०१० प्रासाददेवतानिर्णयः

॥ श्रीः ॥
दशमोऽध्यायः
सनकः —

विश्वास-प्रस्तुतिः - 1

पूर्वं तु भगवद्यागवेलायामुक्तमर्चनम्।
प्रासादावयवस्थानां लोकादीनां समासतः ॥ 1 ॥

मूलम् - 1

पूर्वं तु भगवद्यागवेलायामुक्तमर्चनम्।
प्रासादावयवस्थानां लोकादीनां समासतः ॥ 1 ॥

विश्वास-प्रस्तुतिः - 2

तेषां स्वरूपं नामानि स्थानान्यपि विशेषतः।
विस्तराच्छ्रोतुयिच्छामि प्रबूहि वदतां वर! ॥ 2 ॥

मूलम् - 2

तेषां स्वरूपं नामानि स्थानान्यपि विशेषतः।
विस्तराच्छ्रोतुयिच्छामि प्रबूहि वदतां वर! ॥ 2 ॥

शाण्डिल्यः ---
विश्वास-प्रस्तुतिः - 3

अनेकभेदभिन्नेषु प्रासादेषु महामते!।
विस्तरेण समस्तेषु वृतायतपुरस्सरम् ॥ 3 ॥

मूलम् - 3

अनेकभेदभिन्नेषु प्रासादेषु महामते!।
विस्तरेण समस्तेषु वृतायतपुरस्सरम् ॥ 3 ॥

विश्वास-प्रस्तुतिः - 4

वक्ष्ये लोकाध्वतत्वानां देवतानां च संस्थितिम्।
सन्निरोघ्य च भूलोकं पादक्षितितलेऽखिलम् ॥ 4 ॥

मूलम् - 4

विश्वास-प्रस्तुतिः - 5

एवं प्रासादपीठेषु भुवर्लोकं यथास्थितम्।
स्मरेज्जङ्‌घावधिर्यावत् स्वर्लोकं तत्तदूर्ध्वगम् ॥ 5 ॥

मूलम् - 5

विश्वास-प्रस्तुतिः - 6

आरभ्य प्रस्तरोद्देशात् महच्छिखरभूमिगम्।
जनोलोकं च तद्वेद्यां तपःसंज्ञ तदण्डकम् ॥ 6 ॥

मूलम् - 6

आरभ्य प्रस्तरोद्देशात् महच्छिखरभूमिगम्।
जनोलोकं च तद्वेद्यां तपःसंज्ञ तदण्डकम् ॥ 6 ॥

विश्वास-प्रस्तुतिः - 7

सत्यसंज्ञं च यल्लोकं तच्छिखायां तु संस्मरेत्।
भावयेच्च पुरा व्याप्तिमेवं वै साप्तलौकिकीम् ॥ 7 ॥

मूलम् - 7

विश्वास-प्रस्तुतिः - 8

ततश्चाध्वमयीं व्याप्तिं भावयेत्तु यथाक्रमम्।
कुम्भाधारोपलान्तस्थमध्वषट्‌कं स्मरन् यजेत् ॥ 8 ॥

मूलम् - 8

विश्वास-प्रस्तुतिः - 9

बीजभूतं तदन्तस्थामध्वव्याप्तिमनुस्मरेत्।
बीजतश्चाङ्कुरीभूता परस्ताद्व्यक्तिमेति सा ॥ 9 ॥

मूलम् - 9

बीजभूतं तदन्तस्थामध्वव्याप्तिमनुस्मरेत्।
बीजतश्चाङ्कुरीभूता परस्ताद्व्यक्तिमेति सा ॥ 9 ॥

विश्वास-प्रस्तुतिः - 10

प्रासादपीठपर्यन्तं कुम्भाधारोपलात्तु वै।
भुवनाध्वा यथावस्थो भावनीयस्तु सर्वतः ॥ 10 ॥

मूलम् - 10

प्रासादपीठपर्यन्तं कुम्भाधारोपलात्तु वै।
भुवनाध्वा यथावस्थो भावनीयस्तु सर्वतः ॥ 10 ॥

विश्वास-प्रस्तुतिः - 11

गर्भोच्छ्रायावधिर्यावत् पदाध्वानं विलोकयेत्।
मन्त्राध्वा शुकनासान्तं तत्त्वाद्व्य वेदिकावधि ॥ 11 ॥

मूलम् - 11

गर्भोच्छ्रायावधिर्यावत् पदाध्वानं विलोकयेत्।
मन्त्राध्वा शुकनासान्तं तत्त्वाद्व्य वेदिकावधि ॥ 11 ॥

विश्वास-प्रस्तुतिः - 12

कलाद्वा तु गलान्तं च वर्णाध्वा च तदूर्ध्वतः।
एवं कृत्वाध्वकीं व्याप्तिं ततस्तत्वानि विन्यसेत् ॥ 12 ॥

मूलम् - 12

कलाद्वा तु गलान्तं च वर्णाध्वा च तदूर्ध्वतः।
एवं कृत्वाध्वकीं व्याप्तिं ततस्तत्वानि विन्यसेत् ॥ 12 ॥

विश्वास-प्रस्तुतिः - 13

संयोज्य पार्थिवं तत्वं पादक्षितितले द्विज!।
तोयतत्वं न्यसेत् पीठे जङ्‌घायां तैजसं स्मरेत् ॥ 13 ॥

मूलम् - 13

संयोज्य पार्थिवं तत्वं पादक्षितितले द्विज!।
तोयतत्वं न्यसेत् पीठे जङ्‌घायां तैजसं स्मरेत् ॥ 13 ॥

विश्वास-प्रस्तुतिः - 14

ग्रीवोद्देशावधिर्यावद्वायुतत्वं तदूर्ध्वतः।
आकाशं शिखरस्थं स्यात्तदुद्देशात् क्रमेण तु ॥ 14 ॥

मूलम् - 14

ग्रीवोद्देशावधिर्यावद्वायुतत्वं तदूर्ध्वतः।
आकाशं शिखरस्थं स्यात्तदुद्देशात् क्रमेण तु ॥ 14 ॥

विश्वास-प्रस्तुतिः - 15

न्यसेच्छब्दादितन्मात्रं यावत् पादतलान्तिमम्।
पार्श्वतो नासिके श्रोत्रे त्वक् सुधा समुदाहृता ॥ 15 ॥

मूलम् - 15

न्यसेच्छब्दादितन्मात्रं यावत् पादतलान्तिमम्।
पार्श्वतो नासिके श्रोत्रे त्वक् सुधा समुदाहृता ॥ 15 ॥

विश्वास-प्रस्तुतिः - 16

गवाक्षे चक्षुषी स्यातां जिह्वा भद्राख्यवेदिका।
घ्राणस्तु शुकनासा स्यादास्यं द्वारमुदाहृतम् ॥ 16 ॥

मूलम् - 16

गवाक्षे चक्षुषी स्यातां जिह्वा भद्राख्यवेदिका।
घ्राणस्तु शुकनासा स्यादास्यं द्वारमुदाहृतम् ॥ 16 ॥

विश्वास-प्रस्तुतिः - 17

विज्ञेयाः पाणयः स्तम्भाः पादाः पादशिला घटाः।
पायुः स्याज्जलनिर्याणमुपस्थं तु तदन्तरम् ॥ 17 ॥

मूलम् - 17

विज्ञेयाः पाणयः स्तम्भाः पादाः पादशिला घटाः।
पायुः स्याज्जलनिर्याणमुपस्थं तु तदन्तरम् ॥ 17 ॥

विश्वास-प्रस्तुतिः - 18

मनोऽन्तर्व्योमविज्ञेयं गर्वो ब्रह्नशिलागतः।
बुद्धिस्तु पिण्डिका ज्ञेया प्रकृतिः स्यात्तदन्तरम् ॥ 18 ॥

मूलम् - 18

विश्वास-प्रस्तुतिः - 19

पञ्चविंशतमो ज्ञेयः प्रतिमा पुरुषः परः।
एवं न्यस्तेषु तत्वेषु न्यस्तव्या देवताः क्रमात् ॥ 19 ॥

मूलम् - 19

पञ्चविंशतमो ज्ञेयः प्रतिमा पुरुषः परः।
एवं न्यस्तेषु तत्वेषु न्यस्तव्या देवताः क्रमात् ॥ 19 ॥

विश्वास-प्रस्तुतिः - 20

घटाधारोपलस्याधस्त्वनन्तो नाम नागराट्।
सहस्रसंख्यासंख्यातफणामण्डलमण्डितः ॥ 20 ॥

मूलम् - 20

घटाधारोपलस्याधस्त्वनन्तो नाम नागराट्।
सहस्रसंख्यासंख्यातफणामण्डलमण्डितः ॥ 20 ॥

विश्वास-प्रस्तुतिः - 21

तदूर्ध्वे संस्थितं चक्रं सहस्रारोपशोभितम्।
या शिला कलशाधारसंज्ञा तां विद्धि सर्वगा ॥ 21 ॥

मूलम् - 21

तदूर्ध्वे संस्थितं चक्रं सहस्रारोपशोभितम्।
या शिला कलशाधारसंज्ञा तां विद्धि सर्वगा ॥ 21 ॥

विश्वास-प्रस्तुतिः - 22

सामर्थ्यशक्तिः सामान्या निष्कला पारमेश्वरी।
तदूर्ध्वसंस्थिताः कुम्भा नव संख्यास्तु ये द्विज! ॥ 22 ॥

मूलम् - 22

सामर्थ्यशक्तिः सामान्या निष्कला पारमेश्वरी।
तदूर्ध्वसंस्थिताः कुम्भा नव संख्यास्तु ये द्विज! ॥ 22 ॥

विश्वास-प्रस्तुतिः - 23

तेषां विदिकस्थितानां च चतुर्णां मध्यतो न्यसेत्।
पझासनगतां लक्ष्मीं निधिभिः परिवारिताम् ॥ 23 ॥

मूलम् - 23

तेषां विदिकस्थितानां च चतुर्णां मध्यतो न्यसेत्।
पझासनगतां लक्ष्मीं निधिभिः परिवारिताम् ॥ 23 ॥

विश्वास-प्रस्तुतिः - 24

चतुर्णामपि चान्येषां रत्नराट् कौस्तुभाभिधः।
स्वमन्त्रेण स्वनाम्ना च निधिनाथैः समन्वितः ॥ 24 ॥

मूलम् - 24

चतुर्णामपि चान्येषां रत्नराट् कौस्तुभाभिधः।
स्वमन्त्रेण स्वनाम्ना च निधिनाथैः समन्वितः ॥ 24 ॥

विश्वास-प्रस्तुतिः - 25

भगवान् सर्वशक्त्यात्मा एकस्मिन् परिचिन्तयेत्।
षडक्षरेण मन्त्रेण निष्कलं शब्दविग्रहम् ॥ 25 ॥

मूलम् - 25

भगवान् सर्वशक्त्यात्मा एकस्मिन् परिचिन्तयेत्।
षडक्षरेण मन्त्रेण निष्कलं शब्दविग्रहम् ॥ 25 ॥

विश्वास-प्रस्तुतिः - 26

तत्र मध्यमकुम्भस्य पिधाने मध्यतो न्यसेत्।
शक्तिर्वै या परा देधी विश्वसन्धारणक्षमा ॥ 26 ॥

मूलम् - 26

तत्र मध्यमकुम्भस्य पिधाने मध्यतो न्यसेत्।
शक्तिर्वै या परा देधी विश्वसन्धारणक्षमा ॥ 26 ॥

विश्वास-प्रस्तुतिः - 27

प्रभा सर्वेश्वरी दिक्षु ज्ञानशक्तिः स्मृता च सा।
विदिग्व्यक्तिसमूहे च स्मरेदानन्दलक्षणा ॥ 27 ॥

मूलम् - 27

प्रभा सर्वेश्वरी दिक्षु ज्ञानशक्तिः स्मृता च सा।
विदिग्व्यक्तिसमूहे च स्मरेदानन्दलक्षणा ॥ 27 ॥

विश्वास-प्रस्तुतिः - 28

क्रियाख्या याऽऽच्युती शक्तिः शुद्धवर्गस्य जन्मदा।
पिधाननवके त्वस्मिन्नामद्यादीशगोचरम् ॥ 28 ॥

मूलम् - 28

क्रियाख्या याऽऽच्युती शक्तिः शुद्धवर्गस्य जन्मदा।
पिधाननवके त्वस्मिन्नामद्यादीशगोचरम् ॥ 28 ॥

विश्वास-प्रस्तुतिः - 29

स्मर्तव्याः सर्वतो व्याप्ताः क्रमेणैव महामते!।
ज्ञानभासा निवसती तथाऽनन्तबला प्रभा ॥ 29 ॥

मूलम् - 29

स्मर्तव्याः सर्वतो व्याप्ताः क्रमेणैव महामते!।
ज्ञानभासा निवसती तथाऽनन्तबला प्रभा ॥ 29 ॥

विश्वास-प्रस्तुतिः - 30

सर्वगा ब्रह्नवदना द्योतकी सत्यविक्रमा।
संपूर्णा चेति कथिताः शक्तयो विश्वधारिकाः ॥ 30 ॥

मूलम् - 30

सर्वगा ब्रह्नवदना द्योतकी सत्यविक्रमा।
संपूर्णा चेति कथिताः शक्तयो विश्वधारिकाः ॥ 30 ॥

विश्वास-प्रस्तुतिः - 31

शक्त्यष्टकं तु न्यस्तव्यं तद्बहिर्दिग्विदिक्षु च।
प्रागादीशानदिङ्‌निष्ठं क्रमेणैव शिलाष्टके ॥ 31 ॥

मूलम् - 31

शक्त्यष्टकं तु न्यस्तव्यं तद्बहिर्दिग्विदिक्षु च।
प्रागादीशानदिङ्‌निष्ठं क्रमेणैव शिलाष्टके ॥ 31 ॥

विश्वास-प्रस्तुतिः - 32

बलवीर्यवती नित्या अनन्ताख्या स्थिरा ध्त्रुवा।
स्त्याख्या धृतिसंज्ञा च स्थितिर्नाम्ना द्विजाष्टमी ॥ 32 ॥

मूलम् - 32

विश्वास-प्रस्तुतिः - 33

शिलानामन्तरे भूमौ षट्‌कं क्रमेण तु।
न्यस्तव्यं पूर्ववर्णाच्च वर्णानां सावसानकम् ॥ 33 ॥

मूलम् - 33

शिलानामन्तरे भूमौ षट्‌कं क्रमेण तु।
न्यस्तव्यं पूर्ववर्णाच्च वर्णानां सावसानकम् ॥ 33 ॥

विश्वास-प्रस्तुतिः - 34

क्षार्णेन चिन्तयेद्व्याप्तिं तद्वहिश्चाङ्गुलीयकम्।
ततो मसूरकाधारे धर्माद्यं यद्‌द्विरष्टकम् ॥ 34 ॥

मूलम् - 34

क्षार्णेन चिन्तयेद्व्याप्तिं तद्वहिश्चाङ्गुलीयकम्।
ततो मसूरकाधारे धर्माद्यं यद्‌द्विरष्टकम् ॥ 34 ॥

विश्वास-प्रस्तुतिः - 35

तदूर्ध्वं कोणदेशेषु यदा पझचतुष्टयम्।
कल्पितं तु तदा विप्र! कमलोपरि संस्थिताः ॥ 35 ॥

मूलम् - 35

तदूर्ध्वं कोणदेशेषु यदा पझचतुष्टयम्।
कल्पितं तु तदा विप्र! कमलोपरि संस्थिताः ॥ 35 ॥

विश्वास-प्रस्तुतिः - 36

मूर्तयो वासुदेवाद्याः पावकादीशपश्चिमम्।
अथोपानतलोद्देशे चक्रं कालानलप्रभम् ॥ 36 ॥

मूलम् - 36

मूर्तयो वासुदेवाद्याः पावकादीशपश्चिमम्।
अथोपानतलोद्देशे चक्रं कालानलप्रभम् ॥ 36 ॥

विश्वास-प्रस्तुतिः - 37

अधिष्ठानप्रदेशे तु पझं धामत्रयाश्रितम्।
सर्वाभिः शक्तिभिर्युक्तस्तन्मद्ये चिन्मयः पुमान् ॥ 37 ॥

मूलम् - 37

अधिष्ठानप्रदेशे तु पझं धामत्रयाश्रितम्।
सर्वाभिः शक्तिभिर्युक्तस्तन्मद्ये चिन्मयः पुमान् ॥ 37 ॥

विश्वास-प्रस्तुतिः - 38

पीठस्य दिक्‌चतुष्के तु पूर्वाद्युत्तरपश्चिमम्।
अनन्तविहगाम्भोजचक्राक्याः क्रमशः स्थिताः ॥ 38 ॥

मूलम् - 38

पीठस्य दिक्‌चतुष्के तु पूर्वाद्युत्तरपश्चिमम्।
अनन्तविहगाम्भोजचक्राक्याः क्रमशः स्थिताः ॥ 38 ॥

विश्वास-प्रस्तुतिः - 39

ततश्चरणपझे तु प्रागादौ दिक्‌चतुष्टये।
वासुदेवादयः स्थाप्याः पुरुषाद्यास्तु वा क्रमात् ॥ 39 ॥

मूलम् - 39

ततश्चरणपझे तु प्रागादौ दिक्‌चतुष्टये।
वासुदेवादयः स्थाप्याः पुरुषाद्यास्तु वा क्रमात् ॥ 39 ॥

विश्वास-प्रस्तुतिः - 40

सर्वाधारमयं चक्रं शाखामूलं समाश्रितम्।
ज्ञानक्रियात्मके तत्वे शाखयोर्युगले स्थिते ॥ 40 ॥

मूलम् - 40

सर्वाधारमयं चक्रं शाखामूलं समाश्रितम्।
ज्ञानक्रियात्मके तत्वे शाखयोर्युगले स्थिते ॥ 40 ॥

विश्वास-प्रस्तुतिः - 41

परभेश्वर आद्यस्तु द्वारस्योर्ध्व उदुम्बरे।
संस्थितः सर्वतो व्यापी तत्पृष्टे मध्यदेशतः ॥ 41 ॥

मूलम् - 41

परभेश्वर आद्यस्तु द्वारस्योर्ध्व उदुम्बरे।
संस्थितः सर्वतो व्यापी तत्पृष्टे मध्यदेशतः ॥ 41 ॥

विश्वास-प्रस्तुतिः - 42

चतुष्पात् सकलो धर्मः स्थितः सत्ववतां वरः।
यदा कवाटौ द्वारस्य कल्पितौ द्विजसत्तम! ॥ 42 ॥

मूलम् - 42

चतुष्पात् सकलो धर्मः स्थितः सत्ववतां वरः।
यदा कवाटौ द्वारस्य कल्पितौ द्विजसत्तम! ॥ 42 ॥

विश्वास-प्रस्तुतिः - 43

कालबैश्वानरो देवो ह्यपां पतिरुभाविमौ।
दक्षिणोत्तरयोगेन कवाटपरिसंस्थितौ ॥ 43 ॥

मूलम् - 43

कालबैश्वानरो देवो ह्यपां पतिरुभाविमौ।
दक्षिणोत्तरयोगेन कवाटपरिसंस्थितौ ॥ 43 ॥

विश्वास-प्रस्तुतिः - 44

कल्पितौ शुकनासौ वा यदा साङ्गौ महामते!।
इच्छाप्राणौ तयोः स्थाप्यावग्नीषोमौ गवाक्षयोः ॥ 44 ॥

मूलम् - 44

कल्पितौ शुकनासौ वा यदा साङ्गौ महामते!।
इच्छाप्राणौ तयोः स्थाप्यावग्नीषोमौ गवाक्षयोः ॥ 44 ॥

विश्वास-प्रस्तुतिः - 45

ततो जङ्‌घाद्विषट्‌के तु तथैवान्तरभूमिषु।
कालो वियन्नियन्ता च शास्त्रं नानाह्गलक्षणम् ॥ 45 ॥

मूलम् - 45

ततो जङ्‌घाद्विषट्‌के तु तथैवान्तरभूमिषु।
कालो वियन्नियन्ता च शास्त्रं नानाह्गलक्षणम् ॥ 45 ॥

विश्वास-प्रस्तुतिः - 46

विद्याधिपतयश्चैव सरुद्रः सगणः शिवः।
प्रजापतिसमूहस्तु इन्द्रः सपरिवारकः ॥ 46 ॥

मूलम् - 46

विद्याधिपतयश्चैव सरुद्रः सगणः शिवः।
प्रजापतिसमूहस्तु इन्द्रः सपरिवारकः ॥ 46 ॥

विश्वास-प्रस्तुतिः - 47

मुनयः सप्तपूर्वेऽन्ये ग्रहास्तारादिकैर्वृताः।
जीमूताश्चाखिला नागा अप्सरोण उत्तमः ॥ 47 ॥

मूलम् - 47

मुनयः सप्तपूर्वेऽन्ये ग्रहास्तारादिकैर्वृताः।
जीमूताश्चाखिला नागा अप्सरोण उत्तमः ॥ 47 ॥

विश्वास-प्रस्तुतिः - 48

ओषध्यश्चैव पशवो यज्ञाः साङ्गाखिलास्तु ये।
विद्याश्चैवापरा विद्या पावकश्चैवमारुतः ॥ 48 ॥

मूलम् - 48

ओषध्यश्चैव पशवो यज्ञाः साङ्गाखिलास्तु ये।
विद्याश्चैवापरा विद्या पावकश्चैवमारुतः ॥ 48 ॥

विश्वास-प्रस्तुतिः - 49

चन्द्रार्कौ वारिवसुधे इत्येते देवतागणाः।
चतुर्विंशतिसंख्याता घ्यातव्यास्तु यथाक्रमम् ॥ 49 ॥

मूलम् - 49

चन्द्रार्कौ वारिवसुधे इत्येते देवतागणाः।
चतुर्विंशतिसंख्याता घ्यातव्यास्तु यथाक्रमम् ॥ 49 ॥

