॥ श्रीः ॥
एकादशोऽध्यायः
सनकः —
विश्वास-प्रस्तुतिः - 1
नित्योत्सवविधौ ब्रह्मन्! पूजनं समुदाहृतम्।
द्वारावरणदेवानां तेषां ध्यानादिकं क्रमात् ॥ 1 ॥
मूलम् - 1
नित्योत्सवविधौ ब्रह्मन्! पूजनं समुदाहृतम्।
द्वारावरणदेवानां तेषां ध्यानादिकं क्रमात् ॥ 1 ॥
विश्वास-प्रस्तुतिः - 3
प्रासादद्वारदेवेभ्यः समारभ्य यथाक्रमम्।
प्रासादद्वारबाह्ये तु ह्यधस्थौदुम्बरान्तिमे ॥ 3 ॥
मूलम् - 3
प्रासादद्वारदेवेभ्यः समारभ्य यथाक्रमम्।
प्रासादद्वारबाह्ये तु ह्यधस्थौदुम्बरान्तिमे ॥ 3 ॥
विश्वास-प्रस्तुतिः - 4
वास्त्वीशक्षेत्रनाथौ द्वौ स्थितौ दक्षेतरक्रमात्।
शुक्लवक्त्रः कृष्णदेहो द्विभुजो रत्नपात्रधृक् ॥ 4 ॥
मूलम् - 4

विश्वास-प्रस्तुतिः - 5
दक्षिणेन करेणैव सर्वामरसमाश्रयः।
पुण्डरीकसमानाभवस्त्रस्रगनुलेपनः ॥ 5 ॥
मूलम् - 5
दक्षिणेन करेणैव सर्वामरसमाश्रयः।
पुण्डरीकसमानाभवस्त्रस्रगनुलेपनः ॥ 5 ॥
विश्वास-प्रस्तुतिः - 6
गदोद्यतकरो विप्र! ध्यातव्यो वास्तुपूरुषः।
क्षेत्रेशं द्विभुजं ध्यायेद्धेमाभवसनस्रजम् ॥ 6 ॥
मूलम् - 6
गदोद्यतकरो विप्र! ध्यातव्यो वास्तुपूरुषः।
क्षेत्रेशं द्विभुजं ध्यायेद्धेमाभवसनस्रजम् ॥ 6 ॥
विश्वास-प्रस्तुतिः - 7
नीलजीमूतसंकाशं दण्डहस्तं महातनुम्।
मुष्टिकृद्वामहस्तेन यागक्षेत्य पालकम् ॥ 7 ॥
मूलम् - 7
नीलजीमूतसंकाशं दण्डहस्तं महातनुम्।
मुष्टिकृद्वामहस्तेन यागक्षेत्य पालकम् ॥ 7 ॥
विश्वास-प्रस्तुतिः - 8
कुण्डलाद्यैरलङ्कारैरेतौ शोभितविग्रहौ।
वीक्षमाणौ विभोर्वक्त्रं तेजसातीव निर्भरौ ॥ 8 ॥
मूलम् - 8
कुण्डलाद्यैरलङ्कारैरेतौ शोभितविग्रहौ।
वीक्षमाणौ विभोर्वक्त्रं तेजसातीव निर्भरौ ॥ 8 ॥
विश्वास-प्रस्तुतिः - 9
तप्तकाञ्चनवर्णाभां प्रवालसदृशाम्बराम्।
हारनूपुरकेयूरकरण्डमकुटादिकैः ॥ 9 ॥
मूलम् - 9
तप्तकाञ्चनवर्णाभां प्रवालसदृशाम्बराम्।
हारनूपुरकेयूरकरण्डमकुटादिकैः ॥ 9 ॥
विश्वास-प्रस्तुतिः - 10
अलङ्कृतामलङ्कारैः पुण्डरीकनिभेक्षणाम्।
अकलङ्कसुसम्पूर्णशरच्चन्द्रनिभाननाम् ॥ 10 ॥
मूलम् - 10
अलङ्कृतामलङ्कारैः पुण्डरीकनिभेक्षणाम्।
अकलङ्कसुसम्पूर्णशरच्चन्द्रनिभाननाम् ॥ 10 ॥
विश्वास-प्रस्तुतिः - 11
पझकुम्भकरां लक्ष्मीं पझोपरिगतां स्मरेत्।
पद्मासनेनोपविष्टां द्वारस्योर्ध्व उदुम्बरे ॥ 11 ॥
मूलम् - 11
पझकुम्भकरां लक्ष्मीं पझोपरिगतां स्मरेत्।
पद्मासनेनोपविष्टां द्वारस्योर्ध्व उदुम्बरे ॥ 11 ॥
विश्वास-प्रस्तुतिः - 12
तरुणादित्यसंकाशो महोरस्कश्चतुर्भुजः।
उन्नतश्चोन्नतांसश्च पूर्णाङ्गो नातिमांसलः ॥ 12 ॥
मूलम् - 12
तरुणादित्यसंकाशो महोरस्कश्चतुर्भुजः।
उन्नतश्चोन्नतांसश्च पूर्णाङ्गो नातिमांसलः ॥ 12 ॥
विश्वास-प्रस्तुतिः - 13
तनूदरो निम्ननाभो रोमराजिविराजितः।
दंष्ट्राकरालवदनः पिङ्गश्मश्रुजटाधरः ॥ 13 ॥
मूलम् - 13
तनूदरो निम्ननाभो रोमराजिविराजितः।
दंष्ट्राकरालवदनः पिङ्गश्मश्रुजटाधरः ॥ 13 ॥
विश्वास-प्रस्तुतिः - 14
मधुपिङ्गलनेत्रश्च कुटिलभ्रूलतायुतः।
प्रलम्बलोलश्रवणः पृथुघ्राणः स्मिताननः ॥ 14 ॥
मूलम् - 14
मधुपिङ्गलनेत्रश्च कुटिलभ्रूलतायुतः।
प्रलम्बलोलश्रवणः पृथुघ्राणः स्मिताननः ॥ 14 ॥
विश्वास-प्रस्तुतिः - 15
कुण्डलालङ्कृतस्चैव हारकेयूरभूषितः।
बद्धोष्णीषललाटश्च तिलकेनाप्यल्ङकृतः ॥ 15 ॥
मूलम् - 15
कुण्डलालङ्कृतस्चैव हारकेयूरभूषितः।
बद्धोष्णीषललाटश्च तिलकेनाप्यल्ङकृतः ॥ 15 ॥
विश्वास-प्रस्तुतिः - 16
शुक्लाम्बरधरः स्रग्वी भुजयुग्मेऽस्य दक्षिणे।
प्रोद्यतं संस्मरेच्चक्रं प्रज्वलन्तीं गदां परे ॥ 16 ॥
मूलम् - 16
शुक्लाम्बरधरः स्रग्वी भुजयुग्मेऽस्य दक्षिणे।
प्रोद्यतं संस्मरेच्चक्रं प्रज्वलन्तीं गदां परे ॥ 16 ॥
विश्वास-प्रस्तुतिः - 17
श्रोणीतटनिषण्णां च विश्रान्तां वसुधातले।
पूर्वे वामकरे शङ्खमन्यस्मिश्चाक्षसूत्रकम् ॥ 17 ॥
मूलम् - 17
श्रोणीतटनिषण्णां च विश्रान्तां वसुधातले।
पूर्वे वामकरे शङ्खमन्यस्मिश्चाक्षसूत्रकम् ॥ 17 ॥
विश्वास-प्रस्तुतिः - 18
एवं गणाधिपश्चण्डो विक्रमेणापराजितः।
क्रुद्धो विघ्नायुतानां च क्षणात् संहरणक्षमः ॥ 18 ॥
मूलम् - 18
एवं गणाधिपश्चण्डो विक्रमेणापराजितः।
क्रुद्धो विघ्नायुतानां च क्षणात् संहरणक्षमः ॥ 18 ॥
विश्वास-प्रस्तुतिः - 19
ध्येयो गर्भगृहद्वारशाखामूले तु दक्षिणे।
तत्रैवापरभागे तु प्रचण्डं त्वीदृशं यजेत् ॥ 19 ॥
मूलम् - 19
ध्येयो गर्भगृहद्वारशाखामूले तु दक्षिणे।
तत्रैवापरभागे तु प्रचण्डं त्वीदृशं यजेत् ॥ 19 ॥
विश्वास-प्रस्तुतिः - 20
किंतु सव्यापसव्याभ्यां भुजाभ्यां स्याद्विपर्ययः।
भुजद्वये यच्चण्डस्य वामे संपरिकीर्तितम् ॥ 20 ॥
मूलम् - 20
किंतु सव्यापसव्याभ्यां भुजाभ्यां स्याद्विपर्ययः।
भुजद्वये यच्चण्डस्य वामे संपरिकीर्तितम् ॥ 20 ॥
विश्वास-प्रस्तुतिः - 21
दक्षिणे तत् प्रचण्डस्य ध्येयं वा परिकलप्य च।
ध्यायेद्द्वाराग्रदेशे तु गरुडं काञ्चनप्रभम् ॥ 21 ॥
मूलम् - 21
दक्षिणे तत् प्रचण्डस्य ध्येयं वा परिकलप्य च।
ध्यायेद्द्वाराग्रदेशे तु गरुडं काञ्चनप्रभम् ॥ 21 ॥
विश्वास-प्रस्तुतिः - 22
कुटिलभ्रुसुवृत्ताक्षं पक्षमण्डलमण्डितम्।
लम्बोदरं सुपीनाङ्गं सर्वभूषणभूषितम् ॥ 22 ॥
मूलम् - 22
कुटिलभ्रुसुवृत्ताक्षं पक्षमण्डलमण्डितम्।
लम्बोदरं सुपीनाङ्गं सर्वभूषणभूषितम् ॥ 22 ॥
विश्वास-प्रस्तुतिः - 23
मकुटाद्यैरलङ्कारैर्नूपुराद्यैर्विराजितम्।
नीलं वसानं वसनं नानामाल्योपशोभितम् ॥ 23 ॥
मूलम् - 23
मकुटाद्यैरलङ्कारैर्नूपुराद्यैर्विराजितम्।
नीलं वसानं वसनं नानामाल्योपशोभितम् ॥ 23 ॥
विश्वास-प्रस्तुतिः - 24
संमुखं देवदेवस्य भूगतं विधृताञ्जलिम्।
द्विभुजं तुहिनाभं च सत्याख्यं विहगाधिपम् ॥ 24 ॥
मूलम् - 24
संमुखं देवदेवस्य भूगतं विधृताञ्जलिम्।
द्विभुजं तुहिनाभं च सत्याख्यं विहगाधिपम् ॥ 24 ॥
विश्वास-प्रस्तुतिः - 25
प्राणाधिदैवतं चक्रे बलिमण्डलमध्यगे।
संस्थितं संस्मरेत् सर्वैरङ्गैः पुरुषरूपिणम् ॥ 25 ॥
मूलम् - 25
प्राणाधिदैवतं चक्रे बलिमण्डलमध्यगे।
संस्थितं संस्मरेत् सर्वैरङ्गैः पुरुषरूपिणम् ॥ 25 ॥
विश्वास-प्रस्तुतिः - 26
प्रलम्बमानजठरं पक्षराजिविराजितम्।
दक्षिणेन करेणैव धारयन्तं गणित्रकम् ॥ 26 ॥
मूलम् - 26
प्रलम्बमानजठरं पक्षराजिविराजितम्।
दक्षिणेन करेणैव धारयन्तं गणित्रकम् ॥ 26 ॥
विश्वास-प्रस्तुतिः - 27
उत्तानितेतरकरं कुण्डलाद्यैर्विभूषितम्।
नीलकौशेयवसनं नीलमाल्यानुलेपनम् ॥ 27 ॥
मूलम् - 27
उत्तानितेतरकरं कुण्डलाद्यैर्विभूषितम्।
नीलकौशेयवसनं नीलमाल्यानुलेपनम् ॥ 27 ॥
विश्वास-प्रस्तुतिः - 28
अनाकुलाभ्यां नेत्राभ्यां वीक्षमाणं सदा विभुम्।
अथाग्रमण्डपद्वारशाखायुगलसंस्थितौ ॥ 28 ॥
मूलम् - 28
अनाकुलाभ्यां नेत्राभ्यां वीक्षमाणं सदा विभुम्।
अथाग्रमण्डपद्वारशाखायुगलसंस्थितौ ॥ 28 ॥
विश्वास-प्रस्तुतिः - 29
पझगर्भप्रतीकाशावतिभीमपराक्रमौ।
चण्डप्रचण्डसदृशौ भुजलाञ्छनभूषणैः ॥ 29 ॥
मूलम् - 29
पझगर्भप्रतीकाशावतिभीमपराक्रमौ।
चण्डप्रचण्डसदृशौ भुजलाञ्छनभूषणैः ॥ 29 ॥
विश्वास-प्रस्तुतिः - 30
रक्ताम्बरधरौ चैव रक्तस्रगनुलेपनौ।
गणौ धातृविधातारौ ध्यात्वा सपूज्य तत्परः ॥ 30 ॥
मूलम् - 30
रक्ताम्बरधरौ चैव रक्तस्रगनुलेपनौ।
गणौ धातृविधातारौ ध्यात्वा सपूज्य तत्परः ॥ 30 ॥
विश्वास-प्रस्तुतिः - 31
कुमुदादिगणेशानान् प्रथमावरणे यजेत्।
पूर्वे च वह्निदिग्भागे पूज्यौ द्वौ गणनायकौ ॥ 31 ॥
मूलम् - 31
कुमुदादिगणेशानान् प्रथमावरणे यजेत्।
पूर्वे च वह्निदिग्भागे पूज्यौ द्वौ गणनायकौ ॥ 31 ॥
विश्वास-प्रस्तुतिः - 32
कुमुदः कुमुदाक्षश्च प्रसन्नवदनेक्षणौ।
तुहिनाचलसङ्काशौ प्रथमे वयसि स्थितौ ॥ 32 ॥
मूलम् - 32
कुमुदः कुमुदाक्षश्च प्रसन्नवदनेक्षणौ।
तुहिनाचलसङ्काशौ प्रथमे वयसि स्थितौ ॥ 32 ॥
विश्वास-प्रस्तुतिः - 33
नानाभरणदिग्धाङ्गौ नानाकुण्डलभूषितौ।
नानामाल्यचितौ चैव नानामौलिधरौ द्विज! ॥ 33 ॥
मूलम् - 33
नानाभरणदिग्धाङ्गौ नानाकुण्डलभूषितौ।
नानामाल्यचितौ चैव नानामौलिधरौ द्विज! ॥ 33 ॥
विश्वास-प्रस्तुतिः - 34
नानागन्धविलिप्ताङ्गौ नानावस्त्रविभूषितौ।
कुमुदाख्यगणेशस्य ध्यातव्यो दक्षिणः करः ॥ 34 ॥
मूलम् - 34
नानागन्धविलिप्ताङ्गौ नानावस्त्रविभूषितौ।
कुमुदाख्यगणेशस्य ध्यातव्यो दक्षिणः करः ॥ 34 ॥
विश्वास-प्रस्तुतिः - 35
चन्द्ररश्मिप्रतीकाशचामरेण विराजितः।
अभिगच्छाभयं ध्यायेद्द्वितीयं दक्षिणं करम् ॥ 35 ॥
मूलम् - 35
चन्द्ररश्मिप्रतीकाशचामरेण विराजितः।
अभिगच्छाभयं ध्यायेद्द्वितीयं दक्षिणं करम् ॥ 35 ॥
विश्वास-प्रस्तुतिः - 36
भवभङ्गात् प्रपन्नानां परेषां गुणशासनम्।
तस्यैवाद्यं वामकरं प्रबुद्धकमलोद्यतम् ॥ 36 ॥
मूलम् - 36
भवभङ्गात् प्रपन्नानां परेषां गुणशासनम्।
तस्यैवाद्यं वामकरं प्रबुद्धकमलोद्यतम् ॥ 36 ॥
विश्वास-प्रस्तुतिः - 37
तूष्णीं भीसूचकं ध्यायेद्बहिःस्थानां परं करम्।
एतेद्वै कुमुदाक्षस्य वैपरीत्येन भावयेत् ॥ 37 ॥
मूलम् - 37
तूष्णीं भीसूचकं ध्यायेद्बहिःस्थानां परं करम्।
एतेद्वै कुमुदाक्षस्य वैपरीत्येन भावयेत् ॥ 37 ॥
विश्वास-प्रस्तुतिः - 38
द्वाभ्यां द्वाभ्यां कराभ्यां वै त्वन्येषामेवमेव हि।
पुण्डरीको वामनश्च द्वावेतौ हुतभुक्प्रभौ ॥ 38 ॥
मूलम् - 38
द्वाभ्यां द्वाभ्यां कराभ्यां वै त्वन्येषामेवमेव हि।
पुण्डरीको वामनश्च द्वावेतौ हुतभुक्प्रभौ ॥ 38 ॥
विश्वास-प्रस्तुतिः - 39
गरुडध्वजहस्तौ च शेषमन्यत् पुरोदितम्।
कृत्वा ध्यात्वाऽथवा न्यस्य दक्षिणे नैर्ऋतेऽपि च ॥ 39 ॥
मूलम् - 39
गरुडध्वजहस्तौ च शेषमन्यत् पुरोदितम्।
कृत्वा ध्यात्वाऽथवा न्यस्य दक्षिणे नैर्ऋतेऽपि च ॥ 39 ॥
विश्वास-प्रस्तुतिः - 40
शङ्कुकर्णाभिधानो यः सर्वनेत्राभिसंज्ञितः।
द्वावेतौ चम्पकाभौ तु मयूरव्यजनोद्यतौ ॥ 40 ॥
मूलम् - 40
शङ्कुकर्णाभिधानो यः सर्वनेत्राभिसंज्ञितः।
द्वावेतौ चम्पकाभौ तु मयूरव्यजनोद्यतौ ॥ 40 ॥
विश्वास-प्रस्तुतिः - 41
महाविभूतेर्देवस्य प्रत्यग्वायुदिगास्थितौ।
सुमुखः सुप्रतिष्ठश्च विभोः सोमेशदिक्स्थितौ ॥ 41 ॥
मूलम् - 41
महाविभूतेर्देवस्य प्रत्यग्वायुदिगास्थितौ।
सुमुखः सुप्रतिष्ठश्च विभोः सोमेशदिक्स्थितौ ॥ 41 ॥
विश्वास-प्रस्तुतिः - 42
चिन्त्यौ मुद्गफलश्यामावातपत्रकरोद्यतौ।
नोक्तशेषकराणां तु तद्विद्धि कुमुदोदितम् ॥ 42 ॥
मूलम् - 42
चिन्त्यौ मुद्गफलश्यामावातपत्रकरोद्यतौ।
नोक्तशेषकराणां तु तद्विद्धि कुमुदोदितम् ॥ 42 ॥
विश्वास-प्रस्तुतिः - 43
मानवः पृश्निगर्भश्च जगत्यम्बरसंस्थितौ।
तप्तकाञ्चनवर्णाभौ करण्डमकुटोज्ज्वलौ ॥ 43 ॥
मूलम् - 43
मानवः पृश्निगर्भश्च जगत्यम्बरसंस्थितौ।
तप्तकाञ्चनवर्णाभौ करण्डमकुटोज्ज्वलौ ॥ 43 ॥
विश्वास-प्रस्तुतिः - 44
दंष्ट्राकरालवदनौ नानामाल्यधरौ द्विज!।
तत्र मानवसंज्ञस्च पक्षनागविभूषितः ॥ 44 ॥
मूलम् - 44
दंष्ट्राकरालवदनौ नानामाल्यधरौ द्विज!।
तत्र मानवसंज्ञस्च पक्षनागविभूषितः ॥ 44 ॥
विश्वास-प्रस्तुतिः - 45
तस्य दक्षिणहस्तश्च शङ्खराजेन शोभितः।
तत्पृष्ठे कटके हस्ते अङ्गुष्ठान्तरलोलगा ॥ 45 ॥
मूलम् - 45
तस्य दक्षिणहस्तश्च शङ्खराजेन शोभितः।
तत्पृष्ठे कटके हस्ते अङ्गुष्ठान्तरलोलगा ॥ 45 ॥
विश्वास-प्रस्तुतिः - 46
अक्षमालेति सा प्रोक्ता सर्वसिद्धिकरी सदा।
मुख्यवामकरे चक्रं तत्पृष्ठे चोर्ध्वगा गदा ॥ 46 ॥
मूलम् - 46
अक्षमालेति सा प्रोक्ता सर्वसिद्धिकरी सदा।
मुख्यवामकरे चक्रं तत्पृष्ठे चोर्ध्वगा गदा ॥ 46 ॥
विश्वास-प्रस्तुतिः - 47
एतद्धि पृश्निगर्भस्य वैपरीत्येन भावयेत्।
कटिहस्ताद्गतां ध्यात्वा पक्षनागौ विना द्विज! ॥ 47 ॥
मूलम् - 47
एतद्धि पृश्निगर्भस्य वैपरीत्येन भावयेत्।
कटिहस्ताद्गतां ध्यात्वा पक्षनागौ विना द्विज! ॥ 47 ॥
विश्वास-प्रस्तुतिः - 48
एते भगवतो विप्र! त्वन्तरह्गा मयोदिताः।
कर्मणा मनसा वाचा तद्भावगतमानसाः ॥ 48 ॥
मूलम् - 48
एते भगवतो विप्र! त्वन्तरह्गा मयोदिताः।
कर्मणा मनसा वाचा तद्भावगतमानसाः ॥ 48 ॥
विश्वास-प्रस्तुतिः - 49
ज्ञानादिषड्गुणोपेतैराकीर्णाः कोटिशः परैः।
भूतैः सिद्धैरनन्तैश्च प्रार्थयानैः परं पदम् ॥ 49 ॥
मूलम् - 49
ज्ञानादिषड्गुणोपेतैराकीर्णाः कोटिशः परैः।
भूतैः सिद्धैरनन्तैश्च प्रार्थयानैः परं पदम् ॥ 49 ॥
विश्वास-प्रस्तुतिः - 50
वस्त्रभूषाङ्गरागाद्यैः सर्वे ते कुमुदोपमाः।
श्वेतमृत्कल्पितेनैव ह्यूर्ध्वपुण्ड्रेण भूषिताः ॥ 50 ॥
मूलम् - 50
वस्त्रभूषाङ्गरागाद्यैः सर्वे ते कुमुदोपमाः।
श्वेतमृत्कल्पितेनैव ह्यूर्ध्वपुण्ड्रेण भूषिताः ॥ 50 ॥
विश्वास-प्रस्तुतिः - 51
ललाटस्थेन सर्वेऽपि कुमुदादिगणाधिपाः।
एवमन्येऽपि भूताद्याः सर्वे पारिषदा द्विज! ॥ 51 ॥
मूलम् - 51
ललाटस्थेन सर्वेऽपि कुमुदादिगणाधिपाः।
एवमन्येऽपि भूताद्याः सर्वे पारिषदा द्विज! ॥ 51 ॥
विश्वास-प्रस्तुतिः - 52
एवमावृतिदेवाश्च द्वारस्थाश्च तथैव हि।
एवं तदीया विप्राश्च क्षत्रविट्च्छूद्रजातयः ॥ 52 ॥
मूलम् - 52
एवमावृतिदेवाश्च द्वारस्थाश्च तथैव हि।
एवं तदीया विप्राश्च क्षत्रविट्च्छूद्रजातयः ॥ 52 ॥
विश्वास-प्रस्तुतिः - 53
मृदैव वा चन्दनेन कल्पितैरूर्ध्वपुण्ड्रकैः।
द्वादशैश्च चतुर्भिर्वा भूषिताः स्युः सदा द्विज! ॥ 53 ॥
