००९ द्वादशकालार्चनकालविभागनिर्णयः

॥ श्रीः ॥
नवमोऽध्यायः
शाण्डिल्यः —

विश्वास-प्रस्तुतिः - 1

एवं कालत्रये कुर्यात् पूजनं मन्त्रवित्तमः।
न च कालत्रयान्न्यूनं पूजनं विहितं सदा ॥ 1 ॥

मूलम् - 1

एवं कालत्रये कुर्यात् पूजनं मन्त्रवित्तमः।
न च कालत्रयान्न्यूनं पूजनं विहितं सदा ॥ 1 ॥

विश्वास-प्रस्तुतिः - 2

प्रासादेषु स्वयंव्यक्तपूर्वेषु द्विजसत्तम!।
कालत्रयं प्रधानं स्यात्तदूर्ध्वं कर्तुरिच्छया ॥ 2 ॥

मूलम् - 2

विश्वास-प्रस्तुतिः - 3

विभवापेक्षया चैव वर्धयेत यथाक्रमम्।
याव?Rद्‌द्वादशमः कालस्तावद्वै मुनिपु?Rङ्गव! ॥ 3 ॥

मूलम् - 3

विभवापेक्षया चैव वर्धयेत यथाक्रमम्।
याव?Rद्‌द्वादशमः कालस्तावद्वै मुनिपु?Rङ्गव! ॥ 3 ॥

विश्वास-प्रस्तुतिः - 4

श्रेष्ठः प्रबातकालः स्यात् त्रिषु कालेषु वै पुनः।
यथावन्मन्त्रविन्यासमात्मनः करदेहयोः ॥ 4 ॥

मूलम् - 4

विश्वास-प्रस्तुतिः - 5

हृद्यागं स्थानसंशुद्धिं सायामां भौतिकीं ततः।
नित्यं प्राभातिके कुर्यादन्यत्रेच्छानुरूपतः ॥ 5 ॥

मूलम् - 5

विश्वास-प्रस्तुतिः - 6

स्नपनं बलिदानं च कुर्यात् कालत्रये सदा।
मूर्तेरासनपूजा तु कार्या कालचतुष्टये ॥ 6 ॥

मूलम् - 6

स्नपनं बलिदानं च कुर्यात् कालत्रये सदा।
मूर्तेरासनपूजा तु कार्या कालचतुष्टये ॥ 6 ॥

विश्वास-प्रस्तुतिः - 7

पञ्चकाले भवेन्न्यासः षट्‌काले हवनक्रिया।
अत ऊर्ध्वेषु कालेषु जपान्तं पूजनं भवेत् ॥ 7 ॥

मूलम् - 7

पञ्चकाले भवेन्न्यासः षट्‌काले हवनक्रिया।
अत ऊर्ध्वेषु कालेषु जपान्तं पूजनं भवेत् ॥ 7 ॥

विश्वास-प्रस्तुतिः - 8

अलङ्कारासनाद्यं च पूर्ववत् क्रमयोगतः।
विनोक्तेन प्रकारेण ह्यन्यथा न समाचरेत् ॥ 8 ॥

मूलम् - 8

अलङ्कारासनाद्यं च पूर्ववत् क्रमयोगतः।
विनोक्तेन प्रकारेण ह्यन्यथा न समाचरेत् ॥ 8 ॥

विश्वास-प्रस्तुतिः - 9

मुख्यकल्पे तु होमान्ता नित्यनैमित्तिकात्मकाः।
पूजाः क्रमेण वै कुर्यात् तत्तद्धोमावसानिकाः ॥ 9 ॥

मूलम् - 9

विश्वास-प्रस्तुतिः - 10

अनुकल्पे तु जप्यान्तं यागानन्तरितेषु वै।
यागेषु हवनान्तेषु नित्यनैमित्तिकादिषु ॥ 10 ॥

मूलम् - 10

अनुकल्पे तु जप्यान्तं यागानन्तरितेषु वै।
यागेषु हवनान्तेषु नित्यनैमित्तिकादिषु ॥ 10 ॥

विश्वास-प्रस्तुतिः - 11

तत्तद्यागं जपान्तं च क्रमात् कृत्वा ततः परम्।
तत्तद्धोमान् मुनिश्रेष्ठ! क्रमात् कुर्याद्यथाविधि ॥ 11 ॥

मूलम् - 11

विश्वास-प्रस्तुतिः - 12

अनुकल्पेषु यागेषु ह्युपकालोदितेषु वै।
आसनार्घ्ये ततऋ पाद्यमाचामं सप्रतिग्रहम् ॥ 12 ॥

मूलम् - 12

अनुकल्पेषु यागेषु ह्युपकालोदितेषु वै।
आसनार्घ्ये ततऋ पाद्यमाचामं सप्रतिग्रहम् ॥ 12 ॥

विश्वास-प्रस्तुतिः - 13

गन्धं माल्यं तथा दीपं धूपं मात्रां क्रमेण तु।
दत्वा भोज्यावसानं तु क्रमाद्दद्याद्विधानतः ॥ 13 ॥

मूलम् - 13

गन्धं माल्यं तथा दीपं धूपं मात्रां क्रमेण तु।
दत्वा भोज्यावसानं तु क्रमाद्दद्याद्विधानतः ॥ 13 ॥

विश्वास-प्रस्तुतिः - 14

अथ द्वादशकालादि यावत् कालत्रयं द्विज!।
नाडिकानां विभागं तु क्रमेणैवावधारय ॥ 14 ॥

मूलम् - 14

अथ द्वादशकालादि यावत् कालत्रयं द्विज!।
नाडिकानां विभागं तु क्रमेणैवावधारय ॥ 14 ॥

विश्वास-प्रस्तुतिः - 15

ब्राह्नान्मुहूर्तादारभ्य सपादं घटिकाद्वयम्।
निर्वर्त्य नित्यकर्म प्राक्‌ स्नानपूर्वं यथाविधि ॥ 15 ॥

मूलम् - 15

ब्राह्नान्मुहूर्तादारभ्य सपादं घटिकाद्वयम्।
निर्वर्त्य नित्यकर्म प्राक्‌ स्नानपूर्वं यथाविधि ॥ 15 ॥

विश्वास-प्रस्तुतिः - 16

सपादैकोत्तरा नाड्यो दश प्राभातिकेऽर्चने।
ततो नाडीचतुष्कं तु भवेद्यागद्वयस्य तु ॥ 16 ॥

मूलम् - 16

सपादैकोत्तरा नाड्यो दश प्राभातिकेऽर्चने।
ततो नाडीचतुष्कं तु भवेद्यागद्वयस्य तु ॥ 16 ॥

विश्वास-प्रस्तुतिः - 17

ततस्त्वर्धोत्तरा नाड्यस्तिस्रः स्युस्स्वान्हिकस्य तु।
पश्चादर्धोत्तराः सप्त नाड्यो मध्यन्दिनार्चने ॥ 17 ॥

मूलम् - 17

विश्वास-प्रस्तुतिः - 18

भूयस्तु घटिकायुग्मं यागस्य द्विजसत्तम!।
ततोऽपराह्णयागस्य भवेत्तु घटिकात्रयम् ॥ 18 ॥

मूलम् - 18

भूयस्तु घटिकायुग्मं यागस्य द्विजसत्तम!।
ततोऽपराह्णयागस्य भवेत्तु घटिकात्रयम् ॥ 18 ॥

विश्वास-प्रस्तुतिः - 19

स्वाध्यायस्य भवेत् कालस्ततस्तु घटिकाद्वयम्।
अर्धोत्तरा भवेन्नाडी स्वस्य सायन्तनी क्रिया ॥ 19 ॥

मूलम् - 19

स्वाध्यायस्य भवेत् कालस्ततस्तु घटिकाद्वयम्।
अर्धोत्तरा भवेन्नाडी स्वस्य सायन्तनी क्रिया ॥ 19 ॥

विश्वास-प्रस्तुतिः - 20

ततः प्रदोषयागस्य सार्धाः सप्त च नाडिकाः।
ततो यागद्वयं कुर्याद्धटिकानां चतुष्टये ॥ 20 ॥

मूलम् - 20

ततः प्रदोषयागस्य सार्धाः सप्त च नाडिकाः।
ततो यागद्वयं कुर्याद्धटिकानां चतुष्टये ॥ 20 ॥

विश्वास-प्रस्तुतिः - 21

पश्चान्निशीथयागस्य भवेद्वै नाडिकात्रयम्।
भूयस्तु पूजनं विप्र! कुर्याद्वै घटिकाद्वये ॥ 21 ॥

मूलम् - 21

पश्चान्निशीथयागस्य भवेद्वै नाडिकात्रयम्।
भूयस्तु पूजनं विप्र! कुर्याद्वै घटिकाद्वये ॥ 21 ॥

विश्वास-प्रस्तुतिः - 22

ततस्तु प्रत्युषो यागः सार्धं स्यान्नाडिकाद्वयम्।
योगपूर्वं तु विश्रामश्चतस्रो नाडिकास्ततः ॥ 22 ॥

मूलम् - 22

ततस्तु प्रत्युषो यागः सार्धं स्यान्नाडिकाद्वयम्।
योगपूर्वं तु विश्रामश्चतस्रो नाडिकास्ततः ॥ 22 ॥

विश्वास-प्रस्तुतिः - 23

यत्र द्वादशकालेज्या तत्रायं कालनिर्णयः।
यत्रैकादशकालेज्या तत्रायं क्रम उच्यते ॥ 23 ॥

मूलम् - 23

यत्र द्वादशकालेज्या तत्रायं कालनिर्णयः।
यत्रैकादशकालेज्या तत्रायं क्रम उच्यते ॥ 23 ॥

विश्वास-प्रस्तुतिः - 24

निशीथयजनादूर्ध्वं प्रत्युषः पूजनं भवेत्।
यद्वा प्रादोषिकादूर्ध्वं कालमेकं विलोपयेत् ॥ 24 ॥

मूलम् - 24

निशीथयजनादूर्ध्वं प्रत्युषः पूजनं भवेत्।
यद्वा प्रादोषिकादूर्ध्वं कालमेकं विलोपयेत् ॥ 24 ॥

विश्वास-प्रस्तुतिः - 25

विश्रामस्य भवेत् कालो नाडीनां षट्‌कमेव च।
यदा तु दशकालेषु पूजनं विहितं तदा ॥ 25 ॥

मूलम् - 25

विश्रामस्य भवेत् कालो नाडीनां षट्‌कमेव च।
यदा तु दशकालेषु पूजनं विहितं तदा ॥ 25 ॥

विश्वास-प्रस्तुतिः - 26

मध्याह्नपूजनादूर्ध्वमपराह्णार्चनं भवेत्।
तथा मध्याह्णपूजायाः सार्धास्तु नव नाडिकाः ॥ 26 ॥