विश्वास-प्रस्तुतिः - 50

मूर्तयः केशवाद्यास्तु जङ्घाग्रपरिसंस्थिताः।
पार्श्वयोः शुकनासाया भित्तिमूलसमाश्रितम् ॥ 50 ॥

मूलम् - 50

मूर्तयः केशवाद्यास्तु जङ्घाग्रपरिसंस्थिताः।
पार्श्वयोः शुकनासाया भित्तिमूलसमाश्रितम् ॥ 50 ॥

विश्वास-प्रस्तुतिः - 51

गणेशं योगनिद्रां च न्यसेद्वा दक्षिणादितः।
तदूर्ध्वं प्रस्तरोद्देशकपोततलसंस्थितम् ॥ 51 ॥

मूलम् - 51

गणेशं योगनिद्रां च न्यसेद्वा दक्षिणादितः।
तदूर्ध्वं प्रस्तरोद्देशकपोततलसंस्थितम् ॥ 51 ॥

विश्वास-प्रस्तुतिः - 52

नासिकानवकं यच्च यास्तदन्तरभूमयः।
तस्मिंस्तासु च सर्वासु ह्येते स्थाप्याः क्रमेण तु ॥ 52 ॥

मूलम् - 52

नासिकानवकं यच्च यास्तदन्तरभूमयः।
तस्मिंस्तासु च सर्वासु ह्येते स्थाप्याः क्रमेण तु ॥ 52 ॥

विश्वास-प्रस्तुतिः - 53

चक्रशह्खौ गदापझे लाङ्गलं मुसलं शराः।
शार्ङ्गं च खङ्गखेटौ तु दण्डः परशुरीतिहा ॥ 53 ॥

मूलम् - 53

चक्रशह्खौ गदापझे लाङ्गलं मुसलं शराः।
शार्ङ्गं च खङ्गखेटौ तु दण्डः परशुरीतिहा ॥ 53 ॥

विश्वास-प्रस्तुतिः - 54

पाशाङ्‌कुशौ मुद्गरं च वज्रं शक्तिसमन्वितम्।
प्रासादे चतुरश्रे च चतुरश्रायतेऽपि च ॥ 54 ॥

मूलम् - 54

पाशाङ्‌कुशौ मुद्गरं च वज्रं शक्तिसमन्वितम्।
प्रासादे चतुरश्रे च चतुरश्रायतेऽपि च ॥ 54 ॥

विश्वास-प्रस्तुतिः - 55

गरुडं प्रस्तरस्योर्ध्वे न्यसेत् कोणचतुष्टये।
तदूर्ध्वं वेदिकायां तु भावनीया महामते! ॥ 55 ॥

मूलम् - 55

गरुडं प्रस्तरस्योर्ध्वे न्यसेत् कोणचतुष्टये।
तदूर्ध्वं वेदिकायां तु भावनीया महामते! ॥ 55 ॥

विश्वास-प्रस्तुतिः - 56

एते पूर्वादियोगेन एकश्रृङ्गतनुस्ततः।
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः ॥ 56 ॥

मूलम् - 56

एते पूर्वादियोगेन एकश्रृङ्गतनुस्ततः।
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः ॥ 56 ॥

विश्वास-प्रस्तुतिः - 57

नरो नारायणश्चैव हरिः कृष्णस्तथैव च।
ज्वलत्परशुधृग्रामो रामश्चान्यो धनुर्धरः ॥ 57 ॥

मूलम् - 57

नरो नारायणश्चैव हरिः कृष्णस्तथैव च।
ज्वलत्परशुधृग्रामो रामश्चान्यो धनुर्धरः ॥ 57 ॥

विश्वास-प्रस्तुतिः - 58

वेदविद्भगवान् कल्की पातालशयनः प्रबुः।
ततो ग्रीवातले घ्येयः कूर्मः पातालधारकः ॥ 58 ॥

मूलम् - 58

वेदविद्भगवान् कल्की पातालशयनः प्रबुः।
ततो ग्रीवातले घ्येयः कूर्मः पातालधारकः ॥ 58 ॥

विश्वास-प्रस्तुतिः - 59

वराहो नारसिंहश्चाप्यमृताहरणस्तु वै।
श्रीपतिर्दिव्यदेहोऽथ कान्तात्माऽमृतधारकः ॥ 59 ॥

मूलम् - 59

वराहो नारसिंहश्चाप्यमृताहरणस्तु वै।
श्रीपतिर्दिव्यदेहोऽथ कान्तात्माऽमृतधारकः ॥ 59 ॥

विश्वास-प्रस्तुतिः - 60

राहुजित् कालनेमिघ्नः पारिजातहरो महान्।
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः ॥ 60 ॥

मूलम् - 60

राहुजित् कालनेमिघ्नः पारिजातहरो महान्।
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः ॥ 60 ॥

विश्वास-प्रस्तुतिः - 61

न्यग्रोधशायी भगवानित्येते द्विजसत्तम!।
ततस्तु शिखरोद्देशं त्रिधाकृत्य यथासमम् ॥ 61 ॥

मूलम् - 61

न्यग्रोधशायी भगवानित्येते द्विजसत्तम!।
ततस्तु शिखरोद्देशं त्रिधाकृत्य यथासमम् ॥ 61 ॥

विश्वास-प्रस्तुतिः - 62

यावत्तु कलशाधारवेदिका द्विजसत्तम!।
अधोभागे क्रमाद्‌घ्येयाः शिष्टा देवास्तु वैभवाः ॥ 62 ॥

मूलम् - 62

यावत्तु कलशाधारवेदिका द्विजसत्तम!।
अधोभागे क्रमाद्‌घ्येयाः शिष्टा देवास्तु वैभवाः ॥ 62 ॥

विश्वास-प्रस्तुतिः - 63

अनन्तो भगवान् देवः शक्त्यात्मा मधुसूदनः।
विद्याधिदेवः कपिलो विश्वरूपो विहङगमः ॥ 63 ॥

मूलम् - 63

अनन्तो भगवान् देवः शक्त्यात्मा मधुसूदनः।
विद्याधिदेवः कपिलो विश्वरूपो विहङगमः ॥ 63 ॥

विश्वास-प्रस्तुतिः - 64

क्रोडात्मा बडबावक्त्रो धर्मो वागीश्वरस्तथा।
देव एकार्णवशय इति ये द्वादश स्मृताः ॥ 64 ॥

मूलम् - 64

क्रोडात्मा बडबावक्त्रो धर्मो वागीश्वरस्तथा।
देव एकार्णवशय इति ये द्वादश स्मृताः ॥ 64 ॥

विश्वास-प्रस्तुतिः - 65

ध्‌रुवस्तु सर्वतो व्यापी तदूर्ध्वपदसंस्थितः।
पझनाभस्तदूर्ध्वे तु व्यापकः परितिष्ठति ॥ 65 ॥

मूलम् - 65

ध्‌रुवस्तु सर्वतो व्यापी तदूर्ध्वपदसंस्थितः।
पझनाभस्तदूर्ध्वे तु व्यापकः परितिष्ठति ॥ 65 ॥

विश्वास-प्रस्तुतिः - 66

शुकनासामुखे देवः पूजनीयः परः पुमान्।
भगवान् जगदाधारो जगदीशः सनातनः ॥ 66 ॥

मूलम् - 66

शुकनासामुखे देवः पूजनीयः परः पुमान्।
भगवान् जगदाधारो जगदीशः सनातनः ॥ 66 ॥

विश्वास-प्रस्तुतिः - 67

वासुदेवः परं ब्रह्न जगत्कारणमच्युतः।
लोकानध्वगणं नित्यं तत्वाद्यमपि देवताः ॥ 67 ॥

मूलम् - 67

वासुदेवः परं ब्रह्न जगत्कारणमच्युतः।
लोकानध्वगणं नित्यं तत्वाद्यमपि देवताः ॥ 67 ॥

विश्वास-प्रस्तुतिः - 68

प्रासादोपरि विन्यस्ताः समाक्रम्य च संस्थिताः।
यत्र प्रासाददेहे तु शुकनासा न कल्पिता ॥ 68 ॥

मूलम् - 68

प्रासादोपरि विन्यस्ताः समाक्रम्य च संस्थिताः।
यत्र प्रासाददेहे तु शुकनासा न कल्पिता ॥ 68 ॥

विश्वास-प्रस्तुतिः - 69

तत्राग्रतो नासिकायां वासुदेवं तु संस्मरेत्।
नासिकात्रितये शिष्टे अच्युताद्यास्त्रयः स्थिताः ॥ 69 ॥

मूलम् - 69

तत्राग्रतो नासिकायां वासुदेवं तु संस्मरेत्।
नासिकात्रितये शिष्टे अच्युताद्यास्त्रयः स्थिताः ॥ 69 ॥

विश्वास-प्रस्तुतिः - 70

अथवा पुरुषाद्यास्तु नराद्या वा द्विजोत्तम!।
वराहाद्यास्तु वा यद्वा धर्ममूर्त्यादयः क्रमात् ॥ 70 ॥

मूलम् - 70

अथवा पुरुषाद्यास्तु नराद्या वा द्विजोत्तम!।
वराहाद्यास्तु वा यद्वा धर्ममूर्त्यादयः क्रमात् ॥ 70 ॥

विश्वास-प्रस्तुतिः - 71

यद्वा परशुरामाद्याः स्मर्तव्याः क्रमयोगतः।
एते तु शक्तिभिः सर्वे युक्ता वा केवलास्तु वा ॥ 71 ॥

मूलम् - 71

यद्वा परशुरामाद्याः स्मर्तव्याः क्रमयोगतः।
एते तु शक्तिभिः सर्वे युक्ता वा केवलास्तु वा ॥ 71 ॥

विश्वास-प्रस्तुतिः - 72

द्रुमैः पत्रलतायुक्तैर्भूषिते वेदिकातले।
विन्यसेत् षडरं चक्रं तेजोज्वालासहस्रधृक् ॥ 72 ॥

मूलम् - 72

द्रुमैः पत्रलतायुक्तैर्भूषिते वेदिकातले।
विन्यसेत् षडरं चक्रं तेजोज्वालासहस्रधृक् ॥ 72 ॥

विश्वास-प्रस्तुतिः - 73

ततः सामलसारेषु वासुदेवादिकान् स्मरेत्।
तदग्रदेशे चक्राणि घ्यातव्यानि यथाक्रमम् ॥ 73 ॥

मूलम् - 73

ततः सामलसारेषु वासुदेवादिकान् स्मरेत्।
तदग्रदेशे चक्राणि घ्यातव्यानि यथाक्रमम् ॥ 73 ॥

विश्वास-प्रस्तुतिः - 74

अमलं शान्तसंज्ञं तु तथा शान्तोदितोदितम्।
नराद्यं कृष्णपर्यन्तं शुकनासाघटे तु वै ॥ 74 ॥

मूलम् - 74

अमलं शान्तसंज्ञं तु तथा शान्तोदितोदितम्।
नराद्यं कृष्णपर्यन्तं शुकनासाघटे तु वै ॥ 74 ॥

विश्वास-प्रस्तुतिः - 75

अन्तर्मण्डलकोणेषु वन्ह्यादीशानपश्चिमम्।
वराहरूपी भगवान् शेषमूर्तिधरः प्रभुः ॥ 75 ॥

मूलम् - 75

अन्तर्मण्डलकोणेषु वन्ह्यादीशानपश्चिमम्।
वराहरूपी भगवान् शेषमूर्तिधरः प्रभुः ॥ 75 ॥

विश्वास-प्रस्तुतिः - 76

नृसिंहरूपी पुरुषस्तथा नारायणो विभुः।
प्रासादाङ्गेषु विप्रेन्द्र! क्रमान्निगदितेषु च ॥ 76 ॥

मूलम् - 76

नृसिंहरूपी पुरुषस्तथा नारायणो विभुः।
प्रासादाङ्गेषु विप्रेन्द्र! क्रमान्निगदितेषु च ॥ 76 ॥

विश्वास-प्रस्तुतिः - 77

देवताधारभूतेषु यद्यदङ्गं न कल्पितम्।
यत्र वा तत्तदधिकं यत्रापि च समाचरेत् ॥ 77 ॥

मूलम् - 77

देवताधारभूतेषु यद्यदङ्गं न कल्पितम्।
यत्र वा तत्तदधिकं यत्रापि च समाचरेत् ॥ 77 ॥

विश्वास-प्रस्तुतिः - 78

तत्तत्स्थाने स्वबुध्द्या तु देवतान्यासमूहतः।
यद्वा ह्यनवक्लप्ताङ्गे देवतेष्टिं तु वर्जयेत् ॥ 78 ॥

मूलम् - 78

तत्तत्स्थाने स्वबुध्द्या तु देवतान्यासमूहतः।
यद्वा ह्यनवक्लप्ताङ्गे देवतेष्टिं तु वर्जयेत् ॥ 78 ॥

विश्वास-प्रस्तुतिः - 79

लोकाः सप्त तथाद्वानस्तत्वसङ्‌घाश्च देवताः।
ध्यातव्यास्तु निराकाराः साधकैर्द्विजसत्तम! ॥ 79 ॥

मूलम् - 79

लोकाः सप्त तथाद्वानस्तत्वसङ्‌घाश्च देवताः।
ध्यातव्यास्तु निराकाराः साधकैर्द्विजसत्तम! ॥ 79 ॥

विश्वास-प्रस्तुतिः - 80

विमानेऽपि तथा सिद्धविबुधैश्च प्रतिष्ठिते।
किन्तु तत्र विप्रानाङ्गमूर्तिनां लाञ्छनादिकम् ॥ 80 ॥

मूलम् - 80

विमानेऽपि तथा सिद्धविबुधैश्च प्रतिष्ठिते।
किन्तु तत्र विप्रानाङ्गमूर्तिनां लाञ्छनादिकम् ॥ 80 ॥

विश्वास-प्रस्तुतिः - 81

तासां स्थानानि विप्रेन्द्र! कल्पितानि यथाविधि।
विमानावयवांश्चापि संपरीक्ष्यैव यत्नतः ॥ 81 ॥

मूलम् - 81

तासां स्थानानि विप्रेन्द्र! कल्पितानि यथाविधि।
विमानावयवांश्चापि संपरीक्ष्यैव यत्नतः ॥ 81 ॥

विश्वास-प्रस्तुतिः - 82

पूजयेत् सावधानेन चेतसा ध्यानपूर्वकम्।
लाञ्छनाद्येषु मूर्तीनां प्रासादावयवेष्वपि ॥ 82 ॥

मूलम् - 82

पूजयेत् सावधानेन चेतसा ध्यानपूर्वकम्।
लाञ्छनाद्येषु मूर्तीनां प्रासादावयवेष्वपि ॥ 82 ॥

विश्वास-प्रस्तुतिः - 83

अनभिव्यक्तरूपेषु लक्षणादेः परीक्षणात्।
स्वप्नादेश्चापि विप्रेन्द्र! देशिकेन्द्रोपदेशतः ॥ 83 ॥

मूलम् - 83

अनभिव्यक्तरूपेषु लक्षणादेः परीक्षणात्।
स्वप्नादेश्चापि विप्रेन्द्र! देशिकेन्द्रोपदेशतः ॥ 83 ॥

विश्वास-प्रस्तुतिः - 84

यथावत् संपरीक्षेत् प्रयत्नेन द्विजोत्तम!।
लक्षणादिषु हीनेषु विपर्यस्तेष्वपि द्विज! ॥ 84 ॥

मूलम् - 84

यथावत् संपरीक्षेत् प्रयत्नेन द्विजोत्तम!।
लक्षणादिषु हीनेषु विपर्यस्तेष्वपि द्विज! ॥ 84 ॥

विश्वास-प्रस्तुतिः - 85

न लक्षणादिकं कुर्यादन्यथा द्विजसत्तम!।
लक्षणं न परीक्षेत् ह्यन्यथाकरणेञ्छया ॥ 85 ॥

मूलम् - 85

न लक्षणादिकं कुर्यादन्यथा द्विजसत्तम!।
लक्षणं न परीक्षेत् ह्यन्यथाकरणेञ्छया ॥ 85 ॥

विश्वास-प्रस्तुतिः - 86

अन्यथाकरणार्थं तु लक्षणाद्ये परीक्षिते।
क्षयत्यायुः कृते तस्मिन् लक्षणैर्नरकं व्रजेत् ॥ 86 ॥

मूलम् - 86

अन्यथाकरणार्थं तु लक्षणाद्ये परीक्षिते।
क्षयत्यायुः कृते तस्मिन् लक्षणैर्नरकं व्रजेत् ॥ 86 ॥

विश्वास-प्रस्तुतिः - 87

तस्मात् सर्वप्रयत्नेन स्वयंव्यक्तादिकेऽपि च।
विमाने संस्थितानां तु मूर्तीनां लक्षणादिकम् ॥ 87 ॥

मूलम् - 87

तस्मात् सर्वप्रयत्नेन स्वयंव्यक्तादिकेऽपि च।
विमाने संस्थितानां तु मूर्तीनां लक्षणादिकम् ॥ 87 ॥

विश्वास-प्रस्तुतिः - 88

स्थानान्यपि च तासां वै विमानावयवानपि।
यथास्थितं परीक्ष्यैव कृत्वा मूर्तिविनिर्णयम् ॥ 88 ॥

मूलम् - 88

स्थानान्यपि च तासां वै विमानावयवानपि।
यथास्थितं परीक्ष्यैव कृत्वा मूर्तिविनिर्णयम् ॥ 88 ॥

विश्वास-प्रस्तुतिः - 89

स्वेन स्वेन विशेषेण लाञ्छनाद्येन वै स्फुटम्।
स्वेन स्वेन तु मन्त्रेण पूजनं च समाचरेत् ॥ 89 ॥

मूलम् - 89

स्वेन स्वेन विशेषेण लाञ्छनाद्येन वै स्फुटम्।
स्वेन स्वेन तु मन्त्रेण पूजनं च समाचरेत् ॥ 89 ॥

विश्वास-प्रस्तुतिः - 90

प्रासादेषु स्वयंव्यक्तं श्रेष्ठं सर्वेषु सत्तम!।
तद्रूपी भगवान् देवः स्वग्रमेवावतिष्ठते ॥ 90 ॥

मूलम् - 90

प्रासादेषु स्वयंव्यक्तं श्रेष्ठं सर्वेषु सत्तम!।
तद्रूपी भगवान् देवः स्वग्रमेवावतिष्ठते ॥ 90 ॥

विश्वास-प्रस्तुतिः - 91

तत्र सन्निहितः साक्षाद्भगवान् भक्तवत्सलः।
जाते जीर्णादिदोषेऽपि न त्यजन्ति कदाचन ॥ 91 ॥

मूलम् - 91

तत्र सन्निहितः साक्षाद्भगवान् भक्तवत्सलः।
जाते जीर्णादिदोषेऽपि न त्यजन्ति कदाचन ॥ 91 ॥

विश्वास-प्रस्तुतिः - 92

स्वं स्वं प्रदेशमेतास्तु मन्त्राणां शक्तयः पराः।
प्रासादान्तः स्थिताश्चापि स्वयंव्यक्तपुरस्सराः ॥ 92 ॥

मूलम् - 92

विश्वास-प्रस्तुतिः - 93

आकारास्तु विभोः सम्यग्‌ज्ञेयाः पूर्वोक्तयोगतः।
नास्त्रैर्मन्त्रैर्ध्वजैर्येषां व्यक्तिर्व्यक्ता जगत्त्रये ॥ 93 ॥

मूलम् - 93

विश्वास-प्रस्तुतिः - 94

तेऽपि लाञ्छनबृन्दं तु धारयन्त्यङ्घ्रिगोचरे।
लालाटे चांसपट्टे तु पृष्ठे पाणितलद्वये ॥ 94 ॥

मूलम् - 94

तेऽपि लाञ्छनबृन्दं तु धारयन्त्यङ्घ्रिगोचरे।
लालाटे चांसपट्टे तु पृष्ठे पाणितलद्वये ॥ 94 ॥

विश्वास-प्रस्तुतिः - 95

तनूरुहचये मूर्ध्नि, कर्मिणां प्रतिपत्तये।
तत्तल्लाञ्छनबृन्दं तु परीक्ष्यैवं विशेषतः ॥ 95 ॥

मूलम् - 95

तनूरुहचये मूर्ध्नि, कर्मिणां प्रतिपत्तये।
तत्तल्लाञ्छनबृन्दं तु परीक्ष्यैवं विशेषतः ॥ 95 ॥

विश्वास-प्रस्तुतिः - 96

तत्तदाकारनियतैर्वाचकैः संप्रपूजयेत्।
येषां लाञ्छनबृन्दं तु न व्यक्तं चरणादिषु ॥ 96 ॥

मूलम् - 96

तत्तदाकारनियतैर्वाचकैः संप्रपूजयेत्।
येषां लाञ्छनबृन्दं तु न व्यक्तं चरणादिषु ॥ 96 ॥

विश्वास-प्रस्तुतिः - 97

तानर्चयेद् द्विषट्‌कार्णपुरोगाणां महामते!।
व्यापकानां तु मन्त्राणामेकेनाबिमतेन तु ॥ 97 ॥

मूलम् - 97

तानर्चयेद् द्विषट्‌कार्णपुरोगाणां महामते!।
व्यापकानां तु मन्त्राणामेकेनाबिमतेन तु ॥ 97 ॥

विश्वास-प्रस्तुतिः - 98

इति ज्ञात्वा यथावच्च यः पूजयति मन्त्रवित्।
स पूजाफलमाप्नोति ह्यन्यथा विपरीतभाक् ॥ 98 ॥

मूलम् - 98

इति ज्ञात्वा यथावच्च यः पूजयति मन्त्रवित्।
स पूजाफलमाप्नोति ह्यन्यथा विपरीतभाक् ॥ 98 ॥