मूलम् - 53
मृदैव वा चन्दनेन कल्पितैरूर्ध्वपुण्ड्रकैः।
द्वादशैश्च चतुर्भिर्वा भूषिताः स्युः सदा द्विज! ॥ 53 ॥
विश्वास-प्रस्तुतिः - 54
अतसीकुसुमश्यामौ पीतमाल्याम्बरान्वितौ।
पीतोष्णीषधरौ रौद्रौ प्राग्वद्भुजविभूषितौ ॥ 54 ॥
मूलम् - 54
अतसीकुसुमश्यामौ पीतमाल्याम्बरान्वितौ।
पीतोष्णीषधरौ रौद्रौ प्राग्वद्भुजविभूषितौ ॥ 54 ॥
विश्वास-प्रस्तुतिः - 55
गणौ चण्डाकृतिधरौ दुर्दर्शौ दुरतिक्रमौ।
जयं च विजयं नाम्ना यजेत्तद्वारपार्श्वयोः ॥ 55 ॥
मूलम् - 55
गणौ चण्डाकृतिधरौ दुर्दर्शौ दुरतिक्रमौ।
जयं च विजयं नाम्ना यजेत्तद्वारपार्श्वयोः ॥ 55 ॥
विश्वास-प्रस्तुतिः - 56
तदुद्देशात् समारभ्य बहिर्द्वारावसानकम्।
द्वितीयावरणक्षेत्रं षोढा कृत्वा तु पञ्चमे ॥ 56 ॥
मूलम् - 56
तदुद्देशात् समारभ्य बहिर्द्वारावसानकम्।
द्वितीयावरणक्षेत्रं षोढा कृत्वा तु पञ्चमे ॥ 56 ॥
विश्वास-प्रस्तुतिः - 57
भागे तु गरुडं कृत्वा विप्र! ध्यात्वाऽथवा न्यसेत्।
द्रवच्चामीकराकारं भीमभ्रकुटिलोचनम् ॥ 57 ॥
मूलम् - 57
भागे तु गरुडं कृत्वा विप्र! ध्यात्वाऽथवा न्यसेत्।
द्रवच्चामीकराकारं भीमभ्रकुटिलोचनम् ॥ 57 ॥
विश्वास-प्रस्तुतिः - 58
पृथुदंष्ट्रं पृथुध्राणं पृथुगात्रं पृथूदरम्।
पक्षाङ्कुराञ्चितोरस्कं पक्षमण्डलमण्डितम् ॥ 58 ॥
मूलम् - 58
पृथुदंष्ट्रं पृथुध्राणं पृथुगात्रं पृथूदरम्।
पक्षाङ्कुराञ्चितोरस्कं पक्षमण्डलमण्डितम् ॥ 58 ॥
विश्वास-प्रस्तुतिः - 59
हारकेयूरताटङ्कमकुटाद्यैस्तु भूषणैः।
भूषितं नीलवसनं नानामाल्यविभूषितम् ॥ 59 ॥
मूलम् - 59
हारकेयूरताटङ्कमकुटाद्यैस्तु भूषणैः।
भूषितं नीलवसनं नानामाल्यविभूषितम् ॥ 59 ॥
विश्वास-प्रस्तुतिः - 60
नानागन्धविलिप्ताङ्गं नागैकादशभूषितम्।
पुष्पस्तबकसंपूर्णमञ्जलिं दधतं द्विज! ॥ 60 ॥
मूलम् - 60
नानागन्धविलिप्ताङ्गं नागैकादशभूषितम्।
पुष्पस्तबकसंपूर्णमञ्जलिं दधतं द्विज! ॥ 60 ॥
विश्वास-प्रस्तुतिः - 61
उन्नम्य दक्षिणं जानुमासनीकृत्य चेतरत्।
सुखासनसमासीनं विभोराज्ञाप्रतीक्षकम् ॥ 61 ॥
मूलम् - 61
उन्नम्य दक्षिणं जानुमासनीकृत्य चेतरत्।
सुखासनसमासीनं विभोराज्ञाप्रतीक्षकम् ॥ 61 ॥
विश्वास-प्रस्तुतिः - 62
ततः (पः) कर्मात्मतत्वानां दशकं सिद्धतां गतम्।
भगवत्तुल्यसामर्थ्यसार्वज्ञ्यादिगुणैर्युतम् ॥ 62 ॥
मूलम् - 62
ततः (पः) कर्मात्मतत्वानां दशकं सिद्धतां गतम्।
भगवत्तुल्यसामर्थ्यसार्वज्ञ्यादिगुणैर्युतम् ॥ 62 ॥
विश्वास-प्रस्तुतिः - 63
वियुक्तं प्राकृताद् दुःखान्नियुक्तं चेश्वरेण तु।
भवसन्तारकत्वेन ह्येतदावृतिकं क्रमात् ॥ 63 ॥
मूलम् - 63
वियुक्तं प्राकृताद् दुःखान्नियुक्तं चेश्वरेण तु।
भवसन्तारकत्वेन ह्येतदावृतिकं क्रमात् ॥ 63 ॥
विश्वास-प्रस्तुतिः - 64
उपेन्द्रः पूर्वदिग्भागे संस्थितो द्विजसत्तम!।
वह्नौ तेजोधराख्यस्तु दक्षिणे दुरतिक्रमः ॥ 64 ॥
मूलम् - 64
उपेन्द्रः पूर्वदिग्भागे संस्थितो द्विजसत्तम!।
वह्नौ तेजोधराख्यस्तु दक्षिणे दुरतिक्रमः ॥ 64 ॥
विश्वास-प्रस्तुतिः - 65
नैर्ऋते तु महाकर्मा पश्चिमे तु महाह्रदः।
अग्राह्यो वायुदिग्भागे वसुरेतास्तथोत्तरे ॥ 65 ॥
मूलम् - 65
नैर्ऋते तु महाकर्मा पश्चिमे तु महाह्रदः।
अग्राह्यो वायुदिग्भागे वसुरेतास्तथोत्तरे ॥ 65 ॥
विश्वास-प्रस्तुतिः - 66
पूर्वोत्तरे वर्धमानः साक्षी गगनगोचरे।
आधारनिलयं नाम्ना सर्वस्याधोगतं स्मरेत् ॥ 66 ॥
मूलम् - 66
पूर्वोत्तरे वर्धमानः साक्षी गगनगोचरे।
आधारनिलयं नाम्ना सर्वस्याधोगतं स्मरेत् ॥ 66 ॥
विश्वास-प्रस्तुतिः - 67
एते स्फटिकवर्णाभा- श्वेतमाल्याम्बरान्विताः।
गणित्रकं रथाङ्गं च शङ्खं चैव गदां तथा ॥ 67 ॥
मूलम् - 67
एते स्फटिकवर्णाभा- श्वेतमाल्याम्बरान्विताः।
गणित्रकं रथाङ्गं च शङ्खं चैव गदां तथा ॥ 67 ॥
विश्वास-प्रस्तुतिः - 68
दधाना मुख्यदक्षादिमुख्यवामान्तमेव हि।
करैश्चतुर्भिः सुसमा मकुटादिविभूषिताः ॥ 68 ॥
मूलम् - 68
दधाना मुख्यदक्षादिमुख्यवामान्तमेव हि।
करैश्चतुर्भिः सुसमा मकुटादिविभूषिताः ॥ 68 ॥
विश्वास-प्रस्तुतिः - 69
तेजसा विघ्नजालानि प्रेरयन्तो महौजसः।
स्थानकैः संस्थिताः सर्वे ध्यानोन्मीलितलोचनाः ॥ 69 ॥
मूलम् - 69
तेजसा विघ्नजालानि प्रेरयन्तो महौजसः।
स्थानकैः संस्थिताः सर्वे ध्यानोन्मीलितलोचनाः ॥ 69 ॥
विश्वास-प्रस्तुतिः - 70
अथवा द्विभुजा एते वज्राद्यं दशकं क्रमात्।
दक्षेण लोकपालीयं धारयन्तः करेण तु ॥ 70 ॥
मूलम् - 70
अथवा द्विभुजा एते वज्राद्यं दशकं क्रमात्।
दक्षेण लोकपालीयं धारयन्तः करेण तु ॥ 70 ॥
विश्वास-प्रस्तुतिः - 71
गणित्रकं तु वामेन वरदाभयदास्तु वा।
तदा वर्णाङ्गरागाद्यैरिन्द्रादिसदृशास्तु वा ॥ 71 ॥
मूलम् - 71
गणित्रकं तु वामेन वरदाभयदास्तु वा।
तदा वर्णाङ्गरागाद्यैरिन्द्रादिसदृशास्तु वा ॥ 71 ॥
विश्वास-प्रस्तुतिः - 72
द्वितीयगोपुरद्वारपार्श्वयोरन्तरस्थयोः।
विन्यसेद् द्वारपालाख्यावेतौ वामादितो गणौ ॥ 72 ॥
मूलम् - 72
द्वितीयगोपुरद्वारपार्श्वयोरन्तरस्थयोः।
विन्यसेद् द्वारपालाख्यावेतौ वामादितो गणौ ॥ 72 ॥
विश्वास-प्रस्तुतिः - 73
निधीशौ शङ्खपझौ तु निधिभाण्डोपरिस्थितौ।
स्थूलदन्तौ च दान्तौ च द्विभुजौ भगवन्मयौ ॥ 73 ॥
मूलम् - 73
निधीशौ शङ्खपझौ तु निधिभाण्डोपरिस्थितौ।
स्थूलदन्तौ च दान्तौ च द्विभुजौ भगवन्मयौ ॥ 73 ॥
विश्वास-प्रस्तुतिः - 74
कुटिलभ्रूलतायुक्तौ किञ्चिदुन्नतवक्षसौ।
लम्बोदरौ सुपीनाङ्गौ ह्रस्वपाणिपदौ द्विज! ॥ 74 ॥
मूलम् - 74
कुटिलभ्रूलतायुक्तौ किञ्चिदुन्नतवक्षसौ।
लम्बोदरौ सुपीनाङ्गौ ह्रस्वपाणिपदौ द्विज! ॥ 74 ॥
विश्वास-प्रस्तुतिः - 75
शङ्कपझसमानाभौ नीलशुक्लाम्बरस्रजौ।
मकुटाद्यैस्तु विविधैरलङ्कारैरलंकृतौ ॥ 75 ॥
मूलम् - 75
शङ्कपझसमानाभौ नीलशुक्लाम्बरस्रजौ।
मकुटाद्यैस्तु विविधैरलङ्कारैरलंकृतौ ॥ 75 ॥
विश्वास-प्रस्तुतिः - 76
दक्षिणेन करेणैव धारयन्तौ सरोरुहम्।
इतरेण करेणैव ह्युत्तानेन निधिं स्वकम् ॥ 76 ॥
मूलम् - 76
दक्षिणेन करेणैव धारयन्तौ सरोरुहम्।
इतरेण करेणैव ह्युत्तानेन निधिं स्वकम् ॥ 76 ॥
विश्वास-प्रस्तुतिः - 77
अथवा वामहस्ताभ्यां प्रवेशाभीतिदान्वितौ।
कर्दवयेन शङ्खं वा पझं वा दधतौ द्विज! ॥ 77 ॥
मूलम् - 77
अथवा वामहस्ताभ्यां प्रवेशाभीतिदान्वितौ।
कर्दवयेन शङ्खं वा पझं वा दधतौ द्विज! ॥ 77 ॥
विश्वास-प्रस्तुतिः - 78
वामेव धारयेत् पझं यद्वा शङ्खं निधीश्वरः।
शङ्खपझधरौ वापि शिरसा मकुटोपरि ॥ 78 ॥
मूलम् - 78
वामेव धारयेत् पझं यद्वा शङ्खं निधीश्वरः।
शङ्खपझधरौ वापि शिरसा मकुटोपरि ॥ 78 ॥
विश्वास-प्रस्तुतिः - 79
शङ्खचक्रधरौ वापि साधकेच्छावशेन तु।
उन्नम्य दक्षिणं जानुं ह्यासनीकत्य चेतरत् ॥ 79 ॥
मूलम् - 79
शङ्खचक्रधरौ वापि साधकेच्छावशेन तु।
उन्नम्य दक्षिणं जानुं ह्यासनीकत्य चेतरत् ॥ 79 ॥
विश्वास-प्रस्तुतिः - 80
एवं शङ्खनिधेः पझनिधेस्तु विपरीतवत्।
तद्द्वारशाखानिष्ठौ तु संस्मरेद्दक्षिणादितः ॥ 80 ॥
मूलम् - 80
एवं शङ्खनिधेः पझनिधेस्तु विपरीतवत्।
तद्द्वारशाखानिष्ठौ तु संस्मरेद्दक्षिणादितः ॥ 80 ॥
विश्वास-प्रस्तुतिः - 81
क्षीरकुन्दावदातौ च नीलकौशेयवाससौ।
नीलनीरजवर्णाभैः पुष्पैर्भूषितविग्रहौ ॥ 81 ॥
मूलम् - 81
क्षीरकुन्दावदातौ च नीलकौशेयवाससौ।
नीलनीरजवर्णाभैः पुष्पैर्भूषितविग्रहौ ॥ 81 ॥
विश्वास-प्रस्तुतिः - 82
पूर्वोक्तगणसादृश्यौ नाम्ना भद्रसुभद्रकौ।
तद्द्वारबाह्यतः पश्चात् पार्श्वयोर्गोपुरस्थितौ ॥ 82 ॥
मूलम् - 82
पूर्वोक्तगणसादृश्यौ नाम्ना भद्रसुभद्रकौ।
तद्द्वारबाह्यतः पश्चात् पार्श्वयोर्गोपुरस्थितौ ॥ 82 ॥
विश्वास-प्रस्तुतिः - 83
एतौ गणेश्वरौ न्यस्येद् ध्यात्वा वा परिकलप्य च।
अथवा द्विभुजावेतौ तदा भद्रस्य दक्षिणम् ॥ 83 ॥
मूलम् - 83
एतौ गणेश्वरौ न्यस्येद् ध्यात्वा वा परिकलप्य च।
अथवा द्विभुजावेतौ तदा भद्रस्य दक्षिणम् ॥ 83 ॥
विश्वास-प्रस्तुतिः - 84
करं तु तर्जनीयुक्तं वाममीषत्तु कुञ्चितम्।
गदाग्रोपरिविश्रान्तं गदामूलोपरिस्थितम् ॥ 84 ॥
मूलम् - 84
करं तु तर्जनीयुक्तं वाममीषत्तु कुञ्चितम्।
गदाग्रोपरिविश्रान्तं गदामूलोपरिस्थितम् ॥ 84 ॥
विश्वास-प्रस्तुतिः - 85
व्यत्यस्तदक्षिणं पादं वामं तु भुवि संस्थितम्।
भद्रस्य वामयोर्विप्र! यदुक्तं पाणिपादयोः ॥ 85 ॥
मूलम् - 85
व्यत्यस्तदक्षिणं पादं वामं तु भुवि संस्थितम्।
भद्रस्य वामयोर्विप्र! यदुक्तं पाणिपादयोः ॥ 85 ॥
विश्वास-प्रस्तुतिः - 86
दक्षयोस्तत् सुभद्रस्य दक्षोक्तं वामगं भवेत्।
किन्तु तद्वामहस्तं तु युक्तं विस्मयमुद्रया ॥ 86 ॥
मूलम् - 86
दक्षयोस्तत् सुभद्रस्य दक्षोक्तं वामगं भवेत्।
किन्तु तद्वामहस्तं तु युक्तं विस्मयमुद्रया ॥ 86 ॥
विश्वास-प्रस्तुतिः - 87
चण्डप्रजण्डौ धाता च विधाता च जयस्तथा।
विजयश्चापि भद्रश्च सुभद्रश्च गणेश्वरः ॥ 87 ॥
मूलम् - 87
चण्डप्रजण्डौ धाता च विधाता च जयस्तथा।
विजयश्चापि भद्रश्च सुभद्रश्च गणेश्वरः ॥ 87 ॥
विश्वास-प्रस्तुतिः - 88
एते गणेश्वरा ह्यष्टौ प्रभापुष्पाम्बरैर्विना।
देहवक्त्राकृतैस्तुल्यास्तथैवाभरणायुधैः ॥ 88 ॥
मूलम् - 88
एते गणेश्वरा ह्यष्टौ प्रभापुष्पाम्बरैर्विना।
देहवक्त्राकृतैस्तुल्यास्तथैवाभरणायुधैः ॥ 88 ॥
विश्वास-प्रस्तुतिः - 89
भक्तानां विघ्नजालस्य सर्वदिक्संस्थितस्य च।
संसारफलदातुर्वै च्छेदनार्थं समुद्यताः ॥ 89 ॥
मूलम् - 89
भक्तानां विघ्नजालस्य सर्वदिक्संस्थितस्य च।
संसारफलदातुर्वै च्छेदनार्थं समुद्यताः ॥ 89 ॥
विश्वास-प्रस्तुतिः - 90
परस्परमुखाः सर्वे स्थानकैः संस्थिताः समैः।
गणेशायुतलक्षैस्तु नानावर्णवपूर्धरैः ॥ 90 ॥
मूलम् - 90
परस्परमुखाः सर्वे स्थानकैः संस्थिताः समैः।
गणेशायुतलक्षैस्तु नानावर्णवपूर्धरैः ॥ 90 ॥
विश्वास-प्रस्तुतिः - 91
अच्युताराधनपरैरेकैकं परिवारिताः।
तृतीयावरणे पश्चात् पूर्वादिक्रमयोगतः ॥ 91 ॥
मूलम् - 91
अच्युताराधनपरैरेकैकं परिवारिताः।
तृतीयावरणे पश्चात् पूर्वादिक्रमयोगतः ॥ 91 ॥
विश्वास-प्रस्तुतिः - 92
इन्द्रादिलोकपालानां दशकं विन्यसेद्द्विज!।
शतधामनिभं ध्यायेच्चतुर्बाहुं पुरन्दरम् ॥ 92 ॥
मूलम् - 92
इन्द्रादिलोकपालानां दशकं विन्यसेद्द्विज!।
शतधामनिभं ध्यायेच्चतुर्बाहुं पुरन्दरम् ॥ 92 ॥
विश्वास-प्रस्तुतिः - 93
सुसितद्विपसंस्थं तु सुतीक्ष्णकुलिशोद्यतम्।
अजारूढं स्मरेद्रक्तं शक्तिपाणिं हुताशनम् ॥ 93 ॥
मूलम् - 93
सुसितद्विपसंस्थं तु सुतीक्ष्णकुलिशोद्यतम्।
अजारूढं स्मरेद्रक्तं शक्तिपाणिं हुताशनम् ॥ 93 ॥
विश्वास-प्रस्तुतिः - 94
सहस्रार्चिभिराकीर्णं सहस्नादित्यभासुरम्।
महामहिषसंस्थं तु त्वञ्जनाद्रिसमप्रभम् ॥ 94 ॥
मूलम् - 94
सहस्रार्चिभिराकीर्णं सहस्नादित्यभासुरम्।
महामहिषसंस्थं तु त्वञ्जनाद्रिसमप्रभम् ॥ 94 ॥
विश्वास-प्रस्तुतिः - 95
सुभूमदण्डहस्तं तु स्मरेद्देवं पित्रीस्वरम्।
दंष्ट्राकरालवदनं कृष्णमेघसमप्रभम् ॥ 95 ॥
मूलम् - 95
सुभूमदण्डहस्तं तु स्मरेद्देवं पित्रीस्वरम्।
दंष्ट्राकरालवदनं कृष्णमेघसमप्रभम् ॥ 95 ॥
विश्वास-प्रस्तुतिः - 96
घोरं प्रेतासनं ध्यायेत् खङ्गधृग्राक्षसेश्वरम्।
मुक्ताफलद्युतिसमं भीमं पाशकरोद्यतम् ॥ 96 ॥
मूलम् - 96
घोरं प्रेतासनं ध्यायेत् खङ्गधृग्राक्षसेश्वरम्।
मुक्ताफलद्युतिसमं भीमं पाशकरोद्यतम् ॥ 96 ॥
विश्वास-प्रस्तुतिः - 97
नागकन्यासहस्नाढ्चं मकरस्थमपांपतिम्।
नीलतोयदसंकाशं महाध्वजपटाङ्कितम् ॥ 97 ॥
मूलम् - 97
नागकन्यासहस्नाढ्चं मकरस्थमपांपतिम्।
नीलतोयदसंकाशं महाध्वजपटाङ्कितम् ॥ 97 ॥
विश्वास-प्रस्तुतिः - 98
ध्यायेत् समीरणं देवं संस्थितं हरिणोपरि।
सोमं तारागणोपेतं शङ्खगोक्षीरपाण्डरम् ॥ 98 ॥
मूलम् - 98
ध्यायेत् समीरणं देवं संस्थितं हरिणोपरि।
सोमं तारागणोपेतं शङ्खगोक्षीरपाण्डरम् ॥ 98 ॥
विश्वास-प्रस्तुतिः - 99
बृहच्छशकपृष्ठस्थं शिशिरास्त्रकरं स्मरेत्।
सितभूतिविलिप्ताङ्गं त्रिनेत्रं वृषवाहनम् ॥ 99 ॥
मूलम् - 99
बृहच्छशकपृष्ठस्थं शिशिरास्त्रकरं स्मरेत्।
सितभूतिविलिप्ताङ्गं त्रिनेत्रं वृषवाहनम् ॥ 99 ॥
विश्वास-प्रस्तुतिः - 100
त्रिशूलायुधहस्तं च त्वीशानं ज्ञानिनं स्मरेत्।
पातालदिग्गतं ध्यायेत् कूर्मारूढं हलायुधम् ॥ 100 ॥
मूलम् - 100
त्रिशूलायुधहस्तं च त्वीशानं ज्ञानिनं स्मरेत्।
पातालदिग्गतं ध्यायेत् कूर्मारूढं हलायुधम् ॥ 100 ॥
विश्वास-प्रस्तुतिः - 101
सितं सहस्रफणभृद्योनन्तो नाम नागराट्।
भचक्रं भ्राम्यमाणं तु दण्डहस्तं प्रजापतिम् ॥ 101 ॥
मूलम् - 101
सितं सहस्रफणभृद्योनन्तो नाम नागराट्।
भचक्रं भ्राम्यमाणं तु दण्डहस्तं प्रजापतिम् ॥ 101 ॥
विश्वास-प्रस्तुतिः - 102
हंसारूढं खसंस्थं तु ध्यायेद्ध्रुवमजं विभुम्।
एते चतुर्भुजाः सर्वे अक्षसूत्रविभूषिताः ॥ 102 ॥
मूलम् - 102
हंसारूढं खसंस्थं तु ध्यायेद्ध्रुवमजं विभुम्।
एते चतुर्भुजाः सर्वे अक्षसूत्रविभूषिताः ॥ 102 ॥
विश्वास-प्रस्तुतिः - 103
चिन्तयन्तः परं तत्त्वं वराभयकरोद्यताः।
दिव्याभरणदिग्धाङ्गा दिव्यमाल्याम्बरान्विताः ॥ 103 ॥
मूलम् - 103
चिन्तयन्तः परं तत्त्वं वराभयकरोद्यताः।
दिव्याभरणदिग्धाङ्गा दिव्यमाल्याम्बरान्विताः ॥ 103 ॥
विश्वास-प्रस्तुतिः - 104
