००७ नित्योत्सवादि-विधानम्

॥ श्रीः ॥
सप्तमोऽध्यायः

विश्वास-प्रस्तुतिः - 1

न्यस्त्वास्त्रमासने यायादनलालयमर्घ्यभृत्।
पूर्ववद्‌द्वारयागं तु कृत्वा संप्रविशेत्ततः ॥ 1 ॥

मूलम् - 1

विश्वास-प्रस्तुतिः - 2

तत्र पूर्वोक्तविधिना उपविश्य समाहितः।
नाकुण्डहवनं यस्मात् सिद्धिकृन्मन्त्रयाजिनाम् ॥ 2 ॥

मूलम् - 2

तत्र पूर्वोक्तविधिना उपविश्य समाहितः।
नाकुण्डहवनं यस्मात् सिद्धिकृन्मन्त्रयाजिनाम् ॥ 2 ॥

विश्वास-प्रस्तुतिः - 3

तस्मात् कुण्डं सदा कार्यं सौत्रं वा जङ्गमं स्थिरम्।
भगवद्वह्निशक्तेर्वै ज्वालाद्या प्रकृतिः परा ॥ 3 ॥

मूलम् - 3

विश्वास-प्रस्तुतिः - 4

अपरा प्रकृतिर्धिष्ण्या नानाकारा यथानलाः।
अत एताग्निरूपा वै कुण्डा हवनकर्मणि ॥ 4 ॥

मूलम् - 4

अपरा प्रकृतिर्धिष्ण्या नानाकारा यथानलाः।
अत एताग्निरूपा वै कुण्डा हवनकर्मणि ॥ 4 ॥

विश्वास-प्रस्तुतिः - 5

चतुरश्रादिभेदोत्थाः काम्यानां कर्मणां द्विज!।
सद्रत्नमालाश्रीवत्समकुटाङ्गदलक्षणाः ॥ 5 ॥

मूलम् - 5

चतुरश्रादिभेदोत्थाः काम्यानां कर्मणां द्विज!।
सद्रत्नमालाश्रीवत्समकुटाङ्गदलक्षणाः ॥ 5 ॥

विश्वास-प्रस्तुतिः - 6

शङ्खचक्रगदापद्मशार्ङ्गनानाशरोपमाः।
परश्वथं तथा सीरसदृशाः सर्वसिद्धिदाः ॥ 6 ॥

मूलम् - 6

शङ्खचक्रगदापद्मशार्ङ्गनानाशरोपमाः।
परश्वथं तथा सीरसदृशाः सर्वसिद्धिदाः ॥ 6 ॥

विश्वास-प्रस्तुतिः - 7

वज्राद्यस्त्रचयाकारा भृङ्गारकरकोपमाः।
सर्वे सपीठा विहिताश्चतुस्त्रिद्व्येकमेखलाः ॥ 7 ॥

मूलम् - 7

वज्राद्यस्त्रचयाकारा भृङ्गारकरकोपमाः।
सर्वे सपीठा विहिताश्चतुस्त्रिद्व्येकमेखलाः ॥ 7 ॥

विश्वास-प्रस्तुतिः - 8

चक्रपद्मगदाशङ्खसमस्तव्यस्तलाञ्छिताः।
ततोष्ठयोनिनिर्वाहैः स्वैरङ्गै रुचिरैर्युताः ॥ 8 ॥

मूलम् - 8

चक्रपद्मगदाशङ्खसमस्तव्यस्तलाञ्छिताः।
ततोष्ठयोनिनिर्वाहैः स्वैरङ्गै रुचिरैर्युताः ॥ 8 ॥

विश्वास-प्रस्तुतिः - 9

आद्वादशाङ्गुलात् कुण्डाः करान्ता ये त्रयोदश।
सर्वाकृतिधराश्चैव जङ्गमा मेखलोज्झिताः ॥ 9 ॥

मूलम् - 9

आद्वादशाङ्गुलात् कुण्डाः करान्ता ये त्रयोदश।
सर्वाकृतिधराश्चैव जङ्गमा मेखलोज्झिताः ॥ 9 ॥

विश्वास-प्रस्तुतिः - 10

अनुकल्पे तु विहिता भक्तानां मन्त्रतर्पणे।
एक(स्य)द्विहस्तपर्यन्ता यथालक्षणलक्षिताः ॥ 10 ॥

मूलम् - 10

अनुकल्पे तु विहिता भक्तानां मन्त्रतर्पणे।
एक(स्य)द्विहस्तपर्यन्ता यथालक्षणलक्षिताः ॥ 10 ॥

विश्वास-प्रस्तुतिः - 11

भूमावुल्लिख्य संपूर्य धान्यैर्बीजैर्मृदा तु वा।
सामग्रीविरहाच्चापि शश्वत्कर्मसमाप्तये ॥ 11 ॥

मूलम् - 11

भूमावुल्लिख्य संपूर्य धान्यैर्बीजैर्मृदा तु वा।
सामग्रीविरहाच्चापि शश्वत्कर्मसमाप्तये ॥ 11 ॥

विश्वास-प्रस्तुतिः - 12

अनुकल्पानुकल्पे तु नित्यमेवाविरोधकृत्।
प्राजापत्ये दैशिकीये शैष्येऽर्धकरसम्मिते ॥ 12 ॥

मूलम् - 12

अनुकल्पानुकल्पे तु नित्यमेवाविरोधकृत्।
प्राजापत्ये दैशिकीये शैष्येऽर्धकरसम्मिते ॥ 12 ॥

विश्वास-प्रस्तुतिः - 13

क्षेत्रे क्रमान्नयेद्वृद्धिं तावदेकैकमङ्गुलम्।
यावदष्टकरं क्षेत्रं धिष्ण्यार्थमुपजायते ॥ 13 ॥

मूलम् - 13

क्षेत्रे क्रमान्नयेद्वृद्धिं तावदेकैकमङ्गुलम्।
यावदष्टकरं क्षेत्रं धिष्ण्यार्थमुपजायते ॥ 13 ॥

विश्वास-प्रस्तुतिः - 14

एवं स्यान्मानभेदेन एकाशीत्यधिकं शतम्।
एवं कृते शुभे कुण्डे अग्निकार्यं समाचरेत् ॥ 14 ॥

मूलम् - 14

एवं स्यान्मानभेदेन एकाशीत्यधिकं शतम्।
एवं कृते शुभे कुण्डे अग्निकार्यं समाचरेत् ॥ 14 ॥

विश्वास-प्रस्तुतिः - 15

चुल्ल्यां वा मल्लके वापि होमं कुर्याद्यथाविधि।
शतार्धसंख्या होमे च कुण्डं स्याद्द्वादशाङ्गुलम् ॥ 15 ॥

मूलम् - 15

विश्वास-प्रस्तुतिः - 16

होमे साष्टशते चैव मुष्ट्यरत्निसमं भवेत्।
होमे सार्धशते चैव सारत्निः सकनिष्ठिका ॥ 16 ॥

मूलम् - 16

होमे साष्टशते चैव मुष्ट्यरत्निसमं भवेत्।
होमे सार्धशते चैव सारत्निः सकनिष्ठिका ॥ 16 ॥

विश्वास-प्रस्तुतिः - 17

हस्तं सहस्रहोमे तु अयुताख्ये द्विहस्तकम्।
लक्षहोमे चतुर्हस्तं कोटिहोमेऽष्टहस्तकम् ॥ 17 ॥

मूलम् - 17

हस्तं सहस्रहोमे तु अयुताख्ये द्विहस्तकम्।
लक्षहोमे चतुर्हस्तं कोटिहोमेऽष्टहस्तकम् ॥ 17 ॥

विश्वास-प्रस्तुतिः - 18

एवं सुलक्षणं कुण्‍डं विभवानुगुणं शुभम्।
सुधाद्यैर्वर्णकैः शुद्धैर्भूषयित्वोपलिप्य च ॥ 18 ॥

मूलम् - 18

एवं सुलक्षणं कुण्‍डं विभवानुगुणं शुभम्।
सुधाद्यैर्वर्णकैः शुद्धैर्भूषयित्वोपलिप्य च ॥ 18 ॥

विश्वास-प्रस्तुतिः - 19

सुगन्धैश्चन्दनाद्यैश्च पञ्चगव्यपुरस्सरैः।
कुण्डस्यारम्भकाले तु संस्कारा न कृता यदि ॥ 19 ॥

मूलम् - 19

सुगन्धैश्चन्दनाद्यैश्च पञ्चगव्यपुरस्सरैः।
कुण्डस्यारम्भकाले तु संस्कारा न कृता यदि ॥ 19 ॥

विश्वास-प्रस्तुतिः - 20

निष्पन्नस्य च ते सर्वे विधेयाश्च क्रमेण तु।
ताडयेदस्त्रमन्त्रेण पुष्पैर्दक्षिणपाणिना ॥ 20 ॥

मूलम् - 20

निष्पन्नस्य च ते सर्वे विधेयाश्च क्रमेण तु।
ताडयेदस्त्रमन्त्रेण पुष्पैर्दक्षिणपाणिना ॥ 20 ॥

विश्वास-प्रस्तुतिः - 21

खननं तीक्ष्णशस्त्रेण देशिकश्चास्त्रविद्यया।
गृहीत्वा चैकदेशात्तु कुण्डमध्यात्तु मृत्कणम् ॥ 21 ॥

मूलम् - 21

खननं तीक्ष्णशस्त्रेण देशिकश्चास्त्रविद्यया।
गृहीत्वा चैकदेशात्तु कुण्डमध्यात्तु मृत्कणम् ॥ 21 ॥

विश्वास-प्रस्तुतिः - 22

अङ्गुष्ठानामिकाम्यां तु हृदयेन समुद्धरेत्।
अस्त्रेणैव समीकृत्य न स्यान्निम्नोन्नतं यथा ॥ 22 ॥

मूलम् - 22

अङ्गुष्ठानामिकाम्यां तु हृदयेन समुद्धरेत्।
अस्त्रेणैव समीकृत्य न स्यान्निम्नोन्नतं यथा ॥ 22 ॥

विश्वास-प्रस्तुतिः - 23

सेचयेत् कवचेनैव कुट्टयेत्तदनन्तरम्।
लेपयेद्गन्धतोयेन अस्त्रेण परिशोधयेत् ॥ 23 ॥

मूलम् - 23

सेचयेत् कवचेनैव कुट्टयेत्तदनन्तरम्।
लेपयेद्गन्धतोयेन अस्त्रेण परिशोधयेत् ॥ 23 ॥

विश्वास-प्रस्तुतिः - 24

अस्त्रजप्तैः कुशाकाण्डैस्तीक्ष्णलाङ्गलवर्जितैः।
अस्त्राभिमन्त्रितेनैव दर्भकाण्डद्वयेन तु ॥ 24 ॥

मूलम् - 24

अस्त्रजप्तैः कुशाकाण्डैस्तीक्ष्णलाङ्गलवर्जितैः।
अस्त्राभिमन्त्रितेनैव दर्भकाण्डद्वयेन तु ॥ 24 ॥

विश्वास-प्रस्तुतिः - 25

तन्मध्ये च कुशाग्रेण प्राग्भागमवलम्ब्य च।
आरभ्य दक्षिणाशाया लिखेद्रेखामुदग्गताम् ॥ 25 ॥

मूलम् - 25

तन्मध्ये च कुशाग्रेण प्राग्भागमवलम्ब्य च।
आरभ्य दक्षिणाशाया लिखेद्रेखामुदग्गताम् ॥ 25 ॥

विश्वास-प्रस्तुतिः - 26

विलिख्यार्गलरेखां प्राक् काष्ठा वैषुवती च सा।
तस्यामुपरि संलिख्य रेखाणां त्रितयं स्फुटम्॥ 26 ॥

मूलम् - 26

विलिख्यार्गलरेखां प्राक् काष्ठा वैषुवती च सा।
तस्यामुपरि संलिख्य रेखाणां त्रितयं स्फुटम्॥ 26 ॥

विश्वास-प्रस्तुतिः - 27

प्रागग्रं दक्षिणाशादि ह्युदीच्यन्तं च सान्तरम्।
उत्तराशावधिर्यावद्दद्याद्रेखात्रयं तु वा॥ 27 ॥

मूलम् - 27

प्रागग्रं दक्षिणाशादि ह्युदीच्यन्तं च सान्तरम्।
उत्तराशावधिर्यावद्दद्याद्रेखात्रयं तु वा॥ 27 ॥

विश्वास-प्रस्तुतिः - 28

प्रत्यग्भागात् समारभ्य नयेत् पूर्वमुखं तु तत्।
तन्मध्ये त्रितयं चाऽन्य(वाथ)द्रेखाणामुत्तरामुखम् ॥ 28 ॥

मूलम् - 28

विश्वास-प्रस्तुतिः - 29

प्रत्यग्भागात् समारभ्य मद्यैका पिङ्गलाभिधा।
दक्षिणोत्तरयोर्द्वे तु सुषुम्नोडाधिदैवते ॥ 29 ॥

मूलम् - 29

प्रत्यग्भागात् समारभ्य मद्यैका पिङ्गलाभिधा।
दक्षिणोत्तरयोर्द्वे तु सुषुम्नोडाधिदैवते ॥ 29 ॥

विश्वास-प्रस्तुतिः - 30

नीत्वा शुद्धिमथास्त्रेण, क्षालयेच्छिरसाम्बुना।
संशोष्य कवचेनैव नेत्रेणाथावलोक्य च ॥ 30 ॥

मूलम् - 30

नीत्वा शुद्धिमथास्त्रेण, क्षालयेच्छिरसाम्बुना।
संशोष्य कवचेनैव नेत्रेणाथावलोक्य च ॥ 30 ॥

विश्वास-प्रस्तुतिः - 31

विलिप्योद्धृष्य चास्त्रेण प्रपूज्य हृदयेन तु।
दर्भकाण्डद्वयेनाथ मद्ये मद्येऽन्तरीकृते ॥ 31 ॥

मूलम् - 31

विलिप्योद्धृष्य चास्त्रेण प्रपूज्य हृदयेन तु।
दर्भकाण्डद्वयेनाथ मद्ये मद्येऽन्तरीकृते ॥ 31 ॥

विश्वास-प्रस्तुतिः - 32

वर्मणा क्षालनाद्येन चतुप्पथधिया पुनः।
नीत्वा व्यक्तिं यथावच्च हृन्मन्त्रेण महामते! ॥ 32 ॥

मूलम् - 32

वर्मणा क्षालनाद्येन चतुप्पथधिया पुनः।
नीत्वा व्यक्तिं यथावच्च हृन्मन्त्रेण महामते! ॥ 32 ॥

विश्वास-प्रस्तुतिः - 33

मृदुदर्भसमूहं च नीरसं चाश्मकुट्टितम्।
शुष्कगोमयचूर्णेन युक्तं गन्धाश्मना सह ॥ 33 ॥

मूलम् - 33

मृदुदर्भसमूहं च नीरसं चाश्मकुट्टितम्।
शुष्कगोमयचूर्णेन युक्तं गन्धाश्मना सह ॥ 33 ॥

विश्वास-प्रस्तुतिः - 34

कुण्डे द्रोणांशमात्रं तु समारोप्य प्रसार्य च।
अच्छिन्नाग्रैस्ततो दर्भैरस्त्रमन्त्राभिमन्त्रितैः ॥ 34 ॥

मूलम् - 34

विश्वास-प्रस्तुतिः - 35

कुण्डभित्तिगणं सर्वं प्रोत्थितैः परिभूषयेत्।
वर्मणा चाक्षवाटं तु संकल्प्य तदनन्तरम् ॥ 35 ॥

मूलम् - 35

कुण्डभित्तिगणं सर्वं प्रोत्थितैः परिभूषयेत्।
वर्मणा चाक्षवाटं तु संकल्प्य तदनन्तरम् ॥ 35 ॥

विश्वास-प्रस्तुतिः - 36

समब्यर्च्यार्घ्यपुष्पाद्यैः मध्यतः प्रणवेन तु।
तेनैव विधिना नाभिं पूजयेच्चन्द्रसन्निभाम् ॥ 36 ॥

मूलम् - 36

समब्यर्च्यार्घ्यपुष्पाद्यैः मध्यतः प्रणवेन तु।
तेनैव विधिना नाभिं पूजयेच्चन्द्रसन्निभाम् ॥ 36 ॥

विश्वास-प्रस्तुतिः - 37

ततः पवित्रकं दार्भं शिखामन्त्राभिमन्त्रितम्।
प्राक् समालभनोपेतं चतुष्पथपदे न्यसेत् ॥ 37 ॥

मूलम् - 37

ततः पवित्रकं दार्भं शिखामन्त्राभिमन्त्रितम्।
प्राक् समालभनोपेतं चतुष्पथपदे न्यसेत् ॥ 37 ॥

विश्वास-प्रस्तुतिः - 38

हृन्मन्त्रेण च विन्यस्य तत्रोपर्यथ पूजयेत्।
आधारशक्तिपूर्वं तु आसनं वैष्णवं च यत् ॥ 38 ॥

मूलम् - 38

हृन्मन्त्रेण च विन्यस्य तत्रोपर्यथ पूजयेत्।
आधारशक्तिपूर्वं तु आसनं वैष्णवं च यत् ॥ 38 ॥

विश्वास-प्रस्तुतिः - 39

अथवा पूजयेच्छक्तिं केवलाधारसंज्ञिताम्।
तत्र नारायणाख्यां वै शक्तिं विद्योतलक्षणाम् ॥ 39 ॥

मूलम् - 39

अथवा पूजयेच्छक्तिं केवलाधारसंज्ञिताम्।
तत्र नारायणाख्यां वै शक्तिं विद्योतलक्षणाम् ॥ 39 ॥

विश्वास-प्रस्तुतिः - 40

लक्ष्म्याकृतिपदं प्राप्ताममृतामृतरूपिणीम्।
सर्वातिशायिरूपां च सर्वशक्तिसमन्विताम् ॥ 40 ॥

मूलम् - 40

लक्ष्म्याकृतिपदं प्राप्ताममृतामृतरूपिणीम्।
सर्वातिशायिरूपां च सर्वशक्तिसमन्विताम् ॥ 40 ॥

विश्वास-प्रस्तुतिः - 41

सौकुमार्येण रूपेण सर्ववस्त्वन्तरस्थिताम्।
शाश्वतीं सृष्टिमार्गेण अवतार्य हृदम्बुजे ॥ 41 ॥

मूलम् - 41

सौकुमार्येण रूपेण सर्ववस्त्वन्तरस्थिताम्।
शाश्वतीं सृष्टिमार्गेण अवतार्य हृदम्बुजे ॥ 41 ॥

विश्वास-प्रस्तुतिः - 42

पुनर्ध्यानक्रमेणैव हृन्मन्त्रेण हृदम्बुजात्।
स्वनामपदयुक्तेन सनमःप्रणवादिना ॥ 42 ॥

मूलम् - 42

पुनर्ध्यानक्रमेणैव हृन्मन्त्रेण हृदम्बुजात्।
स्वनामपदयुक्तेन सनमःप्रणवादिना ॥ 42 ॥

विश्वास-प्रस्तुतिः - 43

रेचकेन विनिक्षिप्य कुण्डे हृत्पझमध्यतः।
संपूज्य गन्धपुष्पाद्यैः पझमुद्रां प्रदर्श्य च ॥ 43 ॥

मूलम् - 43

रेचकेन विनिक्षिप्य कुण्डे हृत्पझमध्यतः।
संपूज्य गन्धपुष्पाद्यैः पझमुद्रां प्रदर्श्य च ॥ 43 ॥

विश्वास-प्रस्तुतिः - 44

ताम्रपात्रेऽथवान्यस्मिन् समादाय हुताशनम्।
आरण्यं लौकिकं वाऽथ मणिजं दर्पणोद्भवम् ॥ 44 ॥

मूलम् - 44

ताम्रपात्रेऽथवान्यस्मिन् समादाय हुताशनम्।
आरण्यं लौकिकं वाऽथ मणिजं दर्पणोद्भवम् ॥ 44 ॥

विश्वास-प्रस्तुतिः - 45

निधाय कुण्डस्यैशान्यां संस्कारार्थं च साम्प्रतम्।
सन्ताड्च चास्त्रमन्त्रेण प्रोक्षयेच्छिखया च तम् ॥ 45 ॥

मूलम् - 45

विश्वास-प्रस्तुतिः - 46

हृदाभ्यर्च्यामृतध्यानं दत्त्वाच्छाद्याथ वर्मणा।
मूलं स्मृत्वा समानीय पूरकेण हृदन्तरे ॥ 46 ॥

मूलम् - 46

हृदाभ्यर्च्यामृतध्यानं दत्त्वाच्छाद्याथ वर्मणा।
मूलं स्मृत्वा समानीय पूरकेण हृदन्तरे ॥ 46 ॥

विश्वास-प्रस्तुतिः - 47

मन्त्रानिलकराकृष्टं कृत्वा तस्माद्विनिर्गतम्।
व्यस्तो गुणगणात् षष्ठस्तेजोनाम गुणो हि यः ॥ 47 ॥

मूलम् - 47

मन्त्रानिलकराकृष्टं कृत्वा तस्माद्विनिर्गतम्।
व्यस्तो गुणगणात् षष्ठस्तेजोनाम गुणो हि यः ॥ 47 ॥

विश्वास-प्रस्तुतिः - 48

परस्य ब्रह्नणः सोऽयं सामान्यं सर्वतेजसाम्।
विरेच्य विन्यसेत्तस्मिन् वन्हिपात्रे पुरार्चिते ॥ 48 ॥

मूलम् - 48

परस्य ब्रह्नणः सोऽयं सामान्यं सर्वतेजसाम्।
विरेच्य विन्यसेत्तस्मिन् वन्हिपात्रे पुरार्चिते ॥ 48 ॥

विश्वास-प्रस्तुतिः - 49

ततोऽग्निपात्रमादाय निर्धूममतिदीप्तिमत्।
दक्षिणेन करेणैव पाणिभ्यामथवा द्विज! ॥ 49 ॥

मूलम् - 49

ततोऽग्निपात्रमादाय निर्धूममतिदीप्तिमत्।
दक्षिणेन करेणैव पाणिभ्यामथवा द्विज! ॥ 49 ॥

विश्वास-प्रस्तुतिः - 50

भ्रामयित्वा चतुर्धा वै ततः कुण्डान्तरे क्षिपेत्।
ध्यायेदेकत्वमापन्नं ततो मन्त्रार्चिषा सह ॥ 50 ॥

मूलम् - 50

भ्रामयित्वा चतुर्धा वै ततः कुण्डान्तरे क्षिपेत्।
ध्यायेदेकत्वमापन्नं ततो मन्त्रार्चिषा सह ॥ 50 ॥

विश्वास-प्रस्तुतिः - 51

याज्ञीयैरिन्धनैः शुष्कैः प्रज्वाल्यास्त्राभिमन्त्रितैः।
हृदा दक्षिणहस्तेन कुर्यात् परिसमूहनम् ॥ 51 ॥

मूलम् - 51

याज्ञीयैरिन्धनैः शुष्कैः प्रज्वाल्यास्त्राभिमन्त्रितैः।
हृदा दक्षिणहस्तेन कुर्यात् परिसमूहनम् ॥ 51 ॥

विश्वास-प्रस्तुतिः - 52

प्रदक्षिणक्रमेणैव ह्यार्द्रपाणितलेन तु।
तिर्यक् चाधोमुखस्थेन नखपृष्ठमदर्शयन् ॥ 52 ॥

मूलम् - 52

प्रदक्षिणक्रमेणैव ह्यार्द्रपाणितलेन तु।
तिर्यक् चाधोमुखस्थेन नखपृष्ठमदर्शयन् ॥ 52 ॥

विश्वास-प्रस्तुतिः - 53

अस्त्राभिमन्त्रितेनैव प्रोक्षयेदर्घ्यवारिणा।
ततस्त्वभग्नमूलाग्रैः समैर्दद्यात् कुशैंस्तरम् ॥ 53 ॥

मूलम् - 53

अस्त्राभिमन्त्रितेनैव प्रोक्षयेदर्घ्यवारिणा।
ततस्त्वभग्नमूलाग्रैः समैर्दद्यात् कुशैंस्तरम् ॥ 53 ॥

विश्वास-प्रस्तुतिः - 54

दिशि दिश्युत्तराशान्तं, याम्याशादौ तु सान्तरम्।
चतुर्गुणैश्चतुर्धा वाप्यग्रच्छन्नैः परस्परम् ॥ 54 ॥

मूलम् - 54

दिशि दिश्युत्तराशान्तं, याम्याशादौ तु सान्तरम्।
चतुर्गुणैश्चतुर्धा वाप्यग्रच्छन्नैः परस्परम् ॥ 54 ॥

विश्वास-प्रस्तुतिः - 55

प्राक्‌प्रान्तैः पूर्वभागाच्च यावदुत्तरगोचरम्।
चतुर्भिरस्त्रजप्तैर्वा चतुर्दिक्षु त्रिधा त्रिधा ॥ 55 ॥

मूलम् - 55

विश्वास-प्रस्तुतिः - 56

चतुर्भिश्च चतुर्भिर्वा प्राक्‌प्रतीच्योरुदङ्‌मुखैः।
दक्षिणोत्तरयोश्चैव तत्संख्यैः प्राङ्‌मुखैर्द्विज! ॥ 56 ॥

मूलम् - 56

विश्वास-प्रस्तुतिः - 57

अवतार्य तदूर्ध्वे तु दक्षिणस्यां तथात्मनः।
द्वन्द्वद्वयप्रयोगेण द्रव्यस्थापनमाचरेत् ॥ 57 ॥

मूलम् - 57

अवतार्य तदूर्ध्वे तु दक्षिणस्यां तथात्मनः।
द्वन्द्वद्वयप्रयोगेण द्रव्यस्थापनमाचरेत् ॥ 57 ॥

विश्वास-प्रस्तुतिः - 58

परिधींश्चोध्मनिचयं मुक्तदर्भैस्तरण्डिकाम्।
स्रुक्‌स्रुवौ च चतुष्कं यदेकत्र विनिवेश्य च ॥ 58 ॥

मूलम् - 58

परिधींश्चोध्मनिचयं मुक्तदर्भैस्तरण्डिकाम्।
स्रुक्‌स्रुवौ च चतुष्कं यदेकत्र विनिवेश्य च ॥ 58 ॥

विश्वास-प्रस्तुतिः - 59

स्रक्धूपमधुपर्कं च बीजान्येकत्र वै ततः।
कौशेयं धूतकेशं च विष्टरं च घृतं चरुम् ॥ 59 ॥

मूलम् - 59

स्रक्धूपमधुपर्कं च बीजान्येकत्र वै ततः।
कौशेयं धूतकेशं च विष्टरं च घृतं चरुम् ॥ 59 ॥

विश्वास-प्रस्तुतिः - 60

आज्यस्थालीचतुष्कं च निधाय तदनन्तरम्।
प्रणीतं पात्रयुगलं करकं चार्घ्यभाजनम् ॥ 60 ॥

मूलम् - 60

आज्यस्थालीचतुष्कं च निधाय तदनन्तरम्।
प्रणीतं पात्रयुगलं करकं चार्घ्यभाजनम् ॥ 60 ॥