विश्वास-प्रस्तुतिः - 99

एतान्युक्तानि सर्वाणि लोकादीनि क्रमेण तु।
समाराधनकालेषु देवस्यामिततेजसः ॥ 99 ॥

मूलम् - 99

एतान्युक्तानि सर्वाणि लोकादीनि क्रमेण तु।
समाराधनकालेषु देवस्यामिततेजसः ॥ 99 ॥

विश्वास-प्रस्तुतिः - 100

द्वार्स्थदेवार्चनं कृत्वा पूजयेत्तदनन्तरम्।
नमस्कारपदान्तेन स्वानाम्ना प्रणवादिना ॥ 100 ॥

मूलम् - 100

द्वार्स्थदेवार्चनं कृत्वा पूजयेत्तदनन्तरम्।
नमस्कारपदान्तेन स्वानाम्ना प्रणवादिना ॥ 100 ॥

विश्वास-प्रस्तुतिः - 101

अर्घ्यालभनमाल्यैश्च धूपेन द्विजसत्तम!।
अग्रतो देवदेवस्य द्वारदेशस्य बाह्यतः ॥ 101 ॥

मूलम् - 101

अर्घ्यालभनमाल्यैश्च धूपेन द्विजसत्तम!।
अग्रतो देवदेवस्य द्वारदेशस्य बाह्यतः ॥ 101 ॥

विश्वास-प्रस्तुतिः - 102

अन्तर्मण्डलदेशे तु गत्वा वा पूजयेत् क्रमात्।
एवं प्रासादभेदे तु यस्मिन् साधकसत्तमैः ॥ 102 ॥

मूलम् - 102

अन्तर्मण्डलदेशे तु गत्वा वा पूजयेत् क्रमात्।
एवं प्रासादभेदे तु यस्मिन् साधकसत्तमैः ॥ 102 ॥

विश्वास-प्रस्तुतिः - 103

एककालं द्विकालं वा त्रिकालं वार्चनं द्विज!।
नित्यशः क्रियते तत्र सदा संन्निहितो विभुः ॥ 103 ॥

मूलम् - 103

एककालं द्विकालं वा त्रिकालं वार्चनं द्विज!।
नित्यशः क्रियते तत्र सदा संन्निहितो विभुः ॥ 103 ॥

विश्वास-प्रस्तुतिः - 104

अत एव द्विजश्रेष्ठ! तदर्चनपुरस्सरम्।
कुर्यादाराधन विष्णोः साधकः सिद्धिलालसः ॥ 104 ॥

मूलम् - 104

अत एव द्विजश्रेष्ठ! तदर्चनपुरस्सरम्।
कुर्यादाराधन विष्णोः साधकः सिद्धिलालसः ॥ 104 ॥

विश्वास-प्रस्तुतिः - 105

य एवं कुरुते भक्त्या ह्ननन्यपरया सदा।
सोऽचिराल्लभते कामानिह लोके परत्र च ॥ 105 ॥

मूलम् - 105

य एवं कुरुते भक्त्या ह्ननन्यपरया सदा।
सोऽचिराल्लभते कामानिह लोके परत्र च ॥ 105 ॥

मोक्षार्थी कुरुते यस्तु स याति परमं पदम्। सनकः --- प्रासादानां स्वयंव्यक्तपूर्वाणां तु विशेषतः ॥ 106 ॥
विश्वास-प्रस्तुतिः - 107

प्रासादं तु स्वयंव्यक्तमत्यर्थं त्वं प्रशंससि।
कीदृशं तत्स्वरूपं स्यादन्येषां वापि कीदृशम् ॥ 107 ॥

मूलम् - 107

प्रासादं तु स्वयंव्यक्तमत्यर्थं त्वं प्रशंससि।
कीदृशं तत्स्वरूपं स्यादन्येषां वापि कीदृशम् ॥ 107 ॥

कीदृशी च महत्तास्य ज्ञातुमिच्छामि सांप्रतम्। शाण्डिल्यः --- यदिदं दृश्यते विष्णोर्मायया निर्मितं जगत् ॥ 108 ॥
विश्वास-प्रस्तुतिः - 109

कालादिबहुभिर्भेदैर्भिन्नं नानास्वरूपकैः।
तदीये प्रभवो ह्यह्नि प्रलयश्च निशागमे ॥ 109 ॥

मूलम् - 109

कालादिबहुभिर्भेदैर्भिन्नं नानास्वरूपकैः।
तदीये प्रभवो ह्यह्नि प्रलयश्च निशागमे ॥ 109 ॥

विश्वास-प्रस्तुतिः - 110

दिव्यं युगसहस्रं हि तदीयं विद्धि वासरम्।
रात्रिश्च तावती ज्ञेया एवं रात्रिक्षये सति ॥ 110 ॥

मूलम् - 110

दिव्यं युगसहस्रं हि तदीयं विद्धि वासरम्।
रात्रिश्च तावती ज्ञेया एवं रात्रिक्षये सति ॥ 110 ॥

विश्वास-प्रस्तुतिः - 111

प्रवर्तमाने त्वहनि काले सन्ध्याख्यलक्षणे।
स्वकारणमनुज्झित्य कार्यार्थं मुनिपुङ्गव! ॥ 111 ॥

मूलम् - 111

प्रवर्तमाने त्वहनि काले सन्ध्याख्यलक्षणे।
स्वकारणमनुज्झित्य कार्यार्थं मुनिपुङ्गव! ॥ 111 ॥

विश्वास-प्रस्तुतिः - 112

ज्ञानयोगप्रभावेन अमेयमहिमावृतम्।
प्रेरितं नाभिरन्ध्रेण तेन हार्दं कुशेशयम् ॥ 112 ॥

मूलम् - 112

ज्ञानयोगप्रभावेन अमेयमहिमावृतम्।
प्रेरितं नाभिरन्ध्रेण तेन हार्दं कुशेशयम् ॥ 112 ॥

विश्वास-प्रस्तुतिः - 113

विज्ञप्तिमात्ररूपं तु स्वस्यान्तःकरणे स्थितम्।
सहस्रार्कप्रतीकाशं सहस्रशशिकेसरम् ॥ 113 ॥

मूलम् - 113

विज्ञप्तिमात्ररूपं तु स्वस्यान्तःकरणे स्थितम्।
सहस्रार्कप्रतीकाशं सहस्रशशिकेसरम् ॥ 113 ॥

विश्वास-प्रस्तुतिः - 114

सहस्रवह्निगर्भं च हेमनालं महाप्रभम्।
तन्मध्ये मानसो ब्रह्या तेन सृष्टश्चतुर्मुखः ॥ 114 ॥

मूलम् - 114

सहस्रवह्निगर्भं च हेमनालं महाप्रभम्।
तन्मध्ये मानसो ब्रह्या तेन सृष्टश्चतुर्मुखः ॥ 114 ॥

विश्वास-प्रस्तुतिः - 115

जगद्विभवकृद्विप्र! विद्यादेहः सनातनः।
सर्वसंस्कारसंपूर्णो वेदवेदाङ्गपारगः ॥ 115 ॥

मूलम् - 115

जगद्विभवकृद्विप्र! विद्यादेहः सनातनः।
सर्वसंस्कारसंपूर्णो वेदवेदाङ्गपारगः ॥ 115 ॥

विश्वास-प्रस्तुतिः - 116

अणिमाद्यष्टकोपेतः सिसृक्षाशक्तिभिर्युतः।
न तस्य विदितश्चासौ यदा यातः सगर्वताम् ॥ 116 ॥

मूलम् - 116

अणिमाद्यष्टकोपेतः सिसृक्षाशक्तिभिर्युतः।
न तस्य विदितश्चासौ यदा यातः सगर्वताम् ॥ 116 ॥

विश्वास-प्रस्तुतिः - 117

अस्मीति प्रत्ययं लब्ध्वा रजसा कलुषीकृतः।
तस्मिंश्चान्तर्हिते तस्य पौष्करस्य मतिस्तदा ॥ 117 ॥

मूलम् - 117

अस्मीति प्रत्ययं लब्ध्वा रजसा कलुषीकृतः।
तस्मिंश्चान्तर्हिते तस्य पौष्करस्य मतिस्तदा ॥ 117 ॥

विश्वास-प्रस्तुतिः - 118

विपर्यस्ता ततः सृष्टौ प्रवृत्तिर्नाभवदद्विज!।
कार्याकार्यविशेषज्ञो नाभूदुद्विग्नचेतनः ॥ 118 ॥

मूलम् - 118

विपर्यस्ता ततः सृष्टौ प्रवृत्तिर्नाभवदद्विज!।
कार्याकार्यविशेषज्ञो नाभूदुद्विग्नचेतनः ॥ 118 ॥

विश्वास-प्रस्तुतिः - 119

ततः प्रसन्नचेतास्तु तपस्तेपे सुदुश्चरम्।
अचिरात् पुण्डरीकाक्षं द्रष्टुकामः प्रजापतिः ॥ 119 ॥

मूलम् - 119

ततः प्रसन्नचेतास्तु तपस्तेपे सुदुश्चरम्।
अचिरात् पुण्डरीकाक्षं द्रष्टुकामः प्रजापतिः ॥ 119 ॥

विश्वास-प्रस्तुतिः - 120

ततस्तु तप्यमानस्य ब्रह्नणो द्विजसत्तम!।
हरेः स्तोत्रार्थमुद्‌भूता बुद्धिर्बुद्धिमतांवर! ॥ 120 ॥

मूलम् - 120

ततस्तु तप्यमानस्य ब्रह्नणो द्विजसत्तम!।
हरेः स्तोत्रार्थमुद्‌भूता बुद्धिर्बुद्धिमतांवर! ॥ 120 ॥

ततो जगौ परं जप्यं साञ्जलिप्रग्रहो विभुः। ब्रह्ना --- "नमस्ते ब्रह्नहृदय! नमस्ते ब्रह्नपूर्वज! ॥ 121 ॥
विश्वास-प्रस्तुतिः - 122

योगार्धनयनश्रेष्ठ! सांख्ययोगनिधे! विभो!।
व्यक्ताव्यक्तकराचिन्त्य! क्षेमं पन्थानमास्थित! ॥ 122 ॥

मूलम् - 122

योगार्धनयनश्रेष्ठ! सांख्ययोगनिधे! विभो!।
व्यक्ताव्यक्तकराचिन्त्य! क्षेमं पन्थानमास्थित! ॥ 122 ॥

विश्वास-प्रस्तुतिः - 123

विश्वभुक्! सर्वभूतानामन्तरात्मन्नयोनिज!।
अहं प्रसादजस्तुभ्यं लोकधाम्ने स्वयम्भुवे ॥ 123 ॥

मूलम् - 123

विश्वभुक्! सर्वभूतानामन्तरात्मन्नयोनिज!।
अहं प्रसादजस्तुभ्यं लोकधाम्ने स्वयम्भुवे ॥ 123 ॥

विश्वास-प्रस्तुतिः - 124

त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम्।
चाक्षुषं यद्‌द्वितीयं मे जन्मेहासीत् पुरातनम् ॥ 124 ॥

मूलम् - 124

त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम्।
चाक्षुषं यद्‌द्वितीयं मे जन्मेहासीत् पुरातनम् ॥ 124 ॥

विश्वास-प्रस्तुतिः - 125

त्वत्प्रसादाच्च मे जन्म तृतीयं वाचिकं महत्।
तत्वतः श्रावणं चापि चतुर्थं जन्म मे विभो! ॥ 125 ॥

मूलम् - 125

त्वत्प्रसादाच्च मे जन्म तृतीयं वाचिकं महत्।
तत्वतः श्रावणं चापि चतुर्थं जन्म मे विभो! ॥ 125 ॥

विश्वास-प्रस्तुतिः - 126

नासिक्यं वापि मे जन्म त्वत्तः पञ्चममुच्यते।
अण्डजं चापि मेजन्म त्वत्तः षष्ठं विनिर्मितम् ॥ 126 ॥

मूलम् - 126

नासिक्यं वापि मे जन्म त्वत्तः पञ्चममुच्यते।
अण्डजं चापि मेजन्म त्वत्तः षष्ठं विनिर्मितम् ॥ 126 ॥

विश्वास-प्रस्तुतिः - 127

इदं च सप्तमं जन्म पझजं त्वमितप्रभ!।
सर्गे सर्गे ह्यहं पुत्रस्तृतीयगुणवर्जित! ॥ 127 ॥

मूलम् - 127

इदं च सप्तमं जन्म पझजं त्वमितप्रभ!।
सर्गे सर्गे ह्यहं पुत्रस्तृतीयगुणवर्जित! ॥ 127 ॥

विश्वास-प्रस्तुतिः - 128

प्रथमः पुण्डरीकाक्षः प्रधानगुणकल्पितः।
त्वमीश्वर! प्रभावश्च भूतानां च प्रभावनः ॥ 128 ॥

मूलम् - 128

प्रथमः पुण्डरीकाक्षः प्रधानगुणकल्पितः।
त्वमीश्वर! प्रभावश्च भूतानां च प्रभावनः ॥ 128 ॥

विश्वास-प्रस्तुतिः - 129

त्वं पञ्चकालकर्तॄणां गतिस्त्वं पाञ्चरात्रिक!।
त्वया हि निर्मितोऽहं वै वेदचक्षुर्वचोऽतिग! ॥ 129 ॥

मूलम् - 129

त्वं पञ्चकालकर्तॄणां गतिस्त्वं पाञ्चरात्रिक!।
त्वया हि निर्मितोऽहं वै वेदचक्षुर्वचोऽतिग! ॥ 129 ॥

विश्वास-प्रस्तुतिः - 130

स्रष्टुं जगदिदं सर्वं चेतनाचेतनात्मककम्।
का शक्तिर्मम देवेश! जगत् स्रष्टं जगत्प्रभो!" ॥ 130 ॥

मूलम् - 130

स्रष्टुं जगदिदं सर्वं चेतनाचेतनात्मककम्।
का शक्तिर्मम देवेश! जगत् स्रष्टं जगत्प्रभो!" ॥ 130 ॥

विश्वास-प्रस्तुतिः - 131

एवं स्तुतः स भगवान् पुरुषः सर्वतोमुखः।
स्वरूपं दर्शयामास तस्मै दिव्यमनुत्तमम् ॥ 131 ॥

मूलम् - 131

एवं स्तुतः स भगवान् पुरुषः सर्वतोमुखः।
स्वरूपं दर्शयामास तस्मै दिव्यमनुत्तमम् ॥ 131 ॥

विश्वास-प्रस्तुतिः - 132

तं दृष्ट्वा महता युक्तो हर्षेण कमलासनः।
आनन्दाश्रुसमाविष्टः प्रणम्य प्राञ्जलिः स्थितः ॥ 132 ॥

मूलम् - 132

तं दृष्ट्वा महता युक्तो हर्षेण कमलासनः।
आनन्दाश्रुसमाविष्टः प्रणम्य प्राञ्जलिः स्थितः ॥ 132 ॥

विश्वास-प्रस्तुतिः - 133

ततस्तु पुण्डरीकाक्षस्तमुवाच जगत्पतिः।
“सृज प्रजाः पुत्र! सर्वा मुखतः पादतस्तथा ॥ 133 ॥

मूलम् - 133

ततस्तु पुण्डरीकाक्षस्तमुवाच जगत्पतिः।
“सृज प्रजाः पुत्र! सर्वा मुखतः पादतस्तथा ॥ 133 ॥

विश्वास-प्रस्तुतिः - 134

क्षेयस्तव विधास्यामि बलं तेजश्च सुव्रत!।
वेदं च मत्तो गृह्णीष्व सात्वतं नाम नामतः ॥ 134 ॥

मूलम् - 134

क्षेयस्तव विधास्यामि बलं तेजश्च सुव्रत!।
वेदं च मत्तो गृह्णीष्व सात्वतं नाम नामतः ॥ 134 ॥

विश्वास-प्रस्तुतिः - 135

तेन सर्वं कृतयुगं स्थापयस्व यथाविधि।
प्रजानामपि सर्वासां संवृत्ते सर्गकर्मणि ॥ 135 ॥

मूलम् - 135

तेन सर्वं कृतयुगं स्थापयस्व यथाविधि।
प्रजानामपि सर्वासां संवृत्ते सर्गकर्मणि ॥ 135 ॥

विश्वास-प्रस्तुतिः - 136

दिव्यस्य महतो धाम्नः साक्षाद्व्यक्तस्य चान्तरे।
स्वयंव्यक्तेन दिव्येन ह्याकारेणामलेन च ॥ 136 ॥

मूलम् - 136

दिव्यस्य महतो धाम्नः साक्षाद्व्यक्तस्य चान्तरे।
स्वयंव्यक्तेन दिव्येन ह्याकारेणामलेन च ॥ 136 ॥

विश्वास-प्रस्तुतिः - 137

अनन्तभोगिशयने शयानः पङ्कजेक्षणः।
प्रकाशयिष्यति पुरो वासुदेवः परात्परः ॥ 137 ॥

मूलम् - 137

अनन्तभोगिशयने शयानः पङ्कजेक्षणः।
प्रकाशयिष्यति पुरो वासुदेवः परात्परः ॥ 137 ॥

विश्वास-प्रस्तुतिः - 138

तमाराधय देवेशं विमानाभ्यन्तरस्थितम्।
सर्वेषामपि लोकानां सृष्टिस्थित्यन्तकारणम् ॥ 138 ॥

मूलम् - 138

तमाराधय देवेशं विमानाभ्यन्तरस्थितम्।
सर्वेषामपि लोकानां सृष्टिस्थित्यन्तकारणम् ॥ 138 ॥

विश्वास-प्रस्तुतिः - 139

वासुदेवं तुपरमं पुमांसं भक्तवत्सलम्।
द्वादशाक्षरमन्त्रेण भोगैः सांस्पर्शिकादिकैः ॥ 139 ॥

मूलम् - 139

वासुदेवं तुपरमं पुमांसं भक्तवत्सलम्।
द्वादशाक्षरमन्त्रेण भोगैः सांस्पर्शिकादिकैः ॥ 139 ॥

विश्वास-प्रस्तुतिः - 140

हृदयङ्गमसंज्ञैश्च विविधैरोपचारिकैः।
स्वाधिकारप्रवृत्यर्थं लोकानां हितकाम्यया ॥ 140 ॥

मूलम् - 140

हृदयङ्गमसंज्ञैश्च विविधैरोपचारिकैः।
स्वाधिकारप्रवृत्यर्थं लोकानां हितकाम्यया ॥ 140 ॥

विश्वास-प्रस्तुतिः - 141

महोपनिषदाख्येन शास्त्रेणोक्तप्रकारतः।
यत्पौष्कराक्यया लोके प्रथिमानं प्रयास्यति ॥ 141 ॥

मूलम् - 141

महोपनिषदाख्येन शास्त्रेणोक्तप्रकारतः।
यत्पौष्कराक्यया लोके प्रथिमानं प्रयास्यति ॥ 141 ॥

विश्वास-प्रस्तुतिः - 142

पौष्करस्य तवोक्तत्वात् प्रथित तु तथा भवेत्।
महाविभूतिरिति च तद्वक्ष्याम्यपरे युगे” ॥ 142 ॥

मूलम् - 142

पौष्करस्य तवोक्तत्वात् प्रथित तु तथा भवेत्।
महाविभूतिरिति च तद्वक्ष्याम्यपरे युगे” ॥ 142 ॥

विश्वास-प्रस्तुतिः - 143

अस्मिन्नादौ कृतयुगे समतीते तु मानुषे।
ततो ब्रह्ना नमस्चक्रे देवाय हरिमेधसे ॥ 143 ॥

मूलम् - 143

अस्मिन्नादौ कृतयुगे समतीते तु मानुषे।
ततो ब्रह्ना नमस्चक्रे देवाय हरिमेधसे ॥ 143 ॥

विश्वास-प्रस्तुतिः - 144

व्रह्ना चाग्र्यं स जग्राह सनिषत्संहितान्वितम्।
कर्मारम्भादिभिर्मन्त्रैर्द्विषट्‌कार्णसमन्वितैः ॥ 144 ॥

मूलम् - 144

व्रह्ना चाग्र्यं स जग्राह सनिषत्संहितान्वितम्।
कर्मारम्भादिभिर्मन्त्रैर्द्विषट्‌कार्णसमन्वितैः ॥ 144 ॥

विश्वास-प्रस्तुतिः - 145

दिव्यैः समन्वितं विप्र! द्वादशाध्यात्मसंयुत्म्।
अनिच्छातोऽधिकारीणां तत्प्राप्त्येकफलप्रदम् ॥ 145 ।

मूलम् - 145

दिव्यैः समन्वितं विप्र! द्वादशाध्यात्मसंयुत्म्।
अनिच्छातोऽधिकारीणां तत्प्राप्त्येकफलप्रदम् ॥ 145 ।

विश्वास-प्रस्तुतिः - 146

चातुरात्म्यैकनिष्ठं च वासुदेवमुख्रोद्गतम्"।
एवं स भगवान् देव आद्यं वेदं सनातनम् ॥ 146 ॥

मूलम् - 146

चातुरात्म्यैकनिष्ठं च वासुदेवमुख्रोद्गतम्"।
एवं स भगवान् देव आद्यं वेदं सनातनम् ॥ 146 ॥

विश्वास-प्रस्तुतिः - 147

उपदिश्य ततो विप्र! ब्रह्नणेऽमिततेजसे।
दत्वा श्रेयो बलं तेजः सृष्टिकर्मप्रवर्तकम् ॥ 147 ॥

मूलम् - 147

उपदिश्य ततो विप्र! ब्रह्नणेऽमिततेजसे।
दत्वा श्रेयो बलं तेजः सृष्टिकर्मप्रवर्तकम् ॥ 147 ॥

विश्वास-प्रस्तुतिः - 148

जगाम तमसःपारं यत्राव्यक्तं व्यवस्थितम्।
ततोऽथ वरदो देवो ब्रह्ना लोकपितामहः ॥ 148 ॥

मूलम् - 148

जगाम तमसःपारं यत्राव्यक्तं व्यवस्थितम्।
ततोऽथ वरदो देवो ब्रह्ना लोकपितामहः ॥ 148 ॥