दिव्यरूपधराश्चैव दिव्यगन्धवहा द्विज!।
रक्तशुक्लनिशापीतनीलचम्पकसप्रभैः ॥ 104 ॥
मूलम् - 104
दिव्यरूपधराश्चैव दिव्यगन्धवहा द्विज!।
रक्तशुक्लनिशापीतनीलचम्पकसप्रभैः ॥ 104 ॥
विश्वास-प्रस्तुतिः - 105
व्योमस्फटिकमार्तण्डराजोपलनिभैस्तथा।
माल्याङ्गरागवसनैः महार्घैः समलंकृताः ॥ 105 ॥
मूलम् - 105
व्योमस्फटिकमार्तण्डराजोपलनिभैस्तथा।
माल्याङ्गरागवसनैः महार्घैः समलंकृताः ॥ 105 ॥
विश्वास-प्रस्तुतिः - 106
भूषिता भूषणैश्चित्रैः करण्डमकुटादिभः।
एभ्यश्चतुर्भुजो ब्रह्मन्! विज्ञेयो वृषभध्वजः ॥ 106 ॥
मूलम् - 106
भूषिता भूषणैश्चित्रैः करण्डमकुटादिभः।
एभ्यश्चतुर्भुजो ब्रह्मन्! विज्ञेयो वृषभध्वजः ॥ 106 ॥
विश्वास-प्रस्तुतिः - 107
द्विभुजास्त्वमराश्चान्ये वरदाभयदास्तु वा।
इति लोकेश्वेरेषूक्तं ततो वै द्विजसत्तम! ॥ 107 ॥
मूलम् - 107
द्विभुजास्त्वमराश्चान्ये वरदाभयदास्तु वा।
इति लोकेश्वेरेषूक्तं ततो वै द्विजसत्तम! ॥ 107 ॥
विश्वास-प्रस्तुतिः - 108
तृतीयावरणद्वारे शाखामूले तु दक्षिणे।
सुदर्शनं चतुर्हस्तं ह्रस्वकायं ज्वलत्प्रभम् ॥ 108 ॥
मूलम् - 108
तृतीयावरणद्वारे शाखामूले तु दक्षिणे।
सुदर्शनं चतुर्हस्तं ह्रस्वकायं ज्वलत्प्रभम् ॥ 108 ॥
विश्वास-प्रस्तुतिः - 109
क्रौधरक्तेक्षणं दैत्यदानवासृग्विलेपनम्।
नृत्यन्तं मदमत्तं च सहस्रारान्तरस्थितम् ॥ 109 ॥
मूलम् - 109
क्रौधरक्तेक्षणं दैत्यदानवासृग्विलेपनम्।
नृत्यन्तं मदमत्तं च सहस्रारान्तरस्थितम् ॥ 109 ॥
विश्वास-प्रस्तुतिः - 110
दंष्ट्राकरालवदनं कुटिलभ्रूलतायुतम्।
कल्पान्तपावकाकारं स्वरश्मिपरिवेष्टितम् ॥ 110 ॥
मूलम् - 110
दंष्ट्राकरालवदनं कुटिलभ्रूलतायुतम्।
कल्पान्तपावकाकारं स्वरश्मिपरिवेष्टितम् ॥ 110 ॥
विश्वास-प्रस्तुतिः - 111
दक्षिणे भुजयुग्मे तु पूर्वेण च सुदर्शनम्।
धारयन्तं ततोऽन्येन विश्रान्तां भूतले गदाम् ॥ 111 ॥
मूलम् - 111
दक्षिणे भुजयुग्मे तु पूर्वेण च सुदर्शनम्।
धारयन्तं ततोऽन्येन विश्रान्तां भूतले गदाम् ॥ 111 ॥
विश्वास-प्रस्तुतिः - 112
शङ्खं मुख्येन वामेन ह्यपरेण गणित्रकम्।
हारकेयूरताटङ्कमकुटादिविभूषणैः ॥ 112 ॥
मूलम् - 112
शङ्खं मुख्येन वामेन ह्यपरेण गणित्रकम्।
हारकेयूरताटङ्कमकुटादिविभूषणैः ॥ 112 ॥
विश्वास-प्रस्तुतिः - 113
विभूषितं विचित्रैस्तु श्वेतमाल्याम्बरादिकैः।
विघ्नानुत्पाटयन्तं च दीप्तेन स्वेन तेजसा ॥ 113 ॥
मूलम् - 113
विभूषितं विचित्रैस्तु श्वेतमाल्याम्बरादिकैः।
विघ्नानुत्पाटयन्तं च दीप्तेन स्वेन तेजसा ॥ 113 ॥
विश्वास-प्रस्तुतिः - 114
संस्मरेत्तु ततोऽन्यस्मिन् शाखामूले महामते!।
सुस्थितं गरुढं विप्र! तप्तकाञ्चनसन्निभम् ॥ 114 ॥
मूलम् - 114
संस्मरेत्तु ततोऽन्यस्मिन् शाखामूले महामते!।
सुस्थितं गरुढं विप्र! तप्तकाञ्चनसन्निभम् ॥ 114 ॥
विश्वास-प्रस्तुतिः - 115
सौम्यवक्त्रं विवृत्ताक्षं रक्ततुण्डं सुभीषणम्।
पृथूदरं दीर्घपुच्छपक्षमण्डलमण्डितम् ॥ 115 ॥
मूलम् - 115
सौम्यवक्त्रं विवृत्ताक्षं रक्ततुण्डं सुभीषणम्।
पृथूदरं दीर्घपुच्छपक्षमण्डलमण्डितम् ॥ 115 ॥
विश्वास-प्रस्तुतिः - 116
रक्ताम्बरधरं चैव रक्तस्रगनुलेपनम्।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ॥ 116 ॥
मूलम् - 116
रक्ताम्बरधरं चैव रक्तस्रगनुलेपनम्।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ॥ 116 ॥
विश्वास-प्रस्तुतिः - 117
विचित्रकञ्चुकधरं भुजगेन्द्रैरलंकृतम्।
मकुटाद्यैरलंकारैर्विविधैस्तु विभूषितम् ॥ 117 ॥
मूलम् - 117
विचित्रकञ्चुकधरं भुजगेन्द्रैरलंकृतम्।
मकुटाद्यैरलंकारैर्विविधैस्तु विभूषितम् ॥ 117 ॥
विश्वास-प्रस्तुतिः - 118
भुजद्वये यच्चक्रस्य वामे संपरिकीर्तितम्।
दक्षिणे तद्भवेदस्य, दक्षोक्तं वामगं भवेत् ॥ 118 ॥
मूलम् - 118
भुजद्वये यच्चक्रस्य वामे संपरिकीर्तितम्।
दक्षिणे तद्भवेदस्य, दक्षोक्तं वामगं भवेत् ॥ 118 ॥
विश्वास-प्रस्तुतिः - 119
वज्रं शक्तिस्तथा दण्डःखङ्गः पाशो ध्वजस्तथा।
शिशिराख्यं त्रिशूलं च लाङ्गलं मुसलं तथा ॥ 119 ॥
मूलम् - 119
वज्रं शक्तिस्तथा दण्डःखङ्गः पाशो ध्वजस्तथा।
शिशिराख्यं त्रिशूलं च लाङ्गलं मुसलं तथा ॥ 119 ॥
विश्वास-प्रस्तुतिः - 120
पूर्वादिक्रमयोगेन चतुर्थावरणे स्थिताः।
एतेषां क्रमशो ध्यानं समाकर्णय साम्प्रतम् ॥ 120 ॥
मूलम् - 120
पूर्वादिक्रमयोगेन चतुर्थावरणे स्थिताः।
एतेषां क्रमशो ध्यानं समाकर्णय साम्प्रतम् ॥ 120 ॥
विश्वास-प्रस्तुतिः - 121
वज्रं वज्रोपलाभं तु सितदीर्घनखाङ्कितम्।
दंष्ट्राकरालवदनं ज्वलत्कनकलोचनम् ॥ 121 ॥
मूलम् - 121
वज्रं वज्रोपलाभं तु सितदीर्घनखाङ्कितम्।
दंष्ट्राकरालवदनं ज्वलत्कनकलोचनम् ॥ 121 ॥
विश्वास-प्रस्तुतिः - 122
सौदामिनीप्रभां शक्तिं शान्ताग्निवदनेक्षणाम्।
घनघर्घरनिर्घोषमुद्गिरन्तीं मुहुर्मुङुः ॥ 122 ॥
मूलम् - 122
सौदामिनीप्रभां शक्तिं शान्ताग्निवदनेक्षणाम्।
घनघर्घरनिर्घोषमुद्गिरन्तीं मुहुर्मुङुः ॥ 122 ॥
विश्वास-प्रस्तुतिः - 123
बद्धमुष्टिं स्मरेद्दण्डं रक्ताङ्गं रक्तलोचनम्।
क्रोधमूर्तिं स्वदशनैर्दशन्तमधर स्वकम् ॥ 123 ॥
मूलम् - 123
बद्धमुष्टिं स्मरेद्दण्डं रक्ताङ्गं रक्तलोचनम्।
क्रोधमूर्तिं स्वदशनैर्दशन्तमधर स्वकम् ॥ 123 ॥
विश्वास-प्रस्तुतिः - 124
स्व(ख)रश्मिखचितं ध्यायेन्नृत्यमानं च नन्दकम्।
शरदाकाशसंकाशं दशन्तं दशनावलीम् ॥ 124 ॥
मूलम् - 124
स्व(ख)रश्मिखचितं ध्यायेन्नृत्यमानं च नन्दकम्।
शरदाकाशसंकाशं दशन्तं दशनावलीम् ॥ 124 ॥
विश्वास-प्रस्तुतिः - 125
पाशं गुणगणाकीर्णं विद्युज्जिह्वं भयानकम्।
हेमालिपाण्डराभं च घोरास्यं रक्तलोचनम् ॥ 125 ॥
मूलम् - 125
पाशं गुणगणाकीर्णं विद्युज्जिह्वं भयानकम्।
हेमालिपाण्डराभं च घोरास्यं रक्तलोचनम् ॥ 125 ॥
विश्वास-प्रस्तुतिः - 126
शरज्जलदसंकाशं ध्वजं कुटिललोचनम्।
स्वतेजसा जगत् सर्वं द्योतयन्तं बलोत्कटम् ॥ 126 ॥
मूलम् - 126
शरज्जलदसंकाशं ध्वजं कुटिललोचनम्।
स्वतेजसा जगत् सर्वं द्योतयन्तं बलोत्कटम् ॥ 126 ॥
विश्वास-प्रस्तुतिः - 127
शिशिरं शीतधामाभं पीनाङ्गं पृथुविग्रहम्।
जटाकलापधृक्सौम्यं पुण्डरीकनिभेक्षणम् ॥ 127 ॥
मूलम् - 127
शिशिरं शीतधामाभं पीनाङ्गं पृथुविग्रहम्।
जटाकलापधृक्सौम्यं पुण्डरीकनिभेक्षणम् ॥ 127 ॥
विश्वास-प्रस्तुतिः - 128
उदयार्कसहस्राभं त्रिशूलं भीषणाकृतिम्।
कल्पान्तपावकाकारस्वरश्मिपरिवेष्टितम् ॥ 128 ॥
मूलम् - 128
उदयार्कसहस्राभं त्रिशूलं भीषणाकृतिम्।
कल्पान्तपावकाकारस्वरश्मिपरिवेष्टितम् ॥ 128 ॥
विश्वास-प्रस्तुतिः - 129
सन्ध्याजलदसंकाशं लाङ्गलं भीमलोचनम्।
क्षामाङ्गमुन्नतांसं च वज्रकायं बलोत्कटम् ॥ 129 ॥
मूलम् - 129
सन्ध्याजलदसंकाशं लाङ्गलं भीमलोचनम्।
क्षामाङ्गमुन्नतांसं च वज्रकायं बलोत्कटम् ॥ 129 ॥
विश्वास-प्रस्तुतिः - 130
कुन्दावदातं मुसलं सौम्यमीषत्स्मिताननम्।
रवं रवन्तं मधुरं श्रोत्रेन्द्रियसुखावहम् ॥ 130 ॥
मूलम् - 130
कुन्दावदातं मुसलं सौम्यमीषत्स्मिताननम्।
रवं रवन्तं मधुरं श्रोत्रेन्द्रियसुखावहम् ॥ 130 ॥
विश्वास-प्रस्तुतिः - 131
नीलरक्तसितापीतपावकाञ्जनसन्निभैः।
हेमचन्द्रहिमाकाशसमानाभैः क्रमेण तु ॥ 131 ॥
मूलम् - 131
नीलरक्तसितापीतपावकाञ्जनसन्निभैः।
हेमचन्द्रहिमाकाशसमानाभैः क्रमेण तु ॥ 131 ॥
विश्वास-प्रस्तुतिः - 132
माल्याङ्गरागवसनै रुचिरैः समलंकृताः।
दिव्यैराभरणैर्युक्ताः स्वचिङ्नाङ्कितमस्तकाः ॥ 132 ॥
मूलम् - 132
माल्याङ्गरागवसनै रुचिरैः समलंकृताः।
दिव्यैराभरणैर्युक्ताः स्वचिङ्नाङ्कितमस्तकाः ॥ 132 ॥
विश्वास-प्रस्तुतिः - 133
तर्जयन्तश्च दुष्टौघं दक्षिणेन करेण तु।
वामेन कटिमालम्ब्य सुसमैः स्थानकैः स्थिताः ॥ 133 ॥
मूलम् - 133
तर्जयन्तश्च दुष्टौघं दक्षिणेन करेण तु।
वामेन कटिमालम्ब्य सुसमैः स्थानकैः स्थिताः ॥ 133 ॥
विश्वास-प्रस्तुतिः - 134
चतुर्थावरणद्वारदक्षिणोत्तरशाखयोः।
गङ्गां च यमुनां चैव ध्यात्वा संपूजयेत् क्रमात् ॥ 134 ॥
मूलम् - 134
चतुर्थावरणद्वारदक्षिणोत्तरशाखयोः।
गङ्गां च यमुनां चैव ध्यात्वा संपूजयेत् क्रमात् ॥ 134 ॥
विश्वास-प्रस्तुतिः - 135
भगवत्पादसंभूतां गङ्गां कुमुदसन्निभाम्।
नवयौवनलावण्यसौकुमार्यगुणैर्वृताम् ॥ 135 ॥
मूलम् - 135
भगवत्पादसंभूतां गङ्गां कुमुदसन्निभाम्।
नवयौवनलावण्यसौकुमार्यगुणैर्वृताम् ॥ 135 ॥
विश्वास-प्रस्तुतिः - 136
नीलाङ्गरागवसनां नीलमाल्यैरलंकृताम्।
द्विभुजां सौम्यवदनां पुण्डरीकनिभेक्षणाम् ॥ 136 ॥
मूलम् - 136
नीलाङ्गरागवसनां नीलमाल्यैरलंकृताम्।
द्विभुजां सौम्यवदनां पुण्डरीकनिभेक्षणाम् ॥ 136 ॥
विश्वास-प्रस्तुतिः - 137
हारनू पुरकेयूरकुण्डलाद्युपशोभिताम्।
संसारतापसन्तप्तानारुरुक्षून् पंर पदम् ॥ 137 ॥
मूलम् - 137
हारनू पुरकेयूरकुण्डलाद्युपशोभिताम्।
संसारतापसन्तप्तानारुरुक्षून् पंर पदम् ॥ 137 ॥
विश्वास-प्रस्तुतिः - 138
वासनाकर्मपङ्कानि क्षालयन्तीं स्वतेजसा।
वहन्तीं दक्षिणेनैव कलशं वारिपूरितम् ॥ 138 ॥
मूलम् - 138
वासनाकर्मपङ्कानि क्षालयन्तीं स्वतेजसा।
वहन्तीं दक्षिणेनैव कलशं वारिपूरितम् ॥ 138 ॥
विश्वास-प्रस्तुतिः - 139
वामेन तर्जयन्तीं च करेण प्राकृतान् जनान्।
यमुनां नीलरत्ना(क्ता)भां नीलकुञ्चितमूर्धजाम् ॥ 139 ॥
मूलम् - 139
वामेन तर्जयन्तीं च करेण प्राकृतान् जनान्।
यमुनां नीलरत्ना(क्ता)भां नीलकुञ्चितमूर्धजाम् ॥ 139 ॥
विश्वास-प्रस्तुतिः - 140
सिताङ्गरागवसनां सितमाल्योपशोभिताम्।
दक्षिणे तर्जनी मुद्रा वामे तु कलशः स्मृतः ॥ 140 ॥
मूलम् - 140
सिताङ्गरागवसनां सितमाल्योपशोभिताम्।
दक्षिणे तर्जनी मुद्रा वामे तु कलशः स्मृतः ॥ 140 ॥
विश्वास-प्रस्तुतिः - 141
अन्यत् सर्वं तु गङ्गोक्तमत्रापि स्यान्महामते!।
लोहिताक्षो महावीर्यस्त्वप्रमेयः सुशोभनः ॥ 141 ॥
मूलम् - 141
अन्यत् सर्वं तु गङ्गोक्तमत्रापि स्यान्महामते!।
लोहिताक्षो महावीर्यस्त्वप्रमेयः सुशोभनः ॥ 141 ॥
विश्वास-प्रस्तुतिः - 142
वीरहा विक्रमो भीमः शतावर्तस्तु चाष्टमः।
ऐश्वरीदिक्क्रमेणैव पञ्चमावरणे स्थिताः ॥ 142 ॥
मूलम् - 142
वीरहा विक्रमो भीमः शतावर्तस्तु चाष्टमः।
ऐश्वरीदिक्क्रमेणैव पञ्चमावरणे स्थिताः ॥ 142 ॥
विश्वास-प्रस्तुतिः - 143
ध्यायेच्चन्द्रप्रतीकाशं लोहिताक्षं बलोत्कटम्।
नीलाम्बरधरं नीलमाल्यं नीलानुलेपनम् ॥ 143 ॥
मूलम् - 143
ध्यायेच्चन्द्रप्रतीकाशं लोहिताक्षं बलोत्कटम्।
नीलाम्बरधरं नीलमाल्यं नीलानुलेपनम् ॥ 143 ॥
विश्वास-प्रस्तुतिः - 144
महावीर्यं महाकायं पीतवर्णं महाभुजम्।
प्रवालाभाम्बरधरं रक्तस्नगनुलेपनम् ॥ 144 ॥
मूलम् - 144
महावीर्यं महाकायं पीतवर्णं महाभुजम्।
प्रवालाभाम्बरधरं रक्तस्नगनुलेपनम् ॥ 144 ॥
विश्वास-प्रस्तुतिः - 145
संस्मरेदप्रमेयाक्यमप्रमेयबलोत्कटम्।
हरिताकृतिमापीतवसनस्रग्विलेपनम् ॥ 145 ॥
मूलम् - 145
संस्मरेदप्रमेयाक्यमप्रमेयबलोत्कटम्।
हरिताकृतिमापीतवसनस्रग्विलेपनम् ॥ 145 ॥
विश्वास-प्रस्तुतिः - 146
सुशोभनं शोभनाङ्गं मुक्ताफलनिभं स्मरेत्।
अतसीपुष्पसंकाशवासोमाल्यानुलेपनम् ॥ 146 ॥
मूलम् - 146
सुशोभनं शोभनाङ्गं मुक्ताफलनिभं स्मरेत्।
अतसीपुष्पसंकाशवासोमाल्यानुलेपनम् ॥ 146 ॥
विश्वास-प्रस्तुतिः - 147
वीरघ्नं वीरहाख्यं च ध्यायेच्चम्पकसप्रभम्।
बाह्लीकरञ्जितं रक्तवसनस्रग्विमण्डितम् ॥ 147 ॥
मूलम् - 147
वीरघ्नं वीरहाख्यं च ध्यायेच्चम्पकसप्रभम्।
बाह्लीकरञ्जितं रक्तवसनस्रग्विमण्डितम् ॥ 147 ॥
विश्वास-प्रस्तुतिः - 148
विक्रमं विक्रमावासं चाषोदरनिभं स्मरेत्।
कुन्देन्दुकान्तिवसनं सितमाल्यानुलेपनम् ॥ 148 ॥
मूलम् - 148
विक्रमं विक्रमावासं चाषोदरनिभं स्मरेत्।
कुन्देन्दुकान्तिवसनं सितमाल्यानुलेपनम् ॥ 148 ॥
विश्वास-प्रस्तुतिः - 149
भीमं भीमाकृतिं ध्यायेत्तप्तकाञ्चनसन्निभम्।
पाण्डरारुणकौशेयं तद्वद्गन्धस्रगन्वितम् ॥ 149 ॥
मूलम् - 149
भीमं भीमाकृतिं ध्यायेत्तप्तकाञ्चनसन्निभम्।
पाण्डरारुणकौशेयं तद्वद्गन्धस्रगन्वितम् ॥ 149 ॥
विश्वास-प्रस्तुतिः - 150
अतसीकुसुमश्यामं शतावर्तं तु भावयेत्।
पीताम्बरधरं पीतमाल्यगन्धविभूषितम् ॥ 150 ।
मूलम् - 150
अतसीकुसुमश्यामं शतावर्तं तु भावयेत्।
पीताम्बरधरं पीतमाल्यगन्धविभूषितम् ॥ 150 ।
विश्वास-प्रस्तुतिः - 151
भुजद्वयान्विता ह्येते चान्तर्मुदितमानसाः।
दक्षिणैः पाणिभि- सर्वेर्ज्वलन्तं परशुं तथा ॥ 151 ॥
मूलम् - 151
भुजद्वयान्विता ह्येते चान्तर्मुदितमानसाः।
दक्षिणैः पाणिभि- सर्वेर्ज्वलन्तं परशुं तथा ॥ 151 ॥
विश्वास-प्रस्तुतिः - 152
वामैः शङ्खवरं दीप्तं दधानाश्चारुकुण्डलाः।
समाः समविभक्ताङ्गाः प्रशान्ताकृतयस्तथा ॥ 152 ॥
मूलम् - 152
वामैः शङ्खवरं दीप्तं दधानाश्चारुकुण्डलाः।
समाः समविभक्ताङ्गाः प्रशान्ताकृतयस्तथा ॥ 152 ॥
विश्वास-प्रस्तुतिः - 153
स्थानकैः संस्थिताः सर्वे स्वप्रभाभिर्विराजिताः।
प्रसन्नवदनाः सौम्यास्त्रैलोक्योद्धरणक्षमाः ॥ 153 ॥
मूलम् - 153
स्थानकैः संस्थिताः सर्वे स्वप्रभाभिर्विराजिताः।
प्रसन्नवदनाः सौम्यास्त्रैलोक्योद्धरणक्षमाः ॥ 153 ॥
विश्वास-प्रस्तुतिः - 154
हारनूपुरकेयूरपूर्वभूषाविभूषिताः।
तदाज्ञाप्रेक्षकाश्चैव दुष्टदोषोपशान्तिदाः ॥ 154 ॥