मूलम् - 26

मध्याह्नपूजनादूर्ध्वमपराह्णार्चनं भवेत्।
तथा मध्याह्णपूजायाः सार्धास्तु नव नाडिकाः ॥ 26 ॥

विश्वास-प्रस्तुतिः - 27

यत्र कालेषु नवसु पूजनं विहितं तदा।
निशीथपूजनात् पूर्वमेकं यागं तु लोपयेत् ॥ 27 ॥

मूलम् - 27

यत्र कालेषु नवसु पूजनं विहितं तदा।
निशीथपूजनात् पूर्वमेकं यागं तु लोपयेत् ॥ 27 ॥

विश्वास-प्रस्तुतिः - 28

दश नाड्योऽर्धहीनाः स्युस्तदा प्रादोषिकेऽर्चने।
यत्र कालाष्टके यागा विहिता द्विजसत्तम! ॥ 28 ॥

मूलम् - 28

दश नाड्योऽर्धहीनाः स्युस्तदा प्रादोषिकेऽर्चने।
यत्र कालाष्टके यागा विहिता द्विजसत्तम! ॥ 28 ॥

विश्वास-प्रस्तुतिः - 29

तदा प्राभादिकादूर्ध्वमेकं यागं विलोपयेत्।
तदा प्राभातिके यागे सांशा नाड्यस्त्रयोदश ॥ 29 ॥

मूलम् - 29

तदा प्राभादिकादूर्ध्वमेकं यागं विलोपयेत्।
तदा प्राभातिके यागे सांशा नाड्यस्त्रयोदश ॥ 29 ॥

विश्वास-प्रस्तुतिः - 30

यजनं सप्तकालेषु यदा स्याद्‌द्विजसत्तम!।
प्रदोषश्च निशीथस्च प्रत्यूषश्च तथा निशि ॥ 30 ॥

मूलम् - 30

यजनं सप्तकालेषु यदा स्याद्‌द्विजसत्तम!।
प्रदोषश्च निशीथस्च प्रत्यूषश्च तथा निशि ॥ 30 ॥

विश्वास-प्रस्तुतिः - 31

निशीथस्य भवेत् कालश्चतस्रो नाडिकास्तदा।
अर्धहीनाश्चतस्रस्तु घटिकाश्चरमस्य तु ॥ 31 ॥

मूलम् - 31

निशीथस्य भवेत् कालश्चतस्रो नाडिकास्तदा।
अर्धहीनाश्चतस्रस्तु घटिकाश्चरमस्य तु ॥ 31 ॥

विश्वास-प्रस्तुतिः - 32

यत्र वै कालषट्‌के तु पूजनं विहितं तदा।
पूर्वमध्यापराह्णास्तु दिवाकालास्त्रयः स्मृताः ॥ 32 ॥

मूलम् - 32

यत्र वै कालषट्‌के तु पूजनं विहितं तदा।
पूर्वमध्यापराह्णास्तु दिवाकालास्त्रयः स्मृताः ॥ 32 ॥

विश्वास-प्रस्तुतिः - 33

स्वस्य प्राभातकृत्यस्य सांशं नाडीत्रयं तदा।
सार्धाश्चतस्रो नाड्यस्तु स्वस्य मध्यन्दिनस्य तु ॥ 33 ॥

मूलम् - 33

स्वस्य प्राभातकृत्यस्य सांशं नाडीत्रयं तदा।
सार्धाश्चतस्रो नाड्यस्तु स्वस्य मध्यन्दिनस्य तु ॥ 33 ॥

विश्वास-प्रस्तुतिः - 34

प्रातराद्या निशीथान्ताः पञ्चकाला उदाहृताः।
तदा शिष्टास्तु घटिका योगविश्रामयोः स्मृताः ॥ 34 ॥

मूलम् - 34

प्रातराद्या निशीथान्ताः पञ्चकाला उदाहृताः।
तदा शिष्टास्तु घटिका योगविश्रामयोः स्मृताः ॥ 34 ॥

विश्वास-प्रस्तुतिः - 35

एतेऽपराह्णरहिताश्चतुष्कालाः प्रकीर्तिंताः।
पञ्चकं घटिकानां तु स्वाध्यायस्य भवेत्तदा ॥ 35 ॥

मूलम् - 35

एतेऽपराह्णरहिताश्चतुष्कालाः प्रकीर्तिंताः।
पञ्चकं घटिकानां तु स्वाध्यायस्य भवेत्तदा ॥ 35 ॥

विश्वास-प्रस्तुतिः - 36

प्रातर्मध्यन्दिनं सायं त्रयः काला यथाक्रमम्।
तदानीमवशिष्टास्तु घटिकाः स्वस्य कर्मणः ॥ 36 ॥

मूलम् - 36

प्रातर्मध्यन्दिनं सायं त्रयः काला यथाक्रमम्।
तदानीमवशिष्टास्तु घटिकाः स्वस्य कर्मणः ॥ 36 ॥

विश्वास-प्रस्तुतिः - 37

अनुकल्पे तु कालः स्यादेको माध्यन्दिनोऽथवा।
माध्यन्दिनश्च नैशश्च द्वौ कालौ शक्तितो द्विज! ॥ 37 ॥

मूलम् - 37

अनुकल्पे तु कालः स्यादेको माध्यन्दिनोऽथवा।
माध्यन्दिनश्च नैशश्च द्वौ कालौ शक्तितो द्विज! ॥ 37 ॥

विश्वास-प्रस्तुतिः - 38

यत्रावरणबाहुल्यं तथा च बलिविस्तरः।
भगवद्यागविस्तारो महता विभवेन तु ॥ 38 ॥

मूलम् - 38

यत्रावरणबाहुल्यं तथा च बलिविस्तरः।
भगवद्यागविस्तारो महता विभवेन तु ॥ 38 ॥

विश्वास-प्रस्तुतिः - 39

अनेका मूर्तयो यत्र पूज्यन्ते विस्तरेण तु।
तत्र तत्र समभ्यूह्य स्वबुद्‌ध्या तु समाचरेत् ॥ 39 ॥

मूलम् - 39

अनेका मूर्तयो यत्र पूज्यन्ते विस्तरेण तु।
तत्र तत्र समभ्यूह्य स्वबुद्‌ध्या तु समाचरेत् ॥ 39 ॥

विश्वास-प्रस्तुतिः - 40

वृद्धिं प्रधानकाले तु नाडिकानां महामते!।
संक्षेपमुपसन्ध्यासु तत्तत्कर्मानुगुण्यतः ॥ 40 ॥

मूलम् - 40

वृद्धिं प्रधानकाले तु नाडिकानां महामते!।
संक्षेपमुपसन्ध्यासु तत्तत्कर्मानुगुण्यतः ॥ 40 ॥

विश्वास-प्रस्तुतिः - 41

एवमुक्तेषु कालेषु यः पूजयति सर्वदा।
स पूजाफलमाप्नोति साकल्येन महामते! ॥ 41 ॥

मूलम् - 41

एवमुक्तेषु कालेषु यः पूजयति सर्वदा।
स पूजाफलमाप्नोति साकल्येन महामते! ॥ 41 ॥

विश्वास-प्रस्तुतिः - 42

यथा कालात्ययो न स्यात्तथा कुर्यात् प्रयत्नतः।
उक्तेऽस्मिन् समतिक्रान्ते काले दोषो भवेन्महान् ॥ 42 ॥

मूलम् - 42

यथा कालात्ययो न स्यात्तथा कुर्यात् प्रयत्नतः।
उक्तेऽस्मिन् समतिक्रान्ते काले दोषो भवेन्महान् ॥ 42 ॥

विश्वास-प्रस्तुतिः - 43

मनुजैः कल्पिते स्थाने इत्युक्ता नाडिकास्थितिः।
स्वयं व्यक्तादिकेऽप्येवं स्थानानामार्षपश्चिमे ॥ 43 ॥

मूलम् - 43

मनुजैः कल्पिते स्थाने इत्युक्ता नाडिकास्थितिः।
स्वयं व्यक्तादिकेऽप्येवं स्थानानामार्षपश्चिमे ॥ 43 ॥

विश्वास-प्रस्तुतिः - 44

चतुष्टये भवेद्विप्र! कालानां तु विनिर्णयः।
विशेषः श्रूयतामत्र नियतेष्वपि कर्मसु ॥ 44 ॥

मूलम् - 44

चतुष्टये भवेद्विप्र! कालानां तु विनिर्णयः।
विशेषः श्रूयतामत्र नियतेष्वपि कर्मसु ॥ 44 ॥

विश्वास-प्रस्तुतिः - 45

वत्सरोत्सवपूर्वेषु नानानैमित्तिकेषु च।
पवित्रारोहणान्तेषु काम्येषु विविधेषु च ॥ 45 ॥

मूलम् - 45

वत्सरोत्सवपूर्वेषु नानानैमित्तिकेषु च।
पवित्रारोहणान्तेषु काम्येषु विविधेषु च ॥ 45 ॥

विश्वास-प्रस्तुतिः - 46

तथा च प्रायश्चित्तेषु राष्ट्रभङ्गादिदोषतः।
यद्वा यजनविस्तारादसामर्थ्यादिकेन वा ॥ 46 ॥

मूलम् - 46

तथा च प्रायश्चित्तेषु राष्ट्रभङ्गादिदोषतः।
यद्वा यजनविस्तारादसामर्थ्यादिकेन वा ॥ 46 ॥

विश्वास-प्रस्तुतिः - 47

तत्तत्कर्मोदिते काले समतीते क्षणादिके।
न दोषो विद्यते विप्र! तत्तत्स्थानप्रभावतः ॥ 47 ॥

मूलम् - 47

तत्तत्कर्मोदिते काले समतीते क्षणादिके।
न दोषो विद्यते विप्र! तत्तत्स्थानप्रभावतः ॥ 47 ॥

विश्वास-प्रस्तुतिः - 48

सदागमपरैर्विप्रैः पश्चकालपरायणैः।
चातुरात्म्यैकनिष्ठैस्तु अनन्यैरधिकारिभिः ॥ 48 ॥

मूलम् - 48

सदागमपरैर्विप्रैः पश्चकालपरायणैः।
चातुरात्म्यैकनिष्ठैस्तु अनन्यैरधिकारिभिः ॥ 48 ॥

विश्वास-प्रस्तुतिः - 49

प्रागुक्तैर्व्यापकैर्मन्द्नैर्द्वादशाक्षरपूर्वकैः।
अङ्गोपाङ्गादिसंयुक्तैर्दिव्यशास्त्रोक्तमार्गतः ॥ 49 ॥