विश्वास-प्रस्तुतिः - 149

असृजत् स तदा लोकान् कृत्स्नान् स्थावरजङ्गमान्।
एवं सृष्ट्वा जगत् सर्वं भूयश्च कमलासनः ॥ 149 ॥

मूलम् - 149

असृजत् स तदा लोकान् कृत्स्नान् स्थावरजङ्गमान्।
एवं सृष्ट्वा जगत् सर्वं भूयश्च कमलासनः ॥ 149 ॥

विश्वास-प्रस्तुतिः - 150

कदा द्रक्ष्याम्यहं देवं लोकानां हितकारिणम्।
वा सुदेवं विमानान्तःशयानं पीतवाससम् ॥ 150 ॥

मूलम् - 150

कदा द्रक्ष्याम्यहं देवं लोकानां हितकारिणम्।
वा सुदेवं विमानान्तःशयानं पीतवाससम् ॥ 150 ॥

विश्वास-प्रस्तुतिः - 151

इति चिन्तासमाविष्टस्तपस्तेपे सुदुश्चरम्।
प्रादुरासीत् ततो दिव्यं विमानं परमाद्‌भुतम् ॥ 151 ॥

मूलम् - 151

इति चिन्तासमाविष्टस्तपस्तेपे सुदुश्चरम्।
प्रादुरासीत् ततो दिव्यं विमानं परमाद्‌भुतम् ॥ 151 ॥

विश्वास-प्रस्तुतिः - 152

प्रकाशयद्दिशः सर्वाः प्रकाशेनामलेन च।
उपानजगतीयुक्तं पीठाङ्घ्रिप्रस्तरादिकैः ॥ 152 ॥

मूलम् - 152

प्रकाशयद्दिशः सर्वाः प्रकाशेनामलेन च।
उपानजगतीयुक्तं पीठाङ्घ्रिप्रस्तरादिकैः ॥ 152 ॥

विश्वास-प्रस्तुतिः - 153

ग्रीवाशिखरतत्संस्थवेदीघटशिखान्तिमैः।
दिव्यैरवयवैर्युक्तं दिव्यालङ्कारशोभितम् ॥ 153 ॥

मूलम् - 153

ग्रीवाशिखरतत्संस्थवेदीघटशिखान्तिमैः।
दिव्यैरवयवैर्युक्तं दिव्यालङ्कारशोभितम् ॥ 153 ॥

विश्वास-प्रस्तुतिः - 154

वृत्तायतं तु परितः शुकनासापरिष्कृतम्।
तं दृष्ट्वा महदार्श्चयमानन्दाश्रुपरिप्लुतः ॥ 154 ॥

मूलम् - 154

वृत्तायतं तु परितः शुकनासापरिष्कृतम्।
तं दृष्ट्वा महदार्श्चयमानन्दाश्रुपरिप्लुतः ॥ 154 ॥

विश्वास-प्रस्तुतिः - 155

पुलकाचितसर्वाङ्गः प्रीतिविस्फारितेक्षणः।
ससम्भ्रमं समुत्थाय प्रणम्य प्राञ्जलिः स्थितः ॥ 155 ॥

मूलम् - 155

पुलकाचितसर्वाङ्गः प्रीतिविस्फारितेक्षणः।
ससम्भ्रमं समुत्थाय प्रणम्य प्राञ्जलिः स्थितः ॥ 155 ॥

विश्वास-प्रस्तुतिः - 156

पीठाद्येषु शिखान्तेषु विमानावयवेषु च।
भूराद्यं सत्यपर्यन्तं लोकानां सप्तकं क्रमात् ॥ 156 ॥

मूलम् - 156

पीठाद्येषु शिखान्तेषु विमानावयवेषु च।
भूराद्यं सत्यपर्यन्तं लोकानां सप्तकं क्रमात् ॥ 156 ॥

विश्वास-प्रस्तुतिः - 157

अध्वनां भुवनाध्वादिषट्‌कं वर्णाध्वपश्चिमम्।
धरादिपुरुषान्तं च तत्वबृन्दं द्विजोत्तम! ॥ 157 ॥

मूलम् - 157

अध्वनां भुवनाध्वादिषट्‌कं वर्णाध्वपश्चिमम्।
धरादिपुरुषान्तं च तत्वबृन्दं द्विजोत्तम! ॥ 157 ॥

विश्वास-प्रस्तुतिः - 158

सत्तास्वरूपमास्थाय संस्थितं सन्ददर्श ह।
ततस्तु देवताबृन्दं क्रमेण समलोकयत् ॥ 158 ॥

मूलम् - 158

सत्तास्वरूपमास्थाय संस्थितं सन्ददर्श ह।
ततस्तु देवताबृन्दं क्रमेण समलोकयत् ॥ 158 ॥

विश्वास-प्रस्तुतिः - 159

पीठस्याधारभागे तु ह्यनन्तो नाम नागराट्‌।
चक्रं सामर्थ्यशक्त्यादिशक्तिसङ्‌घं तथैव च ॥ 159 ॥

मूलम् - 159

पीठस्याधारभागे तु ह्यनन्तो नाम नागराट्‌।
चक्रं सामर्थ्यशक्त्यादिशक्तिसङ्‌घं तथैव च ॥ 159 ॥

विश्वास-प्रस्तुतिः - 160

ज्ञानभासादिकानां तु शक्तीनामष्टकं तथा।
बलवीर्यवती पूर्वमष्टकं स्थितिपश्चिमम् ॥ 160 ॥

मूलम् - 160

ज्ञानभासादिकानां तु शक्तीनामष्टकं तथा।
बलवीर्यवती पूर्वमष्टकं स्थितिपश्चिमम् ॥ 160 ॥

विश्वास-प्रस्तुतिः - 161

अकारादि क्षकारान्त वर्णचक्रं द्विजोत्तम!।
ततः पीठप्रदेशाच्च धर्माद्यं च द्विरष्टकम् ॥ 161 ॥

मूलम् - 161

अकारादि क्षकारान्त वर्णचक्रं द्विजोत्तम!।
ततः पीठप्रदेशाच्च धर्माद्यं च द्विरष्टकम् ॥ 161 ॥

विश्वास-प्रस्तुतिः - 162

चक्रं कालानलज्योतिः पझं धामत्रयाश्रितम्।
चिन्मयः पुरुषो मध्ये सर्वाभिः शक्तिभिर्युतः ॥ 162 ॥

मूलम् - 162

चक्रं कालानलज्योतिः पझं धामत्रयाश्रितम्।
चिन्मयः पुरुषो मध्ये सर्वाभिः शक्तिभिर्युतः ॥ 162 ॥

विश्वास-प्रस्तुतिः - 163

दिक्‌चतुष्के ह्यनन्ताद्यं ततश्चरणवर्गके।
वासुदेवादिकं दिक्षु शाखामूले सुदर्शनम् ॥ 163 ॥

मूलम् - 163

दिक्‌चतुष्के ह्यनन्ताद्यं ततश्चरणवर्गके।
वासुदेवादिकं दिक्षु शाखामूले सुदर्शनम् ॥ 163 ॥

विश्वास-प्रस्तुतिः - 164

ज्ञानक्रियात्मके तत्वे शाखयोः परमेश्वरम्।
आद्यं तूदुम्बरे ह्यूर्ध्वे तत्पृष्ठे धर्म एव च ॥ 164 ॥

मूलम् - 164

ज्ञानक्रियात्मके तत्वे शाखयोः परमेश्वरम्।
आद्यं तूदुम्बरे ह्यूर्ध्वे तत्पृष्ठे धर्म एव च ॥ 164 ॥

विश्वास-प्रस्तुतिः - 165

कवाटयोस्तु कालाग्निं वरुणं तु ततो द्विज!।
स्तम्भयोः शुकनासाया इच्छाप्राणौ गवाक्षयोः ॥ 165 ॥

मूलम् - 165

कवाटयोस्तु कालाग्निं वरुणं तु ततो द्विज!।
स्तम्भयोः शुकनासाया इच्छाप्राणौ गवाक्षयोः ॥ 165 ॥

विश्वास-प्रस्तुतिः - 166

अग्नीषोमौ ततो जङ्घा द्विषट्‌केऽन्तरभूमिषु।
कालादिवसुधान्तं च जङ्‌घाग्रे केशवादिकम् ॥ 166 ॥

मूलम् - 166

अग्नीषोमौ ततो जङ्घा द्विषट्‌केऽन्तरभूमिषु।
कालादिवसुधान्तं च जङ्‌घाग्रे केशवादिकम् ॥ 166 ॥

विश्वास-प्रस्तुतिः - 167

नासिकानां तु नवके कपोतस्थेऽन्तरेऽपि च।
चक्राद्यायुधसंघातं सत्तारूपेण संस्थितम् ॥ 167 ॥

मूलम् - 167

नासिकानां तु नवके कपोतस्थेऽन्तरेऽपि च।
चक्राद्यायुधसंघातं सत्तारूपेण संस्थितम् ॥ 167 ॥

विश्वास-प्रस्तुतिः - 168

शुकनासामुखे देवं वासुदेवं जगत्पतिम्।
नासिकात्रितये शिष्टे ह्यच्युताद्यं क्रमात् स्थितम् ॥ 168 ॥

मूलम् - 168

शुकनासामुखे देवं वासुदेवं जगत्पतिम्।
नासिकात्रितये शिष्टे ह्यच्युताद्यं क्रमात् स्थितम् ॥ 168 ॥

विश्वास-प्रस्तुतिः - 169

सशक्तिकं तु पत्राद्यैर्भूषिते वेदिकातले।
सुदर्शनं तु षडरं घटानां तु चतुष्टये ॥ 169 ॥

मूलम् - 169

सशक्तिकं तु पत्राद्यैर्भूषिते वेदिकातले।
सुदर्शनं तु षडरं घटानां तु चतुष्टये ॥ 169 ॥

विश्वास-प्रस्तुतिः - 170

वासुदेवादिकान् विप्र! रथाङ्गानां तदग्रतः।
अमलाद्यं चतुष्कं तु क्रमेणोदितपश्चिमम् ॥ 170 ॥

मूलम् - 170

वासुदेवादिकान् विप्र! रथाङ्गानां तदग्रतः।
अमलाद्यं चतुष्कं तु क्रमेणोदितपश्चिमम् ॥ 170 ॥

विश्वास-प्रस्तुतिः - 171

अध्यक्षाद्यादिमूर्त्यन्तं शुकनासाघटेषु वै ।
सर्वलोकमयं विप्र! सकलाध्वमयं तथा ॥ 171 ॥

मूलम् - 171

अध्यक्षाद्यादिमूर्त्यन्तं शुकनासाघटेषु वै ।
सर्वलोकमयं विप्र! सकलाध्वमयं तथा ॥ 171 ॥

विश्वास-प्रस्तुतिः - 172

सर्वतत्वमयं चैव सर्वदेवमयं तथा।
इति क्रमेण सन्दृश्य विमानं हृष्टचेतनः ॥ 172 ॥

मूलम् - 172

सर्वतत्वमयं चैव सर्वदेवमयं तथा।
इति क्रमेण सन्दृश्य विमानं हृष्टचेतनः ॥ 172 ॥

विश्वास-प्रस्तुतिः - 173

ततः प्रदक्षिणीकृत्य चतुर्धा प्रणिपत्य च।
सर्वाङ्गैर्दण्डबद्‌भूमौ भक्त्या तु पुरुषोत्तमम् ॥ 173 ॥

मूलम् - 173

ततः प्रदक्षिणीकृत्य चतुर्धा प्रणिपत्य च।
सर्वाङ्गैर्दण्डबद्‌भूमौ भक्त्या तु पुरुषोत्तमम् ॥ 173 ॥

विश्वास-प्रस्तुतिः - 174

ततः कृतार्थमात्मानं मन्यमानः प्रविश्य च।
अभ्यन्तरं विमानस्य गर्भभूमौ तु मध्यतः ॥ 174 ॥

मूलम् - 174

ततः कृतार्थमात्मानं मन्यमानः प्रविश्य च।
अभ्यन्तरं विमानस्य गर्भभूमौ तु मध्यतः ॥ 174 ॥

विश्वास-प्रस्तुतिः - 175

आत्मप्रमाणरचिते मृदुस्पर्शे मनोहरे।
शुद्धस्फटिकसंकाशे दीप्यमानेऽतिभास्वरे ॥ 175 ॥

मूलम् - 175

आत्मप्रमाणरचिते मृदुस्पर्शे मनोहरे।
शुद्धस्फटिकसंकाशे दीप्यमानेऽतिभास्वरे ॥ 175 ॥

विश्वास-प्रस्तुतिः - 176

फणामण्डलमध्यस्थैर्मणिभिर्दीपिते तथा।
अनन्तभोगशयने शयानं पीतवाससम् ॥ 176 ॥

मूलम् - 176

फणामण्डलमध्यस्थैर्मणिभिर्दीपिते तथा।
अनन्तभोगशयने शयानं पीतवाससम् ॥ 176 ॥

विश्वास-प्रस्तुतिः - 177

निष्केवलेन सत्वेन संपन्नं रुचिरप्रभम्।
वपुषा सुन्दरेणैव दिव्येनाविकृतेन च ॥ 177 ॥

मूलम् - 177

निष्केवलेन सत्वेन संपन्नं रुचिरप्रभम्।
वपुषा सुन्दरेणैव दिव्येनाविकृतेन च ॥ 177 ॥

विश्वास-प्रस्तुतिः - 178

मुञ्चन्तमनिशं देहादालोकं ज्ञानलक्षणम्।
प्रयत्नेन विनाऽज्ञाननाशकृद्‌ध्यायिनां महत् ॥ 178 ॥

मूलम् - 178

मुञ्चन्तमनिशं देहादालोकं ज्ञानलक्षणम्।
प्रयत्नेन विनाऽज्ञाननाशकृद्‌ध्यायिनां महत् ॥ 178 ॥

विश्वास-प्रस्तुतिः - 179

स्रग्वस्त्राभरणैर्युक्तं स्वानुरूपैरनूपमैः।
चिन्मयैः स्वप्रकाशैश्च अन्योन्यरुचिरञ्जितैः ॥ 179 ॥

मूलम् - 179

स्रग्वस्त्राभरणैर्युक्तं स्वानुरूपैरनूपमैः।
चिन्मयैः स्वप्रकाशैश्च अन्योन्यरुचिरञ्जितैः ॥ 179 ॥

विश्वास-प्रस्तुतिः - 180

दन्तज्योत्स्नावितानैस्तु प्रकटीकृतदिङ्‌मुखम्।
रेखोत्थितैश्च कल्हारैः पादपझतलेऽङ्कितम् ॥ 180 ॥

मूलम् - 180

दन्तज्योत्स्नावितानैस्तु प्रकटीकृतदिङ्‌मुखम्।
रेखोत्थितैश्च कल्हारैः पादपझतलेऽङ्कितम् ॥ 180 ॥

विश्वास-प्रस्तुतिः - 181

निमग्नजनसन्तापशमनव्यापृताननम्।
करुणापूर्णहृदयं जगदुद्धरणोद्यतम् ॥ 181 ॥

मूलम् - 181

निमग्नजनसन्तापशमनव्यापृताननम्।
करुणापूर्णहृदयं जगदुद्धरणोद्यतम् ॥ 181 ॥

विश्वास-प्रस्तुतिः - 182

स्वदेहतेजःसंभूतज्वालामण्डलमध्यगम्।
घनकुञ्चितनीलालि गलिताञ्जनसन्निभैः ॥ 182 ॥

मूलम् - 182

स्वदेहतेजःसंभूतज्वालामण्डलमध्यगम्।
घनकुञ्चितनीलालि गलिताञ्जनसन्निभैः ॥ 182 ॥

विश्वास-प्रस्तुतिः - 183

कर्पूरधूसरैर्दिव्यैः पुष्पसंवलितान्तरैः।
किरीटमकुटाक्रान्तैः शोभितं सुशिरोरुहैः ॥ 183 ॥

मूलम् - 183

कर्पूरधूसरैर्दिव्यैः पुष्पसंवलितान्तरैः।
किरीटमकुटाक्रान्तैः शोभितं सुशिरोरुहैः ॥ 183 ॥

विश्वास-प्रस्तुतिः - 184

ईषदारक्तगोक्षीरशुद्धनीलाब्जलोचनम्।
शीतलैर्दृष्टिपातैस्तु जगदाप्यायकारणम् ॥ 184 ॥

मूलम् - 184

ईषदारक्तगोक्षीरशुद्धनीलाब्जलोचनम्।
शीतलैर्दृष्टिपातैस्तु जगदाप्यायकारणम् ॥ 184 ॥

विश्वास-प्रस्तुतिः - 185

सुभ्‌रूललाटं सुनसं सुस्मिताधरविद्रुमम्।
सौन्दर्यचन्द्रसंकाशविलसद्गण्डमण्डलम् ॥ 185 ॥

मूलम् - 185

सुभ्‌रूललाटं सुनसं सुस्मिताधरविद्रुमम्।
सौन्दर्यचन्द्रसंकाशविलसद्गण्डमण्डलम् ॥ 185 ॥

विश्वास-प्रस्तुतिः - 186

पूर्वकर्मानलार्तानां ध्यायिनां खेदशान्तये।
स्वदन्तेन्दुचयोत्थेन ह्‌लादयन् गोगणेन तु ॥ 186 ॥

मूलम् - 186

पूर्वकर्मानलार्तानां ध्यायिनां खेदशान्तये।
स्वदन्तेन्दुचयोत्थेन ह्‌लादयन् गोगणेन तु ॥ 186 ॥

विश्वास-प्रस्तुतिः - 187

मुखसौन्दर्यनिष्यन्दचिबुकस्थलशोभितम्।
सविलासस्मिताधारं बिब्राणं मुखपङ्कजम् ॥ 187 ॥

मूलम् - 187

मुखसौन्दर्यनिष्यन्दचिबुकस्थलशोभितम्।
सविलासस्मिताधारं बिब्राणं मुखपङ्कजम् ॥ 187 ॥

विश्वास-प्रस्तुतिः - 188

कम्बुग्रीवं महाबाहुं श्रीवत्साङ्कितवक्षसम्।
सिंहस्कन्धं विशालाक्षं दीर्घबाहुं महोरसम् ॥ 188 ॥

मूलम् - 188

कम्बुग्रीवं महाबाहुं श्रीवत्साङ्कितवक्षसम्।
सिंहस्कन्धं विशालाक्षं दीर्घबाहुं महोरसम् ॥ 188 ॥

विश्वास-प्रस्तुतिः - 189

शङ्खचक्राङ्कितारक्तकरद्वयविभूषितम्।
दक्षिणं भोगिभोगाभमुपधाय महाभुजम् ॥ 189 ॥

मूलम् - 189

शङ्खचक्राङ्कितारक्तकरद्वयविभूषितम्।
दक्षिणं भोगिभोगाभमुपधाय महाभुजम् ॥ 189 ॥

विश्वास-प्रस्तुतिः - 190

प्रसारितोतरकरं कटिदेशस्य पार्श्वतः।
कौस्तुभेनाङ्कितोरस्कं लक्ष्मीभूषितवक्षसम् ॥ 190 ॥

मूलम् - 190

प्रसारितोतरकरं कटिदेशस्य पार्श्वतः।
कौस्तुभेनाङ्कितोरस्कं लक्ष्मीभूषितवक्षसम् ॥ 190 ॥

विश्वास-प्रस्तुतिः - 191

आब्रह्नस्तम्बपर्यन्तजगद्वासतनूदरम्।
ईषत्कुञ्चितवामाङ्‌घ्रिपङ्कजं पङ्कजेक्षणम् ॥ 191 ॥

मूलम् - 191

आब्रह्नस्तम्बपर्यन्तजगद्वासतनूदरम्।
ईषत्कुञ्चितवामाङ्‌घ्रिपङ्कजं पङ्कजेक्षणम् ॥ 191 ॥

विश्वास-प्रस्तुतिः - 192

प्रसार्य दक्षिणं पादमीषदुत्तानशायिनम्।
अनेकरत्नखचितकिरीटमकुटोज्ज्वलम् ॥ 192 ॥

मूलम् - 192

प्रसार्य दक्षिणं पादमीषदुत्तानशायिनम्।
अनेकरत्नखचितकिरीटमकुटोज्ज्वलम् ॥ 192 ॥

विश्वास-प्रस्तुतिः - 193

उद्यदादित्यसंकाशैर्विचित्रैर्मणिसंचयैः।
विराजमानया सम्यक् स्फुरच्चूलिकयोज्ज्वलम् ॥ 193 ॥

मूलम् - 193

उद्यदादित्यसंकाशैर्विचित्रैर्मणिसंचयैः।
विराजमानया सम्यक् स्फुरच्चूलिकयोज्ज्वलम् ॥ 193 ॥

विश्वास-प्रस्तुतिः - 194

रत्नावतंसप्रभया दीप्तश्रवणशेखरम्।
ललाटान्तसमालम्बि बालालङ्कारभूषितम् ॥ 194 ॥

मूलम् - 194

रत्नावतंसप्रभया दीप्तश्रवणशेखरम्।
ललाटान्तसमालम्बि बालालङ्कारभूषितम् ॥ 194 ॥

विश्वास-प्रस्तुतिः - 195

ललाटतिलकेनैव सुन्दरेण विराजितम्।
अनेकरविसङ्काशलसन्मकरकुण्डलम् ॥ 195 ॥

मूलम् - 195

ललाटतिलकेनैव सुन्दरेण विराजितम्।
अनेकरविसङ्काशलसन्मकरकुण्डलम् ॥ 195 ॥

विश्वास-प्रस्तुतिः - 196

प्रभूतमणिमुक्ताढ्चग्रैवेयकविराजितम्।
वज्रवैडूर्यमाणिक्यपझरागादिशोभितैः ॥ 196 ॥

मूलम् - 196

प्रभूतमणिमुक्ताढ्चग्रैवेयकविराजितम्।
वज्रवैडूर्यमाणिक्यपझरागादिशोभितैः ॥ 196 ॥

विश्वास-प्रस्तुतिः - 197

हारैरनेकैर्विविधैरुपशोभितवक्षसम्।
उद्यदादित्यसंकाशकौस्तुभेन विराजितम् ॥ 197 ॥

मूलम् - 197

हारैरनेकैर्विविधैरुपशोभितवक्षसम्।
उद्यदादित्यसंकाशकौस्तुभेन विराजितम् ॥ 197 ॥

विश्वास-प्रस्तुतिः - 198

भ्राजयन्त्या जगत् सर्वं स्वतेजोभिर्निरन्तरम्।
मालया वैजयन्त्या च भ्राजमानमहोरसम् ॥ 198 ॥

