 75

तद्दण्डौ विन्यसेदभूमौ स्तम्भाभ्यन्तरगा स्थितिः।
सदैव दृक्‌स्वरूपाणां कार्या वेदविदांवर! ॥ 75 ॥

विश्वास-प्रस्तुतिः - 76

द्वाराणां बाह्यतो विप्र! तोरणानां यथा(दा) स्थितिः।
तलाच्छिखरपर्यन्तं मानमुछ्रायतस्तदा ॥ 76 ॥

मूलम् - 76

द्वाराणां बाह्यतो विप्र! तोरणानां यथा(दा) स्थितिः।
तलाच्छिखरपर्यन्तं मानमुछ्रायतस्तदा ॥ 76 ॥

विश्वास-प्रस्तुतिः - 77

सार्धं समं वा द्विगुणं तद्दण्डेषु च भूगतम्।
चक्रद्वितयमध्यस्थं पक्षमण्डलमण्डितम् ॥ 77 ॥

मूलम् - 77

सार्धं समं वा द्विगुणं तद्दण्डेषु च भूगतम्।
चक्रद्वितयमध्यस्थं पक्षमण्डलमण्डितम् ॥ 77 ॥

विश्वास-प्रस्तुतिः - 78

तोरणे तोरणे कुर्याद्गरुडं चोर्ध्वसंस्थितम्।
मत्स्यादीनवतारांश्च प्रादुर्भावाननेकशः ॥ 78 ॥

मूलम् - 78

तोरणे तोरणे कुर्याद्गरुडं चोर्ध्वसंस्थितम्।
मत्स्यादीनवतारांश्च प्रादुर्भावाननेकशः ॥ 78 ॥

विश्वास-प्रस्तुतिः - 79

चित्रोदितेन विधिना चतुर्दिक्षु समालिखेत्।
मुनिसिद्धामरव्रातैरनेकाद्‌भुतदर्शिभिः ॥ 79 ॥

मूलम् - 79

चित्रोदितेन विधिना चतुर्दिक्षु समालिखेत्।
मुनिसिद्धामरव्रातैरनेकाद्‌भुतदर्शिभिः ॥ 79 ॥

विश्वास-प्रस्तुतिः - 80

द्वीपाचलवनोद्यानैर्बहुभिर्मृगयूथपैः।
सरःसारसकल्हारैर्जलक्रीडापरान्वितैः ॥ 80 ॥

मूलम् - 80

द्वीपाचलवनोद्यानैर्बहुभिर्मृगयूथपैः।
सरःसारसकल्हारैर्जलक्रीडापरान्वितैः ॥ 80 ॥

विश्वास-प्रस्तुतिः - 81

खेचरैरङ्गनायुक्तैर्नृपैर्विद्याधरादिकैः।
प्रशान्तमानसैर्विप्रैरात्मध्यानपरायणैः ॥ 81 ॥

मूलम् - 81

खेचरैरङ्गनायुक्तैर्नृपैर्विद्याधरादिकैः।
प्रशान्तमानसैर्विप्रैरात्मध्यानपरायणैः ॥ 81 ॥

विश्वास-प्रस्तुतिः - 82

एवमाद्यैरनन्तैश्च व्यापारैश्चित्रसंभवैः।
तद्यागवेश्म सकलं रञ्जनीयं प्रयत्नतः ॥ 82 ॥

मूलम् - 82

एवमाद्यैरनन्तैश्च व्यापारैश्चित्रसंभवैः।
तद्यागवेश्म सकलं रञ्जनीयं प्रयत्नतः ॥ 82 ॥

विश्वास-प्रस्तुतिः - 83

कुर्यात् सुधाविलिप्तं वा भूषयेत्तदनन्तरम्।
दर्पणैश्चामरैर्वस्त्रैर्दुकूलैर्विविधोज्ज्वलैः ॥ 83 ॥

मूलम् - 83

कुर्यात् सुधाविलिप्तं वा भूषयेत्तदनन्तरम्।
दर्पणैश्चामरैर्वस्त्रैर्दुकूलैर्विविधोज्ज्वलैः ॥ 83 ॥

विश्वास-प्रस्तुतिः - 84

घण्टाभिरर्धचन्द्राद्यैरातपत्रैर्मनोहरैः।
प्रोच्छ्रितैः कदलीपूगैर्द्रुमाङ्गैः पावनैर्दृढैः ॥ 84 ॥

मूलम् - 84

घण्टाभिरर्धचन्द्राद्यैरातपत्रैर्मनोहरैः।
प्रोच्छ्रितैः कदलीपूगैर्द्रुमाङ्गैः पावनैर्दृढैः ॥ 84 ॥

विश्वास-प्रस्तुतिः - 85

मध्वाज्यदधिसत्क्षीरसंपूर्णैः कांस्यभाजनैः।
शालितण्डुलपात्रैश्च सहिरण्यैः फलैः शुभैः ॥ 85 ॥

मूलम् - 85

मध्वाज्यदधिसत्क्षीरसंपूर्णैः कांस्यभाजनैः।
शालितण्डुलपात्रैश्च सहिरण्यैः फलैः शुभैः ॥ 85 ॥

विश्वास-प्रस्तुतिः - 86

लाजसिद्धार्थकैर्बीजभाजनैः षड्रसान्वितैः।
सत्सुगन्धैस्त्वगेलाद्यैः पर्णैः पूगफलैस्तथा ॥ 86 ॥

मूलम् - 86

लाजसिद्धार्थकैर्बीजभाजनैः षड्रसान्वितैः।
सत्सुगन्धैस्त्वगेलाद्यैः पर्णैः पूगफलैस्तथा ॥ 86 ॥

विश्वास-प्रस्तुतिः - 87

मधूकबदरद्राक्षा इक्षुभिस्त्रिफलैः फलैः।
यथर्तुप्रभवैः पुष्पैर्वहुभिः प्रकरीयकैः ॥ 87 ॥

मूलम् - 87

मधूकबदरद्राक्षा इक्षुभिस्त्रिफलैः फलैः।
यथर्तुप्रभवैः पुष्पैर्वहुभिः प्रकरीयकैः ॥ 87 ॥

विश्वास-प्रस्तुतिः - 88

इत्येवमाद्यैर्विविधैर्भोगपूगैस्तु पावनैः।
पवित्रेण वितानेन सुसितेनोज्ज्वलेन वा ॥ 88 ॥

मूलम् - 88

इत्येवमाद्यैर्विविधैर्भोगपूगैस्तु पावनैः।
पवित्रेण वितानेन सुसितेनोज्ज्वलेन वा ॥ 88 ॥

विश्वास-प्रस्तुतिः - 89

चक्राम्बुरुहचिह्नेन भूषयेच्च तदूर्ध्वतः।
स्तम्भान् संवेष्टयेत् पश्चाद्‌दुकूलैर्विविधैः पृथक् ॥ 89 ॥

मूलम् - 89

चक्राम्बुरुहचिह्नेन भूषयेच्च तदूर्ध्वतः।
स्तम्भान् संवेष्टयेत् पश्चाद्‌दुकूलैर्विविधैः पृथक् ॥ 89 ॥

विश्वास-प्रस्तुतिः - 90

प्रागुत्तरादिदिग्भागाद्यावत्कोणं च मारुतम्।
सितादिवर्णभेदोत्थाः पताकास्तत्र योजयेत् ॥ 90 ॥

मूलम् - 90

प्रागुत्तरादिदिग्भागाद्यावत्कोणं च मारुतम्।
सितादिवर्णभेदोत्थाः पताकास्तत्र योजयेत् ॥ 90 ॥

विश्वास-प्रस्तुतिः - 91

एवं रागविभागेन प्रत्यग्भागाच्च वै पुनः।
दक्षिणाशावधिर्यावद्‌द्वितीयं च चतुष्टयम् ॥ 91 ॥

मूलम् - 91

एवं रागविभागेन प्रत्यग्भागाच्च वै पुनः।
दक्षिणाशावधिर्यावद्‌द्वितीयं च चतुष्टयम् ॥ 91 ॥

विश्वास-प्रस्तुतिः - 92

एकैव सर्ववर्णा च नाभौ कार्या वितानके।
बाह्यतो वेदिकायास्तु मण्डपस्य दिगष्टके ॥ 92 ॥

मूलम् - 92

एकैव सर्ववर्णा च नाभौ कार्या वितानके।
बाह्यतो वेदिकायास्तु मण्डपस्य दिगष्टके ॥ 92 ॥

विश्वास-प्रस्तुतिः - 93

वह्निकोणात् समारभ्य यावत्कोणं तु शाङ्करम्।
सितारुणं च पीतं च कृष्णं कुर्याच्चतुष्टयम् ॥ 93 ॥

मूलम् - 93

वह्निकोणात् समारभ्य यावत्कोणं तु शाङ्करम्।
सितारुणं च पीतं च कृष्णं कुर्याच्चतुष्टयम् ॥ 93 ॥

विश्वास-प्रस्तुतिः - 94

भूयश्चोत्तरदिग्भागाद्यावद्दिक्‌पश्चिमा द्विज!।
तथाविधं चतुष्कं तु ध्वजानां परिखीर्तितम् ॥ 94 ॥

मूलम् - 94

भूयश्चोत्तरदिग्भागाद्यावद्दिक्‌पश्चिमा द्विज!।
तथाविधं चतुष्कं तु ध्वजानां परिखीर्तितम् ॥ 94 ॥

विश्वास-प्रस्तुतिः - 95

राजपाषाणवर्णाभं चक्रपक्षीश्वरोपगम्।
वैजयन्तीत्रयं कुर्यात्तोरणे पूर्वदिक्‌स्थिते ॥ 95 ॥

मूलम् - 95

राजपाषाणवर्णाभं चक्रपक्षीश्वरोपगम्।
वैजयन्तीत्रयं कुर्यात्तोरणे पूर्वदिक्‌स्थिते ॥ 95 ॥

विश्वास-प्रस्तुतिः - 96

दक्षिणे स्फटिकाभं तु आप्ये सिन्दूरवर्चसम्।
हेमाभं चोत्तरे कुर्यात्तोरणे ध्वजकत्रयम् ॥ 96 ॥

मूलम् - 96

दक्षिणे स्फटिकाभं तु आप्ये सिन्दूरवर्चसम्।
हेमाभं चोत्तरे कुर्यात्तोरणे ध्वजकत्रयम् ॥ 96 ॥

विश्वास-प्रस्तुतिः - 97

चतुष्केण पताकानां युक्तं श्वेतादिकेन च।
एकैकं तोरणं वात्र त्रितयं पञ्चकं तु वा ॥ 97 ॥

मूलम् - 97

चतुष्केण पताकानां युक्तं श्वेतादिकेन च।
एकैकं तोरणं वात्र त्रितयं पञ्चकं तु वा ॥ 97 ॥

विश्वास-प्रस्तुतिः - 98

अर्धेन तोरणायामात् पताकानां च दीर्घता।
एवं त्वभिनवं कृत्वा यागार्थं मण्डपं द्विज! ॥ 98 ॥

मूलम् - 98

अर्धेन तोरणायामात् पताकानां च दीर्घता।
एवं त्वभिनवं कृत्वा यागार्थं मण्डपं द्विज! ॥ 98 ॥

विश्वास-प्रस्तुतिः - 99

स्नपनाद्युत्सवान्तस्य वैशेषिकगणस्य च।
पुरा प्रकल्पितं वाथ मण्डपं भूषयेत्तदा ॥ 99 ॥

मूलम् - 99

स्नपनाद्युत्सवान्तस्य वैशेषिकगणस्य च।
पुरा प्रकल्पितं वाथ मण्डपं भूषयेत्तदा ॥ 99 ॥

विश्वास-प्रस्तुतिः - 100

एवं कृते ततः पश्चाद्वेदिकां तोरणैः सह।
विलिप्य चन्दनाद्यैस्तु गन्धवर्णोज्ज्वलैः क्रमात् ॥ 100 ॥

मूलम् - 100

एवं कृते ततः पश्चाद्वेदिकां तोरणैः सह।
विलिप्य चन्दनाद्यैस्तु गन्धवर्णोज्ज्वलैः क्रमात् ॥ 100 ॥

विश्वास-प्रस्तुतिः - 101

चन्दनेन समालभ्य वेदिकां केवलेन च।
बाह्‌लीकभावितेनैव तेनैवाद्यं च तोरणम् ॥ 101 ॥

मूलम् - 101

चन्दनेन समालभ्य वेदिकां केवलेन च।
बाह्‌लीकभावितेनैव तेनैवाद्यं च तोरणम् ॥ 101 ॥

विश्वास-प्रस्तुतिः - 102

लिप्तं मृगमदेनैव कुर्याद्दक्षिणदिग्गतम्।
तुषारधूलीधवलं पश्चिमं कारयेत्ततः ॥ 102 ॥

मूलम् - 102

लिप्तं मृगमदेनैव कुर्याद्दक्षिणदिग्गतम्।
तुषारधूलीधवलं पश्चिमं कारयेत्ततः ॥ 102 ॥

विश्वास-प्रस्तुतिः - 103

कुङ्‌कुमेन समालभ्य केवलेनोत्तरे स्थितम्।
क्षीरेण चन्दनेनैव कुङ्कुमेन कृतां स्थलाम् ॥ 103 ॥

मूलम् - 103

कुङ्‌कुमेन समालभ्य केवलेनोत्तरे स्थितम्।
क्षीरेण चन्दनेनैव कुङ्कुमेन कृतां स्थलाम् ॥ 103 ॥

विश्वास-प्रस्तुतिः - 104

रजनीचूर्णयुक्तेन हरीबेरेणाम्बुना सह।
पुण्यगन्धौषधीभिस्तु द्वाराणां मण्डपावनिम् ॥ 104 ॥

मूलम् - 104

रजनीचूर्णयुक्तेन हरीबेरेणाम्बुना सह।
पुण्यगन्धौषधीभिस्तु द्वाराणां मण्डपावनिम् ॥ 104 ॥

विश्वास-प्रस्तुतिः - 105

ततस्तु विविधैर्धूपैर्बहुभिर्धूपयेद्‌द्विज!।
ततस्तिरस्करिण्या तद्वेष्टयेत् सर्वतो बहिः ॥ 105 ॥

मूलम् - 105

ततस्तु विविधैर्धूपैर्बहुभिर्धूपयेद्‌द्विज!।
ततस्तिरस्करिण्या तद्वेष्टयेत् सर्वतो बहिः ॥ 105 ॥

विश्वास-प्रस्तुतिः - 106

मण्डपस्योत्तरे भागे कुर्यात् कुण्ड पुरैव तु।
यद्वा द्विज! ततोऽन्यत्र यागाग्रस्था च वर्ज्यदिक् ॥ 106 ॥

मूलम् - 106

मण्डपस्योत्तरे भागे कुर्यात् कुण्ड पुरैव तु।
यद्वा द्विज! ततोऽन्यत्र यागाग्रस्था च वर्ज्यदिक् ॥ 106 ॥

विश्वास-प्रस्तुतिः - 107

दिक्‌त्रयेऽभिमता या दिक्‌ कुर्यादनलमण्डपम्।
धूमनिर्गमनोपेतं नानाकुण्डबिभूषितम् ॥ 107 ॥

मूलम् - 107

दिक्‌त्रयेऽभिमता या दिक्‌ कुर्यादनलमण्डपम्।
धूमनिर्गमनोपेतं नानाकुण्डबिभूषितम् ॥ 107 ॥

विश्वास-प्रस्तुतिः - 108

सार्द्रै(न्द्रै)श्च सुपलाशैश्च सुयुक्तं तोराणादिकैः।
यद्वा पचनगेहे तु कुण्डं कुर्यात् सलक्षणम् ॥ 108 ॥

मूलम् - 108

सार्द्रै(न्द्रै)श्च सुपलाशैश्च सुयुक्तं तोराणादिकैः।
यद्वा पचनगेहे तु कुण्डं कुर्यात् सलक्षणम् ॥ 108 ॥

विश्वास-प्रस्तुतिः - 109

अन्यन्नैमित्तिकार्थं तु पुरा क्लृप्तं तु वा भवेत्।
एवं कृते ततः कुर्यात् सम्भारग्रहणं द्विज! ॥ 109 ॥

मूलम् - 109

अन्यन्नैमित्तिकार्थं तु पुरा क्लृप्तं तु वा भवेत्।
एवं कृते ततः कुर्यात् सम्भारग्रहणं द्विज! ॥ 109 ॥

विश्वास-प्रस्तुतिः - 110

सप्तमे पञ्चमे वापि वासरे कर्मवासरात्।
पूर्वं कृत्वाङ्‌कुरारो(वा)पं ततः कर्म समारभेत् ॥ 110 ॥

मूलम् - 110

सप्तमे पञ्चमे वापि वासरे कर्मवासरात्।
पूर्वं कृत्वाङ्‌कुरारो(वा)पं ततः कर्म समारभेत् ॥ 110 ॥

विश्वास-प्रस्तुतिः - 111

ततः प्रवेशयेत्तस्मिन् सम्भारान् यागमण्डपे।
दशम्यां द्विजशार्दूल! यत्किञ्चिच्चोपयुज्यते ॥ 111 ॥

मूलम् - 111

ततः प्रवेशयेत्तस्मिन् सम्भारान् यागमण्डपे।
दशम्यां द्विजशार्दूल! यत्किञ्चिच्चोपयुज्यते ॥ 111 ॥

विश्वास-प्रस्तुतिः - 112

भूषणादि ततः कुर्याद्यथा तदवधारय।
तेषां तु द्विविधं रूपं सूक्ष्मस्थूलविभेदतः ॥ 112 ॥

मूलम् - 112

भूषणादि ततः कुर्याद्यथा तदवधारय।
तेषां तु द्विविधं रूपं सूक्ष्मस्थूलविभेदतः ॥ 112 ॥

विश्वास-प्रस्तुतिः - 113

सर्वभावेन भक्तानां यत् पालयति सर्वदा।
मनोवाक्‌चित्तजं कृत्स्नं व्यापारं शुभलक्षणम् ॥ 113 ॥

मूलम् - 113

सर्वभावेन भक्तानां यत् पालयति सर्वदा।
मनोवाक्‌चित्तजं कृत्स्नं व्यापारं शुभलक्षणम् ॥ 113 ॥

विश्वास-प्रस्तुतिः - 114

परिज्ञेयमतस्तस्मात् स्वरूपं तस्य यादृशम्।
फलमेति च वै येन भक्तानां तत्समापनात् ॥ 114 ॥

मूलम् - 114

परिज्ञेयमतस्तस्मात् स्वरूपं तस्य यादृशम्।
फलमेति च वै येन भक्तानां तत्समापनात् ॥ 114 ॥

विश्वास-प्रस्तुतिः - 115

यदच्छिन्नं जगद्योनेरनन्तप्रसरं सितम्।
विच्छेदमकृतज्ञानामेति नानात्मना स्वयम् ॥ 115 ॥

मूलम् - 115

यदच्छिन्नं जगद्योनेरनन्तप्रसरं सितम्।
विच्छेदमकृतज्ञानामेति नानात्मना स्वयम् ॥ 115 ॥

विश्वास-प्रस्तुतिः - 116

जगत्सूत्रं तु तद्विद्धि हेमसूत्रादिना तु वै।
षाड्‌गुण्यमहिमानं यद्धत्ते प्रतिसरात्मना ॥ 116 ॥

मूलम् - 116

जगत्सूत्रं तु तद्विद्धि हेमसूत्रादिना तु वै।
षाड्‌गुण्यमहिमानं यद्धत्ते प्रतिसरात्मना ॥ 116 ॥

विश्वास-प्रस्तुतिः - 117

ज्ञानरागोपरक्तं तु युक्तं कार्यैस्तु वीर्यजैः।
तैजसैरावृतं मन्त्रैर्बलेनावसितं परि ॥ 117 ॥

मूलम् - 117

ज्ञानरागोपरक्तं तु युक्तं कार्यैस्तु वीर्यजैः।
तैजसैरावृतं मन्त्रैर्बलेनावसितं परि ॥ 117 ॥

विश्वास-प्रस्तुतिः - 118

ऐश्वर्यमुपचारे तु सम्पत्तौ शक्तितोऽव्ययम्।
एवं पवित्रकं तावत् परिज्ञातं जगत्‌प्रभोः ॥ 118 ॥

मूलम् - 118

ऐश्वर्यमुपचारे तु सम्पत्तौ शक्तितोऽव्ययम्।
एवं पवित्रकं तावत् परिज्ञातं जगत्‌प्रभोः ॥ 118 ॥

विश्वास-प्रस्तुतिः - 119

ब्रह्नण्यधिपतौ विण्णौ तथाकारे प्रतिष्ठिते।
भक्त्या च विधिवद्दत्तं ददाति भगवत्पदम् ॥ 119 ॥

मूलम् - 119

ब्रह्नण्यधिपतौ विण्णौ तथाकारे प्रतिष्ठिते।
भक्त्या च विधिवद्दत्तं ददाति भगवत्पदम् ॥ 119 ॥

विश्वास-प्रस्तुतिः - 120

स्थूलस्य व्यतिरिक्तस्य व्यवहारपदस्थितैः।
पदार्थैः कल्पनीया च यथा तदवधारय ॥ 120 ॥

मूलम् - 120

स्थूलस्य व्यतिरिक्तस्य व्यवहारपदस्थितैः।
पदार्थैः कल्पनीया च यथा तदवधारय ॥ 120 ॥

विश्वास-प्रस्तुतिः - 121

सूक्ष्मं दृढं सितं श्र्लक्षणं सूत्रं ब्रह्नप्रसूतया।
विनिर्मितं कुमार्या वा वृद्धया वा विनीतया ॥ 121 ॥

मूलम् - 121

सूक्ष्मं दृढं सितं श्र्लक्षणं सूत्रं ब्रह्नप्रसूतया।
विनिर्मितं कुमार्या वा वृद्धया वा विनीतया ॥ 121 ॥

विश्वास-प्रस्तुतिः - 122

शुद्धया वा विधवया सम्पादितमथापि वा।
क्षौमं वा पट्टजं वापि केशरोमादिवर्जितम् ॥ 122 ॥

मूलम् - 122

शुद्धया वा विधवया सम्पादितमथापि वा।
क्षौमं वा पट्टजं वापि केशरोमादिवर्जितम् ॥ 122 ॥

विश्वास-प्रस्तुतिः - 123

यथालब्धं समादाय सम्यक् प्रक्षाल्य वारिणा।
तस्य शुद्धिं पुरा कृत्वा दहनाप्यनेन च ॥ 123 ॥

मूलम् - 123

यथालब्धं समादाय सम्यक् प्रक्षाल्य वारिणा।
तस्य शुद्धिं पुरा कृत्वा दहनाप्यनेन च ॥ 123 ॥

विश्वास-प्रस्तुतिः - 124

अवलोक्य स्मरन्मूलं विनिष्पाद्य चतुर्गुणम्।
चातुरात्म्यव्यपेक्षायामथवाष्टगुणं द्विज! ॥ 124 ॥

मूलम् - 124

अवलोक्य स्मरन्मूलं विनिष्पाद्य चतुर्गुणम्।
चातुरात्म्यव्यपेक्षायामथवाष्टगुणं द्विज! ॥ 124 ॥

विश्वास-प्रस्तुतिः - 125

प्रभवाप्ययबुद्ध्या तु भेदभिन्नोपलक्षितम्।
केशवादिष्वधिष्ठातृभावेन त्रिचतुर्गुणम् ॥ 125 ॥

मूलम् - 125

प्रभवाप्ययबुद्ध्या तु भेदभिन्नोपलक्षितम्।
केशवादिष्वधिष्ठातृभावेन त्रिचतुर्गुणम् ॥ 125 ॥

विश्वास-प्रस्तुतिः - 126

तन्तुभिर्विषमैर्विष्णोः समस्य परिवर्जयेत्।
पावित्रिकी क्रिया यस्माद्विषमा सा न कस्यचित् ॥ 126 ॥

मूलम् - 126

तन्तुभिर्विषमैर्विष्णोः समस्य परिवर्जयेत्।
पावित्रिकी क्रिया यस्माद्विषमा सा न कस्यचित् ॥ 126 ॥

विश्वास-प्रस्तुतिः - 127

पवित्रकाणि कार्याणि तन्तुभिस्तैः सुतानितैः।
मूलमन्त्रादिमन्त्राणां सर्वेषां मुनिसत्तम! ॥ 127 ॥

मूलम् - 127

पवित्रकाणि कार्याणि तन्तुभिस्तैः सुतानितैः।
मूलमन्त्रादिमन्त्राणां सर्वेषां मुनिसत्तम! ॥ 127 ॥

विश्वास-प्रस्तुतिः - 128

कुम्भस्थमन्त्रमूर्तेः प्राक् कल्पयेद्‌भूषणं द्विज!।
अध्यर्धशमजैर्व्यासाद्धाराकारैश्च तन्तुभिः ॥ 128 ॥

मूलम् - 128

कुम्भस्थमन्त्रमूर्तेः प्राक् कल्पयेद्‌भूषणं द्विज!।
अध्यर्धशमजैर्व्यासाद्धाराकारैश्च तन्तुभिः ॥ 128 ॥

विश्वास-प्रस्तुतिः - 129

शतेनाष्टोत्तरेणाद्यं द्विगुणेन द्वितीयकम्।
त्रिगुणेन तृतीयं तु व्यासमेवं तु तन्नयेत् ॥ 129 ॥

मूलम् - 129

शतेनाष्टोत्तरेणाद्यं द्विगुणेन द्वितीयकम्।
त्रिगुणेन तृतीयं तु व्यासमेवं तु तन्नयेत् ॥ 129 ॥

विश्वास-प्रस्तुतिः - 130

षट्‌त्रिंशद्‌ग्रन्थिकं चाद्यं द्वितीयं द्विगुणं स्मृतम्।
तृतीयं त्रिगुणं कुर्यादेवमेव महामते! ॥ 130 ॥

मूलम् - 130

षट्‌त्रिंशद्‌ग्रन्थिकं चाद्यं द्वितीयं द्विगुणं स्मृतम्।
तृतीयं त्रिगुणं कुर्यादेवमेव महामते! ॥ 130 ॥

विश्वास-प्रस्तुतिः - 131

मण्डलस्थस्य च विभोस्तथा वह्निगतस्य च।
बिम्बस्थस्य पवित्राणां विशेषमवधारय ॥ 131 ॥

मूलम् - 131

मण्डलस्थस्य च विभोस्तथा वह्निगतस्य च।
बिम्बस्थस्य पवित्राणां विशेषमवधारय ॥ 131 ॥

विश्वास-प्रस्तुतिः - 132

मालाकृतिं च शिरसि यथेच्छग्रन्थिपूर्वकम्।
द्वितीयमंसयोर्यावल्लम्बितं जानुमण्डले ॥ 132 ॥

मूलम् - 132

मालाकृतिं च शिरसि यथेच्छग्रन्थिपूर्वकम्।
द्वितीयमंसयोर्यावल्लम्बितं जानुमण्डले ॥ 132 ॥

विश्वास-प्रस्तुतिः - 133

मूर्ध्नः पादावधिर्यावत्‌तृतीयमिति विस्तृतम्।
आमूर्ध्नः पीठपर्यन्तं वनमालापवित्रकम् ॥ 133 ॥

मूलम् - 133

मूर्ध्नः पादावधिर्यावत्‌तृतीयमिति विस्तृतम्।
आमूर्ध्नः पीठपर्यन्तं वनमालापवित्रकम् ॥ 133 ॥

विश्वास-प्रस्तुतिः - 134

पृथक्‌पीठस्य वै कुर्यात् स्वप्रमाणेन शोभनम्।
बिम्बप्रतिसराणां च व्पासश्चानियतः स्मृतः ॥ 134 ॥

मूलम् - 134

पृथक्‌पीठस्य वै कुर्यात् स्वप्रमाणेन शोभनम्।
बिम्बप्रतिसराणां च व्पासश्चानियतः स्मृतः ॥ 134 ॥

विश्वास-प्रस्तुतिः - 135

सूत्रमानं च पूर्वोक्तं द्विगुणं सति संभवे।
त्रिगुणं वा मुनिश्रेष्ठ! वनमालाख्यभूषणम् ॥ 135 ॥

मूलम् - 135

सूत्रमानं च पूर्वोक्तं द्विगुणं सति संभवे।
त्रिगुणं वा मुनिश्रेष्ठ! वनमालाख्यभूषणम् ॥ 135 ॥

विश्वास-प्रस्तुतिः - 136

अष्टोत्तेरण सूत्राणां सहस्रेण समन्वितम्।
यद्वा तदर्धं, पादं वा कुर्याद्वित्तानुरूपतः ॥ 136 ॥

मूलम् - 136

अष्टोत्तेरण सूत्राणां सहस्रेण समन्वितम्।
यद्वा तदर्धं, पादं वा कुर्याद्वित्तानुरूपतः ॥ 136 ॥

विश्वास-प्रस्तुतिः - 137

लेपभित्तिपटस्थे तु मूलबिम्बे यदा द्विज!।
कुर्यादुत्सवबिम्बस्य भूषणानां तु षञ्चकम् ॥ 137 ॥

मूलम् - 137

लेपभित्तिपटस्थे तु मूलबिम्बे यदा द्विज!।
कुर्यादुत्सवबिम्बस्य भूषणानां तु षञ्चकम् ॥ 137 ॥

विश्वास-प्रस्तुतिः - 138

तदापि मूलबिम्बस्य भूषणान्यपि पूर्ववत्।
क्लपयेदाद्यपूर्वाणि बिम्बप्रतिसरेषु तु ॥ 138 ॥

मूलम् - 138

तदापि मूलबिम्बस्य भूषणान्यपि पूर्ववत्।
क्लपयेदाद्यपूर्वाणि बिम्बप्रतिसरेषु तु ॥ 138 ॥

विश्वास-प्रस्तुतिः - 139

विभवे देवदेवेशं हारपञ्चसमन्वितम्।
नानाकाराणि तन्तूनि मुक्ताहारसमन्वितम् ॥ 139 ॥

मूलम् - 139

विभवे देवदेवेशं हारपञ्चसमन्वितम्।
नानाकाराणि तन्तूनि मुक्ताहारसमन्वितम् ॥ 139 ॥

विश्वास-प्रस्तुतिः - 140

त्र्यङ्‌गुलान्तरिता देयाः सर्वेषां ग्रन्थयः समाः।
सङ्‌ख्यानेन विना सम्यङ्‌मातुलुङ्गोपमाः शुभाः ॥ 140 ॥

मूलम् - 140

त्र्यङ्‌गुलान्तरिता देयाः सर्वेषां ग्रन्थयः समाः।
सङ्‌ख्यानेन विना सम्यङ्‌मातुलुङ्गोपमाः शुभाः ॥ 140 ॥

विश्वास-प्रस्तुतिः - 141

अष्टोत्तरशतग्रन्थिसंयुक्ता वनमालिका।
चतुः स्थानावतीर्णस्य विभोरामन्त्रणाय च ॥ 141 ॥

मूलम् - 141

अष्टोत्तरशतग्रन्थिसंयुक्ता वनमालिका।
चतुः स्थानावतीर्णस्य विभोरामन्त्रणाय च ॥ 141 ॥

विश्वास-प्रस्तुतिः - 142

पवित्रमाद्यसदृशमेकैकं वा द्वयं द्वयम्।
सर्वेषां कर्मबिम्बानां तथा वै गोपुरादिषु ॥ 142 ॥

मूलम् - 142

पवित्रमाद्यसदृशमेकैकं वा द्वयं द्वयम्।
सर्वेषां कर्मबिम्बानां तथा वै गोपुरादिषु ॥ 142 ॥