मूलम् - 49

विश्वास-प्रस्तुतिः - 50

यजनं क्रियते यत्र तत्रापि च विशेषतः।
कालातिक्रमदोषस्तु विद्यते न कदाचन ॥ 50 ॥

मूलम् - 50

यजनं क्रियते यत्र तत्रापि च विशेषतः।
कालातिक्रमदोषस्तु विद्यते न कदाचन ॥ 50 ॥

विश्वास-प्रस्तुतिः - 51

तथापि कालातिक्रान्तौ विशेषमवधारय।
व्यामिश्रयाजिभिर्वर्णैर्निर्मितायतनास्तु ये ॥ 51 ॥

मूलम् - 51

तथापि कालातिक्रान्तौ विशेषमवधारय।
व्यामिश्रयाजिभिर्वर्णैर्निर्मितायतनास्तु ये ॥ 51 ॥

विश्वास-प्रस्तुतिः - 52

तेषु कर्मणि नित्येऽपि काम्ये नैमित्तिकेऽपि वा।
विविधेऽपि तथा विप्र! प्रायश्चित्ताख्यकर्मणि ॥ 52 ॥

मूलम् - 52

तेषु कर्मणि नित्येऽपि काम्ये नैमित्तिकेऽपि वा।
विविधेऽपि तथा विप्र! प्रायश्चित्ताख्यकर्मणि ॥ 52 ॥

विश्वास-प्रस्तुतिः - 53

तत्तदुक्तस्य कालस्य मुहूर्तस्याप्यतिक्रमे।
कर्तुर्गुरोश्च स्थानस्य तस्य दोषो महान् भवेत् ॥ 53 ॥

मूलम् - 53

तत्तदुक्तस्य कालस्य मुहूर्तस्याप्यतिक्रमे।
कर्तुर्गुरोश्च स्थानस्य तस्य दोषो महान् भवेत् ॥ 53 ॥

विश्वास-प्रस्तुतिः - 54

अनन्यशरणैर्वर्णैः स्थाने तु परिकल्पिते।
आरम्भः प्रातरिज्याया अपि यामाष्टमांशकम् ॥ 54 ॥

मूलम् - 54

अनन्यशरणैर्वर्णैः स्थाने तु परिकल्पिते।
आरम्भः प्रातरिज्याया अपि यामाष्टमांशकम् ॥ 54 ॥

विश्वास-प्रस्तुतिः - 55

नातिक्रामेन्न मध्याह्नः साष्टांशं प्रहरद्वयम्।
न च सायन्तनारम्भो रात्रौ यामाष्टमांशकम् ॥ 55 ॥

मूलम् - 55

नातिक्रामेन्न मध्याह्नः साष्टांशं प्रहरद्वयम्।
न च सायन्तनारम्भो रात्रौ यामाष्टमांशकम् ॥ 55 ॥

विश्वास-प्रस्तुतिः - 56

निशीथपूजानारम्भो न च नाडीस्त्रयोदश।
प्रत्युषः पूजनारम्भः न च ह्येकोनविंशतिम् ॥ 56 ॥

मूलम् - 56

निशीथपूजानारम्भो न च नाडीस्त्रयोदश।
प्रत्युषः पूजनारम्भः न च ह्येकोनविंशतिम् ॥ 56 ॥

विश्वास-प्रस्तुतिः - 57

अतिक्रमेच्चेद्दोषः स्यात् कर्त्रादित्रितयस्य च।
नैमित्तिकादिके प्राग्वद्भवेद्दोषस्य निर्णयः ॥ 57 ॥

मूलम् - 57

अतिक्रमेच्चेद्दोषः स्यात् कर्त्रादित्रितयस्य च।
नैमित्तिकादिके प्राग्वद्भवेद्दोषस्य निर्णयः ॥ 57 ॥

विश्वास-प्रस्तुतिः - 58

सच्छूद्रैः कल्पिते विप्र! स्थाने तु विनिबोध मे।
अहनि प्रातरारम्भो यामांशं न व्यतिक्रमेत् ॥ 58 ॥

मूलम् - 58

सच्छूद्रैः कल्पिते विप्र! स्थाने तु विनिबोध मे।
अहनि प्रातरारम्भो यामांशं न व्यतिक्रमेत् ॥ 58 ॥

विश्वास-प्रस्तुतिः - 59

न च माध्यन्दिनारम्भः सपादं प्रहरद्वयम्।
रात्रौ सायन्तनारम्भो यामांशं न व्यतिक्रमेत् ॥ 59 ॥

मूलम् - 59

न च माध्यन्दिनारम्भः सपादं प्रहरद्वयम्।
रात्रौ सायन्तनारम्भो यामांशं न व्यतिक्रमेत् ॥ 59 ॥

विश्वास-प्रस्तुतिः - 60

निशीथयजनारम्भो न च नाडीद्विसप्तकम्।
नातिक्रामेत् प्रत्युषस्तु विंशतिं यद्यतिक्रमेत् ॥ 60 ॥

मूलम् - 60

निशीथयजनारम्भो न च नाडीद्विसप्तकम्।
नातिक्रामेत् प्रत्युषस्तु विंशतिं यद्यतिक्रमेत् ॥ 60 ॥

विश्वास-प्रस्तुतिः - 61

सबन्धुकस्य वै कर्तुः स्थानस्य च गुरोर्भवेत्।
भयं नैमित्तिकादीनां प्राग्वत्तत्तदतिक्रमे ॥ 61 ॥

मूलम् - 61

सबन्धुकस्य वै कर्तुः स्थानस्य च गुरोर्भवेत्।
भयं नैमित्तिकादीनां प्राग्वत्तत्तदतिक्रमे ॥ 61 ॥

विश्वास-प्रस्तुतिः - 62

सद्वैश्यैः कल्पिते स्थाने विभागमवधारय।
प्रागिज्योपक्रमे नाडीद्वितयं ह्युदयात् परम् ॥ 62 ॥

मूलम् - 62

सद्वैश्यैः कल्पिते स्थाने विभागमवधारय।
प्रागिज्योपक्रमे नाडीद्वितयं ह्युदयात् परम् ॥ 62 ॥

विश्वास-प्रस्तुतिः - 63

नातिक्रमेन्न माध्याह्नो ह्यष्टाविंशतिनाडिकाः।
रात्रौ सायन्तनारम्भक्त्रितयं न व्यतिक्रमेत् ॥ 63 ॥

मूलम् - 63

नातिक्रमेन्न माध्याह्नो ह्यष्टाविंशतिनाडिकाः।
रात्रौ सायन्तनारम्भक्त्रितयं न व्यतिक्रमेत् ॥ 63 ॥

विश्वास-प्रस्तुतिः - 64

निशीथयजनारम्भो यामौ द्वौ न ह्यतिक्रमेत्।
प्रत्युषः पूजनारम्भो न च नाड्येकविंशतिम् ॥ 64 ॥

मूलम् - 64

निशीथयजनारम्भो यामौ द्वौ न ह्यतिक्रमेत्।
प्रत्युषः पूजनारम्भो न च नाड्येकविंशतिम् ॥ 64 ॥

विश्वास-प्रस्तुतिः - 65

नैमित्तिकाद्यं त्रितयं न च कालमतिक्रमेत्।
प्रागुक्तं यद्यतिक्रामेत् कर्तुर्वै देशिकस्य च ॥ 65 ॥

मूलम् - 65

नैमित्तिकाद्यं त्रितयं न च कालमतिक्रमेत्।
प्रागुक्तं यद्यतिक्रामेत् कर्तुर्वै देशिकस्य च ॥ 65 ॥

विश्वास-प्रस्तुतिः - 66

सबन्धुकस्य जायेत महाव्याध्यादिपीडनम्।
स्थानस्य धान्यनाशः स्यान्महाभूतैरुपप्लवः ॥ 66 ॥

मूलम् - 66

सबन्धुकस्य जायेत महाव्याध्यादिपीडनम्।
स्थानस्य धान्यनाशः स्यान्महाभूतैरुपप्लवः ॥ 66 ॥

विश्वास-प्रस्तुतिः - 67

सदागमज्ञैः क्षत्रैस्तु क्लृप्ते वक्ष्याम्यतः परम्।
प्रातरिज्यासमारम्भो यामार्धं न ह्यतिक्रमेत् ॥ 67 ॥

मूलम् - 67

विश्वास-प्रस्तुतिः - 68

न च माध्यन्दिनारम्भः सार्धं यामद्वयं द्विज!।
न च सायन्तनारम्भो यामार्धं न ह्यतिकमेत् ॥ 68 ॥

मूलम् - 68

न च माध्यन्दिनारम्भः सार्धं यामद्वयं द्विज!।
न च सायन्तनारम्भो यामार्धं न ह्यतिकमेत् ॥ 68 ॥

विश्वास-प्रस्तुतिः - 69

निशीथयजनारम्भो नाडीषोडशकं न च।
यामत्रयं तदन्यस्तु न च नैमित्तिकादिकम् ॥ 69 ॥

मूलम् - 69

निशीथयजनारम्भो नाडीषोडशकं न च।
यामत्रयं तदन्यस्तु न च नैमित्तिकादिकम् ॥ 69 ॥

विश्वास-प्रस्तुतिः - 70

उक्तं कालमतिक्रामेत् प्रमादाद्यद्यतिक्रमेत्।
देशक्षोभादिदोषः स्यात् पूर्वोक्तत्रितयस्य च ॥ 70 ॥

मूलम् - 70

उक्तं कालमतिक्रामेत् प्रमादाद्यद्यतिक्रमेत्।
देशक्षोभादिदोषः स्यात् पूर्वोक्तत्रितयस्य च ॥ 70 ॥

विश्वास-प्रस्तुतिः - 71

पञ्चकालपरैर्विप्रैः कल्पितेऽपि निबोध मे।
प्रागिज्योपक्रमो नाडीपञ्चकं न व्यतिक्रमेत् ॥ 71 ॥

मूलम् - 71

पञ्चकालपरैर्विप्रैः कल्पितेऽपि निबोध मे।
प्रागिज्योपक्रमो नाडीपञ्चकं न व्यतिक्रमेत् ॥ 71 ॥

विश्वास-प्रस्तुतिः - 72

न च माध्यन्दिनारभ्भो नाडिकानां तु विंशतिम्।
न च सायन्तनारम्भो नाडीष्ट्‌कमतिक्रमेत् ॥ 72 ॥

मूलम् - 72

न च माध्यन्दिनारभ्भो नाडिकानां तु विंशतिम्।
न च सायन्तनारम्भो नाडीष्ट्‌कमतिक्रमेत् ॥ 72 ॥

विश्वास-प्रस्तुतिः - 73

नातिक्रमेन्निशीथेज्या नाड्यः सप्तोत्तरा दश।
चतुर्विंशतिमन्तेज्या नाडीनां न ह्यतिक्रमेत् ॥ 73 ॥

मूलम् - 73

नातिक्रमेन्निशीथेज्या नाड्यः सप्तोत्तरा दश।
चतुर्विंशतिमन्तेज्या नाडीनां न ह्यतिक्रमेत् ॥ 73 ॥

