॥ श्रीः ॥
अष्टमोऽध्यायः
सनकः —
भगवन्! मुनिशार्दूल! सर्वज्ञ! वदतां वर!
गरुडप्रमुखानां यदर्चनं प्रागुदीरितम् ॥ 1 ॥
तदिदानीं विशेषेण विस्तरेण प्रकाशय।
शाण्डिल्यः —
श्रृणु वक्ष्यामि ते सम्यग्गरुडस्यार्चनं पुरा ॥ 2 ॥
विश्वास-प्रस्तुतिः - 3
येन विज्ञातमात्रेण वाञ्छितं साधकोऽश्नुते।
विष्णोःसङ्कर्षणाख्यस्य विज्ञानबलशालिनः ॥ 3 ॥
मूलम् - 3
येन विज्ञातमात्रेण वाञ्छितं साधकोऽश्नुते।
विष्णोःसङ्कर्षणाख्यस्य विज्ञानबलशालिनः ॥ 3 ॥
विश्वास-प्रस्तुतिः - 4
मूर्तिर्ज्ञानबलाख्या या सर्वाधारस्वरूंपिणी।
महिमेति जगद्धातुर्विज्ञोयो विहगेश्वरः ॥ 4 ॥
मूलम् - 4
मूर्तिर्ज्ञानबलाख्या या सर्वाधारस्वरूंपिणी।
महिमेति जगद्धातुर्विज्ञोयो विहगेश्वरः ॥ 4 ॥
विश्वास-प्रस्तुतिः - 5
सर्वरोगभयघ्नश्च क्षेपकः सर्वविद्विषाम्।
ततस्तमर्चयेन्नित्यं प्रासादे स्थाप्य मन्त्रवित् ॥ 5 ॥
मूलम् - 5

विश्वास-प्रस्तुतिः - 6
प्राङ्कणे प्रथमे वाऽथ द्वितीये मूलमन्दिरात्।
अग्रदेशे प्रकुर्वीत प्रासादं मण्टपाकृतिम् ॥ 6 ॥
मूलम् - 6

विश्वास-प्रस्तुतिः - 7
चतुर्द्वारसमोपेतं वर्गत्रयसमन्वितम्।
वर्गषट्कान्वितं वाथ सर्वालङ्कारशोभितम् ॥ 7 ॥
मूलम् - 7
चतुर्द्वारसमोपेतं वर्गत्रयसमन्वितम्।
वर्गषट्कान्वितं वाथ सर्वालङ्कारशोभितम् ॥ 7 ॥
विश्वास-प्रस्तुतिः - 8
मूलगेहात्रिभागोच्चमर्धोच्चं वा सुविस्तरम्।
तस्मिन् ब्राह्नेऽथ दिव्ये वा दिव्ययुक्तेऽथ मानुषे ॥ 8 ॥
मूलम् - 8

विश्वास-प्रस्तुतिः - 9
संस्थाप्य लोहजां वाथ शैलीमर्चां यथोदिताम्।
त्रिकालमर्चयेन्नित्यं मुख्यमूर्त्यर्चनान्तिमे ॥ 9 ॥
मूलम् - 9

विश्वास-प्रस्तुतिः - 10
तद्विधानं विशेषेण मन्त्रपूर्वं श्रृणु क्रमात्।
प्रणवं पूर्वमुद्धृत्य पक्षिशब्दमनन्तरम् ॥ 10 ॥
मूलम् - 10
तद्विधानं विशेषेण मन्त्रपूर्वं श्रृणु क्रमात्।
प्रणवं पूर्वमुद्धृत्य पक्षिशब्दमनन्तरम् ॥ 10 ॥
विश्वास-प्रस्तुतिः - 11
पञ्चाक्षरो महामन्त्रः स्वाहान्तः संप्रकीर्तितः।
मन्त्रार्णानि सबिन्दूनि प्रागोङ्कारान्वितानि च ॥ 11 ॥
मूलम् - 11

विश्वास-प्रस्तुतिः - 12
समुच्चार्याथ तुर्यान्तैर्ज्ञानाद्यैश्च हृदादिभिः।
अनेत्रैरस्त्रपर्यन्तैरङ्गानीत्यवधारय ॥ 12 ॥
मूलम् - 12
समुच्चार्याथ तुर्यान्तैर्ज्ञानाद्यैश्च हृदादिभिः।
अनेत्रैरस्त्रपर्यन्तैरङ्गानीत्यवधारय ॥ 12 ॥
विश्वास-प्रस्तुतिः - 13
प्राङ्मूलमन्त्रमद्याद्यव्यत्ययाद्विषहा भवेत्।
सोऽयं मन्त्रः समाख्यातस्त्रिदशैरपि दुर्लभः ॥ 13 ॥
मूलम् - 13
प्राङ्मूलमन्त्रमद्याद्यव्यत्ययाद्विषहा भवेत्।
सोऽयं मन्त्रः समाख्यातस्त्रिदशैरपि दुर्लभः ॥ 13 ॥
विश्वास-प्रस्तुतिः - 14
पञ्चाक्षर इति ख्यातो गारुढो मुनिसत्तम!।
पञ्चाङ्गानि यथापूर्वमक्षरैः स्युः सबिन्दुकैः ॥ 14 ॥
मूलम् - 14
पञ्चाक्षर इति ख्यातो गारुढो मुनिसत्तम!।
पञ्चाङ्गानि यथापूर्वमक्षरैः स्युः सबिन्दुकैः ॥ 14 ॥
विश्वास-प्रस्तुतिः - 15
साङ्गेनानेन मन्त्रेण स्थापनीयो विधानतः।
मूलालयगते बिम्बे सुस्थिते वाथ यानगे ॥ 15 ॥
मूलम् - 15
साङ्गेनानेन मन्त्रेण स्थापनीयो विधानतः।
मूलालयगते बिम्बे सुस्थिते वाथ यानगे ॥ 15 ॥
विश्वास-प्रस्तुतिः - 16
स्थितैव गारुडी मूर्तिर्याने वा गमनोन्मुखी।
शयने चासने चैव त्वासीना वाथ सुस्थिता ॥ 16 ॥
मूलम् - 16
स्थितैव गारुडी मूर्तिर्याने वा गमनोन्मुखी।
शयने चासने चैव त्वासीना वाथ सुस्थिता ॥ 16 ॥
विश्वास-प्रस्तुतिः - 17
द्वारावरणदेवानां ध्यानाध्याये विशेषतः।
ध्वजारोहेऽपि सुव्यक्तं लक्षणं चास्य वक्ष्यते ॥ 17 ॥
मूलम् - 17
द्वारावरणदेवानां ध्यानाध्याये विशेषतः।
ध्वजारोहेऽपि सुव्यक्तं लक्षणं चास्य वक्ष्यते ॥ 17 ॥
विश्वास-प्रस्तुतिः - 18
एवं ज्ञात्वा यथाकालं तन्मन्त्रनिरतो द्विज!।
स्नात्वा तदीयमन्त्रेण कृतपादावनेजनः ॥ 18 ॥
मूलम् - 18
एवं ज्ञात्वा यथाकालं तन्मन्त्रनिरतो द्विज!।
स्नात्वा तदीयमन्त्रेण कृतपादावनेजनः ॥ 18 ॥
विश्वास-प्रस्तुतिः - 19
उपस्पृश्य यथान्यायं प्रासादं संप्रविश्य च।
स्वासने सुखमासीनः प्राड्मुखो वाप्युदड्मुखः ॥ 19 ॥
मूलम् - 19
उपस्पृश्य यथान्यायं प्रासादं संप्रविश्य च।
स्वासने सुखमासीनः प्राड्मुखो वाप्युदड्मुखः ॥ 19 ॥
विश्वास-प्रस्तुतिः - 20
करशुद्धिं च दिग्बन्धं प्राणायामं समाप्य च।
भूतशुद्धिं च विधिवन्मन्त्रविन्यस्तविग्रहः ॥ 20 ॥
मूलम् - 20
करशुद्धिं च दिग्बन्धं प्राणायामं समाप्य च।
भूतशुद्धिं च विधिवन्मन्त्रविन्यस्तविग्रहः ॥ 20 ॥
विश्वास-प्रस्तुतिः - 21
पक्षीशमुद्रां बद्ध्वाथ हृदयाम्भोरुहोदरे।
स्वानन्दधामनिष्ठस्य देवस्य चतुरात्मनः ॥ 21 ॥
मूलम् - 21
पक्षीशमुद्रां बद्ध्वाथ हृदयाम्भोरुहोदरे।
स्वानन्दधामनिष्ठस्य देवस्य चतुरात्मनः ॥ 21 ॥
विश्वास-प्रस्तुतिः - 22
संकर्षणांशात् संपूर्णविज्ञानबलसंकुलात्।
अवतार्यामृनैर्भोगैर्जपान्तं प्राग्वदर्च्य च ॥ 22 ॥
मूलम् - 22
संकर्षणांशात् संपूर्णविज्ञानबलसंकुलात्।
अवतार्यामृनैर्भोगैर्जपान्तं प्राग्वदर्च्य च ॥ 22 ॥
विश्वास-प्रस्तुतिः - 23
ततो मूर्तैर्यजेद्बाह्यैः प्रागुक्तैर्भोगसंचयैः।
पात्रशिष्टैश्च देवान्नैः साधितैः पृथगेव वा ॥ 23 ॥
मूलम् - 23
ततो मूर्तैर्यजेद्बाह्यैः प्रागुक्तैर्भोगसंचयैः।
पात्रशिष्टैश्च देवान्नैः साधितैः पृथगेव वा ॥ 23 ॥
विश्वास-प्रस्तुतिः - 24
तदर्थं कल्पयेत् प्राग्वदर्घ्याद्यं पात्रपञ्चकम्।
द्वितयं चाथवैकस्मिन् पाद्यं स्नानीयवारि च ॥ 24 ॥
मूलम् - 24
तदर्थं कल्पयेत् प्राग्वदर्घ्याद्यं पात्रपञ्चकम्।
द्वितयं चाथवैकस्मिन् पाद्यं स्नानीयवारि च ॥ 24 ॥
विश्वास-प्रस्तुतिः - 25
अर्घ्याचामे तदन्यस्मिन्नेकस्मिन् सकलं तु वा।
प्राग्वत् स्वदेहविन्यस्तान् मन्त्रानभ्यर्च्य मन्त्रवित् ॥ 25 ॥
मूलम् - 25

विश्वास-प्रस्तुतिः - 26
अर्घ्याद्यैर्धूपपर्यन्तैस्ततो द्वारचतुष्टये।
वास्त्वीशं क्षेत्तनाथं च द्वारलक्ष्मीं स्वमन्त्रतः ॥ 26 ॥
मूलम् - 26

विश्वास-प्रस्तुतिः - 27
चण्डाद्यं च गणं प्राग्वदासनं कल्पयेत् ततः।
शेषपूर्वं च धर्माद्यमष्टकं वा द्विरष्टकम् ॥ 27 ॥
मूलम् - 27
चण्डाद्यं च गणं प्राग्वदासनं कल्पयेत् ततः।
शेषपूर्वं च धर्माद्यमष्टकं वा द्विरष्टकम् ॥ 27 ॥
विश्वास-प्रस्तुतिः - 28
कालचक्रं तदूर्ध्वे तु सरोजाद्यं चतुष्टयम्।
समब्यर्च्य च गन्धाद्यैर्गणनाथादिकानपि ॥ 28 ॥
मूलम् - 28
कालचक्रं तदूर्ध्वे तु सरोजाद्यं चतुष्टयम्।
समब्यर्च्य च गन्धाद्यैर्गणनाथादिकानपि ॥ 28 ॥
विश्वास-प्रस्तुतिः - 29
हृत्पजकर्णिकामध्ये मानसैरर्चितं पुरा।
स्वविद्यया समावाह्य स्वस्थानाद्बिम्बहृत्कजे ॥ 29 ॥
मूलम् - 29
हृत्पजकर्णिकामध्ये मानसैरर्चितं पुरा।
स्वविद्यया समावाह्य स्वस्थानाद्बिम्बहृत्कजे ॥ 29 ॥
विश्वास-प्रस्तुतिः - 30