मूलम् - 154
हारनूपुरकेयूरपूर्वभूषाविभूषिताः।
तदाज्ञाप्रेक्षकाश्चैव दुष्टदोषोपशान्तिदाः ॥ 154 ॥
विश्वास-प्रस्तुतिः - 155
बलेन महता क्षिप्तदेवासुरमहोरगाः।
एकवीराऽसहायाश्च त्वप्रयत्नेन लीलया ॥ 155 ॥
मूलम् - 155
बलेन महता क्षिप्तदेवासुरमहोरगाः।
एकवीराऽसहायाश्च त्वप्रयत्नेन लीलया ॥ 155 ॥
विश्वास-प्रस्तुतिः - 156
आब्रह्नभवनं शश्वत् परिवर्तयितुं क्षमाः।
एतदावरणद्वारचतुष्के द्वारदेवताः ॥ 156 ॥
मूलम् - 156
आब्रह्नभवनं शश्वत् परिवर्तयितुं क्षमाः।
एतदावरणद्वारचतुष्के द्वारदेवताः ॥ 156 ॥
विश्वास-प्रस्तुतिः - 157
न्यसेद्युग्मप्रयोगेण पूर्वद्वारादितः क्रमात्।
वज्रनाभं हरीशं च पूर्वस्यां दक्षिणोत्तरे ॥ 157 ॥
मूलम् - 157
न्यसेद्युग्मप्रयोगेण पूर्वद्वारादितः क्रमात्।
वज्रनाभं हरीशं च पूर्वस्यां दक्षिणोत्तरे ॥ 157 ॥
विश्वास-प्रस्तुतिः - 158
ध्यायेत्तु वज्रनाभाख्यं शतधामसमप्रभम्।
मुख्यदक्षिणहस्तेन निषेधाभिनयान्वितम् ॥ 158 ॥
मूलम् - 158
ध्यायेत्तु वज्रनाभाख्यं शतधामसमप्रभम्।
मुख्यदक्षिणहस्तेन निषेधाभिनयान्वितम् ॥ 158 ॥
विश्वास-प्रस्तुतिः - 159
वेत्रलतां द्वितीयेन चक्रराजं तृतीयतः।
मुख्यवामकरेणैव श्रोणीतटकृतार्पणम् ॥ 159 ॥
मूलम् - 159
वेत्रलतां द्वितीयेन चक्रराजं तृतीयतः।
मुख्यवामकरेणैव श्रोणीतटकृतार्पणम् ॥ 159 ॥
विश्वास-प्रस्तुतिः - 160
शङ्खराजं द्वितीयेन तथा वज्रं तृतीयतः।
धारयन्तं, तथा रुक्मभूषणैर्विविधैरपि ॥ 160 ॥
मूलम् - 160
शङ्खराजं द्वितीयेन तथा वज्रं तृतीयतः।
धारयन्तं, तथा रुक्मभूषणैर्विविधैरपि ॥ 160 ॥
विश्वास-प्रस्तुतिः - 161
रक्तमाल्याम्बरधरं रक्तस्रगनुलेपनम्।
एवमेव हरीशं च निषेधाभिनयोज्झितम् ॥ 161 ॥
मूलम् - 161
रक्तमाल्याम्बरधरं रक्तस्रगनुलेपनम्।
एवमेव हरीशं च निषेधाभिनयोज्झितम् ॥ 161 ॥
विश्वास-प्रस्तुतिः - 162
प्रवेशाभिनयाख्येन पाणिना किन्तु चिह्नितम्।
एको ह्यत्र निषेधं च त्वभक्तानां करोति वै ॥ 162 ॥
मूलम् - 162
प्रवेशाभिनयाख्येन पाणिना किन्तु चिह्नितम्।
एको ह्यत्र निषेधं च त्वभक्तानां करोति वै ॥ 162 ॥
विश्वास-प्रस्तुतिः - 163
भक्तानामपरश्चैव प्रवेशं संप्रयच्छति।
द्वारे द्वारे प्रतीहारद्वयस्यैवं प्रयोजनम् ॥ 163 ॥
मूलम् - 163
भक्तानामपरश्चैव प्रवेशं संप्रयच्छति।
द्वारे द्वारे प्रतीहारद्वयस्यैवं प्रयोजनम् ॥ 163 ॥
विश्वास-प्रस्तुतिः - 164
दक्षोक्तं वज्रनाभस्य तद्धरीशस्य वामगम्।
आद्यवामगतं सर्वमन्यद्दक्षिणपाणिगम् ॥ 164 ॥
मूलम् - 164
दक्षोक्तं वज्रनाभस्य तद्धरीशस्य वामगम्।
आद्यवामगतं सर्वमन्यद्दक्षिणपाणिगम् ॥ 164 ॥
विश्वास-प्रस्तुतिः - 165
धर्माध्यक्षनियन्त्रीशौ दक्षिणे दक्षिणोत्तरे।
कुर्यादन्तकसादृश्यौ पूर्ववद्भुजभूषितौ ॥ 165 ॥
मूलम् - 165
धर्माध्यक्षनियन्त्रीशौ दक्षिणे दक्षिणोत्तरे।
कुर्यादन्तकसादृश्यौ पूर्ववद्भुजभूषितौ ॥ 165 ॥
विश्वास-प्रस्तुतिः - 166
पीतकौशेयवसनौ पीतमाल्यविलेपनौ।
किन्तु दण्डगदाहस्तौ वज्रचक्रविवर्जितौ ॥ 166 ॥
मूलम् - 166
पीतकौशेयवसनौ पीतमाल्यविलेपनौ।
किन्तु दण्डगदाहस्तौ वज्रचक्रविवर्जितौ ॥ 166 ॥
विश्वास-प्रस्तुतिः - 167
शुद्धाक्षममृतानन्दं प्रतीच्यां दक्षिणादितः।
वाणकार्मुकमेकस्मिन् पाणौ पाशमथापरे ॥ 167 ॥
मूलम् - 167
शुद्धाक्षममृतानन्दं प्रतीच्यां दक्षिणादितः।
वाणकार्मुकमेकस्मिन् पाणौ पाशमथापरे ॥ 167 ॥
विश्वास-प्रस्तुतिः - 168
आद्यं करचतुष्कं यत्तद्व्यग्रं पूर्ववद्भवेत्।
आकृतौ जलनाथस्य सदृशौ सर्वदैव हि ॥ 168 ॥
मूलम् - 168
आद्यं करचतुष्कं यत्तद्व्यग्रं पूर्ववद्भवेत्।
आकृतौ जलनाथस्य सदृशौ सर्वदैव हि ॥ 168 ॥
विश्वास-प्रस्तुतिः - 169
नीलकौशेयवसनौ नीलस्रगनुलेपनौ।
वसुनाथं सुधानन्दमुदग्दिग्दक्षिणोत्तरे ॥ 169 ॥
मूलम् - 169
नीलकौशेयवसनौ नीलस्रगनुलेपनौ।
वसुनाथं सुधानन्दमुदग्दिग्दक्षिणोत्तरे ॥ 169 ॥
विश्वास-प्रस्तुतिः - 170
खड्गमुद्गरहस्तौ च प्राग्वच्छेषं चतुष्टयम्।
कराणामनयोः कार्यं रूपेणोडुपतेः समम् ॥ 170 ॥
मूलम् - 170
खड्गमुद्गरहस्तौ च प्राग्वच्छेषं चतुष्टयम्।
कराणामनयोः कार्यं रूपेणोडुपतेः समम् ॥ 170 ॥
विश्वास-प्रस्तुतिः - 171
अतसीकुसुमश्यामकौशेयस्रग्विलेपनौ।
भूषणैर्भूषिता ह्येते विविधैर्वज्रनाभवत् ॥ 171 ॥
मूलम् - 171
अतसीकुसुमश्यामकौशेयस्रग्विलेपनौ।
भूषणैर्भूषिता ह्येते विविधैर्वज्रनाभवत् ॥ 171 ॥
विश्वास-प्रस्तुतिः - 172
षष्ठावरणदेवानां तद्द्वार्स्थानां विशेषतः।
ध्यानं श्रृणु क्रमेणैव तत्त्वतो मुनिपुङ्गव! ॥ 172 ॥
मूलम् - 172
षष्ठावरणदेवानां तद्द्वार्स्थानां विशेषतः।
ध्यानं श्रृणु क्रमेणैव तत्त्वतो मुनिपुङ्गव! ॥ 172 ॥
विश्वास-प्रस्तुतिः - 173
पूर्वादीशानपर्यन्तं षष्ठावरणसंस्थिताः।
एताश्च देवता विप्र! तेजोरूपं समाश्रिताः ॥ 173 ॥
मूलम् - 173
पूर्वादीशानपर्यन्तं षष्ठावरणसंस्थिताः।
एताश्च देवता विप्र! तेजोरूपं समाश्रिताः ॥ 173 ॥
विश्वास-प्रस्तुतिः - 174
कालो वियन्नियन्ता च शास्त्रं नानाङ्गलक्षणम्।
विद्याधिपतयश्चैव सरुद्राः सगणः शिवः ॥ 174 ॥
मूलम् - 174
कालो वियन्नियन्ता च शास्त्रं नानाङ्गलक्षणम्।
विद्याधिपतयश्चैव सरुद्राः सगणः शिवः ॥ 174 ॥
विश्वास-प्रस्तुतिः - 175
प्रजापतिसमूहस्तु इन्द्रः सपरिवारकः।
तन्मुख्यद्वाश्चतुष्के तु पूर्ववत् संस्थिताः क्रमात् ॥ 175 ॥
मूलम् - 175
प्रजापतिसमूहस्तु इन्द्रः सपरिवारकः।
तन्मुख्यद्वाश्चतुष्के तु पूर्ववत् संस्थिताः क्रमात् ॥ 175 ॥
विश्वास-प्रस्तुतिः - 176
चक्रशङ्खौ पद्मगदे लाङ्गलं मुसलं शराः।
शार्ङ्गं चैते क्रमाद्ध्येया विद्युत्तुहिनकुन्दभाः ॥ 176 ॥
मूलम् - 176
चक्रशङ्खौ पद्मगदे लाङ्गलं मुसलं शराः।
शार्ङ्गं चैते क्रमाद्ध्येया विद्युत्तुहिनकुन्दभाः ॥ 176 ॥
विश्वास-प्रस्तुतिः - 177
पीतनीलसितारक्तसितगोक्षीरसन्निभैः।
हरितालारुणाभैस्तु वस्त्रमाल्यानुलेपनैः ॥ 177 ॥
मूलम् - 177
पीतनीलसितारक्तसितगोक्षीरसन्निभैः।
हरितालारुणाभैस्तु वस्त्रमाल्यानुलेपनैः ॥ 177 ॥
विश्वास-प्रस्तुतिः - 178
सर्वरत्नमयैर्युक्तैर्भूषणैरप्यलङ्कृताः।
महाबला महावीर्यास्त्वेकवक्त्रा द्विबाहवः ॥ 178 ॥
मूलम् - 178
सर्वरत्नमयैर्युक्तैर्भूषणैरप्यलङ्कृताः।
महाबला महावीर्यास्त्वेकवक्त्रा द्विबाहवः ॥ 178 ॥
विश्वास-प्रस्तुतिः - 179
एते तु नायकाः सर्वे स्वचिन्हाङ्कितमस्तकाः।
दुष्टौघं तर्जयन्तश्च दक्षिणेन करेण तु ॥ 179 ॥
मूलम् - 179
एते तु नायकाः सर्वे स्वचिन्हाङ्कितमस्तकाः।
दुष्टौघं तर्जयन्तश्च दक्षिणेन करेण तु ॥ 179 ॥
विश्वास-प्रस्तुतिः - 180
कटिमालम्ब्य वामेन स्थानकैः सुसमैः स्थिताः।
दृढव्रतो बहुशिरा महाकायो महाबलः ॥ 180 ॥
मूलम् - 180
कटिमालम्ब्य वामेन स्थानकैः सुसमैः स्थिताः।
दृढव्रतो बहुशिरा महाकायो महाबलः ॥ 180 ॥
विश्वास-प्रस्तुतिः - 181
जितक्रोधो दुराधर्षो महोत्साहस्त्रिविक्रमः।
अतुलो दुष्टहाऽर्चिष्मान् सर्वदृग् दुरतिक्रमः ॥ 181 ॥
मूलम् - 181
जितक्रोधो दुराधर्षो महोत्साहस्त्रिविक्रमः।
अतुलो दुष्टहाऽर्चिष्मान् सर्वदृग् दुरतिक्रमः ॥ 181 ॥
विश्वास-प्रस्तुतिः - 182
विषमो गहनोऽमोघः षोडशोपप्रवेशकाः।
शक्राग्निमध्यमारभ्य शक्रेशानान्तरावधि ॥ 182 ॥
मूलम् - 182
विषमो गहनोऽमोघः षोडशोपप्रवेशकाः।
शक्राग्निमध्यमारभ्य शक्रेशानान्तरावधि ॥ 182 ॥
विश्वास-प्रस्तुतिः - 183
शुक्लशोणसुवर्णालिपिङ्गरक्तसितासिताः।
रक्तपीतातसीहेमाः शोणशुभ्रसितासिताः । 183 ॥
मूलम् - 183
शुक्लशोणसुवर्णालिपिङ्गरक्तसितासिताः।
रक्तपीतातसीहेमाः शोणशुभ्रसितासिताः । 183 ॥
विश्वास-प्रस्तुतिः - 184
वर्णानुरूपसद्वस्त्रमाल्यालेपनभूषणाः।
नामानुरूपचारित्राः शङ्खमुद्गरधारिणः ॥ 184 ॥
मूलम् - 184
वर्णानुरूपसद्वस्त्रमाल्यालेपनभूषणाः।
नामानुरूपचारित्राः शङ्खमुद्गरधारिणः ॥ 184 ॥
विश्वास-प्रस्तुतिः - 185
सव्येतरक्रमेणैव प्रवेशकनिषेधकाः।
क्षणाद्भुवनसंहारसृष्टिस्थितिकृतिक्षणाः ॥ 185 ॥
मूलम् - 185
सव्येतरक्रमेणैव प्रवेशकनिषेधकाः।
क्षणाद्भुवनसंहारसृष्टिस्थितिकृतिक्षणाः ॥ 185 ॥
विश्वास-प्रस्तुतिः - 186
उक्तानेतान् क्रमेणैव पूर्ववत् संप्रपूजयेत्।
मुनयः सप्त पूर्वेऽन्ये ग्रहास्तारादिकैर्वृताः ॥ 186 ॥
मूलम् - 186
उक्तानेतान् क्रमेणैव पूर्ववत् संप्रपूजयेत्।
मुनयः सप्त पूर्वेऽन्ये ग्रहास्तारादिकैर्वृताः ॥ 186 ॥
विश्वास-प्रस्तुतिः - 187
जीमूताश्चाखिला नागास्त्वप्सरोगण उत्तमः।
ओषध्यश्चैव पशवो यज्ञाः साङ्गखिलास्तु ये ॥ 187 ॥
मूलम् - 187
जीमूताश्चाखिला नागास्त्वप्सरोगण उत्तमः।
ओषध्यश्चैव पशवो यज्ञाः साङ्गखिलास्तु ये ॥ 187 ॥
विश्वास-प्रस्तुतिः - 188
सूक्ष्मरूपेण तिष्ठन्ति पूर्ववत् सप्तमावृतौ।
संभवः प्रभवश्चैव पूर्णः पुष्कर एव च ॥ 188 ॥
मूलम् - 188
सूक्ष्मरूपेण तिष्ठन्ति पूर्ववत् सप्तमावृतौ।
संभवः प्रभवश्चैव पूर्णः पुष्कर एव च ॥ 188 ॥
विश्वास-प्रस्तुतिः - 189
आनन्दो नन्दनश्चैव वीरसेनसुषेणकौ।
तन्मुख्यद्वारशाखास्थौ द्वौ द्वौ दक्षिणवामयोः । 189 ॥
मूलम् - 189
आनन्दो नन्दनश्चैव वीरसेनसुषेणकौ।
तन्मुख्यद्वारशाखास्थौ द्वौ द्वौ दक्षिणवामयोः । 189 ॥
विश्वास-प्रस्तुतिः - 190
संभवः श्वेतवर्णस्तु प्रभवः कुन्दसन्निभः।
पूर्णस्तु रक्तवर्णाभस्त्वतिरक्तस्तु पुष्करः ॥ 190 ॥
मूलम् - 190
संभवः श्वेतवर्णस्तु प्रभवः कुन्दसन्निभः।
पूर्णस्तु रक्तवर्णाभस्त्वतिरक्तस्तु पुष्करः ॥ 190 ॥
विश्वास-प्रस्तुतिः - 191
आनन्दः पीतवर्णस्तु हेमाभो नन्द उच्यते।
कृष्णाभो वीरसेनस्तु सुषेणोऽञ्जनसन्निभः ॥ 191 ॥
मूलम् - 191
आनन्दः पीतवर्णस्तु हेमाभो नन्द उच्यते।
कृष्णाभो वीरसेनस्तु सुषेणोऽञ्जनसन्निभः ॥ 191 ॥
विश्वास-प्रस्तुतिः - 192
मकुटाङ्गदचित्राङ्गा गदाहस्ता द्विबाहवः।
चतुर्भुजा वा विप्रेन्द्र! शङ्खचक्रगदाधराः ॥ 192 ॥
मूलम् - 192
मकुटाङ्गदचित्राङ्गा गदाहस्ता द्विबाहवः।
चतुर्भुजा वा विप्रेन्द्र! शङ्खचक्रगदाधराः ॥ 192 ॥
विश्वास-प्रस्तुतिः - 193
पूर्ववत् पाणिनान्येन प्रेवशकनिषेधकाः।
दंष्ट्राकरालवदना निग्रहानुग्रहक्षमाः ॥ 193 ॥
मूलम् - 193
पूर्ववत् पाणिनान्येन प्रेवशकनिषेधकाः।
दंष्ट्राकरालवदना निग्रहानुग्रहक्षमाः ॥ 193 ॥
विश्वास-प्रस्तुतिः - 194
क्षेमकृच्छिवकृत् प्राज्ञो होमकृद्भूतभावनः।
युगान्ताग्न्यशनश्चैव संवर्तो भीषणस्तथा ॥ 194 ॥
मूलम् - 194
क्षेमकृच्छिवकृत् प्राज्ञो होमकृद्भूतभावनः।
युगान्ताग्न्यशनश्चैव संवर्तो भीषणस्तथा ॥ 194 ॥
विश्वास-प्रस्तुतिः - 195
संक्रन्दनश्चानिमिषः शतपर्वा शताननः।
औदुम्बरः प्राकृतिको द्वि (वि) रामश्चांशुमाल्यपि ॥ 195 ॥
मूलम् - 195
संक्रन्दनश्चानिमिषः शतपर्वा शताननः।
औदुम्बरः प्राकृतिको द्वि (वि) रामश्चांशुमाल्यपि ॥ 195 ॥
विश्वास-प्रस्तुतिः - 196
औपदौवारिकं त्वेतद्गणषोडशकं क्रमात्।
दृढव्रतादिसदृशं वर्णतः षड्भूजान्वितम् ॥ 196 ॥
मूलम् - 196
औपदौवारिकं त्वेतद्गणषोडशकं क्रमात्।
दृढव्रतादिसदृशं वर्णतः षड्भूजान्वितम् ॥ 196 ॥
विश्वास-प्रस्तुतिः - 197
वामदक्षिणयोगेन पृष्ठतः पूर्वपश्चिमम्।
शङ्खमुद्गरपझाक्षवराभयसमन्वितम् ॥ 197 ॥
मूलम् - 197
वामदक्षिणयोगेन पृष्ठतः पूर्वपश्चिमम्।
शङ्खमुद्गरपझाक्षवराभयसमन्वितम् ॥ 197 ॥
विश्वास-प्रस्तुतिः - 198
नानावर्णस्रगुष्णीषवस्त्रालेपनभूषणम्।
प्रागुक्तगणशौर्याढ्यं सर्वकर्मकृतिक्षमम् ॥ 198 ॥
मूलम् - 198
नानावर्णस्रगुष्णीषवस्त्रालेपनभूषणम्।
प्रागुक्तगणशौर्याढ्यं सर्वकर्मकृतिक्षमम् ॥ 198 ॥
विश्वास-प्रस्तुतिः - 199
तच्छोभाष्टकरक्षार्थं शतमन्युर्विरोचनः।
अप्रतर्क्यस्त्वनुल्लङ्घ्यस्त्वप्रमेयाभिधानकः ॥ 199 ॥
मूलम् - 199
तच्छोभाष्टकरक्षार्थं शतमन्युर्विरोचनः।
अप्रतर्क्यस्त्वनुल्लङ्घ्यस्त्वप्रमेयाभिधानकः ॥ 199 ॥
विश्वास-प्रस्तुतिः - 200
अमर्षी च महद्भूतः केऽराक्षस्तथाष्टमः।
इन्द्राग्निमध्योपद्वारपार्श्वशोभास्वनुक्रमात् ॥ 200 ॥
मूलम् - 200
अमर्षी च महद्भूतः केऽराक्षस्तथाष्टमः।
इन्द्राग्निमध्योपद्वारपार्श्वशोभास्वनुक्रमात् ॥ 200 ॥
विश्वास-प्रस्तुतिः - 201
एकाकशः स्थिताः शूराः प्रवेशकनिषेधकाः।
नीलपीतजपाश्यामसितहिङ्गुलकेन्दुभाः ॥ 201 ॥
मूलम् - 201
एकाकशः स्थिताः शूराः प्रवेशकनिषेधकाः।
नीलपीतजपाश्यामसितहिङ्गुलकेन्दुभाः ॥ 201 ॥
विश्वास-प्रस्तुतिः - 202
महाबला महावीर्याः सुदुर्लङ्घ्यपारक्रमाः।
नानाविधाम्बरैः स्रग्भिर्भूषणैरनुलेपनैः ॥ 202 ॥
मूलम् - 202
महाबला महावीर्याः सुदुर्लङ्घ्यपारक्रमाः।
नानाविधाम्बरैः स्रग्भिर्भूषणैरनुलेपनैः ॥ 202 ॥
विश्वास-प्रस्तुतिः - 203
अन्यैरनुपदिष्टैश्च यथाशोभमलंकृताः।
षाड्गुण्यमहिमायुक्ताश्चतुर्हस्ताः क्रमेण तु ॥ 203 ॥
मूलम् - 203
अन्यैरनुपदिष्टैश्च यथाशोभमलंकृताः।
षाड्गुण्यमहिमायुक्ताश्चतुर्हस्ताः क्रमेण तु ॥ 203 ॥
विश्वास-प्रस्तुतिः - 204
पृष्ठदक्षिणवामाभ्यां चक्रशङ्खसमन्विताः।
गदाग्रोपरिविश्रान्तमुक्यहस्तद्वयान्विताः ॥ 204 ॥
मूलम् - 204
पृष्ठदक्षिणवामाभ्यां चक्रशङ्खसमन्विताः।
गदाग्रोपरिविश्रान्तमुक्यहस्तद्वयान्विताः ॥ 204 ॥