विश्वास-प्रस्तुतिः - 74

न च नैमित्तिकाद्यस्य प्राप्तकालव्यतिक्रमः।
एवमुक्तं तु नियमं येन केनाप्यतिक्रमेत् ॥ 74 ॥

मूलम् - 74

न च नैमित्तिकाद्यस्य प्राप्तकालव्यतिक्रमः।
एवमुक्तं तु नियमं येन केनाप्यतिक्रमेत् ॥ 74 ॥

विश्वास-प्रस्तुतिः - 75

स्थानभ्रंशादिदोषः स्याद्देशिकादित्रयस्य च।
ऋषिभिः कल्पिते स्थाने विशेषमवधारय ॥ 75 ॥

मूलम् - 75

स्थानभ्रंशादिदोषः स्याद्देशिकादित्रयस्य च।
ऋषिभिः कल्पिते स्थाने विशेषमवधारय ॥ 75 ॥

विश्वास-प्रस्तुतिः - 76

नातिक्रमेत् प्रागिज्याया नाडीषट्‌कमुपक्रमः।
माध्यन्दिनसमारम्भो न च नाड्येकविंशतिम् ॥ 76 ॥

मूलम् - 76

नातिक्रमेत् प्रागिज्याया नाडीषट्‌कमुपक्रमः।
माध्यन्दिनसमारम्भो न च नाड्येकविंशतिम् ॥ 76 ॥

विश्वास-प्रस्तुतिः - 77

सायमिज्यासमारम्भो नाडीनां न च सप्तकम्।
नातिक्रामेन्निशीथेज्या नाड्यष्टादशकं द्विज! ॥ 77 ॥

मूलम् - 77

सायमिज्यासमारम्भो नाडीनां न च सप्तकम्।
नातिक्रामेन्निशीथेज्या नाड्यष्टादशकं द्विज! ॥ 77 ॥

विश्वास-प्रस्तुतिः - 78

नातिक्रामेत् पश्विमेज्या नाडिकापञ्चपञ्चकम्।
अतिक्रमेच्चेत् कर्तुः स्यात् क्षयव्याधिप्रपीडनम् ॥ 78 ॥

मूलम् - 78

नातिक्रामेत् पश्विमेज्या नाडिकापञ्चपञ्चकम्।
अतिक्रमेच्चेत् कर्तुः स्यात् क्षयव्याधिप्रपीडनम् ॥ 78 ॥

विश्वास-प्रस्तुतिः - 79

तद्देशे स्यादनावृष्टिः स्थानस्य च महद्भयम्।
कल्पिते मन्त्रसिद्धैस्तु स्थाने समवधारय ॥ 79 ॥

मूलम् - 79

तद्देशे स्यादनावृष्टिः स्थानस्य च महद्भयम्।
कल्पिते मन्त्रसिद्धैस्तु स्थाने समवधारय ॥ 79 ॥

विश्वास-प्रस्तुतिः - 80

आरम्भः प्रातरिज्यायाः प्रहरं न ह्यतिक्रमेत्।
एकविंशतिकं सार्धं मद्याह्नो न व्यतिक्रमेत् ॥ 80 ॥

मूलम् - 80

आरम्भः प्रातरिज्यायाः प्रहरं न ह्यतिक्रमेत्।
एकविंशतिकं सार्धं मद्याह्नो न व्यतिक्रमेत् ॥ 80 ॥

विश्वास-प्रस्तुतिः - 81

नातिक्रमेत्तु प्रहरं सायं याग उपक्रमः।
निशीथयागो नाडीनां न च त्वेकोनविंशतिम् ॥ 81 ॥

मूलम् - 81

नातिक्रमेत्तु प्रहरं सायं याग उपक्रमः।
निशीथयागो नाडीनां न च त्वेकोनविंशतिम् ॥ 81 ॥

विश्वास-प्रस्तुतिः - 82

षड्विंशतिमतिक्रामेन्न च पश्चिमपूजनम्।
अतिक्रमेच्चेद्वे कर्तुः पुत्रहानिर्भविष्यति ॥ 82 ॥

मूलम् - 82

षड्विंशतिमतिक्रामेन्न च पश्चिमपूजनम्।
अतिक्रमेच्चेद्वे कर्तुः पुत्रहानिर्भविष्यति ॥ 82 ॥

विश्वास-प्रस्तुतिः - 83

स्थाने द्रव्यविनाशः स्याद्राष्ट्रस्य व्याधिपीडनम्।
दिव्यस्थानेऽथ वक्ष्यामि प्रागिज्याया उपक्रमः ॥ 83 ॥

मूलम् - 83

विश्वास-प्रस्तुतिः - 84

अष्टकं न त्वतिक्रामेन्नाडीनां द्विजसत्तम!।
द्वाविंशतिं न मध्याह्नो न च सायन्तनोऽष्टकम् ॥ 84 ॥

मूलम् - 84

अष्टकं न त्वतिक्रामेन्नाडीनां द्विजसत्तम!।
द्वाविंशतिं न मध्याह्नो न च सायन्तनोऽष्टकम् ॥ 84 ॥

विश्वास-प्रस्तुतिः - 85

विंशतिं न निशीथेज्या सप्तविंशतिमन्तिमः।
नातिक्रामेन्मुनिश्रेष्ठ! प्रमादाद्यद्यतिक्रमेत् ॥ 85 ॥

मूलम् - 85

विंशतिं न निशीथेज्या सप्तविंशतिमन्तिमः।
नातिक्रामेन्मुनिश्रेष्ठ! प्रमादाद्यद्यतिक्रमेत् ॥ 85 ॥

विश्वास-प्रस्तुतिः - 86

देशाधिपस्य पीडा स्याज्ज्वरादिव्याधिभिः सदा।
स्थाने धान्यादिनाशः स्यात्तत्तद्देशनिवासिनाम् ॥ 86 ॥

मूलम् - 86

देशाधिपस्य पीडा स्याज्ज्वरादिव्याधिभिः सदा।
स्थाने धान्यादिनाशः स्यात्तत्तद्देशनिवासिनाम् ॥ 86 ॥

विश्वास-प्रस्तुतिः - 87

अथ स्थाने स्वयं व्यक्ते श्रृणु कालविधिं द्विज!।
प्रथमेज्यासमारम्भो घटिकादशकं न च ॥ 87 ॥

मूलम् - 87

अथ स्थाने स्वयं व्यक्ते श्रृणु कालविधिं द्विज!।
प्रथमेज्यासमारम्भो घटिकादशकं न च ॥ 87 ॥

विश्वास-प्रस्तुतिः - 88

अतिक्रामेन्न मध्याह्नो नाडीनां पञ्चविंशतिम्।
सायमिज्यासमारम्भो दशकं न ह्यतिक्रमेत् ॥ 88 ॥

मूलम् - 88

अतिक्रामेन्न मध्याह्नो नाडीनां पञ्चविंशतिम्।
सायमिज्यासमारम्भो दशकं न ह्यतिक्रमेत् ॥ 88 ॥

विश्वास-प्रस्तुतिः - 89

द्वाविंशतिं निशीथेज्या नातिक्रामेत पश्चिमः।
आदित्योदयवेलां तु नातिक्रामेत् कदाचन ॥ 89 ॥

मूलम् - 89

द्वाविंशतिं निशीथेज्या नातिक्रामेत पश्चिमः।
आदित्योदयवेलां तु नातिक्रामेत् कदाचन ॥ 89 ॥

विश्वास-प्रस्तुतिः - 90

प्रमादाद्‌बुद्धिपूर्वाद्वा अतिक्रामेद्यदि द्विज!।
अरातिभिः परिभवो महाव्याध्यादिपीडनम् ॥ 90 ॥

मूलम् - 90

प्रमादाद्‌बुद्धिपूर्वाद्वा अतिक्रामेद्यदि द्विज!।
अरातिभिः परिभवो महाव्याध्यादिपीडनम् ॥ 90 ॥

विश्वास-प्रस्तुतिः - 91

सदा देशाधिपस्य स्यात् प्रजानां व्याधिपीडनम्।
तत्स्थानस्य न सम्पत्तिस्तद्देशे वृष्टिवर्जनम् ॥ 91 ॥

मूलम् - 91

सदा देशाधिपस्य स्यात् प्रजानां व्याधिपीडनम्।
तत्स्थानस्य न सम्पत्तिस्तद्देशे वृष्टिवर्जनम् ॥ 91 ॥

विश्वास-प्रस्तुतिः - 92

नित्यनैमित्तिकं कर्म नक्षत्रादिनिमित्तकम्।
तत्तत्कर्मोदितं कालं नातिक्रामेत्तु मानुषे ॥ 92 ॥

मूलम् - 92

नित्यनैमित्तिकं कर्म नक्षत्रादिनिमित्तकम्।
तत्तत्कर्मोदितं कालं नातिक्रामेत्तु मानुषे ॥ 92 ॥

विश्वास-प्रस्तुतिः - 93

आर्षादिंके तु त्रितये पूर्वभागोदितं तु यत्।
तत् कुर्यात्तदतिक्रान्तौ भागे तु तदनन्तरे ॥ 93 ॥

मूलम् - 93

आर्षादिंके तु त्रितये पूर्वभागोदितं तु यत्।
तत् कुर्यात्तदतिक्रान्तौ भागे तु तदनन्तरे ॥ 93 ॥

विश्वास-प्रस्तुतिः - 94

तत्कालातिक्रमे दोषो नित्यातिक्रान्तिवद्भवेत्।
अपरांशोदितं कर्म तत्रैव तु समाचरेत् ॥ 94 ॥

मूलम् - 94

तत्कालातिक्रमे दोषो नित्यातिक्रान्तिवद्भवेत्।
अपरांशोदितं कर्म तत्रैव तु समाचरेत् ॥ 94 ॥

विश्वास-प्रस्तुतिः - 95

पूर्वाह्णे विहितं कर्म मध्याह्ने तु समाचरेत्।
मद्याह्ने विहितं यत्तदपराह्ने समाचरेत् ॥ 95 ॥

मूलम् - 95

पूर्वाह्णे विहितं कर्म मध्याह्ने तु समाचरेत्।
मद्याह्ने विहितं यत्तदपराह्ने समाचरेत् ॥ 95 ॥

विश्वास-प्रस्तुतिः - 96

पूर्वरात्रोदितं कर्म मध्यरात्रे समाचरेत्।
मध्यरात्रोदितं यत्तत् कुर्यादपररात्रिके ॥ 96 ॥

मूलम् - 96

पूर्वरात्रोदितं कर्म मध्यरात्रे समाचरेत्।
मध्यरात्रोदितं यत्तत् कुर्यादपररात्रिके ॥ 96 ॥