सकलीकृत्य विधिवदङ्गलाञ्छनभूषणैः।
सत्याख्यया दक्षिणतो बलशक्त्या स्वरूपया ॥ 30 ॥
मूलम् - 30
सकलीकृत्य विधिवदङ्गलाञ्छनभूषणैः।
सत्याख्यया दक्षिणतो बलशक्त्या स्वरूपया ॥ 30 ॥
विश्वास-प्रस्तुतिः - 31
गणित्रकं च मन्दारकुसुमस्तबकं तथा।
कलशं चामृताधारं फणीन्द्रं दक्षिणादितः ॥ 31 ॥
मूलम् - 31
गणित्रकं च मन्दारकुसुमस्तबकं तथा।
कलशं चामृताधारं फणीन्द्रं दक्षिणादितः ॥ 31 ॥
विश्वास-प्रस्तुतिः - 32
विन्यसेल्लाञ्छनान्येवं किरीटं वनमालिकाम्।
अनन्तादीनि नागानि न्यस्यानि तदनन्तरम् ॥ 32 ॥
मूलम् - 32
विन्यसेल्लाञ्छनान्येवं किरीटं वनमालिकाम्।
अनन्तादीनि नागानि न्यस्यानि तदनन्तरम् ॥ 32 ॥
विश्वास-प्रस्तुतिः - 33
शक्तिः प्रागुदिता तस्य बलधर्मस्वरूपिणी।
पक्षीशमुद्रां सन्दर्श्य लययागं समाचरेत् ॥ 33 ॥
मूलम् - 33
शक्तिः प्रागुदिता तस्य बलधर्मस्वरूपिणी।
पक्षीशमुद्रां सन्दर्श्य लययागं समाचरेत् ॥ 33 ॥
विश्वास-प्रस्तुतिः - 34
भोगयागश्च कर्तव्यः पझपीठतलोपरि।
प्रागादिपझपत्रेषु हृदयादीनि पूर्वत् ॥ 34 ॥
मूलम् - 34
भोगयागश्च कर्तव्यः पझपीठतलोपरि।
प्रागादिपझपत्रेषु हृदयादीनि पूर्वत् ॥ 34 ॥
विश्वास-प्रस्तुतिः - 35
विदिक्पत्रेषु चैवास्त्रमेषां वर्णानि पूर्ववत्।
रूपलावण्यभूषाद्यैर्मूलमन्त्रशरीरवत् ॥ 35 ॥
मूलम् - 35
विदिक्पत्रेषु चैवास्त्रमेषां वर्णानि पूर्ववत्।
रूपलावण्यभूषाद्यैर्मूलमन्त्रशरीरवत् ॥ 35 ॥
विश्वास-प्रस्तुतिः - 36
अग्नीशरक्षोवायव्यकोणेषु विहगेशितुः।
चतुष्टयं गणित्राद्यं किरीटं वनमालिकाम् ॥ 36 ॥
मूलम् - 36
अग्नीशरक्षोवायव्यकोणेषु विहगेशितुः।
चतुष्टयं गणित्राद्यं किरीटं वनमालिकाम् ॥ 36 ॥
विश्वास-प्रस्तुतिः - 37
पुरस्तात् पृष्ठतो न्यस्य दक्षिणोत्तरयोस्तथा।
चतुष्टयं क्रमेणैव शेषाद्याः पन्नगेश्वराः ॥ 37 ॥
मूलम् - 37
पुरस्तात् पृष्ठतो न्यस्य दक्षिणोत्तरयोस्तथा।
चतुष्टयं क्रमेणैव शेषाद्याः पन्नगेश्वराः ॥ 37 ॥
विश्वास-प्रस्तुतिः - 38
दक्षिणे विहगेशस्य सत्याख्या कर्णिकोपरि।
प्राणापानसमानोदानव्यान प्राणरूपिणः ॥ 38 ॥
मूलम् - 38
दक्षिणे विहगेशस्य सत्याख्या कर्णिकोपरि।
प्राणापानसमानोदानव्यान प्राणरूपिणः ॥ 38 ॥
विश्वास-प्रस्तुतिः - 39
मध्यस्थस्य खगेशस्य बहिः प्रागादितः क्रमात्।
सत्यः सुपर्णो गरुडस्तार्क्ष्यश्च विहगेश्वरः ॥ 39 ॥
मूलम् - 39
मध्यस्थस्य खगेशस्य बहिः प्रागादितः क्रमात्।
सत्यः सुपर्णो गरुडस्तार्क्ष्यश्च विहगेश्वरः ॥ 39 ॥
विश्वास-प्रस्तुतिः - 40
पञ्चात्मकस्य प्राणस्य विकारस्त्वेष पञ्चधा।
सत्याद्या दिक्षु चत्वारः कोणेषु विहगेश्वरः ॥ 40 ॥
मूलम् - 40
पञ्चात्मकस्य प्राणस्य विकारस्त्वेष पञ्चधा।
सत्याद्या दिक्षु चत्वारः कोणेषु विहगेश्वरः ॥ 40 ॥
विश्वास-प्रस्तुतिः - 41
द्यानमेषां विशेषेण समाकर्णय साम्प्रतम्।
आचाङ्घ्रिगोचरात् सर्वो यस्य देहस्तु पौरुषः ॥ 41 ॥
मूलम् - 41
द्यानमेषां विशेषेण समाकर्णय साम्प्रतम्।
आचाङ्घ्रिगोचरात् सर्वो यस्य देहस्तु पौरुषः ॥ 41 ॥
विश्वास-प्रस्तुतिः - 42
द्विभुजस्तुहिनाभस्तु स सत्यः प्राणदैवतम्।
सुपर्णः पझरागाभो निर्मलः स्वर्णलोचनः ॥ 42 ॥
मूलम् - 42
द्विभुजस्तुहिनाभस्तु स सत्यः प्राणदैवतम्।
सुपर्णः पझरागाभो निर्मलः स्वर्णलोचनः ॥ 42 ॥
विश्वास-प्रस्तुतिः - 43
गरुडः काञ्चनाभस्तु कुटिलभ्रवरुणेक्षणः।
केकराक्षस्तु तार्क्ष्यो वै प्राबृड्जलदसन्निभः ॥ 43 ॥
मूलम् - 43
गरुडः काञ्चनाभस्तु कुटिलभ्रवरुणेक्षणः।
केकराक्षस्तु तार्क्ष्यो वै प्राबृड्जलदसन्निभः ॥ 43 ॥
विश्वास-प्रस्तुतिः - 44
द्रवत्कनकनेत्रस्तु शबलाभस्तु पञ्चमः।
चतुर्भुजाः सुपर्णाद्याः सौम्यरूपा ह्यनाकुलाः ॥ 44 ॥
मूलम् - 44
द्रवत्कनकनेत्रस्तु शबलाभस्तु पञ्चमः।
चतुर्भुजाः सुपर्णाद्याः सौम्यरूपा ह्यनाकुलाः ॥ 44 ॥
विश्वास-प्रस्तुतिः - 45
पतत्रिचरणाः सर्वे पक्षमण्डलमण्डिताः।
लम्बोदराः सुपीनाङ्गाः कुण्डलाद्यैर्विभूषिताः ॥ 45 ॥
मूलम् - 45
पतत्रिचरणाः सर्वे पक्षमण्डलमण्डिताः।
लम्बोदराः सुपीनाङ्गाः कुण्डलाद्यैर्विभूषिताः ॥ 45 ॥
विश्वास-प्रस्तुतिः - 46
कुटिलभ्रूसुवृत्ताक्षा वक्र (ज्र) तुण्डाः सिताननाः।
अपानादिसमीराणामाधिपत्येन संस्थिताः ॥ 46 ॥
मूलम् - 46
कुटिलभ्रूसुवृत्ताक्षा वक्र (ज्र) तुण्डाः सिताननाः।
अपानादिसमीराणामाधिपत्येन संस्थिताः ॥ 46 ॥
विश्वास-प्रस्तुतिः - 47
महाबला महाकाया रक्ततुण्डोऽत्र पञ्चमः।
स्वस्वाङ्गुष्ठद्वयप्रोतगणित्रोभयपाणिना ॥ 47 ॥
मूलम् - 47
महाबला महाकाया रक्ततुण्डोऽत्र पञ्चमः।
स्वस्वाङ्गुष्ठद्वयप्रोतगणित्रोभयपाणिना ॥ 47 ॥
विश्वास-प्रस्तुतिः - 48
पुष्पाञ्जलिधराः सर्वे मुख्येन विहगोत्तमाः।
सुपर्णः पश्चिमाभ्यां तु पाणिभ्यां दक्षिणादितः ॥ 48 ॥
मूलम् - 48
पुष्पाञ्जलिधराः सर्वे मुख्येन विहगोत्तमाः।
सुपर्णः पश्चिमाभ्यां तु पाणिभ्यां दक्षिणादितः ॥ 48 ॥
विश्वास-प्रस्तुतिः - 49
मन्दारपुष्पस्तबकं दधद्विस्मयमुद्रिकाम्।
तथाविधाभ्यां गरुडस्ते धत्ते व्यत्ययेन तु ॥ 49 ॥
मूलम् - 49
मन्दारपुष्पस्तबकं दधद्विस्मयमुद्रिकाम्।
तथाविधाभ्यां गरुडस्ते धत्ते व्यत्ययेन तु ॥ 49 ॥
विश्वास-प्रस्तुतिः - 50
तार्क्ष्यः पश्चिमयोर्नित्यं धत्ते दक्षिणवामयोः।
कद्रूं तथाऽमृतं कुम्भं पञ्चमो विहगेश्वरः ॥ 50 ॥
मूलम् - 50
तार्क्ष्यः पश्चिमयोर्नित्यं धत्ते दक्षिणवामयोः।
कद्रूं तथाऽमृतं कुम्भं पञ्चमो विहगेश्वरः ॥ 50 ॥
विश्वास-प्रस्तुतिः - 51
दक्षिणेन सुधाकुम्भं वामेन तु फणीश्वरम्।
नित्योदितस्य व्यूहस्य तथा शान्तोदितस्य च ॥ 51 ॥
मूलम् - 51
दक्षिणेन सुधाकुम्भं वामेन तु फणीश्वरम्।
नित्योदितस्य व्यूहस्य तथा शान्तोदितस्य च ॥ 51 ॥
विश्वास-प्रस्तुतिः - 52
प्राणापानादिवायूनां पञ्चानामपि नामभाक्।
गरुडः परिवारत्वे ध्वजत्वेपि विशेषतः ॥ 52 ॥
मूलम् - 52
प्राणापानादिवायूनां पञ्चानामपि नामभाक्।
गरुडः परिवारत्वे ध्वजत्वेपि विशेषतः ॥ 52 ॥
विश्वास-प्रस्तुतिः - 53
योजनीयस्तथान्येषु सषुप्त्यादिपदेषु तु।
वासुदेवादिमूर्तीनां चतुर्णां क्रमशस्त्वमी ॥ 53 ॥
मूलम् - 53
योजनीयस्तथान्येषु सषुप्त्यादिपदेषु तु।
वासुदेवादिमूर्तीनां चतुर्णां क्रमशस्त्वमी ॥ 53 ॥
विश्वास-प्रस्तुतिः - 54
सत्याद्यास्तार्क्ष्यपर्यन्तास्तत्तन्मूर्त्यन्तरेषु तु।
त्रिषु त्रिषु समादेयाः सत्याद्याः केशवादिषु ॥ 54 ॥
मूलम् - 54

विश्वास-प्रस्तुतिः - 55
पझनाभादिमूर्तीनां पञ्चमो विहगेश्वरः।
परात्परपरव्यूह व्यूहान्तरतनोर्विभोः ॥ 55 ॥
मूलम् - 55
पझनाभादिमूर्तीनां पञ्चमो विहगेश्वरः।
परात्परपरव्यूह व्यूहान्तरतनोर्विभोः ॥ 55 ॥
विश्वास-प्रस्तुतिः - 56
प्रादुर्भावतनोश्चापि जगद्रक्षणकाङ्क्षिणः।
खगानां कारणत्वाच्च प्रागुक्तो वा खगेश्वरः ॥ 56 ॥