विश्वास-प्रस्तुतिः - 143

स्थितानां मन्त्रबिम्बानां भजतां सन्निधिं सदा।
उत्तमादीनि सर्वाणि कुर्याद्वै मुख्यकल्पने ॥ 143 ॥

मूलम् - 143

स्थितानां मन्त्रबिम्बानां भजतां सन्निधिं सदा।
उत्तमादीनि सर्वाणि कुर्याद्वै मुख्यकल्पने ॥ 143 ॥

विश्वास-प्रस्तुतिः - 144

प्रकल्पयेत् तत्सदृशं मध्यमेनोत्तमेन वा।
द्वितयं द्वितयं वापि ह्येकैकं वानुकल्पने ॥ 144 ॥

मूलम् - 144

प्रकल्पयेत् तत्सदृशं मध्यमेनोत्तमेन वा।
द्वितयं द्वितयं वापि ह्येकैकं वानुकल्पने ॥ 144 ॥

विश्वास-प्रस्तुतिः - 145

अङ्गानामप्युपाङ्गानां लाञ्छनानामपि द्विज!।
भूषणानां च शक्तीनां तथैव विहगेशितुः ॥ 145 ॥

मूलम् - 145

अङ्गानामप्युपाङ्गानां लाञ्छनानामपि द्विज!।
भूषणानां च शक्तीनां तथैव विहगेशितुः ॥ 145 ॥

विश्वास-प्रस्तुतिः - 146

प्राग्वत्त्रीण्यथवा द्वे द्वे ह्येकैकं वाथवा द्विज!।
यथेच्छमानसंख्योत्थैः सूत्रैस्तु परिकल्पयेत् ॥ 146 ॥

मूलम् - 146

प्राग्वत्त्रीण्यथवा द्वे द्वे ह्येकैकं वाथवा द्विज!।
यथेच्छमानसंख्योत्थैः सूत्रैस्तु परिकल्पयेत् ॥ 146 ॥

विश्वास-प्रस्तुतिः - 147

सूत्रभ्रमसमोपेतैर्गभैर्भूषणसञ्चयम्।
अन्येषां मण्डलाङ्गानां देवानां विभवे सति ॥ 147 ॥

मूलम् - 147

सूत्रभ्रमसमोपेतैर्गभैर्भूषणसञ्चयम्।
अन्येषां मण्डलाङ्गानां देवानां विभवे सति ॥ 147 ॥

विश्वास-प्रस्तुतिः - 148

पवित्रकगणं कुर्याद्यथेच्चग्रन्थितन्तुभिः।
तथैव विष्वक्‌सेनादेः परिवारगणस्य च ॥ 148 ॥

मूलम् - 148

पवित्रकगणं कुर्याद्यथेच्चग्रन्थितन्तुभिः।
तथैव विष्वक्‌सेनादेः परिवारगणस्य च ॥ 148 ॥

विश्वास-प्रस्तुतिः - 149

मन्त्रास्त्रकुम्भयोर्द्वे वै ह्येकं वै मण्डलस्य च।
द्वयं च कुण्डानलयोः शास्त्रपीठस्य च द्वयम् ॥ 149 ॥

मूलम् - 149

मन्त्रास्त्रकुम्भयोर्द्वे वै ह्येकं वै मण्डलस्य च।
द्वयं च कुण्डानलयोः शास्त्रपीठस्य च द्वयम् ॥ 149 ॥

विश्वास-प्रस्तुतिः - 150

लिपेर्वाक्‌तत्वभूतस्य शब्दतत्वस्य च प्रभोः।
घण्टाक्षसूत्रपूर्वाणां क्रियाङ्गानां महात्मनाम् ॥ 150 ॥

मूलम् - 150

लिपेर्वाक्‌तत्वभूतस्य शब्दतत्वस्य च प्रभोः।
घण्टाक्षसूत्रपूर्वाणां क्रियाङ्गानां महात्मनाम् ॥ 150 ॥

विश्वास-प्रस्तुतिः - 151

बलिपीठादिदेवानां देशान्तरनिवासिनाम्।
गुर्वादीनां चतुर्णां तु हरिवीप्साप्रलापिनाम् ॥ 151 ॥

मूलम् - 151

बलिपीठादिदेवानां देशान्तरनिवासिनाम्।
गुर्वादीनां चतुर्णां तु हरिवीप्साप्रलापिनाम् ॥ 151 ॥

विश्वास-प्रस्तुतिः - 152

द्विजोत्तमादिवर्णानां नित्यमच्युतभाविनाम्।
गृहस्थब्रह्नचारीणां यतीनां वनवासिनाम् ॥ 152 ॥

मूलम् - 152

द्विजोत्तमादिवर्णानां नित्यमच्युतभाविनाम्।
गृहस्थब्रह्नचारीणां यतीनां वनवासिनाम् ॥ 152 ॥

विश्वास-प्रस्तुतिः - 153

वृद्धानां जनकादीनां भगवत्तत्ववेदिनाम्।
बन्धूनां भ्रातृपूर्वाणां नारायणरतात्मनाम् ॥ 153 ॥

मूलम् - 153

वृद्धानां जनकादीनां भगवत्तत्ववेदिनाम्।
बन्धूनां भ्रातृपूर्वाणां नारायणरतात्मनाम् ॥ 153 ॥

विश्वास-प्रस्तुतिः - 154

जायाया भक्तिनम्राया रताया अर्चने हरेः।
सम्बन्धिनां च मित्राणां भगवद्धामसेविनाम् ॥ 154 ॥

मूलम् - 154

जायाया भक्तिनम्राया रताया अर्चने हरेः।
सम्बन्धिनां च मित्राणां भगवद्धामसेविनाम् ॥ 154 ॥

विश्वास-प्रस्तुतिः - 155

तदुत्तरसहायानां चातुरात्म्याभिलाषिणाम्।
भृत्यानां स्वानुकूलानां पुरुषोत्तमयाजिनाम् ॥ 155 ॥

मूलम् - 155

तदुत्तरसहायानां चातुरात्म्याभिलाषिणाम्।
भृत्यानां स्वानुकूलानां पुरुषोत्तमयाजिनाम् ॥ 155 ॥

विश्वास-प्रस्तुतिः - 156

वृद्धये योग्यतायैव पवित्रीकरणाय च।
यथाभिमतमानैस्तु तन्तुभिर्ग्रन्थिभिस्तथा ॥ 156 ॥

मूलम् - 156

वृद्धये योग्यतायैव पवित्रीकरणाय च।
यथाभिमतमानैस्तु तन्तुभिर्ग्रन्थिभिस्तथा ॥ 156 ॥

विश्वास-प्रस्तुतिः - 157

कुर्यात् पवित्रनिचयमथवा मुनिसत्तम!।
गुर्वादीनां चतुर्णां तु यतीनां च कुटुम्बिनाम् ॥ 157 ॥

मूलम् - 157

कुर्यात् पवित्रनिचयमथवा मुनिसत्तम!।
गुर्वादीनां चतुर्णां तु यतीनां च कुटुम्बिनाम् ॥ 157 ॥

विश्वास-प्रस्तुतिः - 158

क्रमाच्चतुर्विंशतिभिः सूत्रैः षोडशभिस्तथा।
ततो द्वादशभिश्चैव अष्टाभिःषट्‌त्रिभिस्तथा ॥ 158 ॥

मूलम् - 158

क्रमाच्चतुर्विंशतिभिः सूत्रैः षोडशभिस्तथा।
ततो द्वादशभिश्चैव अष्टाभिःषट्‌त्रिभिस्तथा ॥ 158 ॥

विश्वास-प्रस्तुतिः - 159

पवित्रकाणि कार्याणि ग्रन्थयः सूत्रसंख्यया।
आराधकस्य च गुरोः कुर्याद्वे भूषणद्वयम् ॥ 159 ॥

मूलम् - 159

पवित्रकाणि कार्याणि ग्रन्थयः सूत्रसंख्यया।
आराधकस्य च गुरोः कुर्याद्वे भूषणद्वयम् ॥ 159 ॥

विश्वास-प्रस्तुतिः - 160

स्थूलकल्पमिदं प्रोक्तं सूक्ष्मकल्पमतः श्रृणु।
शिरःप्रमाणेनार्चाया भूषणं प्रथमं स्मृतम् ॥ 160 ॥

मूलम् - 160

स्थूलकल्पमिदं प्रोक्तं सूक्ष्मकल्पमतः श्रृणु।
शिरःप्रमाणेनार्चाया भूषणं प्रथमं स्मृतम् ॥ 160 ॥

विश्वास-प्रस्तुतिः - 161

चतुःशतेन सूत्राणां द्वात्रिंशद्भिस्तथाधिकैः।
सूत्रावर्तैश्च सुसमैः परिकल्प्य सुशोभनम् ॥ 161 ॥

मूलम् - 161

चतुःशतेन सूत्राणां द्वात्रिंशद्भिस्तथाधिकैः।
सूत्रावर्तैश्च सुसमैः परिकल्प्य सुशोभनम् ॥ 161 ॥

विश्वास-प्रस्तुतिः - 162

सप्तविंशत्प्रमाणेन दत्वास्मिन् ग्रन्थिसञ्चयम्।
कर्मादूर्ध्वगतं नाभिप्रमाणेन पवित्रकम् ॥ 162 ॥

मूलम् - 162

सप्तविंशत्प्रमाणेन दत्वास्मिन् ग्रन्थिसञ्चयम्।
कर्मादूर्ध्वगतं नाभिप्रमाणेन पवित्रकम् ॥ 162 ॥

विश्वास-प्रस्तुतिः - 163

परिकल्प्य द्वितीयं च सूत्राणां मुनिसत्तम!।
शतत्रयेण च तथा चतुर्विंशद्भिरेव च ॥ 163 ॥

मूलम् - 163

परिकल्प्य द्वितीयं च सूत्राणां मुनिसत्तम!।
शतत्रयेण च तथा चतुर्विंशद्भिरेव च ॥ 163 ॥

विश्वास-प्रस्तुतिः - 164

द्विगुणैर्ग्रन्थिनिचयैरनुगर्भं तु तत् स्मृतम्।
स्कन्धदेशात् समारभ्य यावत्पादद्वयावधि ॥ 164 ॥

मूलम् - 164

द्विगुणैर्ग्रन्थिनिचयैरनुगर्भं तु तत् स्मृतम्।
स्कन्धदेशात् समारभ्य यावत्पादद्वयावधि ॥ 164 ॥

विश्वास-प्रस्तुतिः - 165

नेत्रसूत्रैस्त्रिभागोनैः सूत्रग्रामैश्च कल्पयेत्।
त्रिगुणैर्ग्रन्थिनिचयैस्ततो।़न्यद्‌द्विजसत्तम! ॥ 165 ॥

मूलम् - 165

नेत्रसूत्रैस्त्रिभागोनैः सूत्रग्रामैश्च कल्पयेत्।
त्रिगुणैर्ग्रन्थिनिचयैस्ततो।़न्यद्‌द्विजसत्तम! ॥ 165 ॥

विश्वास-प्रस्तुतिः - 166

अष्टोत्तरेण सूत्राणां शतेन ग्रन्थिभिस्तथा।
शिरः पूर्वावतारादौ यावत्पीठं तु वैष्णवम् ॥ 166 ॥

मूलम् - 166

अष्टोत्तरेण सूत्राणां शतेन ग्रन्थिभिस्तथा।
शिरः पूर्वावतारादौ यावत्पीठं तु वैष्णवम् ॥ 166 ॥

विश्वास-प्रस्तुतिः - 167

सूत्रैर्ग्रन्थिगणैश्चैव गर्भैस्तु विविधैस्ततः।
मण्डलस्य प्रमाणेन कुर्याच्चान्यच्चतुष्टयम् ॥ 167 ॥

मूलम् - 167

सूत्रैर्ग्रन्थिगणैश्चैव गर्भैस्तु विविधैस्ततः।
मण्डलस्य प्रमाणेन कुर्याच्चान्यच्चतुष्टयम् ॥ 167 ॥

विश्वास-प्रस्तुतिः - 168

प्रथमं पझमानेन नाभिमानं द्वितीयकम्।
अरतुल्यं तृतीयं स्याच्चतुर्थं नेमिभिः समम् ॥ 168 ॥

मूलम् - 168

प्रथमं पझमानेन नाभिमानं द्वितीयकम्।
अरतुल्यं तृतीयं स्याच्चतुर्थं नेमिभिः समम् ॥ 168 ॥

विश्वास-प्रस्तुतिः - 169

एकाशीतिभिरावर्तैः सूत्राणां द्विजसत्तम!।
अग्नेः कुण्डप्रमाणेन ग्रन्थिभिस्तावदेव हि ॥ 169 ॥

मूलम् - 169

एकाशीतिभिरावर्तैः सूत्राणां द्विजसत्तम!।
अग्नेः कुण्डप्रमाणेन ग्रन्थिभिस्तावदेव हि ॥ 169 ॥

विश्वास-प्रस्तुतिः - 170

भूषणत्रितयं कुर्याद्यथायोगं महामते!।
अष्टोत्तरशतादर्धैः सूत्रैस्तद्‌ग्रन्थिभिस्तथा ॥ 170 ॥

मूलम् - 170

भूषणत्रितयं कुर्याद्यथायोगं महामते!।
अष्टोत्तरशतादर्धैः सूत्रैस्तद्‌ग्रन्थिभिस्तथा ॥ 170 ॥

विश्वास-प्रस्तुतिः - 171

भूषणं सुसमं चैव सुशुभं परिकल्पयेत्।
द्विजेन्द्र! द्विजमुख्यानां ब्राह्नणानां तदर्धतः ॥ 171 ॥

मूलम् - 171

भूषणं सुसमं चैव सुशुभं परिकल्पयेत्।
द्विजेन्द्र! द्विजमुख्यानां ब्राह्नणानां तदर्धतः ॥ 171 ॥

विश्वास-प्रस्तुतिः - 172

मुख्यमेतत् स्मृतं कल्पमनुकल्पमिदं श्रुणु।
अष्टाधिकेन सूत्रेण शतेन प्रथमं त्विदम् ॥ 172 ॥

मूलम् - 172

मुख्यमेतत् स्मृतं कल्पमनुकल्पमिदं श्रुणु।
अष्टाधिकेन सूत्रेण शतेन प्रथमं त्विदम् ॥ 172 ॥

विश्वास-प्रस्तुतिः - 173

चतुर्भागोनमपरं तदर्धेन तृतीयकम्।
आद्याच्चतुर्थभागेन चतुर्थं कलपयेत् ततः ॥ 173 ॥

मूलम् - 173

चतुर्भागोनमपरं तदर्धेन तृतीयकम्।
आद्याच्चतुर्थभागेन चतुर्थं कलपयेत् ततः ॥ 173 ॥

विश्वास-प्रस्तुतिः - 174

त्रिभागोनं चतुर्थात्तु अग्नेः कुर्यात्तु भूषणम्।
द्विजेन्द्राणां प्रकुर्वीत सप्तविंशतितन्तुजम् ॥ 174 ॥

मूलम् - 174

त्रिभागोनं चतुर्थात्तु अग्नेः कुर्यात्तु भूषणम्।
द्विजेन्द्राणां प्रकुर्वीत सप्तविंशतितन्तुजम् ॥ 174 ॥

विश्वास-प्रस्तुतिः - 175

ब्राह्मणानां प्रकुर्वीत तन्तुभिर्नवभिर्द्विज!।
स्तनादूर्ध्वमधोनाभेर्न कर्तव्यं कदाचन ॥ 175 ॥

मूलम् - 175

ब्राह्मणानां प्रकुर्वीत तन्तुभिर्नवभिर्द्विज!।
स्तनादूर्ध्वमधोनाभेर्न कर्तव्यं कदाचन ॥ 175 ॥

विश्वास-प्रस्तुतिः - 176

सूत्रत्रयेण चान्येषां भक्तानां तु जगद्‌गुरोः।
सूक्ष्मकल्पमिदं विद्धि परकल्पमिदं श्रृणु ॥ 176 ॥

मूलम् - 176

सूत्रत्रयेण चान्येषां भक्तानां तु जगद्‌गुरोः।
सूक्ष्मकल्पमिदं विद्धि परकल्पमिदं श्रृणु ॥ 176 ॥

विश्वास-प्रस्तुतिः - 177

चतुःस्थानावतीर्णस्य मुख्यमन्त्रस्य वै विभोः।
शतेनाष्टोत्तरेणैव ह्यर्धेनांशेन वा मुने! ॥ 177 ॥

मूलम् - 177

चतुःस्थानावतीर्णस्य मुख्यमन्त्रस्य वै विभोः।
शतेनाष्टोत्तरेणैव ह्यर्धेनांशेन वा मुने! ॥ 177 ॥

विश्वास-प्रस्तुतिः - 178

तन्तूनां भूषणं कुर्यादेकैकं वा त्रयं त्रयम्।
जपहोमादिका संख्या पूर्णआरिक्ता महात्मनाम् ॥ 178 ॥

मूलम् - 178

तन्तूनां भूषणं कुर्यादेकैकं वा त्रयं त्रयम्।
जपहोमादिका संख्या पूर्णआरिक्ता महात्मनाम् ॥ 178 ॥

विश्वास-प्रस्तुतिः - 179

समीकरोति भक्तानां मन्त्रिणामत एव हि।
कुर्यात्तदग्रन्थिनिचयं सूत्रसंख्योपलक्षितम् ॥ 179 ॥

मूलम् - 179

समीकरोति भक्तानां मन्त्रिणामत एव हि।
कुर्यात्तदग्रन्थिनिचयं सूत्रसंख्योपलक्षितम् ॥ 179 ॥

विश्वास-प्रस्तुतिः - 180

यदृच्छया ततोऽन्येषां याज्यानां परिकल्प्य च।
सूत्रभ्रमसमोपेतैर्गर्भैर्भूषणसञ्चयम् ॥ 180 ॥

मूलम् - 180

यदृच्छया ततोऽन्येषां याज्यानां परिकल्प्य च।
सूत्रभ्रमसमोपेतैर्गर्भैर्भूषणसञ्चयम् ॥ 180 ॥

विश्वास-प्रस्तुतिः - 181

ततस्तु देवदेवस्य चतुः स्थानस्थितस्य यत्।
पवित्रकगणं विप्र! प्रोक्तमाद्यपुरस्सरम् ॥ 181 ॥

मूलम् - 181

ततस्तु देवदेवस्य चतुः स्थानस्थितस्य यत्।
पवित्रकगणं विप्र! प्रोक्तमाद्यपुरस्सरम् ॥ 181 ॥

विश्वास-प्रस्तुतिः - 182

कुर्यात्तु गर्भरचनां तस्य सर्वस्य सत्तम!।
हेमसद्रत्नकर्पूरमालयक्षोदकुङ्‌कुमैः ॥ 182 ॥

मूलम् - 182

कुर्यात्तु गर्भरचनां तस्य सर्वस्य सत्तम!।
हेमसद्रत्नकर्पूरमालयक्षोदकुङ्‌कुमैः ॥ 182 ॥

विश्वास-प्रस्तुतिः - 183

सर्वौषधिसमोपेतैस्त्वगेलादिविमिश्रितैः।
पावनैर्विविधैर्द्रव्यैर्नीव्या च पिचुना सह ॥ 183 ॥

मूलम् - 183

सर्वौषधिसमोपेतैस्त्वगेलादिविमिश्रितैः।
पावनैर्विविधैर्द्रव्यैर्नीव्या च पिचुना सह ॥ 183 ॥

विश्वास-प्रस्तुतिः - 184

बीजपूरसमाकारमार्द्रामलकशङ्खवत्।
तदन्तरालानि पुनस्त्वच्छिन्नेन तु तन्तुना ॥ 184 ॥

मूलम् - 184

बीजपूरसमाकारमार्द्रामलकशङ्खवत्।
तदन्तरालानि पुनस्त्वच्छिन्नेन तु तन्तुना ॥ 184 ॥

विश्वास-प्रस्तुतिः - 185

विभागप्रतिपत्यर्थं ग्रथनीयान्यदूरतः।
अन्येषां सर्वबिम्बानां यथावित्तानुरूपतः ॥ 185 ॥

मूलम् - 185

विभागप्रतिपत्यर्थं ग्रथनीयान्यदूरतः।
अन्येषां सर्वबिम्बानां यथावित्तानुरूपतः ॥ 185 ॥

विश्वास-प्रस्तुतिः - 186

कल्पयेद्गर्भरचनां पूर्वोक्तद्रव्यसञ्चयैः।
आराधकस्य च गुरोः सगर्भं भूषणद्वयम् ॥ 186 ॥

मूलम् - 186

कल्पयेद्गर्भरचनां पूर्वोक्तद्रव्यसञ्चयैः।
आराधकस्य च गुरोः सगर्भं भूषणद्वयम् ॥ 186 ॥

विश्वास-प्रस्तुतिः - 187

विहितं भगवन्मन्त्रन्यासात्तादात्म्यभावनात्।
अतोऽन्येषामगर्भं च रचनीयं यथाक्रमम् ॥ 187 ॥

मूलम् - 187

विहितं भगवन्मन्त्रन्यासात्तादात्म्यभावनात्।
अतोऽन्येषामगर्भं च रचनीयं यथाक्रमम् ॥ 187 ॥

विश्वास-प्रस्तुतिः - 188

अन्तरालगणं गार्भं कुर्याद्बाह्‌लीकरञ्जितम्।
अलङ्‌कृत्य च सौवर्णैरुपरिष्टाच्च रूप्यकैः ॥ 188 ॥

मूलम् - 188

अन्तरालगणं गार्भं कुर्याद्बाह्‌लीकरञ्जितम्।
अलङ्‌कृत्य च सौवर्णैरुपरिष्टाच्च रूप्यकैः ॥ 188 ॥

विश्वास-प्रस्तुतिः - 189

पवित्रच्छेदसम्मूलं जातरूपमयैस्तु वा।
शङ्खपजगदाचकमालाश्रीवत्सपूर्वकैः ॥ 189 ॥

मूलम् - 189

पवित्रच्छेदसम्मूलं जातरूपमयैस्तु वा।
शङ्खपजगदाचकमालाश्रीवत्सपूर्वकैः ॥ 189 ॥

विश्वास-प्रस्तुतिः - 190

एकस्थैव बहूनां वा यथावित्तानुसारतः।
एवं कृत्वा पवित्राणि क्रमेण द्विजसत्तम! ॥ 190 ॥

मूलम् - 190

एकस्थैव बहूनां वा यथावित्तानुसारतः।
एवं कृत्वा पवित्राणि क्रमेण द्विजसत्तम! ॥ 190 ॥

विश्वास-प्रस्तुतिः - 191

धातुजे वितते भाण्डे वस्त्रच्छन्ने निधाय च।
अथवा पैत्तले भाण्डे मृण्मये वा सुशोभने ॥ 191 ॥

मूलम् - 191

धातुजे वितते भाण्डे वस्त्रच्छन्ने निधाय च।
अथवा पैत्तले भाण्डे मृण्मये वा सुशोभने ॥ 191 ॥

विश्वास-प्रस्तुतिः - 192

पालाशे वापि चैकस्मिन् मान्त्रं भूषणसञ्चयम्।
अन्यस्मिन् लौकिकं स्थाप्य समस्तं द्विजसत्तम! ॥ 192 ॥

मूलम् - 192

पालाशे वापि चैकस्मिन् मान्त्रं भूषणसञ्चयम्।
अन्यस्मिन् लौकिकं स्थाप्य समस्तं द्विजसत्तम! ॥ 192 ॥

विश्वास-प्रस्तुतिः - 193

आच्छाद्य वाससा पश्चात् सुसितेनाहतेन तु।
बन्धयित्वा तु सृत्रेण दृढेन सुसितेन च ॥ 193 ॥

मूलम् - 193

आच्छाद्य वाससा पश्चात् सुसितेनाहतेन तु।
बन्धयित्वा तु सृत्रेण दृढेन सुसितेन च ॥ 193 ॥

विश्वास-प्रस्तुतिः - 194

मध्ये तु यागद्रव्याणां ते भाण्डे विनिवेश्य ।
देशिकः पूर्वविधिना कृतस्नानः कृताह्निकः ॥ 194 ॥

मूलम् - 194

मध्ये तु यागद्रव्याणां ते भाण्डे विनिवेश्य ।
देशिकः पूर्वविधिना कृतस्नानः कृताह्निकः ॥ 194 ॥

विश्वास-प्रस्तुतिः - 195

देशिकेन्द्रेण सहितौ गत्वा मन्त्रेशसन्निधिम्।
प्रपूज्य देवदेवेशमर्ध्यगन्धादिभिः क्रमात् ॥ 195 ॥

मूलम् - 195

देशिकेन्द्रेण सहितौ गत्वा मन्त्रेशसन्निधिम्।
प्रपूज्य देवदेवेशमर्ध्यगन्धादिभिः क्रमात् ॥ 195 ॥

विश्वास-प्रस्तुतिः - 196

विज्ञाप्य देवदेवाय “मा मे विघ्नं भव” त्विति।
तस्मादनुज्ञां संगृह्य शिरसावनतेन तु ॥ 196 ॥

मूलम् - 196

विज्ञाप्य देवदेवाय “मा मे विघ्नं भव” त्विति।
तस्मादनुज्ञां संगृह्य शिरसावनतेन तु ॥ 196 ॥

विश्वास-प्रस्तुतिः - 197

निशामुखे प्रवृत्ते तु कर्तार्घ्यकुसुमोद्यतः।
सहसद्ब्रह्नघोषेण स्तुतिमङ्गलपाठकैः ॥ 197 ॥

मूलम् - 197

निशामुखे प्रवृत्ते तु कर्तार्घ्यकुसुमोद्यतः।
सहसद्ब्रह्नघोषेण स्तुतिमङ्गलपाठकैः ॥ 197 ॥

विश्वास-प्रस्तुतिः - 198

शङ्खतूर्यनिनादैश्च पुष्पैरर्घ्यसमन्वितैः।
कृत्वा द्वार्स्थार्चनं विप्र! प्रविशेद्यागमण्टपम् ॥ 198 ॥

मूलम् - 198

शङ्खतूर्यनिनादैश्च पुष्पैरर्घ्यसमन्वितैः।
कृत्वा द्वार्स्थार्चनं विप्र! प्रविशेद्यागमण्टपम् ॥ 198 ॥

विश्वास-प्रस्तुतिः - 199

इदमुच्चारयेन्मन्त्रं स्वरेणोच्चतरेण तु।
" (ओं) नमो ब्रह्नण्यदेवायाच्युतायाव्ययाय च ॥ 199 ॥

मूलम् - 199

इदमुच्चारयेन्मन्त्रं स्वरेणोच्चतरेण तु।
" (ओं) नमो ब्रह्नण्यदेवायाच्युतायाव्ययाय च ॥ 199 ॥

ऋग्यजुस्सामरूपाय शब्ददेहाय विष्णवे।" प्रविश्य कल्शस्थानं समीपे तु वरासने ॥ 200 ॥
विश्वास-प्रस्तुतिः - 201

प्राङ्‌मुखः संस्मरेन्मन्त्रं पूर्ववद्व्याप्तिभाविते।
उपविश्य यथान्यायमन्तर्यागान्तमाचरेत् ॥ 201 ॥

मूलम् - 201

प्राङ्‌मुखः संस्मरेन्मन्त्रं पूर्ववद्व्याप्तिभाविते।
उपविश्य यथान्यायमन्तर्यागान्तमाचरेत् ॥ 201 ॥

विश्वास-प्रस्तुतिः - 202

करादिशुद्धिपूर्वं तु, पश्चादर्घ्यादिकल्पनम्।
प्राग्वत् कृत्वा ततोऽभ्यर्च्य मन्त्रसङ्‌घं तु देहजम् ॥ 202 ॥

मूलम् - 202

करादिशुद्धिपूर्वं तु, पश्चादर्घ्यादिकल्पनम्।
प्राग्वत् कृत्वा ततोऽभ्यर्च्य मन्त्रसङ्‌घं तु देहजम् ॥ 202 ॥

विश्वास-प्रस्तुतिः - 203

द्वौ द्वौ तु पूर्णकलशौ सौवर्णौ राजतौ तु वा।
ताम्रजौ मृण्मयौ वाथ सापिधानौ सपल्लवौ ॥ 203 ॥

मूलम् - 203

द्वौ द्वौ तु पूर्णकलशौ सौवर्णौ राजतौ तु वा।
ताम्रजौ मृण्मयौ वाथ सापिधानौ सपल्लवौ ॥ 203 ॥

विश्वास-प्रस्तुतिः - 204

फलै रत्नादिकैर्युक्तौ सूत्रेण परिवेष्टितौ।
शालिपीठोपरि स्थाय्य प्रतिद्वारं तु पार्श्वयोः ॥ 204 ॥

मूलम् - 204

फलै रत्नादिकैर्युक्तौ सूत्रेण परिवेष्टितौ।
शालिपीठोपरि स्थाय्य प्रतिद्वारं तु पार्श्वयोः ॥ 204 ॥

विश्वास-प्रस्तुतिः - 205

पालिकानां शरावाणां विन्यसेत्तु त्रयं त्रयम्।
प्रितकोणं तु संस्थाप्य घटिकानां त्रयं त्रयम् ॥ 205 ॥

मूलम् - 205

पालिकानां शरावाणां विन्यसेत्तु त्रयं त्रयम्।
प्रितकोणं तु संस्थाप्य घटिकानां त्रयं त्रयम् ॥ 205 ॥

विश्वास-प्रस्तुतिः - 206

द्वारयागं ततः कुर्यात् पूर्वाद्युत्तरपश्चिमम्।
अर्घ्यालभनमाल्यैश्च धूपैर्गुग्गुलुमिश्रितैः ॥ 206 ॥

मूलम् - 206

द्वारयागं ततः कुर्यात् पूर्वाद्युत्तरपश्चिमम्।
अर्घ्यालभनमाल्यैश्च धूपैर्गुग्गुलुमिश्रितैः ॥ 206 ॥

विश्वास-प्रस्तुतिः - 207

वास्त्वीशः क्षेत्रनाथश्च द्वारलक्ष्मीस्तथा द्विज!।
चण्डप्रचण्डौ गरुडः पूर्वद्वारे तु संस्थिताः ॥ 207 ॥

मूलम् - 207

वास्त्वीशः क्षेत्रनाथश्च द्वारलक्ष्मीस्तथा द्विज!।
चण्डप्रचण्डौ गरुडः पूर्वद्वारे तु संस्थिताः ॥ 207 ॥

विश्वास-प्रस्तुतिः - 208

दक्षे धातृविधातारौ पश्चिमे तु जयेतरौ।
भद्राख्यश्च सुभद्राख्यो ह्युत्तरे दक्षिणादितः ॥ 208 ॥

मूलम् - 208

दक्षे धातृविधातारौ पश्चिमे तु जयेतरौ।
भद्राख्यश्च सुभद्राख्यो ह्युत्तरे दक्षिणादितः ॥ 208 ॥

विश्वास-प्रस्तुतिः - 209

मूलबिम्बे यदा कुर्यात् पवित्रारोहणं तदा।
मण्डलस्थस्य देवस्य प्रागाद्युत्तरपश्चिमम् ॥ 209 ॥

मूलम् - 209

मूलबिम्बे यदा कुर्यात् पवित्रारोहणं तदा।
मण्डलस्थस्य देवस्य प्रागाद्युत्तरपश्चिमम् ॥ 209 ॥