विश्वास-प्रस्तुतिः - 205
द्वारोपद्वारशोभेशानेतान् संपूजयेत् क्रमात्।
विद्या चैवापरा विद्या पावकश्चैव मारुतः ॥ 205 ॥
मूलम् - 205
द्वारोपद्वारशोभेशानेतान् संपूजयेत् क्रमात्।
विद्या चैवापरा विद्या पावकश्चैव मारुतः ॥ 205 ॥
विश्वास-प्रस्तुतिः - 206
चन्द्गार्कौ वारि वसुधेत्येताः संसारदेवताः।
सूक्ष्मरूपेण तिष्ठन्ति बाह्यावरणभूतले ॥ 206 ॥
मूलम् - 206
चन्द्गार्कौ वारि वसुधेत्येताः संसारदेवताः।
सूक्ष्मरूपेण तिष्ठन्ति बाह्यावरणभूतले ॥ 206 ॥
विश्वास-प्रस्तुतिः - 207
अमरेशो विरूपाक्षः सुधर्मिष्ठो नियामकः।
सर्वसत्त्वाश्रयश्चातिगहनस्तदनन्तरम् ॥ 207 ॥
मूलम् - 207
अमरेशो विरूपाक्षः सुधर्मिष्ठो नियामकः।
सर्वसत्त्वाश्रयश्चातिगहनस्तदनन्तरम् ॥ 207 ॥
विश्वास-प्रस्तुतिः - 208
महाराजेश्वरश्चापि धनाध्यक्षेश्वरस्तथा।
एत् गणेश्वरास्त्वष्टौ तन्मुख्यद्वारपालकाः ॥ 208 ॥
मूलम् - 208
महाराजेश्वरश्चापि धनाध्यक्षेश्वरस्तथा।
एत् गणेश्वरास्त्वष्टौ तन्मुख्यद्वारपालकाः ॥ 208 ॥
विश्वास-प्रस्तुतिः - 209
ध्येयाश्चतुर्भुजाः सर्वे मुख्यपाणिद्वयेन तु।
अमरेशविरूपाक्षौ वज्रवेत्रलताकरौ ॥ 209 ॥
मूलम् - 209
ध्येयाश्चतुर्भुजाः सर्वे मुख्यपाणिद्वयेन तु।
अमरेशविरूपाक्षौ वज्रवेत्रलताकरौ ॥ 209 ॥
विश्वास-प्रस्तुतिः - 210
पृष्ठकाभ्यां तु पाणिब्यां चक्रशङ्खसमुज्ज्वलौ।
कुङ्कुमाञ्जनसंकाशौ दंष्ट्रया विकृताननौ ॥ 210 ॥
मूलम् - 210
पृष्ठकाभ्यां तु पाणिब्यां चक्रशङ्खसमुज्ज्वलौ।
कुङ्कुमाञ्जनसंकाशौ दंष्ट्रया विकृताननौ ॥ 210 ॥
विश्वास-प्रस्तुतिः - 211
दक्षिणोत्तरयोगेन लाञ्छनव्यत्ययान्वितौ।
द्वारदक्षिणवामस्थौ प्रवेशकनिषेधकौ ॥ 211 ॥
मूलम् - 211
दक्षिणोत्तरयोगेन लाञ्छनव्यत्ययान्वितौ।
द्वारदक्षिणवामस्थौ प्रवेशकनिषेधकौ ॥ 211 ॥
विश्वास-प्रस्तुतिः - 212
सुधर्मिष्ठो नियन्ता च सुसितश्यामलप्रभौ।
सुभीमदण्डहस्तौ च वज्रायुधविवर्जितौ ॥ 212 ॥
मूलम् - 212
सुधर्मिष्ठो नियन्ता च सुसितश्यामलप्रभौ।
सुभीमदण्डहस्तौ च वज्रायुधविवर्जितौ ॥ 212 ॥
विश्वास-प्रस्तुतिः - 213
यथाक्रमोदितानन्यान् धारयन्तौ यथाविधि।
सर्वसत्वाश्रयश्चातिगहनः श्यामलः सितः ॥ 213 ॥
मूलम् - 213
यथाक्रमोदितानन्यान् धारयन्तौ यथाविधि।
सर्वसत्वाश्रयश्चातिगहनः श्यामलः सितः ॥ 213 ॥
विश्वास-प्रस्तुतिः - 214
किन्तु पाशकरावेतौ पूर्ववद्भुजभूषितौ।
महाराजेश्वरो रक्तो धनाध्यक्षेश्वरोऽसितः ॥ 214 ॥
मूलम् - 214
किन्तु पाशकरावेतौ पूर्ववद्भुजभूषितौ।
महाराजेश्वरो रक्तो धनाध्यक्षेश्वरोऽसितः ॥ 214 ॥
विश्वास-प्रस्तुतिः - 215
शिशिरायुधसंयुक्तौ त्रिकमन्यद्यथा पुरा।
महाबला महावीर्या दुष्टदोषभयङ्कराः ॥ 215 ॥
मूलम् - 215
शिशिरायुधसंयुक्तौ त्रिकमन्यद्यथा पुरा।
महाबला महावीर्या दुष्टदोषभयङ्कराः ॥ 215 ॥
विश्वास-प्रस्तुतिः - 216
दुर्निरीक्षाश्च दुर्धार्षा दैत्यदानवहिंसकाः।
नानामहार्घवासोभिः भूषालेपैरलंकृताः ॥ 216 ॥
मूलम् - 216
दुर्निरीक्षाश्च दुर्धार्षा दैत्यदानवहिंसकाः।
नानामहार्घवासोभिः भूषालेपैरलंकृताः ॥ 216 ॥
विश्वास-प्रस्तुतिः - 217
महर्षभं प्रभूतं च गम्भीरं प्राणगोचरम्।
योगाङ्गं योगनिलयं सनातनमश्रृङ्खलम् ॥ 217 ॥
मूलम् - 217
महर्षभं प्रभूतं च गम्भीरं प्राणगोचरम्।
योगाङ्गं योगनिलयं सनातनमश्रृङ्खलम् ॥ 217 ॥
विश्वास-प्रस्तुतिः - 218
तारकान्तरितं तारं विरामं विषमं तथा।
दुरतिक्रमं दुर्ग्रहं च सुधूम्रमनिलाशनम् ॥ 218 ॥
मूलम् - 218
तारकान्तरितं तारं विरामं विषमं तथा।
दुरतिक्रमं दुर्ग्रहं च सुधूम्रमनिलाशनम् ॥ 218 ॥
विश्वास-प्रस्तुतिः - 219
तत्सालकोपद्वारेषु विन्यसेत् पूर्ववर्त्मना।
उक्तोपद्वारपालानां वर्णतः सममुज्ज्वलम् ॥ 219 ॥
मूलम् - 219
तत्सालकोपद्वारेषु विन्यसेत् पूर्ववर्त्मना।
उक्तोपद्वारपालानां वर्णतः सममुज्ज्वलम् ॥ 219 ॥
विश्वास-प्रस्तुतिः - 220
गणषोडशकं त्वेतच्चतुष्पाणिसमन्वितम्।
गौणवामकराद्यं तु मुख्यवामकरावधि ॥ 220 ॥
मूलम् - 220
गणषोडशकं त्वेतच्चतुष्पाणिसमन्वितम्।
गौणवामकराद्यं तु मुख्यवामकरावधि ॥ 220 ॥
विश्वास-प्रस्तुतिः - 221
शङ्खपट्टसहस्तं च निषेधाबिनयोद्यतम्।
प्रवेशाभिनयाङ्कं च नानावर्णाम्बरस्रजम् ॥ 221 ॥
मूलम् - 221
शङ्खपट्टसहस्तं च निषेधाबिनयोद्यतम्।
प्रवेशाभिनयाङ्कं च नानावर्णाम्बरस्रजम् ॥ 221 ॥
विश्वास-प्रस्तुतिः - 222
नानास्थानकसंयुक्तं नानाभूषणभूषितम्।
अक्षसूत्रधरं वाऽथ प्रपन्नानां प्रवेशकृत् ॥ 222 ॥
मूलम् - 222
नानास्थानकसंयुक्तं नानाभूषणभूषितम्।
अक्षसूत्रधरं वाऽथ प्रपन्नानां प्रवेशकृत् ॥ 222 ॥
विश्वास-प्रस्तुतिः - 223
निषेधकृत्तथान्येषां न्यस्तव्यं मुनिसत्तम!।
देवव्रतं निरातङ्कं भीमं च पुरुषं तथा ॥ 223 ॥
मूलम् - 223
निषेधकृत्तथान्येषां न्यस्तव्यं मुनिसत्तम!।
देवव्रतं निरातङ्कं भीमं च पुरुषं तथा ॥ 223 ॥
विश्वास-प्रस्तुतिः - 224
उग्रं वीरेश्वरं रम्यमरिष्टं मुनिसत्तम!।
अनिर्विण्णं युगान्तांशं शतानन्दं शताननम् ॥ 224 ॥
मूलम् - 224
उग्रं वीरेश्वरं रम्यमरिष्टं मुनिसत्तम!।
अनिर्विण्णं युगान्तांशं शतानन्दं शताननम् ॥ 224 ॥
विश्वास-प्रस्तुतिः - 225
तेजोधरं विशालाक्षं युगांशं देवनन्दनम्।
एतद्द्विरष्टशोभासु गणमेकैकशो न्यसेत् ॥ 225 ॥
मूलम् - 225
तेजोधरं विशालाक्षं युगांशं देवनन्दनम्।
एतद्द्विरष्टशोभासु गणमेकैकशो न्यसेत् ॥ 225 ॥
विश्वास-प्रस्तुतिः - 226
उपद्वारेशसदृशं वर्णतो लाञ्छनैर्विना।
चतुर्भिः पाणिभिश्चैव पृष्ठदक्षिणपूर्वकम् ॥ 226 ॥
मूलम् - 226
उपद्वारेशसदृशं वर्णतो लाञ्छनैर्विना।
चतुर्भिः पाणिभिश्चैव पृष्ठदक्षिणपूर्वकम् ॥ 226 ॥
विश्वास-प्रस्तुतिः - 227
मुख्यदक्षिणहस्तान्तं शह्खचक्रगदाधरम्।
निषेधकृच्च पापानामपापानां प्रवेशकृत् ॥ 227 ॥
मूलम् - 227
मुख्यदक्षिणहस्तान्तं शह्खचक्रगदाधरम्।
निषेधकृच्च पापानामपापानां प्रवेशकृत् ॥ 227 ॥
विश्वास-प्रस्तुतिः - 228
नानास्रगम्बरोष्णीषभूषालेपाद्यलंकृताः।
अनन्ताचिन्त्यविभवाः सर्वभूतसमाश्रयाः ॥ 228 ॥
मूलम् - 228
नानास्रगम्बरोष्णीषभूषालेपाद्यलंकृताः।
अनन्ताचिन्त्यविभवाः सर्वभूतसमाश्रयाः ॥ 228 ॥
विश्वास-प्रस्तुतिः - 229
नानाशस्त्रास्त्रकुशला नानाज्ञानसमन्विताः।
निरस्तानेकदैत्येशाः साधूनां पालनौद्यताः ॥ 229 ॥
मूलम् - 229
नानाशस्त्रास्त्रकुशला नानाज्ञानसमन्विताः।
निरस्तानेकदैत्येशाः साधूनां पालनौद्यताः ॥ 229 ॥
विश्वास-प्रस्तुतिः - 230
द्वारद्वयान्विते साले मुख्यद्वारगतावुभौ।
तिष्ठतः सूक्ष्मरूपेण तदन्यद्वारपार्श्वयोः ॥ 230 ॥
मूलम् - 230
द्वारद्वयान्विते साले मुख्यद्वारगतावुभौ।
तिष्ठतः सूक्ष्मरूपेण तदन्यद्वारपार्श्वयोः ॥ 230 ॥
विश्वास-प्रस्तुतिः - 231
प्राकारसर्वकोणेषु वह्निकोणादितो न्यसेत्।
प्रभवाप्ययरूपाणां मूर्तीनां चतुरात्मनाम् ॥ 231 ॥
मूलम् - 231
प्राकारसर्वकोणेषु वह्निकोणादितो न्यसेत्।
प्रभवाप्ययरूपाणां मूर्तीनां चतुरात्मनाम् ॥ 231 ॥
विश्वास-प्रस्तुतिः - 232
तथा मूर्त्यन्तराणां च तत्कान्तानामनुक्रमात्।
मन्त्राणामस्त्रसह्घादि तेषां रूपमनुस्मरन् ॥ 232 ॥
मूलम् - 232
तथा मूर्त्यन्तराणां च तत्कान्तानामनुक्रमात्।
मन्त्राणामस्त्रसह्घादि तेषां रूपमनुस्मरन् ॥ 232 ॥
विश्वास-प्रस्तुतिः - 233
चतुर्णामपि कोणानामव्यक्तं भवनाद्बहिः।
संयजेद्भवनाम्नावै यस्मान्नान्यो भवः स्मृतः ॥ 233 ॥
मूलम् - 233
चतुर्णामपि कोणानामव्यक्तं भवनाद्बहिः।
संयजेद्भवनाम्नावै यस्मान्नान्यो भवः स्मृतः ॥ 233 ॥
विश्वास-प्रस्तुतिः - 234
तेषां बहिः स्वमन्त्रेण दिक्क्रमेण तु हेतिराट्।
स्वमरीचिगणेनैव भासयन्तं निवेशय् च ॥ 234 ॥
मूलम् - 234
तेषां बहिः स्वमन्त्रेण दिक्क्रमेण तु हेतिराट्।
स्वमरीचिगणेनैव भासयन्तं निवेशय् च ॥ 234 ॥
विश्वास-प्रस्तुतिः - 235
न्यस्यैवमर्चनं कुर्यान्मन्त्रमुद्रान्वितेन तु।
निरीक्षणादिशुद्धेन अर्घ्यस्रक्चन्दनादिना ॥ 235 ॥
मूलम् - 235
न्यस्यैवमर्चनं कुर्यान्मन्त्रमुद्रान्वितेन तु।
निरीक्षणादिशुद्धेन अर्घ्यस्रक्चन्दनादिना ॥ 235 ॥
विश्वास-प्रस्तुतिः - 236
वासुदेवाभिधानस्तु देवः षाड्गुण्यविग्रहः।
कर्मिणामुपकारार्थं प्रासादं स्थूलविग्रहम् ॥ 236 ॥
मूलम् - 236
वासुदेवाभिधानस्तु देवः षाड्गुण्यविग्रहः।
कर्मिणामुपकारार्थं प्रासादं स्थूलविग्रहम् ॥ 236 ॥
विश्वास-प्रस्तुतिः - 237
सर्वज्ञानक्रियाढ्यं च सर्वतत्वसमाश्रयम्।
समासाद्यानुगृह्णाति सदार्चान्तर्गतः प्रभुः ॥ 237 ॥
मूलम् - 237
सर्वज्ञानक्रियाढ्यं च सर्वतत्वसमाश्रयम्।
समासाद्यानुगृह्णाति सदार्चान्तर्गतः प्रभुः ॥ 237 ॥
विश्वास-प्रस्तुतिः - 238
तस्मात्तदङ्गभूतेषु प्राकारेष्वष्टसु क्रमात्।
पृष्व्यादिबुद्धिनिष्ठं तु बाह्यं तत्वाष्टकं न्यसेत् ॥ 238 ॥
मूलम् - 238
तस्मात्तदङ्गभूतेषु प्राकारेष्वष्टसु क्रमात्।
पृष्व्यादिबुद्धिनिष्ठं तु बाह्यं तत्वाष्टकं न्यसेत् ॥ 238 ॥
विश्वास-प्रस्तुतिः - 239
प्रासादश्चाह्गसंयुक्तः प्रकृतिस्त्रिगुणात्मिका।
तद्गता प्रतिमा जीवस्तद्गतः परमः पुमान् ॥ 239 ॥
मूलम् - 239
प्रासादश्चाह्गसंयुक्तः प्रकृतिस्त्रिगुणात्मिका।
तद्गता प्रतिमा जीवस्तद्गतः परमः पुमान् ॥ 239 ॥
विश्वास-प्रस्तुतिः - 240
अतोऽधिदैवतान्यत्र तत्वान्येतान्यनुक्रमात्।
सर्वत्र व्यापकत्वेन ध्यात्वा संपूजयेत्ततः ॥ 240 ॥
मूलम् - 240
अतोऽधिदैवतान्यत्र तत्वान्येतान्यनुक्रमात्।
सर्वत्र व्यापकत्वेन ध्यात्वा संपूजयेत्ततः ॥ 240 ॥
विश्वास-प्रस्तुतिः - 241
सर्वाधारमयेनैव सर्वतत्वाश्रयेण च।
सर्वदोषविषघ्नेन कालचक्राम्बुजेन तु ॥ 241 ॥
मूलम् - 241
सर्वाधारमयेनैव सर्वतत्वाश्रयेण च।
सर्वदोषविषघ्नेन कालचक्राम्बुजेन तु ॥ 241 ॥
विश्वास-प्रस्तुतिः - 242
सम्पुटीकृत्य भवनं सप्राकारमधोर्ध्वतः।
संपूज्य ह्नादयीं मुद्रां चक्रमुद्रासमन्विताम् ॥ 242 ॥
मूलम् - 242
सम्पुटीकृत्य भवनं सप्राकारमधोर्ध्वतः।
संपूज्य ह्नादयीं मुद्रां चक्रमुद्रासमन्विताम् ॥ 242 ॥
विश्वास-प्रस्तुतिः - 243
प्रदर्श्य सर्वतोदिक्कं कवचेनावकुण्ठयेत्।
एकमूर्तिविधाने च तथैकद्वारभूषिते ॥ 243 ॥
मूलम् - 243
प्रदर्श्य सर्वतोदिक्कं कवचेनावकुण्ठयेत्।
एकमूर्तिविधाने च तथैकद्वारभूषिते ॥ 243 ॥
विश्वास-प्रस्तुतिः - 244
भवनेऽयं विधानः स्याद्दिग्व्यूहपरिनिष्ठिते।
चतुर्द्वारान्विते गेहे दिग्द्वाराग्रस्थमण्डपे ॥ 244 ॥
मूलम् - 244
भवनेऽयं विधानः स्याद्दिग्व्यूहपरिनिष्ठिते।
चतुर्द्वारान्विते गेहे दिग्द्वाराग्रस्थमण्डपे ॥ 244 ॥
विश्वास-प्रस्तुतिः - 245
सर्वतोभद्रसाले च अघनिर्मोचनेऽपि च।
सदध्वाख्येऽथ धर्माख्ये द्वारद्विद्वितयान्विते ॥ 245 ॥
मूलम् - 245
सर्वतोभद्रसाले च अघनिर्मोचनेऽपि च।
सदध्वाख्येऽथ धर्माख्ये द्वारद्विद्वितयान्विते ॥ 245 ॥
विश्वास-प्रस्तुतिः - 246
द्वारपालगणन्यासे विशेषोऽयं प्रदर्श्यते।
चण्डाद्याश्च सुभद्रान्ताः प्रासादद्वाश्चतुष्टये ॥ 246 ॥
मूलम् - 246
द्वारपालगणन्यासे विशेषोऽयं प्रदर्श्यते।
चण्डाद्याश्च सुभद्रान्ताः प्रासादद्वाश्चतुष्टये ॥ 246 ॥
विश्वास-प्रस्तुतिः - 247
न्यसनीयाः क्रमेणैव पूर्ववद् द्वन्द्वयोगतः।
द्वारोर्ध्वोदुम्बरद्वन्द्वद्वितयस्था यथाक्रमम् ॥ 247 ॥
मूलम् - 247
न्यसनीयाः क्रमेणैव पूर्ववद् द्वन्द्वयोगतः।
द्वारोर्ध्वोदुम्बरद्वन्द्वद्वितयस्था यथाक्रमम् ॥ 247 ॥
विश्वास-प्रस्तुतिः - 248
लक्ष्मी कीर्तिर्जया माया देव्यः प्रागुक्तलक्षणाः।
सत्यः सुपर्णो गरुडः तार्क्ष्यस्त्वग्रेषु संस्थिताः ॥ 248 ॥
मूलम् - 248
लक्ष्मी कीर्तिर्जया माया देव्यः प्रागुक्तलक्षणाः।
सत्यः सुपर्णो गरुडः तार्क्ष्यस्त्वग्रेषु संस्थिताः ॥ 248 ॥
विश्वास-प्रस्तुतिः - 249
अनिर्वर्ती महावर्ती दर्पहा सर्वजित् स्थिरः।
जयन्तो भयकृन्मानी त्वष्टमो द्विजसत्तम! ॥ 249 ॥
मूलम् - 249
अनिर्वर्ती महावर्ती दर्पहा सर्वजित् स्थिरः।
जयन्तो भयकृन्मानी त्वष्टमो द्विजसत्तम! ॥ 249 ॥
विश्वास-प्रस्तुतिः - 250
दिगग्रमण्डपद्वारशाखापार्श्वं समास्थिताः।
अनिर्वर्ती महावर्ती कृष्णाभः शुकसन्निभः ॥ 250 ॥
मूलम् - 250
दिगग्रमण्डपद्वारशाखापार्श्वं समास्थिताः।
अनिर्वर्ती महावर्ती कृष्णाभः शुकसन्निभः ॥ 250 ॥
विश्वास-प्रस्तुतिः - 251
दर्पहा सर्वजिच्चैव पाण्डुरक्तसुवर्णभौ।
स्थिरो जयन्तः सततं श्यामाञ्जनसमद्युती ॥ 251 ॥
मूलम् - 251
दर्पहा सर्वजिच्चैव पाण्डुरक्तसुवर्णभौ।
स्थिरो जयन्तः सततं श्यामाञ्जनसमद्युती ॥ 251 ॥
विश्वास-प्रस्तुतिः - 252
भयकृच्चैव मानी च पिङ्गलः पाण्डुरोज्ज्वलः।
द्विभुजाः सर्व एवैते दक्षिणेन करेण तु ॥ 252 ॥
मूलम् - 252
भयकृच्चैव मानी च पिङ्गलः पाण्डुरोज्ज्वलः।
द्विभुजाः सर्व एवैते दक्षिणेन करेण तु ॥ 252 ॥
विश्वास-प्रस्तुतिः - 253
नन्दकं शङ्खमन्येन दधानाः क्रूरविक्रमाः।
यदा चतुर्भुजा ध्येयाः तदा चैते गणेश्वराः ॥ 253 ॥
मूलम् - 253
नन्दकं शङ्खमन्येन दधानाः क्रूरविक्रमाः।
यदा चतुर्भुजा ध्येयाः तदा चैते गणेश्वराः ॥ 253 ॥
विश्वास-प्रस्तुतिः - 254
मुख्यदक्षिणहस्तेन खड्गवेत्रलतान्विताः।
तथा वामकरे शङ्खं पृष्ठगे दक्षिणादितः ॥ 254 ॥