मूलम् - 56
प्रादुर्भावतनोश्चापि जगद्रक्षणकाङ्क्षिणः।
खगानां कारणत्वाच्च प्रागुक्तो वा खगेश्वरः ॥ 56 ॥
विश्वास-प्रस्तुतिः - 57
इति ते गारुडव्यूहप्रभावः संप्रकीर्तितः।
कुमुदाद्यास्ततो बाह्ये शक्राद्यास्तद्बहिः क्रमात् ॥ 57 ॥
मूलम् - 57
इति ते गारुडव्यूहप्रभावः संप्रकीर्तितः।
कुमुदाद्यास्ततो बाह्ये शक्राद्यास्तद्बहिः क्रमात् ॥ 57 ॥
विश्वास-प्रस्तुतिः - 58
त?Rद्बहिः कुमुदादीनां भूतेशाश्चोत्कटादयः।
गणशः पूजनीया वा तदग्रे बलिण्डले ॥ 58 ॥
मूलम् - 58
त?Rद्बहिः कुमुदादीनां भूतेशाश्चोत्कटादयः।
गणशः पूजनीया वा तदग्रे बलिण्डले ॥ 58 ॥
विश्वास-प्रस्तुतिः - 59
महापीठेऽथवा पूज्या गरुडस्यानुयायिनः।
पालयन्तश्च तद्भक्तान् दिव्यान्यायतनान्यपि ॥ 59 ॥
मूलम् - 59
महापीठेऽथवा पूज्या गरुडस्यानुयायिनः।
पालयन्तश्च तद्भक्तान् दिव्यान्यायतनान्यपि ॥ 59 ॥
विश्वास-प्रस्तुतिः - 60
ध्यात्वैवमर्चनं कुर्यादासनाद्यैर्यथोदितैः।
चतुष्षष्ट्युपचारैर्वा द्वात्रिंशद्भिस्तु वेतरैः ॥ 60 ॥
मूलम् - 60
ध्यात्वैवमर्चनं कुर्यादासनाद्यैर्यथोदितैः।
चतुष्षष्ट्युपचारैर्वा द्वात्रिंशद्भिस्तु वेतरैः ॥ 60 ॥
विश्वास-प्रस्तुतिः - 61
षोडशैरुपचारैर्वा मुख्यमद्याधमक्रमात्।
तन्निवेदितमन्नाद्यं नराणां रोगिणां सदा ॥ 61 ॥
मूलम् - 61
षोडशैरुपचारैर्वा मुख्यमद्याधमक्रमात्।
तन्निवेदितमन्नाद्यं नराणां रोगिणां सदा ॥ 61 ॥
विश्वास-प्रस्तुतिः - 62
वन्ध्यानां वनितानां च जयेच्छूनां च भूभुजाम्।
विषोपहतवेषाणां प्रदद्यात् संविभज्य च ॥ 62 ॥
मूलम् - 62
वन्ध्यानां वनितानां च जयेच्छूनां च भूभुजाम्।
विषोपहतवेषाणां प्रदद्यात् संविभज्य च ॥ 62 ॥
विश्वास-प्रस्तुतिः - 63
आर्द्रायां प्रतिमासं तं विशेषेणैवमर्चयेत्।
उत्सवेषु विशेषेण भ्रामयेदुत्सवार्चया ॥ 63 ॥
मूलम् - 63
आर्द्रायां प्रतिमासं तं विशेषेणैवमर्चयेत्।
उत्सवेषु विशेषेण भ्रामयेदुत्सवार्चया ॥ 63 ॥
विश्वास-प्रस्तुतिः - 64
इति सम्यक् समाख्यातं गरुडस्यार्चनं परम्।
इतः परं यच्छ्रोतव्यं तद्वदस्व मुनेऽधुना ॥ 64 ॥
मूलम् - 64
इति सम्यक् समाख्यातं गरुडस्यार्चनं परम्।
इतः परं यच्छ्रोतव्यं तद्वदस्व मुनेऽधुना ॥ 64 ॥
विश्वास-प्रस्तुतिः - 65
मुने! सकलधर्मज्ञ! भगवन्! भक्तवत्सल!।
विष्व?Rक्सेनस्य विघ्नारेः पूजनं विहितं पुरा ॥ 65 ॥
मूलम् - 65
मुने! सकलधर्मज्ञ! भगवन्! भक्तवत्सल!।
विष्व?Rक्सेनस्य विघ्नारेः पूजनं विहितं पुरा ॥ 65 ॥
विश्वास-प्रस्तुतिः - 68
समस्तविघ्ननाथानां परमं कारणं च यः।
विष्वक्सेनस्तु यष्टव्यो भोगभूमिगतेऽच्युते ॥ 68 ॥
मूलम् - 68
समस्तविघ्ननाथानां परमं कारणं च यः।
विष्वक्सेनस्तु यष्टव्यो भोगभूमिगतेऽच्युते ॥ 68 ॥
विश्वास-प्रस्तुतिः - 70
न यागयज्ञधर्माद्यैर्मन्ये संसारिणां शुभम्।
तत्प्रवृत्तौ तु ये विग्नाः प्रोत्साहविनिवारकाः ॥ 70 ॥
मूलम् - 70
न यागयज्ञधर्माद्यैर्मन्ये संसारिणां शुभम्।
तत्प्रवृत्तौ तु ये विग्नाः प्रोत्साहविनिवारकाः ॥ 70 ॥
विश्वास-प्रस्तुतिः - 71
व्यपयान्ति च ते सर्वे चक्रज्वालाभयार्दिताः।
प्रागार्जितेन केनापि कर्मणा द्विज! साम्प्रतम् ॥ 71 ॥
मूलम् - 71
व्यपयान्ति च ते सर्वे चक्रज्वालाभयार्दिताः।
प्रागार्जितेन केनापि कर्मणा द्विज! साम्प्रतम् ॥ 71 ॥
विश्वास-प्रस्तुतिः - 72
अनुभुङ्क्ते फलं यागाद्द्विविधं चाग्रतःस्थितम्।
तस्य संरक्षणार्थं तु विष्वक्सेनः सदैव हि ॥ 72 ॥
मूलम् - 72
अनुभुङ्क्ते फलं यागाद्द्विविधं चाग्रतःस्थितम्।
तस्य संरक्षणार्थं तु विष्वक्सेनः सदैव हि ॥ 72 ॥
विश्वास-प्रस्तुतिः - 73
काले यागावसानाख्ये द्वितीयेऽवसरेऽथवा।
कृत्वा निर्व्याकुलं चित्तं यष्टव्यः फलसिद्धये ॥ 73 ॥
मूलम् - 73
काले यागावसानाख्ये द्वितीयेऽवसरेऽथवा।
कृत्वा निर्व्याकुलं चित्तं यष्टव्यः फलसिद्धये ॥ 73 ॥
विश्वास-प्रस्तुतिः - 74
यागनिर्वर्तनाच्छेषैरम्लानैरर्घ्यपूर्वकैः।
उपचारमयैर्भोगैः सर्वैराभरणादिकैः ॥ 74 ॥
मूलम् - 74
यागनिर्वर्तनाच्छेषैरम्लानैरर्घ्यपूर्वकैः।
उपचारमयैर्भोगैः सर्वैराभरणादिकैः ॥ 74 ॥
विश्वास-प्रस्तुतिः - 75
नैवेद्यैर्मधुपर्काद्यैर्मुख्यमूर्तेर्निवेदितैः।
द्विजप्रदानशिष्टैस्तु स्वयं प्राशनवर्जितैः ॥ 75 ॥
मूलम् - 75
नैवेद्यैर्मधुपर्काद्यैर्मुख्यमूर्तेर्निवेदितैः।
द्विजप्रदानशिष्टैस्तु स्वयं प्राशनवर्जितैः ॥ 75 ॥
विश्वास-प्रस्तुतिः - 76
तथा चर्वन्तरस्थैश्च ह्यपरेभ्योऽनिवेदितैः।
संस्कृतैरूष्मणोपेतैर्मधुराज्यपरिप्लुतैः ॥ 76 ॥
मूलम् - 76
तथा चर्वन्तरस्थैश्च ह्यपरेभ्योऽनिवेदितैः।
संस्कृतैरूष्मणोपेतैर्मधुराज्यपरिप्लुतैः ॥ 76 ॥
विश्वास-प्रस्तुतिः - 77
क एषोऽतुलवीर्यो हि यस्य दूराद्द्रवन्ति च।
विघ्ना निमेषमात्रेण त्रैलोक्योन्मूलनक्षमाः ॥ 77 ॥
मूलम् - 77
क एषोऽतुलवीर्यो हि यस्य दूराद्द्रवन्ति च।
विघ्ना निमेषमात्रेण त्रैलोक्योन्मूलनक्षमाः ॥ 77 ॥
विश्वास-प्रस्तुतिः - 78
कालवैश्वानराख्या या मूर्तिस्तुर्यात्मनो विभोः।
स एव द्विजदेवास्यो विष्वक्सेनः प्रकीर्तितः ॥ 78 ॥
मूलम् - 78
कालवैश्वानराख्या या मूर्तिस्तुर्यात्मनो विभोः।
स एव द्विजदेवास्यो विष्वक्सेनः प्रकीर्तितः ॥ 78 ॥
विश्वास-प्रस्तुतिः - 79
स्थित आहवनीयादिभेदेन मखयाजिनाम्।
ऋक्पूतं हुतमादाय तर्पयत्यखिलं जगत् ॥ 79 ॥
मूलम् - 79
स्थित आहवनीयादिभेदेन मखयाजिनाम्।
ऋक्पूतं हुतमादाय तर्पयत्यखिलं जगत् ॥ 79 ॥
विश्वास-प्रस्तुतिः - 80
एवं मन्त्रमयाद्यागात् सात्विकाद्ब्रह्नभावितात्।
संप्राप्य गुरुमूर्तेर्बै प्रापणं मन्त्रसंस्कृतम् ॥ 80 ॥
मूलम् - 80

विश्वास-प्रस्तुतिः - 81
अनाहुतामराणां च सर्वलोकनिवासिनाम्।
स्वयं संविभजत्याशु तदनुग्रहकाम्यया ॥ 81 ॥
मूलम् - 81
अनाहुतामराणां च सर्वलोकनिवासिनाम्।
स्वयं संविभजत्याशु तदनुग्रहकाम्यया ॥ 81 ॥
विश्वास-प्रस्तुतिः - 82
ज्ञात्वैवं तस्य माहात्म्यं व्यक्तिस्थं फलसिद्धये।
त्रिसन्ध्यं नित्यपूजायां बल्यन्ते तं समर्चयेत् ॥ 82 ॥
मूलम् - 82

विश्वास-प्रस्तुतिः - 83
वत्सरोत्सवपूर्वेषु तथा वैशेषिकेष्वपि।
व्यक्त्याद्याधारभूतेषु(भेदेषु) क्रमात् कृत्वा पुरार्चनम् ॥ 83 ॥
मूलम् - 83

विश्वास-प्रस्तुतिः - 84
केवलं वाथ होमान्तं स्वशक्त्या विभवेन वा।
विस्तरेणाथवा शश्वत्ततः कमलसंभव! ॥ 84 ॥
मूलम् - 84
केवलं वाथ होमान्तं स्वशक्त्या विभवेन वा।
विस्तरेणाथवा शश्वत्ततः कमलसंभव! ॥ 84 ॥
विश्वास-प्रस्तुतिः - 85
कृत्वा पर्णपुटे तोयं पात्रे वा कलशेऽव्रणे।
तमात्मनोत्तरे भागे ह्यर्चयित्वा निवेद्य च ॥ 85 ॥
मूलम् - 85
कृत्वा पर्णपुटे तोयं पात्रे वा कलशेऽव्रणे।
तमात्मनोत्तरे भागे ह्यर्चयित्वा निवेद्य च ॥ 85 ॥
विश्वास-प्रस्तुतिः - 86
अथापरस्मिन् बाण्डे तु तदस्त्रपरिमन्त्रिते।