विश्वास-प्रस्तुतिः - 210

संस्थानं द्वार्स्थदेवानां यात्राबिम्बे यदा भवेत्।
तत्प्रागपेक्षया तेषां संस्थानमुदितं तदा ॥ 210 ॥

मूलम् - 210

संस्थानं द्वार्स्थदेवानां यात्राबिम्बे यदा भवेत्।
तत्प्रागपेक्षया तेषां संस्थानमुदितं तदा ॥ 210 ॥

विश्वास-प्रस्तुतिः - 211

मुख्येनार्घ्याम्भसा प्रोक्ष्य पृथग्भाण्डे स्थितं पुरा।
पञ्चगव्यं ततो विप्र! कल्पयित्वा हृदादिकैः ॥ 211 ॥

मूलम् - 211

मुख्येनार्घ्याम्भसा प्रोक्ष्य पृथग्भाण्डे स्थितं पुरा।
पञ्चगव्यं ततो विप्र! कल्पयित्वा हृदादिकैः ॥ 211 ॥

विश्वास-प्रस्तुतिः - 212

कुशोदकं तदस्त्रेण दत्वाद्येनाभिमन्त्रयेत्।
कल्पयेत् पञ्चगव्यं तु पञ्चोपनिषदैस्तु वा ॥ 212 ॥

मूलम् - 212

कुशोदकं तदस्त्रेण दत्वाद्येनाभिमन्त्रयेत्।
कल्पयेत् पञ्चगव्यं तु पञ्चोपनिषदैस्तु वा ॥ 212 ॥

विश्वास-प्रस्तुतिः - 213

अथ पाणिद्वयेनैव अग्नीषोमात्मकेन तु।
योग्यतापदवीं नीत्वा शोधयेद्वसुधां ततः ॥ 213 ॥

मूलम् - 213

अथ पाणिद्वयेनैव अग्नीषोमात्मकेन तु।
योग्यतापदवीं नीत्वा शोधयेद्वसुधां ततः ॥ 213 ॥

विश्वास-प्रस्तुतिः - 214

मूलेन साम्भसानेन प्रोक्षयेद्यत् पुराहृतम्।
कौशेयेन पवित्रेण ध्यायमानस्तमेव हि ॥ 214 ॥

मूलम् - 214

मूलेन साम्भसानेन प्रोक्षयेद्यत् पुराहृतम्।
कौशेयेन पवित्रेण ध्यायमानस्तमेव हि ॥ 214 ॥

विश्वास-प्रस्तुतिः - 215

सर्वबीजानि धान्यानि सिद्धार्थकयुतान्यथ।
कृत्वास्त्रपरिजप्तानि ध्यात्वा ह्यस्त्रसमानि च ॥ 215 ॥

मूलम् - 215

सर्वबीजानि धान्यानि सिद्धार्थकयुतान्यथ।
कृत्वास्त्रपरिजप्तानि ध्यात्वा ह्यस्त्रसमानि च ॥ 215 ॥

विश्वास-प्रस्तुतिः - 216

विघ्नोपशान्तये वेगाद्दशदिक्षु विनिक्षिपेत्।
संहृत्य बहुकूर्चेन प्राच्यां दिशि निधाय वै ॥ 216 ॥

मूलम् - 216

विघ्नोपशान्तये वेगाद्दशदिक्षु विनिक्षिपेत्।
संहृत्य बहुकूर्चेन प्राच्यां दिशि निधाय वै ॥ 216 ॥

विश्वास-प्रस्तुतिः - 217

ईशानदिशि वा न्यस्त्वा यागस्येच्छानुरूपतः।
तद्गर्भीकृत्य संलिख्य हेतिराट्‌ चन्दनादिना ॥ 217 ॥

मूलम् - 217

ईशानदिशि वा न्यस्त्वा यागस्येच्छानुरूपतः।
तद्गर्भीकृत्य संलिख्य हेतिराट्‌ चन्दनादिना ॥ 217 ॥

विश्वास-प्रस्तुतिः - 218

चक्रं ध्यात्वा मण्डपोर्ध्वे पङ्कजं वसुधातले।
र्निगमे च गदां देवीं शङ्खं च ककुभाष्टके ॥ 218 ॥

मूलम् - 218

चक्रं ध्यात्वा मण्डपोर्ध्वे पङ्कजं वसुधातले।
र्निगमे च गदां देवीं शङ्खं च ककुभाष्टके ॥ 218 ॥

विश्वास-प्रस्तुतिः - 219

प्राकाराकारदेहां च नानाज्वालासमाकुलाम्।
शक्तिरूपां गदां वाथ केवलां मन्त्रतो न्यसेत् ॥ 219 ॥

मूलम् - 219

प्राकाराकारदेहां च नानाज्वालासमाकुलाम्।
शक्तिरूपां गदां वाथ केवलां मन्त्रतो न्यसेत् ॥ 219 ॥

विश्वास-प्रस्तुतिः - 220

एवं कृते तदा सम्यग्भवेद्विघ्नविनाशनम्।
अथादाय दृढं शुद्धमेकरूपं च निर्व्रणम् ॥ 220 ॥

मूलम् - 220

एवं कृते तदा सम्यग्भवेद्विघ्नविनाशनम्।
अथादाय दृढं शुद्धमेकरूपं च निर्व्रणम् ॥ 220 ॥

विश्वास-प्रस्तुतिः - 221

कुम्भं च मृण्मयं रम्यं सौवर्णं वाथ राजतम्।
रत्नहाटकस्रग्गन्धफलसर्वौषधीयुतम् ॥ 221 ॥

मूलम् - 221

कुम्भं च मृण्मयं रम्यं सौवर्णं वाथ राजतम्।
रत्नहाटकस्रग्गन्धफलसर्वौषधीयुतम् ॥ 221 ॥

विश्वास-प्रस्तुतिः - 222

शुभपादपशाखाढ्यं पट्टस्रग्गन्धभूषितम्।
गालितोदकसंपूर्णवारिधारान्वितं नवम् ॥ 222 ॥

मूलम् - 222

शुभपादपशाखाढ्यं पट्टस्रग्गन्धभूषितम्।
गालितोदकसंपूर्णवारिधारान्वितं नवम् ॥ 222 ॥

विश्वास-प्रस्तुतिः - 223

चन्दनाद्युपलिप्तं च परितश्चाक्षतान्वितम्।
वेष्टितं परितः सूत्रैः विकीर्योपरि तन्न्यसेत् ॥ 223 ॥

मूलम् - 223

चन्दनाद्युपलिप्तं च परितश्चाक्षतान्वितम्।
वेष्टितं परितः सूत्रैः विकीर्योपरि तन्न्यसेत् ॥ 223 ॥

विश्वास-प्रस्तुतिः - 224

तद्देवताशरीरं तु वश्यदं बलवर्चसम्।
सास्त्रेण चक्रमन्त्रेण मन्त्रयेदथ वर्धनीम् ॥ 224 ॥

मूलम् - 224

तद्देवताशरीरं तु वश्यदं बलवर्चसम्।
सास्त्रेण चक्रमन्त्रेण मन्त्रयेदथ वर्धनीम् ॥ 224 ॥

विश्वास-प्रस्तुतिः - 225

पूर्वोक्तद्रव्यसंयुक्तां परितः सूत्रवेष्टिताम्।
आवाह्य मन्त्रनाथस्य दक्षिणे कलशोत्तरे ॥ 225 ॥

मूलम् - 225

पूर्वोक्तद्रव्यसंयुक्तां परितः सूत्रवेष्टिताम्।
आवाह्य मन्त्रनाथस्य दक्षिणे कलशोत्तरे ॥ 225 ॥

विश्वास-प्रस्तुतिः - 226

विन्यस्य परितस्तत्र स्थापयेत् कलशाष्टकम्।
सपल्लवं सापिधानं सूत्रेण परिवेष्टितम् ॥ 226 ॥

मूलम् - 226

विन्यस्य परितस्तत्र स्थापयेत् कलशाष्टकम्।
सपल्लवं सापिधानं सूत्रेण परिवेष्टितम् ॥ 226 ॥

विश्वास-प्रस्तुतिः - 227

कुम्भमध्ये विभोःप्राग्वदासनं परिकल्प्य च।
तन्मद्ये पुण्डरीकाक्षं समावाह्य विधानतः ॥ 227 ॥

मूलम् - 227

कुम्भमध्ये विभोःप्राग्वदासनं परिकल्प्य च।
तन्मद्ये पुण्डरीकाक्षं समावाह्य विधानतः ॥ 227 ॥

विश्वास-प्रस्तुतिः - 228

सन्निधिं सन्निरोधादिभोगयागावसानकम्।
पूर्ववत् सकलं कृत्वा तस्य दक्षिणदिग्गतम् ॥ 228 ॥

मूलम् - 228

सन्निधिं सन्निरोधादिभोगयागावसानकम्।
पूर्ववत् सकलं कृत्वा तस्य दक्षिणदिग्गतम् ॥ 228 ॥

विश्वास-प्रस्तुतिः - 229

अस्त्रविग्रहरूपं च ध्यात्वाऽभ्यर्च्य यथाविधि।
ध्वंसयन्तं च विघ्नानां जालं कर्मावसानिकम् ॥ 229 ॥

मूलम् - 229

अस्त्रविग्रहरूपं च ध्यात्वाऽभ्यर्च्य यथाविधि।
ध्वंसयन्तं च विघ्नानां जालं कर्मावसानिकम् ॥ 229 ॥

विश्वास-प्रस्तुतिः - 230

इदमभ्यर्थयेद्देवं सास्त्रं बद्धाञ्जलिः स्थितः।
“यागालयं हि विश्वेश! गृहाण रचितं मया ॥ 230 ॥

मूलम् - 230

इदमभ्यर्थयेद्देवं सास्त्रं बद्धाञ्जलिः स्थितः।
“यागालयं हि विश्वेश! गृहाण रचितं मया ॥ 230 ॥

आसमाप्तं भज विभो क्रियाङ्गानां च सन्निधिम्।" ततोऽस्त्रोदकधारां चाप्यच्छिन्नां भित्तिगां नयेत् ॥ 231 ॥
विश्वास-प्रस्तुतिः - 232

प्रदक्षिणेन प्राग्भागात्तत्पदान्तं च तत् स्मरेत्।
अथवेशानदिग्भागात् तत्पदान्तं द्विजोत्तम! ॥ 232 ॥

मूलम् - 232

प्रदक्षिणेन प्राग्भागात्तत्पदान्तं च तत् स्मरेत्।
अथवेशानदिग्भागात् तत्पदान्तं द्विजोत्तम! ॥ 232 ॥

विश्वास-प्रस्तुतिः - 233

पृष्ठतः कलशौ भ्राम्य तुल्यकालं तु वा पृथक्।
कल्शं वर्धनीयुक्तं विन्यस्य विकिरोर्ध्वगम् ॥ 233 ॥

मूलम् - 233

पृष्ठतः कलशौ भ्राम्य तुल्यकालं तु वा पृथक्।
कल्शं वर्धनीयुक्तं विन्यस्य विकिरोर्ध्वगम् ॥ 233 ॥

विश्वास-प्रस्तुतिः - 234

अर्घ्यदानं तयोः कृत्वा पुष्पाद्यैः पूजयेत् पुनः।
अस्त्रेण वस्त्रयुग्मं तु अहतं चाभिमन्त्र्य वै ॥ 234 ॥

मूलम् - 234

अर्घ्यदानं तयोः कृत्वा पुष्पाद्यैः पूजयेत् पुनः।
अस्त्रेण वस्त्रयुग्मं तु अहतं चाभिमन्त्र्य वै ॥ 234 ॥

विश्वास-प्रस्तुतिः - 235

धूपादिवासितं कृत्वा तावुभौ परिवेष्ट्य च।
अथवा भद्रपीठं तु विन्यसेद्विकिरोर्ध्वगम् ॥ 235 ॥

मूलम् - 235

धूपादिवासितं कृत्वा तावुभौ परिवेष्ट्य च।
अथवा भद्रपीठं तु विन्यसेद्विकिरोर्ध्वगम् ॥ 235 ॥

विश्वास-प्रस्तुतिः - 236

सास्त्रं हि मन्त्रकलशं तत्राधारगतं न्यसेत्।
चतुस्त्रिद्व्येकभारैर्वा शालिभिर्विष्टरे कृते ॥ 236 ॥

मूलम् - 236

सास्त्रं हि मन्त्रकलशं तत्राधारगतं न्यसेत्।
चतुस्त्रिद्व्येकभारैर्वा शालिभिर्विष्टरे कृते ॥ 236 ॥

विश्वास-प्रस्तुतिः - 237

तावन्मानांस्तदर्धान् वा तदूर्ध्वे तण्डुलान् न्यसेत्।
तत्पादांस्तत्समान् वापि तदूर्ध्वे विन्यसेत्तिलान् ॥ 237 ॥

मूलम् - 237

तावन्मानांस्तदर्धान् वा तदूर्ध्वे तण्डुलान् न्यसेत्।
तत्पादांस्तत्समान् वापि तदूर्ध्वे विन्यसेत्तिलान् ॥ 237 ॥

विश्वास-प्रस्तुतिः - 238

तदूर्ध्वे चाहतं वस्त्रयुग्ममास्तीर्य वै शुभम्।
कलशं वर्घनीयुक्तं तदूर्ध्वे वापि विन्यसेत् ॥ 238 ॥

मूलम् - 238

तदूर्ध्वे चाहतं वस्त्रयुग्ममास्तीर्य वै शुभम्।
कलशं वर्घनीयुक्तं तदूर्ध्वे वापि विन्यसेत् ॥ 238 ॥

विश्वास-प्रस्तुतिः - 239

प्राग्वत् सास्त्रं तु देवेशमासनादिक्रमाद्यजेत्।
व्यापारमाचरेद्दिव्यं कुम्भके च स्मरन् विभुम् ॥ 239 ॥

मूलम् - 239

प्राग्वत् सास्त्रं तु देवेशमासनादिक्रमाद्यजेत्।
व्यापारमाचरेद्दिव्यं कुम्भके च स्मरन् विभुम् ॥ 239 ॥

विश्वास-प्रस्तुतिः - 240

नानिसं युज्यते यस्मात् तस्मादेषा प्रतिक्रिया।
विभाव्या मन्त्रिणा कौम्भी आस्त्रीरक्षार्थमेव हि ॥ 240 ॥

मूलम् - 240

नानिसं युज्यते यस्मात् तस्मादेषा प्रतिक्रिया।
विभाव्या मन्त्रिणा कौम्भी आस्त्रीरक्षार्थमेव हि ॥ 240 ॥

विश्वास-प्रस्तुतिः - 241

ततोऽवतार्यो भगवान् स्थण्डिलेऽभ्यर्च्य सासनम्।
प्रदक्षिणप्रणामान्तं कुर्यात् सर्वं तु पूर्ववत् ॥ 241 ॥

मूलम् - 241

ततोऽवतार्यो भगवान् स्थण्डिलेऽभ्यर्च्य सासनम्।
प्रदक्षिणप्रणामान्तं कुर्यात् सर्वं तु पूर्ववत् ॥ 241 ॥

विश्वास-प्रस्तुतिः - 242

मण्डले कुम्भयागे च प्रोक्षणस्नानमाचरेत्।
ततस्तु ब्रह्नघोषेण यायाद्देवनिकेतनम् ॥ 242 ॥

मूलम् - 242

मण्डले कुम्भयागे च प्रोक्षणस्नानमाचरेत्।
ततस्तु ब्रह्नघोषेण यायाद्देवनिकेतनम् ॥ 242 ॥

विश्वास-प्रस्तुतिः - 243

अथ देवगृहं गत्वा पुण्डरीकाक्षमच्युतम्।
अष्टाङ्गेन नमस्कृत्य पूजयेत् पुरुषोत्तमम् ॥ 243 ॥

मूलम् - 243

अथ देवगृहं गत्वा पुण्डरीकाक्षमच्युतम्।
अष्टाङ्गेन नमस्कृत्य पूजयेत् पुरुषोत्तमम् ॥ 243 ॥

विश्वास-प्रस्तुतिः - 244

अर्घ्यालभनमाल्यैश्च धूपैरङ्गादिसंयुतम्।
तत् सर्वं योग्यमाहर्तुं पूजान्तरनिवेदितम् ॥ 244 ॥

मूलम् - 244

अर्घ्यालभनमाल्यैश्च धूपैरङ्गादिसंयुतम्।
तत् सर्वं योग्यमाहर्तुं पूजान्तरनिवेदितम् ॥ 244 ॥

विश्वास-प्रस्तुतिः - 245

पुष्पपूर्वं समादाय शिरसा चाभिनन्द्य तत्।
समर्प्य विष्वक्सेनस्य ह्यस्त्रमन्त्राबिमन्त्रितैः ॥ 245 ॥

मूलम् - 245

पुष्पपूर्वं समादाय शिरसा चाभिनन्द्य तत्।
समर्प्य विष्वक्सेनस्य ह्यस्त्रमन्त्राबिमन्त्रितैः ॥ 245 ॥

विश्वास-प्रस्तुतिः - 246

सपीठं भगवद्बिम्बं निर्मलीकृत्य वारिभिः।
प्रासादं शोधयित्वा तु देवदेवं समर्चयेत् ॥ 246 ॥

मूलम् - 246

सपीठं भगवद्बिम्बं निर्मलीकृत्य वारिभिः।
प्रासादं शोधयित्वा तु देवदेवं समर्चयेत् ॥ 246 ॥

विश्वास-प्रस्तुतिः - 247

स्नानैस्तु क्षीरपूर्वैर्वा धात्रीफलपुरस्सरैः।
यथाक्रमोपदिष्टैस्तु चान्यैर्भोगैरकृत्रिमैः ॥ 247 ॥

मूलम् - 247

स्नानैस्तु क्षीरपूर्वैर्वा धात्रीफलपुरस्सरैः।
यथाक्रमोपदिष्टैस्तु चान्यैर्भोगैरकृत्रिमैः ॥ 247 ॥

विश्वास-प्रस्तुतिः - 248

प्रदक्षिणप्रणामान्तं विशेषात् सर्वमाचरेत्।
लेपभित्तिपटस्थं तु मूलबिम्बं यदा द्विज! ॥ 248 ॥

मूलम् - 248

प्रदक्षिणप्रणामान्तं विशेषात् सर्वमाचरेत्।
लेपभित्तिपटस्थं तु मूलबिम्बं यदा द्विज! ॥ 248 ॥

विश्वास-प्रस्तुतिः - 249

तदा नैमित्तिके बिम्बे सर्वं कुर्याद्विशेषतः।
एतस्य सन्निधौ विप्र! कृत्वा स्नपनमात्रकम् ॥ 249 ॥

मूलम् - 249

तदा नैमित्तिके बिम्बे सर्वं कुर्याद्विशेषतः।
एतस्य सन्निधौ विप्र! कृत्वा स्नपनमात्रकम् ॥ 249 ॥

विश्वास-प्रस्तुतिः - 250

स्नपनाधिकृते बिम्बे नित्यनैमित्तिकेऽपि वा।
सर्वमन्यत् पवित्रान्तं मूलबिम्बे स्माचरेत् ॥ 250 ॥

मूलम् - 250

स्नपनाधिकृते बिम्बे नित्यनैमित्तिकेऽपि वा।
सर्वमन्यत् पवित्रान्तं मूलबिम्बे स्माचरेत् ॥ 250 ॥

विश्वास-प्रस्तुतिः - 251

नित्योत्सवार्थबिम्बे तु तदा कुर्यात् तदुत्सवम्।
तेषामसन्निधौ विप्र! दर्पणे तत्समीपगे ॥ 251 ॥

मूलम् - 251

नित्योत्सवार्थबिम्बे तु तदा कुर्यात् तदुत्सवम्।
तेषामसन्निधौ विप्र! दर्पणे तत्समीपगे ॥ 251 ॥

विश्वास-प्रस्तुतिः - 252

कुर्यात् स्नपनमात्रं तु तदा कुर्यात् तदुत्सवम्।
दर्भमञ्जरिजे कूर्चे चक्रे वा कुम्भकेऽपि वा ॥ 252 ॥

मूलम् - 252

कुर्यात् स्नपनमात्रं तु तदा कुर्यात् तदुत्सवम्।
दर्भमञ्जरिजे कूर्चे चक्रे वा कुम्भकेऽपि वा ॥ 252 ॥

विश्वास-प्रस्तुतिः - 253

प्राग्वदन्यत् समस्तं तु मूलबिम्बे समाचरेत्।
ततो होमगृहं गत्वा कुण्डं संस्कृत्य पूर्ववत् ॥ 253 ॥

मूलम् - 253

प्राग्वदन्यत् समस्तं तु मूलबिम्बे समाचरेत्।
ततो होमगृहं गत्वा कुण्डं संस्कृत्य पूर्ववत् ॥ 253 ॥

विश्वास-प्रस्तुतिः - 254

तत्रानर्ल च संस्कृत्य कुर्याद्वै मन्त्रतर्पणम्।
पूर्वोक्तविधिना पश्चात् संस्कृतेनाथ वह्निना ॥ 254 ॥

मूलम् - 254

तत्रानर्ल च संस्कृत्य कुर्याद्वै मन्त्रतर्पणम्।
पूर्वोक्तविधिना पश्चात् संस्कृतेनाथ वह्निना ॥ 254 ॥

विश्वास-प्रस्तुतिः - 255

चरुं संश्रापयेच्चुल्यां हृदा क्षीराज्यतण्डुलैः।
समुद्धृत्याज्यपूतं तं विनिवेद्य यथाक्रमम् ॥ 255 ॥

मूलम् - 255

चरुं संश्रापयेच्चुल्यां हृदा क्षीराज्यतण्डुलैः।
समुद्धृत्याज्यपूतं तं विनिवेद्य यथाक्रमम् ॥ 255 ॥

विश्वास-प्रस्तुतिः - 256

कलशस्थलबिम्बानामेकांशं जुहुयात्ततः।
यद्वा यागसमारम्भात् पूर्वं संसाध्य वै चरुम् ॥ 256 ॥

मूलम् - 256

कलशस्थलबिम्बानामेकांशं जुहुयात्ततः।
यद्वा यागसमारम्भात् पूर्वं संसाध्य वै चरुम् ॥ 256 ॥

विश्वास-प्रस्तुतिः - 257

कलशस्थलबिम्बानां क्रमात् कृत्वा तु पूजनम्।
सर्वं द्विजप्रदानान्तं वह्नौ सन्तर्पयेत्ततः ॥ 257 ॥

मूलम् - 257

कलशस्थलबिम्बानां क्रमात् कृत्वा तु पूजनम्।
सर्वं द्विजप्रदानान्तं वह्नौ सन्तर्पयेत्ततः ॥ 257 ॥

विश्वास-प्रस्तुतिः - 258

दत्वा पूर्णाहुतिं पश्चात् प्रयायाद्बिम्बसन्निधिम्।
पुरा यस्मिन् दिने विप्र! अतीते वत्सरे कृतः ॥ 258 ॥

मूलम् - 258

दत्वा पूर्णाहुतिं पश्चात् प्रयायाद्बिम्बसन्निधिम्।
पुरा यस्मिन् दिने विप्र! अतीते वत्सरे कृतः ॥ 258 ॥

विश्वास-प्रस्तुतिः - 259

पवित्रकोपसंहारस्तद्दिनादादितः स्मरन्।
अर्घ्यपुष्पादिबलिभिः पूजयेत् सर्वमध्वरम् ॥ 259 ॥

मूलम् - 259

पवित्रकोपसंहारस्तद्दिनादादितः स्मरन्।
अर्घ्यपुष्पादिबलिभिः पूजयेत् सर्वमध्वरम् ॥ 259 ॥

विश्वास-प्रस्तुतिः - 260

तद्वदाज्यं सपूर्णान्तं क्रमेण जुहुयात्ततः।
मण्डलाग्रमथासाद्य मुद्राबन्धादिकं तु वै ॥ 260 ॥

मूलम् - 260

तद्वदाज्यं सपूर्णान्तं क्रमेण जुहुयात्ततः।
मण्डलाग्रमथासाद्य मुद्राबन्धादिकं तु वै ॥ 260 ॥

विश्वास-प्रस्तुतिः - 261

कृत्वा प्रणामपर्यन्तं ततस्त्वेकं पवित्रकम्।
वासितं धूपगन्धाभ्यां चतुःस्थानस्थितस्य च ॥ 261 ॥

मूलम् - 261

कृत्वा प्रणामपर्यन्तं ततस्त्वेकं पवित्रकम्।
वासितं धूपगन्धाभ्यां चतुःस्थानस्थितस्य च ॥ 261 ॥

विश्वास-प्रस्तुतिः - 262

विनिवेद्य क्रमेणैव धूपं दत्वार्घ्यपूर्वकम्।
“निजानन्दमयैर्भोगैर्नित्यतृप्तस्त्वमव्ययः ॥ 262 ॥

मूलम् - 262

विनिवेद्य क्रमेणैव धूपं दत्वार्घ्यपूर्वकम्।
“निजानन्दमयैर्भोगैर्नित्यतृप्तस्त्वमव्ययः ॥ 262 ॥

तथापि भक्त्याऽतृप्तोऽहं त्वां यजाम्यात्मसिद्धये।" इति विज्ञाप्य देवस्य ततोऽस्त्रेणार्घ्यवारिणा ॥ 263 ॥
विश्वास-प्रस्तुतिः - 264

सर्वं भूषणपूर्वं तु संप्रोक्ष्य द्रव्यसञ्चयम्।
शालिभिस्तडुण्लैर्वापि तिलैर्वा त्रितयेन वा ॥ 264 ॥

मूलम् - 264

सर्वं भूषणपूर्वं तु संप्रोक्ष्य द्रव्यसञ्चयम्।
शालिभिस्तडुण्लैर्वापि तिलैर्वा त्रितयेन वा ॥ 264 ॥

विश्वास-प्रस्तुतिः - 265

चतुस्त्रिद्व्येकभारैर्वा कृते पीठेऽथवा स्थले।
निवेश्य वायुदिग्भागे स्थलस्थप्रागपेक्षया ॥ 265 ॥

मूलम् - 265

चतुस्त्रिद्व्येकभारैर्वा कृते पीठेऽथवा स्थले।
निवेश्य वायुदिग्भागे स्थलस्थप्रागपेक्षया ॥ 265 ॥

विश्वास-प्रस्तुतिः - 266

यद्वा पश्चिमदिग्भागे देशिकेच्छानुरूपतः।
सितवस्त्रान्वितेनैव त्वक्षतेनैव वर्मणा ॥ 266 ॥

मूलम् - 266

यद्वा पश्चिमदिग्भागे देशिकेच्छानुरूपतः।
सितवस्त्रान्वितेनैव त्वक्षतेनैव वर्मणा ॥ 266 ॥

विश्वास-प्रस्तुतिः - 267

अर्जयित्वास्त्रमन्त्रेण स्थगयेत् कवचेन तु।
एवं सर्वत्र वा कुर्याद्‌द्रव्याणामधिवासनम् ॥ 267 ॥

मूलम् - 267

अर्जयित्वास्त्रमन्त्रेण स्थगयेत् कवचेन तु।
एवं सर्वत्र वा कुर्याद्‌द्रव्याणामधिवासनम् ॥ 267 ॥

विश्वास-प्रस्तुतिः - 268

बर्हिपक्षसमोपेतं साङ्गमिष्वष्टकं ततः।
दिग्विदिक्ष्वस्त्रजप्तं तद्दद्याद्यागनिकेतनम् ॥ 268 ॥

मूलम् - 268

बर्हिपक्षसमोपेतं साङ्गमिष्वष्टकं ततः।
दिग्विदिक्ष्वस्त्रजप्तं तद्दद्याद्यागनिकेतनम् ॥ 268 ॥

विश्वास-प्रस्तुतिः - 269

पञ्चरङ्गेण सूत्रेण दृढेन सुसितेन वा।
चतुर्गुणेन संवेष्ट्याभ्यन्तराद्यागमण्डपम् ॥ 269 ॥

मूलम् - 269

पञ्चरङ्गेण सूत्रेण दृढेन सुसितेन वा।
चतुर्गुणेन संवेष्ट्याभ्यन्तराद्यागमण्डपम् ॥ 269 ॥

विश्वास-प्रस्तुतिः - 270

प्रदक्षिणचतुष्कं तु वर्ममन्त्रं तु संस्मरन्।
प्रासादं बाह्यतस्तद्वद्वेष्टयोदग्निमन्दिरम् ॥ 270 ॥

मूलम् - 270

प्रदक्षिणचतुष्कं तु वर्ममन्त्रं तु संस्मरन्।
प्रासादं बाह्यतस्तद्वद्वेष्टयोदग्निमन्दिरम् ॥ 270 ॥

विश्वास-प्रस्तुतिः - 271

वेष्टयेदन्तरा प्राग्वत्ततो देशिकसत्तमः।
स्वयं समूहमभ्यर्थ्य पञ्चकालपरायणम् ॥ 271 ॥

मूलम् - 271

वेष्टयेदन्तरा प्राग्वत्ततो देशिकसत्तमः।
स्वयं समूहमभ्यर्थ्य पञ्चकालपरायणम् ॥ 271 ॥

विश्वास-प्रस्तुतिः - 272

षट्‌कर्मनिरतं चापि यतिबृन्दं तु वैष्णवम्।
समक्षं भवतां भक्त्या श्वः प्रभुं पूजयाम्यहम् ॥ 272 ॥

मूलम् - 272

षट्‌कर्मनिरतं चापि यतिबृन्दं तु वैष्णवम्।
समक्षं भवतां भक्त्या श्वः प्रभुं पूजयाम्यहम् ॥ 272 ॥

विश्वास-प्रस्तुतिः - 273

सन्निधानमतः कार्यं मदनुग्रहकाम्यया।
एवमब्यर्थितेब्यस्तु ह्यनुज्ञां प्रतिगृह्य च ॥ 273 ॥

मूलम् - 273

सन्निधानमतः कार्यं मदनुग्रहकाम्यया।
एवमब्यर्थितेब्यस्तु ह्यनुज्ञां प्रतिगृह्य च ॥ 273 ॥

विश्वास-प्रस्तुतिः - 274

प्राङ्‌मुखस्त्वासनारूढो गुरुपाणिपरिच्युतम्।
ब्रह्नकूर्चं पिबेत् पश्चाच्चरुशेषं तु भक्षयेत् ॥ 274 ॥

मूलम् - 274

प्राङ्‌मुखस्त्वासनारूढो गुरुपाणिपरिच्युतम्।
ब्रह्नकूर्चं पिबेत् पश्चाच्चरुशेषं तु भक्षयेत् ॥ 274 ॥

विश्वास-प्रस्तुतिः - 275

पिबेद्धृदयसंजप्तं हेमरत्नकुशोदकम्।
भगवत्पादतोयं च सर्वपापहरं शुभम् ॥ 275 ॥

मूलम् - 275

पिबेद्धृदयसंजप्तं हेमरत्नकुशोदकम्।
भगवत्पादतोयं च सर्वपापहरं शुभम् ॥ 275 ॥

विश्वास-प्रस्तुतिः - 276

अद्यात्तदनु ताम्बूलं दन्तकाष्ठसमन्तिम्।
आचम्य न्यासपूर्वं तु सकलीकृत्य विग्रहम् ॥ 276 ॥

मूलम् - 276

अद्यात्तदनु ताम्बूलं दन्तकाष्ठसमन्तिम्।
आचम्य न्यासपूर्वं तु सकलीकृत्य विग्रहम् ॥ 276 ॥

विश्वास-प्रस्तुतिः - 277

स्थलस्थं मन्त्रमुद्धृत्य कुम्भेऽग्नौ न्यस्य वात्मनि।
कुतपे कम्बलोपेते स्थित्वा च सकुशास्तरे ॥ 277 ॥