विश्वास-प्रस्तुतिः - 61

चतुष्कमेतदपरं अग्रतो विनिवेश्य च।
प्रादेशमात्राः समिधः प्रभूतं शुष्कमिन्धनम् ॥ 61 ॥

मूलम् - 61

चतुष्कमेतदपरं अग्रतो विनिवेश्य च।
प्रादेशमात्राः समिधः प्रभूतं शुष्कमिन्धनम् ॥ 61 ॥

विश्वास-प्रस्तुतिः - 62

पक्ष्मकं स्वेदहृद्वस्त्रं वामभागे निधाय च।
अर्घ्योदकेन सास्त्रेण कृत्स्नं पावनतां नयेत् ॥ 62 ॥

मूलम् - 62

पक्ष्मकं स्वेदहृद्वस्त्रं वामभागे निधाय च।
अर्घ्योदकेन सास्त्रेण कृत्स्नं पावनतां नयेत् ॥ 62 ॥

विश्वास-प्रस्तुतिः - 63

सुसमं कुण्डबाह्ये तु प्राग्भागे मेखलाश्रितम्।
पवित्रकाष्टकं कृत्वा तेषु चाष्टविधान् न्यसेत् ॥ 63 ॥

मूलम् - 63

सुसमं कुण्डबाह्ये तु प्राग्भागे मेखलाश्रितम्।
पवित्रकाष्टकं कृत्वा तेषु चाष्टविधान् न्यसेत् ॥ 63 ॥

विश्वास-प्रस्तुतिः - 64

क्ष्मादिकां प्रकृतिं देवीमहङ्कारावसानिकाम्।
प्रभवाप्ययभेदेन विभुना चतुरात्मना ॥ 64 ॥

मूलम् - 64

क्ष्मादिकां प्रकृतिं देवीमहङ्कारावसानिकाम्।
प्रभवाप्ययभेदेन विभुना चतुरात्मना ॥ 64 ॥

विश्वास-प्रस्तुतिः - 65

अधिष्ठितां महाबुद्धे! तामभ्यर्च्य महात्मना।
स्वनामपदयुक्तेन नतिना प्रणवेन च ॥ 65 ॥

मूलम् - 65

अधिष्ठितां महाबुद्धे! तामभ्यर्च्य महात्मना।
स्वनामपदयुक्तेन नतिना प्रणवेन च ॥ 65 ॥

विश्वास-प्रस्तुतिः - 66

ऊर्ध्वाधोमेखलानां तु चतुर्णां दिक्‌चतुष्टये।
कौशेयविष्टरस्थांश्च वासुदेवादिकान् यजेत् ॥ 66 ॥

मूलम् - 66

ऊर्ध्वाधोमेखलानां तु चतुर्णां दिक्‌चतुष्टये।
कौशेयविष्टरस्थांश्च वासुदेवादिकान् यजेत् ॥ 66 ॥

विश्वास-प्रस्तुतिः - 67

विदिक्ष्वप्यययोगेन ऊर्ध्वान्तमधरात्तु वै।
तद्वदेवार्घ्यपुष्पाद्यैः पूजनीयाः क्रमेण तु ॥ 67 ॥

मूलम् - 67

विदिक्ष्वप्यययोगेन ऊर्ध्वान्तमधरात्तु वै।
तद्वदेवार्घ्यपुष्पाद्यैः पूजनीयाः क्रमेण तु ॥ 67 ॥

विश्वास-प्रस्तुतिः - 68

ततस्तन्मूलदेशस्था ब्रह्नवृक्षादिकोत्थिताः।
सपर्णाः सत्वचः स्पष्टा अधोनेमेस्तु चाधिकाः ॥ 68 ॥

मूलम् - 68

ततस्तन्मूलदेशस्था ब्रह्नवृक्षादिकोत्थिताः।
सपर्णाः सत्वचः स्पष्टा अधोनेमेस्तु चाधिकाः ॥ 68 ॥

विश्वास-प्रस्तुतिः - 69

प्राक्‌प्रत्यगुत्तराग्रौ च प्रागग्रौ दक्षिणोत्तरौ।
चतस्रो वै परिधयः शिखामन्त्रेण पूजयेत् ॥ 69 ॥

मूलम् - 69

प्राक्‌प्रत्यगुत्तराग्रौ च प्रागग्रौ दक्षिणोत्तरौ।
चतस्रो वै परिधयः शिखामन्त्रेण पूजयेत् ॥ 69 ॥

विश्वास-प्रस्तुतिः - 70

विष्टराणि ततो दद्यात्तेषु पृष्ठे हृदा मुने!।
तत्पृष्ठे पूजयेन्नित्यं लोकपालान् स्वदिक्‌स्थितान् ॥ 70 ॥

मूलम् - 70

विश्वास-प्रस्तुतिः - 71

दर्भान् प्रसव्यमावेष्ट्य मूलात् प्रादेशसंमितान्।
परतो द्व्यङ्गुलं पाशं कृत्वावेष्ट्य त्रिरग्रतः ॥ 71 ॥

मूलम् - 71

विश्वास-प्रस्तुतिः - 72

पाशे निवेश्य द्वि त्रि(?) गुणं गुणेष्वायम्य मूलतः।
समीकृत्यातिरिक्ताग्राण्यनखं विनिकृन्तयेत् ॥ 72 ॥

मूलम् - 72

पाशे निवेश्य द्वि त्रि(?) गुणं गुणेष्वायम्य मूलतः।
समीकृत्यातिरिक्ताग्राण्यनखं विनिकृन्तयेत् ॥ 72 ॥

विश्वास-प्रस्तुतिः - 73

कृत्वा वेदोपयामं तं वामाङ्‌गुष्ठान्तरार्पयेत्।
स्रुक्‌स्रुवाभ्यां च संस्कारमुपयामाग्रगैः कुशैः ॥ 73 ॥

मूलम् - 73

विश्वास-प्रस्तुतिः - 74

स्रुचं द्वादशधा शोध्य सास्त्रेणोष्णेन वारिणा।
तथैव द्विजशार्दूल! स्रुवं शोध्य द्विधैव तु ॥ 74 ॥

मूलम् - 74

स्रुचं द्वादशधा शोध्य सास्त्रेणोष्णेन वारिणा।
तथैव द्विजशार्दूल! स्रुवं शोध्य द्विधैव तु ॥ 74 ॥

विश्वास-प्रस्तुतिः - 75

तथैव स्रुक्‌स्रुवौ ह्येव शिखामन्त्रेण वै ततः।
प्रताप्यास्त्रेण सन्ताड्य सार्घ्यपुष्पासनान्वितैः ॥ 75 ॥

मूलम् - 75

विश्वास-प्रस्तुतिः - 76

तदा प्रमेयं तु स्रुचो ज्ञातव्यं कर्मसिद्धये।
शतपत्रात्मनानन्तो मुष्टिस्थोऽनन्तवक्त्रधृक् ॥ 76 ॥

मूलम् - 76

तदा प्रमेयं तु स्रुचो ज्ञातव्यं कर्मसिद्धये।
शतपत्रात्मनानन्तो मुष्टिस्थोऽनन्तवक्त्रधृक् ॥ 76 ॥

विश्वास-प्रस्तुतिः - 77

अन्तर्बीजात्मभावेन स्थित्वा चोर्ध्वमुखं पनः।
सप्तस्कन्धं यदध्यात्मभूतप्राणमरुन्महत् ॥ 77 ॥

मूलम् - 77

अन्तर्बीजात्मभावेन स्थित्वा चोर्ध्वमुखं पनः।
सप्तस्कन्धं यदध्यात्मभूतप्राणमरुन्महत् ॥ 77 ॥

विश्वास-प्रस्तुतिः - 78

प्रेरितं ब्रह्नरन्ध्रेण तत्तदिच्छावशात् पुनः।
सप्तपातालनागं च अगमत् क्ष्माम्बुजात्मना ॥ 78 ॥

मूलम् - 78

प्रेरितं ब्रह्नरन्ध्रेण तत्तदिच्छावशात् पुनः।
सप्तपातालनागं च अगमत् क्ष्माम्बुजात्मना ॥ 78 ॥

विश्वास-प्रस्तुतिः - 79

यदाश्रित्य स्ववाहे तु अमृतात्मा जलस्थितः।
सचक्ररचनाजाले स्थितस्तेजस्त्रिमूर्तिधृक् ॥ 79 ॥

मूलम् - 79

यदाश्रित्य स्ववाहे तु अमृतात्मा जलस्थितः।
सचक्ररचनाजाले स्थितस्तेजस्त्रिमूर्तिधृक् ॥ 79 ॥

विश्वास-प्रस्तुतिः - 80

शङ्खविग्रहधृग्वायुराज्यकोशं च खं ततः।
निर्बींजमजमक्षोभ्यमाद्यं स्यादधिदैवतम् ॥ 80 ॥

मूलम् - 80

शङ्खविग्रहधृग्वायुराज्यकोशं च खं ततः।
निर्बींजमजमक्षोभ्यमाद्यं स्यादधिदैवतम् ॥ 80 ॥

विश्वास-प्रस्तुतिः - 81

अपरस्मिन् स्रुवे ज्ञेयं यथा ज्ञायेत तच्छृणु।
साक्षादमृतमूर्तिर्वै वरुणः कलशात्मना ॥ 81 ॥

मूलम् - 81

अपरस्मिन् स्रुवे ज्ञेयं यथा ज्ञायेत तच्छृणु।
साक्षादमृतमूर्तिर्वै वरुणः कलशात्मना ॥ 81 ॥

विश्वास-प्रस्तुतिः - 82

नालात्मना तदस्त्रं च संस्थितं विघ्नधीतिकृत्।
जगदाप्यायकृच्चन्द्रः पझत्वेनाग्रदेशतः ॥ 82 ॥

मूलम् - 82

नालात्मना तदस्त्रं च संस्थितं विघ्नधीतिकृत्।
जगदाप्यायकृच्चन्द्रः पझत्वेनाग्रदेशतः ॥ 82 ॥

विश्वास-प्रस्तुतिः - 83

आनन्दारव्यं हि सामर्थ्यं ज्ञेयं तत् पारमेश्वरम्।
सत्यभूतममेयं च प्रमेयमिदमाच्युतम् ॥ 83 ॥

मूलम् - 83

आनन्दारव्यं हि सामर्थ्यं ज्ञेयं तत् पारमेश्वरम्।
सत्यभूतममेयं च प्रमेयमिदमाच्युतम् ॥ 83 ॥

विश्वास-प्रस्तुतिः - 84

संस्कारकाले त्वारोप्य नित्यं सन्मन्त्रतर्पणे।
स्वसंज्ञा प्रणवोपेता नमस्कारपदान्विता ॥ 84 ॥

मूलम् - 84

संस्कारकाले त्वारोप्य नित्यं सन्मन्त्रतर्पणे।
स्वसंज्ञा प्रणवोपेता नमस्कारपदान्विता ॥ 84 ॥

विश्वास-प्रस्तुतिः - 85

सर्वेषामर्चने विप्र! आराध्य हृदयेन वा।
पूजयित्वार्घ्यगन्धाद्यैर्न्यस्तमन्त्रगणं ततः ॥ 85 ॥

मूलम् - 85

सर्वेषामर्चने विप्र! आराध्य हृदयेन वा।
पूजयित्वार्घ्यगन्धाद्यैर्न्यस्तमन्त्रगणं ततः ॥ 85 ॥

विश्वास-प्रस्तुतिः - 86

अम्बुपूतेऽथ पात्रे द्वे हेमादिद्रव्यनिर्मिते।
पूरयित्वाम्भसा ताभ्यां विष्टरद्वितयं न्यसेत् ॥ 86 ॥

मूलम् - 86

अम्बुपूतेऽथ पात्रे द्वे हेमादिद्रव्यनिर्मिते।
पूरयित्वाम्भसा ताभ्यां विष्टरद्वितयं न्यसेत् ॥ 86 ॥

विश्वास-प्रस्तुतिः - 87

एकस्मिन् मूलमन्त्रं तु सासनं संप्रपूज्य च।
तदस्त्रमपरस्मिन् वै तेन प्रागादितस्तरम् ॥ 87 ॥

मूलम् - 87

एकस्मिन् मूलमन्त्रं तु सासनं संप्रपूज्य च।
तदस्त्रमपरस्मिन् वै तेन प्रागादितस्तरम् ॥ 87 ॥

विश्वास-प्रस्तुतिः - 88

प्रदक्षिणक्रमेणैव स्रुचा सिच्य निधाय च।
पूरयित्वाऽम्भसा भूयो द्वितीयेन सहोत्तरे ॥ 88 ॥

मूलम् - 88

प्रदक्षिणक्रमेणैव स्रुचा सिच्य निधाय च।
पूरयित्वाऽम्भसा भूयो द्वितीयेन सहोत्तरे ॥ 88 ॥

विश्वास-प्रस्तुतिः - 89

विनिधाय च दिग्भागे अर्चयित्वा प्रणम्य च।
आज्यौघं च तदस्त्रेण प्रोक्षयेत्ताडयेद्‌द्विज! ॥ 89 ॥

मूलम् - 89

विनिधाय च दिग्भागे अर्चयित्वा प्रणम्य च।
आज्यौघं च तदस्त्रेण प्रोक्षयेत्ताडयेद्‌द्विज! ॥ 89 ॥

विश्वास-प्रस्तुतिः - 90

भाण्डस्थस्य यदाज्यस्य दर्भैः प्रज्वलितैः पुरा।
स्पर्शनं विद्धि संस्कारमधिश्रयणसंज्ञकम् ॥ 90 ॥

मूलम् - 90

भाण्डस्थस्य यदाज्यस्य दर्भैः प्रज्वलितैः पुरा।
स्पर्शनं विद्धि संस्कारमधिश्रयणसंज्ञकम् ॥ 90 ॥

विश्वास-प्रस्तुतिः - 91

उपाधिश्रयणं नाम यत्तद्‌द्रावणमुच्यते।
परिवर्तनमन्यस्मिन् भाण्‍डे दोषापनुत्तये ॥ 91 ॥

मूलम् - 91

उपाधिश्रयणं नाम यत्तद्‌द्रावणमुच्यते।
परिवर्तनमन्यस्मिन् भाण्‍डे दोषापनुत्तये ॥ 91 ॥

विश्वास-प्रस्तुतिः - 92

प्रसादीकरणं ह्येतदुच्चस्थेन करेण तु।
पुनरादाय कृत्वाग्रे आधारोपरि यत्नतः ॥ 92 ॥

मूलम् - 92

प्रसादीकरणं ह्येतदुच्चस्थेन करेण तु।
पुनरादाय कृत्वाग्रे आधारोपरि यत्नतः ॥ 92 ॥

विश्वास-प्रस्तुतिः - 93

परावर्त्य स्रुवेणादौ चतुस्त्रिद्व्येकसंख्यया।
दर्भकाण्डचतुष्कं तु द्वादशाङ्‌गुलसंमितम् ॥ 93 ॥

मूलम् - 93

परावर्त्य स्रुवेणादौ चतुस्त्रिद्व्येकसंख्यया।
दर्भकाण्डचतुष्कं तु द्वादशाङ्‌गुलसंमितम् ॥ 93 ॥

विश्वास-प्रस्तुतिः - 94

तिर्यगुत्तानपाणिभ्यामवष्टभ्य च सान्तरम्।
अनामाङ्‌गुष्ठयुग्मेन यथा मध्यं नतं भवेत् ॥ 94 ॥

मूलम् - 94

तिर्यगुत्तानपाणिभ्यामवष्टभ्य च सान्तरम्।
अनामाङ्‌गुष्ठयुग्मेन यथा मध्यं नतं भवेत् ॥ 94 ॥

विश्वास-प्रस्तुतिः - 95

तैराज्यं चतुरो वारानानयेच्चतुरो नयेत्।
अन्तरान्तरयोगेन ह्यात्मनोऽग्नेस्तु संमुखम् ॥ 95 ॥

मूलम् - 95

तैराज्यं चतुरो वारानानयेच्चतुरो नयेत्।
अन्तरान्तरयोगेन ह्यात्मनोऽग्नेस्तु संमुखम् ॥ 95 ॥

विश्वास-प्रस्तुतिः - 96

प्रणवेनोक्तसंख्येन कुण्डमध्ये विनिक्षिपेत्।
यद्वा हृदा द्विदर्भेण निनयेदानयेत् त्रिधा ॥ 96 ॥

मूलम् - 96

प्रणवेनोक्तसंख्येन कुण्डमध्ये विनिक्षिपेत्।
यद्वा हृदा द्विदर्भेण निनयेदानयेत् त्रिधा ॥ 96 ॥

विश्वास-प्रस्तुतिः - 97

संप्लवोत्प्लवने कृत्वा ततो दार्भं पवित्रकम्।
विनिक्षिपेच्च तन्मध्ये पवित्रीकरणं च तत् ॥ 97 ॥

मूलम् - 97

संप्लवोत्प्लवने कृत्वा ततो दार्भं पवित्रकम्।
विनिक्षिपेच्च तन्मध्ये पवित्रीकरणं च तत् ॥ 97 ॥

विश्वास-प्रस्तुतिः - 98

नीराजीकृत्य नेत्रेण कुशाग्रैरर्चिषान्वितैः।
हृदा संयोजनं कुर्यादुपयामस्य तत्र च ॥ 98 ॥

मूलम् - 98

नीराजीकृत्य नेत्रेण कुशाग्रैरर्चिषान्वितैः।
हृदा संयोजनं कुर्यादुपयामस्य तत्र च ॥ 98 ॥

विश्वास-प्रस्तुतिः - 99

तेजसा हृदयस्थेन दृग्गतेनावलोकनम्।
निरीक्षणमिदं विप्र! नेत्रेण हृदयेन वा ॥ 99 ॥

मूलम् - 99

तेजसा हृदयस्थेन दृग्गतेनावलोकनम्।
निरीक्षणमिदं विप्र! नेत्रेण हृदयेन वा ॥ 99 ॥

विश्वास-प्रस्तुतिः - 100

निरीक्ष्यैवं तु तत्पश्चात् कवचोदरगं स्मरेत्।
अवगुण्ठनमेतद्धि स्थितं तत्रोपरि स्मरेत् ॥ 100 ॥

मूलम् - 100

निरीक्ष्यैवं तु तत्पश्चात् कवचोदरगं स्मरेत्।
अवगुण्ठनमेतद्धि स्थितं तत्रोपरि स्मरेत् ॥ 100 ॥

विश्वास-प्रस्तुतिः - 101

चन्द्रमण्डलमध्यस्थं धेनुमुद्रासमन्वितम्।
मन्त्रं वै सौरभीयं च स्फुरदिन्दुशतप्रभम् ॥ 101 ॥

मूलम् - 101

चन्द्रमण्डलमध्यस्थं धेनुमुद्रासमन्वितम्।
मन्त्रं वै सौरभीयं च स्फुरदिन्दुशतप्रभम् ॥ 101 ॥

विश्वास-प्रस्तुतिः - 102

तदन्तरस्थं मन्त्रेशं हिमाचलनिभं स्मरेत्।
तत्स्रुतैरमृतौघैश्च शशिजैर्धेनुजैरपि ॥ 102 ॥

मूलम् - 102

तदन्तरस्थं मन्त्रेशं हिमाचलनिभं स्मरेत्।
तत्स्रुतैरमृतौघैश्च शशिजैर्धेनुजैरपि ॥ 102 ॥

विश्वास-प्रस्तुतिः - 103

कवचेनामृतीकृत्य निदध्यादुत्तरे घृतम्।
अमृतीकरणं नाम इदं ते संप्रकाशितम् ॥ 103 ॥

मूलम् - 103

कवचेनामृतीकृत्य निदध्यादुत्तरे घृतम्।
अमृतीकरणं नाम इदं ते संप्रकाशितम् ॥ 103 ॥

विश्वास-प्रस्तुतिः - 104

सामान्याज्यस्य संस्कारान् कृत्वा पञ्चदश द्विज!।
अथाज्यप्रोक्षणं कुर्याद्योग्यं तदखिलं तु वै ॥ 104 ॥

मूलम् - 104

सामान्याज्यस्य संस्कारान् कृत्वा पञ्चदश द्विज!।
अथाज्यप्रोक्षणं कुर्याद्योग्यं तदखिलं तु वै ॥ 104 ॥

विश्वास-प्रस्तुतिः - 105

समित्कुसुमपूर्वं तु विष्टरेण स्रुवेण वा।
हृदाज्यसिक्तैः कुसुमैः सर्पिषा वा धिया द्विज! ॥ 105 ॥

मूलम् - 105

समित्कुसुमपूर्वं तु विष्टरेण स्रुवेण वा।
हृदाज्यसिक्तैः कुसुमैः सर्पिषा वा धिया द्विज! ॥ 105 ॥

विश्वास-प्रस्तुतिः - 106

गर्भाधानादिसंस्कारान् कुर्याद्दारावसानकान्।
श्रीकुक्षिकुहरे यद्वै बहिष्ठस्य प्रवेशनम् ॥ 106 ॥

मूलम् - 106

गर्भाधानादिसंस्कारान् कुर्याद्दारावसानकान्।
श्रीकुक्षिकुहरे यद्वै बहिष्ठस्य प्रवेशनम् ॥ 106 ॥

विश्वास-प्रस्तुतिः - 107

गर्भाधानं तु तद्विद्धि संस्कारं प्रथमं मुने!।
प्राणयोगाच्च या शक्तिर्वाह्नी श्रीजठरे स्थिता ॥ 107 ॥

मूलम् - 107

गर्भाधानं तु तद्विद्धि संस्कारं प्रथमं मुने!।
प्राणयोगाच्च या शक्तिर्वाह्नी श्रीजठरे स्थिता ॥ 107 ॥

विश्वास-प्रस्तुतिः - 108

जडरूपाक्षया सूक्ष्मा तस्याश्चित्प्रसरो हि यः।
भगवच्छक्तिचैतन्यसामर्थ्याच्च शनैः शनैः ॥ 108 ॥

मूलम् - 108

जडरूपाक्षया सूक्ष्मा तस्याश्चित्प्रसरो हि यः।
भगवच्छक्तिचैतन्यसामर्थ्याच्च शनैः शनैः ॥ 108 ॥

विश्वास-प्रस्तुतिः - 109

स्मृत्वैवं जुहुयादाज्यं हृन्मन्त्रेणोदितेन च।
भवेत् पुंसवनं चाग्नोश्चिच्छक्तिनयनात्तु वै ॥ 109 ॥

मूलम् - 109

स्मृत्वैवं जुहुयादाज्यं हृन्मन्त्रेणोदितेन च।
भवेत् पुंसवनं चाग्नोश्चिच्छक्तिनयनात्तु वै ॥ 109 ॥

विश्वास-प्रस्तुतिः - 110

सीमन्ताख्यं तु संस्कारमग्नेः कुर्यादनन्तरम्।
अव्यक्ताश्च तदन्तस्थाः शिरः पाण्यादयोऽखिलाः ॥ 110 ॥

मूलम् - 110

सीमन्ताख्यं तु संस्कारमग्नेः कुर्यादनन्तरम्।
अव्यक्ताश्च तदन्तस्थाः शिरः पाण्यादयोऽखिलाः ॥ 110 ॥

विश्वास-प्रस्तुतिः - 111

स्वां स्वां वै कर्मसीमानं प्रबुद्धाः संश्रयन्ति ये।
विभागकल्पनं तेषां सीमन्तं तदुदाहृतम् ॥ 111 ॥

मूलम् - 111

स्वां स्वां वै कर्मसीमानं प्रबुद्धाः संश्रयन्ति ये।
विभागकल्पनं तेषां सीमन्तं तदुदाहृतम् ॥ 111 ॥

विश्वास-प्रस्तुतिः - 112

अग्नेर्वै जातकर्मार्थं पूर्ववद्धोमयेत् सकृत्।
निस्सृतस्य च वै गर्भात् स्नातस्य प्राशनं द्विज! ॥ 112 ॥

मूलम् - 112

अग्नेर्वै जातकर्मार्थं पूर्ववद्धोमयेत् सकृत्।
निस्सृतस्य च वै गर्भात् स्नातस्य प्राशनं द्विज! ॥ 112 ॥

विश्वास-प्रस्तुतिः - 113

हिरण्यमधुसर्पिर्ब्यां जातकर्म भवेत्तु तत्।
होमयेन्नामकर्मार्थं घृतपूर्णस्वुवेण च ॥ 113 ॥

मूलम् - 113

हिरण्यमधुसर्पिर्ब्यां जातकर्म भवेत्तु तत्।
होमयेन्नामकर्मार्थं घृतपूर्णस्वुवेण च ॥ 113 ॥

विश्वास-प्रस्तुतिः - 114

जातस्याग्नेः प्रयत्नेन वासुदेवादिना द्विज!।
अङ्कयेत् सुप्रसिद्धेन नामकर्म भवेदिदम् ॥ 114 ॥

मूलम् - 114

जातस्याग्नेः प्रयत्नेन वासुदेवादिना द्विज!।
अङ्कयेत् सुप्रसिद्धेन नामकर्म भवेदिदम् ॥ 114 ॥

विश्वास-प्रस्तुतिः - 115

अन्नप्राशनकर्मार्थं पूर्ववद्धोममाचरेत्।
एवं संस्कारशुद्धस्य वैष्णवाग्नेः प्रयत्नतः ॥ 115 ॥

मूलम् - 115

अन्नप्राशनकर्मार्थं पूर्ववद्धोममाचरेत्।
एवं संस्कारशुद्धस्य वैष्णवाग्नेः प्रयत्नतः ॥ 115 ॥

विश्वास-प्रस्तुतिः - 116

मन्त्रान्नदानपूर्वं यत्तदन्नप्राशन भवेत्।
शिखाबन्धं यदग्नेस्तु तच्चौलमिति चोच्यते ॥ 116 ॥

मूलम् - 116

मन्त्रान्नदानपूर्वं यत्तदन्नप्राशन भवेत्।
शिखाबन्धं यदग्नेस्तु तच्चौलमिति चोच्यते ॥ 116 ॥

विश्वास-प्रस्तुतिः - 117

यदग्नेर्होमयोग्यत्वं तच्चोपनयनं स्मृतम्।
वेदव्रतं च गोदानं समावर्तविवाहकौ ॥ 117 ॥

मूलम् - 117

यदग्नेर्होमयोग्यत्वं तच्चोपनयनं स्मृतम्।
वेदव्रतं च गोदानं समावर्तविवाहकौ ॥ 117 ॥

विश्वास-प्रस्तुतिः - 118

कृत्वानलस्य जिह्वानां भावयेत् सप्तकं पुनः।
नवखण्डे समिद्धाग्नौ कुण्डेऽग्नावर्चिषोद्धते ॥ 118 ॥

मूलम् - 118

कृत्वानलस्य जिह्वानां भावयेत् सप्तकं पुनः।
नवखण्डे समिद्धाग्नौ कुण्डेऽग्नावर्चिषोद्धते ॥ 118 ॥

विश्वास-प्रस्तुतिः - 119

ईशप्रागनलाख्यानां पदानां भावयेत् त्रयम्।
यातुधाने तु वारुण्ये वायन्ये तु पदत्रये ॥ 119 ॥