नैवेद्याद्भागमादाय तथा चर्वन्तरस्थितात् ॥ 86 ॥
मूलम् - 86
अथापरस्मिन् बाण्डे तु तदस्त्रपरिमन्त्रिते।
नैवेद्याद्भागमादाय तथा चर्वन्तरस्थितात् ॥ 86 ॥
विश्वास-प्रस्तुतिः - 87
ओदनादंशमुद्धृत्य दध्याज्यव्यञ्जनैः सह।
समालभनपुष्पार्ध्यकुशाम्बुपरिभावितम् ॥ 87 ॥
मूलम् - 87
ओदनादंशमुद्धृत्य दध्याज्यव्यञ्जनैः सह।
समालभनपुष्पार्ध्यकुशाम्बुपरिभावितम् ॥ 87 ॥
विश्वास-प्रस्तुतिः - 88
तद्धृन्मन्त्रेण बहुशो ह्यभिमन्त्र्याब्जसंभव!।
तन्मूलमन्त्रमुच्चार्य ध्यानभावनयान्वितम् ॥ 88 ॥
मूलम् - 88
तद्धृन्मन्त्रेण बहुशो ह्यभिमन्त्र्याब्जसंभव!।
तन्मूलमन्त्रमुच्चार्य ध्यानभावनयान्वितम् ॥ 88 ॥
विश्वास-प्रस्तुतिः - 89
प्राक्सन्निवेशिते भाण्डे समुत्कीर्य पिधाय तत्।
प्रणवाष्टकजप्तं वा तन्नाम्ना सह पौष्कर! ॥ 89 ॥
मूलम् - 89
प्राक्सन्निवेशिते भाण्डे समुत्कीर्य पिधाय तत्।
प्रणवाष्टकजप्तं वा तन्नाम्ना सह पौष्कर! ॥ 89 ॥
विश्वास-प्रस्तुतिः - 90
एकं वै सोदकं पात्रं सनैवेद्यं जलाप्लुतम्।
सर्वत्र सर्वदा यागे कुर्यात् प्राग्विधिना विना ॥ 90 ॥
मूलम् - 90
एकं वै सोदकं पात्रं सनैवेद्यं जलाप्लुतम्।
सर्वत्र सर्वदा यागे कुर्यात् प्राग्विधिना विना ॥ 90 ॥
विश्वास-प्रस्तुतिः - 91
तच्चापि क्ष्मातले कूपे तटाकादौ तु चोत्किरेत्।
नोपभोगं यथा याति काकादिष्वब्जसंभव! ॥ 91 ॥
मूलम् - 91
तच्चापि क्ष्मातले कूपे तटाकादौ तु चोत्किरेत्।
नोपभोगं यथा याति काकादिष्वब्जसंभव! ॥ 91 ॥
विश्वास-प्रस्तुतिः - 92
यस्मात् सन्मन्त्रपूतं तत् प्राधान्येनाभिवर्धते।
अतो निषिद्धः पापानामपापानां विशेषतः ॥ 92 ॥
मूलम् - 92
यस्मात् सन्मन्त्रपूतं तत् प्राधान्येनाभिवर्धते।
अतो निषिद्धः पापानामपापानां विशेषतः ॥ 92 ॥
विश्वास-प्रस्तुतिः - 93
ज्ञात्वैवं यत्रतो मन्त्री तन्मन्त्रेण समर्चयते।
सा?Rङ्गं मन्त्रमतो वक्ष्ये यथावदवधारय ॥ 93 ॥
मूलम् - 93
ज्ञात्वैवं यत्रतो मन्त्री तन्मन्त्रेण समर्चयते।
सा?Rङ्गं मन्त्रमतो वक्ष्ये यथावदवधारय ॥ 93 ॥
विश्वास-प्रस्तुतिः - 94
आक्रान्तमनलेनैव प्राणाख्यं बीजनायकम्।
त्रैलोक्त्यैश्वर्यदोपेतमूर्जोपरि गतं तु तत् ॥ 94 ॥
मूलम् - 94
आक्रान्तमनलेनैव प्राणाख्यं बीजनायकम्।
त्रैलोक्त्यैश्वर्यदोपेतमूर्जोपरि गतं तु तत् ॥ 94 ॥
विश्वास-प्रस्तुतिः - 95
ततो वाराहमादाय भूधरव्योम भूषितम्।
विष्वक्सेनाय तदनु सनमस्कं पदं न्यसेत् ॥ 95 ॥
मूलम् - 95
ततो वाराहमादाय भूधरव्योम भूषितम्।
विष्वक्सेनाय तदनु सनमस्कं पदं न्यसेत् ॥ 95 ॥
विश्वास-प्रस्तुतिः - 96
प्रणवाद्यो ह्ययं मन्त्रो विष्वक्सेनस्य कीर्तितः।
पूर्वबीजं हि यच्चास्य ऊकारस्वरवर्जितम् ॥ 96 ॥
मूलम् - 96
प्रणवाद्यो ह्ययं मन्त्रो विष्वक्सेनस्य कीर्तितः।
पूर्वबीजं हि यच्चास्य ऊकारस्वरवर्जितम् ॥ 96 ॥
विश्वास-प्रस्तुतिः - 97
आकाराद्यैश्च षड्दीर्घैर्भिन्नमङ्गगणं नयेत्।
प्रणवेन स्वनाम्नाथ जातिभिष्षड्भिरन्वितम् ॥ 97 ॥
मूलम् - 97
आकाराद्यैश्च षड्दीर्घैर्भिन्नमङ्गगणं नयेत्।
प्रणवेन स्वनाम्नाथ जातिभिष्षड्भिरन्वितम् ॥ 97 ॥
विश्वास-प्रस्तुतिः - 98
नमस्स्वाहादिभिश्चायं विष्वक्सेनस्य अङ्गकः।
साङ्गेनानेन मन्त्रेण प्रतिष्ठाप्यो विधानतः ॥ 98 ॥
मूलम् - 98
नमस्स्वाहादिभिश्चायं विष्वक्सेनस्य अङ्गकः।
साङ्गेनानेन मन्त्रेण प्रतिष्ठाप्यो विधानतः ॥ 98 ॥
विश्वास-प्रस्तुतिः - 99
प्रथमावरणे वाथ द्वितीयावरणेऽथवा।
ईशानसोमदिङ्मध्ये प्रासादे दक्षिणामुखे ॥ 99 ॥
मूलम् - 99
प्रथमावरणे वाथ द्वितीयावरणेऽथवा।
ईशानसोमदिङ्मध्ये प्रासादे दक्षिणामुखे ॥ 99 ॥
विश्वास-प्रस्तुतिः - 100
मूलालयोच्चान्नीचे तु कल्पिते गर्भमन्दिरे।
ब्रह्नस्थानेऽथवा दिव्ये मूलबेरांशमानतः ॥ 100 ॥
मूलम् - 100
मूलालयोच्चान्नीचे तु कल्पिते गर्भमन्दिरे।
ब्रह्नस्थानेऽथवा दिव्ये मूलबेरांशमानतः ॥ 100 ॥
विश्वास-प्रस्तुतिः - 101
कल्पितस्य शिलादारुलीहपूर्वैस्तु वस्तुभिः।
पूजनं मुख्यकल्पं स्यादनुकल्पेऽग्रमण्टपे ॥ 101 ॥
मूलम् - 101
कल्पितस्य शिलादारुलीहपूर्वैस्तु वस्तुभिः।
पूजनं मुख्यकल्पं स्यादनुकल्पेऽग्रमण्टपे ॥ 101 ॥
विश्वास-प्रस्तुतिः - 102
प्रागुक्तकोणभूभागे मेखलात्रयनिर्मिते।
पीठेऽवतार्य गगनादमूर्तं मूर्तमेव वा ॥ 102 ॥
मूलम् - 102
प्रागुक्तकोणभूभागे मेखलात्रयनिर्मिते।
पीठेऽवतार्य गगनादमूर्तं मूर्तमेव वा ॥ 102 ॥
विश्वास-प्रस्तुतिः - 103
केबलं बलिदानेन तर्पयेदुदकेन च।
चतुस्स्थानावतीर्णस्य मण्डलादिषु वृत्तिषु ॥ 103 ॥
मूलम् - 103
केबलं बलिदानेन तर्पयेदुदकेन च।
चतुस्स्थानावतीर्णस्य मण्डलादिषु वृत्तिषु ॥ 103 ॥
विश्वास-प्रस्तुतिः - 104
परव्यूहादिरूपस्य देवस्य यजनावधौ।
प्रासादान्तर्गतस्यापि स्वस्थानस्थस्य मण्टपे ॥ 104 ॥
मूलम् - 104
परव्यूहादिरूपस्य देवस्य यजनावधौ।
प्रासादान्तर्गतस्यापि स्वस्थानस्थस्य मण्टपे ॥ 104 ॥
विश्वास-प्रस्तुतिः - 105
पूजनं विधिवत् कार्यमारम्भदिवसादितः।
सर्वकर्मावसाने तु मण्डलादिगते विभौ ॥ 105 ॥
मूलम् - 105
पूजनं विधिवत् कार्यमारम्भदिवसादितः।
सर्वकर्मावसाने तु मण्डलादिगते विभौ ॥ 105 ॥
विश्वास-प्रस्तुतिः - 106
स्वे स्वे धाम्नि विसृष्टे तु ध्यात्वा मण्डलमध्यतः।
पूजयेद्विधिवन्मन्त्री द्वितीये वासरेऽपि च ॥ 106 ॥
मूलम् - 106
स्वे स्वे धाम्नि विसृष्टे तु ध्यात्वा मण्डलमध्यतः।
पूजयेद्विधिवन्मन्त्री द्वितीये वासरेऽपि च ॥ 106 ॥
विश्वास-प्रस्तुतिः - 107
भगवद्यजनार्थं तु प्रासादस्थं विशेषतः।
यथाविधि समब्यर्च्य नैवेद्यैस्तन्निवेदितैः ॥ 107 ॥
मूलम् - 107
भगवद्यजनार्थं तु प्रासादस्थं विशेषतः।
यथाविधि समब्यर्च्य नैवेद्यैस्तन्निवेदितैः ॥ 107 ॥
विश्वास-प्रस्तुतिः - 108
अर्घ्याद्यैरखिलैरन्यैस्ताम्बूलाद्यैश्च नित्यशः।
जलस्थलादिनिलयांस्तद्भूतांश्चाथ तर्पयेत् ॥ 108 ॥
मूलम् - 108
अर्घ्याद्यैरखिलैरन्यैस्ताम्बूलाद्यैश्च नित्यशः।
जलस्थलादिनिलयांस्तद्भूतांश्चाथ तर्पयेत् ॥ 108 ॥
विश्वास-प्रस्तुतिः - 109
प्रासादस्थस्य तस्याथ देहमानानुसारतः।
कृत्वा हेमादिभिर्द्रव्यैर्विशेषार्यां विधानतः ॥ 109 ॥
मूलम् - 109
प्रासादस्थस्य तस्याथ देहमानानुसारतः।
कृत्वा हेमादिभिर्द्रव्यैर्विशेषार्यां विधानतः ॥ 109 ॥
विश्वास-प्रस्तुतिः - 110
उग्रां वा शान्तरूपां वा विघ्नविध्वंसनक्षमाम्।
चतुर्भुजां वा द्विभुजामासीनां वा समुत्थिताम् ॥ 110 ॥
मूलम् - 110
उग्रां वा शान्तरूपां वा विघ्नविध्वंसनक्षमाम्।
चतुर्भुजां वा द्विभुजामासीनां वा समुत्थिताम् ॥ 110 ॥
विश्वास-प्रस्तुतिः - 111
द्विभुजस्य चतुर्हस्तामन्यथा वा प्रकल्पिताम्।
वैशेषिकेषु प्राप्तेषु पूजयेदुत्सवार्चया ॥ 111 ॥
मूलम् - 111
द्विभुजस्य चतुर्हस्तामन्यथा वा प्रकल्पिताम्।