मूलम् - 254
मुख्यदक्षिणहस्तेन खड्गवेत्रलतान्विताः।
तथा वामकरे शङ्खं पृष्ठगे दक्षिणादितः ॥ 254 ॥
विश्वास-प्रस्तुतिः - 255
पाणिद्वये चक्रपझौ बिभ्रतो ज्वलनप्रभौ।
नानावस्त्रस्रगुष्णीषभूषणालेपनान्विताः ॥ 255 ॥
मूलम् - 255
पाणिद्वये चक्रपझौ बिभ्रतो ज्वलनप्रभौ।
नानावस्त्रस्रगुष्णीषभूषणालेपनान्विताः ॥ 255 ॥
विश्वास-प्रस्तुतिः - 256
व्यत्यस्तहस्तचरणा लाञ्झनव्यत्ययान्विताः।
ऊर्जितश्चामृताङ्गस्तु सर्वाङ्गः सर्वतोमुखः ॥ 256 ॥
मूलम् - 256
व्यत्यस्तहस्तचरणा लाञ्झनव्यत्ययान्विताः।
ऊर्जितश्चामृताङ्गस्तु सर्वाङ्गः सर्वतोमुखः ॥ 256 ॥
विश्वास-प्रस्तुतिः - 257
शुभ्राङ्गो वरदश्चैव वागीशः शब्दविक्रमः।
पाञ्चजन्यविशेषा हि द्वौ द्वौ चैव क्रमात् स्थितौ ॥ 257 ॥
मूलम् - 257
शुभ्राङ्गो वरदश्चैव वागीशः शब्दविक्रमः।
पाञ्चजन्यविशेषा हि द्वौ द्वौ चैव क्रमात् स्थितौ ॥ 257 ॥
विश्वास-प्रस्तुतिः - 258
सर्वतोभद्रसालस्थचतुर्द्वारेषु पूर्ववत्।
द्विबाहवस्तु संस्मार्या दक्षिणेन करेण तु ॥ 258 ॥
मूलम् - 258
सर्वतोभद्रसालस्थचतुर्द्वारेषु पूर्ववत्।
द्विबाहवस्तु संस्मार्या दक्षिणेन करेण तु ॥ 258 ॥
विश्वास-प्रस्तुतिः - 259
गृहीतमुसलाः सर्वे शङ्खमन्येन पाणिना।
दधानाश्चैव चत्वारः पूर्वे बन्धूकसन्निभाः ॥ 259 ॥
मूलम् - 259
गृहीतमुसलाः सर्वे शङ्खमन्येन पाणिना।
दधानाश्चैव चत्वारः पूर्वे बन्धूकसन्निभाः ॥ 259 ॥
विश्वास-प्रस्तुतिः - 260
अन्ये परभृताभास्तु सर्वभूषणभूषिताः।
बलेन महता क्षिप्तदेवासुरमहोरगाः ॥ 260 ॥
मूलम् - 260
अन्ये परभृताभास्तु सर्वभूषणभूषिताः।
बलेन महता क्षिप्तदेवासुरमहोरगाः ॥ 260 ॥
विश्वास-प्रस्तुतिः - 261
एकवीराऽसहायाश्च अप्रयत्नेन लीलया।
आब्रह्नभवनं शश्वत् परिवर्तनकृत्क्षमाः ॥ 261 ॥
मूलम् - 261
एकवीराऽसहायाश्च अप्रयत्नेन लीलया।
आब्रह्नभवनं शश्वत् परिवर्तनकृत्क्षमाः ॥ 261 ॥
विश्वास-प्रस्तुतिः - 262
विश्वेशो विश्वभुग्विश्वो विश्वात्मा विश्वलोचनः।
विश्वपादो विश्वभुजः तथा वै विश्वकर्मकृत् ॥ 262 ॥
मूलम् - 262
विश्वेशो विश्वभुग्विश्वो विश्वात्मा विश्वलोचनः।
विश्वपादो विश्वभुजः तथा वै विश्वकर्मकृत् ॥ 262 ॥
विश्वास-प्रस्तुतिः - 263
एते द्वितीयसालस्य दिग्द्वारेषु नियामकाः।
द्विबाहवः परिज्ञेया वामदक्षिणयोगतः ॥ 263 ॥
मूलम् - 263
एते द्वितीयसालस्य दिग्द्वारेषु नियामकाः।
द्विबाहवः परिज्ञेया वामदक्षिणयोगतः ॥ 263 ॥
विश्वास-प्रस्तुतिः - 264
गदाखड्गास्त्रसंयुक्ताः करण्डमकुटान्विताः।
शोणपिङ्गसितश्यामरक्तपीतसितासिताः ॥ 264 ॥
मूलम् - 264
गदाखड्गास्त्रसंयुक्ताः करण्डमकुटान्विताः।
शोणपिङ्गसितश्यामरक्तपीतसितासिताः ॥ 264 ॥
विश्वास-प्रस्तुतिः - 265
सर्वर्णाम्बरालेपस्रग्भूषाभिर्विराजिताः।
एकवीराऽसहायाश्च सर्वदोषनिवारकाः ॥ 265 ॥
मूलम् - 265
सर्वर्णाम्बरालेपस्रग्भूषाभिर्विराजिताः।
एकवीराऽसहायाश्च सर्वदोषनिवारकाः ॥ 265 ॥
विश्वास-प्रस्तुतिः - 266
तद्द्वारान्तरभागेषु वामदक्षिणयोगतः।
प्रासादाभिमुखान् न्यस्येन्निधिनाथेश्वरान् क्रमात् ॥ 266 ॥
मूलम् - 266
तद्द्वारान्तरभागेषु वामदक्षिणयोगतः।
प्रासादाभिमुखान् न्यस्येन्निधिनाथेश्वरान् क्रमात् ॥ 266 ॥
विश्वास-प्रस्तुतिः - 267
शङ्खपझौ महापझशतधामाभिधौ ततः।
अखण्डितः सन्ततश्चानन्तधार इति श्रुतः ॥ 267 ॥
मूलम् - 267
शङ्खपझौ महापझशतधामाभिधौ ततः।
अखण्डितः सन्ततश्चानन्तधार इति श्रुतः ॥ 267 ॥
विश्वास-प्रस्तुतिः - 268
सर्वद्वार इति ख्यातः प्रथमौ पूर्वमीरितौ।
अन्येषां वक्ष्यते षण्णां वर्णरूपादिकं क्रमात् ॥ 268 ॥
मूलम् - 268
सर्वद्वार इति ख्यातः प्रथमौ पूर्वमीरितौ।
अन्येषां वक्ष्यते षण्णां वर्णरूपादिकं क्रमात् ॥ 268 ॥
विश्वास-प्रस्तुतिः - 269
रक्तः कृष्णः सुवर्णाभः सितारुणतमालभाः।
शङ्खपझनिधीशोक्तसर्वलक्षणलक्षिताः ॥ 269 ॥
मूलम् - 269
रक्तः कृष्णः सुवर्णाभः सितारुणतमालभाः।
शङ्खपझनिधीशोक्तसर्वलक्षणलक्षिताः ॥ 269 ॥
विश्वास-प्रस्तुतिः - 270
वसुरत्नसुवर्णाष्टलोहधान्यधनाधिपाः।
सर्वौषधिनिधीशानास्तेषामूर्ध्वे सुखासनाः ॥ 270 ॥
मूलम् - 270
वसुरत्नसुवर्णाष्टलोहधान्यधनाधिपाः।
सर्वौषधिनिधीशानास्तेषामूर्ध्वे सुखासनाः ॥ 270 ॥
विश्वास-प्रस्तुतिः - 271
सर्वालङ्कारसंयुक्ताः स्वाश्रिताभिमतप्रदाः।
ततस्तृतीयावरणद्वारेषु द्वन्द्वयोगतः ॥ 271 ॥
मूलम् - 271
सर्वालङ्कारसंयुक्ताः स्वाश्रिताभिमतप्रदाः।
ततस्तृतीयावरणद्वारेषु द्वन्द्वयोगतः ॥ 271 ॥
विश्वास-प्रस्तुतिः - 272
तद्दक्षिणोत्तराभ्यां तु शाखाभ्यां विन्यसेत् क्रमात्।
पुरतश्चक्रगरुडौ हलतालौ तु दक्षिणे ॥ 272 ॥
मूलम् - 272
तद्दक्षिणोत्तराभ्यां तु शाखाभ्यां विन्यसेत् क्रमात्।
पुरतश्चक्रगरुडौ हलतालौ तु दक्षिणे ॥ 272 ॥
विश्वास-प्रस्तुतिः - 273
पश्चिमे शार्ङ्गमकरौ सौम्ये नन्दकऋश्यकौ।
चक्रपक्षीशताराणां शार्ङ्गनन्दकयोरपि ॥ 273 ॥
मूलम् - 273
पश्चिमे शार्ङ्गमकरौ सौम्ये नन्दकऋश्यकौ।
चक्रपक्षीशताराणां शार्ङ्गनन्दकयोरपि ॥ 273 ॥
विश्वास-प्रस्तुतिः - 274
स्वेषु स्थानेषु पूर्वोक्तं वर्णरूपादिकं द्विज!।
अन्येषां तालपूर्वाणां त्रयाणामथ वक्ष्यते ॥ 274 ॥
मूलम् - 274
स्वेषु स्थानेषु पूर्वोक्तं वर्णरूपादिकं द्विज!।
अन्येषां तालपूर्वाणां त्रयाणामथ वक्ष्यते ॥ 274 ॥
विश्वास-प्रस्तुतिः - 275
तालो ध्वजः स्याद्भूतादिकालरूपाभिमानकः।
झषः सर्वाङ्गनिभृतो जगद्बीज उदाहृतः ॥ 275 ॥
मूलम् - 275
तालो ध्वजः स्याद्भूतादिकालरूपाभिमानकः।
झषः सर्वाङ्गनिभृतो जगद्बीज उदाहृतः ॥ 275 ॥
विश्वास-प्रस्तुतिः - 276
स सर्वोपद्रवो ऋश्यः संसारश्चपलात्मकः।
एतान् सूक्ष्मस्वरूपेण ध्यात्वा संपूजयेत् क्रमात् ॥ 276 ॥
मूलम् - 276
स सर्वोपद्रवो ऋश्यः संसारश्चपलात्मकः।
एतान् सूक्ष्मस्वरूपेण ध्यात्वा संपूजयेत् क्रमात् ॥ 276 ॥
विश्वास-प्रस्तुतिः - 277
गङ्गा च यमुना गोदा नदी च महती तथा।
वितस्ता नर्मदा चैव जम्ब्वाख्या च सरस्वती ॥ 277 ॥
मूलम् - 277
गङ्गा च यमुना गोदा नदी च महती तथा।
वितस्ता नर्मदा चैव जम्ब्वाख्या च सरस्वती ॥ 277 ॥
विश्वास-प्रस्तुतिः - 278
नद्यश्चतुर्थसालस्य दिग्द्वारेषु क्रमात् स्थिताः।
गङ्गायमुनायोरुक्तं वर्णरूपादिकं पुरा ॥ 278 ॥
मूलम् - 278
नद्यश्चतुर्थसालस्य दिग्द्वारेषु क्रमात् स्थिताः।
गङ्गायमुनायोरुक्तं वर्णरूपादिकं पुरा ॥ 278 ॥
विश्वास-प्रस्तुतिः - 279
ताभ्यामन्याः समानास्तु वर्णशोभां विनैव तु।
सितारुणासितस्वर्णसितकुन्दसमप्रभाः ॥ 279 ॥
मूलम् - 279
ताभ्यामन्याः समानास्तु वर्णशोभां विनैव तु।
सितारुणासितस्वर्णसितकुन्दसमप्रभाः ॥ 279 ॥
विश्वास-प्रस्तुतिः - 280
प्रमत्तप्रौढवेषाश्च नानाभरणभूषिताः।
सर्वधातुविचित्राङ्गाः सर्वरत्नविराजिताः ॥ 280 ॥
मूलम् - 280
प्रमत्तप्रौढवेषाश्च नानाभरणभूषिताः।
सर्वधातुविचित्राङ्गाः सर्वरत्नविराजिताः ॥ 280 ॥
विश्वास-प्रस्तुतिः - 281
सुधाकुम्भधरा द्वाभ्यां कराभ्यां पूर्ववच्च ताः।
एवं दिग्द्वारभवनद्वार्स्थस्थितिरुदाहृता ॥ 281 ॥
मूलम् - 281
सुधाकुम्भधरा द्वाभ्यां कराभ्यां पूर्ववच्च ताः।
एवं दिग्द्वारभवनद्वार्स्थस्थितिरुदाहृता ॥ 281 ॥
विश्वास-प्रस्तुतिः - 282
एकमूर्तेषु दिङ्मूर्तेः प्राकारेषूर्ध्वगेषु च।
द्वारादयस्तदीयाश्च सामान्याः समुदाहृताः ॥ 282 ॥
मूलम् - 282
एकमूर्तेषु दिङ्मूर्तेः प्राकारेषूर्ध्वगेषु च।
द्वारादयस्तदीयाश्च सामान्याः समुदाहृताः ॥ 282 ॥
विश्वास-प्रस्तुतिः - 283
सर्वसालप्रतीहारशाखापार्श्वगतावुभौ।
ध्येयौ वा स्थापनीयौ वा बाह्यहारगतौ यदि ॥ 283 ॥
मूलम् - 283
सर्वसालप्रतीहारशाखापार्श्वगतावुभौ।
ध्येयौ वा स्थापनीयौ वा बाह्यहारगतौ यदि ॥ 283 ॥
विश्वास-प्रस्तुतिः - 284
यथोक्तलक्षणोपेतौ स्थापनीयौ यथाक्रमम्।
एवमावरणेशानान् ध्यात्वा संस्थाप्य वार्चयेत् ॥ 284 ॥
मूलम् - 284
यथोक्तलक्षणोपेतौ स्थापनीयौ यथाक्रमम्।
एवमावरणेशानान् ध्यात्वा संस्थाप्य वार्चयेत् ॥ 284 ॥
विश्वास-प्रस्तुतिः - 285
ध्यानोत्थाः पीठदेशेषु स्वाकाराः स्वासु सझसु।
तदर्थमङ्कणक्षेत्रं त्रिधा वा पञ्चधा भवेत् ॥ 285 ॥
मूलम् - 285
ध्यानोत्थाः पीठदेशेषु स्वाकाराः स्वासु सझसु।
तदर्थमङ्कणक्षेत्रं त्रिधा वा पञ्चधा भवेत् ॥ 285 ॥
विश्वास-प्रस्तुतिः - 286
त्रिभागमेकभागं वा त्यक्त्वा तन्मध्यतो बहिः।
पीठं वायतनं कुर्यात् सर्वदिक्ष्वनत्रेऽथवा ॥ 286 ॥
मूलम् - 286
त्रिभागमेकभागं वा त्यक्त्वा तन्मध्यतो बहिः।
पीठं वायतनं कुर्यात् सर्वदिक्ष्वनत्रेऽथवा ॥ 286 ॥
विश्वास-प्रस्तुतिः - 287
अधरोत्तरनिष्ठाभ्यां प्रागुक्ते पूर्ववत् स्थिते।
शिलेष्टकादिभिः क्लृप्ताः पीठिका हस्तविस्तृताः ॥ 287 ॥
मूलम् - 287
अधरोत्तरनिष्ठाभ्यां प्रागुक्ते पूर्ववत् स्थिते।
शिलेष्टकादिभिः क्लृप्ताः पीठिका हस्तविस्तृताः ॥ 287 ॥
विश्वास-प्रस्तुतिः - 288
तदर्धेनोछ्रिताः सर्वाः सर्वालङ्कारशोभिताः।
चतुश्राः सुवृत्ता वा संपूज्या वाऽथ केवलाः ॥ 288 ॥
मूलम् - 288
तदर्धेनोछ्रिताः सर्वाः सर्वालङ्कारशोभिताः।
चतुश्राः सुवृत्ता वा संपूज्या वाऽथ केवलाः ॥ 288 ॥
विश्वास-प्रस्तुतिः - 289
प्रामादिवास्तुदेवानां स्वदिग्भागगतेषु च।
गोमयादिविलिप्तेषु मण्डलेषु बलिं हरेत् ॥ 289 ॥
मूलम् - 289
प्रामादिवास्तुदेवानां स्वदिग्भागगतेषु च।
गोमयादिविलिप्तेषु मण्डलेषु बलिं हरेत् ॥ 289 ॥
विश्वास-प्रस्तुतिः - 290
विस्तारोच्छ्रायमानाद्वै पीठाः प्रागुक्तलक्षणाः।
अर्धमानेन वा कार्या रथयात्राऽविरोधकम् ॥ 290 ॥
मूलम् - 290
विस्तारोच्छ्रायमानाद्वै पीठाः प्रागुक्तलक्षणाः।
अर्धमानेन वा कार्या रथयात्राऽविरोधकम् ॥ 290 ॥
विश्वास-प्रस्तुतिः - 291
एवमावरणेशानाः पीठेषु स्वासु दिक्षु च।
दुष्टदोषनिरासार्थं प्रासादाभिमु(खं)खाः स्थिताः ॥ 291 ॥
मूलम् - 291
एवमावरणेशानाः पीठेषु स्वासु दिक्षु च।
दुष्टदोषनिरासार्थं प्रासादाभिमु(खं)खाः स्थिताः ॥ 291 ॥
विश्वास-प्रस्तुतिः - 292
चतुः स्थानावतीर्णस्य द्वारे च यजनालये।
स्थापनं गणनाथानां श्रृणु त्वं मुनिपुङ्गव! ॥ 292 ॥
मूलम् - 292
चतुः स्थानावतीर्णस्य द्वारे च यजनालये।
स्थापनं गणनाथानां श्रृणु त्वं मुनिपुङ्गव! ॥ 292 ॥
विश्वास-प्रस्तुतिः - 293
वास्तुक्षेत्रेशसंज्ञौ द्वौ प्राग्द्वारे पूर्ववत् स्थितौ।
लक्ष्मीः कीर्तिर्जया माया द्वारेषूर्ध्वस्थिताः क्रमात् ॥ 293 ॥
मूलम् - 293

विश्वास-प्रस्तुतिः - 294
वज्रनाभादयो देवा द्वौ द्वौ दिग्द्वारशाखयोः।
प्रागादिद्वारकुम्भेषु संभवप्रभवादयः ॥ 294 ॥
मूलम् - 294
वज्रनाभादयो देवा द्वौ द्वौ दिग्द्वारशाखयोः।
प्रागादिद्वारकुम्भेषु संभवप्रभवादयः ॥ 294 ॥
विश्वास-प्रस्तुतिः - 295
कुमुदाद्यन्तरङ्गं च भूतानामष्टकं परम्।
द्वारान्तर्युग्मयुक्त्या तु भ्रमणीदेशमाश्रितम् ॥ 295 ॥
मूलम् - 295
कुमुदाद्यन्तरङ्गं च भूतानामष्टकं परम्।
द्वारान्तर्युग्मयुक्त्या तु भ्रमणीदेशमाश्रितम् ॥ 295 ॥
विश्वास-प्रस्तुतिः - 296
सुपर्णश्चक्रसंज्ञश्च सत्यः कौमोदकी द्विज!।
योजनीयाः क्रमेणैव द्वाराणामग्रभूतले ॥ 296 ॥
मूलम् - 296
सुपर्णश्चक्रसंज्ञश्च सत्यः कौमोदकी द्विज!।
योजनीयाः क्रमेणैव द्वाराणामग्रभूतले ॥ 296 ॥
विश्वास-प्रस्तुतिः - 297
हेमदण्डगतः सत्यः किन्तु पश्चिमदिग्गतः।
चण्डाद्याश्च सुभद्रान्ता द्वौ द्वौ प्रागादिषु द्विज! ॥ 297 ॥
मूलम् - 297
हेमदण्डगतः सत्यः किन्तु पश्चिमदिग्गतः।
चण्डाद्याश्च सुभद्रान्ता द्वौ द्वौ प्रागादिषु द्विज! ॥ 297 ॥
विश्वास-प्रस्तुतिः - 298
दक्षिणोत्तरयोगेन तोरणस्तम्भमूलगाः।
चक्रद्वितयमध्यस्थः पक्षीशस्तोरणोपरि ॥ 298 ॥
मूलम् - 298
दक्षिणोत्तरयोगेन तोरणस्तम्भमूलगाः।
चक्रद्वितयमध्यस्थः पक्षीशस्तोरणोपरि ॥ 298 ॥
विश्वास-प्रस्तुतिः - 299
सुसितासु पताकासु सत्याख्यो विहगाधिपः।
सुपर्णः शोणवर्णासु गरुजः पिङ्गलासु च ॥ 299 ॥
मूलम् - 299
सुसितासु पताकासु सत्याख्यो विहगाधिपः।
सुपर्णः शोणवर्णासु गरुजः पिङ्गलासु च ॥ 299 ॥
विश्वास-प्रस्तुतिः - 300
राजपाषाणवर्णासु तार्क्ष्यसंज्ञः प्रतिष्ठितः।
नानावर्णपताकायां संपूज्यो विहगेश्वरः ॥ 300 ॥
मूलम् - 300
राजपाषाणवर्णासु तार्क्ष्यसंज्ञः प्रतिष्ठितः।
नानावर्णपताकायां संपूज्यो विहगेश्वरः ॥ 300 ॥
विश्वास-प्रस्तुतिः - 301
इन्द्रादिलोकपालास्ते सिद्धसङ्घपुरस्सराः।
वज्रादयस्तदस्त्राश्च स्वासु दिक्षु बहिः स्थिताः ॥ 301 ॥
मूलम् - 301
इन्द्रादिलोकपालास्ते सिद्धसङ्घपुरस्सराः।
वज्रादयस्तदस्त्राश्च स्वासु दिक्षु बहिः स्थिताः ॥ 301 ॥
विश्वास-प्रस्तुतिः - 302
मुख्यकल्पेऽथवान्येषु निमित्तेष्वेवमाचरेत्।
अनुकल्पेऽथ चण्डादीन् वास्तुनाथादिपूर्वकम् ॥ 302 ॥
मूलम् - 302
मुख्यकल्पेऽथवान्येषु निमित्तेष्वेवमाचरेत्।
अनुकल्पेऽथ चण्डादीन् वास्तुनाथादिपूर्वकम् ॥ 302 ॥
विश्वास-प्रस्तुतिः - 303
द्वारेषु केवलान् न्यस्य गरुडान्तं प्रपूजयेत्।
सर्वद्वारेषु वा पूज्यः सहेतीशः पतत्रिपः ॥ 303 ॥
मूलम् - 303
द्वारेषु केवलान् न्यस्य गरुडान्तं प्रपूजयेत्।
सर्वद्वारेषु वा पूज्यः सहेतीशः पतत्रिपः ॥ 303 ॥
विश्वास-प्रस्तुतिः - 304