मूलम् - 198

भ्राजयन्त्या जगत् सर्वं स्वतेजोभिर्निरन्तरम्।
मालया वैजयन्त्या च भ्राजमानमहोरसम् ॥ 198 ॥

विश्वास-प्रस्तुतिः - 199

नानारत्नविचित्नेण मुक्तादामविलम्बिना।
स्फुरता ब्रह्नसूत्रेण काञ्चनेन सुशोभितम् ॥ 199 ॥

मूलम् - 199

नानारत्नविचित्नेण मुक्तादामविलम्बिना।
स्फुरता ब्रह्नसूत्रेण काञ्चनेन सुशोभितम् ॥ 199 ॥

विश्वास-प्रस्तुतिः - 200

द्युतिमद्भिर्महारत्नै राचितेन सुवर्चसा।
काञ्चनेनाथसूत्रेण उदरे कृतबन्धनम् ॥ 200 ॥

मूलम् - 200

द्युतिमद्भिर्महारत्नै राचितेन सुवर्चसा।
काञ्चनेनाथसूत्रेण उदरे कृतबन्धनम् ॥ 200 ॥

विश्वास-प्रस्तुतिः - 201

नानामाणिक्यविलसत्कटिसूत्रेण शोभितम्।
अनेकरत्नसन्दर्भरशनादाममण्डितम् ॥ 201 ॥

मूलम् - 201

नानामाणिक्यविलसत्कटिसूत्रेण शोभितम्।
अनेकरत्नसन्दर्भरशनादाममण्डितम् ॥ 201 ॥

विश्वास-प्रस्तुतिः - 202

अनेककोटिमार्ताण्डविलसत्पीतवाससम्।
अनेकरत्नसंभिन्ननू पुरादि विभूषितम् ॥ 202 ॥

मूलम् - 202

अनेककोटिमार्ताण्डविलसत्पीतवाससम्।
अनेकरत्नसंभिन्ननू पुरादि विभूषितम् ॥ 202 ॥

विश्वास-प्रस्तुतिः - 203

एवमन्यैश्च विविधैः केयूरकटकादिकैः।
यथार्हैर्भूषणै रम्यैर्ज्वलद्भिः परिभूषितम् ॥ 203 ॥

मूलम् - 203

एवमन्यैश्च विविधैः केयूरकटकादिकैः।
यथार्हैर्भूषणै रम्यैर्ज्वलद्भिः परिभूषितम् ॥ 203 ॥

विश्वास-प्रस्तुतिः - 204

प्रावृड्‌जलदसंकाशं भिन्नाञ्जनचयप्रभम्।
अभिन्नपूर्णषाड्‌गुण्यविभवेनोपबृंहितम् ॥ 204 ॥

मूलम् - 204

प्रावृड्‌जलदसंकाशं भिन्नाञ्जनचयप्रभम्।
अभिन्नपूर्णषाड्‌गुण्यविभवेनोपबृंहितम् ॥ 204 ॥

विश्वास-प्रस्तुतिः - 205

योगिध्येयमजं नित्यं जगञ्जन्मादिकारणम्।
अनादिनिधनं देवं साक्षाल्लक्ष्मीपतिं प्रभुम् ॥ 205 ॥

मूलम् - 205

योगिध्येयमजं नित्यं जगञ्जन्मादिकारणम्।
अनादिनिधनं देवं साक्षाल्लक्ष्मीपतिं प्रभुम् ॥ 205 ॥

विश्वास-प्रस्तुतिः - 206

अप्राकृततनुं शान्तं वासुदेवं परात् परम्।
जनलोकगतैःसिद्धैः सनकाद्यैरभिष्टुतम् ॥ 206 ॥

मूलम् - 206

अप्राकृततनुं शान्तं वासुदेवं परात् परम्।
जनलोकगतैःसिद्धैः सनकाद्यैरभिष्टुतम् ॥ 206 ॥

विश्वास-प्रस्तुतिः - 207

नेत्राभ्यामनिमेषाभ्यां तृषिताभ्यां पिबन्निव।
उदैक्षत प्रहृष्टात्मा प्रणिपत्य मुहुर्मुहुः ॥ 207 ॥

मूलम् - 207

नेत्राभ्यामनिमेषाभ्यां तृषिताभ्यां पिबन्निव।
उदैक्षत प्रहृष्टात्मा प्रणिपत्य मुहुर्मुहुः ॥ 207 ॥

विश्वास-प्रस्तुतिः - 208

स्तुत्वा च विविधैस्स्तोत्रैर्हर्षगद्गदया गिरा।
तदादाय महद्दिव्यं विमानं शिरसा ततः ॥ 208 ॥

मूलम् - 208

स्तुत्वा च विविधैस्स्तोत्रैर्हर्षगद्गदया गिरा।
तदादाय महद्दिव्यं विमानं शिरसा ततः ॥ 208 ॥

विश्वास-प्रस्तुतिः - 209

जगाम भवनं विप्र! स्वकीयं कमलासनः।
तत्र संपूजयामास द्विषट्‌कब्रह्मविद्यया ॥ 209 ॥

मूलम् - 209

जगाम भवनं विप्र! स्वकीयं कमलासनः।
तत्र संपूजयामास द्विषट्‌कब्रह्मविद्यया ॥ 209 ॥

विश्वास-प्रस्तुतिः - 210

महता विभवेनैव ब्रह्मा लोकपितामहः।
अत्रान्तरे तु विप्रेन्द्र! पौष्करस्य महात्मनः ॥ 210 ॥

मूलम् - 210

महता विभवेनैव ब्रह्मा लोकपितामहः।
अत्रान्तरे तु विप्रेन्द्र! पौष्करस्य महात्मनः ॥ 210 ॥

विश्वास-प्रस्तुतिः - 211

जिज्ञासायां तु जातायां शास्त्रे पौष्करसंज्ञके।
प्रादुर्भूतस्तदा विप्र! वासुदेवो जगत्पतिः ॥ 211 ॥

मूलम् - 211

जिज्ञासायां तु जातायां शास्त्रे पौष्करसंज्ञके।
प्रादुर्भूतस्तदा विप्र! वासुदेवो जगत्पतिः ॥ 211 ॥

विश्वास-प्रस्तुतिः - 212

महोपनिषदं शास्त्रं ग्राहयामास पद्मजम्।
योमूलवेदो विख्यातस्तादृक् तस्मात् परिस्रुतम् ॥ 212 ॥

मूलम् - 212

महोपनिषदं शास्त्रं ग्राहयामास पद्मजम्।
योमूलवेदो विख्यातस्तादृक् तस्मात् परिस्रुतम् ॥ 212 ॥

विश्वास-प्रस्तुतिः - 213

सिद्धिमोक्षप्रदं विप्र! सर्वशास्त्रार्थगर्भितम्।
नानाव्यूहसमोपेतं मूर्त्यन्तरसमन्वितम् ॥ 213 ॥

मूलम् - 213

सिद्धिमोक्षप्रदं विप्र! सर्वशास्त्रार्थगर्भितम्।
नानाव्यूहसमोपेतं मूर्त्यन्तरसमन्वितम् ॥ 213 ॥

विश्वास-प्रस्तुतिः - 214

नानाविभवसंयुक्तं प्रादुर्भावान्तरान्वितम्।
लक्ष्म्यादिशङ्खचक्राख्यगारुत्म सदिगीश्वरैः ॥ 214 ॥

मूलम् - 214

नानाविभवसंयुक्तं प्रादुर्भावान्तरान्वितम्।
लक्ष्म्यादिशङ्खचक्राख्यगारुत्म सदिगीश्वरैः ॥ 214 ॥

विश्वास-प्रस्तुतिः - 215

सगणैरस्त्रनिष्ठैस्तु संपूर्णं द्विजसत्तम!।
बीजैः पिण्डात्मकैश्चैव पदैःसंज्ञामयैर्द्विज! ॥ 215 ॥

मूलम् - 215

सगणैरस्त्रनिष्ठैस्तु संपूर्णं द्विजसत्तम!।
बीजैः पिण्डात्मकैश्चैव पदैःसंज्ञामयैर्द्विज! ॥ 215 ॥

विश्वास-प्रस्तुतिः - 216

मन्त्रव्यूहैस्तु विविधैर्ध्यानैश्च विविधैर्युतम्।
तत्वसंख्यासमाख्यातैर्मण्डलैर्भद्रकादिभिः ॥ 216 ॥

मूलम् - 216

मन्त्रव्यूहैस्तु विविधैर्ध्यानैश्च विविधैर्युतम्।
तत्वसंख्यासमाख्यातैर्मण्डलैर्भद्रकादिभिः ॥ 216 ॥

विश्वास-प्रस्तुतिः - 217

तथा चतुर्दशव्यूहैरजेककजगर्भितैः।
षड्विंशैररकैर्युक्तैश्चक्राब्जैर्नवभिस्तथा ॥ 217 ॥

मूलम् - 217

तथा चतुर्दशव्यूहैरजेककजगर्भितैः।
षड्विंशैररकैर्युक्तैश्चक्राब्जैर्नवभिस्तथा ॥ 217 ॥

विश्वास-प्रस्तुतिः - 218

द्य्वरकादिसहस्रारपर्यन्तैश्च सकारणैः।
तथाष्टादशभिर्विप्र! मिश्रचक्राभिधानकैः ॥ 218 ॥

मूलम् - 218

द्य्वरकादिसहस्रारपर्यन्तैश्च सकारणैः।
तथाष्टादशभिर्विप्र! मिश्रचक्राभिधानकैः ॥ 218 ॥

विश्वास-प्रस्तुतिः - 219

आवार्यावरकेणैव रूपेण परिसंस्थितैः।
महाख्यनवनाभेन बिम्बभेदस्थितेन च ॥ 219 ॥

मूलम् - 219

आवार्यावरकेणैव रूपेण परिसंस्थितैः।
महाख्यनवनाभेन बिम्बभेदस्थितेन च ॥ 219 ॥

विश्वास-प्रस्तुतिः - 220

घण्टास्रुक्स्रुवपूर्वैस्तु क्रियाङ्गैर्विविधैरपि।
नानालक्षणसंयुक्तैः कुण्डैश्च परिभूषितम् ॥ 220 ॥

मूलम् - 220

घण्टास्रुक्स्रुवपूर्वैस्तु क्रियाङ्गैर्विविधैरपि।
नानालक्षणसंयुक्तैः कुण्डैश्च परिभूषितम् ॥ 220 ॥

विश्वास-प्रस्तुतिः - 221

वत्सरोत्सवपर्यन्तैः स्थापनाद्यैश्च कर्मभिः।
नित्यैर्नैमित्तिकैःकाम्यैः परिपूर्णं द्विजोत्तम! ॥ 221 ॥

मूलम् - 221

वत्सरोत्सवपर्यन्तैः स्थापनाद्यैश्च कर्मभिः।
नित्यैर्नैमित्तिकैःकाम्यैः परिपूर्णं द्विजोत्तम! ॥ 221 ॥

विश्वास-प्रस्तुतिः - 222

स्वयंव्यक्तादिभेदोत्थैः प्रासादैश्च समन्वितम्।
तस्याधिकारवृत्त्यर्थं लोकानां हितकाम्यया ॥ 222 ॥

मूलम् - 222

स्वयंव्यक्तादिभेदोत्थैः प्रासादैश्च समन्वितम्।
तस्याधिकारवृत्त्यर्थं लोकानां हितकाम्यया ॥ 222 ॥

विश्वास-प्रस्तुतिः - 223

ततस्तदुक्तमार्गेण विविधैर्भोगसञ्चयैः।
नित्यैर्नैमित्तिकैः काम्यैर्विविधैश्च महोत्सवैः ॥ 223 ॥

मूलम् - 223

ततस्तदुक्तमार्गेण विविधैर्भोगसञ्चयैः।
नित्यैर्नैमित्तिकैः काम्यैर्विविधैश्च महोत्सवैः ॥ 223 ॥

विश्वास-प्रस्तुतिः - 224

तत्र प्रतिदिनं कुर्वन् पूजां लोकपितामहः।
व्यापारान् जगतां चक्रे विविधान् लोकपूजितः ॥ 224 ॥

मूलम् - 224

तत्र प्रतिदिनं कुर्वन् पूजां लोकपितामहः।
व्यापारान् जगतां चक्रे विविधान् लोकपूजितः ॥ 224 ॥

विश्वास-प्रस्तुतिः - 225

ततो मन्वन्तरे विप्र! प्राप्ते वैवस्वताभिधे।
इक्ष्वाकुर्नामनृपतिः सूर्यवंशसमुद्भवः ॥ 225 ॥

मूलम् - 225

ततो मन्वन्तरे विप्र! प्राप्ते वैवस्वताभिधे।
इक्ष्वाकुर्नामनृपतिः सूर्यवंशसमुद्भवः ॥ 225 ॥

विश्वास-प्रस्तुतिः - 226

महात्मा सततं योगी सर्वभूतहिते रतः।
द्रष्टुकामः प्रसन्नात्मा वासुदेवं जगत्पतिम् ॥ 226 ॥

मूलम् - 226

महात्मा सततं योगी सर्वभूतहिते रतः।
द्रष्टुकामः प्रसन्नात्मा वासुदेवं जगत्पतिम् ॥ 226 ॥

विश्वास-प्रस्तुतिः - 227

तापसं वेषमास्थाय तपश्चर्तुं गतो वनम्।
प्रविश्य तु तपस्तेपे शाकमूलफलाशनः ॥ 227 ॥

मूलम् - 227

तापसं वेषमास्थाय तपश्चर्तुं गतो वनम्।
प्रविश्य तु तपस्तेपे शाकमूलफलाशनः ॥ 227 ॥

विश्वास-प्रस्तुतिः - 228

ग्रीष्मे पञ्चाग्निमध्यस्थो नयन् कालं महातपाः।
वार्षिके तु निरालम्बो हैमन्ते तु सरोजले ॥ 228 ॥

मूलम् - 228

ग्रीष्मे पञ्चाग्निमध्यस्थो नयन् कालं महातपाः।
वार्षिके तु निरालम्बो हैमन्ते तु सरोजले ॥ 228 ॥

विश्वास-प्रस्तुतिः - 229

इन्द्रियाणि समस्तानि नियम्य हृदये पुनः।
मनो विण्णौ समाविश्य मन्त्रं वै द्वादशाक्षरम् ॥ 229 ॥

मूलम् - 229

इन्द्रियाणि समस्तानि नियम्य हृदये पुनः।
मनो विण्णौ समाविश्य मन्त्रं वै द्वादशाक्षरम् ॥ 229 ॥

विश्वास-प्रस्तुतिः - 230

जपतो वायुभक्षस्य तस्य राज्ञो महात्मनः।
आविर्बभूव भगवान् ब्रह्या लोकपितामहः ॥ 230 ॥

मूलम् - 230

जपतो वायुभक्षस्य तस्य राज्ञो महात्मनः।
आविर्बभूव भगवान् ब्रह्या लोकपितामहः ॥ 230 ॥

विश्वास-प्रस्तुतिः - 231

तमागतमथालोक्य पझयोनिं चतुर्मुखम्।
प्रणम्य भक्तिभावेन स्तुत्या च परितोषयन् ॥ 231 ॥

मूलम् - 231

तमागतमथालोक्य पझयोनिं चतुर्मुखम्।
प्रणम्य भक्तिभावेन स्तुत्या च परितोषयन् ॥ 231 ॥

विश्वास-प्रस्तुतिः - 232

“नमो हिरण्यगर्भाय, जगत्स्रष्ट्रे महात्मने।
वेदशास्त्रार्थविदुषे, चतुर्वक्त्राय ते नमः” ॥ 232 ॥

मूलम् - 232

“नमो हिरण्यगर्भाय, जगत्स्रष्ट्रे महात्मने।
वेदशास्त्रार्थविदुषे, चतुर्वक्त्राय ते नमः” ॥ 232 ॥

विश्वास-प्रस्तुतिः - 233

इति स्तुतो जगत्स्रष्ट्रा ब्रह्ना प्राह नृपोत्तमम्।
तपस्यभिरतं शान्तं त्यक्तराज्यमहासुखम् ॥ 233 ॥

मूलम् - 233

इति स्तुतो जगत्स्रष्ट्रा ब्रह्ना प्राह नृपोत्तमम्।
तपस्यभिरतं शान्तं त्यक्तराज्यमहासुखम् ॥ 233 ॥

विश्वास-प्रस्तुतिः - 234

“लोकप्रकाशको राजन् सूर्यस्तव पितामहः।
वसूनामपि सर्वेषां सदा मान्यो मनुः पिता ॥ 234 ॥

मूलम् - 234

“लोकप्रकाशको राजन् सूर्यस्तव पितामहः।
वसूनामपि सर्वेषां सदा मान्यो मनुः पिता ॥ 234 ॥

विश्वास-प्रस्तुतिः - 235

कृतवन्तौ तपः पूर्वं तीव्रं पितृपितामहौ।
तावतीत्य तपस्तेऽद्य वर्तते निस्पृहस्य वै ॥ 235 ॥

मूलम् - 235

कृतवन्तौ तपः पूर्वं तीव्रं पितृपितामहौ।
तावतीत्य तपस्तेऽद्य वर्तते निस्पृहस्य वै ॥ 235 ॥

विश्वास-प्रस्तुतिः - 236

किमर्थं राज्यभोगं तु त्यक्त्वा सर्वं नृपोत्तम!।
तपः करोषि घोरं त्वमाचक्ष्व च महामते!” ॥ 236 ॥

मूलम् - 236

किमर्थं राज्यभोगं तु त्यक्त्वा सर्वं नृपोत्तम!।
तपः करोषि घोरं त्वमाचक्ष्व च महामते!” ॥ 236 ॥

विश्वास-प्रस्तुतिः - 237

इत्युक्तो ब्रह्नणा राजा तं प्रणम्याब्रवीद्वचः।
“द्रष्टुमिच्छंस्तपश्चर्याबलेन मधुसूदनम् ॥ 237 ॥

मूलम् - 237

इत्युक्तो ब्रह्नणा राजा तं प्रणम्याब्रवीद्वचः।
“द्रष्टुमिच्छंस्तपश्चर्याबलेन मधुसूदनम् ॥ 237 ॥

विश्वास-प्रस्तुतिः - 238

करोम्यत्र तपो ब्रह्नन्! शङ्खचक्रगदाधरम्”।
इत्युक्तः प्राह राजानं पझजन्मा हसन्निव ॥ 238 ॥

मूलम् - 238

करोम्यत्र तपो ब्रह्नन्! शङ्खचक्रगदाधरम्”।
इत्युक्तः प्राह राजानं पझजन्मा हसन्निव ॥ 238 ॥

विश्वास-प्रस्तुतिः - 239

“न शक्यस्तपसा राजन् द्रष्टुं नारायणो विभुः।
मादृशैश्च न दृश्योऽजः केशवः क्लेशनाशनः ॥ 239 ॥

मूलम् - 239

“न शक्यस्तपसा राजन् द्रष्टुं नारायणो विभुः।
मादृशैश्च न दृश्योऽजः केशवः क्लेशनाशनः ॥ 239 ॥

विश्वास-प्रस्तुतिः - 240

त्वादृशैः किं पुनस्त्वीशो माधवस्त्विति भावय।
पुरातनीं पुण्यकथां कथयामि निबोध मे ॥ 240 ॥

मूलम् - 240

त्वादृशैः किं पुनस्त्वीशो माधवस्त्विति भावय।
पुरातनीं पुण्यकथां कथयामि निबोध मे ॥ 240 ॥

विश्वास-प्रस्तुतिः - 241

अहं पुरा महाराज! वासुदेवं सनातनम्।
द्रष्टुकामः प्रजासर्गे तपश्चर्यां सुदारुणाम् ॥ 241 ॥

मूलम् - 241

अहं पुरा महाराज! वासुदेवं सनातनम्।
द्रष्टुकामः प्रजासर्गे तपश्चर्यां सुदारुणाम् ॥ 241 ॥

विश्वास-प्रस्तुतिः - 242

अकार्षं तपसश्चान्ते भगवान् भक्तवत्सलः।
प्रसन्नः प्रादुरासीन्मे पश्यतः पझलोचनः ॥ 242 ॥

मूलम् - 242

अकार्षं तपसश्चान्ते भगवान् भक्तवत्सलः।
प्रसन्नः प्रादुरासीन्मे पश्यतः पझलोचनः ॥ 242 ॥

विश्वास-प्रस्तुतिः - 243

प्रणम्य पुण्डरीकाक्षमस्तौषं विविधैः स्तवैः।
तत्र श्रेयो बलं तेजो दत्वा स्रष्टुं जगद्विभुः ॥ 243 ॥

मूलम् - 243

प्रणम्य पुण्डरीकाक्षमस्तौषं विविधैः स्तवैः।
तत्र श्रेयो बलं तेजो दत्वा स्रष्टुं जगद्विभुः ॥ 243 ॥

विश्वास-प्रस्तुतिः - 244

अथोपदिष्टवान् मह्यमाद्यं वेदं सनातनम्।
सदागमाख्यं मूलं तु परब्रह्नप्रकाशकम् ॥ 244 ॥

मूलम् - 244

अथोपदिष्टवान् मह्यमाद्यं वेदं सनातनम्।
सदागमाख्यं मूलं तु परब्रह्नप्रकाशकम् ॥ 244 ॥