वैशेषिकेषु प्राप्तेषु पूजयेदुत्सवार्चया ॥ 111 ॥
विश्वास-प्रस्तुतिः - 112
मृगयाद्युत्सवे प्राप्ते यत्र यत्र व्रजेत् प्रभुः।
तत्र तत्र नयेदेनं निर्विध्नफलसिद्धये ॥ 112 ॥
मूलम् - 112
मृगयाद्युत्सवे प्राप्ते यत्र यत्र व्रजेत् प्रभुः।
तत्र तत्र नयेदेनं निर्विध्नफलसिद्धये ॥ 112 ॥
विश्वास-प्रस्तुतिः - 113
ध्यानमस्य प्रवक्ष्यामि यथावच्छृणु सत्तम!।
नवदूर्वाङ्कुराभं च त्वीषत्पित्तलकान्तिभृत् ॥ 113 ॥
मूलम् - 113
ध्यानमस्य प्रवक्ष्यामि यथावच्छृणु सत्तम!।
नवदूर्वाङ्कुराभं च त्वीषत्पित्तलकान्तिभृत् ॥ 113 ॥
विश्वास-प्रस्तुतिः - 114
चतुर्दंष्ट्रं चतुर्बाहुं चतुष्किष्कुं चतुर्गतिम्।
पूर्णाङ्गं केसरिस्कन्धं पृथूरस्थलराजितम् ॥ 114 ॥
मूलम् - 114
चतुर्दंष्ट्रं चतुर्बाहुं चतुष्किष्कुं चतुर्गतिम्।
पूर्णाङ्गं केसरिस्कन्धं पृथूरस्थलराजितम् ॥ 114 ॥
विश्वास-प्रस्तुतिः - 115
दक्षिणावर्तनिम्नेन नाभिरन्ध्रेण शोभितम्।
आजानुबाहुं श्रीमन्तं पि?Rङ्गलार्जिर्जटाधरम् ॥ 115 ॥
मूलम् - 115
दक्षिणावर्तनिम्नेन नाभिरन्ध्रेण शोभितम्।
आजानुबाहुं श्रीमन्तं पि?Rङ्गलार्जिर्जटाधरम् ॥ 115 ॥
विश्वास-प्रस्तुतिः - 116
द्रवत्कनकपिङ्गाक्षं चिपिटं पृथुनासिकम्।
सितदीर्घनखश्रेणीशोभितं कुटिलभ्रुवम् ॥ 116 ॥
मूलम् - 116
द्रवत्कनकपिङ्गाक्षं चिपिटं पृथुनासिकम्।
सितदीर्घनखश्रेणीशोभितं कुटिलभ्रुवम् ॥ 116 ॥
विश्वास-प्रस्तुतिः - 117
विस्तीर्णगण्डवदनं बालेन्दुकुटिलोपमैः।
नवकिंश्वरुणाकारैर्लोमैः संपूर्णविग्रहम् ॥ 117 ॥
मूलम् - 117
विस्तीर्णगण्डवदनं बालेन्दुकुटिलोपमैः।
नवकिंश्वरुणाकारैर्लोमैः संपूर्णविग्रहम् ॥ 117 ॥
विश्वास-प्रस्तुतिः - 118
शोभनेन प्रलम्बेन पृथुना प्रोन्नतेन च।
माणिक्यकुण्डलाढ्येन युक्तं श्रोत्रद्वयेन तु ॥ 118 ॥
मूलम् - 118
शोभनेन प्रलम्बेन पृथुना प्रोन्नतेन च।
माणिक्यकुण्डलाढ्येन युक्तं श्रोत्रद्वयेन तु ॥ 118 ॥
विश्वास-प्रस्तुतिः - 119
मकुटेनोन्नतेनैव हाराद्यैरुपशोभितम्।
चित्रकौशेयवसनं विचित्रस्रग्विमण्डितम् ॥ 119 ॥
मूलम् - 119
मकुटेनोन्नतेनैव हाराद्यैरुपशोभितम्।
चित्रकौशेयवसनं विचित्रस्रग्विमण्डितम् ॥ 119 ॥
विश्वास-प्रस्तुतिः - 120
प्रलयद्वादशादित्यसहस्रगुणदीधितिम्।
ईषदूर्घ्वे तथादिर्यग्विनिपातितलोचनम् ॥ 120 ॥
मूलम् - 120
प्रलयद्वादशादित्यसहस्रगुणदीधितिम्।
ईषदूर्घ्वे तथादिर्यग्विनिपातितलोचनम् ॥ 120 ॥
विश्वास-प्रस्तुतिः - 121
कुन्देन्दुकान्तिदशनं किञ्चिद्विहसिताननम्।
स्वभावसौम्यममलं मायाक्रोधोपरञ्जितम् ॥ 121 ॥
मूलम् - 121
कुन्देन्दुकान्तिदशनं किञ्चिद्विहसिताननम्।
स्वभावसौम्यममलं मायाक्रोधोपरञ्जितम् ॥ 121 ॥
विश्वास-प्रस्तुतिः - 122
सविलासचलत्पादन्यासस्थानकसंस्थितम्।
स्वेनान्तः करणेनैव भावयन्तं परं पदम् ॥ 122 ॥
मूलम् - 122
सविलासचलत्पादन्यासस्थानकसंस्थितम्।
स्वेनान्तः करणेनैव भावयन्तं परं पदम् ॥ 122 ॥
विश्वास-प्रस्तुतिः - 123
अङ्गुष्ठादि कनिष्ठान्तं वामपाणौ लतात्रयम्।
नामयत्युन्नता चैका घ्राणाग्रे विनियोजिता ॥ 123 ॥
मूलम् - 123
अङ्गुष्ठादि कनिष्ठान्तं वामपाणौ लतात्रयम्।
नामयत्युन्नता चैका घ्राणाग्रे विनियोजिता ॥ 123 ॥
विश्वास-प्रस्तुतिः - 124
सद्विघ्नभीतिप्रदया त्वनया मुद्रयान्वितम्।
रथाङ्गशङ्खहस्तं च लम्बमानगदाधरम् ॥ 124 ॥
मूलम् - 124
सद्विघ्नभीतिप्रदया त्वनया मुद्रयान्वितम्।
रथाङ्गशङ्खहस्तं च लम्बमानगदाधरम् ॥ 124 ॥
विश्वास-प्रस्तुतिः - 125
श्रोणीतटनिबिष्टेन सावहेलेन पाणिना।
इत्थंरूपधरं देवमनेकाद्भुतविक्रमम् ॥ 125 ॥
मूलम् - 125
श्रोणीतटनिबिष्टेन सावहेलेन पाणिना।
इत्थंरूपधरं देवमनेकाद्भुतविक्रमम् ॥ 125 ॥
विश्वास-प्रस्तुतिः - 126
उग्ररूपमिति ध्यायेदाग्नेयमनलप्रभम्।
दंष्ट्रातर्जननिर्मुक्तं साभयं शान्तलक्षणम् ॥ 126 ॥
मूलम् - 126
उग्ररूपमिति ध्यायेदाग्नेयमनलप्रभम्।
दंष्ट्रातर्जननिर्मुक्तं साभयं शान्तलक्षणम् ॥ 126 ॥
विश्वास-प्रस्तुतिः - 127
मुख्यदक्षिणहस्तेन भक्तानामभयप्रदम्।
तथाविधेन वामेन लम्बमानगदाधरम् ॥ 127 ॥
मूलम् - 127
मुख्यदक्षिणहस्तेन भक्तानामभयप्रदम्।
तथाविधेन वामेन लम्बमानगदाधरम् ॥ 127 ॥
विश्वास-प्रस्तुतिः - 128
पृष्ठदक्षिणवामाभ्यां चक्रश?Rङ्खधरं क्रमात्।
एवं चतुर्भुजस्योक्तं द्विभुजस्यावधारय ॥ 128 ॥
मूलम् - 128
पृष्ठदक्षिणवामाभ्यां चक्रश?Rङ्खधरं क्रमात्।
एवं चतुर्भुजस्योक्तं द्विभुजस्यावधारय ॥ 128 ॥
विश्वास-प्रस्तुतिः - 129
उक्ताभ्यामुग्रशान्ताभ्यां श?Rङ्खचक्रद्वयं विना।
प्रागुक्तद्वितयं वाथ द्वितीयं चिन्तितं तु वा ॥ 129 ॥
मूलम् - 129
उक्ताभ्यामुग्रशान्ताभ्यां श?Rङ्खचक्रद्वयं विना।
प्रागुक्तद्वितयं वाथ द्वितीयं चिन्तितं तु वा ॥ 129 ॥
विश्वास-प्रस्तुतिः - 130
गदाविरहितं वाथ वामकट्यवलम्बितम्।
स्थानके वाऽसने वाममूरुदेशे निवेशितम् ॥ 130 ॥
मूलम् - 130
गदाविरहितं वाथ वामकट्यवलम्बितम्।
स्थानके वाऽसने वाममूरुदेशे निवेशितम् ॥ 130 ॥
विश्वास-प्रस्तुतिः - 131
गोपनीमुद्रया वाथ कटकाकारमुद्रया।
उभाभ्यामपि पाणिभ्यां विश्रान्तं पीठपृष्ठतः ॥ 131 ॥
मूलम् - 131
गोपनीमुद्रया वाथ कटकाकारमुद्रया।
उभाभ्यामपि पाणिभ्यां विश्रान्तं पीठपृष्ठतः ॥ 131 ॥
विश्वास-प्रस्तुतिः - 132
अवष्टभ्य गदामूर्ध्वे मातङ्गमुसलाकृतिम्।
प्राक्पढदलमाक्रम्य पादाब्यां कर्णिकासनम् ॥ 132 ॥
मूलम् - 132
अवष्टभ्य गदामूर्ध्वे मातङ्गमुसलाकृतिम्।
प्राक्पढदलमाक्रम्य पादाब्यां कर्णिकासनम् ॥ 132 ॥
विश्वास-प्रस्तुतिः - 133
सुस्थितं कर्णिकायां वा प्राग्वदन्यैरलंकृतम्।
एवं ध्यानविशेषेषु त्वेकं स्थाप्य विधानतः ॥ 133 ॥
मूलम् - 133
सुस्थितं कर्णिकायां वा प्राग्वदन्यैरलंकृतम्।
एवं ध्यानविशेषेषु त्वेकं स्थाप्य विधानतः ॥ 133 ॥
विश्वास-प्रस्तुतिः - 134
समर्चयीत कालेषु प्रागुक्तेषु स्वमन्त्रतः।
चतुस्स्थानार्चनार्थं तु ण्डलानां तु मध्यतः ॥ 134 ॥
मूलम् - 134
समर्चयीत कालेषु प्रागुक्तेषु स्वमन्त्रतः।
चतुस्स्थानार्चनार्थं तु ण्डलानां तु मध्यतः ॥ 134 ॥
विश्वास-प्रस्तुतिः - 135
पूजितेष्वथ मन्त्रेषु नियुक्तेषु स्वधामनि।
ईशानसोमदिङ्मध्ये चतुरश्रे पुरेऽथवा ॥ 135 ॥
मूलम् - 135
पूजितेष्वथ मन्त्रेषु नियुक्तेषु स्वधामनि।
ईशानसोमदिङ्मध्ये चतुरश्रे पुरेऽथवा ॥ 135 ॥
विश्वास-प्रस्तुतिः - 136
द्वारशोभाश्रनिर्मुक्ते रेखात्रितयभूषिते।
तदन्तरेऽर्धचन्द्रस्थे कमलेऽष्टदलान्विते ॥ 136 ॥
मूलम् - 136
द्वारशोभाश्रनिर्मुक्ते रेखात्रितयभूषिते।
तदन्तरेऽर्धचन्द्रस्थे कमलेऽष्टदलान्विते ॥ 136 ॥
विश्वास-प्रस्तुतिः - 137
साम्राज्येन नियुक्तेऽस्मिन् विग्नानामच्युतेन तु।
पूजिते विधिना शश्वदभीष्टं साधकोऽश्नुते ॥ 137 ॥
मूलम् - 137