मूलम् - 277

स्थलस्थं मन्त्रमुद्धृत्य कुम्भेऽग्नौ न्यस्य वात्मनि।
कुतपे कम्बलोपेते स्थित्वा च सकुशास्तरे ॥ 277 ॥

विश्वास-प्रस्तुतिः - 278

जपेन्मन्त्रवरं साङ्गं पठंस्तोत्रवरान् शुभान्।
कथां सार्वेश्वरीं पुण्यां कुम्भं निष्पाद्य मण्डलम् ॥ 278 ॥

मूलम् - 278

जपेन्मन्त्रवरं साङ्गं पठंस्तोत्रवरान् शुभान्।
कथां सार्वेश्वरीं पुण्यां कुम्भं निष्पाद्य मण्डलम् ॥ 278 ॥

विश्वास-प्रस्तुतिः - 279

एकाब्जं बहुपझं वा चक्राब्जाद्यमथापि वा।
स्वयं भगवता प्रोक्तमेतेषां लक्षणादिकम् ॥ 279 ॥

मूलम् - 279

एकाब्जं बहुपझं वा चक्राब्जाद्यमथापि वा।
स्वयं भगवता प्रोक्तमेतेषां लक्षणादिकम् ॥ 279 ॥

विश्वास-प्रस्तुतिः - 280

पौष्करे देवदेवेन सम्यक् पुष्करजन्मनः।
अथवा मण्डलं कुम्भमपरे वासरे द्विज! ॥ 280 ॥

मूलम् - 280

पौष्करे देवदेवेन सम्यक् पुष्करजन्मनः।
अथवा मण्डलं कुम्भमपरे वासरे द्विज! ॥ 280 ॥

विश्वास-प्रस्तुतिः - 281

भूषणानां ततो गत्वा सन्निधिं द्विजसत्तम!।
दाहाप्यायनयोगेन कुर्याच्चैवाधिवासनम् ॥ 281 ॥

मूलम् - 281

भूषणानां ततो गत्वा सन्निधिं द्विजसत्तम!।
दाहाप्यायनयोगेन कुर्याच्चैवाधिवासनम् ॥ 281 ॥

विश्वास-प्रस्तुतिः - 282

ध्यात्वा दक्षिणहस्ते तु द्वादशारं ज्वलत्प्रभम्।
कलाद्वादशसंयुक्तं तदन्तःस्थं दिवाकरम् ॥ 282 ॥

मूलम् - 282

ध्यात्वा दक्षिणहस्ते तु द्वादशारं ज्वलत्प्रभम्।
कलाद्वादशसंयुक्तं तदन्तःस्थं दिवाकरम् ॥ 282 ॥

विश्वास-प्रस्तुतिः - 283

दग्धं तद्रश्मिसङ्‌घेन भस्मकूटगतं स्मरेत्।
मान्त्रं पवित्रसङ्‌घं तु निश्शेषं जनयेत्ततः ॥ 283 ॥

मूलम् - 283

दग्धं तद्रश्मिसङ्‌घेन भस्मकूटगतं स्मरेत्।
मान्त्रं पवित्रसङ्‌घं तु निश्शेषं जनयेत्ततः ॥ 283 ॥

विश्वास-प्रस्तुतिः - 284

सितं षोडशपत्राढ्यं वामहस्तेऽम्बुजं स्मरेत्।
क्षपाकरं तु तन्मध्ये ध्यायेत् पूर्णकलान्वितम् ॥ 284 ॥

मूलम् - 284

सितं षोडशपत्राढ्यं वामहस्तेऽम्बुजं स्मरेत्।
क्षपाकरं तु तन्मध्ये ध्यायेत् पूर्णकलान्वितम् ॥ 284 ॥

विश्वास-प्रस्तुतिः - 285

पीयूषवृष्टिसंपातं मुञ्चमानं विचिन्तयेत्।
तेनामृतेन तद्भस्म भावयेत् सञ्चितं द्विज! ॥ 285 ॥

मूलम् - 285

पीयूषवृष्टिसंपातं मुञ्चमानं विचिन्तयेत्।
तेनामृतेन तद्भस्म भावयेत् सञ्चितं द्विज! ॥ 285 ॥

विश्वास-प्रस्तुतिः - 286

समुत्थितं भस्ममध्यात् तत् सर्वं चिन्तयेत् पुनः।
पञ्चभूतात्मकं ध्यात्वा व्यापकत्वेन तत् पुनः ॥ 286 ॥

मूलम् - 286

समुत्थितं भस्ममध्यात् तत् सर्वं चिन्तयेत् पुनः।
पञ्चभूतात्मकं ध्यात्वा व्यापकत्वेन तत् पुनः ॥ 286 ॥

विश्वास-प्रस्तुतिः - 287

मूलमन्त्रेण सम्प्रोक्ष्य संस्पृश्याथ निरीक्ष्य च।
कुम्भयोग्यानि चैकस्मिन् माण्डलीयानि चापरे ॥ 287 ॥

मूलम् - 287

मूलमन्त्रेण सम्प्रोक्ष्य संस्पृश्याथ निरीक्ष्य च।
कुम्भयोग्यानि चैकस्मिन् माण्डलीयानि चापरे ॥ 287 ॥

विश्वास-प्रस्तुतिः - 288

बिम्बयोग्यानि चैकस्मिन्नाग्नेयान्यपरे द्विज!।
अन्यानि मन्त्रयोग्यानि ह्येकस्मिन् द्विजसत्तम! ॥ 288 ॥

मूलम् - 288

बिम्बयोग्यानि चैकस्मिन्नाग्नेयान्यपरे द्विज!।
अन्यानि मन्त्रयोग्यानि ह्येकस्मिन् द्विजसत्तम! ॥ 288 ॥

विश्वास-प्रस्तुतिः - 289

पात्रे पात्रे पृथक् स्थाप्य पात्रलाभानुरूपतः।
आच्छाद्य वाससा पश्चात् सुसितेनाहतेन तु ॥ 289 ॥

मूलम् - 289

पात्रे पात्रे पृथक् स्थाप्य पात्रलाभानुरूपतः।
आच्छाद्य वाससा पश्चात् सुसितेनाहतेन तु ॥ 289 ॥

विश्वास-प्रस्तुतिः - 290

तानि भूषणपात्राणि क्रमेण च पृथक् पृथक्।
बन्धनीयानि सूत्रेण दृढेन सुसितेन च ॥ 290 ॥

मूलम् - 290

तानि भूषणपात्राणि क्रमेण च पृथक् पृथक्।
बन्धनीयानि सूत्रेण दृढेन सुसितेन च ॥ 290 ॥

विश्वास-प्रस्तुतिः - 291

आच्छाद्य पूर्ववत् तानि जागरेण नयेन्निशाम्।
एकादशयां प्रभातेऽथ स्नात्वा पूज्य जनार्दनम् ॥ 291 ॥

मूलम् - 291

आच्छाद्य पूर्ववत् तानि जागरेण नयेन्निशाम्।
एकादशयां प्रभातेऽथ स्नात्वा पूज्य जनार्दनम् ॥ 291 ॥

विश्वास-प्रस्तुतिः - 292

आनिमन्त्र्य गृहं गत्वा यन्त्रितः प्रणिपत्य च।
ब्राह्नणान् गुरुपूर्वांश्च विष्णुभक्तान् दृढव्रतान् ॥ 292 ॥

मूलम् - 292

आनिमन्त्र्य गृहं गत्वा यन्त्रितः प्रणिपत्य च।
ब्राह्नणान् गुरुपूर्वांश्च विष्णुभक्तान् दृढव्रतान् ॥ 292 ॥

विश्वास-प्रस्तुतिः - 293

स्वधर्मनिरतांश्चैव देवदेवक्रियापरान्।
आपत्कालेऽपि संप्राप्ते येऽर्चयन्त्यच्युतं प्रभुम् ॥ 293 ॥

मूलम् - 293

स्वधर्मनिरतांश्चैव देवदेवक्रियापरान्।
आपत्कालेऽपि संप्राप्ते येऽर्चयन्त्यच्युतं प्रभुम् ॥ 293 ॥

विश्वास-प्रस्तुतिः - 294

अथान्यान् वैष्णवान् कांश्चित् सुहृत्सम्बन्धिबान्धवान्।
ततः पुण्याहघोषेण प्रवृत्ते तु निशामुखे ॥ 294 ॥

मूलम् - 294

अथान्यान् वैष्णवान् कांश्चित् सुहृत्सम्बन्धिबान्धवान्।
ततः पुण्याहघोषेण प्रवृत्ते तु निशामुखे ॥ 294 ॥

विश्वास-प्रस्तुतिः - 295

शङ्खशब्दैः सुमङ्गल्यैर्ब्राह्नणैर्ध्वनिभिः सह।
पठद्भिःशाकुनं सूक्तं प्रविशेद्देवमन्दिरम् ॥ 295 ॥

मूलम् - 295

शङ्खशब्दैः सुमङ्गल्यैर्ब्राह्नणैर्ध्वनिभिः सह।
पठद्भिःशाकुनं सूक्तं प्रविशेद्देवमन्दिरम् ॥ 295 ॥

विश्वास-प्रस्तुतिः - 296

ततो नैमित्तिकं बिम्बं वस्त्रैर्माल्यैश्च भूषणैः।
विलेपनैरलङ्‌कृत्य मूर्तिपैः सह देशिकः ॥ 296 ॥

मूलम् - 296

ततो नैमित्तिकं बिम्बं वस्त्रैर्माल्यैश्च भूषणैः।
विलेपनैरलङ्‌कृत्य मूर्तिपैः सह देशिकः ॥ 296 ॥

विश्वास-प्रस्तुतिः - 297

यानमारोप्य निष्क्रम्य शङ्खकाहलतूर्यकैः।
तालवृन्तैस्तथा च्छत्रैश्चामरैर्विविधैः सितैः ॥ 297 ॥

मूलम् - 297

यानमारोप्य निष्क्रम्य शङ्खकाहलतूर्यकैः।
तालवृन्तैस्तथा च्छत्रैश्चामरैर्विविधैः सितैः ॥ 297 ॥

विश्वास-प्रस्तुतिः - 298

नरनाथो यथादेवं मण्डपे सन्निवेशयेत्।
अथ भद्रासने देवं चतुष्पादसमन्विते ॥ 298 ॥

मूलम् - 298

नरनाथो यथादेवं मण्डपे सन्निवेशयेत्।
अथ भद्रासने देवं चतुष्पादसमन्विते ॥ 298 ॥

विश्वास-प्रस्तुतिः - 299

समारोप्यार्चयेद्देवं सविशेषं विधानतः।
महाहविर्निवेद्याथ तर्पयेद्वन्हिमध्यतः ॥ 299 ॥

मूलम् - 299

समारोप्यार्चयेद्देवं सविशेषं विधानतः।
महाहविर्निवेद्याथ तर्पयेद्वन्हिमध्यतः ॥ 299 ॥

विश्वास-प्रस्तुतिः - 300

ततोऽपराङ्णवेलायां प्रवृत्ते वा निशामुखे।
पुण्याहोद्धोषणाद्यैश्च सहोक्तैः सर्वमङ्गलैः ॥ 300 ॥

मूलम् - 300

ततोऽपराङ्णवेलायां प्रवृत्ते वा निशामुखे।
पुण्याहोद्धोषणाद्यैश्च सहोक्तैः सर्वमङ्गलैः ॥ 300 ॥

विश्वास-प्रस्तुतिः - 301

प्रवेशयेज्जगन्नाथं देवेशं यागमण्डपे।
यागस्य पश्चिमे देशे सौवर्णे भद्रविष्टरे ॥ 301 ॥

मूलम् - 301

प्रवेशयेज्जगन्नाथं देवेशं यागमण्डपे।
यागस्य पश्चिमे देशे सौवर्णे भद्रविष्टरे ॥ 301 ॥

विश्वास-प्रस्तुतिः - 302

उपरीष्टाद्वितानेन मौक्तिकेनैव शोभयेत्।
देवमारोप्य यागस्थविभोरभिमुखं द्विज! ॥ 302 ॥

मूलम् - 302

उपरीष्टाद्वितानेन मौक्तिकेनैव शोभयेत्।
देवमारोप्य यागस्थविभोरभिमुखं द्विज! ॥ 302 ॥

विश्वास-प्रस्तुतिः - 303

यद्वा दशम्यां बिम्बस्थं यागागारे विभुं न्यसेत्।
प्राग्दिक्‌प्रत्यङ्‌मुखा योज्या ऋङ्‌मयाः स्वासनेषु च ॥ 303 ॥

मूलम् - 303

यद्वा दशम्यां बिम्बस्थं यागागारे विभुं न्यसेत्।
प्राग्दिक्‌प्रत्यङ्‌मुखा योज्या ऋङ्‌मयाः स्वासनेषु च ॥ 303 ॥

विश्वास-प्रस्तुतिः - 304

दक्षिणे च उदग्वक्त्रान् यजुर्वेदांश्च योजयेत्।
प्राङ्‌मुखान् पश्चिमे भागे सामज्ञान् विनिवेश्य च ॥ 304 ॥

मूलम् - 304

दक्षिणे च उदग्वक्त्रान् यजुर्वेदांश्च योजयेत्।
प्राङ्‌मुखान् पश्चिमे भागे सामज्ञान् विनिवेश्य च ॥ 304 ॥

विश्वास-प्रस्तुतिः - 305

सह चैकायनैर्विप्रैर्मूर्तिसंज्ञोपलक्षितैः।
दिश्युत्तरस्यां च ततो नित्यकर्मपरायणान् ॥ 305 ॥

मूलम् - 305

सह चैकायनैर्विप्रैर्मूर्तिसंज्ञोपलक्षितैः।
दिश्युत्तरस्यां च ततो नित्यकर्मपरायणान् ॥ 305 ॥

विश्वास-प्रस्तुतिः - 306

निवेश्याथर्ववेदज्ञान् सर्वान् द्विद्विकसंख्यया।
श्रृणु विध्यन्तरं भूयो विस्तराद्‌द्विजसत्तम! ॥ 306 ॥

मूलम् - 306

निवेश्याथर्ववेदज्ञान् सर्वान् द्विद्विकसंख्यया।
श्रृणु विध्यन्तरं भूयो विस्तराद्‌द्विजसत्तम! ॥ 306 ॥

विश्वास-प्रस्तुतिः - 307

पूर्वे प्रत्य्‌ङ्‌मुखं कृत्वा आसनस्थं द्विजोत्तमम्।
पुष्पवस्त्रैस्तथोष्णीषैर्भूषितं चाङ्‌गुलीयकैः ॥ 307 ॥

मूलम् - 307

पूर्वे प्रत्य्‌ङ्‌मुखं कृत्वा आसनस्थं द्विजोत्तमम्।
पुष्पवस्त्रैस्तथोष्णीषैर्भूषितं चाङ्‌गुलीयकैः ॥ 307 ॥

विश्वास-प्रस्तुतिः - 308

ऋङ्भन्त्रान् पाठयेत् पुण्यान् मन्त्रविद्भगवन्मयान्।
अथ दक्षिणदिक्संस्थं वीक्षमाणमुदग्दिशम् ॥ 308 ॥

मूलम् - 308

ऋङ्भन्त्रान् पाठयेत् पुण्यान् मन्त्रविद्भगवन्मयान्।
अथ दक्षिणदिक्संस्थं वीक्षमाणमुदग्दिशम् ॥ 308 ॥

विश्वास-प्रस्तुतिः - 309

यजुर्बृन्दं वैष्णवं तत् पाठयेद्देशिकस्तु तत्।
गायेच्छुद्धानि सामानि सामज्ञः पश्चिमे स्थितः ॥ 309 ॥

मूलम् - 309

यजुर्बृन्दं वैष्णवं तत् पाठयेद्देशिकस्तु तत्।
गायेच्छुद्धानि सामानि सामज्ञः पश्चिमे स्थितः ॥ 309 ॥

विश्वास-प्रस्तुतिः - 310

भक्तश्चोदक्‌स्थितो व्रूयाद्‌द्दक्षिणास्योऽप्यथर्ववित्।
स्वशाखोक्तांस्ततो मन्त्रान् ज्ञानलिङ्गानशेषतः ॥ 310 ॥

मूलम् - 310

भक्तश्चोदक्‌स्थितो व्रूयाद्‌द्दक्षिणास्योऽप्यथर्ववित्।
स्वशाखोक्तांस्ततो मन्त्रान् ज्ञानलिङ्गानशेषतः ॥ 310 ॥

विश्वास-प्रस्तुतिः - 311

एकैकं शिष्यवर्गेण वृतो योग्यः क्रमेण तु।
भगवद्भाविनो ये च यतयः पाञ्चरात्रिकाः ॥ 311 ॥

मूलम् - 311

एकैकं शिष्यवर्गेण वृतो योग्यः क्रमेण तु।
भगवद्भाविनो ये च यतयः पाञ्चरात्रिकाः ॥ 311 ॥

विश्वास-प्रस्तुतिः - 312

चतुर्भिराप्तैर्विप्राद्यैर्युक्तस्त्वीशदिशि न्यसेत्।
एकान्तिनस्त्वनाप्तैश्च युक्तांश्चाग्नेयदिग्गतान् ॥ 312 ॥

मूलम् - 312

चतुर्भिराप्तैर्विप्राद्यैर्युक्तस्त्वीशदिशि न्यसेत्।
एकान्तिनस्त्वनाप्तैश्च युक्तांश्चाग्नेयदिग्गतान् ॥ 312 ॥

विश्वास-प्रस्तुतिः - 313

निवेश्य विप्रानैर्ऋत्यां भक्तान् वैखानसांस्तथा।
चतुर्भिरञ्जलीकैस्तु ततो वायव्यगोचरे ॥ 313 ॥

मूलम् - 313

निवेश्य विप्रानैर्ऋत्यां भक्तान् वैखानसांस्तथा।
चतुर्भिरञ्जलीकैस्तु ततो वायव्यगोचरे ॥ 313 ॥

विश्वास-प्रस्तुतिः - 314

सारम्भिणः सात्वतांश्च तत्काले भगवन्मयान्।
चत्वारोऽथ चतुर्दिक्षु योज्याश्च शिशिनो मुने! ॥ 314 ॥

मूलम् - 314

सारम्भिणः सात्वतांश्च तत्काले भगवन्मयान्।
चत्वारोऽथ चतुर्दिक्षु योज्याश्च शिशिनो मुने! ॥ 314 ॥

विश्वास-प्रस्तुतिः - 315

तेषां चैवानुयायीरंश्चत्वारस्तु प्रवर्त्तिनः।
ब्राह्नणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तम! ॥ 315 ॥

मूलम् - 315

तेषां चैवानुयायीरंश्चत्वारस्तु प्रवर्त्तिनः।
ब्राह्नणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तम! ॥ 315 ॥

विश्वास-प्रस्तुतिः - 316

एकायनीयशाखोत्थान् मन्त्रान् परमपावनान्।
पाठयेच्च यतीनाप्तपूर्वान् वै पाञ्चरात्रिकान् ॥ 316 ॥

मूलम् - 316

एकायनीयशाखोत्थान् मन्त्रान् परमपावनान्।
पाठयेच्च यतीनाप्तपूर्वान् वै पाञ्चरात्रिकान् ॥ 316 ॥

विश्वास-प्रस्तुतिः - 317

स्वानुष्ठाने स्वकान् मन्त्रान् जपन्तः संवदन्ति च।
प्रागादौ चोत्तरान्तं च चत्वारो गुरुपूर्वकाः ॥ 317 ॥

मूलम् - 317

स्वानुष्ठाने स्वकान् मन्त्रान् जपन्तः संवदन्ति च।
प्रागादौ चोत्तरान्तं च चत्वारो गुरुपूर्वकाः ॥ 317 ॥

विश्वास-प्रस्तुतिः - 318

बहवः समयज्ञानाः सात्वतज्ञाः स्वशक्तितः।
कृतन्यासास्तथा ध्यानमुद्रालङ्‌कृतपाणयः ॥ 318 ॥

मूलम् - 318

बहवः समयज्ञानाः सात्वतज्ञाः स्वशक्तितः।
कृतन्यासास्तथा ध्यानमुद्रालङ्‌कृतपाणयः ॥ 318 ॥

विश्वास-प्रस्तुतिः - 319

स्ववाससा स्वकां मुद्रां च्छन्नां कुर्युः परस्परम्।
गीतनृत्तपराश्चान्ये अग्रतः स्तोत्रपाठकाः ॥ 319 ॥

मूलम् - 319

स्ववाससा स्वकां मुद्रां च्छन्नां कुर्युः परस्परम्।
गीतनृत्तपराश्चान्ये अग्रतः स्तोत्रपाठकाः ॥ 319 ॥

विश्वास-प्रस्तुतिः - 320

वन्दिबृन्दयुता बाह्ये तथा दुन्दुभिवादिनः।
अन्ये तु वैष्णवाः सर्वे पृष्ठतः पार्श्वतोऽपि च ॥ 320 ॥

मूलम् - 320

वन्दिबृन्दयुता बाह्ये तथा दुन्दुभिवादिनः।
अन्ये तु वैष्णवाः सर्वे पृष्ठतः पार्श्वतोऽपि च ॥ 320 ॥

विश्वास-प्रस्तुतिः - 321

एवं निवेशनं कृत्वा सर्वेषां तु यथाक्रमम्।
ततस्तु देवदेवस्य चतुःस्थानस्थितस्य च ॥ 321 ॥

मूलम् - 321

एवं निवेशनं कृत्वा सर्वेषां तु यथाक्रमम्।
ततस्तु देवदेवस्य चतुःस्थानस्थितस्य च ॥ 321 ॥

विश्वास-प्रस्तुतिः - 322

क्रमेण पूजनं कुर्यात् पूर्ववद्‌द्विजसत्तम!।
आसाद्य कलशोद्देशं विनिवेदनमाचरेत् ॥ 322 ॥

मूलम् - 322

क्रमेण पूजनं कुर्यात् पूर्ववद्‌द्विजसत्तम!।
आसाद्य कलशोद्देशं विनिवेदनमाचरेत् ॥ 322 ॥

विश्वास-प्रस्तुतिः - 323

नानाविशेषभोगानां विभारामन्त्रणाय च।
दन्तकाष्ठं सताम्बूलं मुखवासं सदर्पणम् ॥ 323 ॥

मूलम् - 323

नानाविशेषभोगानां विभारामन्त्रणाय च।
दन्तकाष्ठं सताम्बूलं मुखवासं सदर्पणम् ॥ 323 ॥

विश्वास-प्रस्तुतिः - 324

चन्दनादीनि गन्धानि जातिपूगफलानि च।
विनिवेद्य निधायाग्रे दक्षिणेऽथ जगत्‌प्रभोः ॥ 324 ॥

मूलम् - 324

चन्दनादीनि गन्धानि जातिपूगफलानि च।
विनिवेद्य निधायाग्रे दक्षिणेऽथ जगत्‌प्रभोः ॥ 324 ॥

विश्वास-प्रस्तुतिः - 325

गुग्गुलुं मृष्टधूपं च प्राकाशं ताम्रपात्रगम्।
दृक्‌प्रभामण्डनं रम्यं हेमसूत्रं सकङ्कणम् ॥ 325 ॥

मूलम् - 325

गुग्गुलुं मृष्टधूपं च प्राकाशं ताम्रपात्रगम्।
दृक्‌प्रभामण्डनं रम्यं हेमसूत्रं सकङ्कणम् ॥ 325 ॥

विश्वास-प्रस्तुतिः - 326

मध्वाज्यपूरिते पात्रे तैजसे रोचनाञ्जनम्।
न्यसेत् षट्‌कं महन्मूर्तेर्नेत्रवस्त्रे सितारुणे ॥ 326 ॥

मूलम् - 326

मध्वाज्यपूरिते पात्रे तैजसे रोचनाञ्जनम्।
न्यसेत् षट्‌कं महन्मूर्तेर्नेत्रवस्त्रे सितारुणे ॥ 326 ॥

विश्वास-प्रस्तुतिः - 327

पश्चिभे च विभोर्दद्यात् पुण्यनद्युदकं तथा।
तीर्थतोयं नगोत्थं च नगमृच्छ्रीफलादि यत् ॥ 327 ॥

मूलम् - 327

पश्चिभे च विभोर्दद्यात् पुण्यनद्युदकं तथा।
तीर्थतोयं नगोत्थं च नगमृच्छ्रीफलादि यत् ॥ 327 ॥

विश्वास-प्रस्तुतिः - 328

शाद्वलं नीलदर्भांश्च ताम्रपात्रेऽथवायसे।
उत्तरेऽथ विभोर्दद्याद्देवदेवस्य सत्तम! ॥ 328 ॥

मूलम् - 328

शाद्वलं नीलदर्भांश्च ताम्रपात्रेऽथवायसे।
उत्तरेऽथ विभोर्दद्याद्देवदेवस्य सत्तम! ॥ 328 ॥

विश्वास-प्रस्तुतिः - 329

माल्यान्योषधयः सप्त बीजानि च फलानि च।
तिलतण्डुलपात्राणि क्षीरं दधि घृतं सिता ॥ 329 ॥

मूलम् - 329

माल्यान्योषधयः सप्त बीजानि च फलानि च।
तिलतण्डुलपात्राणि क्षीरं दधि घृतं सिता ॥ 329 ॥

विश्वास-प्रस्तुतिः - 330

गन्धबृन्दं त्वगेलाद्यं धातवो गैरिकादयः।
सफलं नारिकेलं च विकारास्त्वैक्षवाखिलाः ॥ 330 ॥

मूलम् - 330

गन्धबृन्दं त्वगेलाद्यं धातवो गैरिकादयः।
सफलं नारिकेलं च विकारास्त्वैक्षवाखिलाः ॥ 330 ॥

विश्वास-प्रस्तुतिः - 331

सराजते कांस्यपात्रे संभवानुगुणं द्विज!।
यज्ञपर्णपुटे वा तु विनिवेद्यमसंभवे ॥ 331 ॥

मूलम् - 331

सराजते कांस्यपात्रे संभवानुगुणं द्विज!।
यज्ञपर्णपुटे वा तु विनिवेद्यमसंभवे ॥ 331 ॥

विश्वास-प्रस्तुतिः - 332

सकुशोदं स्थलस्थस्य ताम्बूलं दन्तधावनम्।
सितानि सोत्तरीयाणि उपवीतानि चन्दनम् ॥ 332 ॥

मूलम् - 332

सकुशोदं स्थलस्थस्य ताम्बूलं दन्तधावनम्।
सितानि सोत्तरीयाणि उपवीतानि चन्दनम् ॥ 332 ॥

विश्वास-प्रस्तुतिः - 333

चतुर्दिग्विनिवेद्याथ बिम्बेऽग्नावेवमेव हि।
तानि भूषणपात्राणि विनिवेद्य पृथक् पृथक् ॥ 333 ॥

मूलम् - 333

चतुर्दिग्विनिवेद्याथ बिम्बेऽग्नावेवमेव हि।
तानि भूषणपात्राणि विनिवेद्य पृथक् पृथक् ॥ 333 ॥

विश्वास-प्रस्तुतिः - 334

सन्निवेश्यानि पुरतश्चतुःस्थानस्थितस्य च।
मूलबिम्बे यदा कुर्यात्तदा सर्वं तदग्रतः ॥ 334 ॥

मूलम् - 334

सन्निवेश्यानि पुरतश्चतुःस्थानस्थितस्य च।
मूलबिम्बे यदा कुर्यात्तदा सर्वं तदग्रतः ॥ 334 ॥

विश्वास-प्रस्तुतिः - 335

स्थाप्य भूषणपर्यन्तं विनिवेद्य यथाक्रमम्।
कुङ्कुमागरुकर्पूरश्रीखण्डैरधिवासितम् ॥ 335 ॥

मूलम् - 335

स्थाप्य भूषणपर्यन्तं विनिवेद्य यथाक्रमम्।
कुङ्कुमागरुकर्पूरश्रीखण्डैरधिवासितम् ॥ 335 ॥

विश्वास-प्रस्तुतिः - 336

चतुः स्थानावतीर्णस्य दद्याद्गन्धपवित्रकम्।
ततोऽर्घ्य पुष्पधूपं च मुद्राबन्धं समाचरेत् ॥ 336 ॥

मूलम् - 336

चतुः स्थानावतीर्णस्य दद्याद्गन्धपवित्रकम्।
ततोऽर्घ्य पुष्पधूपं च मुद्राबन्धं समाचरेत् ॥ 336 ॥

विश्वास-प्रस्तुतिः - 337

आदिमध्यावसाने तु सम्यक् च्छिद्रस्य शान्तये।
जपेन्मन्त्रवरं साङ्गं पश्चाद्बद्धाञ्जलिः पठेत् ॥ 337 ॥

मूलम् - 337

आदिमध्यावसाने तु सम्यक् च्छिद्रस्य शान्तये।
जपेन्मन्त्रवरं साङ्गं पश्चाद्बद्धाञ्जलिः पठेत् ॥ 337 ॥

विश्वास-प्रस्तुतिः - 338

प्रणवद्विद्वयाद्यं तु स्तोत्रमन्त्रं निमन्त्रयेत्।
“सर्वमन्त्रमयाऽनन्त! नित्यसन्निहिताव्यय! ॥ 338 ॥

मूलम् - 338

प्रणवद्विद्वयाद्यं तु स्तोत्रमन्त्रं निमन्त्रयेत्।
“सर्वमन्त्रमयाऽनन्त! नित्यसन्निहिताव्यय! ॥ 338 ॥

विश्वास-प्रस्तुतिः - 339

गुणप्रधानयोगेश! भावनाभोगविग्रह!।
नारायण! परं ब्रह्न! प्राणेश! चतुराकृते! ॥ 339 ॥

मूलम् - 339

गुणप्रधानयोगेश! भावनाभोगविग्रह!।
नारायण! परं ब्रह्न! प्राणेश! चतुराकृते! ॥ 339 ॥

विश्वास-प्रस्तुतिः - 340

सर्वगाच्युत! सन्मूर्ते! सर्वज्ञ! पुरुषोत्तम!।
अस्मात् काललवाद्यावद्विसर्जनदिनावधि ॥ 340 ॥

मूलम् - 340

सर्वगाच्युत! सन्मूर्ते! सर्वज्ञ! पुरुषोत्तम!।
अस्मात् काललवाद्यावद्विसर्जनदिनावधि ॥ 340 ॥

विश्वास-प्रस्तुतिः - 341

नानामन्त्रगणोपेतः सन्निधिं भज मे प्रभो!।
देवबिम्बे तु सन्मूर्तौ कलशे मण्डलक्षितौ ॥ 341 ॥

मूलम् - 341

नानामन्त्रगणोपेतः सन्निधिं भज मे प्रभो!।
देवबिम्बे तु सन्मूर्तौ कलशे मण्डलक्षितौ ॥ 341 ॥

विश्वास-प्रस्तुतिः - 342

संख्यासूत्रेऽक्षसूत्रे च पावके गुरुविग्रहे।
घण्टायां सास्त्रपीठे च यागोपकरणेषु च ॥ 342 ॥

मूलम् - 342

संख्यासूत्रेऽक्षसूत्रे च पावके गुरुविग्रहे।
घण्टायां सास्त्रपीठे च यागोपकरणेषु च ॥ 342 ॥

विश्वास-प्रस्तुतिः - 343

स्रुक् स्रुवाद्येष्वशेषेषु एकान्तिद्विजमूर्तिषु।
विष्णुपार्षदभेदेषु जन्मकर्मरतेषु च ॥ 343 ॥