विश्वास-प्रस्तुतिः - 245

दिव्यं सिद्धिप्रदं चैव शान्तिकृद्विश्वकर्मिणाम्।
सर्गस्योत्तरकाले तु विमाने दिव्यलक्षणे ॥ 245 ॥

मूलम् - 245

दिव्यं सिद्धिप्रदं चैव शान्तिकृद्विश्वकर्मिणाम्।
सर्गस्योत्तरकाले तु विमाने दिव्यलक्षणे ॥ 245 ॥

विश्वास-प्रस्तुतिः - 246

अनन्तभोगशयने शयानः पद्मलोचनः।
प्रादुर्भविष्यति पुरस्तं पूजय विशेषतः ॥ 246 ॥

मूलम् - 246

अनन्तभोगशयने शयानः पद्मलोचनः।
प्रादुर्भविष्यति पुरस्तं पूजय विशेषतः ॥ 246 ॥

विश्वास-प्रस्तुतिः - 247

द्वादशार्णेन मन्त्रेण पौष्करेणोक्तमार्गतः।
वक्ष्यमाणेन विधिना यथावत् कमलोद्भव! ॥ 247 ॥

मूलम् - 247

द्वादशार्णेन मन्त्रेण पौष्करेणोक्तमार्गतः।
वक्ष्यमाणेन विधिना यथावत् कमलोद्भव! ॥ 247 ॥

विश्वास-प्रस्तुतिः - 248

इत्युक्त्वान्तर्दधे देवः परमात्मा जगत्प्रभुः।
प्रादुरासीत्ततो दिव्यं विमानं परमाद्‌भुतम् ॥ 248 ॥

मूलम् - 248

इत्युक्त्वान्तर्दधे देवः परमात्मा जगत्प्रभुः।
प्रादुरासीत्ततो दिव्यं विमानं परमाद्‌भुतम् ॥ 248 ॥

विश्वास-प्रस्तुतिः - 249

शास्त्रं चापि मया लब्धं महोपनिषदाख्यकम्।
तत्रस्थं देवदेवेशं वासुदेवं जगत्पतिम् ॥ 249 ॥

मूलम् - 249

शास्त्रं चापि मया लब्धं महोपनिषदाख्यकम्।
तत्रस्थं देवदेवेशं वासुदेवं जगत्पतिम् ॥ 249 ॥

विश्वास-प्रस्तुतिः - 250

पूजयामि विधानेन तदुक्तेन नृपोत्तम!।
तदहं ते प्रयच्छामि केशवानन्दमन्दिरम् ॥ 250 ॥

मूलम् - 250

पूजयामि विधानेन तदुक्तेन नृपोत्तम!।
तदहं ते प्रयच्छामि केशवानन्दमन्दिरम् ॥ 250 ॥

विश्वास-प्रस्तुतिः - 251

विसृज्येदं तपो घोरं पुरं व्रज निजं नृप!।
प्रजानां पालनं धर्मस्तपश्चेव महीभृतः ॥ 251 ॥

मूलम् - 251

विसृज्येदं तपो घोरं पुरं व्रज निजं नृप!।
प्रजानां पालनं धर्मस्तपश्चेव महीभृतः ॥ 251 ॥

विश्वास-प्रस्तुतिः - 252

विमानं प्रेषयिष्यामि दिवः सिद्धं नृपोत्तम!।
संयुक्तं पञ्चकालज्ञैः सद्ब्रह्ननिरतैर्द्विजैः ॥ 252 ॥

मूलम् - 252

विमानं प्रेषयिष्यामि दिवः सिद्धं नृपोत्तम!।
संयुक्तं पञ्चकालज्ञैः सद्ब्रह्ननिरतैर्द्विजैः ॥ 252 ॥

विश्वास-प्रस्तुतिः - 253

तत्राराधय देवेशं बाह्यान्तरखिलैः शुभैः।
वासुदेवमनन्ताहौ शयानं पुरुषोत्तमम् ॥ 253 ॥

मूलम् - 253

तत्राराधय देवेशं बाह्यान्तरखिलैः शुभैः।
वासुदेवमनन्ताहौ शयानं पुरुषोत्तमम् ॥ 253 ॥

विश्वास-प्रस्तुतिः - 254

द्विषट्‌कार्णेन मन्त्रेण पौष्करोक्तविधानतः।
क्रतुभिर्विविधैश्चैव यजन् देवं नृपोत्तम! ॥ 254 ॥

मूलम् - 254

द्विषट्‌कार्णेन मन्त्रेण पौष्करोक्तविधानतः।
क्रतुभिर्विविधैश्चैव यजन् देवं नृपोत्तम! ॥ 254 ॥

विश्वास-प्रस्तुतिः - 255

निष्कामो नृपशार्दूल! प्रजा धर्मेण पालय।
प्रसादाद्वासुदेवस्य मुक्तिस्ते भविता नृप!” ॥ 255 ॥

मूलम् - 255

निष्कामो नृपशार्दूल! प्रजा धर्मेण पालय।
प्रसादाद्वासुदेवस्य मुक्तिस्ते भविता नृप!” ॥ 255 ॥

विश्वास-प्रस्तुतिः - 256

इत्युक्त्वा पौष्करं शास्त्रमुपदिश्य यथाक्रमम्।
तस्मै तु भूमिपालाय विधातान्तरभूत् पुनः ॥ 256 ॥

मूलम् - 256

इत्युक्त्वा पौष्करं शास्त्रमुपदिश्य यथाक्रमम्।
तस्मै तु भूमिपालाय विधातान्तरभूत् पुनः ॥ 256 ॥

विश्वास-प्रस्तुतिः - 257

इक्ष्वाकुश्चिन्तयन्नास्ते पझयोनेर्वचो द्विज!।
आविर्बभूव पुरतो विमानं तन्महीभृतः ॥ 257 ॥

मूलम् - 257

इक्ष्वाकुश्चिन्तयन्नास्ते पझयोनेर्वचो द्विज!।
आविर्बभूव पुरतो विमानं तन्महीभृतः ॥ 257 ॥

विश्वास-प्रस्तुतिः - 258

ब्रह्नदत्तं द्विजयुतं माधवानन्तयोः शुभम्।
तं दृष्ट्वा परया भक्त्या नत्वा च पुरुषोत्तमम् ॥ 258 ॥

मूलम् - 258

ब्रह्नदत्तं द्विजयुतं माधवानन्तयोः शुभम्।
तं दृष्ट्वा परया भक्त्या नत्वा च पुरुषोत्तमम् ॥ 258 ॥

विश्वास-प्रस्तुतिः - 259

ऋषीन् प्रणम्य वृद्धांश्च तदादाय ययौ पुरम्।
पौरैर्जनैश्च नारीभिर्दृष्टं शोभासमन्वितैः ॥ 259 ॥

मूलम् - 259

ऋषीन् प्रणम्य वृद्धांश्च तदादाय ययौ पुरम्।
पौरैर्जनैश्च नारीभिर्दृष्टं शोभासमन्वितैः ॥ 259 ॥

विश्वास-प्रस्तुतिः - 260

लाजानि विक्षिपद्भिश्च ततो राजा स्क्कं गृहम्।
स्वमन्दिरे विशाले तु विमानं वैष्णवं शुभम् ॥ 260 ॥

मूलम् - 260

लाजानि विक्षिपद्भिश्च ततो राजा स्क्कं गृहम्।
स्वमन्दिरे विशाले तु विमानं वैष्णवं शुभम् ॥ 260 ॥

विश्वास-प्रस्तुतिः - 261

संस्थाप्याराधयामास भावितात्मा नृपोत्तमः।
पौष्करोक्तविधानेन तैर्द्विजैरर्चितं हरिम् ॥ 261 ॥

मूलम् - 261

संस्थाप्याराधयामास भावितात्मा नृपोत्तमः।
पौष्करोक्तविधानेन तैर्द्विजैरर्चितं हरिम् ॥ 261 ॥

विश्वास-प्रस्तुतिः - 262

मानुष्यः शोभनाङ्ग्यस्तु घृष्ट्वा तु हरिचन्दनम्।
मालाः कृत्वा सुगन्धाढ्याः प्रीतिं तस्य वितेनिरे ॥ 262 ॥

मूलम् - 262

मानुष्यः शोभनाङ्ग्यस्तु घृष्ट्वा तु हरिचन्दनम्।
मालाः कृत्वा सुगन्धाढ्याः प्रीतिं तस्य वितेनिरे ॥ 262 ॥

विश्वास-प्रस्तुतिः - 263

पौराः कर्पूरश्रीखण्डकुङ्कुमाद्यं ददुस्तथा।
पुष्पाणि विष्णुयोग्यानि ददुरानीय भूपतेः ॥ 263 ॥

मूलम् - 263

पौराः कर्पूरश्रीखण्डकुङ्कुमाद्यं ददुस्तथा।
पुष्पाणि विष्णुयोग्यानि ददुरानीय भूपतेः ॥ 263 ॥

विश्वास-प्रस्तुतिः - 264

तत्तत्कर्मार्थबिम्बानि प्रतिष्ठाप्य यथाविधि।
स्वे स्वे यथोदिते स्थाने सन्निवेश्य सुविस्तृतम् ॥ 264 ॥

मूलम् - 264

तत्तत्कर्मार्थबिम्बानि प्रतिष्ठाप्य यथाविधि।
स्वे स्वे यथोदिते स्थाने सन्निवेश्य सुविस्तृतम् ॥ 264 ॥

विश्वास-प्रस्तुतिः - 265

ततोऽष्टाष्टकसंख्यैस्तु भोगैः सर्वैरकृत्रिमैः।
प्रधानैः साङ्गभोगैस्तु विविधैरौपचारिकैः ॥ 265 ॥

मूलम् - 265

ततोऽष्टाष्टकसंख्यैस्तु भोगैः सर्वैरकृत्रिमैः।
प्रधानैः साङ्गभोगैस्तु विविधैरौपचारिकैः ॥ 265 ॥

विश्वास-प्रस्तुतिः - 266

सांस्पर्शिकैस्तथा विप्र! हृदयङ्गमसंज्ञितैः।
अर्चयित्वा जगन्नाथं वासुदेवं परात्‌परम् ॥ 266 ॥

मूलम् - 266

सांस्पर्शिकैस्तथा विप्र! हृदयङ्गमसंज्ञितैः।
अर्चयित्वा जगन्नाथं वासुदेवं परात्‌परम् ॥ 266 ॥

विश्वास-प्रस्तुतिः - 267

त्रिसन्ध्यं परया भक्त्या जप्यैः स्तोत्रैश्च वैष्णवैः।
कारयामास देवस्य सुचिरं वत्सरोत्सवम् ॥ 267 ॥

मूलम् - 267

त्रिसन्ध्यं परया भक्त्या जप्यैः स्तोत्रैश्च वैष्णवैः।
कारयामास देवस्य सुचिरं वत्सरोत्सवम् ॥ 267 ॥

विश्वास-प्रस्तुतिः - 268

तथा च वत्सरीयाणि नानानैमित्तिकान्यपि।
प्रितष्ठां तत्प्रकारं च स्थानभेदं तथैव च ॥ 268 ॥

मूलम् - 268

तथा च वत्सरीयाणि नानानैमित्तिकान्यपि।
प्रितष्ठां तत्प्रकारं च स्थानभेदं तथैव च ॥ 268 ॥

विश्वास-प्रस्तुतिः - 269

उत्सवादिप्रकारं च वक्ष्याम्युपरि विस्तृतम्।
भोगैश्च तोषयित्वा तं सर्वदेवमय हरिम् ॥ 269 ॥

मूलम् - 269

उत्सवादिप्रकारं च वक्ष्याम्युपरि विस्तृतम्।
भोगैश्च तोषयित्वा तं सर्वदेवमय हरिम् ॥ 269 ॥

विश्वास-प्रस्तुतिः - 270

निष्कामो दानधर्मैश्च परं ज्ञानमवाप्तवान्।
यजन् यज्ञान् महीं रक्षन् स कुर्वन् केशवार्चनम् ॥ 270 ॥

मूलम् - 270

निष्कामो दानधर्मैश्च परं ज्ञानमवाप्तवान्।
यजन् यज्ञान् महीं रक्षन् स कुर्वन् केशवार्चनम् ॥ 270 ॥

विश्वास-प्रस्तुतिः - 271

उत्पाद्य पुत्रान् पित्रर्थं चिरात् त्यक्त्वा कलेबरम्।
ध्यायन्निष्कल्मषं देवं प्राप्तवान् वैष्णवं पदम् ॥ 271 ॥

मूलम् - 271

उत्पाद्य पुत्रान् पित्रर्थं चिरात् त्यक्त्वा कलेबरम्।
ध्यायन्निष्कल्मषं देवं प्राप्तवान् वैष्णवं पदम् ॥ 271 ॥

विश्वास-प्रस्तुतिः - 272

ततश्चैतत् क्रमाल्लेभे देवः सर्वेश्वरः स्वयम्।
रामो राजीवनयनो भ्रातृभेदैस्त्रिभिः सह ॥ 272 ॥

मूलम् - 272

ततश्चैतत् क्रमाल्लेभे देवः सर्वेश्वरः स्वयम्।
रामो राजीवनयनो भ्रातृभेदैस्त्रिभिः सह ॥ 272 ॥

विश्वास-प्रस्तुतिः - 273

निहन्ता राक्षसानां यो मनुष्योऽहमिति स्मरन्।
दशेन्द्रियाननं घोरं यो मनोरजनीचरम् ॥ 273 ॥

मूलम् - 273

निहन्ता राक्षसानां यो मनुष्योऽहमिति स्मरन्।
दशेन्द्रियाननं घोरं यो मनोरजनीचरम् ॥ 273 ॥

विश्वास-प्रस्तुतिः - 274

विवेकशरजालेन शमं नयति देहिनाम्।
कृतकृत्यस्तु यो वेत्ति स्वभावं दिव्यमुत्तमम् ॥ 274 ॥

मूलम् - 274

विवेकशरजालेन शमं नयति देहिनाम्।
कृतकृत्यस्तु यो वेत्ति स्वभावं दिव्यमुत्तमम् ॥ 274 ॥

विश्वास-प्रस्तुतिः - 275

ददौ विभीषणायासौ प्रियाय प्रियकारिणे।
शास्त्रोपदेशपूर्वं तु विमानं दिव्यलक्षणम् ॥ 275 ॥

मूलम् - 275

ददौ विभीषणायासौ प्रियाय प्रियकारिणे।
शास्त्रोपदेशपूर्वं तु विमानं दिव्यलक्षणम् ॥ 275 ॥

विश्वास-प्रस्तुतिः - 276

सोऽपि तच्छिरसा गृह्य ययौ देशं स्वकं प्रति।
रवौ मध्यन्दिने प्राप्ते कवेरतनया तटे ॥ 276 ॥

मूलम् - 276

सोऽपि तच्छिरसा गृह्य ययौ देशं स्वकं प्रति।
रवौ मध्यन्दिने प्राप्ते कवेरतनया तटे ॥ 276 ॥

विश्वास-प्रस्तुतिः - 277

चन्द्रपुष्करिणीमध्येऽनन्तपीठेऽवतारयत्।
दक्षाध्वरे च रुद्रेण परिभूतो निशाकरः ॥ 277 ॥

मूलम् - 277

चन्द्रपुष्करिणीमध्येऽनन्तपीठेऽवतारयत्।
दक्षाध्वरे च रुद्रेण परिभूतो निशाकरः ॥ 277 ॥

विश्वास-प्रस्तुतिः - 278

मूर्ध्नि तस्य कृतावासो यत्र तप्त्वा महत्तपः।
यस्मिंस्तु पुण्डरीकाक्षो देवो वामनरूपधृक् ॥ 278 ॥

मूलम् - 278

मूर्ध्नि तस्य कृतावासो यत्र तप्त्वा महत्तपः।
यस्मिंस्तु पुण्डरीकाक्षो देवो वामनरूपधृक् ॥ 278 ॥

विश्वास-प्रस्तुतिः - 279

प्राप्तवान्नयसंस्कारं यत्र तु स्वयमेव हि।
विमानप्रवरं दिव्यं श्रीरह्गमिति शब्दितम् ॥ 279 ॥

मूलम् - 279

प्राप्तवान्नयसंस्कारं यत्र तु स्वयमेव हि।
विमानप्रवरं दिव्यं श्रीरह्गमिति शब्दितम् ॥ 279 ॥

विश्वास-प्रस्तुतिः - 280

प्रतिष्ठास्यति चात्रेति विनिश्चित्य जगत्पतिः।
गणेशं योगनिद्रां च रक्षाहेतोः समादिशत् ॥ 280 ॥

मूलम् - 280

प्रतिष्ठास्यति चात्रेति विनिश्चित्य जगत्पतिः।
गणेशं योगनिद्रां च रक्षाहेतोः समादिशत् ॥ 280 ॥

विश्वास-प्रस्तुतिः - 281

तत्रावतार्य तन्मध्ये विमानं तद्विभीषणः।
तत- संपूजयामास तैर्द्विजैरर्चितं हरिम् ॥ 281 ॥

मूलम् - 281

तत्रावतार्य तन्मध्ये विमानं तद्विभीषणः।
तत- संपूजयामास तैर्द्विजैरर्चितं हरिम् ॥ 281 ॥

विश्वास-प्रस्तुतिः - 282

रमणीयैस्तु विविधैर्भोगैः सांस्पर्शिकादिकैः।
तदुद्धर्तुमसौ यत्नमकरोद्बलवानपि ॥ 282 ॥

मूलम् - 282

रमणीयैस्तु विविधैर्भोगैः सांस्पर्शिकादिकैः।
तदुद्धर्तुमसौ यत्नमकरोद्बलवानपि ॥ 282 ॥

विश्वास-प्रस्तुतिः - 283

न शशाक मनागस्मादेतच्चलयितुं तदा।
अथापतद्धरण्यां वै विलपन् स च दुःखितः ॥ 283 ॥

मूलम् - 283

न शशाक मनागस्मादेतच्चलयितुं तदा।
अथापतद्धरण्यां वै विलपन् स च दुःखितः ॥ 283 ॥

विश्वास-प्रस्तुतिः - 284

आर्तं विभीषणं दृष्ट्वा विलपन्तमनाथवत्।
उवाच भगवान् रङ्गी स्वरेण महता तदा ॥ 284 ॥

मूलम् - 284

आर्तं विभीषणं दृष्ट्वा विलपन्तमनाथवत्।
उवाच भगवान् रङ्गी स्वरेण महता तदा ॥ 284 ॥

श्रीभगवानुवाच ---
विश्वास-प्रस्तुतिः - 285

“आर्य! धर्मज्ञ! देशोऽयं रमणीयो हि मे मतः।
अस्मिन्नेव शयानोऽहं रंस्ये त्वामभिवीक्ष्य च ॥ 285 ॥

मूलम् - 285

“आर्य! धर्मज्ञ! देशोऽयं रमणीयो हि मे मतः।
अस्मिन्नेव शयानोऽहं रंस्ये त्वामभिवीक्ष्य च ॥ 285 ॥

विश्वास-प्रस्तुतिः - 286

एतैरेकान्तिभिः सार्धं मदाराधनतत्परैः।
विभीषणानुजानीहि कुरुष्व च मम प्रियम् ॥ 286 ॥

मूलम् - 286

एतैरेकान्तिभिः सार्धं मदाराधनतत्परैः।
विभीषणानुजानीहि कुरुष्व च मम प्रियम् ॥ 286 ॥

विश्वास-प्रस्तुतिः - 287

एतानाराधकान् विप्रान् पञ्चकालपरायणान्।
क्षेत्रारामगृहाद्यैस्तु सुसमृद्धान् कुरुष्व च ॥ 287 ॥

मूलम् - 287

एतानाराधकान् विप्रान् पञ्चकालपरायणान्।
क्षेत्रारामगृहाद्यैस्तु सुसमृद्धान् कुरुष्व च ॥ 287 ॥

विश्वास-प्रस्तुतिः - 288

मा भूस्त्वं दुर्मना याहि क्षिप्रं लङ्कां निशाचर!।
तत्र त्वं सुसमृद्धार्थः श्रियं भुङ्‌क्ष्वानपायिनीम्” ॥ 288 ॥

मूलम् - 288

मा भूस्त्वं दुर्मना याहि क्षिप्रं लङ्कां निशाचर!।
तत्र त्वं सुसमृद्धार्थः श्रियं भुङ्‌क्ष्वानपायिनीम्” ॥ 288 ॥

विश्वास-प्रस्तुतिः - 289

इत्युक्तः सुसमृद्धार्थान् क्षेत्रारामगृहादिभिः।
कृत्वा चैकायनांस्तांस्तु पञ्चकालपरायणान् ॥ 289 ॥

मूलम् - 289

इत्युक्तः सुसमृद्धार्थान् क्षेत्रारामगृहादिभिः।
कृत्वा चैकायनांस्तांस्तु पञ्चकालपरायणान् ॥ 289 ॥

विश्वास-प्रस्तुतिः - 290

ततस्तु प्रययौ चार्तो लङ्कामेव विभीषणः।
मर्त्यानां भाग्यवैषम्याद्ब्राह्नणानां हिताय च ॥ 290 ॥

मूलम् - 290

ततस्तु प्रययौ चार्तो लङ्कामेव विभीषणः।
मर्त्यानां भाग्यवैषम्याद्ब्राह्नणानां हिताय च ॥ 290 ॥

विश्वास-प्रस्तुतिः - 291

देवानां च प्रतिष्ठायै रेमे तत्र नदीतटे।
रङ्गधामनि रङ्गेशः शयानस्तु द्विजोत्तम! ॥ 291 ॥

मूलम् - 291

देवानां च प्रतिष्ठायै रेमे तत्र नदीतटे।
रङ्गधामनि रङ्गेशः शयानस्तु द्विजोत्तम! ॥ 291 ॥

विश्वास-प्रस्तुतिः - 292

तद्धामोभयतोऽगच्छत् परिरभ्य सरिद्वरा।
यथा पतिं चिरं प्राप्तं भुजाभ्यां प्रियमङ्गना ॥ 292 ॥