साम्राज्येन नियुक्तेऽस्मिन् विग्नानामच्युतेन तु।
पूजिते विधिना शश्वदभीष्टं साधकोऽश्नुते ॥ 137 ॥
विश्वास-प्रस्तुतिः - 138
तस्मान्मन्त्रैस्तदीयैस्तु स्नात्वा पूर्वविधानतः।
प्रक्षाल्य पाणिपादौ वा त्वाचम्य न्यासमाचरेत् ॥ 138 ॥
मूलम् - 138
तस्मान्मन्त्रैस्तदीयैस्तु स्नात्वा पूर्वविधानतः।
प्रक्षाल्य पाणिपादौ वा त्वाचम्य न्यासमाचरेत् ॥ 138 ॥
विश्वास-प्रस्तुतिः - 139
तदधिष्ठातृकत्वेन धारणाभिः स्वविग्रहम्।
शोधयित्वा पुनर्न्यस्य षडङ्गं तत्करादितः ॥ 139 ॥
मूलम् - 139
तदधिष्ठातृकत्वेन धारणाभिः स्वविग्रहम्।
शोधयित्वा पुनर्न्यस्य षडङ्गं तत्करादितः ॥ 139 ॥
विश्वास-प्रस्तुतिः - 140
प्राग्वदानन्दधामाच्च ह्यवतार्य तथा प्रभुम्।
इष्ट्वा हृत्पुण्डरीके तु स्वापेक्षानिप्कलात्मकम् ॥ 140 ॥
मूलम् - 140
प्राग्वदानन्दधामाच्च ह्यवतार्य तथा प्रभुम्।
इष्ट्वा हृत्पुण्डरीके तु स्वापेक्षानिप्कलात्मकम् ॥ 140 ॥
विश्वास-प्रस्तुतिः - 141
तमेव सकलत्वेन यातं ध्यात्वा यजेद्वहिः।
प्राग्वदर्ध्यादिपात्राणि प्रतिष्ठाप्य स्वविग्रहे ॥ 141 ॥
मूलम् - 141
तमेव सकलत्वेन यातं ध्यात्वा यजेद्वहिः।
प्राग्वदर्ध्यादिपात्राणि प्रतिष्ठाप्य स्वविग्रहे ॥ 141 ॥
विश्वास-प्रस्तुतिः - 142
विन्यस्तमन्त्रानभ्यर्च्य द्वारेदक्षिणसौम्ययोः।
चण्डप्रचण्डसदृशौ बलप्रबलसंज्ञितौ ॥ 142 ॥
मूलम् - 142
विन्यस्तमन्त्रानभ्यर्च्य द्वारेदक्षिणसौम्ययोः।
चण्डप्रचण्डसदृशौ बलप्रबलसंज्ञितौ ॥ 142 ॥
विश्वास-प्रस्तुतिः - 143
वायुवेगं महाप्राणं द्वाराग्रे गरुडोपमम्।
समभ्यर्च्य यथापूर्वं प्राग्दत्वा कमलासनम् ॥ 143 ॥
मूलम् - 143
वायुवेगं महाप्राणं द्वाराग्रे गरुडोपमम्।
समभ्यर्च्य यथापूर्वं प्राग्दत्वा कमलासनम् ॥ 143 ॥
विश्वास-प्रस्तुतिः - 144
धर्माद्यनन्तपर्यन्तं पञ्चकं नवकं तु वा।
सत्वेनाच्छादितं पश्चात् केवलेनाम्बुजं स्मरेत् ॥ 144 ॥
मूलम् - 144
धर्माद्यनन्तपर्यन्तं पञ्चकं नवकं तु वा।
सत्वेनाच्छादितं पश्चात् केवलेनाम्बुजं स्मरेत् ॥ 144 ॥
विश्वास-प्रस्तुतिः - 145
तस्मिन्नावाह्य तं देवं हृदये ध्यानचोदितम्।
सन्निधानादिकं कृत्वा मुद्राबन्धपुरस्सरम् ॥ 145 ॥
मूलम् - 145
तस्मिन्नावाह्य तं देवं हृदये ध्यानचोदितम्।
सन्निधानादिकं कृत्वा मुद्राबन्धपुरस्सरम् ॥ 145 ॥
विश्वास-प्रस्तुतिः - 146
समभ्यर्च्यार्घ्यपुष्पाद्यैर्लययागविधानतः।
कर्णिकामध्यगं तस्य हृदाद्यं मुख्यमन्त्रवत् ॥ 146 ॥
मूलम् - 146
समभ्यर्च्यार्घ्यपुष्पाद्यैर्लययागविधानतः।
कर्णिकामध्यगं तस्य हृदाद्यं मुख्यमन्त्रवत् ॥ 146 ॥
विश्वास-प्रस्तुतिः - 147
पझच्छदान्तरस्थाश्च तदाकारद्युतिं विना।
किन्त्वङ्गानां च सर्वत्र घ्यानमुक्तं सितादिकम् ॥ 147 ॥
मूलम् - 147
पझच्छदान्तरस्थाश्च तदाकारद्युतिं विना।
किन्त्वङ्गानां च सर्वत्र घ्यानमुक्तं सितादिकम् ॥ 147 ॥
विश्वास-प्रस्तुतिः - 148
क्रियाख्यां तैजसीं शक्तिं स्वाहापर्यायरूपिणीम्।
लक्ष्मीरूपधरां पीतां सर्वालङ्कारमण्डिताम् ॥ 148 ॥
मूलम् - 148
क्रियाख्यां तैजसीं शक्तिं स्वाहापर्यायरूपिणीम्।
लक्ष्मीरूपधरां पीतां सर्वालङ्कारमण्डिताम् ॥ 148 ॥
विश्वास-प्रस्तुतिः - 149
प्रियानुरूपां सततं स्वासीनां वाथ सुस्थिताम्।
दक्षिणोत्तरयोगेन चामरोभयधारिणीम् ॥ 149 ॥
मूलम् - 149
प्रियानुरूपां सततं स्वासीनां वाथ सुस्थिताम्।
दक्षिणोत्तरयोगेन चामरोभयधारिणीम् ॥ 149 ॥
विश्वास-प्रस्तुतिः - 151
वामपार्श्वेऽवतार्यास्य भोगयागावसानतः।
गजाननो जयत्सेनो हरिवक्त्रो महाबलः ॥ 151 ॥
मूलम् - 151
वामपार्श्वेऽवतार्यास्य भोगयागावसानतः।
गजाननो जयत्सेनो हरिवक्त्रो महाबलः ॥ 151 ॥
विश्वास-प्रस्तुतिः - 152
कालप्रकृतिसंज्ञश्च चतुर्थः कमलोद्भव!।
गणराजेश्वरा ह्येते चत्वारश्चण्डविग्रहाः ॥ 152 ॥
मूलम् - 152
कालप्रकृतिसंज्ञश्च चतुर्थः कमलोद्भव!।
गणराजेश्वरा ह्येते चत्वारश्चण्डविग्रहाः ॥ 152 ॥
विश्वास-प्रस्तुतिः - 153
आज्ञाप्रतीक्षकाश्चास्य सुश्वेतचमरोद्यताः।
विनायकादयश्चैव विघ्नेशाः प्रवरास्तु ये ॥ 153 ॥
मूलम् - 153
आज्ञाप्रतीक्षकाश्चास्य सुश्वेतचमरोद्यताः।
विनायकादयश्चैव विघ्नेशाः प्रवरास्तु ये ॥ 153 ॥
विश्वास-प्रस्तुतिः - 154
अमीषां गणनाथानां नित्यमाज्ञानुपालिनः।
ईशानादिषु कोणेषु प?Rद्मबाह्ये स्थितान् न्यसेत् ॥ 154 ॥
मूलम् - 154
अमीषां गणनाथानां नित्यमाज्ञानुपालिनः।
ईशानादिषु कोणेषु प?Rद्मबाह्ये स्थितान् न्यसेत् ॥ 154 ॥
विश्वास-प्रस्तुतिः - 155
वीक्षमाणा विभोर्वक्त्रं तत्तुल्यस्थानकैः स्थिताः।
तद्वत्करा?Rङ्किताः सर्वे किन्तु मुद्राविवर्जिताः ॥ 155 ॥
मूलम् - 155
वीक्षमाणा विभोर्वक्त्रं तत्तुल्यस्थानकैः स्थिताः।
तद्वत्करा?Rङ्किताः सर्वे किन्तु मुद्राविवर्जिताः ॥ 155 ॥
विश्वास-प्रस्तुतिः - 156
ध्यानमेषां पृथग्भूतं शारीरमवधारय।
भीमद्विपेन्द्रवदनं चतुरदंष्ट्रं त्रिलोचनम् ॥ 156 ॥
मूलम् - 156
ध्यानमेषां पृथग्भूतं शारीरमवधारय।
भीमद्विपेन्द्रवदनं चतुरदंष्ट्रं त्रिलोचनम् ॥ 156 ॥
विश्वास-प्रस्तुतिः - 157
कम्बुग्रीवं चतुर्बाहुं पूर्णचन्द्रायुतद्युतिम्।
हारनूपुरकेयूरमेखलादाममण्डितम् ॥ 157 ॥
मूलम् - 157
कम्बुग्रीवं चतुर्बाहुं पूर्णचन्द्रायुतद्युतिम्।
हारनूपुरकेयूरमेखलादाममण्डितम् ॥ 157 ॥
विश्वास-प्रस्तुतिः - 158
नानास्रग्गन्धवस्त्राढ्यमनौपम्यपराक्रमम्।
ध्यायेद्गजाननमतो जयत्सेनं च संस्मरेत् ॥ 158 ॥
मूलम् - 158
नानास्रग्गन्धवस्त्राढ्यमनौपम्यपराक्रमम्।
ध्यायेद्गजाननमतो जयत्सेनं च संस्मरेत् ॥ 158 ॥
विश्वास-प्रस्तुतिः - 159
महत्तुरङ्गवदनं पझरागाचलप्रभम्।
द्रवच्चामीकराक्षं च त्वनेकाद्भुतविग्रहम् ॥ 159 ॥
मूलम् - 159
महत्तुरङ्गवदनं पझरागाचलप्रभम्।
द्रवच्चामीकराक्षं च त्वनेकाद्भुतविग्रहम् ॥ 159 ॥
विश्वास-प्रस्तुतिः - 160
हरिवक्त्रमतो ध्यायेत् सटाच्छुरितमस्तकम्।
निष्टप्तकनकप्रख्यं द्योरघर्घरनिस्वनम् ॥ 160 ॥
मूलम् - 160
हरिवक्त्रमतो ध्यायेत् सटाच्छुरितमस्तकम्।
निष्टप्तकनकप्रख्यं द्योरघर्घरनिस्वनम् ॥ 160 ॥
विश्वास-प्रस्तुतिः - 161
मृगरा?Rड्वदनं विप्र! कल्पान्तनिलवेगिनम्।
कालप्रकृतिनामानं भावयेदञ्जनद्रिवत् ॥ 161 ॥
मूलम् - 161
मृगरा?Rड्वदनं विप्र! कल्पान्तनिलवेगिनम्।
कालप्रकृतिनामानं भावयेदञ्जनद्रिवत् ॥ 161 ॥
विश्वास-प्रस्तुतिः - 162
दंष्ट्राकरालवदनं पि?Rङ्गलश्मश्रुलोचनम्।
झषकुण्डलभृद्रौद्रं मीनवन्निम्ननासिकम् ॥ 162 ॥
मूलम् - 162
दंष्ट्राकरालवदनं पि?Rङ्गलश्मश्रुलोचनम्।
झषकुण्डलभृद्रौद्रं मीनवन्निम्ननासिकम् ॥ 162 ॥
विश्वास-प्रस्तुतिः - 163
गणराजेश्वराः ह्येते महापुरुषलक्षणैः।
संयुक्ताश्चाखिलैर्विप्र! आपादात् कन्धरावधि ॥ 163 ॥
मूलम् - 163
गणराजेश्वराः ह्येते महापुरुषलक्षणैः।