मूलम् - 119

ईशप्रागनलाख्यानां पदानां भावयेत् त्रयम्।
यातुधाने तु वारुण्ये वायन्ये तु पदत्रये ॥ 119 ॥

विश्वास-प्रस्तुतिः - 120

जिह्वात्रयं तु बोद्धव्यं मध्यतो दक्षिणोत्तरे।
एका चैव परिज्ञेया ताः कमेण निबोध तु ॥ 120 ॥

मूलम् - 120

जिह्वात्रयं तु बोद्धव्यं मध्यतो दक्षिणोत्तरे।
एका चैव परिज्ञेया ताः कमेण निबोध तु ॥ 120 ॥

विश्वास-प्रस्तुतिः - 121

हव्या कव्या च धूम्रा वै तिस्रः प्राच्यां दिशि स्थताः।
काली मनोजवा चेति कराली चेति पश्चिमे ॥ 121 ॥

मूलम् - 121

हव्या कव्या च धूम्रा वै तिस्रः प्राच्यां दिशि स्थताः।
काली मनोजवा चेति कराली चेति पश्चिमे ॥ 121 ॥

विश्वास-प्रस्तुतिः - 122

एकां वै लेलिहाख्यां च विद्धि शेषपदत्रये।
रक्तं श्वेतं तथा नीलं कृष्णं पीतं तथारुणम् ॥ 122 ।

मूलम् - 122

एकां वै लेलिहाख्यां च विद्धि शेषपदत्रये।
रक्तं श्वेतं तथा नीलं कृष्णं पीतं तथारुणम् ॥ 122 ।

विश्वास-प्रस्तुतिः - 123

सौदामिनीनिभं ध्यायेज्जिह्वानां सप्तकं क्रमात्।
स्वस्वबीजैः, स्वसंज्ञैर्वा, सबीजैर्वा स्वनामभिः ॥ 123 ॥

मूलम् - 123

सौदामिनीनिभं ध्यायेज्जिह्वानां सप्तकं क्रमात्।
स्वस्वबीजैः, स्वसंज्ञैर्वा, सबीजैर्वा स्वनामभिः ॥ 123 ॥

विश्वास-प्रस्तुतिः - 124

एतैर्मन्त्रैर्द्विजश्रेष्ठ! भावयेच्च यथाक्रमम्।
प्रभादीप्तिः प्रकाशा च मरीचिस्तापनी तथा ॥ 124 ॥

मूलम् - 124

एतैर्मन्त्रैर्द्विजश्रेष्ठ! भावयेच्च यथाक्रमम्।
प्रभादीप्तिः प्रकाशा च मरीचिस्तापनी तथा ॥ 124 ॥

विश्वास-प्रस्तुतिः - 125

कराला लेलिहा चैव कुण्डं व्याप्य व्यवस्थिताः।
ईशपूर्वाग्निदिग्भागे प्रभाद्यं त्रितयं स्मृतम् ॥ 125 ॥

मूलम् - 125

कराला लेलिहा चैव कुण्डं व्याप्य व्यवस्थिताः।
ईशपूर्वाग्निदिग्भागे प्रभाद्यं त्रितयं स्मृतम् ॥ 125 ॥

विश्वास-प्रस्तुतिः - 126

रक्षोवारुणवायव्ये मरीच्याद्यं त्रयं तु तत्।
उदग्दिङ्भध्यतो याम्ये स्थितैका, लेलिहाभिधा ॥ 126 ॥

मूलम् - 126

रक्षोवारुणवायव्ये मरीच्याद्यं त्रयं तु तत्।
उदग्दिङ्भध्यतो याम्ये स्थितैका, लेलिहाभिधा ॥ 126 ॥

विश्वास-प्रस्तुतिः - 127

विभागमेवं ज्ञात्वा वै जिह्वानामग्निकर्मणि।
आधेयोल्लिङ्किताकारं ध्यात्वा कुण्डगतानलम् ॥ 127 ॥

मूलम् - 127

विभागमेवं ज्ञात्वा वै जिह्वानामग्निकर्मणि।
आधेयोल्लिङ्किताकारं ध्यात्वा कुण्डगतानलम् ॥ 127 ॥

विश्वास-प्रस्तुतिः - 128

तज्जनित्रीं ततः कुण्डाज्ज्वालामार्गेण चोद्गताम्।
परानन्दप्रकाशाभां नासिक्या द्वादशावधि ॥ 128 ॥

मूलम् - 128

तज्जनित्रीं ततः कुण्डाज्ज्वालामार्गेण चोद्गताम्।
परानन्दप्रकाशाभां नासिक्या द्वादशावधि ॥ 128 ॥

विश्वास-प्रस्तुतिः - 129

ततोऽवतारयोगेन प्रविष्टां भावयेद्धदि।
हृन्मन्त्रेणआर्चयित्वाग्निं सार्घ्यपुष्पैश्च निर्मलैः ॥ 129 ॥

मूलम् - 129

ततोऽवतारयोगेन प्रविष्टां भावयेद्धदि।
हृन्मन्त्रेणआर्चयित्वाग्निं सार्घ्यपुष्पैश्च निर्मलैः ॥ 129 ॥

विश्वास-प्रस्तुतिः - 130

धूपैर्दीपेन दध्नाच तिलैरक्षतमिश्रितैः।
अन्नैर्भक्ष्यफलोपेतैराज्येन क्रमशो द्विज! ॥ 130 ॥

मूलम् - 130

धूपैर्दीपेन दध्नाच तिलैरक्षतमिश्रितैः।
अन्नैर्भक्ष्यफलोपेतैराज्येन क्रमशो द्विज! ॥ 130 ॥

संपूज्यैवं विधाने स्वमन्त्रेणाथवा ततः ॥ तर्पयेत यथाशक्ति तिलाज्याद्यैरनुक्रमात् ॥ 131 ॥
विश्वास-प्रस्तुतिः - 132

आज्येन वा केवलेन सहस्रशतसंख्यया।
दद्यात् पूर्णाहुतिं पश्चात् पूजितां कुसुमादिकैः ॥ 132 ॥

मूलम् - 132

आज्येन वा केवलेन सहस्रशतसंख्यया।
दद्यात् पूर्णाहुतिं पश्चात् पूजितां कुसुमादिकैः ॥ 132 ॥

विश्वास-प्रस्तुतिः - 133

स्रुक्‌स्रुवेणोपयामेन ह्यूर्ध्वाधः संस्थितेन च।
स्रुवा संपुटयोगेन वह्नेर्वदनमद्यगम् ॥ 133 ॥

मूलम् - 133

स्रुक्‌स्रुवेणोपयामेन ह्यूर्ध्वाधः संस्थितेन च।
स्रुवा संपुटयोगेन वह्नेर्वदनमद्यगम् ॥ 133 ॥

विश्वास-प्रस्तुतिः - 134

प्रादक्षिण्येन चामध्याद्धारापातं समाचरेत्।
नयेन्मद्यपदे निष्ठामाज्यधारां तथा पुनः ॥ 134 ॥

मूलम् - 134

प्रादक्षिण्येन चामध्याद्धारापातं समाचरेत्।
नयेन्मद्यपदे निष्ठामाज्यधारां तथा पुनः ॥ 134 ॥

विश्वास-प्रस्तुतिः - 135

प्रदर्श्य हार्दयीं मुद्रामग्निमुद्रा तु वा द्विज!।
नारायणात्मकं वह्नि प्राग्वदभ्यर्चयेत्ततः ॥ 135 ॥

मूलम् - 135

प्रदर्श्य हार्दयीं मुद्रामग्निमुद्रा तु वा द्विज!।
नारायणात्मकं वह्नि प्राग्वदभ्यर्चयेत्ततः ॥ 135 ॥

विश्वास-प्रस्तुतिः - 136

पूर्ववच्च स्मरेद्वह्निं साकारं निष्कलप्रभम्।
स्वयोगबलवीर्येण व्यापकं सर्वदिग्गतम् ॥ 136 ॥

मूलम् - 136

पूर्ववच्च स्मरेद्वह्निं साकारं निष्कलप्रभम्।
स्वयोगबलवीर्येण व्यापकं सर्वदिग्गतम् ॥ 136 ॥

विश्वास-प्रस्तुतिः - 137

कदम्बकुसुमाकारं स्वप्रभाभिर्विराजितम्।
कुण्डमापूरयन् सर्वं सर्वाकृत्या तु सर्वतः ॥ 137 ॥

मूलम् - 137

कदम्बकुसुमाकारं स्वप्रभाभिर्विराजितम्।
कुण्डमापूरयन् सर्वं सर्वाकृत्या तु सर्वतः ॥ 137 ॥

विश्वास-प्रस्तुतिः - 138

एवं हि विततो व्यापी निराकारः सुदीप्तिमान्।
अथ ज्वालाजटाधारे वह्नौ वै कुण्डमध्यतः ॥ 138 ॥

मूलम् - 138

एवं हि विततो व्यापी निराकारः सुदीप्तिमान्।
अथ ज्वालाजटाधारे वह्नौ वै कुण्डमध्यतः ॥ 138 ॥

विश्वास-प्रस्तुतिः - 139

अनुसन्धीयते बुद्ध्या विष्टरं तु यथोदितम्।
तदर्चनमथो कुर्यात् पुष्पैर्धूपैः सचन्दनैः ॥ 139 ॥

मूलम् - 139

अनुसन्धीयते बुद्ध्या विष्टरं तु यथोदितम्।
तदर्चनमथो कुर्यात् पुष्पैर्धूपैः सचन्दनैः ॥ 139 ॥

विश्वास-प्रस्तुतिः - 140

मुद्राबन्धं ततः कुर्यात् पीठामरगणस्य च।
ततोऽवतार्य तन्मद्ये हृदयात् परमेश्वरम् ॥ 140 ॥

मूलम् - 140

मुद्राबन्धं ततः कुर्यात् पीठामरगणस्य च।
ततोऽवतार्य तन्मद्ये हृदयात् परमेश्वरम् ॥ 140 ॥

विश्वास-प्रस्तुतिः - 141

नीरौदकात् स्वमन्त्रेण दद्यात् पुष्पाञ्जलिं विभोः।
साङ्गं सलाञ्छनं ध्यायेत् सकलं परमेश्वरम् ॥ 141 ॥

मूलम् - 141

नीरौदकात् स्वमन्त्रेण दद्यात् पुष्पाञ्जलिं विभोः।
साङ्गं सलाञ्छनं ध्यायेत् सकलं परमेश्वरम् ॥ 141 ॥

विश्वास-प्रस्तुतिः - 142

सांमुख्यं सन्निधानं च सन्निरोधनमाचरेत्।
अर्घ्यप्रदानपूर्वं तु सर्वं कुर्यात्तु पूर्ववत् ॥ 142 ॥

मूलम् - 142

सांमुख्यं सन्निधानं च सन्निरोधनमाचरेत्।
अर्घ्यप्रदानपूर्वं तु सर्वं कुर्यात्तु पूर्ववत् ॥ 142 ॥

विश्वास-प्रस्तुतिः - 143

मूलबिम्बे यथा ध्यानमग्निमध्ये तथा भवेत्।
यानगे यानगं ध्यायेदग्नौ स्थाने यथास्थितम् ॥ 143 ॥

मूलम् - 143

मूलबिम्बे यथा ध्यानमग्निमध्ये तथा भवेत्।
यानगे यानगं ध्यायेदग्नौ स्थाने यथास्थितम् ॥ 143 ॥

विश्वास-प्रस्तुतिः - 144

आसीने त्वथ चासीनं शयाने च तथाविधम्।
पझरागारुणरुचिं स्मर्तव्यमनलास्पदे ॥ 144 ॥

मूलम् - 144

आसीने त्वथ चासीनं शयाने च तथाविधम्।
पझरागारुणरुचिं स्मर्तव्यमनलास्पदे ॥ 144 ॥

विश्वास-प्रस्तुतिः - 145

मूलादिसर्वमन्त्राणां तत्तन्मुद्रां प्रदर्श्य च।
अर्ध्यगन्धादिना पस्चात् पूजयेत् सकलं प्रभुम् ॥ 145 ॥

मूलम् - 145

मूलादिसर्वमन्त्राणां तत्तन्मुद्रां प्रदर्श्य च।
अर्ध्यगन्धादिना पस्चात् पूजयेत् सकलं प्रभुम् ॥ 145 ॥

विश्वास-प्रस्तुतिः - 146

लयभोगात्मना सम्यकू पूर्वोक्तविधिनाऽथवा।
समिद्गणं तु पात्रस्थं कृत्वाभ्यर्च्य हृदा मुने! ॥ 146 ॥

मूलम् - 146

लयभोगात्मना सम्यकू पूर्वोक्तविधिनाऽथवा।
समिद्गणं तु पात्रस्थं कृत्वाभ्यर्च्य हृदा मुने! ॥ 146 ॥

विश्वास-प्रस्तुतिः - 147

शिरसावनतेनैव विनिवेद्य ततः प्रभोः।
इध्मानामष्टकं चापि चतुष्कं द्वयमेव वा ॥ 147 ॥

मूलम् - 147

शिरसावनतेनैव विनिवेद्य ततः प्रभोः।
इध्मानामष्टकं चापि चतुष्कं द्वयमेव वा ॥ 147 ॥

विश्वास-प्रस्तुतिः - 148

आज्येन सर्वतः सिक्तं ब्रह्नक्षीरद्रुमोद्भवम्।
समादाय द्विधा कृत्वा मूलेन द्विजसत्तम! ॥ 148 ॥

मूलम् - 148

आज्येन सर्वतः सिक्तं ब्रह्नक्षीरद्रुमोद्भवम्।
समादाय द्विधा कृत्वा मूलेन द्विजसत्तम! ॥ 148 ॥

विश्वास-प्रस्तुतिः - 149

निधाय दक्षिणस्यां च मध्ये आग्नेयदिग्गतम्।
विश्रान्तं नैर्ऋतपदे उत्तरस्यां तथापरम् ॥ 149 ॥

मूलम् - 149

निधाय दक्षिणस्यां च मध्ये आग्नेयदिग्गतम्।
विश्रान्तं नैर्ऋतपदे उत्तरस्यां तथापरम् ॥ 149 ॥

विश्वास-प्रस्तुतिः - 150

वाय्वीशपदसंरुद्धमाघाराज्यं ततः क्षिपेत्।
इध्ममूलादथाग्रान्तमिध्मेध्मोपरि संस्थितम् ॥ 150 ॥

मूलम् - 150

वाय्वीशपदसंरुद्धमाघाराज्यं ततः क्षिपेत्।
इध्ममूलादथाग्रान्तमिध्मेध्मोपरि संस्थितम् ॥ 150 ॥

विश्वास-प्रस्तुतिः - 151

स्रुवमाज्येन संपूर्य सूर्यबीजेन चिन्तयेत्।
सहस्रांशुं च तन्मध्ये दद्यात् कुण्डस्य दक्षिणे ॥ 151 ॥

मूलम् - 151

स्रुवमाज्येन संपूर्य सूर्यबीजेन चिन्तयेत्।
सहस्रांशुं च तन्मध्ये दद्यात् कुण्डस्य दक्षिणे ॥ 151 ॥

विश्वास-प्रस्तुतिः - 152

अपरस्मिन् स्रुचि ध्यात्वा सोमाख्येनाक्षरेण तु।
पूर्णं शशाङ्कबिम्बं च प्रदद्यात्तु तदुत्तरे ॥ 152 ॥

मूलम् - 152

अपरस्मिन् स्रुचि ध्यात्वा सोमाख्येनाक्षरेण तु।
पूर्णं शशाङ्कबिम्बं च प्रदद्यात्तु तदुत्तरे ॥ 152 ॥

विश्वास-प्रस्तुतिः - 153

संख्यानुगुणमिध्मानां घृतं च जुहुयात्तु वै।
सूर्यसोमात्मकं चाग्नेर्विद्धि तल्लोचनद्वयम् ॥ 153 ॥

मूलम् - 153

संख्यानुगुणमिध्मानां घृतं च जुहुयात्तु वै।
सूर्यसोमात्मकं चाग्नेर्विद्धि तल्लोचनद्वयम् ॥ 153 ॥

विश्वास-प्रस्तुतिः - 154

एतयोरन्तरं यद्वै तदग्नैर्वदनं स्मृतम्।
तत्रैव जुहुयात् पूर्वं समिधां सप्तकं क्रमात् ॥ 154 ॥

मूलम् - 154

एतयोरन्तरं यद्वै तदग्नैर्वदनं स्मृतम्।
तत्रैव जुहुयात् पूर्वं समिधां सप्तकं क्रमात् ॥ 154 ॥

विश्वास-प्रस्तुतिः - 155

घृतसिक्तां चतुस्संख्यामेकैकां हि सुपुष्कलाम्।
प्राक्कुह्कुमादिना लिप्तां काष्ठसंज्ञां तु होमयेत् ॥ 155 ॥

मूलम् - 155

घृतसिक्तां चतुस्संख्यामेकैकां हि सुपुष्कलाम्।
प्राक्कुह्कुमादिना लिप्तां काष्ठसंज्ञां तु होमयेत् ॥ 155 ॥

विश्वास-प्रस्तुतिः - 156

स्रग्धूपमधुपर्कं च बीजान्नाज्यं यथाक्रमम्।
तत्रान्नसमिदाधाने विशेषोऽयं विधीयते ॥ 156 ॥

मूलम् - 156

स्रग्धूपमधुपर्कं च बीजान्नाज्यं यथाक्रमम्।
तत्रान्नसमिदाधाने विशेषोऽयं विधीयते ॥ 156 ॥

विश्वास-प्रस्तुतिः - 157

साधितं संस्कृतेऽग्नौ प्राक्‌ तन्निधायाग्रतश्चरुम्।
समुद्धाट्यावलोक्यादौ संप्रोक्ष्यार्घ्याम्बुना ततः ॥ 157 ॥

मूलम् - 157

साधितं संस्कृतेऽग्नौ प्राक्‌ तन्निधायाग्रतश्चरुम्।
समुद्धाट्यावलोक्यादौ संप्रोक्ष्यार्घ्याम्बुना ततः ॥ 157 ॥

विश्वास-प्रस्तुतिः - 158

दर्भकाण्डचतुष्केन सानग्निना तदनु स्पृशेत्।
तन्मध्ये स्रुक्‌चतुष्कं तु मन्त्रेणाज्यस्य निक्षिपेत् ॥ 158 ॥

मूलम् - 158

दर्भकाण्डचतुष्केन सानग्निना तदनु स्पृशेत्।
तन्मध्ये स्रुक्‌चतुष्कं तु मन्त्रेणाज्यस्य निक्षिपेत् ॥ 158 ॥

विश्वास-प्रस्तुतिः - 159

अथादाय स्रुचं तत्र तद्वद्दद्याच्चतुष्टयम्।
चतुरङ्‌गुलमानेन अन्नग्रासमथाहरेत् ॥ 159 ॥

मूलम् - 159

अथादाय स्रुचं तत्र तद्वद्दद्याच्चतुष्टयम्।
चतुरङ्‌गुलमानेन अन्नग्रासमथाहरेत् ॥ 159 ॥

विश्वास-प्रस्तुतिः - 160

तन्निधाय स्रुवा गर्भे तद्‌र्ध्वे पूर्ववद्‌धृतम्।
दद्यादग्नौ चतुष्कं तु क्षिपेदन्नाहुतिं ततः ॥ 160 ॥

मूलम् - 160

तन्निधाय स्रुवा गर्भे तद्‌र्ध्वे पूर्ववद्‌धृतम्।
दद्यादग्नौ चतुष्कं तु क्षिपेदन्नाहुतिं ततः ॥ 160 ॥

विश्वास-प्रस्तुतिः - 161

भूयोऽग्नौ स्रुक्‌चतुष्कं तु ह्याज्यस्यापाद्य यत्नतः।
ततोऽन्यमाज्यसंसिक्तं प्राग्वत् कृत्वाहुतं पुनः ॥ 161 ॥

मूलम् - 161

भूयोऽग्नौ स्रुक्‌चतुष्कं तु ह्याज्यस्यापाद्य यत्नतः।
ततोऽन्यमाज्यसंसिक्तं प्राग्वत् कृत्वाहुतं पुनः ॥ 161 ॥

विश्वास-प्रस्तुतिः - 162

दद्यात् पूर्वप्रयोगेण त्वेवमेव चतुष्टयम्।
हुत्वाप्यन्नाहुतीनां तु ह्याज्याख्यां जुहुयात्ततः ॥ 162 ॥

मूलम् - 162

दद्यात् पूर्वप्रयोगेण त्वेवमेव चतुष्टयम्।
हुत्वाप्यन्नाहुतीनां तु ह्याज्याख्यां जुहुयात्ततः ॥ 162 ॥

विश्वास-प्रस्तुतिः - 163

यादृङ्‌निवेद्यते बिम्बे होतव्यश्चापि तादृशः।
स्रुवमध्येन स्रुग्गर्भे एकैकं वा घृतस्य तु ॥ 163 ॥

मूलम् - 163

यादृङ्‌निवेद्यते बिम्बे होतव्यश्चापि तादृशः।
स्रुवमध्येन स्रुग्गर्भे एकैकं वा घृतस्य तु ॥ 163 ॥

विश्वास-प्रस्तुतिः - 164

प्रत्येकमन्नसमिधः क्षिपेदाद्यन्तयोस्तथा।
तिलैर्घृतसमायुक्तरैरष्टोत्तरसहस्रकम् ॥ 164 ॥

मूलम् - 164

प्रत्येकमन्नसमिधः क्षिपेदाद्यन्तयोस्तथा।
तिलैर्घृतसमायुक्तरैरष्टोत्तरसहस्रकम् ॥ 164 ॥

विश्वास-प्रस्तुतिः - 165

शतं शतार्धं पादं वा यथाशक्ति समाचरेत्।
आज्याक्तैरक्षतैस्तद्वत्तिलैश्च जुहुयात्ततः ॥ 165 ॥

मूलम् - 165

शतं शतार्धं पादं वा यथाशक्ति समाचरेत्।
आज्याक्तैरक्षतैस्तद्वत्तिलैश्च जुहुयात्ततः ॥ 165 ॥

विश्वास-प्रस्तुतिः - 166

अर्धमर्धांशसंयुक्तमधिकं चाग्रवर्तिनाम्।
जपकाले तथा होमे कर्तव्यं सिद्धिमिच्छता ॥ 166 ॥

मूलम् - 166

अर्धमर्धांशसंयुक्तमधिकं चाग्रवर्तिनाम्।
जपकाले तथा होमे कर्तव्यं सिद्धिमिच्छता ॥ 166 ॥

विश्वास-प्रस्तुतिः - 167

स्विष्टकृद्धवनं कुर्यादन्नग्रासेन वै सकृत्।
काम्यैरवश्यफलदैर्देशकालसमुद्भवैः ॥ 167 ॥

मूलम् - 167

स्विष्टकृद्धवनं कुर्यादन्नग्रासेन वै सकृत्।
काम्यैरवश्यफलदैर्देशकालसमुद्भवैः ॥ 167 ॥

विश्वास-प्रस्तुतिः - 168

तिलैर्घुतेन पयसा दध्ना वा पायसेन तु।
सिद्धान्नैः साधितैर्भक्ष्यैर्बीजैर्लाजैश्च तण्डुलैः ॥ 168 ॥

मूलम् - 168

तिलैर्घुतेन पयसा दध्ना वा पायसेन तु।
सिद्धान्नैः साधितैर्भक्ष्यैर्बीजैर्लाजैश्च तण्डुलैः ॥ 168 ॥

विश्वास-प्रस्तुतिः - 169

मूलैः फलैः पल्लवैश्च सुप्रशस्तैश्च कोमलैः।
सुगन्धैः स्थलपझाद्यैः पुष्पैर्द्विज! सितादिकैः ॥ 169 ॥

मूलम् - 169

मूलैः फलैः पल्लवैश्च सुप्रशस्तैश्च कोमलैः।
सुगन्धैः स्थलपझाद्यैः पुष्पैर्द्विज! सितादिकैः ॥ 169 ॥

विश्वास-प्रस्तुतिः - 170

गुग्गुलेनाज्यमिश्रेण सज्जश्रीवेष्टकेन वा।
धात्रीफलैश्च सरसैरुत्पलैश्च शुभैस्तथा ॥ 170 ॥

मूलम् - 170

गुग्गुलेनाज्यमिश्रेण सज्जश्रीवेष्टकेन वा।
धात्रीफलैश्च सरसैरुत्पलैश्च शुभैस्तथा ॥ 170 ॥

विश्वास-प्रस्तुतिः - 171

सुसितैः सितरक्तैश्च पझैर्बिल्वैः सुशोभनैः।
दूर्वाकाण्डैरभग्नार्ग्रैदन्तिसद्दन्तनिर्मलैः ॥ 171 ॥

मूलम् - 171

सुसितैः सितरक्तैश्च पझैर्बिल्वैः सुशोभनैः।
दूर्वाकाण्डैरभग्नार्ग्रैदन्तिसद्दन्तनिर्मलैः ॥ 171 ॥

विश्वास-प्रस्तुतिः - 172

एधोभिर्ब्रह्नवृक्षोत्थैः क्षीरद्रममयेस्तथा।
अमृताक्षीरसंयुक्ता औदुम्बर्यो मधुप्लुताः ॥ 172 ॥

मूलम् - 172

एधोभिर्ब्रह्नवृक्षोत्थैः क्षीरद्रममयेस्तथा।
अमृताक्षीरसंयुक्ता औदुम्बर्यो मधुप्लुताः ॥ 172 ॥

विश्वास-प्रस्तुतिः - 173

अच्छिन्नाग्रा ह्यभग्नास्च कण्टकैः परिवर्जिताः।
सर्वास्त्रिमधुयुक्ताश्च घृतयुक्तास्तु वा पुनः ॥ 173 ॥

मूलम् - 173

अच्छिन्नाग्रा ह्यभग्नास्च कण्टकैः परिवर्जिताः।
सर्वास्त्रिमधुयुक्ताश्च घृतयुक्तास्तु वा पुनः ॥ 173 ॥

विश्वास-प्रस्तुतिः - 174

योक्तव्यान्यग्निमध्ये तु समिद्भिः सह सर्वदा।
सर्वाण्यन्नविशेषाणि चन्दनादीनि यान्यपि ॥ 174 ॥

मूलम् - 174

योक्तव्यान्यग्निमध्ये तु समिद्भिः सह सर्वदा।
सर्वाण्यन्नविशेषाणि चन्दनादीनि यान्यपि ॥ 174 ॥

विश्वास-प्रस्तुतिः - 175

सदन्तकाष्ठताम्बूलमुत्कटक्षारवर्जितम्।
दाप्यानि लक्षहोमे तु आसनादीनि यानि च ॥ 175 ॥

मूलम् - 175

सदन्तकाष्ठताम्बूलमुत्कटक्षारवर्जितम्।
दाप्यानि लक्षहोमे तु आसनादीनि यानि च ॥ 175 ॥