मूलम् - 292

तद्धामोभयतोऽगच्छत् परिरभ्य सरिद्वरा।
यथा पतिं चिरं प्राप्तं भुजाभ्यां प्रियमङ्गना ॥ 292 ॥

विश्वास-प्रस्तुतिः - 293

दिव्यं ह्येतन्महद्धाम दिव्यास्तत्र निवासिनः।
दिव्या चेयं नदी तद्वद्दिव्यतीर्थमिदं सरः ॥ 293 ॥

मूलम् - 293

दिव्यं ह्येतन्महद्धाम दिव्यास्तत्र निवासिनः।
दिव्या चेयं नदी तद्वद्दिव्यतीर्थमिदं सरः ॥ 293 ॥

विश्वास-प्रस्तुतिः - 294

अनन्तशक्तियुक्तं तद्विमानं हि स्वयम्भवम्।
किह्गरा विष्णुभूतेशा बलिनः कामरूपिणः ॥ 294 ॥

मूलम् - 294

अनन्तशक्तियुक्तं तद्विमानं हि स्वयम्भवम्।
किह्गरा विष्णुभूतेशा बलिनः कामरूपिणः ॥ 294 ॥

विश्वास-प्रस्तुतिः - 295

ते च रक्षन्ति तं देशं सर्वे ह्यनिमिषेक्षणाः।
ये निष्य(प)न्दा निराहाराः सात्विकाश्च वसन्ति ते ॥ 295 ॥

मूलम् - 295

ते च रक्षन्ति तं देशं सर्वे ह्यनिमिषेक्षणाः।
ये निष्य(प)न्दा निराहाराः सात्विकाश्च वसन्ति ते ॥ 295 ॥

विश्वास-प्रस्तुतिः - 296

प्रव्याहरन्तो मधुरां वाणीं कर्णसुखावहाम्।
न तत्र वसतां पीडा क्षुत्पिपासाद्युपस्थिता ॥ 296 ॥

मूलम् - 296

प्रव्याहरन्तो मधुरां वाणीं कर्णसुखावहाम्।
न तत्र वसतां पीडा क्षुत्पिपासाद्युपस्थिता ॥ 296 ॥

विश्वास-प्रस्तुतिः - 297

नाध्यात्मिकादिपीडा वा न जरा नाविवेकिता।
त्रैकाल्यज्ञानसंपन्नाः सर्वकामविवर्जिताः ॥ 297 ॥

मूलम् - 297

नाध्यात्मिकादिपीडा वा न जरा नाविवेकिता।
त्रैकाल्यज्ञानसंपन्नाः सर्वकामविवर्जिताः ॥ 297 ॥

विश्वास-प्रस्तुतिः - 298

पदार्थसप्तकज्ञानसंपूर्णा नान्ययाजिनः।
द्वादशाध्यात्मनिरताः पञ्चकालपरायणः ॥ 298 ॥

मूलम् - 298

पदार्थसप्तकज्ञानसंपूर्णा नान्ययाजिनः।
द्वादशाध्यात्मनिरताः पञ्चकालपरायणः ॥ 298 ॥

विश्वास-प्रस्तुतिः - 299

तमर्चयन्तोऽहरहस्तत्रैव निवसन्ति हि।
षट्‌कर्मनिरताश्चापि ब्रह्नण्याहितचेतसः ॥ 299 ॥

मूलम् - 299

तमर्चयन्तोऽहरहस्तत्रैव निवसन्ति हि।
षट्‌कर्मनिरताश्चापि ब्रह्नण्याहितचेतसः ॥ 299 ॥

विश्वास-प्रस्तुतिः - 300

चरन्ति तत्र विमलाः पुरुषाः संशितव्रताः।
देवासुरमुनीन्द्राद्याः सदा देवाभिकाङ्क्षिणः ॥ 300 ॥

मूलम् - 300

चरन्ति तत्र विमलाः पुरुषाः संशितव्रताः।
देवासुरमुनीन्द्राद्याः सदा देवाभिकाङ्क्षिणः ॥ 300 ॥

विश्वास-प्रस्तुतिः - 301

वसन्ति तत्र चास्थाय चित्रां स्थावररूपताम्।
अप्युन्मत्तः प्रसान्तः स्याद्वधिरोऽपि सुबोधवान् ॥ 301 ॥

मूलम् - 301

वसन्ति तत्र चास्थाय चित्रां स्थावररूपताम्।
अप्युन्मत्तः प्रसान्तः स्याद्वधिरोऽपि सुबोधवान् ॥ 301 ॥

विश्वास-प्रस्तुतिः - 302

तस्य देशस्य माहात्म्यं सम्यग्ज्ञातुं न शक्यते।
ब्रह्नणापि मुनिश्रेष्ठ! किं पुनः खलु मादृशैः ॥ 302 ॥

मूलम् - 302

तस्य देशस्य माहात्म्यं सम्यग्ज्ञातुं न शक्यते।
ब्रह्नणापि मुनिश्रेष्ठ! किं पुनः खलु मादृशैः ॥ 302 ॥

विश्वास-प्रस्तुतिः - 303

तदेतत् परमं धाम श्रीरङ्गमिति शब्दितम्।
दिव्यलक्षणसंयुक्तं स्वयंव्यक्तमिति श्रुतम् ॥ 303 ॥

मूलम् - 303

तदेतत् परमं धाम श्रीरङ्गमिति शब्दितम्।
दिव्यलक्षणसंयुक्तं स्वयंव्यक्तमिति श्रुतम् ॥ 303 ॥

विश्वास-प्रस्तुतिः - 304

अत्र सन्निहितः साक्षाद्भगवान् पुरुषोत्तमः।
भक्तानां पुण्डरीकाक्षः परमात्माऽच्युतो हरिः ॥ 304 ॥

मूलम् - 304

अत्र सन्निहितः साक्षाद्भगवान् पुरुषोत्तमः।
भक्तानां पुण्डरीकाक्षः परमात्माऽच्युतो हरिः ॥ 304 ॥

विश्वास-प्रस्तुतिः - 305

विविधेष्वपि चान्येषु नित्यं स्थानेषु यद्यपि।
वासुदेवस्तु मन्त्रज्ञात्मा स्थितः सन्निहितः स्वयम् ॥ 305 ॥

मूलम् - 305

विविधेष्वपि चान्येषु नित्यं स्थानेषु यद्यपि।
वासुदेवस्तु मन्त्रज्ञात्मा स्थितः सन्निहितः स्वयम् ॥ 305 ॥

विश्वास-प्रस्तुतिः - 306

तथापि वलवत्त्वेन सन्निधिं भजतेऽत्र वै।
ग्रीष्मकालं समासाद्य यथार्कस्तीक्ष्णतां व्रजेत् ॥ 306 ॥

मूलम् - 306

तथापि वलवत्त्वेन सन्निधिं भजतेऽत्र वै।
ग्रीष्मकालं समासाद्य यथार्कस्तीक्ष्णतां व्रजेत् ॥ 306 ॥

विश्वास-प्रस्तुतिः - 307

स्वरूपमजहन्नेव तथैवात्र जगत्पतिः।
दोषैः स दिग्विभागाद्यैस्त्वन्यथात्वं न याति च ॥ 307 ॥

मूलम् - 307

स्वरूपमजहन्नेव तथैवात्र जगत्पतिः।
दोषैः स दिग्विभागाद्यैस्त्वन्यथात्वं न याति च ॥ 307 ॥

विश्वास-प्रस्तुतिः - 308

नित्यसन्निधिमाहात्म्यात् कालं कल्पक्षयावधि।
उत्तरोत्तरता चैव जगत्यस्मिन् हि वर्तते ॥ 308 ॥

मूलम् - 308

नित्यसन्निधिमाहात्म्यात् कालं कल्पक्षयावधि।
उत्तरोत्तरता चैव जगत्यस्मिन् हि वर्तते ॥ 308 ॥

विश्वास-प्रस्तुतिः - 309

भूत्या कान्त्या च कीर्त्या च क्रियया चाप्रमयेया।
दुष्टोपशान्तिदा शक्त्या सिद्धिदा या च वै सह ॥ 309 ॥

मूलम् - 309

भूत्या कान्त्या च कीर्त्या च क्रियया चाप्रमयेया।
दुष्टोपशान्तिदा शक्त्या सिद्धिदा या च वै सह ॥ 309 ॥

विश्वास-प्रस्तुतिः - 310

मुक्तिकामाश्च भविनः फलकामाश्च सत्तम!।
यथाभिमतसंप्राप्तिमिहैवायान्त्यनश्वरीम् ॥ 310 ॥

मूलम् - 310

मुक्तिकामाश्च भविनः फलकामाश्च सत्तम!।
यथाभिमतसंप्राप्तिमिहैवायान्त्यनश्वरीम् ॥ 310 ॥

विश्वास-प्रस्तुतिः - 311

इह कर्मपराः सर्वे सायं प्रातस्तु मध्यतः।
कुर्वते सर्वकर्माणि विमानाभिमुखाः सदा ॥ 311 ॥

मूलम् - 311

इह कर्मपराः सर्वे सायं प्रातस्तु मध्यतः।
कुर्वते सर्वकर्माणि विमानाभिमुखाः सदा ॥ 311 ॥

विश्वास-प्रस्तुतिः - 312

एवं तु पुष्करक्षेत्रे तोताद्रिशिखरेऽपि च।
क्ष्माङ्गे पुराणसंज्ञे तु मधुभाण्डाभिधेऽपि च ॥ 312 ॥

मूलम् - 312

एवं तु पुष्करक्षेत्रे तोताद्रिशिखरेऽपि च।
क्ष्माङ्गे पुराणसंज्ञे तु मधुभाण्डाभिधेऽपि च ॥ 312 ॥

विश्वास-प्रस्तुतिः - 313

स्थितः संनिहितो देवः स्वयंव्यक्तो जगत्पतिः।
भगवान् पुण्डरीकाक्षो लोकानां हितकाम्यया ॥ 313 ॥

मूलम् - 313

स्थितः संनिहितो देवः स्वयंव्यक्तो जगत्पतिः।
भगवान् पुण्डरीकाक्षो लोकानां हितकाम्यया ॥ 313 ॥

विश्वास-प्रस्तुतिः - 314

देवदेवो जगन्नाथ एवं क्षेत्रेषु केषुचित्।
स्थापितो विबुधाद्यैस्तु सन्निधत्ते द्विजोत्तम! ॥ 314 ॥

मूलम् - 314

देवदेवो जगन्नाथ एवं क्षेत्रेषु केषुचित्।
स्थापितो विबुधाद्यैस्तु सन्निधत्ते द्विजोत्तम! ॥ 314 ॥

विश्वास-प्रस्तुतिः - 315

केषुचिन्मनुजेन्द्रैस्तु भक्तिबृंहितमानसैः।
स्थापितो विधिवद्विप्र! सन्निधत्ते जगत्पतिः ॥ 315 ॥

मूलम् - 315

केषुचिन्मनुजेन्द्रैस्तु भक्तिबृंहितमानसैः।
स्थापितो विधिवद्विप्र! सन्निधत्ते जगत्पतिः ॥ 315 ॥

विश्वास-प्रस्तुतिः - 316

एवं भगवदाकारैर्नानासंस्थानलक्षणैः।
नानाविशेषरूपैश्च नानाकार्यवशेन तु ॥ 316 ॥

मूलम् - 316

एवं भगवदाकारैर्नानासंस्थानलक्षणैः।
नानाविशेषरूपैश्च नानाकार्यवशेन तु ॥ 316 ॥

विश्वास-प्रस्तुतिः - 317

विश्वमापूरितं सर्वं सर्वानुग्रहकाम्यया।
स्वयंव्यक्तं तथासिद्धविबुधैश्च प्रतिष्ठितम् ॥ 317 ॥

मूलम् - 317

विश्वमापूरितं सर्वं सर्वानुग्रहकाम्यया।
स्वयंव्यक्तं तथासिद्धविबुधैश्च प्रतिष्ठितम् ॥ 317 ॥

विश्वास-प्रस्तुतिः - 318

मुनिमुख्यैस्तु गन्धर्वैर्यक्षैर्विद्याधरैरपि।
रक्षोभिरसुरैर्मुख्यैः स्थापितं मन्त्रविग्रहम् ॥ 318 ॥

मूलम् - 318

मुनिमुख्यैस्तु गन्धर्वैर्यक्षैर्विद्याधरैरपि।
रक्षोभिरसुरैर्मुख्यैः स्थापितं मन्त्रविग्रहम् ॥ 318 ॥

विश्वास-प्रस्तुतिः - 319

दिव्यशास्त्रोक्तविधिना पूजयेच्छास्त्रकोविदः।
स्थापितं मनुजैर्देवं मुनिवाक्योक्तमार्गतः ॥ 319 ॥

मूलम् - 319

दिव्यशास्त्रोक्तविधिना पूजयेच्छास्त्रकोविदः।
स्थापितं मनुजैर्देवं मुनिवाक्योक्तमार्गतः ॥ 319 ॥

विश्वास-प्रस्तुतिः - 320

पूजयेद् द्विज! तत्रापि ज्ञानिभिस्तत्त्बदर्शिभिः।
वासुदेवैकनिष्ठैस्तु देवतान्तरवर्जितैः ॥ 320 ॥

मूलम् - 320

पूजयेद् द्विज! तत्रापि ज्ञानिभिस्तत्त्बदर्शिभिः।
वासुदेवैकनिष्ठैस्तु देवतान्तरवर्जितैः ॥ 320 ॥

विश्वास-प्रस्तुतिः - 321

व्यामिश्रयागमुक्तैस्तु तीव्रभक्तिसमन्वितैः।
स्थापितं मनुजेन्द्रैस्तु ह्यनुवेधादिकोविदैः ॥ 321 ॥

मूलम् - 321

व्यामिश्रयागमुक्तैस्तु तीव्रभक्तिसमन्वितैः।
स्थापितं मनुजेन्द्रैस्तु ह्यनुवेधादिकोविदैः ॥ 321 ॥

विश्वास-प्रस्तुतिः - 322

अर्चयेद्देवदेवेशं दिव्यशास्त्रोक्तवर्त्मना।
मुनिवाक्योक्तमार्गेण पूजनं यत्र वर्तते ॥ 322 ॥

मूलम् - 322

अर्चयेद्देवदेवेशं दिव्यशास्त्रोक्तवर्त्मना।
मुनिवाक्योक्तमार्गेण पूजनं यत्र वर्तते ॥ 322 ॥

विश्वास-प्रस्तुतिः - 323

तत्रापि दिव्यमार्गाच्चेत् पूजनं कर्तुमिच्छति।
मुनिमार्गं परित्यज्य दिव्यमार्गेण पूजयेत् ॥ 323 ॥

मूलम् - 323

तत्रापि दिव्यमार्गाच्चेत् पूजनं कर्तुमिच्छति।
मुनिमार्गं परित्यज्य दिव्यमार्गेण पूजयेत् ॥ 323 ॥

विश्वास-प्रस्तुतिः - 324

भवेत् सन्निधिमाहात्म्यं कालं कल्पक्षयावधि।
दिव्यमार्गेण पूजाद्यं वर्तते यत्र नित्यशः ॥ 324 ॥

मूलम् - 324

भवेत् सन्निधिमाहात्म्यं कालं कल्पक्षयावधि।
दिव्यमार्गेण पूजाद्यं वर्तते यत्र नित्यशः ॥ 324 ॥

विश्वास-प्रस्तुतिः - 325

तत्र दिव्यं परित्यज्य न कदाचिन्महामते!।
मुनिवाक्योक्तमार्गेण कुर्यात् संपूजनादिकम् ॥ 325 ॥

मूलम् - 325

तत्र दिव्यं परित्यज्य न कदाचिन्महामते!।
मुनिवाक्योक्तमार्गेण कुर्यात् संपूजनादिकम् ॥ 325 ॥

विश्वास-प्रस्तुतिः - 326

कुर्याद्वा यदि संमोहाद्विप्रः संमूढचेतनः।
संप्रयात्यचिरातस्य भक्तिर्बीजेन वै सह ॥ 326 ॥

मूलम् - 326

कुर्याद्वा यदि संमोहाद्विप्रः संमूढचेतनः।
संप्रयात्यचिरातस्य भक्तिर्बीजेन वै सह ॥ 326 ॥

विश्वास-प्रस्तुतिः - 327

समन्त्रं कर्मतन्त्रं च सिद्धयश्च पराङ्‌मुखाः।
इहैव शीघ्रं विप्रेन्द्र! देहान्ते गतसन्ततिः ॥ 327 ॥

मूलम् - 327

समन्त्रं कर्मतन्त्रं च सिद्धयश्च पराङ्‌मुखाः।
इहैव शीघ्रं विप्रेन्द्र! देहान्ते गतसन्ततिः ॥ 327 ॥

विश्वास-प्रस्तुतिः - 328

घोरं प्रयाति नरकं राजा राष्ट्रं च नश्यति।
तस्मात् सर्वप्रयत्नेन दिव्यमार्गं तु न त्यजेत् ॥ 328 ॥

मूलम् - 328

घोरं प्रयाति नरकं राजा राष्ट्रं च नश्यति।
तस्मात् सर्वप्रयत्नेन दिव्यमार्गं तु न त्यजेत् ॥ 328 ॥

विश्वास-प्रस्तुतिः - 329

तामसेन तु मार्गेण पूजनं यत्र वर्तते।
तत्रापि राजसेनैव पूजन सिद्धिदं भवेत् ॥ 329 ॥

मूलम् - 329

तामसेन तु मार्गेण पूजनं यत्र वर्तते।
तत्रापि राजसेनैव पूजन सिद्धिदं भवेत् ॥ 329 ॥

विश्वास-प्रस्तुतिः - 330

राजसेन तु पूजाद्यं वर्तते यत्र नित्यशः।
तत्रापि सात्विकेनैव पूजनं शुभदं सदा ॥ 330 ॥

मूलम् - 330

राजसेन तु पूजाद्यं वर्तते यत्र नित्यशः।
तत्रापि सात्विकेनैव पूजनं शुभदं सदा ॥ 330 ॥

विश्वास-प्रस्तुतिः - 331

सात्विकेन तु पूजाद्यं वर्तते यत्र चान्वहम्।
तत्र राजसमार्गेण न कुर्यात् पूजनादिकम् ॥ 331 ॥

मूलम् - 331

सात्विकेन तु पूजाद्यं वर्तते यत्र चान्वहम्।
तत्र राजसमार्गेण न कुर्यात् पूजनादिकम् ॥ 331 ॥

विश्वास-प्रस्तुतिः - 332

यत्र राजसमार्गेण प्रवृत्तं त्वर्चनादिकम्।
तत्र तामसमार्गेण न कुर्यादर्चनादिकम् ॥ 332 ॥

मूलम् - 332

यत्र राजसमार्गेण प्रवृत्तं त्वर्चनादिकम्।
तत्र तामसमार्गेण न कुर्यादर्चनादिकम् ॥ 332 ॥

विश्वास-प्रस्तुतिः - 333

विविधानां राजसानामन्योन्यं स्याभ संकरः।
सर्वत्रपौरुषे वाक्ये तद्‌ग्राह्यमविरोधि यत् ॥ 333 ॥

मूलम् - 333

विविधानां राजसानामन्योन्यं स्याभ संकरः।
सर्वत्रपौरुषे वाक्ये तद्‌ग्राह्यमविरोधि यत् ॥ 333 ॥

सनकः ---
विश्वास-प्रस्तुतिः - 334

केवलं तद्विधानेन न कुर्यात् स्थापनादिकम्।
दिव्याद्यायतनानां च षूजार्थं यत् त्वयोदितम् ॥ 334 ॥

मूलम् - 334

केवलं तद्विधानेन न कुर्यात् स्थापनादिकम्।
दिव्याद्यायतनानां च षूजार्थं यत् त्वयोदितम् ॥ 334 ॥

विश्वास-प्रस्तुतिः - 335

शास्त्रं दिव्यादिभेदेन श्रोतुमिच्छामि तत्वतः।
यज्ज्ञात्वा विनिवर्तेयं शास्त्रसाङ्कर्यदोषतः ॥ 335 ॥

मूलम् - 335

शास्त्रं दिव्यादिभेदेन श्रोतुमिच्छामि तत्वतः।
यज्ज्ञात्वा विनिवर्तेयं शास्त्रसाङ्कर्यदोषतः ॥ 335 ॥

शाण्डिल्यः ---
विश्वास-प्रस्तुतिः - 336

वासुदेवेन यत्‌ प्रोक्तं शास्त्रं भगवता स्वयम्।
अनुष्टुप्‌छन्दोबन्धेन समासव्यासभेदतः ॥ 336 ॥

मूलम् - 336

वासुदेवेन यत्‌ प्रोक्तं शास्त्रं भगवता स्वयम्।
अनुष्टुप्‌छन्दोबन्धेन समासव्यासभेदतः ॥ 336 ॥

विश्वास-प्रस्तुतिः - 337

तथैव ब्रह्नरुद्रेन्द्रप्रमुखैश्च प्रवर्तितम्।
लोकेष्वपि च दिव्येषु तद्दिव्यं विद्धि सत्तम! ॥ 337 ॥

मूलम् - 337

तथैव ब्रह्नरुद्रेन्द्रप्रमुखैश्च प्रवर्तितम्।
लोकेष्वपि च दिव्येषु तद्दिव्यं विद्धि सत्तम! ॥ 337 ॥

विश्वास-प्रस्तुतिः - 338

ब्रह्नरुद्रमुखैर्देवैः ऋषिभिश्च तपोधनैः।
स्वयं प्रणीतं यच्छास्त्रं तद्विद्धि मुनिभाषितम् ॥ 338 ॥

मूलम् - 338

ब्रह्नरुद्रमुखैर्देवैः ऋषिभिश्च तपोधनैः।
स्वयं प्रणीतं यच्छास्त्रं तद्विद्धि मुनिभाषितम् ॥ 338 ॥