संयुक्ताश्चाखिलैर्विप्र! आपादात् कन्धरावधि ॥ 163 ॥
विश्वास-प्रस्तुतिः - 164
यत्किञ्चिन्मण्डनं वस्तु तदाद्योक्तं स्मरेत्त्रिषु।
एतेषामर्चनं कुर्यात् स्वनाम्ना प्रणवादिना ॥ 164 ॥
मूलम् - 164
यत्किञ्चिन्मण्डनं वस्तु तदाद्योक्तं स्मरेत्त्रिषु।
एतेषामर्चनं कुर्यात् स्वनाम्ना प्रणवादिना ॥ 164 ॥
विश्वास-प्रस्तुतिः - 165
नमोन्तेनाब्जसंभूत! नानासिद्धिफलाप्तये।
अष्टाष्टकैस्तदर्धैर्वातस्यार्धैर्वा यथारुचि ॥ 165 ॥
मूलम् - 165
नमोन्तेनाब्जसंभूत! नानासिद्धिफलाप्तये।
अष्टाष्टकैस्तदर्धैर्वातस्यार्धैर्वा यथारुचि ॥ 165 ॥
विश्वास-प्रस्तुतिः - 166
क्षिप्रकर्मप्रसिध्द्यर्थमष्टभिर्वा समर्चयेत्।
तन्निवेदितमन्नाद्यमर्घ्यस्रक्चन्दनादिकम् ॥ 166 ॥
मूलम् - 166
क्षिप्रकर्मप्रसिध्द्यर्थमष्टभिर्वा समर्चयेत्।
तन्निवेदितमन्नाद्यमर्घ्यस्रक्चन्दनादिकम् ॥ 166 ॥
विश्वास-प्रस्तुतिः - 167
न देयं कस्याचित् प्राज्ञैरैहिकामुष्मिकाप्तये।
स्वाश्रितानामनुज्ञातं भूतानां चैव तेन तत् ॥ 167 ॥
मूलम् - 167
न देयं कस्याचित् प्राज्ञैरैहिकामुष्मिकाप्तये।
स्वाश्रितानामनुज्ञातं भूतानां चैव तेन तत् ॥ 167 ॥
विश्वास-प्रस्तुतिः - 168
नित्यं तदूर्ध्वतस्तेषामाशास्थगितचारिणी।
अत एव हि भोक्तॄणामर्थहानिं ददन्ति ते ॥ 168 ॥
मूलम् - 168
नित्यं तदूर्ध्वतस्तेषामाशास्थगितचारिणी।
अत एव हि भोक्तॄणामर्थहानिं ददन्ति ते ॥ 168 ॥
विश्वास-प्रस्तुतिः - 169
नूनमाशागणं सर्वं ध्वंसयन्ति सदैव हि।
तस्माद्ददाति योऽन्येषां स्वयमश्नाति वाऽधमेः ॥ 169 ॥
मूलम् - 169
नूनमाशागणं सर्वं ध्वंसयन्ति सदैव हि।
तस्माद्ददाति योऽन्येषां स्वयमश्नाति वाऽधमेः ॥ 169 ॥
विश्वास-प्रस्तुतिः - 170
मोहादुपेक्षते वापि स याति नरकेऽधमः।
अतः श्रेयोर्थिना कार्यः परिहारः सदैव हि ॥ 170 ॥
मूलम् - 170
मोहादुपेक्षते वापि स याति नरकेऽधमः।
अतः श्रेयोर्थिना कार्यः परिहारः सदैव हि ॥ 170 ॥
विश्वास-प्रस्तुतिः - 171
तच्चापि क्ष्मातले कूषे तटाकादौ तु चोत्क्षिपेत्।
नोपभोगं यथा याति काकादिष्वब्जसंभव! ॥ 171 ॥
मूलम् - 171
तच्चापि क्ष्मातले कूषे तटाकादौ तु चोत्क्षिपेत्।
नोपभोगं यथा याति काकादिष्वब्जसंभव! ॥ 171 ॥
विश्वास-प्रस्तुतिः - 172
य स्मात् सन्मन्त्रपूतं तत् प्राधान्येनापि वर्धते।
अतो निषिद्धः पापानामपापानां विशेषतः ॥ 172 ॥
मूलम् - 172
य स्मात् सन्मन्त्रपूतं तत् प्राधान्येनापि वर्धते।
अतो निषिद्धः पापानामपापानां विशेषतः ॥ 172 ॥
विश्वास-प्रस्तुतिः - 173
इति सम्यक् समाख्यातं विष्वक्सेनार्चनं तव।
अतः परं यद्वक्तव्यमस्ति चेत्तद्वदस्व भे ॥ 173 ॥
मूलम् - 173
इति सम्यक् समाख्यातं विष्वक्सेनार्चनं तव।
अतः परं यद्वक्तव्यमस्ति चेत्तद्वदस्व भे ॥ 173 ॥
विश्वास-प्रस्तुतिः - 174
कुमुदाद्यावृतीशानां द्वारावरणवासिनाम्।
शिलालोहादिभिः क्लृप्ता या या मूर्तिः प्रतिष्ठिता ॥ 174 ॥
मूलम् - 174
कुमुदाद्यावृतीशानां द्वारावरणवासिनाम्।
शिलालोहादिभिः क्लृप्ता या या मूर्तिः प्रतिष्ठिता ॥ 174 ॥
विश्वास-प्रस्तुतिः - 176
चलानां वाथ हेमाद्यैर्निर्मितानां यथाविधि।
त्रिकालं वा द्विकालं वा संकटे त्वेककालिकम् ॥ 176 ॥
मूलम् - 176
चलानां वाथ हेमाद्यैर्निर्मितानां यथाविधि।
त्रिकालं वा द्विकालं वा संकटे त्वेककालिकम् ॥ 176 ॥
विश्वास-प्रस्तुतिः - 177
तत्तन्मन्त्रेण कुर्वीत पूजामष्टोपचारतः।
परव्यूहादिरूपस्य विष्णोर्दिव्यालयादिषु ॥ 177 ॥
मूलम् - 177
तत्तन्मन्त्रेण कुर्वीत पूजामष्टोपचारतः।
परव्यूहादिरूपस्य विष्णोर्दिव्यालयादिषु ॥ 177 ॥
विश्वास-प्रस्तुतिः - 178
प्रासादबेरप्राकारगोपुरद्वारमण्टपान्।
पचनालयपानीयशालापुष्पादिमण्टपान् ॥ 178 ॥
मूलम् - 178
प्रासादबेरप्राकारगोपुरद्वारमण्टपान्।
पचनालयपानीयशालापुष्पादिमण्टपान् ॥ 178 ॥
विश्वास-प्रस्तुतिः - 179
धनधान्याम्बरावासमालिकाबलिविष्टरान्।
तथा?Rङ्गाश्रयस?Rद्मानि गोशालावाहनास्पदान् ॥ 179 ॥
मूलम् - 179
धनधान्याम्बरावासमालिकाबलिविष्टरान्।
तथा?Rङ्गाश्रयस?Rद्मानि गोशालावाहनास्पदान् ॥ 179 ॥
विश्वास-प्रस्तुतिः - 180
अपूर्वानथवा जीर्णान् नष्टांश्चैबोद्धरन्ति ये।
ग्रामादिरथ्यावरणानुत्सवभ्रमणाय च ॥ 180 ॥
मूलम् - 180
अपूर्वानथवा जीर्णान् नष्टांश्चैबोद्धरन्ति ये।
ग्रामादिरथ्यावरणानुत्सवभ्रमणाय च ॥ 180 ॥
विश्वास-प्रस्तुतिः - 181
फलपुष्पद्रुमाढ्यानि वापीकूपान्वितानि च।
विश्राममण्डपोपेतनिपानालह्कृतानि च ॥ 181 ॥
मूलम् - 181
फलपुष्पद्रुमाढ्यानि वापीकूपान्वितानि च।
विश्राममण्डपोपेतनिपानालह्कृतानि च ॥ 181 ॥
विश्वास-प्रस्तुतिः - 182
उद्यानानि प्रकुर्वन्ति ये भक्त्या तु जगत्प्रभोः।
केदारापणपूर्वाणि साधनानि ददन्ति ये ॥ 182 ॥
मूलम् - 182
उद्यानानि प्रकुर्वन्ति ये भक्त्या तु जगत्प्रभोः।
केदारापणपूर्वाणि साधनानि ददन्ति ये ॥ 182 ॥
विश्वास-प्रस्तुतिः - 183
समाराधकपूर्वाणां तदैव परिचारिणाम्।
दासीदासकुटुम्बानां देवालायनिवासिनाम् ॥ 183 ॥
मूलम् - 183
समाराधकपूर्वाणां तदैव परिचारिणाम्।
दासीदासकुटुम्बानां देवालायनिवासिनाम् ॥ 183 ॥
विश्वास-प्रस्तुतिः - 184
पोषं कुर्वन्ति ये वृत्या नित्यया प्रीतये विभोः।
देवस्याङ्गाङ्गिरूपस्य परिवारगणस्य च ॥ 184 ॥
मूलम् - 184
पोषं कुर्वन्ति ये वृत्या नित्यया प्रीतये विभोः।
देवस्याङ्गाङ्गिरूपस्य परिवारगणस्य च ॥ 184 ॥
विश्वास-प्रस्तुतिः - 185
नू पुरादिकिरीटान्तैर्विग्रहं भूषयन्ति ये।
प्रासादगोपुरादीनि चामीकरमयानि च ॥ 185 ॥
मूलम् - 185
नू पुरादिकिरीटान्तैर्विग्रहं भूषयन्ति ये।
प्रासादगोपुरादीनि चामीकरमयानि च ॥ 185 ॥
विश्वास-प्रस्तुतिः - 186
शयनासनयानानि रथानि विविधानि च।
महान्ति हेमसद्रत्नरचितानि समन्ततः ॥ 186 ॥
मूलम् - 186
शयनासनयानानि रथानि विविधानि च।
महान्ति हेमसद्रत्नरचितानि समन्ततः ॥ 186 ॥
विश्वास-प्रस्तुतिः - 187
द्विरदांश्च वराश्वांश्च यागोपकरणानि च।
पाद्यार्घ्यपात्रपूर्वाणि पादोदादिप्रतिग्रहान् ॥ 187 ॥
मूलम् - 187
द्विरदांश्च वराश्वांश्च यागोपकरणानि च।
पाद्यार्घ्यपात्रपूर्वाणि पादोदादिप्रतिग्रहान् ॥ 187 ॥
विश्वास-प्रस्तुतिः - 188
भद्रपीठं तथा दीपधूपयोर्लक्षणान्वितम्।
पात्रयुग्मं च वै घण्टामक्षसूत्रादिकान्यपि ॥ 188 ॥
मूलम् - 188
भद्रपीठं तथा दीपधूपयोर्लक्षणान्वितम्।
पात्रयुग्मं च वै घण्टामक्षसूत्रादिकान्यपि ॥ 188 ॥
विश्वास-प्रस्तुतिः - 189
छत्राणि चामरादीनि सितानि विविधानि च।
उपानत्पादुकादीनि पादपीठान्यनेकशः ॥ 189 ॥
मूलम् - 189
छत्राणि चामरादीनि सितानि विविधानि च।
उपानत्पादुकादीनि पादपीठान्यनेकशः ॥ 189 ॥
विश्वास-प्रस्तुतिः - 190
हविःस्थालीश्च विविधाः साधाराश्च सलक्षणाः।
हेमराजतताम्रोत्थास्ताम्बूलाधारसंयुताः ॥ 190 ॥