विश्वास-प्रस्तुतिः - 97

स्वयं व्यक्ते तु पूर्वांशविहितं स्यात्तु मध्यमे।
पश्चिमे वापि तत्रोक्तं पूर्वे वा मध्यमेऽपि वा ॥ 97 ॥

मूलम् - 97

विश्वास-प्रस्तुतिः - 98

आचरेदनुकल्पे तु पूर्वाह्नविहितं तु यत्।
तत् कुर्यादथ मध्याह्ने अपराह्णेऽथवा द्विज! ॥ 98 ॥

मूलम् - 98

आचरेदनुकल्पे तु पूर्वाह्नविहितं तु यत्।
तत् कुर्यादथ मध्याह्ने अपराह्णेऽथवा द्विज! ॥ 98 ॥

विश्वास-प्रस्तुतिः - 99

पूर्वरात्रोदितं कुर्यान्मध्ये वा पश्चिमेऽपि वा।
ऋक्षाणां पूर्वभागे तु ऋक्षकर्म समाचरेत् ॥ 99 ॥

मूलम् - 99

पूर्वरात्रोदितं कुर्यान्मध्ये वा पश्चिमेऽपि वा।
ऋक्षाणां पूर्वभागे तु ऋक्षकर्म समाचरेत् ॥ 99 ॥

विश्वास-प्रस्तुतिः - 100

तिथीनां पश्चिमे भागे तिथिकर्म समाचरेत्।
नक्षत्रभेदे चाधिक्ये तिथिभेदे तदन्तिमे ॥ 100 ॥

मूलम् - 100

तिथीनां पश्चिमे भागे तिथिकर्म समाचरेत्।
नक्षत्रभेदे चाधिक्ये तिथिभेदे तदन्तिमे ॥ 100 ॥

विश्वास-प्रस्तुतिः - 101

तत्रापि चेदमावास्या सङ्गवात् परतो भवेत्।
तस्मिन् कुर्यात्तु तत् कर्म तत् स्यात् पूर्वेद्युरन्यथा ॥ 101 ॥

मूलम् - 101

तत्रापि चेदमावास्या सङ्गवात् परतो भवेत्।
तस्मिन् कुर्यात्तु तत् कर्म तत् स्यात् पूर्वेद्युरन्यथा ॥ 101 ॥

विश्वास-प्रस्तुतिः - 102

अतीते भगवद्यागमाचरेदुत्तरायणे।
पश्चात् षोडशनाडीनामन्तरे होमपश्चिमम् ॥ 102 ॥

मूलम् - 102

अतीते भगवद्यागमाचरेदुत्तरायणे।
पश्चात् षोडशनाडीनामन्तरे होमपश्चिमम् ॥ 102 ॥

विश्वास-प्रस्तुतिः - 103

स्नपनाद्यं मुनिश्रेष्ठ! चैत्रे च विषुवे तथा।
प्रागेव भगवद्यागमाचरेद्दक्षिणायने ॥ 103 ॥

मूलम् - 103

स्नपनाद्यं मुनिश्रेष्ठ! चैत्रे च विषुवे तथा।
प्रागेव भगवद्यागमाचरेद्दक्षिणायने ॥ 103 ॥

विश्वास-प्रस्तुतिः - 104

स्नपनाद्यं तु होमान्तं नाडीषोडशकान्तरे।
अनुकल्पे तु तत् कुर्यात् पश्चात् षोडशकान्तरे ॥ 104 ॥

मूलम् - 104

स्नपनाद्यं तु होमान्तं नाडीषोडशकान्तरे।
अनुकल्पे तु तत् कुर्यात् पश्चात् षोडशकान्तरे ॥ 104 ॥

विश्वास-प्रस्तुतिः - 105

एवमाश्वयुजे मासि विषुवेऽपि समाचरेत्।
उत्तरायणवत् कुर्यात् तत्सङ्‌क्रान्तिचतुष्टये ॥ 105 ॥

मूलम् - 105

एवमाश्वयुजे मासि विषुवेऽपि समाचरेत्।
उत्तरायणवत् कुर्यात् तत्सङ्‌क्रान्तिचतुष्टये ॥ 105 ॥

विश्वास-प्रस्तुतिः - 106

यल्लग्नहेतुकं कर्म यन्मुहूर्तनिमित्तकम्।
तत् सशेषं समापाद्य प्रायेण विभवेन तु ॥ 106 ॥

मूलम् - 106

यल्लग्नहेतुकं कर्म यन्मुहूर्तनिमित्तकम्।
तत् सशेषं समापाद्य प्रायेण विभवेन तु ॥ 106 ॥

विश्वास-प्रस्तुतिः - 107

तस्मिन् प्राप्ते शुभे काले शश्वच्छेषं समापयेत्।
अर्घ्याद्यैर्देवमिष्ट्वा तु अग्नौ पूर्णाहुनिं ददेत् ॥ 107 ॥

मूलम् - 107

तस्मिन् प्राप्ते शुभे काले शश्वच्छेषं समापयेत्।
अर्घ्याद्यैर्देवमिष्ट्वा तु अग्नौ पूर्णाहुनिं ददेत् ॥ 107 ॥

विश्वास-प्रस्तुतिः - 108

नैमित्तिकं दिवोक्तं तु दिवैव तु समापयेत्।
नैमित्तिकं निशोक्तं तु निश्येव तु समापयेत् ॥ 108 ॥

मूलम् - 108

नैमित्तिकं दिवोक्तं तु दिवैव तु समापयेत्।
नैमित्तिकं निशोक्तं तु निश्येव तु समापयेत् ॥ 108 ॥

विश्वास-प्रस्तुतिः - 109

यस्मिन् यस्मिन्नहोरात्रे विहितं कर्म यद्‌द्विज!।
समापयेत् तत्तस्मिन् यत्नतोऽवश्यमेव हि ॥ 109 ॥

मूलम् - 109

यस्मिन् यस्मिन्नहोरात्रे विहितं कर्म यद्‌द्विज!।
समापयेत् तत्तस्मिन् यत्नतोऽवश्यमेव हि ॥ 109 ॥

विश्वास-प्रस्तुतिः - 110

महोत्सवः सदाकालं विहितं न त्वतिक्रमेत्।
नि शोत्सवस्य कालः स्यात्तपनस्योदयावधि ॥ 110 ॥

मूलम् - 110

महोत्सवः सदाकालं विहितं न त्वतिक्रमेत्।
नि शोत्सवस्य कालः स्यात्तपनस्योदयावधि ॥ 110 ॥

विश्वास-प्रस्तुतिः - 111

कालः स्यात्तीर्थयात्रायां विंशन्नाड्चन्तरे दिवा।
मनुष्यनिर्मिते स्थाने मुख्यकल्पे द्विजोत्तम! ॥ 111 ॥

मूलम् - 111

कालः स्यात्तीर्थयात्रायां विंशन्नाड्चन्तरे दिवा।
मनुष्यनिर्मिते स्थाने मुख्यकल्पे द्विजोत्तम! ॥ 111 ॥

विश्वास-प्रस्तुतिः - 112

अनुकल्पे तु तत्कालो यावदस्तमयावधि।
स्वयं व्याक्तादिके स्थाने दिवा स्यान्मुख्यकल्पके ॥ 112 ॥

मूलम् - 112

अनुकल्पे तु तत्कालो यावदस्तमयावधि।
स्वयं व्याक्तादिके स्थाने दिवा स्यान्मुख्यकल्पके ॥ 112 ॥

विश्वास-प्रस्तुतिः - 113

अनुकल्पे निशायां तु पूर्वार्धावधिको भवेत्।
मुख्यकल्पेऽपि रात्रौ वा ह्ययनादेस्तु संभवे ॥ 113 ॥

मूलम् - 113

अनुकल्पे निशायां तु पूर्वार्धावधिको भवेत्।
मुख्यकल्पेऽपि रात्रौ वा ह्ययनादेस्तु संभवे ॥ 113 ॥

विश्वास-प्रस्तुतिः - 114

मर्त्यप्रतिष्ठिते स्थाने पवित्रारोहणस्य तु।
कालः स्यादह्नि विप्रेन्द्र! नाडीविंशतिकान्तरे ॥ 114 ॥

मूलम् - 114

मर्त्यप्रतिष्ठिते स्थाने पवित्रारोहणस्य तु।
कालः स्यादह्नि विप्रेन्द्र! नाडीविंशतिकान्तरे ॥ 114 ॥

विश्वास-प्रस्तुतिः - 115

स्वयं व्यक्तादिके स्थाने यावदस्तमयावधि।
रात्रौ तु भूषणारोपं न कदाचित् समाचरेत् ॥ 115 ॥

मूलम् - 115

स्वयं व्यक्तादिके स्थाने यावदस्तमयावधि।
रात्रौ तु भूषणारोपं न कदाचित् समाचरेत् ॥ 115 ॥

विश्वास-प्रस्तुतिः - 116

चन्द्रसूर्योपरागे च तत्कालात् पूर्वमेव तु।
चतुस्स्थानस्थितस्यापि स्थानद्वयगतस्य वा ॥ 116 ॥

मूलम् - 116

चन्द्रसूर्योपरागे च तत्कालात् पूर्वमेव तु।
चतुस्स्थानस्थितस्यापि स्थानद्वयगतस्य वा ॥ 116 ॥

विश्वास-प्रस्तुतिः - 117

देवस्य यजनं कृत्वा होमान्तं स्नपनादिकम्।
औपचारिकसांस्पर्शैः प्रभूतैर्हृदयङ्गमैः ॥ 117 ॥

मूलम् - 117

देवस्य यजनं कृत्वा होमान्तं स्नपनादिकम्।
औपचारिकसांस्पर्शैः प्रभूतैर्हृदयङ्गमैः ॥ 117 ॥

विश्वास-प्रस्तुतिः - 118

पयोघृतादिभिः सम्यक् सविशेषैर्महामते!।
ततोऽक्षसूत्रमादाय तावत् कुर्याज्जपं सुधीः ॥ 118 ॥

मूलम् - 118

पयोघृतादिभिः सम्यक् सविशेषैर्महामते!।
ततोऽक्षसूत्रमादाय तावत् कुर्याज्जपं सुधीः ॥ 118 ॥

विश्वास-प्रस्तुतिः - 119

यावद्राहुविमुक्तस्य चन्द्रादेर्दर्शनं भवेत्।
पूजाहोमजपादीनां फलानन्त्यमवाप्नुयात् ॥ 119 ॥

मूलम् - 119

यावद्राहुविमुक्तस्य चन्द्रादेर्दर्शनं भवेत्।
पूजाहोमजपादीनां फलानन्त्यमवाप्नुयात् ॥ 119 ॥

विश्वास-प्रस्तुतिः - 120

अन्यथा विफलं कर्म कर्तुर्व्याध्यादिपीडनम्।
अतोऽप्यन्यदनित्यं यन्नैमित्तिकमुदाहृतम् ॥ 120 ॥