विविधासु प्रतिष्ठासु जीर्णोद्धारविधावपि।
महोत्सवेषु सर्वेषु ध्वजारोहणकर्मणि ॥ 304 ॥
मूलम् - 304
विविधासु प्रतिष्ठासु जीर्णोद्धारविधावपि।
महोत्सवेषु सर्वेषु ध्वजारोहणकर्मणि ॥ 304 ॥
विश्वास-प्रस्तुतिः - 305
मङ्गलाङ्कुररोपे च पवित्रारोहणादिषु।
तथा चानन्तकलशाद्यभिषेकविधावपि ॥ 305 ॥
मूलम् - 305
मङ्गलाङ्कुररोपे च पवित्रारोहणादिषु।
तथा चानन्तकलशाद्यभिषेकविधावपि ॥ 305 ॥
विश्वास-प्रस्तुतिः - 306
प्रायश्चित्तेष्वनित्येषु तुलारोहादिषु द्विज!।
शान्तिकादिषु मुख्येषु काम्येष्वन्येषु नित्यशः ॥ 306 ॥
मूलम् - 306
प्रायश्चित्तेष्वनित्येषु तुलारोहादिषु द्विज!।
शान्तिकादिषु मुख्येषु काम्येष्वन्येषु नित्यशः ॥ 306 ॥
विश्वास-प्रस्तुतिः - 307
मुख्यकल्पोक्तविधिना कुर्यादन्यत्र चान्यथा।
सिद्धसङ्घास्तथेन्द्राद्यास्तदस्त्राश्च यथाक्रमम् ॥ 307 ॥
मूलम् - 307
मुख्यकल्पोक्तविधिना कुर्यादन्यत्र चान्यथा।
सिद्धसङ्घास्तथेन्द्राद्यास्तदस्त्राश्च यथाक्रमम् ॥ 307 ॥
विश्वास-प्रस्तुतिः - 308
लोकदिक्पालकास्त्वेते स्वसेनाभिः समावृताः।
प्रसिद्धप्राग्वशेनैव नित्यं स्वस्थानमाश्रिताः ॥ 308 ॥
मूलम् - 308
लोकदिक्पालकास्त्वेते स्वसेनाभिः समावृताः।
प्रसिद्धप्राग्वशेनैव नित्यं स्वस्थानमाश्रिताः ॥ 308 ॥
विश्वास-प्रस्तुतिः - 309
दिकपालकत्वादासृष्टेर्यतस्तेषां स्थितिः स्थिरा।
भगवन्मन्त्रमूर्तीनामनन्तानां महामते! ॥ 309 ॥
मूलम् - 309
दिकपालकत्वादासृष्टेर्यतस्तेषां स्थितिः स्थिरा।
भगवन्मन्त्रमूर्तीनामनन्तानां महामते! ॥ 309 ॥
विश्वास-प्रस्तुतिः - 310
स्वस्थानस्था नमस्यन्ति पूजयन्ति जपन्ति च।
ध्वजाद्यैरुपचारैश्च सम्यक् परिचरन्ति च ॥ 310 ॥
मूलम् - 310
स्वस्थानस्था नमस्यन्ति पूजयन्ति जपन्ति च।
ध्वजाद्यैरुपचारैश्च सम्यक् परिचरन्ति च ॥ 310 ॥
विश्वास-प्रस्तुतिः - 311
कैवल्यसिद्धये शश्वद्बहुभिः स्वानुगैः सह।
पालयन्ति च, भक्तानां बलमोजो ददन्ति च ॥ 311 ॥
मूलम् - 311
कैवल्यसिद्धये शश्वद्बहुभिः स्वानुगैः सह।
पालयन्ति च, भक्तानां बलमोजो ददन्ति च ॥ 311 ॥
विश्वास-प्रस्तुतिः - 312
ध्वंसयन्ति च विघ्नौघमनिशं मन्त्रयाजिनाम्।
संरक्षन्ति फलं मान्त्रं वर्धमानं द्विलक्षणम् ॥ 312 ॥
मूलम् - 312
ध्वंसयन्ति च विघ्नौघमनिशं मन्त्रयाजिनाम्।
संरक्षन्ति फलं मान्त्रं वर्धमानं द्विलक्षणम् ॥ 312 ॥
विश्वास-प्रस्तुतिः - 313
अधिकारमनादीयं शक्तिबीजं जगत्प्रभोः।
दिक्सिद्धये दशात्मत्वं तदव्यत्त्यष्टदिशात्मिका ॥ 313 ॥
मूलम् - 313
अधिकारमनादीयं शक्तिबीजं जगत्प्रभोः।
दिक्सिद्धये दशात्मत्वं तदव्यत्त्यष्टदिशात्मिका ॥ 313 ॥
विश्वास-प्रस्तुतिः - 314
बाह्यत्रिसालभूमिष्ठाः कालाद्या भवदेवताः।
तत्साधकत्वात् पूर्वोक्तदिग्भागनियताः सदा ॥ 314 ॥
मूलम् - 314
बाह्यत्रिसालभूमिष्ठाः कालाद्या भवदेवताः।
तत्साधकत्वात् पूर्वोक्तदिग्भागनियताः सदा ॥ 314 ॥
विश्वास-प्रस्तुतिः - 315
वज्रनाभादयो देवा लोकदिग्द्वारपालकाः।
तथामरेशपूर्वाश्च संभवप्रभवादयः ॥ 315 ॥
मूलम् - 315
वज्रनाभादयो देवा लोकदिग्द्वारपालकाः।
तथामरेशपूर्वाश्च संभवप्रभवादयः ॥ 315 ॥
विश्वास-प्रस्तुतिः - 316
प्रसिद्धप्राक्क्रमेणैव दिग्द्वारेषु स्थिताः क्रमात्।
कालाद्यमष्टकं नित्यमिन्द्राद्यं रुद्रपश्चिमम् ॥ 316 ॥
मूलम् - 316
प्रसिद्धप्राक्क्रमेणैव दिग्द्वारेषु स्थिताः क्रमात्।
कालाद्यमष्टकं नित्यमिन्द्राद्यं रुद्रपश्चिमम् ॥ 316 ॥
विश्वास-प्रस्तुतिः - 317
नियन्ता कालतत्वान्ते तदन्ते सुस्थितं वियत्।
क्रमात् पूर्वोत्तरे कोणे न्यसेद्दक्षिणपश्चिमे ॥ 317 ॥
मूलम् - 317
नियन्ता कालतत्वान्ते तदन्ते सुस्थितं वियत्।
क्रमात् पूर्वोत्तरे कोणे न्यसेद्दक्षिणपश्चिमे ॥ 317 ॥
विश्वास-प्रस्तुतिः - 318
विद्याऽविद्याद्वयं यद्वै स्वपदस्थेऽग्निमारुते।
चन्द्रादित्यावुदग्याम्यस्थानयोर्विनिवेश्य च ॥ 318 ॥
मूलम् - 318
विद्याऽविद्याद्वयं यद्वै स्वपदस्थेऽग्निमारुते।
चन्द्रादित्यावुदग्याम्यस्थानयोर्विनिवेश्य च ॥ 318 ॥
विश्वास-प्रस्तुतिः - 319
प्रत्यग्भागगतं तोयं प्राग्भागे विन्यसेद्धराम्।
कुमुदाद्यावृतीशाना लोहिताक्षादयस्तथा ॥ 319 ॥
मूलम् - 319
प्रत्यग्भागगतं तोयं प्राग्भागे विन्यसेद्धराम्।
कुमुदाद्यावृतीशाना लोहिताक्षादयस्तथा ॥ 319 ॥
विश्वास-प्रस्तुतिः - 320
वज्रनाभादिकं मुक्त्वा द्वारपालत्रिरष्टकम्।
द्वारपालगणास्त्वन्ये सालकोणगणास्तथा ॥ 320 ॥
मूलम् - 320
वज्रनाभादिकं मुक्त्वा द्वारपालत्रिरष्टकम्।
द्वारपालगणास्त्वन्ये सालकोणगणास्तथा ॥ 320 ॥
विश्वास-प्रस्तुतिः - 321
प्रोक्तक्रमेण तिष्ठन्ति भगवत्प्रागपेक्षया।
कुमुदादिगणेशानाः पुरग्रामादिवास्तुनि ॥ 321 ॥
मूलम् - 321
प्रोक्तक्रमेण तिष्ठन्ति भगवत्प्रागपेक्षया।
कुमुदादिगणेशानाः पुरग्रामादिवास्तुनि ॥ 321 ॥
विश्वास-प्रस्तुतिः - 322
पालिकावसथे चैव दिक्पालोक्तवशात् स्थिताः।
त्रिसन्ध्यमेवं देवानां बलिदानं समाचरेत् ॥ 322 ॥
मूलम् - 322
पालिकावसथे चैव दिक्पालोक्तवशात् स्थिताः।
त्रिसन्ध्यमेवं देवानां बलिदानं समाचरेत् ॥ 322 ॥
विश्वास-प्रस्तुतिः - 323
संकल्पितेषु सालेषु द्वारावरणवासिनाम्।
असंकल्पितसालोक्तदेवानां नाचरेद्बलिम् ॥ 323 ॥
मूलम् - 323
संकल्पितेषु सालेषु द्वारावरणवासिनाम्।
असंकल्पितसालोक्तदेवानां नाचरेद्बलिम् ॥ 323 ॥
विश्वास-प्रस्तुतिः - 324
तत्तन्निर्माणकाले तान् प्रतिष्ठाप्य यथाविधि।
देवयात्रा समेतं तु बलिदानं समाचरेत् ॥ 324 ॥
मूलम् - 324
तत्तन्निर्माणकाले तान् प्रतिष्ठाप्य यथाविधि।
देवयात्रा समेतं तु बलिदानं समाचरेत् ॥ 324 ॥
विश्वास-प्रस्तुतिः - 325
एवं सर्वं समपाद्य महापीठोर्ध्वभूतलम्।
प्रक्षालितं समारुह्य प्राङ्मुखो वाप्युदङ्मुखः ॥ 325 ॥
मूलम् - 325
एवं सर्वं समपाद्य महापीठोर्ध्वभूतलम्।
प्रक्षालितं समारुह्य प्राङ्मुखो वाप्युदङ्मुखः ॥ 325 ॥
विश्वास-प्रस्तुतिः - 326
तदूर्ध्वाम्बुजदिक्पत्रे कुमुदादीनथान्तरे।
सर्वभूतान् पारिषदानाहूय ग्रहसंज्ञितान् ॥ 326 ॥
मूलम् - 326
तदूर्ध्वाम्बुजदिक्पत्रे कुमुदादीनथान्तरे।
सर्वभूतान् पारिषदानाहूय ग्रहसंज्ञितान् ॥ 326 ॥
विश्वास-प्रस्तुतिः - 327
संपूज्य सोदकं तत्त बलिशेषं समुत्किरेत्।
पश्चादाचम्य विधिवत् स्नात्वा वा संविशेद्गृहम् ॥ 327 ॥
मूलम् - 327
संपूज्य सोदकं तत्त बलिशेषं समुत्किरेत्।
पश्चादाचम्य विधिवत् स्नात्वा वा संविशेद्गृहम् ॥ 327 ॥
विश्वास-प्रस्तुतिः - 328
सर्वद्वारावृतीशानां सोणस्थानां समर्चने।
नतिप्रणवसंयुक्तस्वनाम मन्त्र ईरितः ॥ 328 ॥
मूलम् - 328
सर्वद्वारावृतीशानां सोणस्थानां समर्चने।
नतिप्रणवसंयुक्तस्वनाम मन्त्र ईरितः ॥ 328 ॥
विश्वास-प्रस्तुतिः - 329
महापीठस्थभूतानां पार्षदानां गृहात्मनाम्।
तारान्ते विष्णुशब्दं च नियुञ्ज्यादुदितक्रमात् ॥ 329 ॥
मूलम् - 329
महापीठस्थभूतानां पार्षदानां गृहात्मनाम्।
तारान्ते विष्णुशब्दं च नियुञ्ज्यादुदितक्रमात् ॥ 329 ॥
विश्वास-प्रस्तुतिः - 330
सर्वकोणगता मन्त्राः फडन्ताः समुदीरिताः।
सर्वे समुदिता मन्त्राः स्वाहान्ता होमकर्मणि ॥ 330 ॥
मूलम् - 330
सर्वकोणगता मन्त्राः फडन्ताः समुदीरिताः।
सर्वे समुदिता मन्त्राः स्वाहान्ता होमकर्मणि ॥ 330 ॥
विश्वास-प्रस्तुतिः - 331
ध्यात्वैवमर्च्य तन्मन्त्रैरर्घ्याद्यैरुपचारकैः।
दर्शयेदावृतीशानां मुद्रां तर्जनिसंज्ञिताम् ॥ 331 ॥
मूलम् - 331
ध्यात्वैवमर्च्य तन्मन्त्रैरर्घ्याद्यैरुपचारकैः।
दर्शयेदावृतीशानां मुद्रां तर्जनिसंज्ञिताम् ॥ 331 ॥
विश्वास-प्रस्तुतिः - 332
द्वारपालगणानां तु चण्डाद्युक्तमनन्तरम्।
धर्माद्यावरणादूर्ध्बं हेतुना येन केनचित् ॥ 332 ॥
मूलम् - 332
द्वारपालगणानां तु चण्डाद्युक्तमनन्तरम्।
धर्माद्यावरणादूर्ध्बं हेतुना येन केनचित् ॥ 332 ॥
विश्वास-प्रस्तुतिः - 333
बलिदानमशक्यं चेत्तत्रत्यानां यथाक्रमम्।
सर्वतोभद्रपूर्वेषु द्विगुणीकृत्य चाचरेत् ॥ 333 ॥
मूलम् - 333
बलिदानमशक्यं चेत्तत्रत्यानां यथाक्रमम्।
सर्वतोभद्रपूर्वेषु द्विगुणीकृत्य चाचरेत् ॥ 333 ॥
विश्वास-प्रस्तुतिः - 334
मुख्यकल्पे तथान्यत्र यथाशक्त्यावृतिक्षितौ।
तद्बाह्यावृतिदेवानामावृत्यावृत्य तर्पयेत् ॥ 334 ॥
मूलम् - 334
मुख्यकल्पे तथान्यत्र यथाशक्त्यावृतिक्षितौ।
तद्बाह्यावृतिदेवानामावृत्यावृत्य तर्पयेत् ॥ 334 ॥
विश्वास-प्रस्तुतिः - 335
द्वारोपद्वारपालानां तस्मिन् द्वारे समर्पयेत्।
महापीठोदितानां च तद्द्वाराग्रगमण्डले ॥ 335 ॥
मूलम् - 335
द्वारोपद्वारपालानां तस्मिन् द्वारे समर्पयेत्।
महापीठोदितानां च तद्द्वाराग्रगमण्डले ॥ 335 ॥
विश्वास-प्रस्तुतिः - 336
ध्यानोत्थानां तु सञ्चारे न दोषः केन हेतुना।
तत्तदावरणद्वारदेशेषूक्तक्रमेण तु ॥ 336 ॥
मूलम् - 336
ध्यानोत्थानां तु सञ्चारे न दोषः केन हेतुना।
तत्तदावरणद्वारदेशेषूक्तक्रमेण तु ॥ 336 ॥
विश्वास-प्रस्तुतिः - 337
द्रव्यमूर्तिगतानां च संचारः स्यादनिष्टदः।
एवमावृतिदेवानां त्रिसन्ध्यं बलिमाचरेत् ॥ 337 ॥
मूलम् - 337
द्रव्यमूर्तिगतानां च संचारः स्यादनिष्टदः।
एवमावृतिदेवानां त्रिसन्ध्यं बलिमाचरेत् ॥ 337 ॥
विश्वास-प्रस्तुतिः - 338
नित्योत्सवार्थबिम्बस्य सन्निधौ तत् समाचरेत्।
नृत्तगेयादिसंयुक्तं वेदघोषसमन्वितम् ॥ 338 ॥
मूलम् - 338
नित्योत्सवार्थबिम्बस्य सन्निधौ तत् समाचरेत्।
नृत्तगेयादिसंयुक्तं वेदघोषसमन्वितम् ॥ 338 ॥
विश्वास-प्रस्तुतिः - 339
नित्योत्सवार्थबिम्बे तु यानान्निपतिते भुवि।
उत्तमं स्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ 339 ॥
मूलम् - 339
नित्योत्सवार्थबिम्बे तु यानान्निपतिते भुवि।
उत्तमं स्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ 339 ॥
विश्वास-प्रस्तुतिः - 340
यानमारोप्य तद्बिम्बं पुनर्नित्योत्सवं चरेत्।
द्वादशाहं व्रतं कुर्यात् साधकः खिन्नमानसः ॥ 340 ॥
मूलम् - 340
यानमारोप्य तद्बिम्बं पुनर्नित्योत्सवं चरेत्।
द्वादशाहं व्रतं कुर्यात् साधकः खिन्नमानसः ॥ 340 ॥
विश्वास-प्रस्तुतिः - 341
जपेत् स्वमन्त्रायुतकं यदि भेदादिदूषिते।
विधिवत् तत् समाधाय कृत्वा संप्रोक्षणं ततः ॥ 341 ॥
मूलम् - 341
जपेत् स्वमन्त्रायुतकं यदि भेदादिदूषिते।
विधिवत् तत् समाधाय कृत्वा संप्रोक्षणं ततः ॥ 341 ॥
विश्वास-प्रस्तुतिः - 342
उत्सवं शेषणापाद्य खिन्नचित्तस्तु साधकः।
तदारभ्य निराहारो ब्रह्नचर्यव्रते स्थितः ॥ 342 ॥
मूलम् - 342
उत्सवं शेषणापाद्य खिन्नचित्तस्तु साधकः।
तदारभ्य निराहारो ब्रह्नचर्यव्रते स्थितः ॥ 342 ॥
विश्वास-प्रस्तुतिः - 343
चतुष्कमयुतानां तु स्वमन्त्रस्य तदा जपेत्।
तत्र त्रिरात्रं षडहं द्वादशाहं द्विपक्षकम् ॥ 343 ॥
मूलम् - 343
चतुष्कमयुतानां तु स्वमन्त्रस्य तदा जपेत्।
तत्र त्रिरात्रं षडहं द्वादशाहं द्विपक्षकम् ॥ 343 ॥
विश्वास-प्रस्तुतिः - 344
व्रतमाचर्य यत्नेन पात्रेभ्यो दानमाचरेत्।
गोभूहेमादिकानां तु यथाशक्ति द्विजोत्तम! ॥ 344 ॥
मूलम् - 344
व्रतमाचर्य यत्नेन पात्रेभ्यो दानमाचरेत्।
गोभूहेमादिकानां तु यथाशक्ति द्विजोत्तम! ॥ 344 ॥
विश्वास-प्रस्तुतिः - 345
दैवाद्बृहति भङ्गे वा तदा बिम्बान्तरेण तु।
स्नपनादिनियुक्तेन बलिदानैस्तु कैवलैः ॥ 345 ॥
मूलम् - 345
दैवाद्बृहति भङ्गे वा तदा बिम्बान्तरेण तु।
स्नपनादिनियुक्तेन बलिदानैस्तु कैवलैः ॥ 345 ॥
विश्वास-प्रस्तुतिः - 346
कर्मशेषं समापाद्य कृत्वा मन्त्रविसर्जनम्।
जीर्णोद्धारक्रमेणैव व्रताचरणमाभेत् ॥ 346 ॥
मूलम् - 346
कर्मशेषं समापाद्य कृत्वा मन्त्रविसर्जनम्।
जीर्णोद्धारक्रमेणैव व्रताचरणमाभेत् ॥ 346 ॥
विश्वास-प्रस्तुतिः - 347
जपायुतचतुष्क च त्रिरात्राद्यं चतुष्टयम्।
यावद्बिम्बसमापत्तिर्भूयः कृछ्रादिकं चरेत् ॥ 347 ॥
मूलम् - 347
जपायुतचतुष्क च त्रिरात्राद्यं चतुष्टयम्।
यावद्बिम्बसमापत्तिर्भूयः कृछ्रादिकं चरेत् ॥ 347 ॥
विश्वास-प्रस्तुतिः - 348
बिम्बारम्भदिनात् पूर्वं ततस्त्वेकादशाह्निकम्।
व्रतं कृत्वा तु देवे तु विम्बारम्भदिने द्विज! ॥ 348 ॥
मूलम् - 348
बिम्बारम्भदिनात् पूर्वं ततस्त्वेकादशाह्निकम्।
व्रतं कृत्वा तु देवे तु विम्बारम्भदिने द्विज! ॥ 348 ॥
विश्वास-प्रस्तुतिः - 349
संपूज्य द्वादशाचार्यान् सममूल्यं पृथक् पृथक्।
तेब्यो द्वादशदानानि दत्बा गोभूतिलानि वा ॥ 349 ॥
मूलम् - 349
संपूज्य द्वादशाचार्यान् सममूल्यं पृथक् पृथक्।
तेब्यो द्वादशदानानि दत्बा गोभूतिलानि वा ॥ 349 ॥
विश्वास-प्रस्तुतिः - 350
एतेषां सन्निधौ भूयो बिम्बापादनमारभेत्।
यद्वाबिम्बं समादध्यात् प्रतिष्ठादिक्रमाच्चरेत् ॥ 350 ॥
मूलम् - 350
एतेषां सन्निधौ भूयो बिम्बापादनमारभेत्।
यद्वाबिम्बं समादध्यात् प्रतिष्ठादिक्रमाच्चरेत् ॥ 350 ॥
विश्वास-प्रस्तुतिः - 351
गोभूहेमादिकानां तु दानं चापि समाचरेत्।
जातलोकापवादस्तु भूयश्च व्रतमाचरेत् ॥ 351 ॥
मूलम् - 351
गोभूहेमादिकानां तु दानं चापि समाचरेत्।
जातलोकापवादस्तु भूयश्च व्रतमाचरेत् ॥ 351 ॥
विश्वास-प्रस्तुतिः - 352
यावल्लोकापवादस्तु शान्तः स्यातावदाचरेत्।