मूलम् - 343

स्रुक् स्रुवाद्येष्वशेषेषु एकान्तिद्विजमूर्तिषु।
विष्णुपार्षदभेदेषु जन्मकर्मरतेषु च ॥ 343 ॥

विश्वास-प्रस्तुतिः - 344

श्रद्धापूतेषु दक्षेषु त्वदेकशरणेषु च।
अतीतवात्सरीयाणां स्नानादीनां हि कर्मणाम् ॥ 344 ॥

मूलम् - 344

श्रद्धापूतेषु दक्षेषु त्वदेकशरणेषु च।
अतीतवात्सरीयाणां स्नानादीनां हि कर्मणाम् ॥ 344 ॥

विश्वास-प्रस्तुतिः - 345

नैमित्तिकानां नित्यानामपूर्णानां हि शान्तये।
त्वत्प्रीतये यथाशास्त्रमद्य निर्वर्तयाम्यहम् ॥ 345 ॥

मूलम् - 345

नैमित्तिकानां नित्यानामपूर्णानां हि शान्तये।
त्वत्प्रीतये यथाशास्त्रमद्य निर्वर्तयाम्यहम् ॥ 345 ॥

विश्वास-प्रस्तुतिः - 346

पावित्रकविधानं च सर्वकर्मप्रपूरणम्।
अतोऽद्य मुखवासाद्यमुपचारं हि चार्चनम् ॥ 346 ॥

मूलम् - 346

पावित्रकविधानं च सर्वकर्मप्रपूरणम्।
अतोऽद्य मुखवासाद्यमुपचारं हि चार्चनम् ॥ 346 ॥

विश्वास-प्रस्तुतिः - 347

होमान्तमधिवासीयं कुरु सर्वं हि चात्मसात्।
त्वामर्चयाम्यहं भक्त्या शक्त्यातीतेऽथ जागरे ॥ 347 ॥

मूलम् - 347

होमान्तमधिवासीयं कुरु सर्वं हि चात्मसात्।
त्वामर्चयाम्यहं भक्त्या शक्त्यातीतेऽथ जागरे ॥ 347 ॥

विश्वास-प्रस्तुतिः - 348

यथावद्ब्रह्नसूत्रान्तैर्भोगैर्भोगापवर्गदैः।
विज्ञप्तोऽसीति भगवन्! वेत्सि सर्वं हृदि स्थितम् ॥ 348 ॥

मूलम् - 348

यथावद्ब्रह्नसूत्रान्तैर्भोगैर्भोगापवर्गदैः।
विज्ञप्तोऽसीति भगवन्! वेत्सि सर्वं हृदि स्थितम् ॥ 348 ॥

भक्तस्य मम वात्सल्यात् प्रातः कार्यस्त्वनुग्रहः।" एवं निमन्त्रयित्वाजमष्टाङ्गेन नमेत् क्षितौ ॥ 349 ॥
विश्वास-प्रस्तुतिः - 350

चतुः प्रदक्षिणीकृत्य हृदि मन्त्रमनुस्मरन्।
गीतनृत्तादिकैः स्तोत्रेर्वेदपाठसमन्वितैः ॥ 350 ॥

मूलम् - 350

चतुः प्रदक्षिणीकृत्य हृदि मन्त्रमनुस्मरन्।
गीतनृत्तादिकैः स्तोत्रेर्वेदपाठसमन्वितैः ॥ 350 ॥

विश्वास-प्रस्तुतिः - 351

जयशब्दसमेतैस्तु जागरेण नयेन्निशाम्।
स्नात्वा ब्राह्ने मुहूर्तेऽथ कृतकोतुकमङ्गलः ॥ 351 ॥

मूलम् - 351

जयशब्दसमेतैस्तु जागरेण नयेन्निशाम्।
स्नात्वा ब्राह्ने मुहूर्तेऽथ कृतकोतुकमङ्गलः ॥ 351 ॥

विश्वास-प्रस्तुतिः - 352

महता विभवेन प्राग्‌द्वारयागं समाचरेत्।
नित्यं कर्म पुरा कृत्वा ह्येकस्मिन्नधिकारिणि ॥ 352 ॥

मूलम् - 352

महता विभवेन प्राग्‌द्वारयागं समाचरेत्।
नित्यं कर्म पुरा कृत्वा ह्येकस्मिन्नधिकारिणि ॥ 352 ॥

विश्वास-प्रस्तुतिः - 353

कुम्भस्थं तु यजेत् प्राग्वन्मण्डलस्थं ततः क्रमात्।
बिम्बस्थं देवदेवेशं सविशेषं समर्चयेत् ॥ 353 ॥

मूलम् - 353

कुम्भस्थं तु यजेत् प्राग्वन्मण्डलस्थं ततः क्रमात्।
बिम्बस्थं देवदेवेशं सविशेषं समर्चयेत् ॥ 353 ॥

विश्वास-प्रस्तुतिः - 354

क्षीरादिपञ्चविंशद्भिर्यथावदधिवासितैः।
स्नानैरन्यैश्च विविधैर्भोगैर्भक्ष्यादिनिर्मितैः ॥ 354 ॥

मूलम् - 354

क्षीरादिपञ्चविंशद्भिर्यथावदधिवासितैः।
स्नानैरन्यैश्च विविधैर्भोगैर्भक्ष्यादिनिर्मितैः ॥ 354 ॥

विश्वास-प्रस्तुतिः - 355

सांस्पर्शिकैरासनाद्यैर्विविधैरुपचारकैः।
हृदयङ्गमसंज्ञैस्तु बहुभेदविनिर्मितैः ॥ 355 ॥

मूलम् - 355

सांस्पर्शिकैरासनाद्यैर्विविधैरुपचारकैः।
हृदयङ्गमसंज्ञैस्तु बहुभेदविनिर्मितैः ॥ 355 ॥

विश्वास-प्रस्तुतिः - 356

जपमुद्रावसानान्तमेवं कृत्वा क्रमेण तु।
अग्निस्थं तर्पयेत् पश्चाद्यथावदनुपूर्वशः ॥ 356 ॥

मूलम् - 356

जपमुद्रावसानान्तमेवं कृत्वा क्रमेण तु।
अग्निस्थं तर्पयेत् पश्चाद्यथावदनुपूर्वशः ॥ 356 ॥

विश्वास-प्रस्तुतिः - 357

अथ भूषणपात्रस्य गत्वा वै स्न्निधिं द्विज!।
पूजयित्वा समुद्धाट्य पात्रं प्रातिसरीयकम् ॥ 357 ॥

मूलम् - 357

अथ भूषणपात्रस्य गत्वा वै स्न्निधिं द्विज!।
पूजयित्वा समुद्धाट्य पात्रं प्रातिसरीयकम् ॥ 357 ॥

विश्वास-प्रस्तुतिः - 358

अवलोक्य समादाय गत्वा कलशसन्निधिम्।
आराधनाङ्गनिचयमव्यक्तं तात्विकं भवेत् ॥ 358 ॥

मूलम् - 358

अवलोक्य समादाय गत्वा कलशसन्निधिम्।
आराधनाङ्गनिचयमव्यक्तं तात्विकं भवेत् ॥ 358 ॥

विश्वास-प्रस्तुतिः - 359

तृतीयमुभयात्मं तु आध्यात्म्यादित्रयं तथा।
अनुसन्धाय वै तस्मिन् संस्मरनं हृदयं धिया ॥ 359 ॥

मूलम् - 359

तृतीयमुभयात्मं तु आध्यात्म्यादित्रयं तथा।
अनुसन्धाय वै तस्मिन् संस्मरनं हृदयं धिया ॥ 359 ॥

विश्वास-प्रस्तुतिः - 360

तत्राष्टाष्टकसंख्यं तु अव्यक्तं भोगसङ्‌गरहम्।
मन्त्रमुद्रासमूहं तु तात्विकं परिकीर्तितम् ॥ 360 ॥

मूलम् - 360

तत्राष्टाष्टकसंख्यं तु अव्यक्तं भोगसङ्‌गरहम्।
मन्त्रमुद्रासमूहं तु तात्विकं परिकीर्तितम् ॥ 360 ॥

विश्वास-प्रस्तुतिः - 361

स्वाध्यायगीतवाद्यादिव्रतानि नियमानि च।
दानान्युत्सवपूर्वाणि नानानैमित्तिकानि च ॥ 361 ॥

मूलम् - 361

स्वाध्यायगीतवाद्यादिव्रतानि नियमानि च।
दानान्युत्सवपूर्वाणि नानानैमित्तिकानि च ॥ 361 ॥

विश्वास-प्रस्तुतिः - 362

एतान्युभयरूपाणि पुरुषार्थप्रदानि च।
प्रीतिदानि जगद्योनौ मन्त्रमूर्तौ जनार्दने ॥ 362 ॥

मूलम् - 362

एतान्युभयरूपाणि पुरुषार्थप्रदानि च।
प्रीतिदानि जगद्योनौ मन्त्रमूर्तौ जनार्दने ॥ 362 ॥

विश्वास-प्रस्तुतिः - 363

भास्वरं चिन्मयं शुद्धं यदेषां रूपमक्षयम्।
तद्गर्भेष्वनुसन्धेयं सूक्ष्मं तदनु भास्वरम् ॥ 363 ॥

मूलम् - 363

भास्वरं चिन्मयं शुद्धं यदेषां रूपमक्षयम्।
तद्गर्भेष्वनुसन्धेयं सूक्ष्मं तदनु भास्वरम् ॥ 363 ॥

विश्वास-प्रस्तुतिः - 364

सूर्येन्दुवह्निसंकाशमियत्तापरिकल्पितम्।
तद्‌ग्रन्थिगणदेशेषु भावनीयं महामते! ॥ 364 ॥

मूलम् - 364

सूर्येन्दुवह्निसंकाशमियत्तापरिकल्पितम्।
तद्‌ग्रन्थिगणदेशेषु भावनीयं महामते! ॥ 364 ॥

विश्वास-प्रस्तुतिः - 365

सुस्थूलं व्यावहार्यं च तृतीयं सार्वलौकिकम्।
तत् तन्तुनिचयोद्देशे भावनीयं सदैव हि ॥ 365 ॥

मूलम् - 365

सुस्थूलं व्यावहार्यं च तृतीयं सार्वलौकिकम्।
तत् तन्तुनिचयोद्देशे भावनीयं सदैव हि ॥ 365 ॥

विश्वास-प्रस्तुतिः - 366

एवमाध्यात्मिकीं व्याप्तिं लक्षयित्वा तु तत्परम्।
चिन्तयेदधिदेवाख्यां व्याप्ति मान्त्रीमनश्वरीम् ॥ 366 ॥

मूलम् - 366

एवमाध्यात्मिकीं व्याप्तिं लक्षयित्वा तु तत्परम्।
चिन्तयेदधिदेवाख्यां व्याप्ति मान्त्रीमनश्वरीम् ॥ 366 ॥

विश्वास-प्रस्तुतिः - 367

चतुर्णामविनाभावि यद्रूपममृतोपमम्।
नानाभासगणाकीर्णं मूर्तामूर्तमनश्वरम् ॥ 367 ॥

मूलम् - 367

चतुर्णामविनाभावि यद्रूपममृतोपमम्।
नानाभासगणाकीर्णं मूर्तामूर्तमनश्वरम् ॥ 367 ॥

विश्वास-प्रस्तुतिः - 368

किरीटमालाश्रीवत्सकौस्तुभानां महामते!।
सन्निधिं भावयेन्नित्यमधिदैवात्मनां त्रयम् ॥ 368 ॥

मूलम् - 368

किरीटमालाश्रीवत्सकौस्तुभानां महामते!।
सन्निधिं भावयेन्नित्यमधिदैवात्मनां त्रयम् ॥ 368 ॥

विश्वास-प्रस्तुतिः - 369

पृथ्व्यंप्‌तेजोऽनिलाकाशपञ्चानां समुदायि यत्।
रमणीयं शुभं रूपं भक्तानां परितोषकृत् ॥ 369 ॥

मूलम् - 369

पृथ्व्यंप्‌तेजोऽनिलाकाशपञ्चानां समुदायि यत्।
रमणीयं शुभं रूपं भक्तानां परितोषकृत् ॥ 369 ॥

विश्वास-प्रस्तुतिः - 370

तदस्य चाधिभूतत्वं मन्तव्यं योजनावधौ।
ध्यात्वैनं मूलमन्त्रं तु समुदीर्य ततः परम् ॥ 370 ॥

मूलम् - 370

तदस्य चाधिभूतत्वं मन्तव्यं योजनावधौ।
ध्यात्वैनं मूलमन्त्रं तु समुदीर्य ततः परम् ॥ 370 ॥

विश्वास-प्रस्तुतिः - 371

प्रणवालङ्‌कृतं मन्त्रं तमुद्यतकरः पठेत्।
“(ओं) त्वत्प्रप्तिसाधनं देव तानं यदमलं परम् ॥ 371 ॥

मूलम् - 371

प्रणवालङ्‌कृतं मन्त्रं तमुद्यतकरः पठेत्।
“(ओं) त्वत्प्रप्तिसाधनं देव तानं यदमलं परम् ॥ 371 ॥

विश्वास-प्रस्तुतिः - 372

भक्तिश्रद्धासमोपेता सत्क्रिया त्वत्प्रकाशिता।
अखण्डसिंद्धये तस्या ह्युपायः कथितस्त्वया ॥ 372 ॥

मूलम् - 372

भक्तिश्रद्धासमोपेता सत्क्रिया त्वत्प्रकाशिता।
अखण्डसिंद्धये तस्या ह्युपायः कथितस्त्वया ॥ 372 ॥

विश्वास-प्रस्तुतिः - 373

ज्ञानकर्मप्रसक्तानां भक्तानां भावितात्मनाम्।
पवित्राख्यं यथाशक्त्या त्वत्प्रसादान्मया कृतम् ॥ 373 ॥

मूलम् - 373

ज्ञानकर्मप्रसक्तानां भक्तानां भावितात्मनाम्।
पवित्राख्यं यथाशक्त्या त्वत्प्रसादान्मया कृतम् ॥ 373 ॥

विश्वास-प्रस्तुतिः - 374

यथोचितमिदानीं तद्‌ध्यायस्व परमेश्वरम्।
तस्माच्छुभतरं कर्म विज्ञानममलं हि यत् ॥ 374 ॥

मूलम् - 374

यथोचितमिदानीं तद्‌ध्यायस्व परमेश्वरम्।
तस्माच्छुभतरं कर्म विज्ञानममलं हि यत् ॥ 374 ॥

विश्वास-प्रस्तुतिः - 375

विध्यन्तरं मन्त्रगणं द्रव्यसङ्‌घस्त्वमेव हि।
प्राप्तिः पूरयिता पूर्णमपूर्णानां हि कर्मणाम् ॥ 375 ॥

मूलम् - 375

विध्यन्तरं मन्त्रगणं द्रव्यसङ्‌घस्त्वमेव हि।
प्राप्तिः पूरयिता पूर्णमपूर्णानां हि कर्मणाम् ॥ 375 ॥

विश्वास-प्रस्तुतिः - 376

तथ्येनानेन भगवन्! भवभङ्गार्दितस्य च।
अशठस्य क्रियाकांडमखण्डं सर्वमस्तु ते ॥ 376 ॥

मूलम् - 376

तथ्येनानेन भगवन्! भवभङ्गार्दितस्य च।
अशठस्य क्रियाकांडमखण्डं सर्वमस्तु ते ॥ 376 ॥

विश्वास-प्रस्तुतिः - 377

विज्ञप्तोऽसीति भगवन्! आर्थिता मे परा त्वयि।
विना त्वत्परितोषेण सम्यज्ज्ञानप्रदेन च ॥ 377 ॥

मूलम् - 377

विज्ञप्तोऽसीति भगवन्! आर्थिता मे परा त्वयि।
विना त्वत्परितोषेण सम्यज्ज्ञानप्रदेन च ॥ 377 ॥

विश्वास-प्रस्तुतिः - 378

आपंत्कालेऽपि संप्राप्ते बुद्धिपूर्वं मयाच्पुत!।
न सन्त्याज्यं क्रियाज्ञानं त्वं सर्वं वेत्सि तत्वतः ॥ 378 ॥

मूलम् - 378

आपंत्कालेऽपि संप्राप्ते बुद्धिपूर्वं मयाच्पुत!।
न सन्त्याज्यं क्रियाज्ञानं त्वं सर्वं वेत्सि तत्वतः ॥ 378 ॥

विश्वास-प्रस्तुतिः - 379

यथाकालं यथावच्च भोगैर्देव! यथोचितैः।
नार्चितोऽसि यथा सम्यक् खेदश्चेतसि तेन मे ॥ 379 ॥

मूलम् - 379

यथाकालं यथावच्च भोगैर्देव! यथोचितैः।
नार्चितोऽसि यथा सम्यक् खेदश्चेतसि तेन मे ॥ 379 ॥

विश्वास-प्रस्तुतिः - 380

पूजनं भोगसंभोगैराज्यहोमैस्तु तर्पणैः।
त्वयेतत् कृतकृत्यत्वान्न किञ्चिदुपयुज्यते ॥ 380 ॥

मूलम् - 380

पूजनं भोगसंभोगैराज्यहोमैस्तु तर्पणैः।
त्वयेतत् कृतकृत्यत्वान्न किञ्चिदुपयुज्यते ॥ 380 ॥

विश्वास-प्रस्तुतिः - 381

सुक्षेत्रं वापितं ह्येतदखिलार्थस्य मेऽखिलम्।
फलिष्यत्यमृतत्वेन ज्ञात्वैवं हि मया पुरा ॥ 381 ॥

मूलम् - 381

सुक्षेत्रं वापितं ह्येतदखिलार्थस्य मेऽखिलम्।
फलिष्यत्यमृतत्वेन ज्ञात्वैवं हि मया पुरा ॥ 381 ॥

विश्वास-प्रस्तुतिः - 382

अङ्गीकृतं गुरुमुखात् किन्तु सर्वेश्वर! प्रभो!।
परिस्फुरति मे बुद्धौ न निर्व्यूढं यथास्थितम् ॥ 382 ॥

मूलम् - 382

अङ्गीकृतं गुरुमुखात् किन्तु सर्वेश्वर! प्रभो!।
परिस्फुरति मे बुद्धौ न निर्व्यूढं यथास्थितम् ॥ 382 ॥

विश्वास-प्रस्तुतिः - 383

मनोवाक्कायकर्मैस्तु आप्रभातान्निशावधि।
अस्वातन्त्र्यादसामर्थ्यान्मनसश्चानवस्थितेः ॥ 383 ॥

मूलम् - 383

मनोवाक्कायकर्मैस्तु आप्रभातान्निशावधि।
अस्वातन्त्र्यादसामर्थ्यान्मनसश्चानवस्थितेः ॥ 383 ॥

विश्वास-प्रस्तुतिः - 384

शीतोष्णवातवर्षार्द्येरन्तरायैर्ज्वरादिभिः।
असम्पत्तेः क्रियाङ्गानां देव! त्वदनुरूपिणाम् ॥ 384 ॥

मूलम् - 384

शीतोष्णवातवर्षार्द्येरन्तरायैर्ज्वरादिभिः।
असम्पत्तेः क्रियाङ्गानां देव! त्वदनुरूपिणाम् ॥ 384 ॥

विश्वास-प्रस्तुतिः - 385

आप्रवृत्तेः परानन्दप्राप्तिनिष्ठं यदाह्निकम्।
यथोक्तममराणां तु यस्मान्न घटते ततः ॥ 385 ॥

मूलम् - 385

आप्रवृत्तेः परानन्दप्राप्तिनिष्ठं यदाह्निकम्।
यथोक्तममराणां तु यस्मान्न घटते ततः ॥ 385 ॥

विश्वास-प्रस्तुतिः - 386

तस्य सम्पूरणार्थं तु प्रधानतरमर्चनम्।
पवित्रकाख्त्यमादिष्टं वत्सरं प्रति यत् त्वया ॥ 386 ॥

मूलम् - 386

तस्य सम्पूरणार्थं तु प्रधानतरमर्चनम्।
पवित्रकाख्त्यमादिष्टं वत्सरं प्रति यत् त्वया ॥ 386 ॥

विश्वास-प्रस्तुतिः - 387

तन्मया कृतमध्यक्षमर्चितं यदनिर्मलम्।
क्रियायोगादसंपूर्णं तन्मे निर्मलतां नय ॥ 387 ॥

मूलम् - 387

तन्मया कृतमध्यक्षमर्चितं यदनिर्मलम्।
क्रियायोगादसंपूर्णं तन्मे निर्मलतां नय ॥ 387 ॥

विश्वास-प्रस्तुतिः - 388

ज्ञानतोऽझानतो वापि यथोक्तं न कृतं मया।
तत् सर्वं पूर्णमेवास्तु सुतृप्तो भव सर्वदा ॥ 388 ॥

मूलम् - 388

ज्ञानतोऽझानतो वापि यथोक्तं न कृतं मया।
तत् सर्वं पूर्णमेवास्तु सुतृप्तो भव सर्वदा ॥ 388 ॥

विश्वास-प्रस्तुतिः - 389

ओमच्युत! जगन्नाथ! मन्त्रमूर्ते! जनार्दन!।
रक्ष मां पुण्डरीकाक्ष! क्षमस्वाज! प्रसीद ओम् ॥” 389 ॥

मूलम् - 389

ओमच्युत! जगन्नाथ! मन्त्रमूर्ते! जनार्दन!।
रक्ष मां पुण्डरीकाक्ष! क्षमस्वाज! प्रसीद ओम् ॥” 389 ॥

विश्वास-प्रस्तुतिः - 390

उक्त्वेवं मूलमन्त्रं तु हृदाद्यैर्लाञ्छनैः सह।
समुदीर्य ततो दद्यान्मूर्ध्नि मन्त्रात्मनो विभोः ॥ 390 ॥

मूलम् - 390

उक्त्वेवं मूलमन्त्रं तु हृदाद्यैर्लाञ्छनैः सह।
समुदीर्य ततो दद्यान्मूर्ध्नि मन्त्रात्मनो विभोः ॥ 390 ॥

विश्वास-प्रस्तुतिः - 391

सर्वज्ञानक्रियाभोगशुभसंकल्पविग्रहम्।
मण्डलान्तर्गतस्यैवं प्रासादान्तःस्थितस्य च ॥ 391 ॥

मूलम् - 391

सर्वज्ञानक्रियाभोगशुभसंकल्पविग्रहम्।
मण्डलान्तर्गतस्यैवं प्रासादान्तःस्थितस्य च ॥ 391 ॥

विश्वास-प्रस्तुतिः - 392

एवमग्नेः पवित्रे द्वे प्रदद्याद्‌द्विजसत्तम!।
यद्वा किरीटमाद्ये तु मध्ये श्रीवत्सकौस्तुभे ॥ 392 ॥

मूलम् - 392

एवमग्नेः पवित्रे द्वे प्रदद्याद्‌द्विजसत्तम!।
यद्वा किरीटमाद्ये तु मध्ये श्रीवत्सकौस्तुभे ॥ 392 ॥

विश्वास-प्रस्तुतिः - 393

तृतीये वनमालां च मन्त्रैरेभिस्तु विन्यसेत्।
“पझराजे किरीटाय पझरागवृतः स्वयम् ॥ 393 ॥

मूलम् - 393

तृतीये वनमालां च मन्त्रैरेभिस्तु विन्यसेत्।
“पझराजे किरीटाय पझरागवृतः स्वयम् ॥ 393 ॥

विश्वास-प्रस्तुतिः - 394

पवित्रकेऽस्मिन्नागच्छ क्षिप्रं सन्निहितो भव।
श्रीवत्साय नमस्तुम्यं कौस्तुभागच्छ ओं नमः ॥ 394 ॥

मूलम् - 394

पवित्रकेऽस्मिन्नागच्छ क्षिप्रं सन्निहितो भव।
श्रीवत्साय नमस्तुम्यं कौस्तुभागच्छ ओं नमः ॥ 394 ॥

विश्वास-प्रस्तुतिः - 395

पवित्रकेऽस्मिन् सन्तिष्ठ सच्छ्रीवत्सामलप्रभ!।
आगच्छ वनमाले! त्वं अस्मिन् सन्निहिता भव ॥ 395 ॥

मूलम् - 395

पवित्रकेऽस्मिन् सन्तिष्ठ सच्छ्रीवत्सामलप्रभ!।
आगच्छ वनमाले! त्वं अस्मिन् सन्निहिता भव ॥ 395 ॥

पवित्रके जगद्योनेर्यन्मया परिकल्पितम्।" श्रृणु विध्यन्तरं भूयो ध्यायेदाद्ये द्विजाखिलम् ॥ 396 ॥
विश्वास-प्रस्तुतिः - 397

सांवत्सरं तु यत् कर्म आप्रभातान्निशान्तिमम्।
ध्यानोत्थं निष्कलं सम्यगपवर्गप्रदं तु यत् ॥ 397 ॥

मूलम् - 397

सांवत्सरं तु यत् कर्म आप्रभातान्निशान्तिमम्।
ध्यानोत्थं निष्कलं सम्यगपवर्गप्रदं तु यत् ॥ 397 ॥

विश्वास-प्रस्तुतिः - 398

संस्मृत्य निष्कलं मन्त्रं शुद्धोच्चारक्रमेण तु।
मन्त्रे सन्धाय तत्सूत्रं सूत्रे मन्त्रं तथैव च ॥ 398 ॥

मूलम् - 398

संस्मृत्य निष्कलं मन्त्रं शुद्धोच्चारक्रमेण तु।
मन्त्रे सन्धाय तत्सूत्रं सूत्रे मन्त्रं तथैव च ॥ 398 ॥

विश्वास-प्रस्तुतिः - 399

एकीकृत्यात्मना सार्धं दद्याद्वै मन्त्रमूर्धनि।
समादायापरं सूत्रं तस्मिन् सकलनिष्कलम् ॥ 399 ॥

मूलम् - 399

एकीकृत्यात्मना सार्धं दद्याद्वै मन्त्रमूर्धनि।
समादायापरं सूत्रं तस्मिन् सकलनिष्कलम् ॥ 399 ॥

विश्वास-प्रस्तुतिः - 400

ध्यानकर्मस्वरूपं तु कर्म ध्यायेच्च वात्सरम्।
स्मृत्वा चोभयरूपं तु मन्त्रं कलशपूजितम् ॥ 400 ॥

मूलम् - 400

ध्यानकर्मस्वरूपं तु कर्म ध्यायेच्च वात्सरम्।
स्मृत्वा चोभयरूपं तु मन्त्रं कलशपूजितम् ॥ 400 ॥

विश्वास-प्रस्तुतिः - 401

पूर्ववच्चानुसन्धानं कृत्वा दद्यात् पवित्रकम्।
ततः प्रतिसरं विप्र! तृतीयं च समाहरेत् ॥ 401 ॥

मूलम् - 401

पूर्ववच्चानुसन्धानं कृत्वा दद्यात् पवित्रकम्।
ततः प्रतिसरं विप्र! तृतीयं च समाहरेत् ॥ 401 ॥

विश्वास-प्रस्तुतिः - 402

बाह्यसांवत्सरं कर्म सकलं चाखिलं स्मरेत्।
पूजयन्तं स्वमात्मानमाधाराच्च परावधिम् ॥ 402 ॥

मूलम् - 402

बाह्यसांवत्सरं कर्म सकलं चाखिलं स्मरेत्।
पूजयन्तं स्वमात्मानमाधाराच्च परावधिम् ॥ 402 ॥

विश्वास-प्रस्तुतिः - 403

लयभोगाधिकाराख्यक्रमेण सकलात्मना।
सकलं मन्त्रनाथं तु लयभोगाधिविग्रहम् ॥ 403 ॥

मूलम् - 403

लयभोगाधिकाराख्यक्रमेण सकलात्मना।
सकलं मन्त्रनाथं तु लयभोगाधिविग्रहम् ॥ 403 ॥

विश्वास-प्रस्तुतिः - 404

स्मृत्वा कृत्वा च सन्धानं दद्यात् प्रतिसरं ततः।
अर्घ्यपुष्पैस्तथा गन्धैर्माल्यैर्धूपैस्तथा द्विज! ॥ 404 ॥

मूलम् - 404

स्मृत्वा कृत्वा च सन्धानं दद्यात् प्रतिसरं ततः।
अर्घ्यपुष्पैस्तथा गन्धैर्माल्यैर्धूपैस्तथा द्विज! ॥ 404 ॥

विश्वास-प्रस्तुतिः - 405

पूजया सम्पुटीकुर्याद्‌भूषणानि पृथक् पृथक्।
अन्तरान्तरयोगेन घण्टाशब्दसमन्वितम् ॥ 405 ॥

मूलम् - 405

पूजया सम्पुटीकुर्याद्‌भूषणानि पृथक् पृथक्।
अन्तरान्तरयोगेन घण्टाशब्दसमन्वितम् ॥ 405 ॥

विश्वास-प्रस्तुतिः - 406

समस्तरत्नसद्धातुपुष्पाक्षतफलान्विता।
सत्सुगन्धार्घ्यदर्भाढ्यलाजसिद्धार्थकैर्युता ॥ 406 ॥

मूलम् - 406

समस्तरत्नसद्धातुपुष्पाक्षतफलान्विता।
सत्सुगन्धार्घ्यदर्भाढ्यलाजसिद्धार्थकैर्युता ॥ 406 ॥

विश्वास-प्रस्तुतिः - 407

प्रक्षेप्तव्या तु बहुशो वृष्टि करघनैर्मुदा।
केवला पुष्पवृष्टिर्वा शङ्खादीन्यपि नादयेत् ॥ 407 ॥

मूलम् - 407

प्रक्षेप्तव्या तु बहुशो वृष्टि करघनैर्मुदा।
केवला पुष्पवृष्टिर्वा शङ्खादीन्यपि नादयेत् ॥ 407 ॥

विश्वास-प्रस्तुतिः - 408

मन्त्रास्त्रकुम्भयोर्दद्याद्‌भूषणे ध्यानवर्जिते।
दत्वैवं कलशस्थस्य पुरा विप्र! पवित्रकम् ॥ 408 ॥

मूलम् - 408

मन्त्रास्त्रकुम्भयोर्दद्याद्‌भूषणे ध्यानवर्जिते।
दत्वैवं कलशस्थस्य पुरा विप्र! पवित्रकम् ॥ 408 ॥

विश्वास-प्रस्तुतिः - 409

अनेन विधिना दद्यान्मण्डलस्थस्य वै पुरा।
पवित्रकत्रयं शुभ्रं भोगस्थाने च नारद! ॥ 409 ॥

मूलम् - 409

अनेन विधिना दद्यान्मण्डलस्थस्य वै पुरा।
पवित्रकत्रयं शुभ्रं भोगस्थाने च नारद! ॥ 409 ॥

विश्वास-प्रस्तुतिः - 410

दद्यात् समस्तमन्त्राणां त्रीम्येकं वा यथेच्छया।
बिम्बस्थं तु समब्यर्च्य प्रदद्याद्‌भूषणानि तु ॥ 410 ॥

मूलम् - 410

दद्यात् समस्तमन्त्राणां त्रीम्येकं वा यथेच्छया।
बिम्बस्थं तु समब्यर्च्य प्रदद्याद्‌भूषणानि तु ॥ 410 ॥

विश्वास-प्रस्तुतिः - 411

कलशोक्तक्रमेणैव वनमालाख्यभूषणे।
अव्यक्ताद्यनुसन्धानं यद्वा विध्यन्तरोदितम् ॥ 411 ॥