विश्वास-प्रस्तुतिः - 176

मधुलवणपानाम्बुकटुतैलोज्झितानि च।
आज्ययुक्तैस्तिलैः शान्तिः सिद्धयः सकलास्तथा ॥ 176 ॥

मूलम् - 176

मधुलवणपानाम्बुकटुतैलोज्झितानि च।
आज्ययुक्तैस्तिलैः शान्तिः सिद्धयः सकलास्तथा ॥ 176 ॥

विश्वास-प्रस्तुतिः - 177

धृतेन पयसा दध्ना होमस्तृप्तिं प्रयच्छति।
पायसेन तु सिद्धान्नैर्भक्ष्यैः पुष्टिः सदा भवेत् ॥ 177 ॥

मूलम् - 177

धृतेन पयसा दध्ना होमस्तृप्तिं प्रयच्छति।
पायसेन तु सिद्धान्नैर्भक्ष्यैः पुष्टिः सदा भवेत् ॥ 177 ॥

विश्वास-प्रस्तुतिः - 178

बीजैर्धान्यैस्तण्डुलैश्च तर्पितो मन्त्रराड्‌द्विज!।
प्रयच्छति सदा श्रेयः प्रसन्नः परमेश्वरः ॥ 178 ॥

मूलम् - 178

बीजैर्धान्यैस्तण्डुलैश्च तर्पितो मन्त्रराड्‌द्विज!।
प्रयच्छति सदा श्रेयः प्रसन्नः परमेश्वरः ॥ 178 ॥

विश्वास-प्रस्तुतिः - 179

पल्लवैः फलमूलैश्च होमस्तुष्टिं प्रयच्छति।
जहाति चापमृत्युं च रोगांश्चोपशमं नयेत् ॥ 179 ॥

मूलम् - 179

पल्लवैः फलमूलैश्च होमस्तुष्टिं प्रयच्छति।
जहाति चापमृत्युं च रोगांश्चोपशमं नयेत् ॥ 179 ॥

विश्वास-प्रस्तुतिः - 180

तर्पितः स्थलपझाद्यैः पुष्पैश्चान्यैः सितादिकैः।
सौभाग्यमतुलं विप्र! अचिरात् संप्रयच्छति ॥ 180 ॥

मूलम् - 180

तर्पितः स्थलपझाद्यैः पुष्पैश्चान्यैः सितादिकैः।
सौभाग्यमतुलं विप्र! अचिरात् संप्रयच्छति ॥ 180 ॥

विश्वास-प्रस्तुतिः - 181

गुग्गुल्वाज्यैर्द्विजारोग्यं शुभैर्धात्रीफलैस्तथा।
शर्करैर्बिल्वफलकैः पञ्चगव्यसमुक्षितैः ॥ 181 ॥

मूलम् - 181

गुग्गुल्वाज्यैर्द्विजारोग्यं शुभैर्धात्रीफलैस्तथा।
शर्करैर्बिल्वफलकैः पञ्चगव्यसमुक्षितैः ॥ 181 ॥

विश्वास-प्रस्तुतिः - 182

आज्याक्तैः पझबीजैश्च लक्ष्मीं शीघ्रं प्रयच्छति।
उत्पलैर्वश्यकामस्तु भोगकामश्च होमयेत् ॥ 182 ॥

मूलम् - 182

आज्याक्तैः पझबीजैश्च लक्ष्मीं शीघ्रं प्रयच्छति।
उत्पलैर्वश्यकामस्तु भोगकामश्च होमयेत् ॥ 182 ॥

विश्वास-प्रस्तुतिः - 183

दूर्वाङ्‌कुरैस्च होमेन आयुषो वृद्धिमाप्नुयात्।
एधोभिश्च शुभैर्होमो माषैः शान्तिप्रदः प्रभुः ॥ 183 ॥

मूलम् - 183

दूर्वाङ्‌कुरैस्च होमेन आयुषो वृद्धिमाप्नुयात्।
एधोभिश्च शुभैर्होमो माषैः शान्तिप्रदः प्रभुः ॥ 183 ॥

विश्वास-प्रस्तुतिः - 184

तिलानां शस्यते होमो हरिणाननमुद्रया।
घृतस्य कार्षिको होमः क्षीरस्य च विशेषतः ॥ 184 ॥

मूलम् - 184

तिलानां शस्यते होमो हरिणाननमुद्रया।
घृतस्य कार्षिको होमः क्षीरस्य च विशेषतः ॥ 184 ॥

विश्वास-प्रस्तुतिः - 185

शुक्तिमात्राहुतिर्दध्नः प्रसृतिः पायसस्य च।
ग्रासार्धमानमन्नानां भक्ष्याणां स्वप्रमाणतः ॥ 185 ॥

मूलम् - 185

शुक्तिमात्राहुतिर्दध्नः प्रसृतिः पायसस्य च।
ग्रासार्धमानमन्नानां भक्ष्याणां स्वप्रमाणतः ॥ 185 ॥

विश्वास-प्रस्तुतिः - 186

तृतीयं मूलकन्दानां पुष्पाणां स्वप्रमाणतः।
सर्वेषामेव बीजानां मुष्टिना होममाचरेत् ॥ 186 ॥

मूलम् - 186

तृतीयं मूलकन्दानां पुष्पाणां स्वप्रमाणतः।
सर्वेषामेव बीजानां मुष्टिना होममाचरेत् ॥ 186 ॥

विश्वास-प्रस्तुतिः - 187

अग्राङ्गलिस्तु लाजानां शालीनां पञ्चकं हुनेत्(!)।
फलानां स्वप्रमाणं च पल्लवानां तथैव च ॥ 187 ॥

मूलम् - 187

अग्राङ्गलिस्तु लाजानां शालीनां पञ्चकं हुनेत्(!)।
फलानां स्वप्रमाणं च पल्लवानां तथैव च ॥ 187 ॥

विश्वास-प्रस्तुतिः - 188

कर्कन्धुमात्रा गुलिका होतव्या गुग्गुलोः सदा।
धात्रीफलप्रमाणं वा संभवे सति होमयेत् ॥ 188 ॥

मूलम् - 188

कर्कन्धुमात्रा गुलिका होतव्या गुग्गुलोः सदा।
धात्रीफलप्रमाणं वा संभवे सति होमयेत् ॥ 188 ॥

विश्वास-प्रस्तुतिः - 189

दूर्वाकाण्डानि विप्रेन्द! चतुरष्टाङ्गुलानि वा।
समित्प्रादेशमानेन समच्छेदास्त्वगन्विताः ॥ 189 ॥

मूलम् - 189

दूर्वाकाण्डानि विप्रेन्द! चतुरष्टाङ्गुलानि वा।
समित्प्रादेशमानेन समच्छेदास्त्वगन्विताः ॥ 189 ॥

विश्वास-प्रस्तुतिः - 190

अग्नेर्वर्णाश्च गन्धाश्च शब्दाश्चाकृतयस्तथा।
विकारा विशिखाश्चैव संवेद्याः कर्मसिद्धये ॥ 190 ॥

मूलम् - 190

अग्नेर्वर्णाश्च गन्धाश्च शब्दाश्चाकृतयस्तथा।
विकारा विशिखाश्चैव संवेद्याः कर्मसिद्धये ॥ 190 ॥

विश्वास-प्रस्तुतिः - 191

पद्मरागद्युतिश्रेष्ठो लाक्षालक्तकसन्निभः।
बार्लाकवर्णो हुतभुग्जयार्थं शस्यते द्विज! ॥ 191 ॥

मूलम् - 191

पद्मरागद्युतिश्रेष्ठो लाक्षालक्तकसन्निभः।
बार्लाकवर्णो हुतभुग्जयार्थं शस्यते द्विज! ॥ 191 ॥

विश्वास-प्रस्तुतिः - 192

इन्द्रगोपकसंकाशः शोणाभो वाथ पावकः।
शक्रचापनिभः श्रेष्ठः कुङ्‌कुमाभस्तथैव च ॥ 192 ॥

मूलम् - 192

इन्द्रगोपकसंकाशः शोणाभो वाथ पावकः।
शक्रचापनिभः श्रेष्ठः कुङ्‌कुमाभस्तथैव च ॥ 192 ॥

विश्वास-प्रस्तुतिः - 193

रक्तानां पुष्पजातीनां वर्णेनाग्निरिहेष्यते।
सुगन्धद्रव्यगन्धोऽग्निर्घृतगन्धश्च शोभनः ॥ 193 ॥

मूलम् - 193

रक्तानां पुष्पजातीनां वर्णेनाग्निरिहेष्यते।
सुगन्धद्रव्यगन्धोऽग्निर्घृतगन्धश्च शोभनः ॥ 193 ॥

विश्वास-प्रस्तुतिः - 194

आयुर्दः पद्मगन्ध स्याद्बिल्वगन्धश्च सुव्रत!।
उग्रगन्धोऽभिचारे तु विहितः सर्वदानलः ॥ 194 ॥

मूलम् - 194

आयुर्दः पद्मगन्ध स्याद्बिल्वगन्धश्च सुव्रत!।
उग्रगन्धोऽभिचारे तु विहितः सर्वदानलः ॥ 194 ॥

विश्वास-प्रस्तुतिः - 195

जीमूतवल्लकीशङ्खमृदङ्गध्वनितुल्यकः।
शब्दोऽग्नेः सिद्धये हेतुरतोऽन्यः स्यादसिद्धिदः ॥ 195 ॥

मूलम् - 195

जीमूतवल्लकीशङ्खमृदङ्गध्वनितुल्यकः।
शब्दोऽग्नेः सिद्धये हेतुरतोऽन्यः स्यादसिद्धिदः ॥ 195 ॥

विश्वास-प्रस्तुतिः - 196

छत्राकारो भवेच्छ्रेष्ठो ध्वजचामररूपकः।
विमानादिवितानानां प्रासादानां वृषस्य च ॥ 196 ॥

मूलम् - 196

छत्राकारो भवेच्छ्रेष्ठो ध्वजचामररूपकः।
विमानादिवितानानां प्रासादानां वृषस्य च ॥ 196 ॥

विश्वास-प्रस्तुतिः - 197

आकारेणाथ हंसानां मयूराणां च सिद्धिदः।
रक्ताभस्तु यदा वह्निः क्षीणार्चिः परिदृश्यते ॥ 197 ॥

मूलम् - 197

आकारेणाथ हंसानां मयूराणां च सिद्धिदः।
रक्ताभस्तु यदा वह्निः क्षीणार्चिः परिदृश्यते ॥ 197 ॥

विश्वास-प्रस्तुतिः - 198

भग्नराजोपलाभश्च स्फटिकाभस्तथा शुभः।
यद्रपं कथितं पूर्वं यदि तस्य प्रदक्षिणम् ॥ 198 ॥

मूलम् - 198

भग्नराजोपलाभश्च स्फटिकाभस्तथा शुभः।
यद्रपं कथितं पूर्वं यदि तस्य प्रदक्षिणम् ॥ 198 ॥

विश्वास-प्रस्तुतिः - 199

अन्योन्यत्वं प्रपद्येत तथा सिद्धिकरोऽनलः।
गर्हितेन तु वर्णेन यदि कापोतकादिना ॥ 199 ॥

मूलम् - 199

अन्योन्यत्वं प्रपद्येत तथा सिद्धिकरोऽनलः।
गर्हितेन तु वर्णेन यदि कापोतकादिना ॥ 199 ॥

विश्वास-प्रस्तुतिः - 200

परिवर्तं करोत्यग्निस्तदा विप्रविपर्ययः।
होमान्ते तन्निमित्तं वै होमं कुर्याच्छताधिकम् ॥ 200 ॥

मूलम् - 200

परिवर्तं करोत्यग्निस्तदा विप्रविपर्ययः।
होमान्ते तन्निमित्तं वै होमं कुर्याच्छताधिकम् ॥ 200 ॥

विश्वास-प्रस्तुतिः - 201

विषमाश्च शिखावन्हेस्त्र्यादयश्च शुभावहाः।
ह्रस्वा ह्रस्वोन्नता दीर्घा ज्वाला सिद्धिप्रदा स्मृता ॥ 201 ॥

मूलम् - 201

विषमाश्च शिखावन्हेस्त्र्यादयश्च शुभावहाः।
ह्रस्वा ह्रस्वोन्नता दीर्घा ज्वाला सिद्धिप्रदा स्मृता ॥ 201 ॥

विश्वास-प्रस्तुतिः - 202

स्निग्धः प्रदक्षिणावर्तः श्रुतिप्रच्छादितध्वनिः।
स नित्यमेव शुभकृद्यदन्यैर्वर्जितो गुणैः ॥ 202 ॥

मूलम् - 202

स्निग्धः प्रदक्षिणावर्तः श्रुतिप्रच्छादितध्वनिः।
स नित्यमेव शुभकृद्यदन्यैर्वर्जितो गुणैः ॥ 202 ॥

विश्वास-प्रस्तुतिः - 203

प्रदीप्तेलोलिहानेऽग्नौ निर्धूमे सगुणे तथा।
हृद्ये तुष्टिप्रदे चैव होतव्यं श्रुतिमिच्छता ॥ 203 ॥

मूलम् - 203

प्रदीप्तेलोलिहानेऽग्नौ निर्धूमे सगुणे तथा।
हृद्ये तुष्टिप्रदे चैव होतव्यं श्रुतिमिच्छता ॥ 203 ॥

विश्वास-प्रस्तुतिः - 204

अल्पतेजोऽल्परूपश्च विस्फुलिङ्गसमन्वितः।
ज्वालाभ्रमविहीनश्च कृशानुर्नैव सिद्धिदः ॥ 204 ॥

मूलम् - 204

अल्पतेजोऽल्परूपश्च विस्फुलिङ्गसमन्वितः।
ज्वालाभ्रमविहीनश्च कृशानुर्नैव सिद्धिदः ॥ 204 ॥

विश्वास-प्रस्तुतिः - 205

अप्रबुद्धे सधूमे च जुहुयाद्यो हुताशने।
कर्महानिर्भवेत्तस्य त्वाभिचारार्थमश्रुते ॥ 205 ॥

मूलम् - 205

अप्रबुद्धे सधूमे च जुहुयाद्यो हुताशने।
कर्महानिर्भवेत्तस्य त्वाभिचारार्थमश्रुते ॥ 205 ॥

विश्वास-प्रस्तुतिः - 206

दुर्गन्धः पीतवर्णश्च अवलीढश्च योऽशुभः।
प्रभामूर्तिगतो मन्त्रस्तर्पितो यदि सत्तम! ॥ 206 ॥

मूलम् - 206

दुर्गन्धः पीतवर्णश्च अवलीढश्च योऽशुभः।
प्रभामूर्तिगतो मन्त्रस्तर्पितो यदि सत्तम! ॥ 206 ॥

विश्वास-प्रस्तुतिः - 207

विद्यां प्रयच्छत्यचिराद्दीप्तिस्थो भूप्रदः प्रभुः।
तापयत्याशु शत्रूणां प्रकाशोपर्यवस्थया ॥ 207 ॥

मूलम् - 207

विद्यां प्रयच्छत्यचिराद्दीप्तिस्थो भूप्रदः प्रभुः।
तापयत्याशु शत्रूणां प्रकाशोपर्यवस्थया ॥ 207 ॥

विश्वास-प्रस्तुतिः - 208

शत्रुक्षयं ददात्याशु मरीच्यामूर्ध्वगो विभुः।
तापिन्यामूर्ध्वगो मन्त्रः सर्वतापोपशान्तिदः ॥ 208 ॥

मूलम् - 208

शत्रुक्षयं ददात्याशु मरीच्यामूर्ध्वगो विभुः।
तापिन्यामूर्ध्वगो मन्त्रः सर्वतापोपशान्तिदः ॥ 208 ॥

विश्वास-प्रस्तुतिः - 209

विपक्षोच्चाटनं कुर्यात् करालासंस्थितो हुतः।
लेलिहावस्थितो मन्त्रो यदि सन्तर्प्यते मुने! ॥ 209 ॥

मूलम् - 209

विपक्षोच्चाटनं कुर्यात् करालासंस्थितो हुतः।
लेलिहावस्थितो मन्त्रो यदि सन्तर्प्यते मुने! ॥ 209 ॥

विश्वास-प्रस्तुतिः - 210

ददात्यभीप्सितं चैव देहान्ते परमं पदम्।
स्वाहाकारं सदा होमे पूर्णायां वौषडेव च ॥ 210 ॥

मूलम् - 210

ददात्यभीप्सितं चैव देहान्ते परमं पदम्।
स्वाहाकारं सदा होमे पूर्णायां वौषडेव च ॥ 210 ॥

विश्वास-प्रस्तुतिः - 211

तमेव शान्तिके कुर्याद्वषडाप्यायने तथा।
स्वधां पितृक्रियायां च फट्‌कारं क्षयकर्मणि ॥ 211 ॥

मूलम् - 211

तमेव शान्तिके कुर्याद्वषडाप्यायने तथा।
स्वधां पितृक्रियायां च फट्‌कारं क्षयकर्मणि ॥ 211 ॥

विश्वास-प्रस्तुतिः - 212

विद्वेषे हुं, वशे ह्रीं च नमो मोक्षप्रसिद्धये।
कर्महोमावसाने च घृतेनापूर्य च स्रुचम् ॥ 212 ॥

मूलम् - 212

विद्वेषे हुं, वशे ह्रीं च नमो मोक्षप्रसिद्धये।
कर्महोमावसाने च घृतेनापूर्य च स्रुचम् ॥ 212 ॥

विश्वास-प्रस्तुतिः - 213

अभावाच्च प्रभूतेन होमद्रव्येण पूरयेत्।
तत्रोपरि घृतं दद्यात्ततोऽर्घ्यकुसुमादिभिः ॥ 213 ॥

मूलम् - 213

अभावाच्च प्रभूतेन होमद्रव्येण पूरयेत्।
तत्रोपरि घृतं दद्यात्ततोऽर्घ्यकुसुमादिभिः ॥ 213 ॥

विश्वास-प्रस्तुतिः - 214

मूलदेशात् समारभ्य स्रुक्‌ संपूज्या स्रुवान्विता।
घृतयुक्तं तु तद्‌द्रव्यं स्रुचः पुष्करकुक्षिगम् ॥ 214 ॥

मूलम् - 214

मूलदेशात् समारभ्य स्रुक्‌ संपूज्या स्रुवान्विता।
घृतयुक्तं तु तद्‌द्रव्यं स्रुचः पुष्करकुक्षिगम् ॥ 214 ॥

विश्वास-प्रस्तुतिः - 215

द्रवच्चन्द्रोपमं ध्यायेत्ततः पूर्णां समुद्धरेत्।
स्रुग्दण्डे देहनाभौ तु मूले संरुध्य संस्मरेत् ॥ 215 ॥

मूलम् - 215

द्रवच्चन्द्रोपमं ध्यायेत्ततः पूर्णां समुद्धरेत्।
स्रुग्दण्डे देहनाभौ तु मूले संरुध्य संस्मरेत् ॥ 215 ॥

विश्वास-प्रस्तुतिः - 216

निष्कलं मन्त्रनाथं तु पूर्णशीतांशुविग्रहम्।
आमूलाच्च मरुच्छक्त्या प्रोद्धरेच्च स्वविग्रहात् ॥ 216 ॥

मूलम् - 216

निष्कलं मन्त्रनाथं तु पूर्णशीतांशुविग्रहम्।
आमूलाच्च मरुच्छक्त्या प्रोद्धरेच्च स्वविग्रहात् ॥ 216 ॥

विश्वास-प्रस्तुतिः - 217

विधाय चेश्वराधारे तस्माद्धारामृतं महत्।
नासिकासन्धिमार्गेण स्रुक्‌पझे पतितं स्मरेत् ॥ 217 ॥

मूलम् - 217

विधाय चेश्वराधारे तस्माद्धारामृतं महत्।
नासिकासन्धिमार्गेण स्रुक्‌पझे पतितं स्मरेत् ॥ 217 ॥

विश्वास-प्रस्तुतिः - 218

सामृतामाज्यधारां च वसुधारामिव क्षिपेत्।
मुखमध्ये तु मन्त्रत्य तद्व्रह्नविवरेऽथवा ॥ 218 ॥

मूलम् - 218

सामृतामाज्यधारां च वसुधारामिव क्षिपेत्।
मुखमध्ये तु मन्त्रत्य तद्व्रह्नविवरेऽथवा ॥ 218 ॥

विश्वास-प्रस्तुतिः - 219

हृत्पझान्तर्गतां सम्यक् प्रविष्टामनुभावयेत्।
तया वै बृह्नितं मन्त्रं भावयेद्ब्रह्नधारया ॥ 219 ॥

मूलम् - 219

हृत्पझान्तर्गतां सम्यक् प्रविष्टामनुभावयेत्।
तया वै बृह्नितं मन्त्रं भावयेद्ब्रह्नधारया ॥ 219 ॥

विश्वास-प्रस्तुतिः - 220

तृप्तं हृष्टं च पुष्टं च तुष्टं वै साधकोपरि।
मन्त्रोच्चारसमेता वै शरीरकरणान्विता ॥ 220 ॥

मूलम् - 220

तृप्तं हृष्टं च पुष्टं च तुष्टं वै साधकोपरि।
मन्त्रोच्चारसमेता वै शरीरकरणान्विता ॥ 220 ॥

विश्वास-प्रस्तुतिः - 221

ध्यानोपेता द्विजश्रेष्ठ! पूर्णेयं परिपातिता।
सर्वसिद्धिकरी शश्वन्मोक्षलक्ष्मीविवर्धनी ॥ 221 ॥

मूलम् - 221

ध्यानोपेता द्विजश्रेष्ठ! पूर्णेयं परिपातिता।
सर्वसिद्धिकरी शश्वन्मोक्षलक्ष्मीविवर्धनी ॥ 221 ॥

विश्वास-प्रस्तुतिः - 222

बहु शुष्केन्धनेऽग्नौ च होतव्या कर्मसिद्धये।
एका अनेकप्रयोगाणां न तु कर्मणि कर्मणि ॥ 222 ॥

मूलम् - 222

बहु शुष्केन्धनेऽग्नौ च होतव्या कर्मसिद्धये।
एका अनेकप्रयोगाणां न तु कर्मणि कर्मणि ॥ 222 ॥

विश्वास-प्रस्तुतिः - 223

ततोऽर्घ्यगन्धपुष्पाद्यैर्मन्त्रनाथं समचयेत्।
मुद्रं प्रदर्शयेत् सर्वा मूलमन्त्रादितः क्रमात् ॥ 223 ॥

मूलम् - 223

ततोऽर्घ्यगन्धपुष्पाद्यैर्मन्त्रनाथं समचयेत्।
मुद्रं प्रदर्शयेत् सर्वा मूलमन्त्रादितः क्रमात् ॥ 223 ॥

विश्वास-प्रस्तुतिः - 224

चतुर्थांशेन चाह्गानां कुर्यान्मूलस्य र्तपणम्।
लाञ्छनाभरणानां च लक्ष्म्यादीनां तदर्थतः ॥ 224 ॥

मूलम् - 224

चतुर्थांशेन चाह्गानां कुर्यान्मूलस्य र्तपणम्।
लाञ्छनाभरणानां च लक्ष्म्यादीनां तदर्थतः ॥ 224 ॥

विश्वास-प्रस्तुतिः - 225

अथवा हृदयादीनामतोऽर्धेनाखिलासु च।
परमेश्वरकान्तासु तदर्धेन द्विजोत्तम! ॥ 225 ॥

मूलम् - 225

अथवा हृदयादीनामतोऽर्धेनाखिलासु च।
परमेश्वरकान्तासु तदर्धेन द्विजोत्तम! ॥ 225 ॥

विश्वास-प्रस्तुतिः - 226

लाञ्छनाभरणादिनि सर्वाणि जुहुयात् क्रमात्।
हृदादिसर्वमन्त्राणाभेकैकं जुहुयात्तु वा ॥ 226 ॥

मूलम् - 226

लाञ्छनाभरणादिनि सर्वाणि जुहुयात् क्रमात्।
हृदादिसर्वमन्त्राणाभेकैकं जुहुयात्तु वा ॥ 226 ॥

विश्वास-प्रस्तुतिः - 227

विसर्जनं ततः कुर्याद्दत्त्वार्घ्यं धूपसंयुतम्।
भोगस्थानगता मन्त्राः पूजिता ये यथाक्रमम् ॥ 227 ॥

मूलम् - 227

विसर्जनं ततः कुर्याद्दत्त्वार्घ्यं धूपसंयुतम्।
भोगस्थानगता मन्त्राः पूजिता ये यथाक्रमम् ॥ 227 ॥

विश्वास-प्रस्तुतिः - 228

मुख्यमन्त्रशरीरं च संप्रविष्टांश्च संस्मरेत्।
ज्वालाज्वालान्तरे यद्वत् समुद्रस्येव निम्नगाः ॥ 228 ॥

मूलम् - 228

मुख्यमन्त्रशरीरं च संप्रविष्टांश्च संस्मरेत्।
ज्वालाज्वालान्तरे यद्वत् समुद्रस्येव निम्नगाः ॥ 228 ॥

विश्वास-प्रस्तुतिः - 229

तन्मन्त्रविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज!।
प्रविष्टं भावयेत् सूक्ष्मे अध्यक्षे हृदयात्मके ॥ 229 ॥

मूलम् - 229

तन्मन्त्रविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज!।
प्रविष्टं भावयेत् सूक्ष्मे अध्यक्षे हृदयात्मके ॥ 229 ॥

विश्वास-प्रस्तुतिः - 230

परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम्।
तं परं प्रस्फुरद्रूपं निराधारपदाश्रितम् ॥ 230 ॥

मूलम् - 230

परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम्।
तं परं प्रस्फुरद्रूपं निराधारपदाश्रितम् ॥ 230 ॥

विश्वास-प्रस्तुतिः - 231

सन्धिमार्गेण हृत्पझे संप्रविष्टं तु भावयेत्।
मन्त्रमुद्रासमेतेन पूरकेण तु सत्तम! ॥ 231 ॥

मूलम् - 231

सन्धिमार्गेण हृत्पझे संप्रविष्टं तु भावयेत्।
मन्त्रमुद्रासमेतेन पूरकेण तु सत्तम! ॥ 231 ॥

विश्वास-प्रस्तुतिः - 232

बासितं भावयेद्देहं तेनापादाच्छिरोवधि।
प्रविष्टेन तु मन्त्रेण प्रयत्नेन विना द्विज! ॥ 232 ॥

मूलम् - 232

बासितं भावयेद्देहं तेनापादाच्छिरोवधि।
प्रविष्टेन तु मन्त्रेण प्रयत्नेन विना द्विज! ॥ 232 ॥

विश्वास-प्रस्तुतिः - 233

विग्रहः कम्पते यस्य मन्त्रस्तस्य प्रसीदति।
एवं विसृज्य मन्त्रेशं मुद्राबन्धेन वै सह ॥ 233 ॥

मूलम् - 233

विग्रहः कम्पते यस्य मन्त्रस्तस्य प्रसीदति।
एवं विसृज्य मन्त्रेशं मुद्राबन्धेन वै सह ॥ 233 ॥