विश्वास-प्रस्तुतिः - 339

एतत्तु त्रिविधं विद्धि सात्विकादिविभेदतः।
विज्ञाय पुण्डरीकाक्षादर्थजालं यथास्थितम् ॥ 339 ॥

मूलम् - 339

एतत्तु त्रिविधं विद्धि सात्विकादिविभेदतः।
विज्ञाय पुण्डरीकाक्षादर्थजालं यथास्थितम् ॥ 339 ॥

विश्वास-प्रस्तुतिः - 340

तद्बोधकं प्रणीतं यच्छास्त्रं तत् सात्विकं स्मृतम्।
तस्माज्ज्ञातेऽर्थजाते तु किञ्चित्‌ समवलम्ब्य च ॥ 340 ॥

मूलम् - 340

तद्बोधकं प्रणीतं यच्छास्त्रं तत् सात्विकं स्मृतम्।
तस्माज्ज्ञातेऽर्थजाते तु किञ्चित्‌ समवलम्ब्य च ॥ 340 ॥

विश्वास-प्रस्तुतिः - 341

स्वबुद्धयुन्मुषितस्यैव ह्यर्थजातस्य बोधकम्।
यत् प्रणीतं द्विजश्रेष्ठ! तथा विज्ञाय तत्वतः ॥ 341 ॥

मूलम् - 341

स्वबुद्धयुन्मुषितस्यैव ह्यर्थजातस्य बोधकम्।
यत् प्रणीतं द्विजश्रेष्ठ! तथा विज्ञाय तत्वतः ॥ 341 ॥

विश्वास-प्रस्तुतिः - 342

ग्रन्थविस्तरसंयुक्तं शास्त्रं सर्वेश्वरेश्वरात्।
तत्संक्षेपप्रसादेन स्वविकल्पविजृम्भणैः ॥ 342 ॥

मूलम् - 342

ग्रन्थविस्तरसंयुक्तं शास्त्रं सर्वेश्वरेश्वरात्।
तत्संक्षेपप्रसादेन स्वविकल्पविजृम्भणैः ॥ 342 ॥

विश्वास-प्रस्तुतिः - 343

व्रह्नादिभिः प्रणीतं यत्‌ तथा तदृषिभिर्द्विज!।
ब्रह्नादिभ्यः परिश्रुत्य तत् संक्षेपात्मना पुनः ॥ 343 ॥

मूलम् - 343

व्रह्नादिभिः प्रणीतं यत्‌ तथा तदृषिभिर्द्विज!।
ब्रह्नादिभ्यः परिश्रुत्य तत् संक्षेपात्मना पुनः ॥ 343 ॥

विश्वास-प्रस्तुतिः - 344

स्वविकल्पात् प्रणीतं यत् तत् सर्वं विद्धि राजसम्।
तत् स्याद् द्वेधा पञ्चरात्रवैस्वानसविभेदतः ॥ 344 ॥

मूलम् - 344

स्वविकल्पात् प्रणीतं यत् तत् सर्वं विद्धि राजसम्।
तत् स्याद् द्वेधा पञ्चरात्रवैस्वानसविभेदतः ॥ 344 ॥

विश्वास-प्रस्तुतिः - 345

केवलात् स्वविकल्पोक्तैः कृतं यत् तामसं तु तम्।
केवलं मनुजैर्यत्तु कृतं तत् पौरुषं भवेत् ॥ 345 ॥

मूलम् - 345

केवलात् स्वविकल्पोक्तैः कृतं यत् तामसं तु तम्।
केवलं मनुजैर्यत्तु कृतं तत् पौरुषं भवेत् ॥ 345 ॥

सनक :---
विश्वास-प्रस्तुतिः - 346

यैर्लिङ्गैर्वदतांश्रेष्ठ! भगवद्वाक्यपूर्वकम्।
भेदं जानामि तत्वेन तानि विस्तरतो वद ॥ 346 ॥

मूलम् - 346

यैर्लिङ्गैर्वदतांश्रेष्ठ! भगवद्वाक्यपूर्वकम्।
भेदं जानामि तत्वेन तानि विस्तरतो वद ॥ 346 ॥

शाण्डिल्य :---
विश्वास-प्रस्तुतिः - 347

यदर्थाढ्यमसन्दिग्धं स्वच्छमल्पाक्षरं स्थिरम्।
चातुरात्म्यस्वरूपेण संस्थितस्य विभोः सदा ॥ 347 ॥

मूलम् - 347

यदर्थाढ्यमसन्दिग्धं स्वच्छमल्पाक्षरं स्थिरम्।
चातुरात्म्यस्वरूपेण संस्थितस्य विभोः सदा ॥ 347 ॥

विश्वास-प्रस्तुतिः - 348

स्वाभाविकं परत्वं तु यत्र यत्र समीरितम्।
अन्यासां मन्त्रमूर्तीनां यत्र चौपाधिकं तु यत् ॥ 348 ॥

मूलम् - 348

स्वाभाविकं परत्वं तु यत्र यत्र समीरितम्।
अन्यासां मन्त्रमूर्तीनां यत्र चौपाधिकं तु यत् ॥ 348 ॥

विश्वास-प्रस्तुतिः - 349

तुर्यादिजाग्रत्पर्यन्तः पदभेदः प्रकाशितः।
भक्तानामनुकम्पार्थं यत्र वै चतुरात्मनः ॥ 349 ॥

मूलम् - 349

तुर्यादिजाग्रत्पर्यन्तः पदभेदः प्रकाशितः।
भक्तानामनुकम्पार्थं यत्र वै चतुरात्मनः ॥ 349 ॥

विश्वास-प्रस्तुतिः - 350

शक्तीशस्य विभोर्यत्र विभवः संप्रकाशितः।
अङ्गलाञ्छनभूषाणां शक्तीनां विहगेशितुः ॥ 350 ॥

मूलम् - 350

शक्तीशस्य विभोर्यत्र विभवः संप्रकाशितः।
अङ्गलाञ्छनभूषाणां शक्तीनां विहगेशितुः ॥ 350 ॥

विश्वास-प्रस्तुतिः - 351

लयादिभेदभिन्नं तु स्वरूपं यत्र भाषितम्।
बीजपिण्डपदाद्येन चातुर्विध्येन सत्तम! ॥ 351 ॥

मूलम् - 351

लयादिभेदभिन्नं तु स्वरूपं यत्र भाषितम्।
बीजपिण्डपदाद्येन चातुर्विध्येन सत्तम! ॥ 351 ॥

विश्वास-प्रस्तुतिः - 352

मन्त्राः प्रवर्तिता यत्र यत्र स्थापनकर्मणि।
अनुवेधक्रिया प्रोक्ता यत्र वै नित्यपूजनम् ॥ 352 ॥

मूलम् - 352

मन्त्राः प्रवर्तिता यत्र यत्र स्थापनकर्मणि।
अनुवेधक्रिया प्रोक्ता यत्र वै नित्यपूजनम् ॥ 352 ॥

विश्वास-प्रस्तुतिः - 353

मूलमूर्तौ तु संपूर्णं प्रोक्तं प्राधान्यतो द्विज!।
तत्र कर्तुमशक्यं यत् स्नानाद्यं तावदेव तु ॥ 353 ॥

मूलम् - 353

मूलमूर्तौ तु संपूर्णं प्रोक्तं प्राधान्यतो द्विज!।
तत्र कर्तुमशक्यं यत् स्नानाद्यं तावदेव तु ॥ 353 ॥

विश्वास-प्रस्तुतिः - 354

बिम्बान्तरे तदर्थं तु कर्मबिम्बपुरस्सरे।
विहितं दर्पणाद्येषु तदभावान्महामते! ॥ 354 ॥

मूलम् - 354

बिम्बान्तरे तदर्थं तु कर्मबिम्बपुरस्सरे।
विहितं दर्पणाद्येषु तदभावान्महामते! ॥ 354 ॥

विश्वास-प्रस्तुतिः - 355

क्ष्माजलानलवाय्वाख्यनाभसीयेन वै द्विज!।
धारणापञ्चकेनैव धारणाद्वितयेन च ॥ 355 ॥

मूलम् - 355

क्ष्माजलानलवाय्वाख्यनाभसीयेन वै द्विज!।
धारणापञ्चकेनैव धारणाद्वितयेन च ॥ 355 ॥

विश्वास-प्रस्तुतिः - 356

दहनाप्यायनाख्येन यत्र शुद्धिश्च भौतिकी।
आगमश्रुतिमूलत्वं स्वस्य यद्धयुपपादकम् ॥ 356 ॥

मूलम् - 356

दहनाप्यायनाख्येन यत्र शुद्धिश्च भौतिकी।
आगमश्रुतिमूलत्वं स्वस्य यद्धयुपपादकम् ॥ 356 ॥

विश्वास-प्रस्तुतिः - 357

तत् पारमेश्वरं वाक्यमाज्ञासिद्धं हि मोक्षदम्।
एवमादेयवाक्योत्थ आगमो यो महामते! ॥ 357 ॥

मूलम् - 357

तत् पारमेश्वरं वाक्यमाज्ञासिद्धं हि मोक्षदम्।
एवमादेयवाक्योत्थ आगमो यो महामते! ॥ 357 ॥

विश्वास-प्रस्तुतिः - 358

सन्मार्गदर्शनं कृत्स्नं विधिवादं च विद्धि तत्।
तत्प्रामाण्यात्तु यत्किञ्चित् समभ्यूह्य यथार्थतः ॥ 358 ॥

मूलम् - 358

सन्मार्गदर्शनं कृत्स्नं विधिवादं च विद्धि तत्।
तत्प्रामाण्यात्तु यत्किञ्चित् समभ्यूह्य यथार्थतः ॥ 358 ॥

विश्वास-प्रस्तुतिः - 359

पूर्वापराबिरोधेन निर्वाह्यमविचारतः।
सर्वेषां रञ्जकं गूढं निश्चयीकरणाक्षमम् ॥ 359 ॥

मूलम् - 359

पूर्वापराबिरोधेन निर्वाह्यमविचारतः।
सर्वेषां रञ्जकं गूढं निश्चयीकरणाक्षमम् ॥ 359 ॥

विश्वास-प्रस्तुतिः - 360

पारमेश्वरवाक्योक्तमर्थजालं यथास्थितम्।
प्रत्यभिज्ञापकं यद्यत् सात्विकं मुनिभाषितम् ॥ 360 ॥

मूलम् - 360

पारमेश्वरवाक्योक्तमर्थजालं यथास्थितम्।
प्रत्यभिज्ञापकं यद्यत् सात्विकं मुनिभाषितम् ॥ 360 ॥

विश्वास-प्रस्तुतिः - 361

प्रशंसकं यत् सिद्धीनां संप्रवर्तकमप्यथ।
मूलमूर्तिमनादृत्य कर्मार्चायां तु पुष्कलम् ॥ 361 ॥

मूलम् - 361

प्रशंसकं यत् सिद्धीनां संप्रवर्तकमप्यथ।
मूलमूर्तिमनादृत्य कर्मार्चायां तु पुष्कलम् ॥ 361 ॥

विश्वास-प्रस्तुतिः - 362

नित्यसंपूजनं प्रोक्तं प्राधान्येन तु यत्र वै।
ब्रह्नरुद्रादिबिम्बानां प्रमाणं लक्षणं तथा ॥ 362 ॥

मूलम् - 362

नित्यसंपूजनं प्रोक्तं प्राधान्येन तु यत्र वै।
ब्रह्नरुद्रादिबिम्बानां प्रमाणं लक्षणं तथा ॥ 362 ॥

विश्वास-प्रस्तुतिः - 363

स्थापनं यत्र निर्दिष्टं यत्र वै जगतां पतेः।
पूजनं तु समुद्दिष्टं प्राकृतानां जडात्मनाम् ॥ 363 ॥

मूलम् - 363

स्थापनं यत्र निर्दिष्टं यत्र वै जगतां पतेः।
पूजनं तु समुद्दिष्टं प्राकृतानां जडात्मनाम् ॥ 363 ॥

विश्वास-प्रस्तुतिः - 364

तत्वानामपि विप्रेन्द्र! दिशां कालस्य वाचकैः।
परमेष्ठ्यादिभिर्मन्त्रैः पञ्चभिर्यत्र वै क्रमात् ॥ 364 ॥

मूलम् - 364

तत्वानामपि विप्रेन्द्र! दिशां कालस्य वाचकैः।
परमेष्ठ्यादिभिर्मन्त्रैः पञ्चभिर्यत्र वै क्रमात् ॥ 364 ॥

विश्वास-प्रस्तुतिः - 365

स्थापनादिप्रतिष्ठान्तं पञ्चकं समुदीरितम्।
यागपूर्वा हरिस्तोमपर्यन्ताः सप्त कीर्तिताः ॥ 365 ॥

मूलम् - 365

स्थापनादिप्रतिष्ठान्तं पञ्चकं समुदीरितम्।
यागपूर्वा हरिस्तोमपर्यन्ताः सप्त कीर्तिताः ॥ 365 ॥

विश्वास-प्रस्तुतिः - 366

यागा यत्र तथा सप्त तत्क्रमादधिकारिणः।
उक्तं यत्र प्रतिष्ठया षोडशन्यासकल्पनम् ॥ 366 ॥

मूलम् - 366

यागा यत्र तथा सप्त तत्क्रमादधिकारिणः।
उक्तं यत्र प्रतिष्ठया षोडशन्यासकल्पनम् ॥ 366 ॥

विश्वास-प्रस्तुतिः - 367

एतज्जानीहि तत् सर्वं राजसं मुनिभाषितम्।
भगवन्तं समुद्दिश्य ह्यङ्गभावं विनैव तु ॥ 367 ॥

मूलम् - 367

एतज्जानीहि तत् सर्वं राजसं मुनिभाषितम्।
भगवन्तं समुद्दिश्य ह्यङ्गभावं विनैव तु ॥ 367 ॥

विश्वास-प्रस्तुतिः - 368

ब्रह्नरुद्रमुखानां तु विबुधानां तथैव च।
मातॄणामपि दुर्गायाः स्वातन्त्र्येण तु यत्र वै ॥ 368 ॥

मूलम् - 368

ब्रह्नरुद्रमुखानां तु विबुधानां तथैव च।
मातॄणामपि दुर्गायाः स्वातन्त्र्येण तु यत्र वै ॥ 368 ॥

विश्वास-प्रस्तुतिः - 369

मन्त्रं ध्यानं प्रमाणं च लक्षणं स्थापनं तथा।
निर्दिष्टं तामसं नाम मुनिवाक्यं तु विद्धि तत् ॥ 369 ॥

मूलम् - 369

मन्त्रं ध्यानं प्रमाणं च लक्षणं स्थापनं तथा।
निर्दिष्टं तामसं नाम मुनिवाक्यं तु विद्धि तत् ॥ 369 ॥

विश्वास-प्रस्तुतिः - 370

अनर्थकमसंबद्धमल्पार्थं शब्दडम्बरम्।
अनिर्वाहकमाद्योक्तेर्वाक्यं तत् पौरुषं स्मृतम् ॥ 370 ॥

मूलम् - 370

अनर्थकमसंबद्धमल्पार्थं शब्दडम्बरम्।
अनिर्वाहकमाद्योक्तेर्वाक्यं तत् पौरुषं स्मृतम् ॥ 370 ॥

विश्वास-प्रस्तुतिः - 371

हेयं चानर्थसिद्धीनामाकरं नरकावहम्।
पारमेश्वरवाक्यार्थैर्यद्विरोधि न तद् द्विज! ॥ 371 ॥

मूलम् - 371

हेयं चानर्थसिद्धीनामाकरं नरकावहम्।
पारमेश्वरवाक्यार्थैर्यद्विरोधि न तद् द्विज! ॥ 371 ॥

विश्वास-प्रस्तुतिः - 372

संग्राह्यं सात्विकाद्येषु मुनिवाक्येषु यत्नतः।
यद्दिव्यापेक्षितं विप्र! संग्राह्यमविरोधि तत् ॥ 372 ॥

मूलम् - 372

संग्राह्यं सात्विकाद्येषु मुनिवाक्येषु यत्नतः।
यद्दिव्यापेक्षितं विप्र! संग्राह्यमविरोधि तत् ॥ 372 ॥

विश्वास-प्रस्तुतिः - 373

सात्विकादिक्रमात्तेषु समभ्यूह्य महामते!।
प्रसिद्धार्थानुपादाय सङ्गतार्थं विलक्षणम् ॥ 373 ॥

मूलम् - 373

सात्विकादिक्रमात्तेषु समभ्यूह्य महामते!।
प्रसिद्धार्थानुपादाय सङ्गतार्थं विलक्षणम् ॥ 373 ॥

अपि चेत् पौरुषं वाक्यं ग्राह्यं तन्मुनिवाक्यवत्। सनक :--- दिव्यपूर्वाणि शास्त्राणि प्रोक्तैरेतैस्तु लिङ्गकैः ॥ 374 ॥
विश्वास-प्रस्तुतिः - 375

लिङ्गितानि द्विजश्रेष्ठ! व्यक्तनामान्वितानि च।
कौतूहलं हि मे श्रोतुं प्रब्रूहि गणशस्तथा ॥ 375 ॥

मूलम् - 375

लिङ्गितानि द्विजश्रेष्ठ! व्यक्तनामान्वितानि च।
कौतूहलं हि मे श्रोतुं प्रब्रूहि गणशस्तथा ॥ 375 ॥

विज्ञातव्यान्यसंकीर्णं यथा च स्वल्पबुद्धिभिः। शाण्डिल्य :--- सात्वतं पौष्करं चैव जयाख्यं च तथैव च ॥ 376 ॥
विश्वास-प्रस्तुतिः - 377

एवमादीनि शास्त्राणि दिव्यानीत्यवधारय।
संहिता चेश्वरस्यापि भरद्वाजस्य संहिता ॥ 377 ॥

मूलम् - 377

एवमादीनि शास्त्राणि दिव्यानीत्यवधारय।
संहिता चेश्वरस्यापि भरद्वाजस्य संहिता ॥ 377 ॥

विश्वास-प्रस्तुतिः - 378

सौमन्तवी तथा ह्येतत् पारमेश्वरसंज्ञितम्।
वैहायसी संहिता च शास्त्रं चित्रशिखण्डिजम् ॥ 378 ॥

मूलम् - 378

सौमन्तवी तथा ह्येतत् पारमेश्वरसंज्ञितम्।
वैहायसी संहिता च शास्त्रं चित्रशिखण्डिजम् ॥ 378 ॥

विश्वास-प्रस्तुतिः - 379

तथा जयोत्तरं तत्र एवमादीनि तत्वतः।
सात्विकानि विजानीहि मुनिवाक्यानि सत्तम! ॥ 379 ॥

मूलम् - 379

तथा जयोत्तरं तत्र एवमादीनि तत्वतः।
सात्विकानि विजानीहि मुनिवाक्यानि सत्तम! ॥ 379 ॥

विश्वास-प्रस्तुतिः - 380

तन्त्रं सनत्कुमारख्यं तथा पझोद्भवाभिधम्।
सत्यापि तेजोद्रविणं मायावैभविकं तथा ॥ 380 ॥

मूलम् - 380

तन्त्रं सनत्कुमारख्यं तथा पझोद्भवाभिधम्।
सत्यापि तेजोद्रविणं मायावैभविकं तथा ॥ 380 ॥

विश्वास-प्रस्तुतिः - 381

इत्यादीन्यवगच्छ त्वं राजसान्येव तत्वतः।
पञ्चप्रश्नं शुकप्रश्नं तत्वसागरसंहिता ॥ 381 ॥

मूलम् - 381

इत्यादीन्यवगच्छ त्वं राजसान्येव तत्वतः।
पञ्चप्रश्नं शुकप्रश्नं तत्वसागरसंहिता ॥ 381 ॥

विश्वास-प्रस्तुतिः - 382

इत्यादीन्यवबुद्ध्यस्व तामसानि विशेषतः।
पूर्वोक्तलक्षणेनैव ज्ञातव्यं तत्र पौरुषम् ॥ 382 ॥

मूलम् - 382

इत्यादीन्यवबुद्ध्यस्व तामसानि विशेषतः।
पूर्वोक्तलक्षणेनैव ज्ञातव्यं तत्र पौरुषम् ॥ 382 ॥

विश्वास-प्रस्तुतिः - 383

प्रासादानां च शास्त्राणां यथावत् संप्रकाशितम्।
भेदं दिव्यादिकं सम्यग्‌ ज्ञात्वा सर्वं समाचरेत् ॥ 383 ॥

मूलम् - 383

प्रासादानां च शास्त्राणां यथावत् संप्रकाशितम्।
भेदं दिव्यादिकं सम्यग्‌ ज्ञात्वा सर्वं समाचरेत् ॥ 383 ॥

विश्वास-प्रस्तुतिः - 384

यो न ज्ञात्वा तु साङ्कर्यं (र्यात्) पूजाद्यमनुतिष्ठति।
स हि सर्वस्य जगतः साङ्कर्यं कुरुते सदा ॥ 384 ॥

मूलम् - 384

यो न ज्ञात्वा तु साङ्कर्यं (र्यात्) पूजाद्यमनुतिष्ठति।
स हि सर्वस्य जगतः साङ्कर्यं कुरुते सदा ॥ 384 ॥

विश्वास-प्रस्तुतिः - 385

विशेषात् स्वस्य वंशस्य तस्मादापद्यपि द्विज!।
न कुर्याच्छास्त्रसाङ्कर्यं हितैषी शास्त्रकोबिदः ॥ 385 ॥

मूलम् - 385

विशेषात् स्वस्य वंशस्य तस्मादापद्यपि द्विज!।
न कुर्याच्छास्त्रसाङ्कर्यं हितैषी शास्त्रकोबिदः ॥ 385 ॥

तत् सर्वमुक्तं यत् पृष्टं किमन्यत् कथयामि ते। इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे स्वयंव्यक्तादि प्रासाददेवतानिर्णयो नाम दशमोऽध्यायः समाप्तः ॥ ***************