मूलम् - 411

कलशोक्तक्रमेणैव वनमालाख्यभूषणे।
अव्यक्ताद्यनुसन्धानं यद्वा विध्यन्तरोदितम् ॥ 411 ॥

विश्वास-प्रस्तुतिः - 412

परादिस्थूलपर्यन्तं सर्वं कृत्वा निवेदयेत्।
पुषङ्‌न्यासो यथा प्रोक्तः किरीटाद्यस्य सत्तम! ॥ 412 ॥

मूलम् - 412

परादिस्थूलपर्यन्तं सर्वं कृत्वा निवेदयेत्।
पुषङ्‌न्यासो यथा प्रोक्तः किरीटाद्यस्य सत्तम! ॥ 412 ॥

विश्वास-प्रस्तुतिः - 413

तत्रायं हि विशेषः स्यात् किरीटाद्यं चतुष्टयम्।
क्रमेणावाहयेद्विप्र! भूषणानां चतुष्टये ॥ 413 ॥

मूलम् - 413

तत्रायं हि विशेषः स्यात् किरीटाद्यं चतुष्टयम्।
क्रमेणावाहयेद्विप्र! भूषणानां चतुष्टये ॥ 413 ॥

विश्वास-प्रस्तुतिः - 414

“किरीटाख्यसुरेशस्य भानुतुल्यप्रभान्वित!।
परिवारयुतस्तिष्ठ त्वमस्मिन् शीर्षभूषणे ॥ 414 ॥

मूलम् - 414

“किरीटाख्यसुरेशस्य भानुतुल्यप्रभान्वित!।
परिवारयुतस्तिष्ठ त्वमस्मिन् शीर्षभूषणे ॥ 414 ॥

विश्वास-प्रस्तुतिः - 415

वक्षः स्थले जगद्योनेर्भूषणं कल्पितं मया।
श्रीवत्सागच्छ पूर्णेन्दुसमान! भगवत्प्रिय! ॥ 415 ॥

मूलम् - 415

वक्षः स्थले जगद्योनेर्भूषणं कल्पितं मया।
श्रीवत्सागच्छ पूर्णेन्दुसमान! भगवत्प्रिय! ॥ 415 ॥

विश्वास-प्रस्तुतिः - 416

वक्षःस्भले जगद्योनेर्भूषणं कल्पितं मया।
कौस्तुमागच्छ रत्नानामीश! त्वं भगवत्प्रिय! ॥ 416 ॥

मूलम् - 416

वक्षःस्भले जगद्योनेर्भूषणं कल्पितं मया।
कौस्तुमागच्छ रत्नानामीश! त्वं भगवत्प्रिय! ॥ 416 ॥

विश्वास-प्रस्तुतिः - 417

धातुपुष्पसमाकीर्णे! प्रवालमणिभूषिते!।
वनमाले! समागच्छ देवदेवप्रिये! शुभे!” ॥ 417 ॥

मूलम् - 417

धातुपुष्पसमाकीर्णे! प्रवालमणिभूषिते!।
वनमाले! समागच्छ देवदेवप्रिये! शुभे!” ॥ 417 ॥

विश्वास-प्रस्तुतिः - 418

चतुर्भिरेतैर्मन्त्रैस्तु क्रमेणावाहयेद्‌द्विज!।
अङ्गानामप्युपाङ्गानां लाञ्छनानां तथैव च ॥ 418 ॥

मूलम् - 418

चतुर्भिरेतैर्मन्त्रैस्तु क्रमेणावाहयेद्‌द्विज!।
अङ्गानामप्युपाङ्गानां लाञ्छनानां तथैव च ॥ 418 ॥

विश्वास-प्रस्तुतिः - 419

भूषणानां च शक्तीनां गरुडस्य च वै क्रमात्।
पीठस्य तु पवित्राणि प्रदद्यात् क्रमशस्ततः ॥ 419 ॥

मूलम् - 419

भूषणानां च शक्तीनां गरुडस्य च वै क्रमात्।
पीठस्य तु पवित्राणि प्रदद्यात् क्रमशस्ततः ॥ 419 ॥

विश्वास-प्रस्तुतिः - 420

एवमेव विभोर्दद्यान्मूलबिम्बगतस्य च।
सर्वेषां कर्मबिम्बानां लक्ष्म्यादीनां तथैव च ॥ 420 ॥

मूलम् - 420

एवमेव विभोर्दद्यान्मूलबिम्बगतस्य च।
सर्वेषां कर्मबिम्बानां लक्ष्म्यादीनां तथैव च ॥ 420 ॥

विश्वास-प्रस्तुतिः - 421

अन्येषामङ्गबिम्बानां परिवारगणस्य च।
क्रमेण भूषणं दत्वा यायादग्निनिकेतनम् ॥ 421 ॥

मूलम् - 421

अन्येषामङ्गबिम्बानां परिवारगणस्य च।
क्रमेण भूषणं दत्वा यायादग्निनिकेतनम् ॥ 421 ॥

विश्वास-प्रस्तुतिः - 422

अग्निस्थस्य विभोर्दद्याद्‌भूषणानि तु पूर्ववत्।
यदा पवित्रकारोपो मूलबिमेबे तदा भवेत् ॥ 422 ॥

मूलम् - 422

अग्निस्थस्य विभोर्दद्याद्‌भूषणानि तु पूर्ववत्।
यदा पवित्रकारोपो मूलबिमेबे तदा भवेत् ॥ 422 ॥

विश्वास-प्रस्तुतिः - 423

नित्ये कुण्डेऽन्यथा स स्यान्नित्येनैमित्तिकेऽपि च।
अग्नौ निवेदयेद् विप्र! भूषणं न तु होमयेत् ॥ 423 ॥

मूलम् - 423

नित्ये कुण्डेऽन्यथा स स्यान्नित्येनैमित्तिकेऽपि च।
अग्नौ निवेदयेद् विप्र! भूषणं न तु होमयेत् ॥ 423 ॥

विश्वास-प्रस्तुतिः - 424

यस्मात् सन्यासमूर्ध्वे तु विहितं भूषणस्य च।
नाहर्तुं युज्यते दग्धं दोषमाहरणं विना ॥ 424 ॥

मूलम् - 424

यस्मात् सन्यासमूर्ध्वे तु विहितं भूषणस्य च।
नाहर्तुं युज्यते दग्धं दोषमाहरणं विना ॥ 424 ॥

विश्वास-प्रस्तुतिः - 425

देशिकस्य हृदारोप्य पूजितस्य च देववत्।
स्वं स्वं चारोप्य चान्येषां देशिकानां तथैव च ॥ 425 ॥

मूलम् - 425

देशिकस्य हृदारोप्य पूजितस्य च देववत्।
स्वं स्वं चारोप्य चान्येषां देशिकानां तथैव च ॥ 425 ॥

विश्वास-प्रस्तुतिः - 426

साधकानां ततो दत्वा यागाङ्गानामपि द्विज!।
शास्त्रात्मनस्ततो दत्वा ह्यन्येषां क्रमशस्तथा ॥ 426 ॥

मूलम् - 426

साधकानां ततो दत्वा यागाङ्गानामपि द्विज!।
शास्त्रात्मनस्ततो दत्वा ह्यन्येषां क्रमशस्तथा ॥ 426 ॥

विश्वास-प्रस्तुतिः - 427

पश्चात् पझासनं बद्‌ध्वा देवस्याभिमुखं स्थितः।
सकृज्जपेन्महामन्त्रं सर्वकर्मप्रवर्धनम् ॥ 427 ॥

मूलम् - 427

पश्चात् पझासनं बद्‌ध्वा देवस्याभिमुखं स्थितः।
सकृज्जपेन्महामन्त्रं सर्वकर्मप्रवर्धनम् ॥ 427 ॥

विश्वास-प्रस्तुतिः - 428

नाशनं समयानां च दोषाणां स्मरणादपि।
ततः संश्रावयेद्देवं त्रिस्थानस्थं क्रमेण तु ॥ 428 ॥

मूलम् - 428

नाशनं समयानां च दोषाणां स्मरणादपि।
ततः संश्रावयेद्देवं त्रिस्थानस्थं क्रमेण तु ॥ 428 ॥

विश्वास-प्रस्तुतिः - 429

“कामतोऽकामतो वापि न कृतं नियमार्चयम्।
केनचिद्विघ्नदोषेण मया यत्परमेश्वर! ॥ 429 ॥

मूलम् - 429

“कामतोऽकामतो वापि न कृतं नियमार्चयम्।
केनचिद्विघ्नदोषेण मया यत्परमेश्वर! ॥ 429 ॥

विश्वास-प्रस्तुतिः - 430

तेन मे मनसोऽतीव सन्तापो दहनात्मकः।
यतः समयदोषेण बाधितोऽस्मि जनार्दन! ॥ 430 ॥

मूलम् - 430

तेन मे मनसोऽतीव सन्तापो दहनात्मकः।
यतः समयदोषेण बाधितोऽस्मि जनार्दन! ॥ 430 ॥

विश्वास-प्रस्तुतिः - 431

त्वयोद्दिष्टं पुरा नाथ! भक्तानां हितकाम्यया।
दोषविध्वंसकृच्चुभ्रं पवित्रं तत् कृतं मया ॥ 431 ॥

मूलम् - 431

त्वयोद्दिष्टं पुरा नाथ! भक्तानां हितकाम्यया।
दोषविध्वंसकृच्चुभ्रं पवित्रं तत् कृतं मया ॥ 431 ॥

विश्वास-प्रस्तुतिः - 432

प्रसीद मे कुरु त्राणं जहि कोपं हि लोपजम्।
निमज्जतो भवाम्भोधौ समयप्रच्युतस्य च ॥ 432 ॥

मूलम् - 432

प्रसीद मे कुरु त्राणं जहि कोपं हि लोपजम्।
निमज्जतो भवाम्भोधौ समयप्रच्युतस्य च ॥ 432 ॥

विश्वास-प्रस्तुतिः - 433

नमो नमस्ते मन्त्रात्मन्! प्रसीद परमेश्वर!।
पाहि पाहि त्रिलोकेश! केशवाऽऽर्तिविनाशन! ॥ 433 ॥

मूलम् - 433

नमो नमस्ते मन्त्रात्मन्! प्रसीद परमेश्वर!।
पाहि पाहि त्रिलोकेश! केशवाऽऽर्तिविनाशन! ॥ 433 ॥

विश्वास-प्रस्तुतिः - 434

त्वत्प्रसादाच्च मे मास्तु दोषः समयसंज्ञितः।
अद्यास्तु कर्मसम्पत्तिर्नित्यनैमित्तिके प्रभो!” ॥ 434 ॥

मूलम् - 434

त्वत्प्रसादाच्च मे मास्तु दोषः समयसंज्ञितः।
अद्यास्तु कर्मसम्पत्तिर्नित्यनैमित्तिके प्रभो!” ॥ 434 ॥

विश्वास-प्रस्तुतिः - 435

श्रुत्वैवमादरात्तस्य संसारार्तस्य मन्त्रराट्।
पूर्णभावं नयेच्छीघ्रं हन्ति दोषांश्च सामयान् ॥ 435 ॥

मूलम् - 435

श्रुत्वैवमादरात्तस्य संसारार्तस्य मन्त्रराट्।
पूर्णभावं नयेच्छीघ्रं हन्ति दोषांश्च सामयान् ॥ 435 ॥

विश्वास-प्रस्तुतिः - 436

ततः प्रावरणैर्दानैर्यथासम्पत्तिसंभृतैः।
सोपवीतोत्तरियैश्च च्छत्रोपानहसंयुतैः ॥ 436 ॥

मूलम् - 436

ततः प्रावरणैर्दानैर्यथासम्पत्तिसंभृतैः।
सोपवीतोत्तरियैश्च च्छत्रोपानहसंयुतैः ॥ 436 ॥

विश्वास-प्रस्तुतिः - 437

विविधैर्भोजनैर्विप्र! धूपार्घ्यालभनादिकैः।
पूजयेदाप्तपूर्वांश्च यतिपूर्वांस्तथैव च ॥ 437 ॥

मूलम् - 437

विविधैर्भोजनैर्विप्र! धूपार्घ्यालभनादिकैः।
पूजयेदाप्तपूर्वांश्च यतिपूर्वांस्तथैव च ॥ 437 ॥

विश्वास-प्रस्तुतिः - 438

पञ्च वैखानसान्तांश्च विप्रादींश्चतुरस्तथा।
पञ्च योगरताद्यांस्तु तथान्यान् वैष्णवान् द्विज! ॥ 438 ॥

मूलम् - 438

पञ्च वैखानसान्तांश्च विप्रादींश्चतुरस्तथा।
पञ्च योगरताद्यांस्तु तथान्यान् वैष्णवान् द्विज! ॥ 438 ॥

विश्वास-प्रस्तुतिः - 439

एकायनीयशाखोत्थमन्त्राणां प्रथमं ततः।
त्रयीमयानां मन्त्राणां स्तोत्राणां च तथैव च ॥ 439 ॥

मूलम् - 439

एकायनीयशाखोत्थमन्त्राणां प्रथमं ततः।
त्रयीमयानां मन्त्राणां स्तोत्राणां च तथैव च ॥ 439 ॥

विश्वास-प्रस्तुतिः - 440

उद्‌घोषणं च कर्तव्यं ब्राह्नणैरग्रतो विभोः।
शङ्खभेरीनिनादैश्च काहलीगीतकैस्तथा ॥ 440 ॥

मूलम् - 440

उद्‌घोषणं च कर्तव्यं ब्राह्नणैरग्रतो विभोः।
शङ्खभेरीनिनादैश्च काहलीगीतकैस्तथा ॥ 440 ॥

विश्वास-प्रस्तुतिः - 441

नृत्तैश्च निनदैरन्यैर्मङ्गलैस्तोषयेत् प्रभुम्।
पश्चादुत्सवबिम्बं तु यानमारोप्य देशिकः ॥ 441 ॥

मूलम् - 441

नृत्तैश्च निनदैरन्यैर्मङ्गलैस्तोषयेत् प्रभुम्।
पश्चादुत्सवबिम्बं तु यानमारोप्य देशिकः ॥ 441 ॥

विश्वास-प्रस्तुतिः - 442

महोत्सवविधिप्रोक्तं सर्वमह्गलसंयुतम्।
प्रदक्षिणक्रमेणैव प्रासादं तु प्रमेशयेत् ॥ 442 ॥

मूलम् - 442

महोत्सवविधिप्रोक्तं सर्वमह्गलसंयुतम्।
प्रदक्षिणक्रमेणैव प्रासादं तु प्रमेशयेत् ॥ 442 ॥

विश्वास-प्रस्तुतिः - 443

प्रार्थनां च ततः कुर्याद्यतीनां भावितात्मनाम्।
“युष्मत्प्रसादसामर्थ्यान्मनसः परिपूर्णता ॥ 443 ॥

मूलम् - 443

प्रार्थनां च ततः कुर्याद्यतीनां भावितात्मनाम्।
“युष्मत्प्रसादसामर्थ्यान्मनसः परिपूर्णता ॥ 443 ॥

क्रियाङ्गानां तु सर्वेषां मा मेऽस्तु समयच्युतिः।" "एवमस्त्विति" वक्तव्यं सर्वैस्तालसमन्वितम् ॥ 444 ॥
विश्वास-प्रस्तुतिः - 445

तांश्चानुपृच्छ्य नैवेद्यपूर्वं कुर्यात् सुभोजनम्।
बन्धुभृत्यसमोपेतः स विशेषं द्विजोत्तम! ॥ 445 ॥

मूलम् - 445

तांश्चानुपृच्छ्य नैवेद्यपूर्वं कुर्यात् सुभोजनम्।
बन्धुभृत्यसमोपेतः स विशेषं द्विजोत्तम! ॥ 445 ॥

विश्वास-प्रस्तुतिः - 446

एकरात्रं त्रिरात्रं वा सप्तरात्रं तु वा द्विज!।
पवित्रकं स्थापयित्वा ततः सन्यासमाचरेत् ॥ 446 ॥

मूलम् - 446

एकरात्रं त्रिरात्रं वा सप्तरात्रं तु वा द्विज!।
पवित्रकं स्थापयित्वा ततः सन्यासमाचरेत् ॥ 446 ॥

विश्वास-प्रस्तुतिः - 447

अथवार्चागतं विप्र! तावत् संस्थाप्य भूषणम्।
यावदेकादशी शुक्ला संवृत्ता कार्तिकस्य तु ॥ 447 ॥

मूलम् - 447

अथवार्चागतं विप्र! तावत् संस्थाप्य भूषणम्।
यावदेकादशी शुक्ला संवृत्ता कार्तिकस्य तु ॥ 447 ॥

विश्वास-प्रस्तुतिः - 448

अपनीय च माल्यादीन् प्रदद्याद्वा दिने दिने।
नो यान्ति म्लानतां यावत् संप्राप्ते कालवासरे ॥ 448 ॥

मूलम् - 448

अपनीय च माल्यादीन् प्रदद्याद्वा दिने दिने।
नो यान्ति म्लानतां यावत् संप्राप्ते कालवासरे ॥ 448 ॥

विश्वास-प्रस्तुतिः - 449

महदर्चनपूर्वं तु कृत्वा पूर्णावसानकम्।
क्रमशश्चोपसहृत्य स्वयं गुर्वात्मना तु वा ॥ 449 ॥

मूलम् - 449

महदर्चनपूर्वं तु कृत्वा पूर्णावसानकम्।
क्रमशश्चोपसहृत्य स्वयं गुर्वात्मना तु वा ॥ 449 ॥

विश्वास-प्रस्तुतिः - 450

आदाय पूजिते पात्रे अर्चयित्वा यथाविधि।
जानुनी भूगते कृत्वा प्रणिपत्य च देशिकम् ॥ 450 ॥

मूलम् - 450

आदाय पूजिते पात्रे अर्चयित्वा यथाविधि।
जानुनी भूगते कृत्वा प्रणिपत्य च देशिकम् ॥ 450 ॥

विश्वास-प्रस्तुतिः - 451

मानयित्वार्घ्यपुष्पाद्यैः प्रणिपत्य स्वयं पुरा।
विनिवेद्य च तत् पात्रं “प्रसादः क्रियतां प्रभो” ॥ 451 ॥

मूलम् - 451

मानयित्वार्घ्यपुष्पाद्यैः प्रणिपत्य स्वयं पुरा।
विनिवेद्य च तत् पात्रं “प्रसादः क्रियतां प्रभो” ॥ 451 ॥

विश्वास-प्रस्तुतिः - 452

स्वाशिषं भगवत्प्रीतिर्वाच्याचार्येण तस्य तु।
“यथागमं यथाशास्त्रं प्रसादाच्चतुरात्मनः ॥ 452 ॥

मूलम् - 452

स्वाशिषं भगवत्प्रीतिर्वाच्याचार्येण तस्य तु।
“यथागमं यथाशास्त्रं प्रसादाच्चतुरात्मनः ॥ 452 ॥

त्वयि सांवत्सरं कृत्यं सुसंपूर्णं सुतास्तु ओम्।" समुत्कीर्य ततस्तस्य आसनस्थस्य मूर्धनि ॥ 453 ॥
विश्वास-प्रस्तुतिः - 454

कलशद्वितयं मान्त्रं कृत्वा सौभाग्यमोक्षदम्।
विसर्जनं विभोः कुर्यात् पूजापूर्वं यथाक्रमम् ॥ 454 ॥

मूलम् - 454

कलशद्वितयं मान्त्रं कृत्वा सौभाग्यमोक्षदम्।
विसर्जनं विभोः कुर्यात् पूजापूर्वं यथाक्रमम् ॥ 454 ॥

विश्वास-प्रस्तुतिः - 455

विष्वक्‌सेनं यजेत् साङ्गं तर्पयेत् तदनन्तरम्।
समाहृत्याखिलं पश्चात् कृते चैतद्विसर्जने ॥ 455 ॥

मूलम् - 455

विष्वक्‌सेनं यजेत् साङ्गं तर्पयेत् तदनन्तरम्।
समाहृत्याखिलं पश्चात् कृते चैतद्विसर्जने ॥ 455 ॥

विश्वास-प्रस्तुतिः - 456

यद्यन्निवेदितं तस्य ह्यगाधेऽम्भसि निक्षिपेत्।
यथासंवत्सरकृतो दोषः समयपूर्वकः ॥ 456 ॥

मूलम् - 456

यद्यन्निवेदितं तस्य ह्यगाधेऽम्भसि निक्षिपेत्।
यथासंवत्सरकृतो दोषः समयपूर्वकः ॥ 456 ॥

विश्वास-प्रस्तुतिः - 457

नाशमायाति वै क्षिप्रं पवित्रारोपणान्मुने!।
पाति यस्मात् सदोषं हि पतनात् परिरक्षति ॥ 457 ॥

मूलम् - 457

नाशमायाति वै क्षिप्रं पवित्रारोपणान्मुने!।
पाति यस्मात् सदोषं हि पतनात् परिरक्षति ॥ 457 ॥

विश्वास-प्रस्तुतिः - 458

विशेषेण द्विजं त्राति पूर्णं कर्म करोति च।
साधके च क्रियाहीने तस्मादुक्तो महान् मया ॥ 458 ॥

मूलम् - 458

विशेषेण द्विजं त्राति पूर्णं कर्म करोति च।
साधके च क्रियाहीने तस्मादुक्तो महान् मया ॥ 458 ॥

विश्वास-प्रस्तुतिः - 459

याग एष पवित्राख्य उक्तलक्षणलक्षितः।
पतितं च क्रियालोपाद्विधिवत् त्रायते यदा ॥ 459 ॥

मूलम् - 459

याग एष पवित्राख्य उक्तलक्षणलक्षितः।
पतितं च क्रियालोपाद्विधिवत् त्रायते यदा ॥ 459 ॥

विश्वास-प्रस्तुतिः - 460

तदा वपित्रकं विप्र! भूषणं सूत्रजं स्मरेत्।
अज्ञानादथवा मोहाद्यद्वा कर्मण्यनादरात् ॥ 460 ॥

मूलम् - 460

तदा वपित्रकं विप्र! भूषणं सूत्रजं स्मरेत्।
अज्ञानादथवा मोहाद्यद्वा कर्मण्यनादरात् ॥ 460 ॥

विश्वास-प्रस्तुतिः - 461

नास्तिक्याद्वाप्यहङ्कारात् कर्तॄणामुपरोधतः।
वैशेषिकान्तरप्राप्तेर्यद्वा निद्रादिदोषतः ॥ 461 ॥

मूलम् - 461

नास्तिक्याद्वाप्यहङ्कारात् कर्तॄणामुपरोधतः।
वैशेषिकान्तरप्राप्तेर्यद्वा निद्रादिदोषतः ॥ 461 ॥

विश्वास-प्रस्तुतिः - 462

कालातिक्रान्तिभीत्या वा त्वेवमन्येन केनचित्।
विकलं यजनं कृत्वा यदा दद्यात् पवित्रकम् ॥ 462 ॥

मूलम् - 462

कालातिक्रान्तिभीत्या वा त्वेवमन्येन केनचित्।
विकलं यजनं कृत्वा यदा दद्यात् पवित्रकम् ॥ 462 ॥

विश्वास-प्रस्तुतिः - 463

मन्त्रेशस्य तदानीं तु भवेत् तत् कर्म तामसम्।
देशाधिपो देशिकश्च प्राप्नुयात् तामसं फलम् ॥ 463 ॥

मूलम् - 463

मन्त्रेशस्य तदानीं तु भवेत् तत् कर्म तामसम्।
देशाधिपो देशिकश्च प्राप्नुयात् तामसं फलम् ॥ 463 ॥

विश्वास-प्रस्तुतिः - 464

ज्वरादिव्याधिपीडा स्यात् तदा तद्देशवासिनाम्।
त्वराविष्टोऽथवा विप्र! रजसा कलुषीकृतः ॥ 464 ॥

मूलम् - 464

ज्वरादिव्याधिपीडा स्यात् तदा तद्देशवासिनाम्।
त्वराविष्टोऽथवा विप्र! रजसा कलुषीकृतः ॥ 464 ॥

विश्वास-प्रस्तुतिः - 465

यागं कृत्वा तु देवस्य यदा दद्यात् पवित्रकम्।
तदा स्याद्राजसं कर्म फलं स्यादेव तादृशम् ॥ 465 ॥

मूलम् - 465

यागं कृत्वा तु देवस्य यदा दद्यात् पवित्रकम्।
तदा स्याद्राजसं कर्म फलं स्यादेव तादृशम् ॥ 465 ॥

विश्वास-प्रस्तुतिः - 466

अज्ञानपूर्वकैर्दोषैः प्रागुक्तैस्तु विवर्जितः।
यागं कृत्वा सुपूर्णं तु भूषणेन यदा यजेत् ॥ 466 ॥

मूलम् - 466

अज्ञानपूर्वकैर्दोषैः प्रागुक्तैस्तु विवर्जितः।
यागं कृत्वा सुपूर्णं तु भूषणेन यदा यजेत् ॥ 466 ॥

विश्वास-प्रस्तुतिः - 467

तदा कर्ता गुरुश्चापि पवित्रोक्तं फलं लभेत्।
तदा सांवत्सरं कर्म परिपूर्णतरं भवेत् ॥ 467 ॥

मूलम् - 467

तदा कर्ता गुरुश्चापि पवित्रोक्तं फलं लभेत्।
तदा सांवत्सरं कर्म परिपूर्णतरं भवेत् ॥ 467 ॥

विश्वास-प्रस्तुतिः - 468

पतितस्य क्रियालोपात् परित्राणं भवेत् तदा।
तस्मात्तु यजनं सम्यग्विभोः कृत्वा सुविस्तरम् ॥ 468 ॥

मूलम् - 468

पतितस्य क्रियालोपात् परित्राणं भवेत् तदा।
तस्मात्तु यजनं सम्यग्विभोः कृत्वा सुविस्तरम् ॥ 468 ॥

विश्वास-प्रस्तुतिः - 469

तदन्ते शोभने प्राप्ते मुहूर्ते देशिको विभुम्।
भूषणैर्भूषयेत् सम्यगत्वरः शान्तमानसः ॥ 469 ॥

मूलम् - 469

तदन्ते शोभने प्राप्ते मुहूर्ते देशिको विभुम्।
भूषणैर्भूषयेत् सम्यगत्वरः शान्तमानसः ॥ 469 ॥

विश्वास-प्रस्तुतिः - 470

न लभ्यते मुहूर्तं तु यागान्ते यदि शोभनम्।
तदन्यस्मिन् समारोप्य पवित्राणि यथाविधि ॥ 470 ॥

मूलम् - 470

न लभ्यते मुहूर्तं तु यागान्ते यदि शोभनम्।
तदन्यस्मिन् समारोप्य पवित्राणि यथाविधि ॥ 470 ॥

विश्वास-प्रस्तुतिः - 471

तदतिक्रान्तिदोषस्य शान्तयेऽथ जपेद्‌गुरुः।
अष्टोत्तरसहस्रं तु मूलमन्त्रं तथास्त्रपम् ॥ 471 ॥

मूलम् - 471

तदतिक्रान्तिदोषस्य शान्तयेऽथ जपेद्‌गुरुः।
अष्टोत्तरसहस्रं तु मूलमन्त्रं तथास्त्रपम् ॥ 471 ॥

विश्वास-प्रस्तुतिः - 472

जपेत् समयदोषघ्नमष्टधा मन्त्रनायकम्।
एवं सर्वेषु यागेषु मुहूर्तातिक्रमे भवेत् ॥ 472 ॥

मूलम् - 472

जपेत् समयदोषघ्नमष्टधा मन्त्रनायकम्।
एवं सर्वेषु यागेषु मुहूर्तातिक्रमे भवेत् ॥ 472 ॥

विश्वास-प्रस्तुतिः - 473

तिथिनक्षत्रवारेषु पवित्रारोहणे विधिः।
कथितो मुनिशार्दूल! यदा पुण्येक्षणादिके ॥ 473 ॥

मूलम् - 473

तिथिनक्षत्रवारेषु पवित्रारोहणे विधिः।
कथितो मुनिशार्दूल! यदा पुण्येक्षणादिके ॥ 473 ॥

विश्वास-प्रस्तुतिः - 474

केवले वैष्णवे वापि तत् कुर्यात् तत्र मे श्रृणु।
पुण्यक्षणादिकं यस्मिन् दिने भवति तद्दिनात् ॥ 474 ॥

मूलम् - 474

केवले वैष्णवे वापि तत् कुर्यात् तत्र मे श्रृणु।
पुण्यक्षणादिकं यस्मिन् दिने भवति तद्दिनात् ॥ 474 ॥

विश्वास-प्रस्तुतिः - 475

प्राक्‌सप्तमे दिने कृत्वा प्राग्वदङ्‌कुररोपणम्।
प्राग्वत् कृत्वाधिवासं तु पुरस्ताद्वासरद्वये ॥ 475 ॥

मूलम् - 475

प्राक्‌सप्तमे दिने कृत्वा प्राग्वदङ्‌कुररोपणम्।
प्राग्वत् कृत्वाधिवासं तु पुरस्ताद्वासरद्वये ॥ 475 ॥

विश्वास-प्रस्तुतिः - 476

ततः कर्मदिने ब्राह्ने मुहूर्ते स्नानकर्म च।
कृत्वा प्राग्वत् समभ्यर्च्य चतुःस्थानस्थितं विभुम् ॥ 476 ॥

मूलम् - 476

ततः कर्मदिने ब्राह्ने मुहूर्ते स्नानकर्म च।
कृत्वा प्राग्वत् समभ्यर्च्य चतुःस्थानस्थितं विभुम् ॥ 476 ॥

विश्वास-प्रस्तुतिः - 477

केवलं बिम्बगं वापि यथाकालानुरूपतः।
क्षणे तु वैष्णवे प्राप्ते पवित्रैस्तु यजेद्विभुम् ॥ 477 ॥

मूलम् - 477

केवलं बिम्बगं वापि यथाकालानुरूपतः।
क्षणे तु वैष्णवे प्राप्ते पवित्रैस्तु यजेद्विभुम् ॥ 477 ॥

विश्वास-प्रस्तुतिः - 478

यदा तु केवले बिम्बे पवित्रारोपणं भवेत्।
तदा स्याद्बिम्बगस्यैव अधिवासोक्तपूजनम् ॥ 478 ॥

मूलम् - 478

यदा तु केवले बिम्बे पवित्रारोपणं भवेत्।
तदा स्याद्बिम्बगस्यैव अधिवासोक्तपूजनम् ॥ 478 ॥

विश्वास-प्रस्तुतिः - 479

तथा वह्निगतस्यापि वर्जयेत् कुम्भमण्डले।
अतीतेऽस्मिन् मुहूर्ते तु भगवद्यागविस्तरात् ॥ 479 ॥

मूलम् - 479

तथा वह्निगतस्यापि वर्जयेत् कुम्भमण्डले।
अतीतेऽस्मिन् मुहूर्ते तु भगवद्यागविस्तरात् ॥ 479 ॥

विश्वास-प्रस्तुतिः - 480

क्षणान्तरे तु तत् कृत्वा सास्त्रमूलायुतं जपेत्।
समस्तदोषशमनमष्टाविंशतिकं जपेत् ॥ 480 ॥

मूलम् - 480

क्षणान्तरे तु तत् कृत्वा सास्त्रमूलायुतं जपेत्।
समस्तदोषशमनमष्टाविंशतिकं जपेत् ॥ 480 ॥

विश्वास-प्रस्तुतिः - 481

तिलैराज्यैरक्षतैर्वा सहस्रं जुहुयादगुरुः।
विरोधात् समतिक्रान्ते क्षणे तस्मिन् महामते! ॥ 481 ॥