विश्वास-प्रस्तुतिः - 234

साधारासनमन्त्राणां गणेशस्य गिरः सदा।
गुर्वादीनां तु विहितमर्धं लाञ्छनतर्पणात् ॥ 234 ॥

मूलम् - 234

साधारासनमन्त्राणां गणेशस्य गिरः सदा।
गुर्वादीनां तु विहितमर्धं लाञ्छनतर्पणात् ॥ 234 ॥

विश्वास-प्रस्तुतिः - 235

एतेषां च लयं विप्र! कुर्यात् सृष्टिकमेण तु।
द्वार्स्थत्रिलोकपालानां वप्रस्थहरिसेविनाम् ॥ 235 ॥

मूलम् - 235

एतेषां च लयं विप्र! कुर्यात् सृष्टिकमेण तु।
द्वार्स्थत्रिलोकपालानां वप्रस्थहरिसेविनाम् ॥ 235 ॥

विश्वास-प्रस्तुतिः - 236

गुरुपूर्वक्रमादित्थमर्धमर्धं यथाक्रमम्।
सकृत् सकृत् स्वशक्त्या वा पूर्णां सर्वेर्ष्वधः क्षिपेत् ॥ 236 ॥

मूलम् - 236

गुरुपूर्वक्रमादित्थमर्धमर्धं यथाक्रमम्।
सकृत् सकृत् स्वशक्त्या वा पूर्णां सर्वेर्ष्वधः क्षिपेत् ॥ 236 ॥

विश्वास-प्रस्तुतिः - 237

विष्वक्‌सेनस्ततो भक्त्या तर्पणीयस्तिलाक्षतैः।
वौषडन्तेन मन्त्रेण दद्यात् पूर्णाहुतिं द्विज! ॥ 237 ॥

मूलम् - 237

विष्वक्‌सेनस्ततो भक्त्या तर्पणीयस्तिलाक्षतैः।
वौषडन्तेन मन्त्रेण दद्यात् पूर्णाहुतिं द्विज! ॥ 237 ॥

विश्वास-प्रस्तुतिः - 239

पूजयित्वा यथान्यायं कुर्यात्तस्य विसर्जनम्।
अनलं पूजयित्वा तु शक्तितस्तर्पयेत्ततः ॥ 239 ॥

मूलम् - 239

पूजयित्वा यथान्यायं कुर्यात्तस्य विसर्जनम्।
अनलं पूजयित्वा तु शक्तितस्तर्पयेत्ततः ॥ 239 ॥

विश्वास-प्रस्तुतिः - 240

कुण्डे पुष्पाञ्जलिं क्षिप्त्वा वह्निमन्त्रमनुस्मरन्।
जलनिर्मथितेनैव हयूर्ध्वपुण्‍ड्रचतुष्टयम् ॥ 240 ॥

मूलम् - 240

कुण्डे पुष्पाञ्जलिं क्षिप्त्वा वह्निमन्त्रमनुस्मरन्।
जलनिर्मथितेनैव हयूर्ध्वपुण्‍ड्रचतुष्टयम् ॥ 240 ॥

विश्वास-प्रस्तुतिः - 241

शिरस्तनुत्रहृन्मन्त्रैर्ललाटे चांसयोर्हृदि।
कुण्डस्थभस्मना चैव कुर्याद्दीपशिखाकृतिम् ॥ 241 ॥

मूलम् - 241

शिरस्तनुत्रहृन्मन्त्रैर्ललाटे चांसयोर्हृदि।
कुण्डस्थभस्मना चैव कुर्याद्दीपशिखाकृतिम् ॥ 241 ॥

विश्वास-प्रस्तुतिः - 242

ज्वालया हृदयं स्पृश्य नेत्रे चास्त्रेण वै पुरा।
क्षान्त्वा चैव नमस्कृत्य यथाविधि विसृज्य तत् ॥ 242 ॥

मूलम् - 242

ज्वालया हृदयं स्पृश्य नेत्रे चास्त्रेण वै पुरा।
क्षान्त्वा चैव नमस्कृत्य यथाविधि विसृज्य तत् ॥ 242 ॥

विश्वास-प्रस्तुतिः - 243

समाघ्राय न्यसेत् कोष्ठे ह्यवतारक्रमेण तु।
प्रतिष्ठिताग्नेः संस्कारं पर्यग्निकरणादितः ॥ 243 ॥

मूलम् - 243

समाघ्राय न्यसेत् कोष्ठे ह्यवतारक्रमेण तु।
प्रतिष्ठिताग्नेः संस्कारं पर्यग्निकरणादितः ॥ 243 ॥

विश्वास-प्रस्तुतिः - 244

विसर्जनं तु कुर्याद्वै धूमच्छेदे न तत्र च।
संमार्ज्य स्रुकूस्रुवेऽग्नौ तु स्रुचं निक्षिप्य चाम्भसा ॥ 244 ॥

मूलम् - 244

विसर्जनं तु कुर्याद्वै धूमच्छेदे न तत्र च।
संमार्ज्य स्रुकूस्रुवेऽग्नौ तु स्रुचं निक्षिप्य चाम्भसा ॥ 244 ॥

विश्वास-प्रस्तुतिः - 245

अर्ध्यपात्रात्तु चापूर्य कुण्डबाह्ये प्रदक्षिणम्।
कुर्यादीशानकोणाद्वै अच्छिद्रोदकधारया ॥ 245 ॥

मूलम् - 245

अर्ध्यपात्रात्तु चापूर्य कुण्डबाह्ये प्रदक्षिणम्।
कुर्यादीशानकोणाद्वै अच्छिद्रोदकधारया ॥ 245 ॥

विश्वास-प्रस्तुतिः - 246

पवित्रकेणाथ ऊर्ध्वे विनिक्षिप्य करेण तु।
दद्याच्छिरसि वै शेषं स्रुगधोवदनां न्यसेत् ॥ 246 ॥

मूलम् - 246

पवित्रकेणाथ ऊर्ध्वे विनिक्षिप्य करेण तु।
दद्याच्छिरसि वै शेषं स्रुगधोवदनां न्यसेत् ॥ 246 ॥

विश्वास-प्रस्तुतिः - 247

आत्मनो वामभागे तु विष्टरस्रुवसंयुतात्।
अपवास्य जलं तस्माद्‌द्वितयस्मात्तदर्चितम् ॥ 247 ॥

मूलम् - 247

आत्मनो वामभागे तु विष्टरस्रुवसंयुतात्।
अपवास्य जलं तस्माद्‌द्वितयस्मात्तदर्चितम् ॥ 247 ॥

विश्वास-प्रस्तुतिः - 248

उपसंहृत्य वै यायादर्चनालयमर्घ्यभृत्।
नमस्कुर्याज्जगन्नाथमष्टाङ्गपतनेन तु ॥ 248 ॥

मूलम् - 248

उपसंहृत्य वै यायादर्चनालयमर्घ्यभृत्।
नमस्कुर्याज्जगन्नाथमष्टाङ्गपतनेन तु ॥ 248 ॥

विश्वास-प्रस्तुतिः - 249

आपूर्य पाणियुगलं पुष्पैस्तत्रोपरि स्थितम्।
संस्मरेन्निष्कलं मन्द्रममृतेनोपबृह्नितम् ॥ 249 ॥

मूलम् - 249

आपूर्य पाणियुगलं पुष्पैस्तत्रोपरि स्थितम्।
संस्मरेन्निष्कलं मन्द्रममृतेनोपबृह्नितम् ॥ 249 ॥

विश्वास-प्रस्तुतिः - 250

प्रभूतदीप्तच्छुरितं निक्षिपेन्मन्त्रमूर्धनि।
“तर्पितोऽसि विभो! भक्त्या होमेनानलमध्यगः ॥ 250 ॥

मूलम् - 250

प्रभूतदीप्तच्छुरितं निक्षिपेन्मन्त्रमूर्धनि।
“तर्पितोऽसि विभो! भक्त्या होमेनानलमध्यगः ॥ 250 ॥

विश्वास-प्रस्तुतिः - 251

होमद्रव्येषु यद्वीर्यं तदिदं चात्मसात्कुरु”।
विनिवेद्य विभोर्होमं पूजां कृत्वा यथाविधि ॥ 251 ॥

मूलम् - 251

होमद्रव्येषु यद्वीर्यं तदिदं चात्मसात्कुरु”।
विनिवेद्य विभोर्होमं पूजां कृत्वा यथाविधि ॥ 251 ॥

विश्वास-प्रस्तुतिः - 252

गृहीतं भावयेत्तेन प्रसन्नेनान्तरात्मना।
इदमुक्तं समासेन मन्त्रसन्तर्पणं द्विज! ॥ 252 ॥

मूलम् - 252

गृहीतं भावयेत्तेन प्रसन्नेनान्तरात्मना।
इदमुक्तं समासेन मन्त्रसन्तर्पणं द्विज! ॥ 252 ॥

विश्वास-प्रस्तुतिः - 253

वाच्यं नादीक्षितानां च नाभक्तानां कदाचन।
नानय्दर्शनसंक्थानां नापहासरतात्मनाम् ॥ 253 ॥

मूलम् - 253

वाच्यं नादीक्षितानां च नाभक्तानां कदाचन।
नानय्दर्शनसंक्थानां नापहासरतात्मनाम् ॥ 253 ॥

विश्वास-प्रस्तुतिः - 254

सद्भावज्ञे तु वक्तव्यं समयज्ञे सपुत्रके।
साधके तु गुरौ वापि भक्ते स्निग्धे विमत्सरे ॥ 254 ॥

मूलम् - 254

सद्भावज्ञे तु वक्तव्यं समयज्ञे सपुत्रके।
साधके तु गुरौ वापि भक्ते स्निग्धे विमत्सरे ॥ 254 ॥

विश्वास-प्रस्तुतिः - 255

सत्यधर्मव्रतपरे साचारे शासनस्थिते।
एवं समाप्य होम तमर्घ्यगन्धादिभिर्विभुम् ॥ 255 ॥

मूलम् - 255

सत्यधर्मव्रतपरे साचारे शासनस्थिते।
एवं समाप्य होम तमर्घ्यगन्धादिभिर्विभुम् ॥ 255 ॥

विश्वास-प्रस्तुतिः - 256

समभ्यर्च्य पितॄणां च संविभागमथाचरेत्।
पौष्कराख्ये विशेषेण देवदेवेन विस्तृतम् ॥ 256 ॥

मूलम् - 256

समभ्यर्च्य पितॄणां च संविभागमथाचरेत्।
पौष्कराख्ये विशेषेण देवदेवेन विस्तृतम् ॥ 256 ॥

विश्वास-प्रस्तुतिः - 257

विधानमेतद् विप्रेन्द्र! प्रोक्तं पुष्करजन्मने।
सात्त्वतोक्तविधानेन तद्विधानं वदामि ते ॥ 257 ॥

मूलम् - 257

विधानमेतद् विप्रेन्द्र! प्रोक्तं पुष्करजन्मने।
सात्त्वतोक्तविधानेन तद्विधानं वदामि ते ॥ 257 ॥

विश्वास-प्रस्तुतिः - 258

आराध्यस्याग्रतो विप्र! प्रत्यहं क्रियते तु यत्।
विज्ञेयं संविभागं तदुत्तमं सर्वकर्मणाम् ॥ 258 ॥

मूलम् - 258

आराध्यस्याग्रतो विप्र! प्रत्यहं क्रियते तु यत्।
विज्ञेयं संविभागं तदुत्तमं सर्वकर्मणाम् ॥ 258 ॥

विश्वास-प्रस्तुतिः - 259

संविभागात् पितॄणां च भवत्यनृणवान्नरः।
प्रयान्ति तृप्तिमतुलां तेन कर्मवशादपि ॥ 259 ॥

मूलम् - 259

संविभागात् पितॄणां च भवत्यनृणवान्नरः।
प्रयान्ति तृप्तिमतुलां तेन कर्मवशादपि ॥ 259 ॥

विश्वास-प्रस्तुतिः - 260

निमन्त्रितं वा संप्राप्तं नित्यमङ्गीकृतं तथा।
द्विजेन्द्रं पञ्चकालज्ञं षट्‌कर्मनिरतं तु वा ॥ 260 ॥

मूलम् - 260

निमन्त्रितं वा संप्राप्तं नित्यमङ्गीकृतं तथा।
द्विजेन्द्रं पञ्चकालज्ञं षट्‌कर्मनिरतं तु वा ॥ 260 ॥

विश्वास-प्रस्तुतिः - 261

स्नानादीनि पुरा कृत्वा प्रयतः संविशेत् पुनः।
स्वयमर्ध्याम्बुना विप्र! पवित्रीकृत्य पाणिना ॥ 261 ॥

मूलम् - 261

स्नानादीनि पुरा कृत्वा प्रयतः संविशेत् पुनः।
स्वयमर्ध्याम्बुना विप्र! पवित्रीकृत्य पाणिना ॥ 261 ॥

विश्वास-प्रस्तुतिः - 262

सन्ताड्य कुसुमास्त्रेण मन्त्रास्त्राधिष्ठितेन च।
समुच्चरन्नेत्रमन्त्रमवलोक्याखिलं ततः ॥ 262 ॥

मूलम् - 262

सन्ताड्य कुसुमास्त्रेण मन्त्रास्त्राधिष्ठितेन च।
समुच्चरन्नेत्रमन्त्रमवलोक्याखिलं ततः ॥ 262 ॥

विश्वास-प्रस्तुतिः - 263

निवेश्य भगवत्यग्रे प्रणवाधिष्ठितासने।
पूजिते वितते पूते संमुखं वोत्तराननम् ॥ 263 ॥

मूलम् - 263

निवेश्य भगवत्यग्रे प्रणवाधिष्ठितासने।
पूजिते वितते पूते संमुखं वोत्तराननम् ॥ 263 ॥

विश्वास-प्रस्तुतिः - 264

उदग्दिग्वीक्षणाणं च विनिवेश्य तथा च तम्।
यथा मन्त्रेशदृग्रश्मिप्रसरेणाभिविध्यते ॥ 264 ॥

मूलम् - 264

उदग्दिग्वीक्षणाणं च विनिवेश्य तथा च तम्।
यथा मन्त्रेशदृग्रश्मिप्रसरेणाभिविध्यते ॥ 264 ॥

विश्वास-प्रस्तुतिः - 265

मन्त्रेणाराध्य तं ध्यात्वा भ्रूयात् “संयतवाग्भव”।
तैश्चापि मौननिष्ठैश्च भवितव्यं सुयन्त्रितैः ॥ 265 ॥

मूलम् - 265

मन्त्रेणाराध्य तं ध्यात्वा भ्रूयात् “संयतवाग्भव”।
तैश्चापि मौननिष्ठैश्च भवितव्यं सुयन्त्रितैः ॥ 265 ॥

विश्वास-प्रस्तुतिः - 266

समाधाय जगन्नाथं हृत्पझगगनेऽर्कवत्।
सत्पात्रस्याथ पात्राभ्यां पात्राणामब्जसंभव! ॥ 266 ॥

मूलम् - 266

समाधाय जगन्नाथं हृत्पझगगनेऽर्कवत्।
सत्पात्रस्याथ पात्राभ्यां पात्राणामब्जसंभव! ॥ 266 ॥

विश्वास-प्रस्तुतिः - 267

एवं कृत्वा प्रतिष्ठानं प्राग्यत्नेनात्र कर्मणि।
समुद्दिश्य पितॄन् दद्याद्दानमन्तरवेदिकम् ॥ 267 ॥

मूलम् - 267

एवं कृत्वा प्रतिष्ठानं प्राग्यत्नेनात्र कर्मणि।
समुद्दिश्य पितॄन् दद्याद्दानमन्तरवेदिकम् ॥ 267 ॥

विश्वास-प्रस्तुतिः - 268

निवेशितद्विजेन्द्रं यद्व्यक्किस्थमपि मन्त्रराट्।
अन्तर्वेदी तु सा ज्ञेया त्वाब्यामभ्यन्तरं तु यत् ॥ 268 ॥

मूलम् - 268

निवेशितद्विजेन्द्रं यद्व्यक्किस्थमपि मन्त्रराट्।
अन्तर्वेदी तु सा ज्ञेया त्वाब्यामभ्यन्तरं तु यत् ॥ 268 ॥

विश्वास-प्रस्तुतिः - 269

संप्रदानं पितॄणां यत् कुर्यात् सत्पात्रपिव्डकम्।
तद्दिव्यममलं यस्माच्चैतन्यमवलम्ब्य वै ॥ 269 ॥

मूलम् - 269

संप्रदानं पितॄणां यत् कुर्यात् सत्पात्रपिव्डकम्।
तद्दिव्यममलं यस्माच्चैतन्यमवलम्ब्य वै ॥ 269 ॥

विश्वास-प्रस्तुतिः - 270

तत्कालसंविभज्याश्च तिष्ठन्ति कमलोद्भव!।
प्रदातृसंकल्पवशादतः पुष्करसंभव! ॥ 270 ॥

मूलम् - 270

तत्कालसंविभज्याश्च तिष्ठन्ति कमलोद्भव!।
प्रदातृसंकल्पवशादतः पुष्करसंभव! ॥ 270 ॥

विश्वास-प्रस्तुतिः - 271

एकस्य वा बहूनां वा प्रदद्यादासनोपरि।
पुनरेवासनं दार्भमग्रन्थि बहुभिः कुशैः ॥ 271 ॥

मूलम् - 271

एकस्य वा बहूनां वा प्रदद्यादासनोपरि।
पुनरेवासनं दार्भमग्रन्थि बहुभिः कुशैः ॥ 271 ॥

विश्वास-प्रस्तुतिः - 272

विभोर्यज्ञाङ्गदेहस्य लोमानि तु कुशाः स्मृताः।
ता एव नाडयः सर्वास्तस्य भूतशरीरगाः ॥ 272 ॥

मूलम् - 272

विभोर्यज्ञाङ्गदेहस्य लोमानि तु कुशाः स्मृताः।
ता एव नाडयः सर्वास्तस्य भूतशरीरगाः ॥ 272 ॥

विश्वास-प्रस्तुतिः - 273

रश्मयो भूतदेहे तु चिन्मूर्तेः शक्तयोऽखिलाः।
अत एव हि विप्रेन्द्र! पितॄणां तु कुशासनम् ॥ 273 ॥

मूलम् - 273

रश्मयो भूतदेहे तु चिन्मूर्तेः शक्तयोऽखिलाः।
अत एव हि विप्रेन्द्र! पितॄणां तु कुशासनम् ॥ 273 ॥

विश्वास-प्रस्तुतिः - 274

श्राद्धकाले तु विहितमाहूतानां तदूर्ध्वतः।
यत्किञ्चिद्दीयते भक्त्या ब्रह्मभूतं तु तद्भवेत् ॥ 274 ॥

मूलम् - 274

श्राद्धकाले तु विहितमाहूतानां तदूर्ध्वतः।
यत्किञ्चिद्दीयते भक्त्या ब्रह्मभूतं तु तद्भवेत् ॥ 274 ॥

विश्वास-प्रस्तुतिः - 275

पुरा वै हेतुमानेन नृणामविदितात्मनाम्।
कर्मण्यत्र कुशाजालं विहितं कमलोद्भव! ॥ 275 ॥

मूलम् - 275

पुरा वै हेतुमानेन नृणामविदितात्मनाम्।
कर्मण्यत्र कुशाजालं विहितं कमलोद्भव! ॥ 275 ॥

विश्वास-प्रस्तुतिः - 276

येषां सर्वगतं ब्रह्म मन्त्ररूपीश्वरोऽच्युतः।
भावस्थस्तत्वतस्ताभिस्तेषां नैव प्रयोजनम् ॥ 276 ॥

मूलम् - 276

येषां सर्वगतं ब्रह्म मन्त्ररूपीश्वरोऽच्युतः।
भावस्थस्तत्वतस्ताभिस्तेषां नैव प्रयोजनम् ॥ 276 ॥

विश्वास-प्रस्तुतिः - 277

न्यसेत्तस्मादभग्नाग्रानुदङ्‌मूलान् कुशान् द्विजः!।
यस्माद्दिव्यमुदग्भागं पित्र्यं दक्षिणसंज्ञकम् ॥ 277 ॥

मूलम् - 277

न्यसेत्तस्मादभग्नाग्रानुदङ्‌मूलान् कुशान् द्विजः!।
यस्माद्दिव्यमुदग्भागं पित्र्यं दक्षिणसंज्ञकम् ॥ 277 ॥

विश्वास-प्रस्तुतिः - 278

स्वकेनामृतवीर्येण नित्यं संवर्धयन्ति च।
दर्भमार्गच्छलेनैव पितॄणां तेऽमरा द्विज! ॥ 278 ॥

मूलम् - 278

स्वकेनामृतवीर्येण नित्यं संवर्धयन्ति च।
दर्भमार्गच्छलेनैव पितॄणां तेऽमरा द्विज! ॥ 278 ॥

विश्वास-प्रस्तुतिः - 279

वसत्यतः पितृगणो भागमाश्रित्य दक्षिणम्।
चित्कलांशस्वरूपेण नृणामेवं हि चोत्तरे ॥ 279 ॥

मूलम् - 279

वसत्यतः पितृगणो भागमाश्रित्य दक्षिणम्।
चित्कलांशस्वरूपेण नृणामेवं हि चोत्तरे ॥ 279 ॥

विश्वास-प्रस्तुतिः - 280

कृतास्पदा अमला नित्या त्वमृताख्याक्षया कला।
अत एव हि यत्‌ किञ्चिदाब्रह्मविदितैर्द्विज! ॥ 280 ॥

मूलम् - 280

कृतास्पदा अमला नित्या त्वमृताख्याक्षया कला।
अत एव हि यत्‌ किञ्चिदाब्रह्मविदितैर्द्विज! ॥ 280 ॥

विश्वास-प्रस्तुतिः - 281

प्रदीयते पितॄणां च तत् सव्येन तु पाणिना।
चेऽधिकृत्य जगद्योनिं मन्त्रात्मानमजं हरिम् ॥ 281 ॥

मूलम् - 281

प्रदीयते पितॄणां च तत् सव्येन तु पाणिना।
चेऽधिकृत्य जगद्योनिं मन्त्रात्मानमजं हरिम् ॥ 281 ॥

विश्वास-प्रस्तुतिः - 282

प्रयछन्ति पितॄणां च तोयतर्पणपूर्वकम्।
तेषां तदाश्रयत्वाच्च यदुक्तं तन्न कारणम् ॥ 282 ॥

मूलम् - 282

प्रयछन्ति पितॄणां च तोयतर्पणपूर्वकम्।
तेषां तदाश्रयत्वाच्च यदुक्तं तन्न कारणम् ॥ 282 ॥

विश्वास-प्रस्तुतिः - 283

कर्तव्यस्य च पारम्यं प्रकृतस्य महामते!।
स्फुरत्यन्तर्गतं येषां मन्त्राराधनपूर्वकम् ॥ 283 ॥

मूलम् - 283

कर्तव्यस्य च पारम्यं प्रकृतस्य महामते!।
स्फुरत्यन्तर्गतं येषां मन्त्राराधनपूर्वकम् ॥ 283 ॥

विश्वास-प्रस्तुतिः - 284

तत् स्वोत्तरवशात्तेषां मन्त्रसामुख्यदिग्वशात्।
चेतसा निर्विकल्पेन कृतं भवति चाक्षयम् ॥ 284 ॥

मूलम् - 284

तत् स्वोत्तरवशात्तेषां मन्त्रसामुख्यदिग्वशात्।
चेतसा निर्विकल्पेन कृतं भवति चाक्षयम् ॥ 284 ॥

विश्वास-प्रस्तुतिः - 285

किंतु पुष्करसंभूत! दुर्लभा भुवि ते नराः।
इति चेतसि वै येषां निश्चयीकृत्य वर्तते ॥ 285 ॥

मूलम् - 285

किंतु पुष्करसंभूत! दुर्लभा भुवि ते नराः।
इति चेतसि वै येषां निश्चयीकृत्य वर्तते ॥ 285 ॥

विश्वास-प्रस्तुतिः - 286

कुण्‍डस्य योनिदिग्भागे भद्रपीठोर्ध्वतोऽथवा।
समीपे पुरतस्तस्य भूभागे चार्घ्यवारिणा ॥ 286 ॥

मूलम् - 286

कुण्‍डस्य योनिदिग्भागे भद्रपीठोर्ध्वतोऽथवा।
समीपे पुरतस्तस्य भूभागे चार्घ्यवारिणा ॥ 286 ॥

विश्वास-प्रस्तुतिः - 287

प्रोक्षिते चास्त्रमन्त्रेण दक्षिणाग्रान् कुशांस्तरेत्।
तदूर्ध्वे पितृतीर्थेन सतिलानक्षतोदकान् ॥ 287 ॥

मूलम् - 287

प्रोक्षिते चास्त्रमन्त्रेण दक्षिणाग्रान् कुशांस्तरेत्।
तदूर्ध्वे पितृतीर्थेन सतिलानक्षतोदकान् ॥ 287 ॥

विश्वास-प्रस्तुतिः - 288

विकिरेदस्त्रजप्तांश्च दर्भाग्रैः प्रणवेन तु।
कौशस्तराग्रपर्यन्तं यस्मादेतद्‌द्वयं द्विज! ॥ 288 ॥

मूलम् - 288

विकिरेदस्त्रजप्तांश्च दर्भाग्रैः प्रणवेन तु।
कौशस्तराग्रपर्यन्तं यस्मादेतद्‌द्वयं द्विज! ॥ 288 ॥

विश्वास-प्रस्तुतिः - 289

सर्वस्य भोगजालस्य जनकं भुवनत्रये।
विशेषात् पितृदेयस्य श्रद्धापूतस्य वस्तुनः ॥ 289 ॥

मूलम् - 289

सर्वस्य भोगजालस्य जनकं भुवनत्रये।
विशेषात् पितृदेयस्य श्रद्धापूतस्य वस्तुनः ॥ 289 ॥

विश्वास-प्रस्तुतिः - 290

अग्नीषोमस्वरूपेण क्रोडात्मा भगवान् स्वयम्।
व्यक्तः कर्मात्मतत्वानां मूर्तत्वेनात्मसिद्धये ॥ 290 ॥

मूलम् - 290

अग्नीषोमस्वरूपेण क्रोडात्मा भगवान् स्वयम्।
व्यक्तः कर्मात्मतत्वानां मूर्तत्वेनात्मसिद्धये ॥ 290 ॥

विश्वास-प्रस्तुतिः - 291

तत्तेजस्तिलभावेन ह्‌लादो वर्तत्यबात्मना।
अत एवाप्रबुद्धानां प्रबुद्धानामपि द्विज! ॥ 291 ॥

मूलम् - 291

तत्तेजस्तिलभावेन ह्‌लादो वर्तत्यबात्मना।
अत एवाप्रबुद्धानां प्रबुद्धानामपि द्विज! ॥ 291 ॥

विश्वास-प्रस्तुतिः - 292

तिलोदकेऽङ्गभांव तु गछतः श्राद्धकर्मणि।
श्राद्धस्य च परा रक्षा ते द्वे नित्यप्रमन्त्रिणाम् ॥ 292 ॥