मूलम् - 120

अन्यथा विफलं कर्म कर्तुर्व्याध्यादिपीडनम्।
अतोऽप्यन्यदनित्यं यन्नैमित्तिकमुदाहृतम् ॥ 120 ॥

विश्वास-प्रस्तुतिः - 121

पुण्यकालवशेनैव तत्राप्येवं समाचरेत्।
काम्यानि सर्वकर्माणि तत्तत्काले समाचरेत् ॥ 121 ॥

मूलम् - 121

पुण्यकालवशेनैव तत्राप्येवं समाचरेत्।
काम्यानि सर्वकर्माणि तत्तत्काले समाचरेत् ॥ 121 ॥

विश्वास-प्रस्तुतिः - 122

अन्यथा तानि कर्माणि न सिध्यन्त्यचिरेण तु।
स्वयंव्यक्तादिके तानि सर्वदैव समाचरेत् ॥ 122 ॥

मूलम् - 122

अन्यथा तानि कर्माणि न सिध्यन्त्यचिरेण तु।
स्वयंव्यक्तादिके तानि सर्वदैव समाचरेत् ॥ 122 ॥

विश्वास-प्रस्तुतिः - 123

प्रायश्चित्तं तु वै कुर्यात् सञ्जाते तन्निमित्तके।
तदैव वाथ कर्मान्ते त्रिदिनाभ्यन्तरे तु वा ॥ 123 ॥

मूलम् - 123

प्रायश्चित्तं तु वै कुर्यात् सञ्जाते तन्निमित्तके।
तदैव वाथ कर्मान्ते त्रिदिनाभ्यन्तरे तु वा ॥ 123 ॥

विश्वास-प्रस्तुतिः - 124

तद्‌गुरुत्वानुगुण्येन पञ्चसप्तदिनान्तरे।
तदारम्भः समाप्तिर्वा ह्यन्यथा द्विगुणं चरेत् ॥ 124 ॥

मूलम् - 124

तद्‌गुरुत्वानुगुण्येन पञ्चसप्तदिनान्तरे।
तदारम्भः समाप्तिर्वा ह्यन्यथा द्विगुणं चरेत् ॥ 124 ॥

विश्वास-प्रस्तुतिः - 125

प्रायश्चित्तं तु वै कुर्यात् स्वयंव्यक्तादिके स्थले।
स्वयंव्यक्तादिके स्थानचतुष्केऽपि महामते! ॥ 125 ॥

मूलम् - 125

प्रायश्चित्तं तु वै कुर्यात् स्वयंव्यक्तादिके स्थले।
स्वयंव्यक्तादिके स्थानचतुष्केऽपि महामते! ॥ 125 ॥

विश्वास-प्रस्तुतिः - 126

प्राकारगोपुरादीनामारम्भं स्थापनं तथा।
तथा च कर्मबिम्बानां स्थापनं च विशेषतः ॥ 126 ॥

मूलम् - 126

प्राकारगोपुरादीनामारम्भं स्थापनं तथा।
तथा च कर्मबिम्बानां स्थापनं च विशेषतः ॥ 126 ॥

विश्वास-प्रस्तुतिः - 127

जीर्णोद्धारविधानं च पुनः संस्थापनं तथा।
अङ्‌कुरारोपणं चैव ध्वजारोहावरोहणे ॥ 127 ॥

मूलम् - 127

जीर्णोद्धारविधानं च पुनः संस्थापनं तथा।
अङ्‌कुरारोपणं चैव ध्वजारोहावरोहणे ॥ 127 ॥

विश्वास-प्रस्तुतिः - 128

सुमुदूर्ते सुनक्षत्रे सुलग्नेऽपि समाचरेत्।
दोषः स्यात्तदतिक्रान्तौ तच्छान्तिं च समाचरेत् ॥ 128 ॥

मूलम् - 128

सुमुदूर्ते सुनक्षत्रे सुलग्नेऽपि समाचरेत्।
दोषः स्यात्तदतिक्रान्तौ तच्छान्तिं च समाचरेत् ॥ 128 ॥

विश्वास-प्रस्तुतिः - 129

द्वादशी तु कलामात्रा त्रयोदश्यां समाचरेत्।
कर्मावसाने शयनं प्रबोधं पुनरेव हि ॥ 129 ॥

मूलम् - 129

द्वादशी तु कलामात्रा त्रयोदश्यां समाचरेत्।
कर्मावसाने शयनं प्रबोधं पुनरेव हि ॥ 129 ॥

विश्वास-प्रस्तुतिः - 130

पवित्रारोहणाद्येषु विविधेषु तु कर्मसु।
मुहूर्तातिक्रमे दोषो न भवेत्तु कदाचन ॥ 130 ॥

मूलम् - 130

पवित्रारोहणाद्येषु विविधेषु तु कर्मसु।
मुहूर्तातिक्रमे दोषो न भवेत्तु कदाचन ॥ 130 ॥

विश्वास-प्रस्तुतिः - 131

यत्र तु व्यापकैर्मन्त्रैरनन्यैरधिकारिभिः।
दिव्यशास्त्रोक्तमार्गेण पूजनं क्रियते विभोः ॥ 131 ॥

मूलम् - 131

यत्र तु व्यापकैर्मन्त्रैरनन्यैरधिकारिभिः।
दिव्यशास्त्रोक्तमार्गेण पूजनं क्रियते विभोः ॥ 131 ॥

विश्वास-प्रस्तुतिः - 132

तत्र स्यात् कालनियमो दिव्यस्थानोक्तमार्गतः।
एतेषां द्वितयं यत्र तत्र कालस्तु सैद्धवत् ॥ 132 ॥

मूलम् - 132

तत्र स्यात् कालनियमो दिव्यस्थानोक्तमार्गतः।
एतेषां द्वितयं यत्र तत्र कालस्तु सैद्धवत् ॥ 132 ॥

विश्वास-प्रस्तुतिः - 133

यत्र त्रयाणामेकं स्यात् तत्रार्षस्थानवद्भवेत्।
पुरोदितेषु स्थानेषु सर्वेष्वपि यथाक्रमम् ॥ 133 ॥

मूलम् - 133

यत्र त्रयाणामेकं स्यात् तत्रार्षस्थानवद्भवेत्।
पुरोदितेषु स्थानेषु सर्वेष्वपि यथाक्रमम् ॥ 133 ॥

विश्वास-प्रस्तुतिः - 134

य उक्तः कालनियमो नियताद्येषु कर्मसु।
मुख्यानुकल्पभेदेन द्विविधस्तदतिक्रमे ॥ 134 ॥

मूलम् - 134

य उक्तः कालनियमो नियताद्येषु कर्मसु।
मुख्यानुकल्पभेदेन द्विविधस्तदतिक्रमे ॥ 134 ॥

विश्वास-प्रस्तुतिः - 135

तद्दोषशान्तिं वै कृत्वा तानि कुर्यादनन्तरे।
काले यथा क्रर्महानिर्न कदाचित्तु जायते ॥ 135 ॥

मूलम् - 135

तद्दोषशान्तिं वै कृत्वा तानि कुर्यादनन्तरे।
काले यथा क्रर्महानिर्न कदाचित्तु जायते ॥ 135 ॥

विश्वास-प्रस्तुतिः - 136

तथा क्रमेण वै कुर्यात्तानि कर्माणि सर्वदा।
नित्यनैमित्तिके प्राप्ते ह्येकस्मिन् समये तदा ॥ 136 ॥

मूलम् - 136

तथा क्रमेण वै कुर्यात्तानि कर्माणि सर्वदा।
नित्यनैमित्तिके प्राप्ते ह्येकस्मिन् समये तदा ॥ 136 ॥

विश्वास-प्रस्तुतिः - 137

पूर्वं नैमित्तिकं कृत्वा पश्चान्नित्यं समाचरेत्।
नैमित्तिके ह्यनित्ये च नित्ये च युगपद्गते ॥ 137 ॥

मूलम् - 137

पूर्वं नैमित्तिकं कृत्वा पश्चान्नित्यं समाचरेत्।
नैमित्तिके ह्यनित्ये च नित्ये च युगपद्गते ॥ 137 ॥

विश्वास-प्रस्तुतिः - 138

प्रागनित्यं ततः पश्चान्नित्यनैमित्तिकं चरेत्।
नैमित्तिके च काम्ये च प्राप्ते काम्यं तु पूर्वतः ॥ 138 ॥

मूलम् - 138

प्रागनित्यं ततः पश्चान्नित्यनैमित्तिकं चरेत्।
नैमित्तिके च काम्ये च प्राप्ते काम्यं तु पूर्वतः ॥ 138 ॥

विश्वास-प्रस्तुतिः - 139

एतेष्वपि च सर्वेषु प्रायश्चित्ताख्यकर्मणि।
एककाले तु संप्राप्ते प्रायश्चित्तं तु पूर्वतः ॥ 139 ॥

मूलम् - 139

एतेष्वपि च सर्वेषु प्रायश्चित्ताख्यकर्मणि।
एककाले तु संप्राप्ते प्रायश्चित्तं तु पूर्वतः ॥ 139 ॥

विश्वास-प्रस्तुतिः - 140

समाप्य पश्चाद्वै कुर्यात् तानि कर्माणि सर्वदा।
यदा नैमित्तिकाद्यं तु विभवाद्यैस्तु विस्तृतम् ॥ 140 ॥

मूलम् - 140

समाप्य पश्चाद्वै कुर्यात् तानि कर्माणि सर्वदा।
यदा नैमित्तिकाद्यं तु विभवाद्यैस्तु विस्तृतम् ॥ 140 ॥

विश्वास-प्रस्तुतिः - 141

तदा तात्कालिकं नित्यं तत्कालात् प्राक् समाचरेत्।
कालातिक्रमदोषस्तु तत्र न स्यात् कदाचन ॥ 141 ॥

मूलम् - 141

तदा तात्कालिकं नित्यं तत्कालात् प्राक् समाचरेत्।
कालातिक्रमदोषस्तु तत्र न स्यात् कदाचन ॥ 141 ॥

विश्वास-प्रस्तुतिः - 142

देशिका बहवो यत्र बहवः परिचारकाः।
तत्तत्कर्मोर्थबिम्बानि संभवन्ति बहूनि च ॥ 142 ॥

मूलम् - 142

देशिका बहवो यत्र बहवः परिचारकाः।
तत्तत्कर्मोर्थबिम्बानि संभवन्ति बहूनि च ॥ 142 ॥

विश्वास-प्रस्तुतिः - 143

तत्र सर्वाणि कर्माणि ह्येकदैव समाचरेत्।
कालातिक्रमदोषस्तु विद्यते तत्र पूर्ववत् ॥ 143 ॥

मूलम् - 143

तत्र सर्वाणि कर्माणि ह्येकदैव समाचरेत्।
कालातिक्रमदोषस्तु विद्यते तत्र पूर्ववत् ॥ 143 ॥