मूलम् - 190
हविःस्थालीश्च विविधाः साधाराश्च सलक्षणाः।
हेमराजतताम्रोत्थास्ताम्बूलाधारसंयुताः ॥ 190 ॥
विश्वास-प्रस्तुतिः - 191
स्रुक् स्रुवादीनि भाण्डानि यान्यन्यानि समर्चने।
उपयोग्यानि सर्वाणि येऽर्पयन्ति जगद्विभोः ॥ 191 ॥
मूलम् - 191
स्रुक् स्रुवादीनि भाण्डानि यान्यन्यानि समर्चने।
उपयोग्यानि सर्वाणि येऽर्पयन्ति जगद्विभोः ॥ 191 ॥
विश्वास-प्रस्तुतिः - 192
देवद्रव्याणि रक्षन्ति देवस्वं च भयान्विताः।
सदागमादिसिद्धान्तनिश्चयार्थप्रशंसकाः ॥ 192 ॥
मूलम् - 192
देवद्रव्याणि रक्षन्ति देवस्वं च भयान्विताः।
सदागमादिसिद्धान्तनिश्चयार्थप्रशंसकाः ॥ 192 ॥
विश्वास-प्रस्तुतिः - 193
दीक्षापयन्ति सद्भक्तान् ये वेदान्तार्थसूचकाः।
भाषाभिः स्वस्वकीयाभिर्ये तदर्थप्रबन्धकाः ॥ 193 ॥
मूलम् - 193
दीक्षापयन्ति सद्भक्तान् ये वेदान्तार्थसूचकाः।
भाषाभिः स्वस्वकीयाभिर्ये तदर्थप्रबन्धकाः ॥ 193 ॥
विश्वास-प्रस्तुतिः - 194
भक्तोत्तमास्ते विज्ञेयास्तान् दिव्यायतनादिषु।
चलस्थिरविभागेन लोहैर्वा शिलयाथवा ॥ 194 ॥
मूलम् - 194
भक्तोत्तमास्ते विज्ञेयास्तान् दिव्यायतनादिषु।
चलस्थिरविभागेन लोहैर्वा शिलयाथवा ॥ 194 ॥
विश्वास-प्रस्तुतिः - 195
स्वस्ववर्णाश्रमाचारसदृशाकृतिचेष्टितान्।
बद्धाञ्जलिपुटान् वाथ प्रमाणेनोपलक्षितान् ॥ 195 ॥
मूलम् - 195
स्वस्ववर्णाश्रमाचारसदृशाकृतिचेष्टितान्।
बद्धाञ्जलिपुटान् वाथ प्रमाणेनोपलक्षितान् ॥ 195 ॥
विश्वास-प्रस्तुतिः - 196
लाञ्छितान्श्चक्रश?Rङ्खाभ्यां भुजयोर्दक्षिणादितः।
पझविष्टरमध्ये तु स्वासीनान् वाथ सुस्थितान् ॥ 196 ॥
मूलम् - 196
लाञ्छितान्श्चक्रश?Rङ्खाभ्यां भुजयोर्दक्षिणादितः।
पझविष्टरमध्ये तु स्वासीनान् वाथ सुस्थितान् ॥ 196 ॥
विश्वास-प्रस्तुतिः - 197
ऋजुस्थित्या यथाशोभं वैशाखस्थानकेन वा।
निर्माय च विधानेन प्राङ्कमे मण्टपेऽथवा ॥ 197 ॥
मूलम् - 197
ऋजुस्थित्या यथाशोभं वैशाखस्थानकेन वा।
निर्माय च विधानेन प्राङ्कमे मण्टपेऽथवा ॥ 197 ॥
विश्वास-प्रस्तुतिः - 198
प्रासादेष्वनुरूपेषु कल्पितेष्वग्रतो विभोः।
यथावकाशं वामे वा दक्षिणे वाथ पश्चिमे ॥ 198 ॥
मूलम् - 198
प्रासादेष्वनुरूपेषु कल्पितेष्वग्रतो विभोः।
यथावकाशं वामे वा दक्षिणे वाथ पश्चिमे ॥ 198 ॥
विश्वास-प्रस्तुतिः - 199
स्वस्वमन्त्रैः प्रतिष्ठाप्य विधिवच्छ्रद्धयार्चयेत्।
श्रृणु मन्त्रांस्तदीयांस्तु स्थापनादिषु कर्मसु ॥ 199 ॥
मूलम् - 199
स्वस्वमन्त्रैः प्रतिष्ठाप्य विधिवच्छ्रद्धयार्चयेत्।
श्रृणु मन्त्रांस्तदीयांस्तु स्थापनादिषु कर्मसु ॥ 199 ॥
विश्वास-प्रस्तुतिः - 200
प्रधानपुरुषेशात्मतारकब्रह्नणाऽथवा।
अहं स तारकेणैव सविसर्गेण चान्तिमे ॥ 200 ॥
मूलम् - 200
प्रधानपुरुषेशात्मतारकब्रह्नणाऽथवा।
अहं स तारकेणैव सविसर्गेण चान्तिमे ॥ 200 ॥
विश्वास-प्रस्तुतिः - 201
आद्येन वा द्वितीयेन युक्तया त्रितयेन वा।
संज्ञया योजनीयास्ते साङ्गयागानतः श्रृणु ॥ 201 ॥
मूलम् - 201
आद्येन वा द्वितीयेन युक्तया त्रितयेन वा।
संज्ञया योजनीयास्ते साङ्गयागानतः श्रृणु ॥ 201 ॥
विश्वास-प्रस्तुतिः - 202
ताराद्ययोर्द्वयोरेकं षोढा कृत्वा तदन्तिमे।
ज्ञानादिहृदयादीनि चतुर्थ्यन्तान्युदीरयेत् ॥ 202 ॥
मूलम् - 202
ताराद्ययोर्द्वयोरेकं षोढा कृत्वा तदन्तिमे।
ज्ञानादिहृदयादीनि चतुर्थ्यन्तान्युदीरयेत् ॥ 202 ॥
विश्वास-प्रस्तुतिः - 203
प्रणवाधारयुक्तानि प्रागेवाङ्गान्यमूनि वै।
विन्यस्य संयजेन्नित्यं भक्तान् परमधर्मिणः ॥ 203 ॥
मूलम् - 203
प्रणवाधारयुक्तानि प्रागेवाङ्गान्यमूनि वै।
विन्यस्य संयजेन्नित्यं भक्तान् परमधर्मिणः ॥ 203 ॥
विश्वास-प्रस्तुतिः - 204
पारतन्त्र्ये विधिरयं भक्तानां संप्रकीर्तितः।
स्वातन्त्र्ये चाग्रहारादौ विपिने वा नदीतटे ॥ 204 ॥
मूलम् - 204
पारतन्त्र्ये विधिरयं भक्तानां संप्रकीर्तितः।
स्वातन्त्र्ये चाग्रहारादौ विपिने वा नदीतटे ॥ 204 ॥
विश्वास-प्रस्तुतिः - 205
सप्राकारं विमानं तु यथेष्टतलशोभितम्।
कल्पयित्वा प्रयत्नेन रथ्याभिश्च परिष्कृतम् ॥ 205 ॥
मूलम् - 205
सप्राकारं विमानं तु यथेष्टतलशोभितम्।
कल्पयित्वा प्रयत्नेन रथ्याभिश्च परिष्कृतम् ॥ 205 ॥
विश्वास-प्रस्तुतिः - 206
देशान्तरगतानां वा भगवल्लोकवासिनाम्।
दृश्यरूपमदृश्यं वा देवसारूप्यतां गतम् ॥ 206 ॥
मूलम् - 206
देशान्तरगतानां वा भगवल्लोकवासिनाम्।
दृश्यरूपमदृश्यं वा देवसारूप्यतां गतम् ॥ 206 ॥
विश्वास-प्रस्तुतिः - 207
स्थापयित्वा विधानेन प्रासादे मानुषे पदे।
दिव्यमानुषयोर्वाथ दिव्ये वा मानुषाश्रिते ॥ 207 ॥
मूलम् - 207
स्थापयित्वा विधानेन प्रासादे मानुषे पदे।
दिव्यमानुषयोर्वाथ दिव्ये वा मानुषाश्रिते ॥ 207 ॥
विश्वास-प्रस्तुतिः - 208
विष्णोर्मन्त्रासनाव्यक्तपझमध्यस्थचेतनात्।
भक्तबिम्बहृदम्भोजे चैतन्यमवतार्य च ॥ 208 ॥
मूलम् - 208
विष्णोर्मन्त्रासनाव्यक्तपझमध्यस्थचेतनात्।
भक्तबिम्बहृदम्भोजे चैतन्यमवतार्य च ॥ 208 ॥
विश्वास-प्रस्तुतिः - 209
सकलीकृत्य मन्त्रेण साङ्गेनाभ्यर्चयेत् सदा।
आवाहने विशेषोऽयं जीवतां वाप्यजीवताम् ॥ 209 ॥
मूलम् - 209
सकलीकृत्य मन्त्रेण साङ्गेनाभ्यर्चयेत् सदा।
आवाहने विशेषोऽयं जीवतां वाप्यजीवताम् ॥ 209 ॥
विश्वास-प्रस्तुतिः - 210
सर्वत्राव्यक्तपझाद्यैरष्टभिर्वा द्विरष्टभिः।
भोगैः प्रागुदितैः स्फीतैस्ताम्बूलान्तैरनुक्रमात् ॥ 210 ॥
मूलम् - 210
सर्वत्राव्यक्तपझाद्यैरष्टभिर्वा द्विरष्टभिः।
भोगैः प्रागुदितैः स्फीतैस्ताम्बूलान्तैरनुक्रमात् ॥ 210 ॥
विश्वास-प्रस्तुतिः - 211
तत्तज्जन्मदिने कार्यं तेषां वैशेषिकार्चनम्।
कृत्वा पझध्वजारोहं कार्यस्तत्र महोत्सवः ॥ 211 ॥
मूलम् - 211
तत्तज्जन्मदिने कार्यं तेषां वैशेषिकार्चनम्।
कृत्वा पझध्वजारोहं कार्यस्तत्र महोत्सवः ॥ 211 ॥
विश्वास-प्रस्तुतिः - 212
देवेन सह कर्तव्यः परतन्त्रोत्सवे ध्वजः।
भक्तप्रणीता गाधाश्च श्रुत्यन्तार्थोपबृह्निताः ॥ 212 ॥
मूलम् - 212
देवेन सह कर्तव्यः परतन्त्रोत्सवे ध्वजः।
भक्तप्रणीता गाधाश्च श्रुत्यन्तार्थोपबृह्निताः ॥ 212 ॥
विश्वास-प्रस्तुतिः - 213
श्रावयेद्विधिवद्देवं भक्त्या गीतिपुरस्सरम्।
तन्निवेदितमन्नाद्यं गायकेब्यः प्रदापयेत् ॥ 213 ॥
मूलम् - 213
श्रावयेद्विधिवद्देवं भक्त्या गीतिपुरस्सरम्।
तन्निवेदितमन्नाद्यं गायकेब्यः प्रदापयेत् ॥ 213 ॥
विश्वास-प्रस्तुतिः - 214
इति ते वैनतेयादिपरिवारगणस्य च।
पूजनं सर्बमाख्यातं नानासिद्धिफलप्रदम् ॥ 214 ॥
मूलम् - 214
इति ते वैनतेयादिपरिवारगणस्य च।
पूजनं सर्बमाख्यातं नानासिद्धिफलप्रदम् ॥ 214 ॥
विश्वास-प्रस्तुतिः - 215
गोपनीयं प्रयत्नेन नास्तिकानांविशेषतः।
प्रकाशयस्व भक्तानां नित्यकर्मरतात्मनाम् ॥ 215 ॥
मूलम् - 215