मूलम् - 292

तिलोदकेऽङ्गभांव तु गछतः श्राद्धकर्मणि।
श्राद्धस्य च परा रक्षा ते द्वे नित्यप्रमन्त्रिणाम् ॥ 292 ॥

विश्वास-प्रस्तुतिः - 293

तत्स्वरूपविदां चेव विशेषान्मन्त्रवेदिनाम्।
एवं तिलोदके बुद्‌ध्वा प्रकाशाह्‌लादलक्षणे ॥ 293 ॥

मूलम् - 293

तत्स्वरूपविदां चेव विशेषान्मन्त्रवेदिनाम्।
एवं तिलोदके बुद्‌ध्वा प्रकाशाह्‌लादलक्षणे ॥ 293 ॥

विश्वास-प्रस्तुतिः - 294

स्तरोर्ध्वे स्वस्वसंज्ञाभिरग्रान्तं तु यथाक्रमम्।
भावयेत् पुरुषादीनां सारूप्यं समुपागतान् ॥ 294 ॥

मूलम् - 294

स्तरोर्ध्वे स्वस्वसंज्ञाभिरग्रान्तं तु यथाक्रमम्।
भावयेत् पुरुषादीनां सारूप्यं समुपागतान् ॥ 294 ॥

विश्वास-प्रस्तुतिः - 295

पितॄन्‌ पितामहांश्चैव तथैव प्रपितामहान्।
तप्तितॄंश्चाथ शंसन्तः सन्तानं स्वविभागतः ॥ 295 ॥

मूलम् - 295

पितॄन्‌ पितामहांश्चैव तथैव प्रपितामहान्।
तप्तितॄंश्चाथ शंसन्तः सन्तानं स्वविभागतः ॥ 295 ॥

विश्वास-प्रस्तुतिः - 296

देवान्नोच्छेषसंयुकं पाकाग्रं पात्रसंभृतम्।
मधुयुक्तेन हविषा दर्भकाण्डैस्तिलैः सह ॥ 296 ॥

मूलम् - 296

देवान्नोच्छेषसंयुकं पाकाग्रं पात्रसंभृतम्।
मधुयुक्तेन हविषा दर्भकाण्डैस्तिलैः सह ॥ 296 ॥

विश्वास-प्रस्तुतिः - 297

भावितं वह्निना कृत्वा हृदा दर्भाग्रगेण तु।
निर्दोषं ज्ञस्वभावं च धामत्रयसमप्रभम् ॥ 297 ॥

मूलम् - 297

भावितं वह्निना कृत्वा हृदा दर्भाग्रगेण तु।
निर्दोषं ज्ञस्वभावं च धामत्रयसमप्रभम् ॥ 297 ॥

विश्वास-प्रस्तुतिः - 298

ध्यायेद्‌द्रव्यगतं दोषं निर्दहन्तं समन्ततः।
देवतानां पितॄणां यत् तृप्तयेऽन्नं महामते! ॥ 298 ॥

मूलम् - 298

ध्यायेद्‌द्रव्यगतं दोषं निर्दहन्तं समन्ततः।
देवतानां पितॄणां यत् तृप्तयेऽन्नं महामते! ॥ 298 ॥

विश्वास-प्रस्तुतिः - 299

तत् साधनं च विहितं संस्कृतेन पुराग्निना।
तमालकदलीपूर्वदलेषु क्षालितेषु च ॥ 299 ॥

मूलम् - 299

तत् साधनं च विहितं संस्कृतेन पुराग्निना।
तमालकदलीपूर्वदलेषु क्षालितेषु च ॥ 299 ॥

विश्वास-प्रस्तुतिः - 300

संविभज्य चतुर्धान्नं निधाय प्रणवेन तु।
प्रोक्षितान्यन्नपात्राणि चत्वारि कबलानि वा ॥ 300 ॥

मूलम् - 300

संविभज्य चतुर्धान्नं निधाय प्रणवेन तु।
प्रोक्षितान्यन्नपात्राणि चत्वारि कबलानि वा ॥ 300 ॥

विश्वास-प्रस्तुतिः - 301

तृप्तये त्वथ सर्वेषां देवाय विनिवेद्य च।
पितॄणां तर्पयेत्तेन पिण्डाद्यन्नेन सादरम् ॥ 301 ॥

मूलम् - 301

तृप्तये त्वथ सर्वेषां देवाय विनिवेद्य च।
पितॄणां तर्पयेत्तेन पिण्डाद्यन्नेन सादरम् ॥ 301 ॥

विश्वास-प्रस्तुतिः - 302

क्रमेण प्रागदृष्टानां हृदा संज्ञापदेन तु।
एवं दृष्टस्वरूपाणां ज्ञात्वा तेषां स्थितिं पुरा ॥ 302 ॥

मूलम् - 302

क्रमेण प्रागदृष्टानां हृदा संज्ञापदेन तु।
एवं दृष्टस्वरूपाणां ज्ञात्वा तेषां स्थितिं पुरा ॥ 302 ॥

विश्वास-प्रस्तुतिः - 303

प्राग्वत् स्वधावसानाद्यैर्मन्त्रैरोह्कारपूर्वकैः।
हृन्मन्त्रालिङ्गितैर्विप्र! तथा संज्ञापदान्वितैः ॥ 303 ॥

मूलम् - 303

प्राग्वत् स्वधावसानाद्यैर्मन्त्रैरोह्कारपूर्वकैः।
हृन्मन्त्रालिङ्गितैर्विप्र! तथा संज्ञापदान्वितैः ॥ 303 ॥

विश्वास-प्रस्तुतिः - 304

“पिण्‍डं प्रकल्पयामी” ति ततः पूर्ववदाचरेत्।
प्रणवैर्दक्षिणाग्राणि सेचितानि तिलाम्बुना ॥ 304 ॥

मूलम् - 304

“पिण्‍डं प्रकल्पयामी” ति ततः पूर्ववदाचरेत्।
प्रणवैर्दक्षिणाग्राणि सेचितानि तिलाम्बुना ॥ 304 ॥

विश्वास-प्रस्तुतिः - 305

नाडीरूपाणि दर्भाणि पिण्डानामूर्ध्वतो न्यसेत्।
प्रविष्टान् भावयेत्तेषु नाडीमार्गैरनुक्रमात् ॥ 305 ॥

मूलम् - 305

नाडीरूपाणि दर्भाणि पिण्डानामूर्ध्वतो न्यसेत्।
प्रविष्टान् भावयेत्तेषु नाडीमार्गैरनुक्रमात् ॥ 305 ॥

विश्वास-प्रस्तुतिः - 306

“पितॄनावाहयामी” ति स्तरोर्ध्वे प्राक्‌स्थितांस्ततः।
क्रमेण चातुरात्मीयैर्मन्त्रैरप्यययोगतः ॥ 306 ॥

मूलम् - 306

“पितॄनावाहयामी” ति स्तरोर्ध्वे प्राक्‌स्थितांस्ततः।
क्रमेण चातुरात्मीयैर्मन्त्रैरप्यययोगतः ॥ 306 ॥

विश्वास-प्रस्तुतिः - 307

समर्चयेद्यथान्यायमर्ध्यगन्धादिभिश्च तान्।
ततस्तु नाम्ना गोत्रेण मन्त्रपूर्वं तिलोदकम् ॥ 307 ॥

मूलम् - 307

समर्चयेद्यथान्यायमर्ध्यगन्धादिभिश्च तान्।
ततस्तु नाम्ना गोत्रेण मन्त्रपूर्वं तिलोदकम् ॥ 307 ॥

विश्वास-प्रस्तुतिः - 308

सर्वेषामर्घ्यकलशात् प्रदद्याच्च यथाक्रमम्।
शिरसावनतेनाथ जानुयुग्मे क्षितौ कृते ॥ 308 ॥

मूलम् - 308

सर्वेषामर्घ्यकलशात् प्रदद्याच्च यथाक्रमम्।
शिरसावनतेनाथ जानुयुग्मे क्षितौ कृते ॥ 308 ॥

विश्वास-प्रस्तुतिः - 309

पाणियुग्मे ललाटस्थे एकचित्तः पठेदिदम्।
“ओं नमो वः पितरः! नमो वः पुरुषोत्तमाः! ॥ 309 ॥

मूलम् - 309

पाणियुग्मे ललाटस्थे एकचित्तः पठेदिदम्।
“ओं नमो वः पितरः! नमो वः पुरुषोत्तमाः! ॥ 309 ॥

विश्वास-प्रस्तुतिः - 310

नमो विष्णुपदस्थेभ्यः स्वधा वः पितरो! नमः।
हरये पितृनाथाय ह्यग्नीषोमात्मने नमः ॥ 310 ॥

मूलम् - 310

नमो विष्णुपदस्थेभ्यः स्वधा वः पितरो! नमः।
हरये पितृनाथाय ह्यग्नीषोमात्मने नमः ॥ 310 ॥

विश्वास-प्रस्तुतिः - 311

सत्सोमपात्मने विष्णो! नमो बर्हिषदात्मने।
आसंसारं हि जनका अग्निष्वात्ता अथाच्युत! ॥ 311 ॥

मूलम् - 311

सत्सोमपात्मने विष्णो! नमो बर्हिषदात्मने।
आसंसारं हि जनका अग्निष्वात्ता अथाच्युत! ॥ 311 ॥

विश्वास-प्रस्तुतिः - 312

पितामहाः सोमपास्त्वं त्वमन्ये प्रपितामहाः।
तुभ्यं नमो भगवते पितृमूर्ते! ऽच्युताय च ॥ 312 ॥

मूलम् - 312

पितामहाः सोमपास्त्वं त्वमन्ये प्रपितामहाः।
तुभ्यं नमो भगवते पितृमूर्ते! ऽच्युताय च ॥ 312 ॥

विश्वास-प्रस्तुतिः - 313

नारायणाय हंसाय विष्णो! त्रिपुरुषात्मने।
मुक्त्वा त्वामेव भगवन्! न नमाम्यर्चयामि च ॥ 313 ॥

मूलम् - 313

नारायणाय हंसाय विष्णो! त्रिपुरुषात्मने।
मुक्त्वा त्वामेव भगवन्! न नमाम्यर्चयामि च ॥ 313 ॥

न तर्पयामि सर्वेश! नान्यमावाहयाम्यहम्।" स्तुत्वैवं हि पितृव्यूहं भक्त्या परमया युतम् ॥ 314 ॥
विश्वास-प्रस्तुतिः - 315

संभवे सति संमानं पिण्डमूर्तेः समाचरेत्।
तदग्रतोपविष्टस्य क्रमाद्‌द्विजगणस्य च ॥ 315 ॥

मूलम् - 315

संभवे सति संमानं पिण्डमूर्तेः समाचरेत्।
तदग्रतोपविष्टस्य क्रमाद्‌द्विजगणस्य च ॥ 315 ॥

विश्वास-प्रस्तुतिः - 316

अनुसन्धाय वै द्वाभ्यामेकस्मिन् वा द्विजोत्तम!।
देवभावस्थितं ध्यात्वा पित्र्यं प्रागगणं क्रमात् ॥ 316 ॥

मूलम् - 316

अनुसन्धाय वै द्वाभ्यामेकस्मिन् वा द्विजोत्तम!।
देवभावस्थितं ध्यात्वा पित्र्यं प्रागगणं क्रमात् ॥ 316 ॥

विश्वास-प्रस्तुतिः - 317

प्रणवेन खरूपं तु समुत्थाय ततः स्वयम्।
मध्ये तिर्यक्‌स्थितौ स्थित्वा ह्यदूरेऽन्योन्यदृक्‌स्थिते ॥ 317 ॥

मूलम् - 317

प्रणवेन खरूपं तु समुत्थाय ततः स्वयम्।
मध्ये तिर्यक्‌स्थितौ स्थित्वा ह्यदूरेऽन्योन्यदृक्‌स्थिते ॥ 317 ॥

विश्वास-प्रस्तुतिः - 318

उत्तराभिमुखश्चैव दक्षिणास्योऽथवा द्विज!।
तदुत्तराननवशाद्धृन्मन्त्रं हृदयान्न्यसेत् ॥ 318 ॥

मूलम् - 318

उत्तराभिमुखश्चैव दक्षिणास्योऽथवा द्विज!।
तदुत्तराननवशाद्धृन्मन्त्रं हृदयान्न्यसेत् ॥ 318 ॥

विश्वास-प्रस्तुतिः - 319

नमोऽन्तं प्रणवाद्यं तु मरुदम्बरविग्रहम्।
पिण्डाग्रे ह्युपविष्टस्य प्राणशक्तिं द्विजस्य वा ॥ 319 ॥

मूलम् - 319

नमोऽन्तं प्रणवाद्यं तु मरुदम्बरविग्रहम्।
पिण्डाग्रे ह्युपविष्टस्य प्राणशक्तिं द्विजस्य वा ॥ 319 ॥

विश्वास-प्रस्तुतिः - 320

बहूनां वा प्रयत्नेन स्वातन्त्र्यान्निर्गतां बहिः।
ध्यात्वा तया सह क्षिप्रमेकीभूतत्वमागतम् ॥ 320 ॥

मूलम् - 320

बहूनां वा प्रयत्नेन स्वातन्त्र्यान्निर्गतां बहिः।
ध्यात्वा तया सह क्षिप्रमेकीभूतत्वमागतम् ॥ 320 ॥

विश्वास-प्रस्तुतिः - 321

आत्मशक्तौ लयं नीत्वा याति ह्यूष्माख्यलक्षणम्।
कृत्वैवं प्राणसञ्चारं पितॄणां विप्रविग्रहे ॥ 321 ॥

मूलम् - 321

आत्मशक्तौ लयं नीत्वा याति ह्यूष्माख्यलक्षणम्।
कृत्वैवं प्राणसञ्चारं पितॄणां विप्रविग्रहे ॥ 321 ॥

विश्वास-प्रस्तुतिः - 322

प्राग्वदानन्दसंरुद्धे भोजयेत् पितृरूपिणः।
तादर्थ्येनाथ चतुरो विनिवेश्यासनेषु च ॥ 322 ॥

मूलम् - 322

प्राग्वदानन्दसंरुद्धे भोजयेत् पितृरूपिणः।
तादर्थ्येनाथ चतुरो विनिवेश्यासनेषु च ॥ 322 ॥

विश्वास-प्रस्तुतिः - 323

लब्धलक्ष्यान् परे तत्त्वे ब्राह्यणान् पाञ्चरात्रिकान्।
प्राङ्‌मुखं द्वितयं चैव द्वितयं चाप्युदङ्‌मुखम् ॥ 323 ॥

मूलम् - 323

लब्धलक्ष्यान् परे तत्त्वे ब्राह्यणान् पाञ्चरात्रिकान्।
प्राङ्‌मुखं द्वितयं चैव द्वितयं चाप्युदङ्‌मुखम् ॥ 323 ॥

विश्वास-प्रस्तुतिः - 324

संपत्यभावे ह्येकं वा विनिवेश्योत्तराननम्।
पादयोरपि पाद्यार्थं कं क्षिपेद्दक्षिणादितः ॥ 324 ॥

मूलम् - 324

संपत्यभावे ह्येकं वा विनिवेश्योत्तराननम्।
पादयोरपि पाद्यार्थं कं क्षिपेद्दक्षिणादितः ॥ 324 ॥

विश्वास-प्रस्तुतिः - 325

अथ तेषां क्रमात् कुर्यादर्चनं चातुरात्म्यवत्।
अर्ध्यानुलेपनाद्यैस्तु भोगैर्मात्रावसानिकैः ॥ 325 ॥

मूलम् - 325

अथ तेषां क्रमात् कुर्यादर्चनं चातुरात्म्यवत्।
अर्ध्यानुलेपनाद्यैस्तु भोगैर्मात्रावसानिकैः ॥ 325 ॥

विश्वास-प्रस्तुतिः - 326

तत्तत्कालोचितैः सर्वैरनुपादेयवर्जितैः।
तैश्चापि मौननिष्ठैस्तु भवितव्यं सुयन्त्रितैः ॥ 326 ॥

मूलम् - 326

तत्तत्कालोचितैः सर्वैरनुपादेयवर्जितैः।
तैश्चापि मौननिष्ठैस्तु भवितव्यं सुयन्त्रितैः ॥ 326 ॥

विश्वास-प्रस्तुतिः - 327

अथास्त्रपरिजप्तेन भूतिना वाथ शङ्‌कुना।
मसृणेनाश्मचूर्णेन परिघां स्वधयाथवा ॥ 327 ॥

मूलम् - 327

अथास्त्रपरिजप्तेन भूतिना वाथ शङ्‌कुना।
मसृणेनाश्मचूर्णेन परिघां स्वधयाथवा ॥ 327 ॥

विश्वास-प्रस्तुतिः - 328

बहिस्तदासने कुर्यात्‌त्वग्रे दैर्घ्याच्छमाधिकाम्।
वैपुल्याच्छममानं तु प्राग्वत् पावनतां नयेत् ॥ 328 ॥

मूलम् - 328

बहिस्तदासने कुर्यात्‌त्वग्रे दैर्घ्याच्छमाधिकाम्।
वैपुल्याच्छममानं तु प्राग्वत् पावनतां नयेत् ॥ 328 ॥

विश्वास-प्रस्तुतिः - 329

न्यसेत् तत्राप्यभग्नाग्रानुदङ्‌मूलान् कुशान् द्विज!।
तत्रापि च विशेषेण तिलतोये समुत्किरेत् ॥ 329 ॥

मूलम् - 329

न्यसेत् तत्राप्यभग्नाग्रानुदङ्‌मूलान् कुशान् द्विज!।
तत्रापि च विशेषेण तिलतोये समुत्किरेत् ॥ 329 ॥

विश्वास-प्रस्तुतिः - 330

न्यस्तास्त्राण्यस्त्रजप्तानि तत्र पात्राणि विन्यसेत्।
सर्वाणि चक्रवृत्तानि हेमाद्युत्थानि संभवे ॥ 330 ॥

मूलम् - 330

न्यस्तास्त्राण्यस्त्रजप्तानि तत्र पात्राणि विन्यसेत्।
सर्वाणि चक्रवृत्तानि हेमाद्युत्थानि संभवे ॥ 330 ॥

विश्वास-प्रस्तुतिः - 331

पात्राणि कदलीपझतमालच्छदनान्यथ।
दर्भाण्यस्त्राम्बुयुक्तानि शुभपर्णमयानि वा ॥ 331 ॥

मूलम् - 331

पात्राणि कदलीपझतमालच्छदनान्यथ।
दर्भाण्यस्त्राम्बुयुक्तानि शुभपर्णमयानि वा ॥ 331 ॥

विश्वास-प्रस्तुतिः - 332

निदध्यात्तेषु चान्नानि भोज्यानि मधुराण्यपि।
भक्ष्याणि फलमूलानि दधिक्षीरादिकान्यपि ॥ 332 ॥

मूलम् - 332

निदध्यात्तेषु चान्नानि भोज्यानि मधुराण्यपि।
भक्ष्याणि फलमूलानि दधिक्षीरादिकान्यपि ॥ 332 ॥

विश्वास-प्रस्तुतिः - 333

पानकानि रसालानि सपानीयानि सत्तम!।
कर्मण्यानि तथान्यानि तत्तत्कालोद्भवानि च ॥ 333 ॥

मूलम् - 333

पानकानि रसालानि सपानीयानि सत्तम!।
कर्मण्यानि तथान्यानि तत्तत्कालोद्भवानि च ॥ 333 ॥

विश्वास-प्रस्तुतिः - 334

पुरोपस्तरणार्थं च पात्राणां दक्षपाणिषु।
निपातव्याऽमृती धारा वारिणाप्युद्धतेन च ॥ 334 ॥

मूलम् - 334

पुरोपस्तरणार्थं च पात्राणां दक्षपाणिषु।
निपातव्याऽमृती धारा वारिणाप्युद्धतेन च ॥ 334 ॥

विश्वास-प्रस्तुतिः - 335

वाग्यता लब्धलक्षास्तु ह्यन्नमूर्तौ जनार्दने।
येऽश्र्नन्ति पितरस्तेन तृप्तिमायान्ति शाश्वतीम् ॥ 335 ॥

मूलम् - 335

वाग्यता लब्धलक्षास्तु ह्यन्नमूर्तौ जनार्दने।
येऽश्र्नन्ति पितरस्तेन तृप्तिमायान्ति शाश्वतीम् ॥ 335 ॥

विश्वास-प्रस्तुतिः - 336

अतः सव्यभिचारं तु मौनं वर्ज्यं क्रियापरैः।
शुभमव्यभिचारं यत् तत् कार्यं सर्ववस्तुषु ॥ 336 ॥

मूलम् - 336

अतः सव्यभिचारं तु मौनं वर्ज्यं क्रियापरैः।
शुभमव्यभिचारं यत् तत् कार्यं सर्ववस्तुषु ॥ 336 ॥

विश्वास-प्रस्तुतिः - 337

यदङ्गसङ्केतमयैरव्यक्तैर्नासिकाक्षरैः।
कृतमोष्ठपुटैर्वद्धैर्मौनं तत् सिद्धिहानिकृत् ॥ 337 ॥

मूलम् - 337

यदङ्गसङ्केतमयैरव्यक्तैर्नासिकाक्षरैः।
कृतमोष्ठपुटैर्वद्धैर्मौनं तत् सिद्धिहानिकृत् ॥ 337 ॥

विश्वास-प्रस्तुतिः - 338

स्वयमेव स्वबुद्ध्या यत् सर्ववस्तुषु वर्तते।
शब्दैरनुपदिष्टैस्तु तन्मौनं सर्वसिद्धिदम् ॥ 338 ॥

मूलम् - 338

स्वयमेव स्वबुद्ध्या यत् सर्ववस्तुषु वर्तते।
शब्दैरनुपदिष्टैस्तु तन्मौनं सर्वसिद्धिदम् ॥ 338 ॥

विश्वास-प्रस्तुतिः - 339

तस्माद्वै श्राद्धभोक्तॄणां दिव्ये वा पितृकर्मणि।
दद्यान्नैवेद्यवत् सर्वं मर्यादाभ्यन्तरेऽग्रतः ॥ 339 ॥

मूलम् - 339

तस्माद्वै श्राद्धभोक्तॄणां दिव्ये वा पितृकर्मणि।
दद्यान्नैवेद्यवत् सर्वं मर्यादाभ्यन्तरेऽग्रतः ॥ 339 ॥

विश्वास-प्रस्तुतिः - 340

येनाचमनपर्यन्तं कालं तिष्ठन्ति वाग्यताः।
सर्वेवामेकमाप्तं तु तृप्तये यदि योजितम् ॥ 340 ॥

मूलम् - 340

येनाचमनपर्यन्तं कालं तिष्ठन्ति वाग्यताः।
सर्वेवामेकमाप्तं तु तृप्तये यदि योजितम् ॥ 340 ॥

विश्वास-प्रस्तुतिः - 341

ओमाद्यमस्मच्छब्दं तु पितृभ्यस्तदनन्तरम्।
इदमर्ध्यमिदं पाद्यं तदन्ते संस्मरेत् स्वधाम् ॥ 341 ॥

मूलम् - 341

ओमाद्यमस्मच्छब्दं तु पितृभ्यस्तदनन्तरम्।
इदमर्ध्यमिदं पाद्यं तदन्ते संस्मरेत् स्वधाम् ॥ 341 ॥

विश्वास-प्रस्तुतिः - 342

सर्वस्मिन्नुपचारान्ते ह्येवं वा संस्मरेन्नमः।
नमः स्वधाऽथवा ब्रूयान्नमोन्ता त्वथवा स्वधा ॥ 342 ॥

मूलम् - 342

सर्वस्मिन्नुपचारान्ते ह्येवं वा संस्मरेन्नमः।
नमः स्वधाऽथवा ब्रूयान्नमोन्ता त्वथवा स्वधा ॥ 342 ॥

विश्वास-प्रस्तुतिः - 343

एवमेव हि यः कुर्यात् कर्तव्यत्वेन सत्तम!।
तुल्यानां च स्वकुल्यानां नमस्तत्र च केवलम् ॥ 343 ॥

मूलम् - 343

एवमेव हि यः कुर्यात् कर्तव्यत्वेन सत्तम!।
तुल्यानां च स्वकुल्यानां नमस्तत्र च केवलम् ॥ 343 ॥

विश्वास-प्रस्तुतिः - 344

सत्युक्ते व्यत्ययं नित्यं बिहितं च स्वधा द्विज!।
स्वयमेव हि सन्यासी ददाति च फलार्थिनाम् ॥ 344 ॥

मूलम् - 344

सत्युक्ते व्यत्ययं नित्यं बिहितं च स्वधा द्विज!।
स्वयमेव हि सन्यासी ददाति च फलार्थिनाम् ॥ 344 ॥

विश्वास-प्रस्तुतिः - 345

कार्यस्तेन नमस्कारः स्वधान्तो नित्यमेव हि।
ददाति फलकामस्तु यो नित्यमफलार्थिनाम् ॥ 345 ॥

मूलम् - 345

कार्यस्तेन नमस्कारः स्वधान्तो नित्यमेव हि।
ददाति फलकामस्तु यो नित्यमफलार्थिनाम् ॥ 345 ॥

विश्वास-प्रस्तुतिः - 346

स्वधाकारावसाने तु विहितं तत् सदा नमः।
एवमिच्छावशेनैव संविभज्य पितॄन् द्विज!॥ 346 ॥

मूलम् - 346

स्वधाकारावसाने तु विहितं तत् सदा नमः।
एवमिच्छावशेनैव संविभज्य पितॄन् द्विज!॥ 346 ॥

विश्वास-प्रस्तुतिः - 347

पृष्ट्वा पात्रमुखेनैव संतृप्तिं च पुनः पुनः।
ततोऽम्भश्चुलकं पाणौ हृन्मन्त्रेणामृतोपमम् ॥ 347 ॥

मूलम् - 347

पृष्ट्वा पात्रमुखेनैव संतृप्तिं च पुनः पुनः।
ततोऽम्भश्चुलकं पाणौ हृन्मन्त्रेणामृतोपमम् ॥ 347 ॥

विश्वास-प्रस्तुतिः - 348

दद्यात् पूर्णेन्दुतुल्यं तद्‌ध्यातव्यं तत्कलाः पठन्।
सानुस्वारमकाराद्यैर्भिन्नं षोडशभिः स्वरेः ॥ 348 ॥

मूलम् - 348

दद्यात् पूर्णेन्दुतुल्यं तद्‌ध्यातव्यं तत्कलाः पठन्।
सानुस्वारमकाराद्यैर्भिन्नं षोडशभिः स्वरेः ॥ 348 ॥

विश्वास-प्रस्तुतिः - 349

सकारं नतिनिष्ठं च तत्र प्राक्‌स्थं सतारकम्।
इत्युक्तं सकलस्येन्दोर्वाचकं मन्त्रमब्जज! ॥ 349 ॥

मूलम् - 349

सकारं नतिनिष्ठं च तत्र प्राक्‌स्थं सतारकम्।
इत्युक्तं सकलस्येन्दोर्वाचकं मन्त्रमब्जज! ॥ 349 ॥

विश्वास-प्रस्तुतिः - 350

पाणिप्रक्षालनात् पूर्वं पातव्यं तेन पूर्ववत्।
येनामृतपुटान्तस्थमन्नवीर्यमनश्वरम् ॥ 350 ॥