विश्वास-प्रस्तुतिः - 144

वक्ष्यन्ते देशिका ऊर्धं स्वयंव्यक्तादिषु द्विज!।
इदानीं मूर्तिभेदेषु लक्ष्यन्ते देशिकाः श्रृणु ॥ 144 ॥

मूलम् - 144

वक्ष्यन्ते देशिका ऊर्धं स्वयंव्यक्तादिषु द्विज!।
इदानीं मूर्तिभेदेषु लक्ष्यन्ते देशिकाः श्रृणु ॥ 144 ॥

विश्वास-प्रस्तुतिः - 145

परात्परस्वरूपस्य परस्य च विभोः सदा।
आचार्यान् शास्त्रविहितांश्चतुरः परिकल्पयेत् ॥ 145 ॥

मूलम् - 145

परात्परस्वरूपस्य परस्य च विभोः सदा।
आचार्यान् शास्त्रविहितांश्चतुरः परिकल्पयेत् ॥ 145 ॥

विश्वास-प्रस्तुतिः - 146

अष्टौ द्वादश वा कल्प्या व्यूहे मूर्त्यन्तरेऽपि च।
वैभवेष्वपि मूर्तेषु देशिकेन्द्रास्तथैव हि ॥ 146 ॥

मूलम् - 146

अष्टौ द्वादश वा कल्प्या व्यूहे मूर्त्यन्तरेऽपि च।
वैभवेष्वपि मूर्तेषु देशिकेन्द्रास्तथैव हि ॥ 146 ॥

विश्वास-प्रस्तुतिः - 147

साधकाश्चैवमेव स्युः सदा षोडश वा द्विज!।
विभवेषु स्वतन्त्रेषु साधका द्वादशैव वा ॥ 147 ॥

मूलम् - 147

साधकाश्चैवमेव स्युः सदा षोडश वा द्विज!।
विभवेषु स्वतन्त्रेषु साधका द्वादशैव वा ॥ 147 ॥

विश्वास-प्रस्तुतिः - 148

अवतारेषु दशसु स्वतन्त्रेषु महामते!।
प्रासादे स्थापितेष्वेषु कल्प्या वाराधका दश ॥ 148 ॥

मूलम् - 148

अवतारेषु दशसु स्वतन्त्रेषु महामते!।
प्रासादे स्थापितेष्वेषु कल्प्या वाराधका दश ॥ 148 ॥

विश्वास-प्रस्तुतिः - 149

यथोक्ताचारसंयुक्तास्तथाप्यधिकसंख्यकाः।
तत्रैतत् कल्पनं श्रेष्ठमन्यत्र तदन्रथकम् ॥ 149 ॥

मूलम् - 149

यथोक्ताचारसंयुक्तास्तथाप्यधिकसंख्यकाः।
तत्रैतत् कल्पनं श्रेष्ठमन्यत्र तदन्रथकम् ॥ 149 ॥

विश्वास-प्रस्तुतिः - 150

न तु केवल एवैते दशकल्प्यः कदाचन।
परात्परादिषु सदा दश संख्यां न कल्पयेत् ॥ 150 ॥

मूलम् - 150

न तु केवल एवैते दशकल्प्यः कदाचन।
परात्परादिषु सदा दश संख्यां न कल्पयेत् ॥ 150 ॥

विश्वास-प्रस्तुतिः - 151

अस्वतन्त्रेऽवतारेऽपि दशसंख्यां न कल्पयेत्।
परिचारकसंख्यां तु वक्ष्याम्युपरि विस्तरात् ॥ 151 ॥

मूलम् - 151

अस्वतन्त्रेऽवतारेऽपि दशसंख्यां न कल्पयेत्।
परिचारकसंख्यां तु वक्ष्याम्युपरि विस्तरात् ॥ 151 ॥

विश्वास-प्रस्तुतिः - 152

इति स्वार्थाविरोधेन परार्थाधिकृतस्य तु।
एकायनस्य विदुषः प्रोक्ताः कालाः क्रमेण तु ॥ 152 ॥

मूलम् - 152

इति स्वार्थाविरोधेन परार्थाधिकृतस्य तु।
एकायनस्य विदुषः प्रोक्ताः कालाः क्रमेण तु ॥ 152 ॥

विश्वास-प्रस्तुतिः - 153

तथा वै दीक्षितस्यापि सिद्धान्तरतचेतसः।
इदानीं कर्मणि स्वार्थे तयोर्निरतयोः सदा ॥ 153 ॥

मूलम् - 153

तथा वै दीक्षितस्यापि सिद्धान्तरतचेतसः।
इदानीं कर्मणि स्वार्थे तयोर्निरतयोः सदा ॥ 153 ॥

विश्वास-प्रस्तुतिः - 154

नित्यानां कालभेदं तु समाकर्णय साम्प्रतम्।
अथाभिगमनाद्यास्तु पञ्चकालाः प्रकीर्तिताः ॥ 154 ॥

मूलम् - 154

नित्यानां कालभेदं तु समाकर्णय साम्प्रतम्।
अथाभिगमनाद्यास्तु पञ्चकालाः प्रकीर्तिताः ॥ 154 ॥

विश्वास-प्रस्तुतिः - 155

पूर्वोऽभिगमनाख्यः स्यादुपादानाभिसंज्ञितः।
कालानां प्रविभागं तु पृष्टः पुष्करजन्मना ॥ 155 ॥

मूलम् - 155

पूर्वोऽभिगमनाख्यः स्यादुपादानाभिसंज्ञितः।
कालानां प्रविभागं तु पृष्टः पुष्करजन्मना ॥ 155 ॥

विश्वास-प्रस्तुतिः - 156

स्वाध्ययाख्यश्चतुर्थः स्यात् पञ्चमो योगसंज्ञितः।
कालानां प्रविभागं तु पृष्टः पुष्करजन्मना ॥ 156 ॥

मूलम् - 156

स्वाध्ययाख्यश्चतुर्थः स्यात् पञ्चमो योगसंज्ञितः।
कालानां प्रविभागं तु पृष्टः पुष्करजन्मना ॥ 156 ॥

विश्वास-प्रस्तुतिः - 157

नारदेनापि भेदेन प्रोवाच भगवान् स्वयम्।
स एव क्रमशो विप्र! प्रोच्यतेऽत्र पृथग्द्विज! ॥ 157 ॥

मूलम् - 157

नारदेनापि भेदेन प्रोवाच भगवान् स्वयम्।
स एव क्रमशो विप्र! प्रोच्यतेऽत्र पृथग्द्विज! ॥ 157 ॥

पौष्कर :---
विश्वास-प्रस्तुतिः - 158

ज्ञातुमिच्छामि भगवन्! कालभेदेन वै सह।
स्वरूपं मन्त्रसिद्धान्ताद्यागमानां यथास्थितम् ॥ 158 ॥

मूलम् - 158

ज्ञातुमिच्छामि भगवन्! कालभेदेन वै सह।
स्वरूपं मन्त्रसिद्धान्ताद्यागमानां यथास्थितम् ॥ 158 ॥

श्रीभगवानुवाच ---
विश्वास-प्रस्तुतिः - 159

कालमेकं द्विजश्रेष्ठ! तद्व्यापारवशात् पुनः।
भिन्नमाभाति कर्तॄणां भगवद्भाविनां तु वै ॥ 159 ॥

मूलम् - 159

कालमेकं द्विजश्रेष्ठ! तद्व्यापारवशात् पुनः।
भिन्नमाभाति कर्तॄणां भगवद्भाविनां तु वै ॥ 159 ॥

विश्वास-प्रस्तुतिः - 160

नाडिकाकलितं यद्वै अहोरात्रं तु संस्मृतम्।
पञ्चधा विषमांशैस्तदाप्रभाताद्विभज्य च ॥ 160 ॥

मूलम् - 160

नाडिकाकलितं यद्वै अहोरात्रं तु संस्मृतम्।
पञ्चधा विषमांशैस्तदाप्रभाताद्विभज्य च ॥ 160 ॥

विश्वास-प्रस्तुतिः - 161

ब्राह्नं मुहूर्तमासाद्य मन्त्रज्ञः प्रयतः शुचिः।
शोधयित्वा स्वकं देहमायामाद्यैर्यथोदितैः ॥ 161 ॥

मूलम् - 161

ब्राह्नं मुहूर्तमासाद्य मन्त्रज्ञः प्रयतः शुचिः।
शोधयित्वा स्वकं देहमायामाद्यैर्यथोदितैः ॥ 161 ॥

विश्वास-प्रस्तुतिः - 162

मन्त्रविन्यस्तदेहोऽथ कुर्यान्मन्त्रार्चनं ततः।
जपस्तोत्रावसानं च यावदादित्यदर्शनम् ॥ 162 ॥

मूलम् - 162

मन्त्रविन्यस्तदेहोऽथ कुर्यान्मन्त्रार्चनं ततः।
जपस्तोत्रावसानं च यावदादित्यदर्शनम् ॥ 162 ॥

विश्वास-प्रस्तुतिः - 163

कुर्याद्भोगार्चनं पश्चात् पुष्पमूलफलादिकम्।
गते दिनाष्टमे भागे स्नानपूर्वं समाचरेत् ॥ 163 ॥

मूलम् - 163

कुर्याद्भोगार्चनं पश्चात् पुष्पमूलफलादिकम्।
गते दिनाष्टमे भागे स्नानपूर्वं समाचरेत् ॥ 163 ॥

विश्वास-प्रस्तुतिः - 164

प्राग्वदाराधनं मान्त्रं तृतीयप्रहरावधि।
ततश्चतुर्थे प्रहरे शास्त्राध्ययनमाचरेत् ॥ 164 ॥

मूलम् - 164

प्राग्वदाराधनं मान्त्रं तृतीयप्रहरावधि।
ततश्चतुर्थे प्रहरे शास्त्राध्ययनमाचरेत् ॥ 164 ॥

विश्वास-प्रस्तुतिः - 165

चिन्तनं श्रवणोपेतं व्याख्यानं स्वधियेच्छया।
अस्तं गते दिनकरे आसाद्याराधनालयम् ॥ 165 ॥

मूलम् - 165

चिन्तनं श्रवणोपेतं व्याख्यानं स्वधियेच्छया।
अस्तं गते दिनकरे आसाद्याराधनालयम् ॥ 165 ॥

विश्वास-प्रस्तुतिः - 166

कुर्यान्मन्त्रार्चनं सम्यग्जपध्यानसमन्वितम्।
आसाद्य शयनं पश्चात् स्मरेन्मन्त्रेश्वरं हृदि ॥ 166 ॥

मूलम् - 166

कुर्यान्मन्त्रार्चनं सम्यग्जपध्यानसमन्वितम्।
आसाद्य शयनं पश्चात् स्मरेन्मन्त्रेश्वरं हृदि ॥ 166 ॥