मूलम् - 481

तिलैराज्यैरक्षतैर्वा सहस्रं जुहुयादगुरुः।
विरोधात् समतिक्रान्ते क्षणे तस्मिन् महामते! ॥ 481 ॥

विश्वास-प्रस्तुतिः - 482

तदन्यस्मिन् समारोप्य पवित्राणि यथाविधि।
ततस्तु पूर्वनवके प्रथमस्नपनं चरेत् ॥ 482 ॥

मूलम् - 482

तदन्यस्मिन् समारोप्य पवित्राणि यथाविधि।
ततस्तु पूर्वनवके प्रथमस्नपनं चरेत् ॥ 482 ॥

विश्वास-प्रस्तुतिः - 483

द्वितीयं वा तृतीयं वा गुरोरिच्छावशेन तु।
यद्वा मूलायुतं सास्त्रं जप्त्वा पश्चात्तिलादिकैः ॥ 483 ॥

मूलम् - 483

द्वितीयं वा तृतीयं वा गुरोरिच्छावशेन तु।
यद्वा मूलायुतं सास्त्रं जप्त्वा पश्चात्तिलादिकैः ॥ 483 ॥

विश्वास-प्रस्तुतिः - 484

आहुतीनां सहस्रं तु प्रत्येकं जुहुयात् त्रिभिः।
जपेन्मन्त्रवरं पश्चात् पञ्चाशच्चतुरुत्तरम् ॥ 484 ॥

मूलम् - 484

आहुतीनां सहस्रं तु प्रत्येकं जुहुयात् त्रिभिः।
जपेन्मन्त्रवरं पश्चात् पञ्चाशच्चतुरुत्तरम् ॥ 484 ॥

विश्वास-प्रस्तुतिः - 485

विधानमेवं कथितं स्थाने मर्त्यप्रतिष्ठिते।
स्वयंव्यक्तादिके स्थाने पवित्रारोहणादिषु ॥ 485 ॥

मूलम् - 485

विधानमेवं कथितं स्थाने मर्त्यप्रतिष्ठिते।
स्वयंव्यक्तादिके स्थाने पवित्रारोहणादिषु ॥ 485 ॥

विश्वास-प्रस्तुतिः - 486

नैमित्तिकेषु सर्वेषु नित्येष्वपि विशेषतः।
मुहूर्तातिक्रमे तत्तत्कालातिक्रमणेऽपि च ॥ 486 ॥

मूलम् - 486

नैमित्तिकेषु सर्वेषु नित्येष्वपि विशेषतः।
मुहूर्तातिक्रमे तत्तत्कालातिक्रमणेऽपि च ॥ 486 ॥

विश्वास-प्रस्तुतिः - 487

न दोषो द्विज! पूर्वोक्तस्तत्रापि च विशेषतः।
भगवद्यागविस्तारादृतेऽन्येन च केनचित् ॥ 487 ॥

मूलम् - 487

न दोषो द्विज! पूर्वोक्तस्तत्रापि च विशेषतः।
भगवद्यागविस्तारादृतेऽन्येन च केनचित् ॥ 487 ॥

विश्वास-प्रस्तुतिः - 488

विध्नानामुद्यमे तेन अतिक्रान्ते क्षणादिके।
तत्तत्कर्माखिलं कृत्वा कालेऽन्यस्मिन् यथाविधि ॥ 488 ॥

मूलम् - 488

विध्नानामुद्यमे तेन अतिक्रान्ते क्षणादिके।
तत्तत्कर्माखिलं कृत्वा कालेऽन्यस्मिन् यथाविधि ॥ 488 ॥

विश्वास-प्रस्तुतिः - 489

तद्दोषशान्तये कुर्यान्महामन्त्रजपं सुधीः।
सकृद्‌द्विधा चतुर्धा वा अष्टधा वा द्विपञ्चधा ॥ 489 ॥

मूलम् - 489

तद्दोषशान्तये कुर्यान्महामन्त्रजपं सुधीः।
सकृद्‌द्विधा चतुर्धा वा अष्टधा वा द्विपञ्चधा ॥ 489 ॥

विश्वास-प्रस्तुतिः - 490

द्विषट्‌षोडशधा वापि अष्टाविंशतिधा तु वा।
तत्तत्कर्मविशेषाणां गुरुत्वाद्यानुगुण्यतः ॥ 490 ॥

मूलम् - 490

द्विषट्‌षोडशधा वापि अष्टाविंशतिधा तु वा।
तत्तत्कर्मविशेषाणां गुरुत्वाद्यानुगुण्यतः ॥ 490 ॥

विश्वास-प्रस्तुतिः - 491

यद्वाधिकं जपं कुर्याद्यथा चित्तं प्रसीदति।
प्रायश्चित्तविशेषं तु हयूर्ध्वं वक्ष्यामि विस्तरात् ॥ 491 ॥

मूलम् - 491

यद्वाधिकं जपं कुर्याद्यथा चित्तं प्रसीदति।
प्रायश्चित्तविशेषं तु हयूर्ध्वं वक्ष्यामि विस्तरात् ॥ 491 ॥

विश्वास-प्रस्तुतिः - 492

दोषसंभावना प्रोक्ता तत्र कालावधिस्तथा।
कीर्तितो विस्तरेणैव तस्मान्नात्र प्रतन्यते ॥ 492 ॥

मूलम् - 492

दोषसंभावना प्रोक्ता तत्र कालावधिस्तथा।
कीर्तितो विस्तरेणैव तस्मान्नात्र प्रतन्यते ॥ 492 ॥

विश्वास-प्रस्तुतिः - 493

इत्येष कथितः सम्यक् पवित्रारोहणे विधिः।
कृते पवित्रके विप्र! भक्तैर्मन्त्रक्रियापरैः ॥ 493 ॥

मूलम् - 493

इत्येष कथितः सम्यक् पवित्रारोहणे विधिः।
कृते पवित्रके विप्र! भक्तैर्मन्त्रक्रियापरैः ॥ 493 ॥

विश्वास-प्रस्तुतिः - 494

कश्चिद्विशेषनियमः पालनीयः प्रयत्नतः।
यावदेकादशी शुक्ला कार्तिकस्यातिपुण्यदा ॥ 494 ॥

मूलम् - 494

कश्चिद्विशेषनियमः पालनीयः प्रयत्नतः।
यावदेकादशी शुक्ला कार्तिकस्यातिपुण्यदा ॥ 494 ॥

विश्वास-प्रस्तुतिः - 495

वक्ष्यते सूक्ष्मरूपोऽन्यः प्रकारो मुनिपुङ्गव!।
केवले बिम्बके वापि यागमन्दिरसंस्थिते ॥ 495 ॥

मूलम् - 495

वक्ष्यते सूक्ष्मरूपोऽन्यः प्रकारो मुनिपुङ्गव!।
केवले बिम्बके वापि यागमन्दिरसंस्थिते ॥ 495 ॥

विश्वास-प्रस्तुतिः - 496

प्रासादसंस्थिते वापि दशम्यामधिवासिते।
कल्पयेद्भूषणारोपं विना कलशमण्डले ॥ 496 ॥

मूलम् - 496

प्रासादसंस्थिते वापि दशम्यामधिवासिते।
कल्पयेद्भूषणारोपं विना कलशमण्डले ॥ 496 ॥

विश्वास-प्रस्तुतिः - 497

अग्निस्थेऽपि तदा कुर्यात् तत् प्राग्वदधिवासिते।
एकं द्वे त्रीणि वा दद्यात् पवित्राणि तदा विभोः ॥ 497 ॥

मूलम् - 497

अग्निस्थेऽपि तदा कुर्यात् तत् प्राग्वदधिवासिते।
एकं द्वे त्रीणि वा दद्यात् पवित्राणि तदा विभोः ॥ 497 ॥

विश्वास-प्रस्तुतिः - 498

समानीयोत्तमाद्येन भेदेन तु कृतानि वा।
द्रव्याभावो द्विजश्रेष्ठ! अशक्तिर्यदि वा भवेत् ॥ 498 ॥

मूलम् - 498

समानीयोत्तमाद्येन भेदेन तु कृतानि वा।
द्रव्याभावो द्विजश्रेष्ठ! अशक्तिर्यदि वा भवेत् ॥ 498 ॥

विश्वास-प्रस्तुतिः - 499

सद्योऽधिवासं द्वादश्यां कृत्वा शक्त्या तु कारयेत्।
सोपवासं द्विजश्रेष्ठ! अर्चायां भूषणं विभोः ॥ 499 ॥

मूलम् - 499

सद्योऽधिवासं द्वादश्यां कृत्वा शक्त्या तु कारयेत्।
सोपवासं द्विजश्रेष्ठ! अर्चायां भूषणं विभोः ॥ 499 ॥

विश्वास-प्रस्तुतिः - 500

यथेच्छाकल्पितैः सूत्रैर्ग्रन्थिभिस्तु यथेच्छया।
निशारोचनया वापि पवित्राणां च धातुना ॥ 500 ॥

मूलम् - 500

यथेच्छाकल्पितैः सूत्रैर्ग्रन्थिभिस्तु यथेच्छया।
निशारोचनया वापि पवित्राणां च धातुना ॥ 500 ॥

विश्वास-प्रस्तुतिः - 501

केनचिद्‌ग्रन्थयो(?)विप्र! विधिवत् परिरञ्जयेत्।
पुष्पपूर्णानि गर्भाणि कृत्वा वा केवलान्यतः ॥ 501 ॥

मूलम् - 501

केनचिद्‌ग्रन्थयो(?)विप्र! विधिवत् परिरञ्जयेत्।
पुष्पपूर्णानि गर्भाणि कृत्वा वा केवलान्यतः ॥ 501 ॥

विश्वास-प्रस्तुतिः - 502

प्रपूज्य पूर्ववद्‌द्विप्र! बिम्बसन्निहितं विभुम्।
निवेद्य भूषणं दद्याद्वाणीमुच्चारयेदिमाम् ॥ 502 ॥

मूलम् - 502

प्रपूज्य पूर्ववद्‌द्विप्र! बिम्बसन्निहितं विभुम्।
निवेद्य भूषणं दद्याद्वाणीमुच्चारयेदिमाम् ॥ 502 ॥

विश्वास-प्रस्तुतिः - 503

“यन्मया ब्रह्नसूत्रं च कल्पितं ग्राहयस्व च।
कर्मणां पूरणार्थाय, यथा दोषो न मे भवेत्” ॥ 503 ॥

मूलम् - 503

“यन्मया ब्रह्नसूत्रं च कल्पितं ग्राहयस्व च।
कर्मणां पूरणार्थाय, यथा दोषो न मे भवेत्” ॥ 503 ॥

विश्वास-प्रस्तुतिः - 504

इत्युक्त्वा च ततो दद्यात् पूज्योपरि पवित्रकम्।
स्तुत्वा च देवदेवेशं द्वितीयेऽह्नि प्रयत्नतः ॥ 504 ॥

मूलम् - 504

इत्युक्त्वा च ततो दद्यात् पूज्योपरि पवित्रकम्।
स्तुत्वा च देवदेवेशं द्वितीयेऽह्नि प्रयत्नतः ॥ 504 ॥

विश्वास-प्रस्तुतिः - 505

पूजयित्वाथ देवेशं कुर्यात् तदुपसंहृतिम्।
गृहे पवित्रयागे तु विशेषमधुनोच्यते ॥ 505 ॥

मूलम् - 505

पूजयित्वाथ देवेशं कुर्यात् तदुपसंहृतिम्।
गृहे पवित्रयागे तु विशेषमधुनोच्यते ॥ 505 ॥

विश्वास-प्रस्तुतिः - 506

बिम्बस्थे मण्डलस्थे वा चतुस्स्थानस्थितेऽपि वा।
पवित्राणां त्रयं दद्यादेकैकं वा यथेच्छया ॥ 506 ॥

मूलम् - 506

बिम्बस्थे मण्डलस्थे वा चतुस्स्थानस्थितेऽपि वा।
पवित्राणां त्रयं दद्यादेकैकं वा यथेच्छया ॥ 506 ॥

विश्वास-प्रस्तुतिः - 507

इत्युक्तं योगिनां श्रेष्ठ! पवित्रारोहणं परम्।
ऊनातिरिक्ताद्यत् पाति भुवि भक्तजनं सदा ॥ 507 ॥

मूलम् - 507

इत्युक्तं योगिनां श्रेष्ठ! पवित्रारोहणं परम्।
ऊनातिरिक्ताद्यत् पाति भुवि भक्तजनं सदा ॥ 507 ॥

विश्वास-प्रस्तुतिः - 508

तस्य निर्वर्तनाद्भक्त्या ब्राह्नणो वेदविद्भवेत्।
श्रीमानत्युग्रशक्तिर्वै क्षत्रियोऽन्छिन्नसन्ततिः ॥ 508 ॥

मूलम् - 508

तस्य निर्वर्तनाद्भक्त्या ब्राह्नणो वेदविद्भवेत्।
श्रीमानत्युग्रशक्तिर्वै क्षत्रियोऽन्छिन्नसन्ततिः ॥ 508 ॥

विश्वास-प्रस्तुतिः - 509

धनधान्ययुतो वैश्यः शूद्रस्तु सुखभाग्भवेत्।
गोभूहिरण्यदानानामनन्तानां हि यत् फलम् ॥ 509 ॥

मूलम् - 509

धनधान्ययुतो वैश्यः शूद्रस्तु सुखभाग्भवेत्।
गोभूहिरण्यदानानामनन्तानां हि यत् फलम् ॥ 509 ॥

विश्वास-प्रस्तुतिः - 510

यावज्जीवं प्रदत्तानां प्रत्यहं तत् समाः शतम्।
परमायुश्च संपूर्णं तत् फलं प्राप्नुयान्नरः ॥ 510 ॥

मूलम् - 510

यावज्जीवं प्रदत्तानां प्रत्यहं तत् समाः शतम्।
परमायुश्च संपूर्णं तत् फलं प्राप्नुयान्नरः ॥ 510 ॥

विश्वास-प्रस्तुतिः - 511

प्राप्तकालं स्वबुद्ध्या तु आसाद्यायतनं हरेः।
स्मरन् सर्वेश्वरं सम्यक् समुत्सृजति विग्रहम् ॥ 511 ॥

मूलम् - 511

प्राप्तकालं स्वबुद्ध्या तु आसाद्यायतनं हरेः।
स्मरन् सर्वेश्वरं सम्यक् समुत्सृजति विग्रहम् ॥ 511 ॥

विश्वास-प्रस्तुतिः - 512

यानैश्चन्द्रप्रकाशैश्च दिव्यस्त्रीजनसङ्‌घकैः।
वीज्यमानो दिवं याति पूज्यमानस्तथाऽमरैः ॥ 512 ॥

मूलम् - 512

यानैश्चन्द्रप्रकाशैश्च दिव्यस्त्रीजनसङ्‌घकैः।
वीज्यमानो दिवं याति पूज्यमानस्तथाऽमरैः ॥ 512 ॥

विश्वास-प्रस्तुतिः - 513

भुञ्जीत सकलान् भोगान् सर्वलोकान्तरोद्भवान्।
यः कुर्याद्‌भूषणारोपं निष्कामः प्रीतये विभोः ॥ 513 ॥

मूलम् - 513

भुञ्जीत सकलान् भोगान् सर्वलोकान्तरोद्भवान्।
यः कुर्याद्‌भूषणारोपं निष्कामः प्रीतये विभोः ॥ 513 ॥

विश्वास-प्रस्तुतिः - 514

संप्राप्य विष्णुलोकं स आस्ते कल्पशतान् बहून्।
कालेन महतासाद्य मानुष्यं पुनरेव हि ॥ 514 ॥

मूलम् - 514

संप्राप्य विष्णुलोकं स आस्ते कल्पशतान् बहून्।
कालेन महतासाद्य मानुष्यं पुनरेव हि ॥ 514 ॥

विश्वास-प्रस्तुतिः - 515

शुभे काले शुभे देशे जायते सुशुभे कुले।
निवृत्ते बालभावे तु व्यक्ते करणसङ्‌ग्रहे ॥ 515 ॥

मूलम् - 515

शुभे काले शुभे देशे जायते सुशुभे कुले।
निवृत्ते बालभावे तु व्यक्ते करणसङ्‌ग्रहे ॥ 515 ॥

विश्वास-प्रस्तुतिः - 516

बुद्धितत्वे प्रबुद्धे तु ऋगभ्यासवशात्तु वै।
कर्मणा मनसा वाचा नारायणपरो भवेत् ॥ 516 ॥

मूलम् - 516

बुद्धितत्वे प्रबुद्धे तु ऋगभ्यासवशात्तु वै।
कर्मणा मनसा वाचा नारायणपरो भवेत् ॥ 516 ॥

विश्वास-प्रस्तुतिः - 517

नित्यं क्रियापरो धीमान् ब्रह्नण्यः सत्यविक्रमः।
अनन्ययाजी शुद्धात्मा दुष्टसङ्गविवर्जितः ॥ 517 ॥

मूलम् - 517

नित्यं क्रियापरो धीमान् ब्रह्नण्यः सत्यविक्रमः।
अनन्ययाजी शुद्धात्मा दुष्टसङ्गविवर्जितः ॥ 517 ॥

विश्वास-प्रस्तुतिः - 518

व्याधिशोकविनिर्मुक्तः पुत्रदारादिकैर्युतः।
अपमृत्युविनिर्मुक्तो ज्ञानमासाद्य निर्मलम् ॥ 518 ॥

मूलम् - 518

व्याधिशोकविनिर्मुक्तः पुत्रदारादिकैर्युतः।
अपमृत्युविनिर्मुक्तो ज्ञानमासाद्य निर्मलम् ॥ 518 ॥

विश्वास-प्रस्तुतिः - 519

श्वेतद्वीपं समासाद्य सुराणां यत् सुदुर्लभम्।
ज्ञानिनामपि चान्येषां तत्र दृष्ट्वा जगत्पतिम् ॥ 519 ॥

मूलम् - 519

श्वेतद्वीपं समासाद्य सुराणां यत् सुदुर्लभम्।
ज्ञानिनामपि चान्येषां तत्र दृष्ट्वा जगत्पतिम् ॥ 519 ॥

विश्वास-प्रस्तुतिः - 520

परब्रह्नत्वमायाति तत्कर्मपरमः पुमान्।
पश्यन्त्यारोप्यमाणं ये ब्रह्नसूत्रं जगत्प्रभोः ॥ 520 ॥

मूलम् - 520

परब्रह्नत्वमायाति तत्कर्मपरमः पुमान्।
पश्यन्त्यारोप्यमाणं ये ब्रह्नसूत्रं जगत्प्रभोः ॥ 520 ॥

विश्वास-प्रस्तुतिः - 521

तथानुमोदन्त्यन्योन्यं यान्ति ते परमां गतिम्।
श्रृण्वन्ति ये विधानं तु पवित्रं पापनाशनम् ॥ 521 ॥

मूलम् - 521

तथानुमोदन्त्यन्योन्यं यान्ति ते परमां गतिम्।
श्रृण्वन्ति ये विधानं तु पवित्रं पापनाशनम् ॥ 521 ॥

विश्वास-प्रस्तुतिः - 522

प्राप्नुवन्ति च ते पुण्यमिष्टापूर्तोदितं हि यत्।
नारी ह्यनन्यशरणा पतिना परिचोदिता ॥ 522 ॥

मूलम् - 522

प्राप्नुवन्ति च ते पुण्यमिष्टापूर्तोदितं हि यत्।
नारी ह्यनन्यशरणा पतिना परिचोदिता ॥ 522 ॥

विश्वास-प्रस्तुतिः - 523

तद्भक्ता सद्‌गुणा साध्वी कर्मणा मनसा गिरा।
नित्यं भर्तरि चाद्रोहा प्रयाता सह तेन वै ॥ 523 ॥

मूलम् - 523

तद्भक्ता सद्‌गुणा साध्वी कर्मणा मनसा गिरा।
नित्यं भर्तरि चाद्रोहा प्रयाता सह तेन वै ॥ 523 ॥

विश्वास-प्रस्तुतिः - 524

पवित्रकं जगद्योनेरारोपयति वा द्विज!।
सातुलं चैव सौभाग्यं प्राप्नुयादचिरेण तु ॥ 524 ॥

मूलम् - 524

पवित्रकं जगद्योनेरारोपयति वा द्विज!।
सातुलं चैव सौभाग्यं प्राप्नुयादचिरेण तु ॥ 524 ॥

विश्वास-प्रस्तुतिः - 525

देहान्ते देवनारीणां देवानां याति पूज्यताम्।
सा त्वरुन्धतिपूर्वाणामर्वाक् समभिवीक्ष्यते ॥ 525 ॥

मूलम् - 525

देहान्ते देवनारीणां देवानां याति पूज्यताम्।
सा त्वरुन्धतिपूर्वाणामर्वाक् समभिवीक्ष्यते ॥ 525 ॥

विश्वास-प्रस्तुतिः - 526

ज्ञानमासादयत्यन्ते येन यात्यच्युतं पदम्।
प्रोत्तारयति बन्धूनां दुष्कृतेभ्योऽब्जसंभव! ॥ 526 ॥

मूलम् - 526

ज्ञानमासादयत्यन्ते येन यात्यच्युतं पदम्।
प्रोत्तारयति बन्धूनां दुष्कृतेभ्योऽब्जसंभव! ॥ 526 ॥

विश्वास-प्रस्तुतिः - 527

पितॄणां जनकादीनां नाम्ना स्नेहपरस्तु यः।
ददाति भूषणं विप्र! मन्त्री मन्त्रात्मनो विभोः ॥ 527 ॥

मूलम् - 527

पितॄणां जनकादीनां नाम्ना स्नेहपरस्तु यः।
ददाति भूषणं विप्र! मन्त्री मन्त्रात्मनो विभोः ॥ 527 ॥

विश्वास-प्रस्तुतिः - 528

दुर्गतेः सुगतिं यान्ति द्युसिन्धोरस्थिना यथा।
यथा सुराणाममृतं नृणं गाङ्गं यथा जलम् ॥ 528 ॥

मूलम् - 528

दुर्गतेः सुगतिं यान्ति द्युसिन्धोरस्थिना यथा।
यथा सुराणाममृतं नृणं गाङ्गं यथा जलम् ॥ 528 ॥

विश्वास-प्रस्तुतिः - 529

स्वधा यथा पितॄणां च कर्मिणां तद्वदेव हि।
पवित्रकं क्रियाढ्यानां पावनं भूतिवर्धनम् ॥ 529 ॥

मूलम् - 529

स्वधा यथा पितॄणां च कर्मिणां तद्वदेव हि।
पवित्रकं क्रियाढ्यानां पावनं भूतिवर्धनम् ॥ 529 ॥

विश्वास-प्रस्तुतिः - 530

सर्वदोषभयघ्नं च सर्वोपद्रवनाशनम्।
सर्वसौख्यप्रदं चैव सर्वगुह्यप्रकाशनम् ॥ 530 ॥

मूलम् - 530

सर्वदोषभयघ्नं च सर्वोपद्रवनाशनम्।
सर्वसौख्यप्रदं चैव सर्वगुह्यप्रकाशनम् ॥ 530 ॥

विश्वास-प्रस्तुतिः - 531

तपोदानव्रतानां च विहितस्याह्निकस्य च।
निश्शेषयागभोगानां कृत्वा संपूरणक्रियाम् ॥ 531 ॥

मूलम् - 531

तपोदानव्रतानां च विहितस्याह्निकस्य च।
निश्शेषयागभोगानां कृत्वा संपूरणक्रियाम् ॥ 531 ॥

विश्वास-प्रस्तुतिः - 532

अपरेऽहनि वै कुर्याच्चतुर्थे सप्तमेऽपि वा।
स्नपनं पूज्यमन्त्रस्य तीर्थोद्देशेऽथ सङ्गमे ॥ 532 ॥

मूलम् - 532

अपरेऽहनि वै कुर्याच्चतुर्थे सप्तमेऽपि वा।
स्नपनं पूज्यमन्त्रस्य तीर्थोद्देशेऽथ सङ्गमे ॥ 532 ॥

विश्वास-प्रस्तुतिः - 533

नद्यां समुद्रगामिन्यां देवखाते ह्रदे तु वा।
प्रीतये परमेशस्य त्वात्मनो दुःखहानये ॥ 533 ॥

मूलम् - 533

नद्यां समुद्रगामिन्यां देवखाते ह्रदे तु वा।
प्रीतये परमेशस्य त्वात्मनो दुःखहानये ॥ 533 ॥

विश्वास-प्रस्तुतिः - 534

आह्‌लादायामराणां च पितॄणां तृप्तये तु वै।
आप्यायनार्थं भूतानां भुवनानां च भूतये ॥ 534 ॥

मूलम् - 534

आह्‌लादायामराणां च पितॄणां तृप्तये तु वै।
आप्यायनार्थं भूतानां भुवनानां च भूतये ॥ 534 ॥

विश्वास-प्रस्तुतिः - 535

देशदोषप्रशान्त्यर्थं गोब्राह्नणहिताय वै।
यथावत् स्रपनं कुर्यात्रीर्थबिम्बे विशेषतः ॥ 535 ॥

मूलम् - 535

देशदोषप्रशान्त्यर्थं गोब्राह्नणहिताय वै।
यथावत् स्रपनं कुर्यात्रीर्थबिम्बे विशेषतः ॥ 535 ॥

विश्वास-प्रस्तुतिः - 536

नित्यस्नपनबिम्बे वा कुर्यात्तत्तदसन्निधौ।
नित्योत्सवपरे बिम्बे ह्याचरेत्तदसन्निधौ ॥ 536 ॥

मूलम् - 536

नित्यस्नपनबिम्बे वा कुर्यात्तत्तदसन्निधौ।
नित्योत्सवपरे बिम्बे ह्याचरेत्तदसन्निधौ ॥ 536 ॥

विश्वास-प्रस्तुतिः - 537

तदभावे पवित्रे तु दर्भमञ्जरिजे शुभे।
विधानमत्र मे सम्यक् श्रृणु विप्र! समाहितः ॥ 537 ॥

मूलम् - 537

तदभावे पवित्रे तु दर्भमञ्जरिजे शुभे।
विधानमत्र मे सम्यक् श्रृणु विप्र! समाहितः ॥ 537 ॥

विश्वास-प्रस्तुतिः - 538

बहुशाखमभग्नाग्रं समूलं यदपुष्पितम्।
प्राङ्‌मुखो दर्भमादाय प्रणवेन पुरा क्षितेः ॥ 538 ॥

मूलम् - 538

बहुशाखमभग्नाग्रं समूलं यदपुष्पितम्।
प्राङ्‌मुखो दर्भमादाय प्रणवेन पुरा क्षितेः ॥ 538 ॥

विश्वास-प्रस्तुतिः - 539

ततस्तेनैव तन्मूलं प्राग्वत् कुर्यादधिष्ठितम्।
तस्य मद्यमनालं यन्न्यग्भूतमवतिष्ठते ॥ 539 ॥

मूलम् - 539

ततस्तेनैव तन्मूलं प्राग्वत् कुर्यादधिष्ठितम्।
तस्य मद्यमनालं यन्न्यग्भूतमवतिष्ठते ॥ 539 ॥

विश्वास-प्रस्तुतिः - 540

आराध्य मन्त्रनाथेन स्मरेद्व्याप्तं महात्मना।
विवर्तं परमात्मीयमध्यक्षाख्यं च विद्धि तम् ॥ 540 ॥

मूलम् - 540

आराध्य मन्त्रनाथेन स्मरेद्व्याप्तं महात्मना।
विवर्तं परमात्मीयमध्यक्षाख्यं च विद्धि तम् ॥ 540 ॥

विश्वास-प्रस्तुतिः - 541

अनेकगर्भमुच्चं यत् काण्डं काण्डेषु चोत्तमम्।
अणिमादिगुणैर्युक्तं पुंस्तत्वं तेन कल्प्यते ॥ 541 ॥

मूलम् - 541

अनेकगर्भमुच्चं यत् काण्डं काण्डेषु चोत्तमम्।
अणिमादिगुणैर्युक्तं पुंस्तत्वं तेन कल्प्यते ॥ 541 ॥

विश्वास-प्रस्तुतिः - 542

वाचकं तस्य योक्तव्यं हंसयुक्तं द्विलक्षणम्।
बहिष्काण्डचतुष्केण चित्तपूर्वं चतुष्टयम् ॥ 542 ॥

मूलम् - 542

वाचकं तस्य योक्तव्यं हंसयुक्तं द्विलक्षणम्।
बहिष्काण्डचतुष्केण चित्तपूर्वं चतुष्टयम् ॥ 542 ॥

विश्वास-प्रस्तुतिः - 543

ग्रथनीयमथो वक्त्रमव्यक्तान्तं स्वकैः पदैः।
प्रणवादिनमोन्तैस्तु व्यापकं सूक्ष्मलक्षणम् ॥ 543 ॥

मूलम् - 543

ग्रथनीयमथो वक्त्रमव्यक्तान्तं स्वकैः पदैः।
प्रणवादिनमोन्तैस्तु व्यापकं सूक्ष्मलक्षणम् ॥ 543 ॥

विश्वास-प्रस्तुतिः - 544

एवं श्रोत्रादिकान् पञ्च स्वनाम्ना ग्रथयेत्तदा।
कर्मेन्द्रियाणि तदनु ततस्तन्मात्रपञ्चकम् ॥ 544 ॥

मूलम् - 544

एवं श्रोत्रादिकान् पञ्च स्वनाम्ना ग्रथयेत्तदा।
कर्मेन्द्रियाणि तदनु ततस्तन्मात्रपञ्चकम् ॥ 544 ॥

विश्वास-प्रस्तुतिः - 545

पञ्चकं त्वथ भूतानां बद्‌ध्वा वै क्ष्मावसानिकम्।
अवशिष्टैस्तु तत्काण्डैर्बध्नीयात्तु करण्डवत् ॥ 545 ॥

मूलम् - 545

पञ्चकं त्वथ भूतानां बद्‌ध्वा वै क्ष्मावसानिकम्।
अवशिष्टैस्तु तत्काण्डैर्बध्नीयात्तु करण्डवत् ॥ 545 ॥

विश्वास-प्रस्तुतिः - 546

विना शिखासमूहेन समुत्थानावधेरथ।
किञ्चित्तदूर्ध्वदेशाच्च यथा नो याति वै पुनः ॥ 546 ॥

मूलम् - 546

विना शिखासमूहेन समुत्थानावधेरथ।
किञ्चित्तदूर्ध्वदेशाच्च यथा नो याति वै पुनः ॥ 546 ॥

विश्वास-प्रस्तुतिः - 547

बहुधा काण्डसङ्‌घस्तु कल्पितस्तत्त्वसंख्यया।
विभिन्नानां च काण्डानां भङ्गादेकतरस्य च ॥ 547 ॥

मूलम् - 547

बहुधा काण्डसङ्‌घस्तु कल्पितस्तत्त्वसंख्यया।
विभिन्नानां च काण्डानां भङ्गादेकतरस्य च ॥ 547 ॥

विश्वास-प्रस्तुतिः - 548

उत्पद्यतेऽन्यथात्वं च तस्मात्तद्‌ग्रथयेद्‌दृढम्।
दर्भमञ्जरिजं त्वेवं सम्पाद्यादौ पवित्रकम् ॥ 548 ॥

मूलम् - 548

उत्पद्यतेऽन्यथात्वं च तस्मात्तद्‌ग्रथयेद्‌दृढम्।
दर्भमञ्जरिजं त्वेवं सम्पाद्यादौ पवित्रकम् ॥ 548 ॥