मनःप्रसादपर्यन्तकालं च व्रतमाचरेत् ॥ 352 ॥
मूलम् - 352
यावल्लोकापवादस्तु शान्तः स्यातावदाचरेत्।
मनःप्रसादपर्यन्तकालं च व्रतमाचरेत् ॥ 352 ॥
विश्वास-प्रस्तुतिः - 353
अन्येषामपि बिम्बानां जाते भेदादिके सति।
एवमेव भेवद्विप्र! प्रायस्चित्तविधिक्रमः ॥ 353 ॥
मूलम् - 353
अन्येषामपि बिम्बानां जाते भेदादिके सति।
एवमेव भेवद्विप्र! प्रायस्चित्तविधिक्रमः ॥ 353 ॥
विश्वास-प्रस्तुतिः - 354
शूद्रस्याराधकस्यैवं प्रायश्चित्तं समीरितम्।
वैश्यस्य द्विगुणं त्वेतत् त्रिगुणं क्षत्रियस्य तु ॥ 354 ॥
मूलम् - 354
शूद्रस्याराधकस्यैवं प्रायश्चित्तं समीरितम्।
वैश्यस्य द्विगुणं त्वेतत् त्रिगुणं क्षत्रियस्य तु ॥ 354 ॥
विश्वास-प्रस्तुतिः - 355
चतुर्गुणं ब्राह्नणस्य प्रायश्चित्तं समीरितम्।
मनुष्यस्थापितानां तु बिम्बानां भेदनादिके ॥ 355 ॥
मूलम् - 355
चतुर्गुणं ब्राह्नणस्य प्रायश्चित्तं समीरितम्।
मनुष्यस्थापितानां तु बिम्बानां भेदनादिके ॥ 355 ॥
विश्वास-प्रस्तुतिः - 356
सञ्जाते साधकस्यैवं प्रायश्चित्तं समीरितम्।
आर्षे तु भगवद्बिम्बे तदेव द्विगुणं भवेत् ॥ 356 ॥
मूलम् - 356
सञ्जाते साधकस्यैवं प्रायश्चित्तं समीरितम्।
आर्षे तु भगवद्बिम्बे तदेव द्विगुणं भवेत् ॥ 356 ॥
विश्वास-प्रस्तुतिः - 357
देवैः प्रतिष्ठिते बिम्बे तदेव त्रिगुणं भवेत्।
सिद्धप्रतिष्ठिते बिम्बे तदेतत् स्याच्चतुर्गुणम् ॥ 357 ॥
मूलम् - 357
देवैः प्रतिष्ठिते बिम्बे तदेव त्रिगुणं भवेत्।
सिद्धप्रतिष्ठिते बिम्बे तदेतत् स्याच्चतुर्गुणम् ॥ 357 ॥
विश्वास-प्रस्तुतिः - 358
स्वयंव्यक्तेषु बिम्बेषु जाते भेदादिके सति।
प्रायश्चित्तं यथोक्तं तु भवेत् पञ्चगुणं द्विज! ॥ 358 ॥
मूलम् - 358
स्वयंव्यक्तेषु बिम्बेषु जाते भेदादिके सति।
प्रायश्चित्तं यथोक्तं तु भवेत् पञ्चगुणं द्विज! ॥ 358 ॥
विश्वास-प्रस्तुतिः - 359
द्विविधं स्यात् स्वयंव्यक्तं बिम्बं भगवतो विभोः।
सालग्रामशिलारूपैरितरैस्तु शिलादिभिः ॥ 359 ॥
मूलम् - 359
द्विविधं स्यात् स्वयंव्यक्तं बिम्बं भगवतो विभोः।
सालग्रामशिलारूपैरितरैस्तु शिलादिभिः ॥ 359 ॥
विश्वास-प्रस्तुतिः - 360
उभयत्र समानं स्यात् प्रायश्चित्तं समीरितम्।
तत्रायं हिविशेषः स्यात् स्वयंव्यक्तादिषु द्विज! ॥ 360 ॥
मूलम् - 360
उभयत्र समानं स्यात् प्रायश्चित्तं समीरितम्।
तत्रायं हिविशेषः स्यात् स्वयंव्यक्तादिषु द्विज! ॥ 360 ॥
विश्वास-प्रस्तुतिः - 361
पूजायां वर्तमानायां समाधानादिकं चरेत्।
प्रायश्चित्तादिकं सर्वं सविशेषं समाचरेत् ॥ 361 ॥
मूलम् - 361
पूजायां वर्तमानायां समाधानादिकं चरेत्।
प्रायश्चित्तादिकं सर्वं सविशेषं समाचरेत् ॥ 361 ॥
विश्वास-प्रस्तुतिः - 362
स्वयंव्यक्तादिकानां तु विना मर्त्यप्रतिष्ठितम्।
सर्वेषामपि विम्बानां प्राप्तमेकतमं तु यत् ॥ 362 ॥
मूलम् - 362
स्वयंव्यक्तादिकानां तु विना मर्त्यप्रतिष्ठितम्।
सर्वेषामपि विम्बानां प्राप्तमेकतमं तु यत् ॥ 362 ॥
विश्वास-प्रस्तुतिः - 363
खीकारसमये विप्र! लक्षणादिविवर्जितम्।
खण्डितं स्फुटितं वापि यथावस्थितमेव हि ॥ 363 ॥
मूलम् - 363
खीकारसमये विप्र! लक्षणादिविवर्जितम्।
खण्डितं स्फुटितं वापि यथावस्थितमेव हि ॥ 363 ॥
विश्वास-प्रस्तुतिः - 364
स्वीकृत्याराधयेन्नित्यं न दोषस्तस्य विद्यते।
सालग्रामशिलाबिम्बे तत्तन्मूर्तिविनिर्णयम् ॥ 364 ॥
मूलम् - 364
स्वीकृत्याराधयेन्नित्यं न दोषस्तस्य विद्यते।
सालग्रामशिलाबिम्बे तत्तन्मूर्तिविनिर्णयम् ॥ 364 ॥
विश्वास-प्रस्तुतिः - 365
तत्तद्व्यवस्थितैश्चिह्नैर्ज्ञात्वा सम्यक् समर्चयेत्।
पश्चाद्भदादिके जाते प्रायश्चित्तं समाचरेत् ॥ 365 ॥
मूलम् - 365
तत्तद्व्यवस्थितैश्चिह्नैर्ज्ञात्वा सम्यक् समर्चयेत्।
पश्चाद्भदादिके जाते प्रायश्चित्तं समाचरेत् ॥ 365 ॥
विश्वास-प्रस्तुतिः - 366
पूर्वोदितं प्रयत्नेन साधकः क्षीणमानसः।
चोरभूवारिवन्ह्याद्यैर्जाते भेदादिकेऽपि च ॥ 366 ॥
मूलम् - 366
पूर्वोदितं प्रयत्नेन साधकः क्षीणमानसः।
चोरभूवारिवन्ह्याद्यैर्जाते भेदादिकेऽपि च ॥ 366 ॥
विश्वास-प्रस्तुतिः - 367
बिम्बे चापहृते वापि मार्जाराद्यैश्च जन्तुभिः।
भेदादिकेऽपि संजाते प्रागुक्तं साधकश्चरेत् ॥ 367 ॥
मूलम् - 367
बिम्बे चापहृते वापि मार्जाराद्यैश्च जन्तुभिः।
भेदादिकेऽपि संजाते प्रागुक्तं साधकश्चरेत् ॥ 367 ॥
विश्वास-प्रस्तुतिः - 368
तस्माद्दिनात् समारभ्य प्रायश्चित्तं तु यत्नतः।
यस्मात् प्रागार्जितं पापं कर्म तत्रापि कारणम् ॥ 368 ॥
मूलम् - 368
तस्माद्दिनात् समारभ्य प्रायश्चित्तं तु यत्नतः।
यस्मात् प्रागार्जितं पापं कर्म तत्रापि कारणम् ॥ 368 ॥
विश्वास-प्रस्तुतिः - 369
तस्मात्तच्छान्तये वापि ह्यपवादस्य शान्तये।
प्रायश्चित्तं तु कर्तव्यं विहितं प्राक् प्रयत्नतः ॥ 369 ॥
मूलम् - 369
तस्मात्तच्छान्तये वापि ह्यपवादस्य शान्तये।
प्रायश्चित्तं तु कर्तव्यं विहितं प्राक् प्रयत्नतः ॥ 369 ॥
विश्वास-प्रस्तुतिः - 370
अन्यथा पातकी स स्यादेतस्मात् पातकाद्द्विज!।
प्रमादतः कृतेप्येवं प्रायश्चित्तं समाचरेत् ॥ 370 ॥
मूलम् - 370
अन्यथा पातकी स स्यादेतस्मात् पातकाद्द्विज!।
प्रमादतः कृतेप्येवं प्रायश्चित्तं समाचरेत् ॥ 370 ॥
विश्वास-प्रस्तुतिः - 371
बुद्धिपूर्वकृते मेदे प्रायश्चित्तैर्न निष्कृतिः।
अवश्यं दण्ड्य एव स्यात् स पापिष्ठोऽतिदुर्मतिः ॥ 371 ॥
मूलम् - 371
बुद्धिपूर्वकृते मेदे प्रायश्चित्तैर्न निष्कृतिः।
अवश्यं दण्ड्य एव स्यात् स पापिष्ठोऽतिदुर्मतिः ॥ 371 ॥
विश्वास-प्रस्तुतिः - 372
स्वप्रमादकृते भेदे जन्त्वन्तरकृतेपि वा।
साधको ह्यनुतापार्तो नाचरेद्यदि कीर्तितम् ॥ 372 ॥
मूलम् - 372
स्वप्रमादकृते भेदे जन्त्वन्तरकृतेपि वा।
साधको ह्यनुतापार्तो नाचरेद्यदि कीर्तितम् ॥ 372 ॥
विश्वास-प्रस्तुतिः - 373
प्रायश्चित्तं तथा सोपि दड्यः स्यात् प्रथमं ततः।
प्रायश्चित्तं च वै कुर्यादयोग्यस्त्वन्यथा भवेत् ॥ 373 ॥
मूलम् - 373
प्रायश्चित्तं तथा सोपि दड्यः स्यात् प्रथमं ततः।
प्रायश्चित्तं च वै कुर्यादयोग्यस्त्वन्यथा भवेत् ॥ 373 ॥
विश्वास-प्रस्तुतिः - 374
गोपन्नपि च दोषस्य तस्य भेदादिकस्य च।
दण्डश्च प्रायश्चित्तं च विधेयमुभयं भवेत् ॥ 374 ॥
मूलम् - 374
गोपन्नपि च दोषस्य तस्य भेदादिकस्य च।
दण्डश्च प्रायश्चित्तं च विधेयमुभयं भवेत् ॥ 374 ॥
विश्वास-प्रस्तुतिः - 375
एवं भेदादिके जाते भयं स्याद्राजराष्ट्रयोः।
तच्छान्त्यै सप्तदिवसं यजेत् कुम्भस्थलादिकम् ॥ 375 ॥
मूलम् - 375
एवं भेदादिके जाते भयं स्याद्राजराष्ट्रयोः।
तच्छान्त्यै सप्तदिवसं यजेत् कुम्भस्थलादिकम् ॥ 375 ॥
विश्वास-प्रस्तुतिः - 376
एकस्मिन् वा त्रिसप्ताहं बिम्बसंस्थं च मन्तनपम्।
दोषे प्रसिद्धे भेदादौ प्रायश्चित्तं समीरितम् ॥ 376 ॥
मूलम् - 376
एकस्मिन् वा त्रिसप्ताहं बिम्बसंस्थं च मन्तनपम्।
दोषे प्रसिद्धे भेदादौ प्रायश्चित्तं समीरितम् ॥ 376 ॥
विश्वास-प्रस्तुतिः - 377
अप्रकाशे यथोक्तात्तु चतुर्थांशं समाचरेत्।
पूर्वं त्वपहृतं बिम्बं भूयः प्राप्तं यदि द्विज! ॥ 377 ॥
मूलम् - 377
अप्रकाशे यथोक्तात्तु चतुर्थांशं समाचरेत्।
पूर्वं त्वपहृतं बिम्बं भूयः प्राप्तं यदि द्विज! ॥ 377 ॥
विश्वास-प्रस्तुतिः - 378
प्रायश्चित्ताद्यथोक्तात्तु यत्नेनार्थं समाचरेत्।
बिम्बानां तु क्षते जाते श्रृणु दोषान् विशेषतः ॥ 378 ॥
मूलम् - 378
प्रायश्चित्ताद्यथोक्तात्तु यत्नेनार्थं समाचरेत्।
बिम्बानां तु क्षते जाते श्रृणु दोषान् विशेषतः ॥ 378 ॥
विश्वास-प्रस्तुतिः - 379
क्षतमिन्द्रियचक्रस्थं कर्तुर्भवति दोषदम्।
आकण्ठान्नाभिपझान्तं मन्त्रस्थं पुत्रमृत्युकृत् ॥ 379 ॥
मूलम् - 379
क्षतमिन्द्रियचक्रस्थं कर्तुर्भवति दोषदम्।
आकण्ठान्नाभिपझान्तं मन्त्रस्थं पुत्रमृत्युकृत् ॥ 379 ॥
विश्वास-प्रस्तुतिः - 380
पार्श्वद्वये तु जायायाः पृष्ठस्थं भ्रातृहानिदम्।
नाभेर्यन्मेढ्रप्रयन्तं स्थानमासाद्य तिष्ठति ॥ 380 ॥
मूलम् - 380
पार्श्वद्वये तु जायायाः पृष्ठस्थं भ्रातृहानिदम्।
नाभेर्यन्मेढ्रप्रयन्तं स्थानमासाद्य तिष्ठति ॥ 380 ॥
विश्वास-प्रस्तुतिः - 381
क्षतं सुतशिशूनां च नाशकृद्भवति द्विज!।
आकटेः पायुपर्यन्तं भगिनीनां क्षयावहम् ॥ 381 ॥
मूलम् - 381
क्षतं सुतशिशूनां च नाशकृद्भवति द्विज!।
आकटेः पायुपर्यन्तं भगिनीनां क्षयावहम् ॥ 381 ॥
विश्वास-प्रस्तुतिः - 382
ऊरुमूलाच्च जान्वन्तं यत्र यत्र भवेत् क्षतम्।
धनधान्यपशूनां च क्षयो भवति सर्वदा ॥ 382 ॥
मूलम् - 382
ऊरुमूलाच्च जान्वन्तं यत्र यत्र भवेत् क्षतम्।
धनधान्यपशूनां च क्षयो भवति सर्वदा ॥ 382 ॥
विश्वास-प्रस्तुतिः - 383
जान्वोः पादतलान्तं च भृत्यवर्गस्य दोबदम्।
सर्वेषामनुकम्पार्थमात्मनश्चापि तृप्तये ॥ 383 ॥
मूलम् - 383
जान्वोः पादतलान्तं च भृत्यवर्गस्य दोबदम्।
सर्वेषामनुकम्पार्थमात्मनश्चापि तृप्तये ॥ 383 ॥
विश्वास-प्रस्तुतिः - 384
कर्ता कमलसंभूत! क्षतमक्षततां नयेत्।
अल्पक्षते समाधानं विहितं तु निबोध मे ॥ 384 ॥
मूलम् - 384
कर्ता कमलसंभूत! क्षतमक्षततां नयेत्।
अल्पक्षते समाधानं विहितं तु निबोध मे ॥ 384 ॥
विश्वास-प्रस्तुतिः - 385
योजयेच्चित्रबिम्बस्य गलितं गन्धभावितैः।
सितरक्तादिकै रागैः पावनैरस्त्रमन्त्रितैः ॥ 385 ॥
मूलम् - 385
योजयेच्चित्रबिम्बस्य गलितं गन्धभावितैः।
सितरक्तादिकै रागैः पावनैरस्त्रमन्त्रितैः ॥ 385 ॥
विश्वास-प्रस्तुतिः - 386
मृण्मयानां तु बिम्बानां मध्वाज्यक्षीरमिश्रया।
मृदा कौशेयसंपूर्णयुक्त्या हेमोदसिक्तया ॥ 386 ॥
मूलम् - 386
मृण्मयानां तु बिम्बानां मध्वाज्यक्षीरमिश्रया।
मृदा कौशेयसंपूर्णयुक्त्या हेमोदसिक्तया ॥ 386 ॥
विश्वास-प्रस्तुतिः - 387
सन्धानं कारयेद्विप्र! दारुजस्य निबोधतु।
भेदे भङ्गे च सन्दध्यादस्त्रशस्त्रद्वयेन तु ॥ 387 ॥
मूलम् - 387
सन्धानं कारयेद्विप्र! दारुजस्य निबोधतु।
भेदे भङ्गे च सन्दध्यादस्त्रशस्त्रद्वयेन तु ॥ 387 ॥
विश्वास-प्रस्तुतिः - 388
अश्मजानां क्षते जाते सति रत्नशलाकया।
सहेमया च विहितं घृष्टशाणस्य घर्षणम् ॥ 388 ॥
मूलम् - 388
अश्मजानां क्षते जाते सति रत्नशलाकया।
सहेमया च विहितं घृष्टशाणस्य घर्षणम् ॥ 388 ॥
विश्वास-प्रस्तुतिः - 389
मनुष्यनिर्मितानां तु ह्यश्मजानां बृहत्क्षते।
सर्वथा विहितस्त्यागः स्वयंव्यक्तादिकेषु तु ॥ 389 ॥
मूलम् - 389
मनुष्यनिर्मितानां तु ह्यश्मजानां बृहत्क्षते।
सर्वथा विहितस्त्यागः स्वयंव्यक्तादिकेषु तु ॥ 389 ॥
विश्वास-प्रस्तुतिः - 390
शिलामयेषु बिम्बेषु भिन्नं भग्नं च योजयेत्।
सुवर्णनिर्मितैः पट्टैर्यथा दृढतरं भवेत् ॥ 390 ॥
मूलम् - 390
शिलामयेषु बिम्बेषु भिन्नं भग्नं च योजयेत्।
सुवर्णनिर्मितैः पट्टैर्यथा दृढतरं भवेत् ॥ 390 ॥
विश्वास-प्रस्तुतिः - 391
यद्वा तदङ्गैर्हैमेन कृत्वा सम्यङ्नियोजयेत्।
दारुजे लोहजेष्वेवं स्वयं व्यक्तादिकेष्वपि ॥ 391 ॥
मूलम् - 391
यद्वा तदङ्गैर्हैमेन कृत्वा सम्यङ्नियोजयेत्।
दारुजे लोहजेष्वेवं स्वयं व्यक्तादिकेष्वपि ॥ 391 ॥
विश्वास-प्रस्तुतिः - 392
भेदे भङ्गे समाधिस्स्यात् स्वयं व्यक्ताश्मबिम्बवत्।
रत्नजेऽपि समाधानमेवमेव समाचरेत् ॥ 392 ॥
मूलम् - 392
भेदे भङ्गे समाधिस्स्यात् स्वयं व्यक्ताश्मबिम्बवत्।
रत्नजेऽपि समाधानमेवमेव समाचरेत् ॥ 392 ॥
विश्वास-प्रस्तुतिः - 393
सालग्रामशिलाविम्बं भिन्नं भग्नं बृहत् क्षतम्।
अल्पक्षतं च सौवर्णैः पट्टैर्दृढतरं यथा ॥ 393 ॥
मूलम् - 393
सालग्रामशिलाविम्बं भिन्नं भग्नं बृहत् क्षतम्।
अल्पक्षतं च सौवर्णैः पट्टैर्दृढतरं यथा ॥ 393 ॥
विश्वास-प्रस्तुतिः - 394
बन्धयेल्लोहजे बिम्बे श्रृणु मर्त्यप्रतिष्ठिते।
केवलस्य हि हैमस्य यथालाभं क्षेते क्षिपेत् ॥ 394 ॥
मूलम् - 394
बन्धयेल्लोहजे बिम्बे श्रृणु मर्त्यप्रतिष्ठिते।
केवलस्य हि हैमस्य यथालाभं क्षेते क्षिपेत् ॥ 394 ॥
विश्वास-प्रस्तुतिः - 395
स्वर्णरत्नमयं चूर्णं द्वादशाक्षरमन्त्रितम्।
अन्यधा तूत्थिते बिम्बे क्षतं सम्यङ्महामते! ॥ 395 ॥
मूलम् - 395
स्वर्णरत्नमयं चूर्णं द्वादशाक्षरमन्त्रितम्।
अन्यधा तूत्थिते बिम्बे क्षतं सम्यङ्महामते! ॥ 395 ॥
विश्वास-प्रस्तुतिः - 396
ईषत्सुवर्णमिश्रेण पूरयेत् स्वेन धातुना।
स्वयं व्यक्तादिकेऽप्येवं मुख्यकल्पे समाचरेत् ॥ 396 ॥
मूलम् - 396
ईषत्सुवर्णमिश्रेण पूरयेत् स्वेन धातुना।
स्वयं व्यक्तादिकेऽप्येवं मुख्यकल्पे समाचरेत् ॥ 396 ॥
विश्वास-प्रस्तुतिः - 397
प्रासादे मण्डपे वापि गोपुरादिषु वा द्विज!।
शोभार्थं संस्थितानां च बिम्बानां पररूपिणाम् ॥ 397 ॥
मूलम् - 397
प्रासादे मण्डपे वापि गोपुरादिषु वा द्विज!।
शोभार्थं संस्थितानां च बिम्बानां पररूपिणाम् ॥ 397 ॥
विश्वास-प्रस्तुतिः - 398
व्यूहानां विभवानां च सदा भगवतो विभोः।
भेदादिके तु सञ्जाते समादध्यात् तथैव तु ॥ 398 ॥
मूलम् - 398
व्यूहानां विभवानां च सदा भगवतो विभोः।
भेदादिके तु सञ्जाते समादध्यात् तथैव तु ॥ 398 ॥
विश्वास-प्रस्तुतिः - 399
तत्तत्सन्निध्यनुगुणं प्रतिष्ठादिकमाचरेत्।
प्रायश्चित्तं समभ्यूह्य साधकस्तु समाचरेत् ॥ 399 ॥
मूलम् - 399