मूलम् - 350

पाणिप्रक्षालनात् पूर्वं पातव्यं तेन पूर्ववत्।
येनामृतपुटान्तस्थमन्नवीर्यमनश्वरम् ॥ 350 ॥

विश्वास-प्रस्तुतिः - 351

भवत्याप्यायकृद्व्रह्यन्! पितृदेवगणस्य च।
माषचूर्णादिना पाणिं प्रक्षाल्यामणिबन्धनात् ॥ 351 ॥

मूलम् - 351

भवत्याप्यायकृद्व्रह्यन्! पितृदेवगणस्य च।
माषचूर्णादिना पाणिं प्रक्षाल्यामणिबन्धनात् ॥ 351 ॥

विश्वास-प्रस्तुतिः - 352

समाचम्योपसंहृत्य ह्‌युच्छिष्टं च यथाविधि।
पवित्रीकृत्य वसुधां पाणौ कृत्वा तिलोदकम् ॥ 352 ॥

मूलम् - 352

समाचम्योपसंहृत्य ह्‌युच्छिष्टं च यथाविधि।
पवित्रीकृत्य वसुधां पाणौ कृत्वा तिलोदकम् ॥ 352 ॥

विश्वास-प्रस्तुतिः - 353

प्रीणनं भगवत्यग्रे समुत्थायाचरेत् ततः।
“ममास्तु भगवान् पूर्वं प्रीतः पितृगणस्तथा ॥ 353 ॥

मूलम् - 353

प्रीणनं भगवत्यग्रे समुत्थायाचरेत् ततः।
“ममास्तु भगवान् पूर्वं प्रीतः पितृगणस्तथा ॥ 353 ॥

विश्वास-प्रस्तुतिः - 354

शारीरो देवताव्यूह आपादाद्यो व्यवस्थितः।
नयन्त्वमृततामन्नमिदं विष्णुपुरस्सराः ॥ 354 ॥

मूलम् - 354

शारीरो देवताव्यूह आपादाद्यो व्यवस्थितः।
नयन्त्वमृततामन्नमिदं विष्णुपुरस्सराः ॥ 354 ॥

देवा नद्यस्तथा गावः सूर्यः सोमो बृहस्पतिः। (ओं) माधवो भगवान् मन्त्रमूर्तिर्मधुमयो महान् ॥ 355 ॥
विश्वास-प्रस्तुतिः - 356

मधुभावेन चान्नेऽस्मिन् स्थित्वा तृप्तिं करोतु वै”।
अनुलिप्यासनं कुर्यात् पितॄणां प्रीणनं द्विज! ॥ 356 ॥

मूलम् - 356

मधुभावेन चान्नेऽस्मिन् स्थित्वा तृप्तिं करोतु वै”।
अनुलिप्यासनं कुर्यात् पितॄणां प्रीणनं द्विज! ॥ 356 ॥

विश्वास-प्रस्तुतिः - 357

तस्मिन्नेव हि भूभागे यस्यां तत्पिण्डचित्‌क्षितौ।
स्थितिः सर्वपितॄणां च साम्प्रतं कमलासन! ॥ 357 ॥

मूलम् - 357

तस्मिन्नेव हि भूभागे यस्यां तत्पिण्डचित्‌क्षितौ।
स्थितिः सर्वपितॄणां च साम्प्रतं कमलासन! ॥ 357 ॥

विश्वास-प्रस्तुतिः - 358

यावत् प्राणावियुक्तानां पिण्डातां नोपसंहृतिः।
स्वोद्दिष्टानां कृता सम्यक् तदन्ते संव्रजन्ति ते ॥ 358 ॥

मूलम् - 358

यावत् प्राणावियुक्तानां पिण्डातां नोपसंहृतिः।
स्वोद्दिष्टानां कृता सम्यक् तदन्ते संव्रजन्ति ते ॥ 358 ॥

विश्वास-प्रस्तुतिः - 359

स्वस्थानमाशिषं दत्वा श्राद्धकर्तुर्धिया मुमे!।
सामृतं सोदकं सान्नं सतिलं मन्त्रतेजसा ॥ 359 ॥

मूलम् - 359

स्वस्थानमाशिषं दत्वा श्राद्धकर्तुर्धिया मुमे!।
सामृतं सोदकं सान्नं सतिलं मन्त्रतेजसा ॥ 359 ॥

विश्वास-प्रस्तुतिः - 360

विविक्तं वः कृतं मार्गं पुनरागमनाय च।
नारायणाख्यसन्मन्त्रकर्मब्रह्नजवीकृते ॥ 360 ॥

मूलम् - 360

विविक्तं वः कृतं मार्गं पुनरागमनाय च।
नारायणाख्यसन्मन्त्रकर्मब्रह्नजवीकृते ॥ 360 ॥

विश्वास-प्रस्तुतिः - 361

स्वे स्वेन्द्रियरथे कृत्वा तृप्ता याताच्युतास्पदम्।
एवं सुवितते कुर्यात् कर्म त्वाराधनालये ॥ 361 ॥

मूलम् - 361

स्वे स्वेन्द्रियरथे कृत्वा तृप्ता याताच्युतास्पदम्।
एवं सुवितते कुर्यात् कर्म त्वाराधनालये ॥ 361 ॥

विश्वास-प्रस्तुतिः - 362

संकटे पुनरन्यत्र यायादभ्यर्थ्य मन्त्रराट्।
स्थानं संस्कारसंशुद्धं कृत्वा प्राक् ताडनादिना ॥ 362 ॥

मूलम् - 362

संकटे पुनरन्यत्र यायादभ्यर्थ्य मन्त्रराट्।
स्थानं संस्कारसंशुद्धं कृत्वा प्राक् ताडनादिना ॥ 362 ॥

विश्वास-प्रस्तुतिः - 363

व्याप्तिशक्त्याश्रितं भूयस्तोयाधारगतं स्मरेत्।
मन्त्रमर्चनपूर्वं तु तदग्रे सर्वमाचरेत् ॥ 363 ॥

मूलम् - 363

व्याप्तिशक्त्याश्रितं भूयस्तोयाधारगतं स्मरेत्।
मन्त्रमर्चनपूर्वं तु तदग्रे सर्वमाचरेत् ॥ 363 ॥

विश्वास-प्रस्तुतिः - 364

देवान् पितॄन् समुद्दिश्य भोजनं भगवद्‌गृहे।
अविरुद्धं द्विजेन्द्राणामन्यथा तद्विरोधकृत् ॥ 364 ॥

मूलम् - 364

देवान् पितॄन् समुद्दिश्य भोजनं भगवद्‌गृहे।
अविरुद्धं द्विजेन्द्राणामन्यथा तद्विरोधकृत् ॥ 364 ॥

विश्वास-प्रस्तुतिः - 365

विधिनानेन वै नित्यमथ यज्ञे तु वैष्णवे।
संविभागः पितॄणां च कार्यः सद्रविर्णैनैरः ॥ 365 ॥

मूलम् - 365

विधिनानेन वै नित्यमथ यज्ञे तु वैष्णवे।
संविभागः पितॄणां च कार्यः सद्रविर्णैनैरः ॥ 365 ॥

विश्वास-प्रस्तुतिः - 366

कृत्वा तिलोदकान्तं वा फलमूलैः स्वशक्तितः।
तदर्धं ग्रासमात्रं तु दद्याद्गोष्वथ भैक्षुके ॥ 366 ॥

मूलम् - 366

कृत्वा तिलोदकान्तं वा फलमूलैः स्वशक्तितः।
तदर्धं ग्रासमात्रं तु दद्याद्गोष्वथ भैक्षुके ॥ 366 ॥

विश्वास-प्रस्तुतिः - 367

यस्माद्दिव्यैर्महामन्त्रैर्दत्तं यत् पूजितेऽच्युते।
पित्रर्थमल्पं वा भूरि तत्तेषामक्षयं भवेत् ॥ 367 ॥

मूलम् - 367

यस्माद्दिव्यैर्महामन्त्रैर्दत्तं यत् पूजितेऽच्युते।
पित्रर्थमल्पं वा भूरि तत्तेषामक्षयं भवेत् ॥ 367 ॥

विश्वास-प्रस्तुतिः - 368

सम्यगर्च्यार्घ्यगन्धाद्यैर्मूलमूर्तिगतं विभुम्।
प्राङ्कणेषु च सर्वेषु प्रासादेष्वाश्रयेषु च ॥ 368 ॥

मूलम् - 368

सम्यगर्च्यार्घ्यगन्धाद्यैर्मूलमूर्तिगतं विभुम्।
प्राङ्कणेषु च सर्वेषु प्रासादेष्वाश्रयेषु च ॥ 368 ॥

विश्वास-प्रस्तुतिः - 369

प्रतिष्ठितेषु शोभार्थं विभवव्यूहमूर्तिषु।
तथैव गोपुरद्वारदिङ्‌मूर्तिषु च मण्डपे ॥ 369 ॥

मूलम् - 369

प्रतिष्ठितेषु शोभार्थं विभवव्यूहमूर्तिषु।
तथैव गोपुरद्वारदिङ्‌मूर्तिषु च मण्डपे ॥ 369 ॥

विश्वास-प्रस्तुतिः - 370

सान्निध्यं चैव यातासु शक्त्या नित्यं समर्चनम्।
षोडशैरुपचारैर्वा द्वात्रिंशद्भिस्ततोऽधिकैः ॥ 370 ॥

मूलम् - 370

सान्निध्यं चैव यातासु शक्त्या नित्यं समर्चनम्।
षोडशैरुपचारैर्वा द्वात्रिंशद्भिस्ततोऽधिकैः ॥ 370 ॥

विश्वास-प्रस्तुतिः - 371

कुर्यात्रन्मूर्तिमन्त्रैश्च तथा नैमित्तिकेष्वपि।
जपान्तं हवनान्तं वा स्नानाद्यं साधकस्ततः ॥ 371 ॥

मूलम् - 371

कुर्यात्रन्मूर्तिमन्त्रैश्च तथा नैमित्तिकेष्वपि।
जपान्तं हवनान्तं वा स्नानाद्यं साधकस्ततः ॥ 371 ॥

विश्वास-प्रस्तुतिः - 372

तत्तन्मूर्त्यग्रदेशस्थे कुण्डे होमं समाचरेत्।
न कर्मार्चादिकं तत्र स्नपने चोत्सवादिकम् ॥ 372 ॥

मूलम् - 372

तत्तन्मूर्त्यग्रदेशस्थे कुण्डे होमं समाचरेत्।
न कर्मार्चादिकं तत्र स्नपने चोत्सवादिकम् ॥ 372 ॥

विश्वास-प्रस्तुतिः - 373

बलिदानं च सर्वत्र पवित्रारोहणादिकम्।
नाचर्तव्यं विशेषेण परतन्त्रासु मूर्तिषु ॥ 373 ॥

मूलम् - 373

बलिदानं च सर्वत्र पवित्रारोहणादिकम्।
नाचर्तव्यं विशेषेण परतन्त्रासु मूर्तिषु ॥ 373 ॥

विश्वास-प्रस्तुतिः - 374

नित्याभिषेकमात्रं तु तासु तत्र समाचरेत्।
सितादिवर्णयुक्तासु प्रोक्षणं वा निवेदनम् ॥ 374 ॥

मूलम् - 374

नित्याभिषेकमात्रं तु तासु तत्र समाचरेत्।
सितादिवर्णयुक्तासु प्रोक्षणं वा निवेदनम् ॥ 374 ॥

विश्वास-प्रस्तुतिः - 375

मूलालयार्चया सार्धं परतन्त्रासु देशिकैः।
पवित्रारोहणं कार्यमङ्गत्वेनाधिवासितैः ॥ 375 ॥

मूलम् - 375

मूलालयार्चया सार्धं परतन्त्रासु देशिकैः।
पवित्रारोहणं कार्यमङ्गत्वेनाधिवासितैः ॥ 375 ॥

विश्वास-प्रस्तुतिः - 376

पूरकेषु च सर्वेषु तथैवाग्रयणादिके।
खगेशविष्वक्‌सेनादिपरिवारगणेष्वपि ॥ 376 ॥

मूलम् - 376

पूरकेषु च सर्वेषु तथैवाग्रयणादिके।
खगेशविष्वक्‌सेनादिपरिवारगणेष्वपि ॥ 376 ॥

विश्वास-प्रस्तुतिः - 377

प्रतिष्ठितेषु गेहेषु पूज्यमाश्रयमूर्तिवत्।
अमूर्तस्य खगेशस्य विष्वक्‌सेनादिकस्य च ॥ 377 ॥

मूलम् - 377

प्रतिष्ठितेषु गेहेषु पूज्यमाश्रयमूर्तिवत्।
अमूर्तस्य खगेशस्य विष्वक्‌सेनादिकस्य च ॥ 377 ॥

विश्वास-प्रस्तुतिः - 378

कुमुदादिगणेशानां द्वारावरणवासिनाम्।
अन्येषां परिवाराणां महापीठनिवासिनाम् ॥ 378 ॥

मूलम् - 378

कुमुदादिगणेशानां द्वारावरणवासिनाम्।
अन्येषां परिवाराणां महापीठनिवासिनाम् ॥ 378 ॥

विश्वास-प्रस्तुतिः - 379

अग्रे नित्योत्सवार्चाया दद्यात् कालत्रये बलिम्।
साकारो वा निराकारो विष्वक्‌सेनो गणैः सह ॥ 379 ॥

मूलम् - 379

अग्रे नित्योत्सवार्चाया दद्यात् कालत्रये बलिम्।
साकारो वा निराकारो विष्वक्‌सेनो गणैः सह ॥ 379 ॥

विश्वास-प्रस्तुतिः - 380

यद्वा समर्चनीयश्च बल्यन्ते शिष्टवस्तुभिः।
नित्योत्सवं ततः कुर्यात् सर्वालंकारसंयुतम् ॥ 380 ॥

मूलम् - 380

यद्वा समर्चनीयश्च बल्यन्ते शिष्टवस्तुभिः।
नित्योत्सवं ततः कुर्यात् सर्वालंकारसंयुतम् ॥ 380 ॥

प्राङ्कणद्वारदेवानां बलिदानपुरस्सरम्। सनकः --- त्वया नित्योत्सवार्चायाः पुरस्ताद्भगवन्! मम ॥ 381 ॥
विश्वास-प्रस्तुतिः - 382

द्वारावरणदेवानां बलिदानमुदाहृतम्।
तद्विभागं विशेषेण वद मे सर्वसिद्धिदम् ॥ 382 ॥

मूलम् - 382

द्वारावरणदेवानां बलिदानमुदाहृतम्।
तद्विभागं विशेषेण वद मे सर्वसिद्धिदम् ॥ 382 ॥

शाण्डिल्यः ---
विश्वास-प्रस्तुतिः - 383

विस्तृतं तव वक्ष्यामि श्रृणु नित्योत्सवादिकम्।
कृतेन येन भक्तानामभीष्टं जायते फलम् ॥ 383 ॥

मूलम् - 383

विस्तृतं तव वक्ष्यामि श्रृणु नित्योत्सवादिकम्।
कृतेन येन भक्तानामभीष्टं जायते फलम् ॥ 383 ॥

विश्वास-प्रस्तुतिः - 384

नित्योत्सवार्थबिम्बं तु सौवर्णं राजतं तु वा।
ताम्रजं पैत्तलं वाथ नात्युच्चं तच्चतुर्भुजम् ॥ 384 ॥

मूलम् - 384

नित्योत्सवार्थबिम्बं तु सौवर्णं राजतं तु वा।
ताम्रजं पैत्तलं वाथ नात्युच्चं तच्चतुर्भुजम् ॥ 384 ॥

विश्वास-प्रस्तुतिः - 385

मूलबेरानुरूपं च स्थापितं पूजितं पुरा।
वस्त्राभरणमाल्यैश्च यथाशोभमलङ्‌कृतम् ॥ 385 ॥

मूलम् - 385

मूलबेरानुरूपं च स्थापितं पूजितं पुरा।
वस्त्राभरणमाल्यैश्च यथाशोभमलङ्‌कृतम् ॥ 385 ॥

विश्वास-प्रस्तुतिः - 386

मूलबिम्बगतां शक्तिं तस्मिन्नारोप्य मन्त्रतः।
समभ्यर्च्यार्घ्यपुष्पाद्यैर्भोगैर्धूपान्तिमैस्तथा ॥ 386 ॥

मूलम् - 386

मूलबिम्बगतां शक्तिं तस्मिन्नारोप्य मन्त्रतः।
समभ्यर्च्यार्घ्यपुष्पाद्यैर्भोगैर्धूपान्तिमैस्तथा ॥ 386 ॥

विश्वास-प्रस्तुतिः - 387

आप्तैराराधिते देवे स्वयंव्यक्तालयादिषु।
साधकं वरयेदन्यं बलिदानादिकर्मणि ॥ 387 ॥

मूलम् - 387

आप्तैराराधिते देवे स्वयंव्यक्तालयादिषु।
साधकं वरयेदन्यं बलिदानादिकर्मणि ॥ 387 ॥

विश्वास-प्रस्तुतिः - 388

पुरा गर्भगृहद्वारि तथा चैवाग्रमण्डपे।
घण्टानादसमेतेन दीपेन ज्वलितेन तु ॥ 388 ॥

मूलम् - 388

पुरा गर्भगृहद्वारि तथा चैवाग्रमण्डपे।
घण्टानादसमेतेन दीपेन ज्वलितेन तु ॥ 388 ॥

विश्वास-प्रस्तुतिः - 389

द्वार्स्थानर्घ्यादिधूपान्तैः समभ्यर्च्यार्घ्यवारिणा।
दत्वार्हणं ततश्चान्नं तर्पणाम्भस्ततः परम् ॥ 389 ॥

मूलम् - 389

द्वार्स्थानर्घ्यादिधूपान्तैः समभ्यर्च्यार्घ्यवारिणा।
दत्वार्हणं ततश्चान्नं तर्पणाम्भस्ततः परम् ॥ 389 ॥

विश्वास-प्रस्तुतिः - 390

ताम्बूलं च क्रमाद्दत्वा तत्तन्मन्त्रैरनुक्रमात्।
स्वर्णादिनिर्मितं यानं पुरस्तात् प्रथमाङ्कणे ॥ 390 ॥

मूलम् - 390

ताम्बूलं च क्रमाद्दत्वा तत्तन्मन्त्रैरनुक्रमात्।
स्वर्णादिनिर्मितं यानं पुरस्तात् प्रथमाङ्कणे ॥ 390 ॥

विश्वास-प्रस्तुतिः - 391

सुगन्धपुष्पप्रभया क्षौमैर्माल्यैः सितादिभिः।
यथाशोभमलंकृत्य तस्मिन् बल्यर्थकौतुकम् ॥ 391 ॥

मूलम् - 391

सुगन्धपुष्पप्रभया क्षौमैर्माल्यैः सितादिभिः।
यथाशोभमलंकृत्य तस्मिन् बल्यर्थकौतुकम् ॥ 391 ॥

विश्वास-प्रस्तुतिः - 392

प्राचीमुखं समारोप्य प्राङ्कणेषु प्रदक्षिणम्।
आतपत्रैः सिताद्यैश्च मायूरैः केतुयष्टिभिः ॥ 392 ॥

मूलम् - 392

प्राचीमुखं समारोप्य प्राङ्कणेषु प्रदक्षिणम्।
आतपत्रैः सिताद्यैश्च मायूरैः केतुयष्टिभिः ॥ 392 ॥

विश्वास-प्रस्तुतिः - 393

पताकाभिश्चामरैश्च तालवृन्तैश्च शोभनैः।
गणिकादेवदासीभिर्गायकैर्वाद्यसञ्चयैः ॥ 393 ॥

मूलम् - 393

पताकाभिश्चामरैश्च तालवृन्तैश्च शोभनैः।
गणिकादेवदासीभिर्गायकैर्वाद्यसञ्चयैः ॥ 393 ॥

विश्वास-प्रस्तुतिः - 394

भेरीपटहघोषैश्च श्रुतिघोषसमन्वितैः।
एवमाद्यैरलङ्कारैर्गोमयेनोपलेपिते ॥ 394 ॥

मूलम् - 394

भेरीपटहघोषैश्च श्रुतिघोषसमन्वितैः।
एवमाद्यैरलङ्कारैर्गोमयेनोपलेपिते ॥ 394 ॥

विश्वास-प्रस्तुतिः - 395

मण्डले हस्तमात्रे तु बलिदानपुरस्सरम्।
द्वारावरणदेवानां ध्यातानां वा स्वदिक्षु च ॥ 395 ॥

मूलम् - 395

मण्डले हस्तमात्रे तु बलिदानपुरस्सरम्।
द्वारावरणदेवानां ध्यातानां वा स्वदिक्षु च ॥ 395 ॥

विश्वास-प्रस्तुतिः - 396

वक्ष्यमाणविधानेन नियतोत्सवामाचरेत्।
पीठोर्ध्वे विष्णुभूतानां सगणानामथार्चनम् ॥ 396 ॥

मूलम् - 396

वक्ष्यमाणविधानेन नियतोत्सवामाचरेत्।
पीठोर्ध्वे विष्णुभूतानां सगणानामथार्चनम् ॥ 396 ॥

विश्वास-प्रस्तुतिः - 397

कृत्वा समुत्किरेच्छेषं तृप्त्यर्थं सोदकं बलिम्।
पीठं प्रदक्षिणं नीत्वा चतुर्धा वा द्विधा तथा ॥ 397 ॥

मूलम् - 397

कृत्वा समुत्किरेच्छेषं तृप्त्यर्थं सोदकं बलिम्।
पीठं प्रदक्षिणं नीत्वा चतुर्धा वा द्विधा तथा ॥ 397 ॥

विश्वास-प्रस्तुतिः - 398

सन्तोष्य नृत्तगीताद्यैर्देवमन्तः प्रेवशयेत्।
प्राङ्कणेषु विशालेषु बहिष्ठेषु च सादरम् ॥ 398 ॥

मूलम् - 398

सन्तोष्य नृत्तगीताद्यैर्देवमन्तः प्रेवशयेत्।
प्राङ्कणेषु विशालेषु बहिष्ठेषु च सादरम् ॥ 398 ॥

विश्वास-प्रस्तुतिः - 399

मण्डितं रथमारोप्य परिभ्रमणमाचरेत्।
यानादेरवरोप्याथ पादुके विनिवेद्य च ॥ 399 ॥

मूलम् - 399

मण्डितं रथमारोप्य परिभ्रमणमाचरेत्।
यानादेरवरोप्याथ पादुके विनिवेद्य च ॥ 399 ॥

विश्वास-प्रस्तुतिः - 400

अग्रमण्डपभूमिष्ठे भद्रपीठे निवेश्य च।
पाद्यार्घ्याचमनाम्भोभिः चन्दनाद्यनुलेपनैः ॥ 400 ॥

मूलम् - 400

अग्रमण्डपभूमिष्ठे भद्रपीठे निवेश्य च।
पाद्यार्घ्याचमनाम्भोभिः चन्दनाद्यनुलेपनैः ॥ 400 ॥

विश्वास-प्रस्तुतिः - 401

माल्यैर्नानाविधैश्चापि धूपैस्ताम्बूलपश्चिमैः।
अभ्यर्च्य श्रमशान्त्यर्थं स्वस्थाने सन्निवेशयेत् ॥ 401 ॥

मूलम् - 401

माल्यैर्नानाविधैश्चापि धूपैस्ताम्बूलपश्चिमैः।
अभ्यर्च्य श्रमशान्त्यर्थं स्वस्थाने सन्निवेशयेत् ॥ 401 ॥

विश्वास-प्रस्तुतिः - 402

आदौ निवेशितां शक्तिं तस्मिन् मूले नियोज्य च।
तमभ्यर्च्यार्घ्यगन्धाद्यैः प्रणमेत् स्तुतिपूर्वकम् ॥ 402 ॥

मूलम् - 402

आदौ निवेशितां शक्तिं तस्मिन् मूले नियोज्य च।
तमभ्यर्च्यार्घ्यगन्धाद्यैः प्रणमेत् स्तुतिपूर्वकम् ॥ 402 ॥

विश्वास-प्रस्तुतिः - 403

त्रिकालं यत्र विधिवत् क्रियते नियतोत्सवः।
तत्र सर्वसमृद्धिः स्याद्राज्ञो राष्ट्रस्य चानिशम् ॥ 403 ॥

मूलम् - 403

त्रिकालं यत्र विधिवत् क्रियते नियतोत्सवः।
तत्र सर्वसमृद्धिः स्याद्राज्ञो राष्ट्रस्य चानिशम् ॥ 403 ॥

विश्वास-प्रस्तुतिः - 404

अभावे बलिबिम्बस्य हेतुनाऽसन्निधीकृते।
कूर्चेन वान्नमूर्त्या वा कुर्यान्नित्योत्सवं ततः ॥ 404 ॥

मूलम् - 404

अभावे बलिबिम्बस्य हेतुनाऽसन्निधीकृते।
कूर्चेन वान्नमूर्त्या वा कुर्यान्नित्योत्सवं ततः ॥ 404 ॥

विश्वास-प्रस्तुतिः - 405

निश्शेषस्योपसंहारं कृत्वा चार्घ्यादिकस्य च।
नत्वा स्तुत्वा च देवेशं ततः पाद्यप्रतिग्रहात् ॥ 405 ॥

मूलम् - 405

निश्शेषस्योपसंहारं कृत्वा चार्घ्यादिकस्य च।
नत्वा स्तुत्वा च देवेशं ततः पाद्यप्रतिग्रहात् ॥ 405 ॥

विश्वास-प्रस्तुतिः - 406

पादोदकं समादाया विग्रहं सेचयेत् स्वक्म्।
भुक्तानि पत्रपुष्पाणि निदद्यान्मूर्धनि स्वके ॥ 406 ॥

मूलम् - 406

पादोदकं समादाया विग्रहं सेचयेत् स्वक्म्।
भुक्तानि पत्रपुष्पाणि निदद्यान्मूर्धनि स्वके ॥ 406 ॥

विश्वास-प्रस्तुतिः - 407

पुष्पार्घ्यगन्धपूर्वाणां देवयज्ञे कृते सति।
विनयादाहृतानां च भक्तानां मन्त्रसेविनाम् ॥ 407 ॥

मूलम् - 407

पुष्पार्घ्यगन्धपूर्वाणां देवयज्ञे कृते सति।
विनयादाहृतानां च भक्तानां मन्त्रसेविनाम् ॥ 407 ॥

विश्वास-प्रस्तुतिः - 408

मूर्ध्नि सन्धारणाच्छश्वद्दौर्भाग्यं क्षयमेति च।
कीर्तिं कान्तिं श्रियारोग्यं सिद्धिं समुपयाति च ॥ 408 ॥

मूलम् - 408

मूर्ध्नि सन्धारणाच्छश्वद्दौर्भाग्यं क्षयमेति च।
कीर्तिं कान्तिं श्रियारोग्यं सिद्धिं समुपयाति च ॥ 408 ॥