विश्वास-प्रस्तुतिः - 167

क्षपयित्वा निशांशं तु उत्थाय शयनात्ततः।
योगं युञ्जीत वै मान्तनं प्राग्वद्धृत्कमलोदरे ॥ 167 ॥

मूलम् - 167

क्षपयित्वा निशांशं तु उत्थाय शयनात्ततः।
योगं युञ्जीत वै मान्तनं प्राग्वद्धृत्कमलोदरे ॥ 167 ॥

विश्वास-प्रस्तुतिः - 168

तल्पमासाद्य वै भूयः प्रबुद्धः कमलोद्भव!।
उत्थायं शयनं त्यकत्वा ततः पूर्वोक्तमाचरेत् ॥ 168 ॥

मूलम् - 168

तल्पमासाद्य वै भूयः प्रबुद्धः कमलोद्भव!।
उत्थायं शयनं त्यकत्वा ततः पूर्वोक्तमाचरेत् ॥ 168 ॥

कालभेदमिमं विद्धि सप्रपञ्चं पुरोदितम्। नारदः --- एको हि श्रूयते देव! कालो लोके न चापरः ॥ 169 ॥ पञ्चकालास्त्वयोद्दिष्टाः किमेतन्मेऽत्र संशयः। श्रीभगवानुवाच --- एकस्यैव हि कालस्य भेदशून्यस्य नारद! ॥ 170 ॥
विश्वास-प्रस्तुतिः - 171

आप्रभातान्निशान्तं वै पञ्चधा परिकल्पना।
पृथक्कर्मवशात् कार्या न काला बहवः स्मृताः ॥ 171 ॥

मूलम् - 171

आप्रभातान्निशान्तं वै पञ्चधा परिकल्पना।
पृथक्कर्मवशात् कार्या न काला बहवः स्मृताः ॥ 171 ॥

नारदः ---
विश्वास-प्रस्तुतिः - 172

एककालाश्रितानां च कर्मणां लक्षणं वद।
परिज्ञातैस्तु यैः सम्यक् कृतकृत्यो भवाम्यहम् ॥ 172 ॥

मूलम् - 172

एककालाश्रितानां च कर्मणां लक्षणं वद।
परिज्ञातैस्तु यैः सम्यक् कृतकृत्यो भवाम्यहम् ॥ 172 ॥

श्रीभगवानुवाच ---
विश्वास-प्रस्तुतिः - 173

ब्राह्नान्मुर्तादारभ्य प्रागंशं विप्र! वासरे।
जपध्यानार्चनस्तोत्रैः कर्मवाक्‌चित्तसंयुतैः ॥ 173 ॥

मूलम् - 173

ब्राह्नान्मुर्तादारभ्य प्रागंशं विप्र! वासरे।
जपध्यानार्चनस्तोत्रैः कर्मवाक्‌चित्तसंयुतैः ॥ 173 ॥

विश्वास-प्रस्तुतिः - 174

अभिगच्छेज्जगद्योनिं तच्चाभिगमनं स्मृतम्।
ततः पुष्पफलादीनामुत्थायार्जनमाचरेत् ॥ 174 ॥

मूलम् - 174

अभिगच्छेज्जगद्योनिं तच्चाभिगमनं स्मृतम्।
ततः पुष्पफलादीनामुत्थायार्जनमाचरेत् ॥ 174 ॥

विश्वास-प्रस्तुतिः - 175

भगवद्यागनिष्पत्तिकारणं प्रहरं परम्।
तदुपादानसंज्ञं वै कर्मकालपदाश्रितम् ॥ 175 ॥

मूलम् - 175

भगवद्यागनिष्पत्तिकारणं प्रहरं परम्।
तदुपादानसंज्ञं वै कर्मकालपदाश्रितम् ॥ 175 ॥

विश्वास-प्रस्तुतिः - 176

ततोऽष्टाङ्गेन योगेन पूजयेत् परमेश्वरम्।
साधकः प्रहरं विप्र! इज्याकालस्तु स स्मृतः ॥ 176 ॥

मूलम् - 176

ततोऽष्टाङ्गेन योगेन पूजयेत् परमेश्वरम्।
साधकः प्रहरं विप्र! इज्याकालस्तु स स्मृतः ॥ 176 ॥

विश्वास-प्रस्तुतिः - 177

श्रवणं चिन्तनं व्याख्या ततः पाठसमन्वितः।
स्वाध्यायसंज्ञं तं विद्धि कालांशं मुनिसत्तम! ॥ 177 ॥

मूलम् - 177

श्रवणं चिन्तनं व्याख्या ततः पाठसमन्वितः।
स्वाध्यायसंज्ञं तं विद्धि कालांशं मुनिसत्तम! ॥ 177 ॥

विश्वास-प्रस्तुतिः - 178

दिनावसाने संप्राप्ते पूजां कृत्वा समब्यसेत्।
योगं निशावसाने च विश्रमैरन्तरीकृतम् ॥ 178 ॥

मूलम् - 178

दिनावसाने संप्राप्ते पूजां कृत्वा समब्यसेत्।
योगं निशावसाने च विश्रमैरन्तरीकृतम् ॥ 178 ॥

पञ्चमो योगसंज्ञोऽसौ कालांशो ब्रह्नसिद्धिदः। नारदः --- श्रुतो मयाखिलः पूर्वं भगवद्याग उत्तमः ॥ 179 ॥ तस्याङ्गानि विभागेन ज्ञातुमिच्छाम्यहं पुनः। श्रीभगवानुवाच --- अन्तःकरणयागादि यावदात्मनिवेदनम् ॥ 180 ।
विश्वास-प्रस्तुतिः - 181

तदाद्यमङ्गं यागस्य नाम्नाभिगमनं महत्।
पूजनं चार्घ्यपुष्पाद्यैर्भोगैर्यदखिलं मुने! ॥ 181 ॥

मूलम् - 181

तदाद्यमङ्गं यागस्य नाम्नाभिगमनं महत्।
पूजनं चार्घ्यपुष्पाद्यैर्भोगैर्यदखिलं मुने! ॥ 181 ॥

विश्वास-प्रस्तुतिः - 182

बाह्योपचारैस्तद्विद्धि भोगसंज्ञं तु नारद!।
मध्वाज्याक्तेन दध्ना च पूजा च पशुना च या ॥ 182 ॥

मूलम् - 182

बाह्योपचारैस्तद्विद्धि भोगसंज्ञं तु नारद!।
मध्वाज्याक्तेन दध्ना च पूजा च पशुना च या ॥ 182 ॥

विश्वास-प्रस्तुतिः - 183

तत्‌ तृतीयं हि यागाङ्गं तुर्यमन्नेन पूजनम्।
निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने! ॥ 183 ॥

मूलम् - 183

तत्‌ तृतीयं हि यागाङ्गं तुर्यमन्नेन पूजनम्।
निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने! ॥ 183 ॥

विश्वास-प्रस्तुतिः - 184

सम्प्रदानं तु तन्नाम यागाङ्गं पञ्चमं स्मृतम्।
वह्निसन्तर्पणं षष्ठं पितृयागस्तु सप्तमः ॥ 184 ॥

मूलम् - 184

सम्प्रदानं तु तन्नाम यागाङ्गं पञ्चमं स्मृतम्।
वह्निसन्तर्पणं षष्ठं पितृयागस्तु सप्तमः ॥ 184 ॥

विश्वास-प्रस्तुतिः - 185

प्राणाग्निहवनं नाम्ना त्वनुयागस्तदष्टमम्।
इत्येतत् कथितं सर्वं यत् त्वया परिचोदितम् ॥ 185 ॥

मूलम् - 185

प्राणाग्निहवनं नाम्ना त्वनुयागस्तदष्टमम्।
इत्येतत् कथितं सर्वं यत् त्वया परिचोदितम् ॥ 185 ॥

विश्वास-प्रस्तुतिः - 186

प्रदद्यादचिराद्यद्वै तन्निष्ठानां स्वकं पदम्।
इति प्रोक्तं क्रमेणैव कर्मभेदेन वै सह ॥ 186 ॥

मूलम् - 186

प्रदद्यादचिराद्यद्वै तन्निष्ठानां स्वकं पदम्।
इति प्रोक्तं क्रमेणैव कर्मभेदेन वै सह ॥ 186 ॥

विश्वास-प्रस्तुतिः - 187

पञ्चकालविभागं तु द्वयोरप्यधिकारिणोः।
तत्रायं हि विशेषः स्यात् सत्यसंकल्पयाजिनः ॥ 187 ॥

मूलम् - 187

पञ्चकालविभागं तु द्वयोरप्यधिकारिणोः।
तत्रायं हि विशेषः स्यात् सत्यसंकल्पयाजिनः ॥ 187 ॥

विश्वास-प्रस्तुतिः - 188

चातुरात्म्यैकनिष्ठस्य मूलधर्मैकचेतसः।
आयामन्यासपूर्वं तु विघ्नजिद्यजनान्तिमम् ॥ 188 ॥

मूलम् - 188

चातुरात्म्यैकनिष्ठस्य मूलधर्मैकचेतसः।
आयामन्यासपूर्वं तु विघ्नजिद्यजनान्तिमम् ॥ 188 ॥

विश्वास-प्रस्तुतिः - 189

इहोदितं यत् तत् सर्वं वर्जनीयं प्रयत्नतः।
आत्मनोऽभीष्टसिध्द्यर्थं सात्त्वताद्युक्तमार्गतः ॥ 189 ॥

मूलम् - 189

इहोदितं यत् तत् सर्वं वर्जनीयं प्रयत्नतः।
आत्मनोऽभीष्टसिध्द्यर्थं सात्त्वताद्युक्तमार्गतः ॥ 189 ॥

विश्वास-प्रस्तुतिः - 190

पूजने दीक्षितस्यापि शिष्यस्याधिकृतेऽपि च।
तस्यापि विहितं सर्वमायामाद्यं पुरोदितम् ॥ 190 ॥

मूलम् - 190

पूजने दीक्षितस्यापि शिष्यस्याधिकृतेऽपि च।
तस्यापि विहितं सर्वमायामाद्यं पुरोदितम् ॥ 190 ॥

विश्वास-प्रस्तुतिः - 191

इति सम्यक् समाख्यातः कालभेदो मया तव।
यज्ज्ञानात् सकलं कर्म कर्तुं युज्येत सत्तमः ॥ 191 ॥

मूलम् - 191

इति सम्यक् समाख्यातः कालभेदो मया तव।
यज्ज्ञानात् सकलं कर्म कर्तुं युज्येत सत्तमः ॥ 191 ॥

इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्‍डे द्वादशकालार्चनकालविभागनिर्णयो नाम नवमोऽध्यायः ॥ *************