विश्वास-प्रस्तुतिः - 549

अनुसन्धीयते तत्र मान्त्रध्यानं यथास्थितम्।
पूजयित्वार्घ्यपुष्पाद्यैरलङ्कत्य पठेदिदम् ॥ 549 ॥

मूलम् - 549

अनुसन्धीयते तत्र मान्त्रध्यानं यथास्थितम्।
पूजयित्वार्घ्यपुष्पाद्यैरलङ्कत्य पठेदिदम् ॥ 549 ॥

विश्वास-प्रस्तुतिः - 550

“त्वमेव तीर्थं भगवंस्त्वमेवायतनं परम्।
त्वयैवाधिष्ठितं सर्वमिदं जानामि तत्त्वतः ॥ 550 ॥

मूलम् - 550

“त्वमेव तीर्थं भगवंस्त्वमेवायतनं परम्।
त्वयैवाधिष्ठितं सर्वमिदं जानामि तत्त्वतः ॥ 550 ॥

विश्वास-प्रस्तुतिः - 551

तत्रापि च त्वया दिष्टं क्रियाकाण्डं शुभप्रदम्।
यत्तन्निर्वाहयाम्यद्य त्वदनुग्रहकाम्यया” ॥ 551 ॥

मूलम् - 551

तत्रापि च त्वया दिष्टं क्रियाकाण्डं शुभप्रदम्।
यत्तन्निर्वाहयाम्यद्य त्वदनुग्रहकाम्यया” ॥ 551 ॥

विश्वास-प्रस्तुतिः - 552

एवं विज्ञाप्य भगवन्! मन्त्रमूर्तिं परात्परम्।
तत्पत्रपात्रगं कृत्वा ब्रह्नयानगतं तु वा ॥ 552 ॥

मूलम् - 552

एवं विज्ञाप्य भगवन्! मन्त्रमूर्तिं परात्परम्।
तत्पत्रपात्रगं कृत्वा ब्रह्नयानगतं तु वा ॥ 552 ॥

विश्वास-प्रस्तुतिः - 553

वेदगेयध्वनीशङ्खशब्दमङ्गलपूर्वकम्।
नीत्वा तीर्थान्तिकं तत्र तीरदेशे निधाय च ॥ 553 ॥

मूलम् - 553

वेदगेयध्वनीशङ्खशब्दमङ्गलपूर्वकम्।
नीत्वा तीर्थान्तिकं तत्र तीरदेशे निधाय च ॥ 553 ॥

विश्वास-प्रस्तुतिः - 554

पूर्वामुखं च तद्यानमादाय च पवित्रकम्।
वामहस्ततले कुर्यात् क्ष्मामण्डलगतं त्विव ॥ 554 ॥

मूलम् - 554

पूर्वामुखं च तद्यानमादाय च पवित्रकम्।
वामहस्ततले कुर्यात् क्ष्मामण्डलगतं त्विव ॥ 554 ॥

विश्वास-प्रस्तुतिः - 555

विधृयान्मध्यभागाच्च पाणिना दक्षिणेन तु।
अवतीर्याम्भसो मध्यं निमज्जेत् सह तेन वै ॥ 555 ॥

मूलम् - 555

विधृयान्मध्यभागाच्च पाणिना दक्षिणेन तु।
अवतीर्याम्भसो मध्यं निमज्जेत् सह तेन वै ॥ 555 ॥

विश्वास-प्रस्तुतिः - 556

सन्निधिं तत्र तत्कालं प्रकुर्वन्त्यचिरात्तु वै।
निश्शेषाणि च तीर्थानि लोकत्रयगतानि च ॥ 556 ॥

मूलम् - 556

सन्निधिं तत्र तत्कालं प्रकुर्वन्त्यचिरात्तु वै।
निश्शेषाणि च तीर्थानि लोकत्रयगतानि च ॥ 556 ॥

विश्वास-प्रस्तुतिः - 557

मन्त्रात्मा यत्र रक्षार्थं क्षणमास्ते जलाशये।
तत्रायतनतीर्थानां सर्वेषां स्यात् समागमः ॥ 557 ॥

मूलम् - 557

मन्त्रात्मा यत्र रक्षार्थं क्षणमास्ते जलाशये।
तत्रायतनतीर्थानां सर्वेषां स्यात् समागमः ॥ 557 ॥

विश्वास-प्रस्तुतिः - 558

किं पुनर्यत्र भगवान् मन्त्रमूर्तिरधोक्षजः।
साधकाभ्यर्थितः स्नायात् सर्वानुग्रहया धिया ॥ 558 ॥

मूलम् - 558

किं पुनर्यत्र भगवान् मन्त्रमूर्तिरधोक्षजः।
साधकाभ्यर्थितः स्नायात् सर्वानुग्रहया धिया ॥ 558 ॥

विश्वास-प्रस्तुतिः - 559

विद्वान् योऽनेन विधिना तीर्थमासाद्य तत्ववित्।
स्नापयेद्बान्धवादीनां प्राप्नुवन्त्यचिराच्च ते ॥ 559 ॥

मूलम् - 559

विद्वान् योऽनेन विधिना तीर्थमासाद्य तत्ववित्।
स्नापयेद्बान्धवादीनां प्राप्नुवन्त्यचिराच्च ते ॥ 559 ॥

विश्वास-प्रस्तुतिः - 560

तैर्थं फलमनायासान्मन्त्रमूर्तेः प्रसादतः।
किं तु तद्यानवादित्रवर्जितस्तु भवेद्विधिः ॥ 560 ॥

मूलम् - 560

तैर्थं फलमनायासान्मन्त्रमूर्तेः प्रसादतः।
किं तु तद्यानवादित्रवर्जितस्तु भवेद्विधिः ॥ 560 ॥

विश्वास-प्रस्तुतिः - 561

इमं विद्धि महाबुद्धे! विशेषं चात्र कर्मणि।
सामान्यमविनाशं यच्चिन्मयं रूपवर्जितम् ॥ 561 ॥

मूलम् - 561

इमं विद्धि महाबुद्धे! विशेषं चात्र कर्मणि।
सामान्यमविनाशं यच्चिन्मयं रूपवर्जितम् ॥ 561 ॥

विश्वास-प्रस्तुतिः - 562

विशेषज्ञानसंबद्धं जीवहंसं विभाव्य तम्।
पवित्रकं तदाकारं स्मृत्वाऽऽप्लाव्यं ततोऽम्भसा ॥ 562 ॥

मूलम् - 562

विशेषज्ञानसंबद्धं जीवहंसं विभाव्य तम्।
पवित्रकं तदाकारं स्मृत्वाऽऽप्लाव्यं ततोऽम्भसा ॥ 562 ॥

विश्वास-प्रस्तुतिः - 563

एवं तेनैव चान्येषां बहूनां बहुभिस्तु वा।
सम्पाद्यं विष्टरे स्नानं दूरस्थानां सदैव हि ॥ 563 ॥

मूलम् - 563

एवं तेनैव चान्येषां बहूनां बहुभिस्तु वा।
सम्पाद्यं विष्टरे स्नानं दूरस्थानां सदैव हि ॥ 563 ॥

विश्वास-प्रस्तुतिः - 564

सम्पन्ने स्नपने त्वेवं द्वितीयेऽह्नि महामते!।
रथे कृत्वार्चिते तं वै प्रपूज्य च यथाविधि ॥ 564 ॥

मूलम् - 564

सम्पन्ने स्नपने त्वेवं द्वितीयेऽह्नि महामते!।
रथे कृत्वार्चिते तं वै प्रपूज्य च यथाविधि ॥ 564 ॥

विश्वास-प्रस्तुतिः - 565

यात्राख्यमुत्सवं कुर्यादन्नदानपुरस्सरम्।
सनृत्तगेयवादित्रं जागरेण समन्वितम् ॥ 565 ॥

मूलम् - 565

यात्राख्यमुत्सवं कुर्यादन्नदानपुरस्सरम्।
सनृत्तगेयवादित्रं जागरेण समन्वितम् ॥ 565 ॥

विश्वास-प्रस्तुतिः - 566

एकरात्रं द्विरात्रं वा त्निरात्रं भक्तिपूर्वकम्।
सकृत् संवत्सरस्यान्ते तूत्सवं स्नपनादिकम् ॥ 566 ॥

मूलम् - 566

एकरात्रं द्विरात्रं वा त्निरात्रं भक्तिपूर्वकम्।
सकृत् संवत्सरस्यान्ते तूत्सवं स्नपनादिकम् ॥ 566 ॥

विश्वास-प्रस्तुतिः - 567

कुर्याद्यो मन्त्रनाथस्य स सिद्धिं लभते पराम्।
प्रस्वापे च प्रबोधे च हयुत्सवे वत्सरीयके ॥ 567 ॥

मूलम् - 567

कुर्याद्यो मन्त्रनाथस्य स सिद्धिं लभते पराम्।
प्रस्वापे च प्रबोधे च हयुत्सवे वत्सरीयके ॥ 567 ॥

विश्वास-प्रस्तुतिः - 568

तथा सहस्रकलशैरबिषेकविधावपि।
अङ्‌कुरारोपणे चैव मन्त्राह्गाभरणे द्विज! ॥ 568 ॥

मूलम् - 568

तथा सहस्रकलशैरबिषेकविधावपि।
अङ्‌कुरारोपणे चैव मन्त्राह्गाभरणे द्विज! ॥ 568 ॥

विश्वास-प्रस्तुतिः - 569

विविधासु प्रतिष्ठासु जीर्णोद्धारविधावपि।
प्रायश्चित्तेषु मुख्येषु तुलाभारादिकेऽपि च ॥ 569 ॥

मूलम् - 569

विविधासु प्रतिष्ठासु जीर्णोद्धारविधावपि।
प्रायश्चित्तेषु मुख्येषु तुलाभारादिकेऽपि च ॥ 569 ॥

विश्वास-प्रस्तुतिः - 570

एवमादिनिमित्तेषु काम्येष्वपि तथैव च।
द्वादश्यादिषु कालेषु कल्पयेद्यागपूर्वकम् ॥ 570 ॥

मूलम् - 570

एवमादिनिमित्तेषु काम्येष्वपि तथैव च।
द्वादश्यादिषु कालेषु कल्पयेद्यागपूर्वकम् ॥ 570 ॥

विश्वास-प्रस्तुतिः - 571

यागमण्डपविन्यासं चतुस्स्थानार्चनक्रियाम्।
तत्रायं हि विशेषः स्यात् पूर्वेद्युः कर्मवासरात् ॥ 571 ॥

मूलम् - 571

यागमण्डपविन्यासं चतुस्स्थानार्चनक्रियाम्।
तत्रायं हि विशेषः स्यात् पूर्वेद्युः कर्मवासरात् ॥ 571 ॥

विश्वास-प्रस्तुतिः - 572

रजन्यामधिवासःस्यात् प्रभाते कर्म तद्भवेत्।
उत्सवेषु तदारम्भवासरे ह्यधिवासनम् ॥ 572 ॥

मूलम् - 572

रजन्यामधिवासःस्यात् प्रभाते कर्म तद्भवेत्।
उत्सवेषु तदारम्भवासरे ह्यधिवासनम् ॥ 572 ॥

विश्वास-प्रस्तुतिः - 573

तद्रात्रौ कर्म कुर्वीत कुम्भाद्यर्चनपूर्वकम्।
पुष्पयागेषु विप्रेन्द्र! कुर्यात् सद्योऽधिवासनम् ॥ 573 ॥

मूलम् - 573

तद्रात्रौ कर्म कुर्वीत कुम्भाद्यर्चनपूर्वकम्।
पुष्पयागेषु विप्रेन्द्र! कुर्यात् सद्योऽधिवासनम् ॥ 573 ॥

विश्वास-प्रस्तुतिः - 574

संप्रोक्षणे च पूर्वं तु दहनाप्यायनात्मकम्।
स्याद्वा सर्वत्र तत् सद्यो देशकालानुरूपतः ॥ 574 ॥

मूलम् - 574

संप्रोक्षणे च पूर्वं तु दहनाप्यायनात्मकम्।
स्याद्वा सर्वत्र तत् सद्यो देशकालानुरूपतः ॥ 574 ॥

विश्वास-प्रस्तुतिः - 575

प्रस्वापे स्वस्तिकं नाम कुर्याद्यागवरं द्विज!।
प्रबोधे तु विवेकाख्यं व्यूहेष्वेकतमं तु वा ॥ 575 ॥

मूलम् - 575

प्रस्वापे स्वस्तिकं नाम कुर्याद्यागवरं द्विज!।
प्रबोधे तु विवेकाख्यं व्यूहेष्वेकतमं तु वा ॥ 575 ॥

विश्वास-प्रस्तुतिः - 576

उत्सवे ह्येकपझं वा नैकाब्जं चक्रपङ्कजम्।
भूषितं परितो विप्र! केवलः परशूपमैः ॥ 576 ॥

मूलम् - 576

उत्सवे ह्येकपझं वा नैकाब्जं चक्रपङ्कजम्।
भूषितं परितो विप्र! केवलः परशूपमैः ॥ 576 ॥

विश्वास-प्रस्तुतिः - 577

कर्तर्यन्तरितैर्वापि यद्वा पझदलोपमैः।
इन्दीवरदलाकारैर्यववल्मीकरूपकैः ॥ 577 ॥

मूलम् - 577

कर्तर्यन्तरितैर्वापि यद्वा पझदलोपमैः।
इन्दीवरदलाकारैर्यववल्मीकरूपकैः ॥ 577 ॥

विश्वास-प्रस्तुतिः - 578

यागं वा नवनाभाख्यं यागानामुत्तमोहि सः।
यद्वा कुम्भोदरान्तानां वृत्तादीनां क्रमेण तु ॥ 578 ॥

मूलम् - 578

यागं वा नवनाभाख्यं यागानामुत्तमोहि सः।
यद्वा कुम्भोदरान्तानां वृत्तादीनां क्रमेण तु ॥ 578 ॥

विश्वास-प्रस्तुतिः - 579

नवानामपि बिम्बानामेकैकं प्रतिवासरम्।
प्रथमाहात् समारभ्य यावन्नवमवासरम् ॥ 579 ॥

मूलम् - 579

नवानामपि बिम्बानामेकैकं प्रतिवासरम्।
प्रथमाहात् समारभ्य यावन्नवमवासरम् ॥ 579 ॥

विश्वास-प्रस्तुतिः - 580

यागं व्यूहाभिधानं वा नवभिः पङ्कजैर्युतम्।
अथ व्यूहाच्चतुष्पझाद् यावदष्टसरोरुहम् ॥ 580 ॥

मूलम् - 580

यागं व्यूहाभिधानं वा नवभिः पङ्कजैर्युतम्।
अथ व्यूहाच्चतुष्पझाद् यावदष्टसरोरुहम् ॥ 580 ॥

विश्वास-प्रस्तुतिः - 581

नवानां व्यूहयागानामेकैकं च क्रमेण तु।
नियमो नवसंख्याख्यस्तत्संख्ये स्यान्महोत्सवे ॥ 581 ॥

मूलम् - 581

नवानां व्यूहयागानामेकैकं च क्रमेण तु।
नियमो नवसंख्याख्यस्तत्संख्ये स्यान्महोत्सवे ॥ 581 ॥

विश्वास-प्रस्तुतिः - 582

न्यूनाधिकदिनेऽन्यस्मिन्नुत्सवे नववासरे।
द्वयोरप्येकपझादिविधिः साधारणो भवेत् ॥ 582 ॥

मूलम् - 582

न्यूनाधिकदिनेऽन्यस्मिन्नुत्सवे नववासरे।
द्वयोरप्येकपझादिविधिः साधारणो भवेत् ॥ 582 ॥

विश्वास-प्रस्तुतिः - 583

सर्वदा पुष्पयागे तु मातुलुङ्गोपमाऽरकैः।
युक्तं चक्राम्बुजं कुर्यादनन्तकलशे द्विज! ॥ 583 ॥

मूलम् - 583

सर्वदा पुष्पयागे तु मातुलुङ्गोपमाऽरकैः।
युक्तं चक्राम्बुजं कुर्यादनन्तकलशे द्विज! ॥ 583 ॥

विश्वास-प्रस्तुतिः - 584

चक्राम्बुजं चाभिमतमङकुरारोपणे तथा।
विविधासु प्रतिष्ठासु चक्राब्जे संयजेद्विभुम् ॥ 584 ॥

मूलम् - 584

चक्राम्बुजं चाभिमतमङकुरारोपणे तथा।
विविधासु प्रतिष्ठासु चक्राब्जे संयजेद्विभुम् ॥ 584 ॥

विश्वास-प्रस्तुतिः - 585

यथाभिमतरूपे तु व्यूहे वाभीप्सिते द्विज!।
भूतावासाह्वये वापि धरुवे वा नित्यसंज्ञके ॥ 585 ॥

मूलम् - 585

यथाभिमतरूपे तु व्यूहे वाभीप्सिते द्विज!।
भूतावासाह्वये वापि धरुवे वा नित्यसंज्ञके ॥ 585 ॥

विश्वास-प्रस्तुतिः - 586

जीर्णोद्धारादिविधिषु ह्येवमेव महामते!।
क्ष्मापरिग्रहपूर्वेषु सर्वेष्वपि च कर्मसु ॥ 586 ॥

मूलम् - 586

जीर्णोद्धारादिविधिषु ह्येवमेव महामते!।
क्ष्मापरिग्रहपूर्वेषु सर्वेष्वपि च कर्मसु ॥ 586 ॥

विश्वास-प्रस्तुतिः - 587

प्रायश्चित्तनिमित्ते तु संजाते संकरादिके।
अभीष्टैररकैर्युक्तं कुर्याच्चक्राम्बुजं सदा ॥ 587 ॥

मूलम् - 587

प्रायश्चित्तनिमित्ते तु संजाते संकरादिके।
अभीष्टैररकैर्युक्तं कुर्याच्चक्राम्बुजं सदा ॥ 587 ॥

विश्वास-प्रस्तुतिः - 588

तुलाभारादिकेऽप्येवं यद्वा काम्यानुरूपतः।
सङ्‌क्रान्तिद्विचतुष्केषु मेषसंक्रान्तिपूर्वकम् ॥ 588 ॥

मूलम् - 588

तुलाभारादिकेऽप्येवं यद्वा काम्यानुरूपतः।
सङ्‌क्रान्तिद्विचतुष्केषु मेषसंक्रान्तिपूर्वकम् ॥ 588 ॥

विश्वास-प्रस्तुतिः - 589

सदध्वदे तु धर्माख्ये वसुगर्भे क्रमेण तु।
सर्वकाम्ये ह्यमित्रघ्ने ह्यायुष्ये वलभद्रके ॥ 589 ॥

मूलम् - 589

सदध्वदे तु धर्माख्ये वसुगर्भे क्रमेण तु।
सर्वकाम्ये ह्यमित्रघ्ने ह्यायुष्ये वलभद्रके ॥ 589 ॥

विश्वास-प्रस्तुतिः - 590

आरोग्ये संयजेद्देवं पुण्डरीकाक्षमव्ययम्।
वाग्विभूतिप्रदे चैव मानसाख्येऽयनद्वये ॥ 590 ॥

मूलम् - 590

आरोग्ये संयजेद्देवं पुण्डरीकाक्षमव्ययम्।
वाग्विभूतिप्रदे चैव मानसाख्येऽयनद्वये ॥ 590 ॥

विश्वास-प्रस्तुतिः - 591

चन्द्रसूर्योपरागे तु जयेऽनन्ते तदेव हि।
द्वादश्योः सुप्रतिष्ठाख्ये बुद्ध्याधारे तु पूर्वयोः ॥ 591 ॥

मूलम् - 591

चन्द्रसूर्योपरागे तु जयेऽनन्ते तदेव हि।
द्वादश्योः सुप्रतिष्ठाख्ये बुद्ध्याधारे तु पूर्वयोः ॥ 591 ॥

विश्वास-प्रस्तुतिः - 592

अमोघसंज्ञितेऽन्यासु प्रशस्तासु तिथिष्वपि।
नक्षत्रेषु प्रशस्तेषु यजेद्यागे गुणाकरे ॥ 592 ॥

मूलम् - 592

अमोघसंज्ञितेऽन्यासु प्रशस्तासु तिथिष्वपि।
नक्षत्रेषु प्रशस्तेषु यजेद्यागे गुणाकरे ॥ 592 ॥

विश्वास-प्रस्तुतिः - 593

शान्तिकर्मणि वै कुर्याद्यागे शङ्खोदराभिधे।
पूजनं देवदेवस्य यागे वा शान्तिकाह्वये ॥ 593 ॥

मूलम् - 593

शान्तिकर्मणि वै कुर्याद्यागे शङ्खोदराभिधे।
पूजनं देवदेवस्य यागे वा शान्तिकाह्वये ॥ 593 ॥

विश्वास-प्रस्तुतिः - 594

पौष्टिके च यथायागे ह्यथवा कौस्तुभोदरे।
वनमालोदरे वाथ यष्टव्यो भगवान् विभुः ॥ 594 ॥

मूलम् - 594

पौष्टिके च यथायागे ह्यथवा कौस्तुभोदरे।
वनमालोदरे वाथ यष्टव्यो भगवान् विभुः ॥ 594 ॥

विश्वास-प्रस्तुतिः - 595

रक्षाकर्मण्यमित्रघ्ने आरोग्ये वा यजेत् प्रभुम्।
आप्यायनेऽर्धचन्द्राख्ये यद्वा पूर्णएन्दुमण्डले ॥ 595 ॥

मूलम् - 595

रक्षाकर्मण्यमित्रघ्ने आरोग्ये वा यजेत् प्रभुम्।
आप्यायनेऽर्धचन्द्राख्ये यद्वा पूर्णएन्दुमण्डले ॥ 595 ॥

विश्वास-प्रस्तुतिः - 596

कजाभिधाने यागे वा यजेत् कुम्भोदरे तु वा।
धर्मार्थी संयजेन्नित्यं देवदेवं जनार्दनम् ॥ 596 ॥

मूलम् - 596

कजाभिधाने यागे वा यजेत् कुम्भोदरे तु वा।
धर्मार्थी संयजेन्नित्यं देवदेवं जनार्दनम् ॥ 596 ॥

विश्वास-प्रस्तुतिः - 597

सदध्वदेवा धर्माख्ये अघनिर्मोचनेऽथवा।
अर्थार्थी पूजयेन्नित्यं पझे कौमोदकीगदे ॥ 597 ॥

मूलम् - 597

सदध्वदेवा धर्माख्ये अघनिर्मोचनेऽथवा।
अर्थार्थी पूजयेन्नित्यं पझे कौमोदकीगदे ॥ 597 ॥

विश्वास-प्रस्तुतिः - 598

वसुगर्भाभिधे यागे सर्वतोभद्रकेऽथवा।
काम्याभिलाषी कुर्वीत सर्वकामप्रदाभिधम् ॥ 598 ॥

मूलम् - 598

वसुगर्भाभिधे यागे सर्वतोभद्रकेऽथवा।
काम्याभिलाषी कुर्वीत सर्वकामप्रदाभिधम् ॥ 598 ॥

विश्वास-प्रस्तुतिः - 599

विजयो राज्यलाभश्च शतारं मिश्रचक्रराट्।
सहस्रारं तु वा मिश्रं मिश्रं वारिजचक्रराट् ॥ 599 ॥

मूलम् - 599

विजयो राज्यलाभश्च शतारं मिश्रचक्रराट्।
सहस्रारं तु वा मिश्रं मिश्रं वारिजचक्रराट् ॥ 599 ॥

विश्वास-प्रस्तुतिः - 600

इच्छासंख्यारसंपूर्णं सहस्रारावसानकम्।
मोक्षार्थी परमानन्दे यागे वा चक्रपङ्कजे ॥ 600 ॥

मूलम् - 600

इच्छासंख्यारसंपूर्णं सहस्रारावसानकम्।
मोक्षार्थी परमानन्दे यागे वा चक्रपङ्कजे ॥ 600 ॥

विश्वास-प्रस्तुतिः - 601

सहस्रसंख्यासंख्यातैररकैः परिभूषिते।
अथवा मिश्रचक्रे तु तत्संख्यारपरिष्कृते ॥ 601 ॥

मूलम् - 601

सहस्रसंख्यासंख्यातैररकैः परिभूषिते।
अथवा मिश्रचक्रे तु तत्संख्यारपरिष्कृते ॥ 601 ॥

विश्वास-प्रस्तुतिः - 602

सर्वेष्वेतेषु यागेषु सर्वेषामपि कर्मणाम्।
पूजयेद्वा जगन्नाथं वासुदेवं सनातनम् ॥ 602 ॥

मूलम् - 602

सर्वेष्वेतेषु यागेषु सर्वेषामपि कर्मणाम्।
पूजयेद्वा जगन्नाथं वासुदेवं सनातनम् ॥ 602 ॥

विश्वास-प्रस्तुतिः - 603

प्रस्वापं च प्रभोधं च उत्सवं वात्सरीयकम्।
पवित्रारोहणं चैव स्थापनं विविधं तथा ॥ 603 ॥

मूलम् - 603

प्रस्वापं च प्रभोधं च उत्सवं वात्सरीयकम्।
पवित्रारोहणं चैव स्थापनं विविधं तथा ॥ 603 ॥

विश्वास-प्रस्तुतिः - 604

जीर्णोद्धारविधानं च तुलाभारादि कर्म च।
प्रायश्चित्तानि मुख्यानि वर्जयित्वा तु कर्मसु ॥ 604 ॥

मूलम् - 604

जीर्णोद्धारविधानं च तुलाभारादि कर्म च।
प्रायश्चित्तानि मुख्यानि वर्जयित्वा तु कर्मसु ॥ 604 ॥

विश्वास-प्रस्तुतिः - 605

नैमित्तिकाख्येष्वन्येषु सर्वेषु द्विजसत्तम!।
अनुकल्पे यजेद्देवं कुम्भमण्डलके विना ॥ 605 ॥

मूलम् - 605

नैमित्तिकाख्येष्वन्येषु सर्वेषु द्विजसत्तम!।
अनुकल्पे यजेद्देवं कुम्भमण्डलके विना ॥ 605 ॥

विश्वास-प्रस्तुतिः - 606

प्रायश्चित्तप्रकारस्तु विभिन्नस्त्रित्रिभेदतः।
उत्तमादिविभागेन कलशे मण्डलक्षितौ ॥ 606 ॥

मूलम् - 606

प्रायश्चित्तप्रकारस्तु विभिन्नस्त्रित्रिभेदतः।
उत्तमादिविभागेन कलशे मण्डलक्षितौ ॥ 606 ॥

विश्वास-प्रस्तुतिः - 607

बिम्बेऽग्नौ संयजेद्देवं प्रकारे ह्युत्तमोत्तमे।
कुम्भमण्डलवह्निस्थं यजेत्तन्मध्यमे विभुम् ॥ 607 ॥

मूलम् - 607

बिम्बेऽग्नौ संयजेद्देवं प्रकारे ह्युत्तमोत्तमे।
कुम्भमण्डलवह्निस्थं यजेत्तन्मध्यमे विभुम् ॥ 607 ॥

विश्वास-प्रस्तुतिः - 608

कुम्भेऽग्नौ च यजेद्देवं विभुं तदधमे द्विज!।
बिम्बेऽग्नौ च यजेद्देवं गुरोरिच्छानुरूपतः ॥ 608 ॥

मूलम् - 608

कुम्भेऽग्नौ च यजेद्देवं विभुं तदधमे द्विज!।
बिम्बेऽग्नौ च यजेद्देवं गुरोरिच्छानुरूपतः ॥ 608 ॥

विश्वास-प्रस्तुतिः - 609

स्नपनैः परभेदोत्थैः स्नापयेन्मध्यमोत्तमे।
अपरोदितभेदैस्तु चतुर्भिः स्नापयेद्विभुम् ॥ 609 ॥

मूलम् - 609

स्नपनैः परभेदोत्थैः स्नापयेन्मध्यमोत्तमे।
अपरोदितभेदैस्तु चतुर्भिः स्नापयेद्विभुम् ॥ 609 ॥

विश्वास-प्रस्तुतिः - 610

क्रमेण मध्यमध्याद्ये न्यूनमद्यावसानिके।
चतुष्टये तदन्यस्मिन्नग्नौ सन्तर्पयेद्विभुम् ॥ 610 ॥

मूलम् - 610

क्रमेण मध्यमध्याद्ये न्यूनमद्यावसानिके।
चतुष्टये तदन्यस्मिन्नग्नौ सन्तर्पयेद्विभुम् ॥ 610 ॥

विश्वास-प्रस्तुतिः - 611

प्रायश्चित्तेषु सर्वेषु जपं वापि समाचरेत्।
देशकालस्वसामर्थ्यद्रव्यादेरानुगुण्यतः ॥ 611 ॥

मूलम् - 611

प्रायश्चित्तेषु सर्वेषु जपं वापि समाचरेत्।
देशकालस्वसामर्थ्यद्रव्यादेरानुगुण्यतः ॥ 611 ॥

विश्वास-प्रस्तुतिः - 612

प्रायश्चित्तेषु सर्वेषु चतुस्स्थानार्चनादिके।
दशप्रकारे विप्रेन्द्र! दिनसंख्यां निबोध मे ॥ 612 ॥

मूलम् - 612

प्रायश्चित्तेषु सर्वेषु चतुस्स्थानार्चनादिके।
दशप्रकारे विप्रेन्द्र! दिनसंख्यां निबोध मे ॥ 612 ॥

विश्वास-प्रस्तुतिः - 613

दिनानि चत्वारिंशच्च त्रिंशद्विंशतिरेव च।
तथा पञ्चदशाहश्च क्रमादेकदिनान्तिमम् ॥ 613 ॥

मूलम् - 613

दिनानि चत्वारिंशच्च त्रिंशद्विंशतिरेव च।
तथा पञ्चदशाहश्च क्रमादेकदिनान्तिमम् ॥ 613 ॥

विश्वास-प्रस्तुतिः - 614

एवमष्टादशविधा दिनसंख्या प्रकीर्तिता।
उत्तमोत्तमपूर्वेण भेदेन नवधा तु वा ॥ 614 ॥

मूलम् - 614

एवमष्टादशविधा दिनसंख्या प्रकीर्तिता।
उत्तमोत्तमपूर्वेण भेदेन नवधा तु वा ॥ 614 ॥

विश्वास-प्रस्तुतिः - 615

द्विकद्विकक्रमेणैव तदा द्व्येकदिनान्तिमम्।
प्रायश्चित्तप्रकारस्तु प्रसड्गादत्र कीर्तितः ॥ 615 ॥

मूलम् - 615

द्विकद्विकक्रमेणैव तदा द्व्येकदिनान्तिमम्।
प्रायश्चित्तप्रकारस्तु प्रसड्गादत्र कीर्तितः ॥ 615 ॥

विस्तरेण प्रवक्ष्यामि ह्युपरिष्टान्महामते!।
विश्वास-प्रस्तुतिः - 616

इति पावित्रकं सम्यग्विधानं कथितं माय।
इतः परं मुनिश्रेष्ठ! किमन्यच्छ्रोतुमिच्छसि ॥ 616 ॥

मूलम् - 616

इति पावित्रकं सम्यग्विधानं कथितं माय।
इतः परं मुनिश्रेष्ठ! किमन्यच्छ्रोतुमिच्छसि ॥ 616 ॥

इति श्रीपाञ्चरात्रे पारमेस्वरसंहितायां क्रियाकाण्डे पवित्रारोपणविधानं नाम द्वादशोऽध्यायः ॥ ***************