विश्वास-प्रस्तुतिः - 409

पश्चाच्छरीरयात्रार्थमब्यर्थ्य परमेश्वरम्।
लब्धानुज्ञस्तु वै कुर्यादनुयागं यथाविधि ॥ 409 ॥

मूलम् - 409

पश्चाच्छरीरयात्रार्थमब्यर्थ्य परमेश्वरम्।
लब्धानुज्ञस्तु वै कुर्यादनुयागं यथाविधि ॥ 409 ॥

विश्वास-प्रस्तुतिः - 410

प्रविश्य भोजनस्थानं विविक्तं दोषवर्जितम्।
घृतपूरितपात्रस्थं दीपमारोप्य वै ततः ॥ 410 ॥

मूलम् - 410

प्रविश्य भोजनस्थानं विविक्तं दोषवर्जितम्।
घृतपूरितपात्रस्थं दीपमारोप्य वै ततः ॥ 410 ॥

विश्वास-प्रस्तुतिः - 411

गोमयेनोपलिप्याथ तुर्यश्रं तत्र मण्डलम्।
प्रणवेन प्रतिष्ठाप्य तन्मध्ये फलकादिकम् ॥ 411 ॥

मूलम् - 411

गोमयेनोपलिप्याथ तुर्यश्रं तत्र मण्डलम्।
प्रणवेन प्रतिष्ठाप्य तन्मध्ये फलकादिकम् ॥ 411 ॥

विश्वास-प्रस्तुतिः - 412

प्रक्षालिताङ्घ्रिः स्वाचान्तस्तन्मद्ये चोपविश्य च।
भोज्यं नैवेद्यपूर्वं तु सर्वमादाय पात्रगम् ॥ 412 ॥

मूलम् - 412

प्रक्षालिताङ्घ्रिः स्वाचान्तस्तन्मद्ये चोपविश्य च।
भोज्यं नैवेद्यपूर्वं तु सर्वमादाय पात्रगम् ॥ 412 ॥

विश्वास-प्रस्तुतिः - 413

विनिवेद्य च देवाय पवित्रीकृत्य चाम्भसा।
सत्यरूपा ह्यलक्ष्या चाप्यन्नदोषक्षयङ्करी ॥ 413 ॥

मूलम् - 413

विनिवेद्य च देवाय पवित्रीकृत्य चाम्भसा।
सत्यरूपा ह्यलक्ष्या चाप्यन्नदोषक्षयङ्करी ॥ 413 ॥

विश्वास-प्रस्तुतिः - 414

चेतसा चातुरात्मीया भावनीया च भावना।
रसात्माध्यक्षसंज्ञोऽन्ने स्वादुभावे व्यवस्थितः ॥ 414 ॥

मूलम् - 414

चेतसा चातुरात्मीया भावनीया च भावना।
रसात्माध्यक्षसंज्ञोऽन्ने स्वादुभावे व्यवस्थितः ॥ 414 ॥

विश्वास-प्रस्तुतिः - 415

“प्रद्युम्नो भगवान् रूपे त्वेतद्वीर्ये तु लाङ्गली।
भोक्ताहमात्मा भगवान् वासुदेवः स्वयं त्वजः ॥ 415 ॥

मूलम् - 415

“प्रद्युम्नो भगवान् रूपे त्वेतद्वीर्ये तु लाङ्गली।
भोक्ताहमात्मा भगवान् वासुदेवः स्वयं त्वजः ॥ 415 ॥

विश्वास-प्रस्तुतिः - 416

इदं तदमृतं ब्रह्न इदमायुरनश्वरम्।
इदं ज्ञानमिदं वीर्यमिदं तेजस्तु वैष्णवम् ॥ 416 ॥

मूलम् - 416

इदं तदमृतं ब्रह्न इदमायुरनश्वरम्।
इदं ज्ञानमिदं वीर्यमिदं तेजस्तु वैष्णवम् ॥ 416 ॥

विश्वास-प्रस्तुतिः - 417

इदमिन्दुरखण्डश्च स्थितं चान्नात्मना स्वयम्।
पर्जन्यात्मा स भगवान् व्यञ्जनस्थितिसिद्धये ॥ 417 ॥

मूलम् - 417

इदमिन्दुरखण्डश्च स्थितं चान्नात्मना स्वयम्।
पर्जन्यात्मा स भगवान् व्यञ्जनस्थितिसिद्धये ॥ 417 ॥

विश्वास-प्रस्तुतिः - 418

हार्दानलात्मना भुङ्‌क्ते ह्यद्यक्षः परमेश्वरः।
तच्छक्त्यानुगृहीतत्वात् सोऽहं प्राकृतिकः पुमान्” ॥ 418 ॥

मूलम् - 418

हार्दानलात्मना भुङ्‌क्ते ह्यद्यक्षः परमेश्वरः।
तच्छक्त्यानुगृहीतत्वात् सोऽहं प्राकृतिकः पुमान्” ॥ 418 ॥

विश्वास-प्रस्तुतिः - 419

एवमन्नदमन्नादं ज्ञेयमन्नं पुरः स्थितम्।
बाह्यतस्चाज्यदानेन संबोधमुपयाति च ॥ 419 ॥

मूलम् - 419

एवमन्नदमन्नादं ज्ञेयमन्नं पुरः स्थितम्।
बाह्यतस्चाज्यदानेन संबोधमुपयाति च ॥ 419 ॥

विश्वास-प्रस्तुतिः - 420

यथा तथा म्बुनाभ्येति देहस्थो हुतभुक् प्रभुः।
कारणं रसमन्नस्य षड्‌गुणं षड्रसस्य च ॥ 420 ॥

मूलम् - 420

यथा तथा म्बुनाभ्येति देहस्थो हुतभुक् प्रभुः।
कारणं रसमन्नस्य षड्‌गुणं षड्रसस्य च ॥ 420 ॥

विश्वास-प्रस्तुतिः - 421

आत्मा ब्रह्नाऽदनात्मा स्यादीषत्तत्करणात्मना।
साम्मुक्यमात्मनो नीत्वा ततोऽन्नं जुहुयाच्छनैः ॥ 421 ॥

मूलम् - 421

आत्मा ब्रह्नाऽदनात्मा स्यादीषत्तत्करणात्मना।
साम्मुक्यमात्मनो नीत्वा ततोऽन्नं जुहुयाच्छनैः ॥ 421 ॥

विश्वास-प्रस्तुतिः - 422

चतुः प्रणवसञ्जप्तं ततोम्भश्चुलकं पिबेत्।
वक्त्रकुण्डेऽथ तेनैवाप्यन्नाहुतिचतुष्टयम् ॥ 422 ॥

मूलम् - 422

चतुः प्रणवसञ्जप्तं ततोम्भश्चुलकं पिबेत्।
वक्त्रकुण्डेऽथ तेनैवाप्यन्नाहुतिचतुष्टयम् ॥ 422 ॥

विश्वास-प्रस्तुतिः - 423

प्रान्तपर्वैश्चतुर्धा प्राक् चातुरात्म्यव्यपेक्षया।
त्रियपेक्षावशेनैव जुहुयादाहुतित्रयम् ॥ 423 ॥

मूलम् - 423

प्रान्तपर्वैश्चतुर्धा प्राक् चातुरात्म्यव्यपेक्षया।
त्रियपेक्षावशेनैव जुहुयादाहुतित्रयम् ॥ 423 ॥

विश्वास-प्रस्तुतिः - 424

सहृदा मूलमन्त्रेण भुञ्जीयात् कबलैस्ततः।
प्रयतास्यकरश्चान्ते पिबेन्मन्त्राभिमन्त्रितम् ॥ 424 ॥

मूलम् - 424

सहृदा मूलमन्त्रेण भुञ्जीयात् कबलैस्ततः।
प्रयतास्यकरश्चान्ते पिबेन्मन्त्राभिमन्त्रितम् ॥ 424 ॥

विश्वास-प्रस्तुतिः - 425

तोयं तद्‌ध्यानपादाब्जपरिस्रुतमथापि वा।
प्रतिष्ठितस्य वा पूर्वं तदा कृतिधरस्य च ॥ 425 ॥

मूलम् - 425

तोयं तद्‌ध्यानपादाब्जपरिस्रुतमथापि वा।
प्रतिष्ठितस्य वा पूर्वं तदा कृतिधरस्य च ॥ 425 ॥

विश्वास-प्रस्तुतिः - 426

यतस्तत् सर्वपापघ्नं सर्वदोषक्षयङ्करम्।
सर्वोपतापशमनं सर्वसौख्यप्रदं सदा ॥ 426 ॥

मूलम् - 426

यतस्तत् सर्वपापघ्नं सर्वदोषक्षयङ्करम्।
सर्वोपतापशमनं सर्वसौख्यप्रदं सदा ॥ 426 ॥

विश्वास-प्रस्तुतिः - 427

पावनं सर्वतीर्थेभ्यो मन्त्रेभ्यो मुनिसत्तम!।
अतस्तु भोजनान्ते वै हार्धाग्नेस्तर्पणं पुरा ॥ 427 ॥

मूलम् - 427

पावनं सर्वतीर्थेभ्यो मन्त्रेभ्यो मुनिसत्तम!।
अतस्तु भोजनान्ते वै हार्धाग्नेस्तर्पणं पुरा ॥ 427 ॥

विश्वास-प्रस्तुतिः - 428

भावभक्तिपरो नित्यं कं पिबेदाज्यदो भवेत्।
ब्रह्नतीर्थेन च शनैद्बिर्वा त्रिर्वा चतुः क्रमात् ॥ 428 ॥

मूलम् - 428

भावभक्तिपरो नित्यं कं पिबेदाज्यदो भवेत्।
ब्रह्नतीर्थेन च शनैद्बिर्वा त्रिर्वा चतुः क्रमात् ॥ 428 ॥

विश्वास-प्रस्तुतिः - 429

समाचम्य पुनर्यायात् प्रयतो भगवद्‌गृहम्।
मनोबुध्यभिमानेन सह न्यस्य धरातले ॥ 429 ॥

मूलम् - 429

समाचम्य पुनर्यायात् प्रयतो भगवद्‌गृहम्।
मनोबुध्यभिमानेन सह न्यस्य धरातले ॥ 429 ॥

विश्वास-प्रस्तुतिः - 430

कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम्।
प्रदक्षिणसमेतेन त्वेवं रूपेण सर्वदा ॥ 430 ॥

मूलम् - 430

कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम्।
प्रदक्षिणसमेतेन त्वेवं रूपेण सर्वदा ॥ 430 ॥

विश्वास-प्रस्तुतिः - 431

अष्टाह्गेन नमस्कुर्याद्‌द्वादशार्णं समुच्चरन्।
यत्र द्वादशकालेज्या कर्तव्या भूतिविस्तरात् ॥ 431 ॥

मूलम् - 431

अष्टाह्गेन नमस्कुर्याद्‌द्वादशार्णं समुच्चरन्।
यत्र द्वादशकालेज्या कर्तव्या भूतिविस्तरात् ॥ 431 ॥

विश्वास-प्रस्तुतिः - 432

तत्र प्राभातिकीं कुर्यात् पूजामष्टाङ्गसंयुताम्।
अह्गद्वयं तु पास्चात्यं विना वा तां समाष्य च ॥ 432 ॥

मूलम् - 432

तत्र प्राभातिकीं कुर्यात् पूजामष्टाङ्गसंयुताम्।
अह्गद्वयं तु पास्चात्यं विना वा तां समाष्य च ॥ 432 ॥

विश्वास-प्रस्तुतिः - 433

पितॄणां संविभागं च अनुयागं यथोदितम्।
देशिकः स्वेच्छया कुर्यान्नित्यं मध्यन्दिनार्चने ॥ 433 ॥

मूलम् - 433

पितॄणां संविभागं च अनुयागं यथोदितम्।
देशिकः स्वेच्छया कुर्यान्नित्यं मध्यन्दिनार्चने ॥ 433 ॥

विश्वास-प्रस्तुतिः - 434

त्रिकालेष्वेकमष्टाङ्गं षडङ्गं चाचरेद्‌द्वयम्।
योगार्थिनां च स्वाध्यायं योगमध्यात्मसंज्ञितम् ॥ 434 ॥

मूलम् - 434

त्रिकालेष्वेकमष्टाङ्गं षडङ्गं चाचरेद्‌द्वयम्।
योगार्थिनां च स्वाध्यायं योगमध्यात्मसंज्ञितम् ॥ 434 ॥

विश्वास-प्रस्तुतिः - 435

तत्तत्कालेषु कुर्वीत स्वाध्यायमधुनोच्यते।
अष्टाङ्गेन नमस्कृत्य ह्‌युपविश्याग्रतो विभोः ॥ 435 ॥

मूलम् - 435

तत्तत्कालेषु कुर्वीत स्वाध्यायमधुनोच्यते।
अष्टाङ्गेन नमस्कृत्य ह्‌युपविश्याग्रतो विभोः ॥ 435 ॥

विश्वास-प्रस्तुतिः - 436

आगमाध्ययनं कुर्यात्तद्वाक्यार्थविचारणम्।
प्राप्तेऽथ सन्ध्यासमये स्नात्वा वा जघनावधि ॥ 436 ॥

मूलम् - 436

आगमाध्ययनं कुर्यात्तद्वाक्यार्थविचारणम्।
प्राप्तेऽथ सन्ध्यासमये स्नात्वा वा जघनावधि ॥ 436 ॥

विश्वास-प्रस्तुतिः - 437

क्षालयित्वा ततः कुर्याद्वाससां परिवर्तनम्।
सायन्तनार्चनं कुर्यात् षडङ्गं बलिपश्चिमम् ॥ 437 ॥

मूलम् - 437

क्षालयित्वा ततः कुर्याद्वाससां परिवर्तनम्।
सायन्तनार्चनं कुर्यात् षडङ्गं बलिपश्चिमम् ॥ 437 ॥

विश्वास-प्रस्तुतिः - 438

जपं कृत्वा यथाशक्ति स्वासाद्य शयनं ततः।
समाधाय बहिर्देवं निरालम्बपदे स्थितम् ॥ 438 ॥

मूलम् - 438

जपं कृत्वा यथाशक्ति स्वासाद्य शयनं ततः।
समाधाय बहिर्देवं निरालम्बपदे स्थितम् ॥ 438 ॥

विश्वास-प्रस्तुतिः - 439

अप्रयत्रेन वै तावदनिरुद्धेन चेतसा।
सह तेनैव ते निद्रा यावदभ्येति साम्प्रतम् ॥ 439 ॥

मूलम् - 439

अप्रयत्रेन वै तावदनिरुद्धेन चेतसा।
सह तेनैव ते निद्रा यावदभ्येति साम्प्रतम् ॥ 439 ॥

विश्वास-प्रस्तुतिः - 440

समुत्थायार्धरात्रेऽथ जितनिद्रो जितश्रमः।
कमण्डलुस्थिनेनैव समाचम्य तु वारिणा ॥ 440 ॥

मूलम् - 440

समुत्थायार्धरात्रेऽथ जितनिद्रो जितश्रमः।
कमण्डलुस्थिनेनैव समाचम्य तु वारिणा ॥ 440 ॥

विश्वास-प्रस्तुतिः - 441

अथ योगविभूत्यर्थं योगं युञ्जीत वैष्णवम्।
सुगुप्ते विजने देशे निर्द्वन्द्वे शुभलक्षणे ॥ 441 ॥

मूलम् - 441

अथ योगविभूत्यर्थं योगं युञ्जीत वैष्णवम्।
सुगुप्ते विजने देशे निर्द्वन्द्वे शुभलक्षणे ॥ 441 ॥

विश्वास-प्रस्तुतिः - 442

जितदर्पां मतिं कृत्वा सर्वभूतहिते स्थितः।
देवाग्निगुरुभक्तश्च सच्छास्त्राभिरतः सदा ॥ 442 ॥

मूलम् - 442

जितदर्पां मतिं कृत्वा सर्वभूतहिते स्थितः।
देवाग्निगुरुभक्तश्च सच्छास्त्राभिरतः सदा ॥ 442 ॥

विश्वास-प्रस्तुतिः - 443

भूतद्रोहपरित्यागी अस्तेयः संयतेन्द्रियः।
आसने चोपविष्टस्तु सुशुभे लक्षणान्विते ॥ 443 ॥

मूलम् - 443

भूतद्रोहपरित्यागी अस्तेयः संयतेन्द्रियः।
आसने चोपविष्टस्तु सुशुभे लक्षणान्विते ॥ 443 ॥

विश्वास-प्रस्तुतिः - 444

शुभदारुसमुत्थे तु चतुर्विशाङ्‌गुलायते।
द्वादशाङ्‌गुलकोत्सेधे सुधौतेनापि वाससा ॥ 444 ॥

मूलम् - 444

शुभदारुसमुत्थे तु चतुर्विशाङ्‌गुलायते।
द्वादशाङ्‌गुलकोत्सेधे सुधौतेनापि वाससा ॥ 444 ॥

विश्वास-प्रस्तुतिः - 445

कुशैश्च मृदुभिश्छन्ने पवित्रेणाथ चर्मणा।
तत्रोपविष्टः सततं योगाङ्गानि समभ्यसेत् ॥ 445 ॥

मूलम् - 445

कुशैश्च मृदुभिश्छन्ने पवित्रेणाथ चर्मणा।
तत्रोपविष्टः सततं योगाङ्गानि समभ्यसेत् ॥ 445 ॥

विश्वास-प्रस्तुतिः - 446

रेचकादिचतुर्भिस्तु मात्राभेदकृतैस्तु यः।
कनीयान् मध्यमो ज्येष्ठः प्राणायामः प्रकीर्तितः ॥ 446 ॥

मूलम् - 446

रेचकादिचतुर्भिस्तु मात्राभेदकृतैस्तु यः।
कनीयान् मध्यमो ज्येष्ठः प्राणायामः प्रकीर्तितः ॥ 446 ॥

विश्वास-प्रस्तुतिः - 447

प्रत्याहारं प्रकुर्वीत चित्तसंयमनं तु यत्।
बुद्धिर्मनस्त्वहङ्कारस्त्रिभिश्चित्तं प्रकीर्तितम् ॥ 447 ॥

मूलम् - 447

प्रत्याहारं प्रकुर्वीत चित्तसंयमनं तु यत्।
बुद्धिर्मनस्त्वहङ्कारस्त्रिभिश्चित्तं प्रकीर्तितम् ॥ 447 ॥

विश्वास-प्रस्तुतिः - 448

तथापि मनसः कुर्यात् प्रत्याहारं प्रयत्नतः।
मनश्चतुर्विधं प्रोक्तं प्रत्याहारेण निर्जितम् ॥ 448 ॥

मूलम् - 448

तथापि मनसः कुर्यात् प्रत्याहारं प्रयत्नतः।
मनश्चतुर्विधं प्रोक्तं प्रत्याहारेण निर्जितम् ॥ 448 ॥

विश्वास-प्रस्तुतिः - 449

तिष्ठते लक्ष्यमार्गे तु नान्यथा तु कदाचन।
ध्यानं लक्ष्यस्य निष्पत्तिश्चिन्तनं तत् प्रकीर्तितम् ॥ 449 ॥

मूलम् - 449

तिष्ठते लक्ष्यमार्गे तु नान्यथा तु कदाचन।
ध्यानं लक्ष्यस्य निष्पत्तिश्चिन्तनं तत् प्रकीर्तितम् ॥ 449 ॥

विश्वास-प्रस्तुतिः - 450

धारणापि ततो धार्या तदा पापापनुत्तये।
पञ्चधा पूर्ववत् सा तु प्रतिमन्त्रव्यवस्थया ॥ 450 ॥

मूलम् - 450

धारणापि ततो धार्या तदा पापापनुत्तये।
पञ्चधा पूर्ववत् सा तु प्रतिमन्त्रव्यवस्थया ॥ 450 ॥

विश्वास-प्रस्तुतिः - 451

जपं निमीलिताक्षेण कुर्यान्मन्त्रस्य वाचकम्।
वाच्यस्य प्रतिपत्यर्थं बीजपिण्डपदात्मकम् ॥ 451 ॥

मूलम् - 451

जपं निमीलिताक्षेण कुर्यान्मन्त्रस्य वाचकम्।
वाच्यस्य प्रतिपत्यर्थं बीजपिण्डपदात्मकम् ॥ 451 ॥

विश्वास-प्रस्तुतिः - 452

त्रिविधं वै समुद्दिष्टं प्रागुक्तविधिभावितम्।
योगोऽपि त्रिविधः प्रोक्तस्तं च कार्त्स्न्येन मे श्रृणृ ॥ 452 ॥

मूलम् - 452

त्रिविधं वै समुद्दिष्टं प्रागुक्तविधिभावितम्।
योगोऽपि त्रिविधः प्रोक्तस्तं च कार्त्स्न्येन मे श्रृणृ ॥ 452 ॥

विश्वास-प्रस्तुतिः - 453

प्राकृतं पौरुषं चैव ऐश्वरं च तृतीयकम्।
ऊहस्तु कीर्त्यते तर्कः तं च विद्धि विचारकम् ॥ 453 ॥

मूलम् - 453

प्राकृतं पौरुषं चैव ऐश्वरं च तृतीयकम्।
ऊहस्तु कीर्त्यते तर्कः तं च विद्धि विचारकम् ॥ 453 ॥

विश्वास-प्रस्तुतिः - 454

समाधिस्त्वात्मलाभस्तु भानन्दः परिकीर्तितः।
स तु लक्ष्यं परित्यज्य मन्त्रोच्चारणवर्जितः ॥ 454 ॥

मूलम् - 454

समाधिस्त्वात्मलाभस्तु भानन्दः परिकीर्तितः।
स तु लक्ष्यं परित्यज्य मन्त्रोच्चारणवर्जितः ॥ 454 ॥

विश्वास-प्रस्तुतिः - 455

यदा विभज्यते ब्रह्नकलांशो विधिवर्जिंतः।
समाधौ परिनिष्पन्ने परमाप्नोति पूरुषम् ॥ 455 ॥

मूलम् - 455

यदा विभज्यते ब्रह्नकलांशो विधिवर्जिंतः।
समाधौ परिनिष्पन्ने परमाप्नोति पूरुषम् ॥ 455 ॥

विश्वास-प्रस्तुतिः - 456

प्राणायामादितो यावत् समाध्यन्तं प्रकीर्तितम्।
द्गिगुणं त्रिगुणं चैव मात्राभेदेन संस्थितम् ॥ 456 ॥

मूलम् - 456

प्राणायामादितो यावत् समाध्यन्तं प्रकीर्तितम्।
द्गिगुणं त्रिगुणं चैव मात्राभेदेन संस्थितम् ॥ 456 ॥

विश्वास-प्रस्तुतिः - 457

योगासनस्थः कुर्वीत विधिमेवं यथोदितम्।
योगासनानि चत्वारि योगपट्टेन बन्धयेत् ॥ 457 ॥

मूलम् - 457

योगासनस्थः कुर्वीत विधिमेवं यथोदितम्।
योगासनानि चत्वारि योगपट्टेन बन्धयेत् ॥ 457 ॥

विश्वास-प्रस्तुतिः - 458

पर्यङ्कं कमलं वापि भद्रं वा स्वस्तिकं दृढम्।
तेषामेकतमे स्थित्वा ऋजुकायोर्ध्वतः क्रमात् ॥ 458 ॥

मूलम् - 458

पर्यङ्कं कमलं वापि भद्रं वा स्वस्तिकं दृढम्।
तेषामेकतमे स्थित्वा ऋजुकायोर्ध्वतः क्रमात् ॥ 458 ॥

विश्वास-प्रस्तुतिः - 459

स्रस्ताह्गसन्धिः कुर्वीत विस्तीर्णोरुः सुकन्धरः।
बाहू उपरि समौ कृत्वा किञ्चिदाकुञ्चयेच्छिरः ॥ 459 ॥

मूलम् - 459

स्रस्ताह्गसन्धिः कुर्वीत विस्तीर्णोरुः सुकन्धरः।
बाहू उपरि समौ कृत्वा किञ्चिदाकुञ्चयेच्छिरः ॥ 459 ॥

विश्वास-प्रस्तुतिः - 460

नाभौ जघनमद्ये तु हस्तौ कच्छपवत् स्थितौ।
सव्यस्य चोपरिस्थं तु वामे सव्यं तथापि वा ॥ 460 ॥

मूलम् - 460

नाभौ जघनमद्ये तु हस्तौ कच्छपवत् स्थितौ।
सव्यस्य चोपरिस्थं तु वामे सव्यं तथापि वा ॥ 460 ॥

विश्वास-प्रस्तुतिः - 461

उत्तानौ तु करौ कृत्वा कच्छपी तान्नियोजयेत्।
ग्रीवां तु हृदयाद्यन्तां नातिस्तब्धां न कुञ्चिताम् ॥ 461 ॥

मूलम् - 461

उत्तानौ तु करौ कृत्वा कच्छपी तान्नियोजयेत्।
ग्रीवां तु हृदयाद्यन्तां नातिस्तब्धां न कुञ्चिताम् ॥ 461 ॥

विश्वास-प्रस्तुतिः - 462

किञ्चिन्निमीलयेन्नेत्रे नासाग्रमवलोकयन्।
समुद्नवत् पिधायास्यं दन्तैर्दन्तानसंस्पृशन् ॥ 462 ॥

मूलम् - 462

किञ्चिन्निमीलयेन्नेत्रे नासाग्रमवलोकयन्।
समुद्नवत् पिधायास्यं दन्तैर्दन्तानसंस्पृशन् ॥ 462 ॥

विश्वास-प्रस्तुतिः - 463

सगर्भं योगमातिष्ठेन्निर्गर्भं बा सुयन्त्रितः।
ततः प्रमथयेद्वायुं प्राणाख्यं चित्तसंयुतम् ॥ 463 ॥

मूलम् - 463

सगर्भं योगमातिष्ठेन्निर्गर्भं बा सुयन्त्रितः।
ततः प्रमथयेद्वायुं प्राणाख्यं चित्तसंयुतम् ॥ 463 ॥

विश्वास-प्रस्तुतिः - 464

रेचकादिचतुर्भेदैः प्राणायामः प्रकीर्तितः।
चित्तं जयेत् सदा यत्नाता दुर्जयं देवदानवैः ॥ 464 ॥

मूलम् - 464

रेचकादिचतुर्भेदैः प्राणायामः प्रकीर्तितः।
चित्तं जयेत् सदा यत्नाता दुर्जयं देवदानवैः ॥ 464 ॥

विश्वास-प्रस्तुतिः - 465

यद्यप्यभ्यासवैराग्यैः चित्तं संयम्यते बलात्।
तथापि यत्नमातिष्ठेदुपाधीनां तु वर्जने ॥ 465 ॥

मूलम् - 465

यद्यप्यभ्यासवैराग्यैः चित्तं संयम्यते बलात्।
तथापि यत्नमातिष्ठेदुपाधीनां तु वर्जने ॥ 465 ॥

विश्वास-प्रस्तुतिः - 466

द्विविधास्ते तु विज्ञेयाः सन्निकृष्टा मनोगताः।
सन्निकृष्ठाः स्थानकृताश्चित्तोत्था वासनाकृताः ॥ 466 ॥

मूलम् - 466

द्विविधास्ते तु विज्ञेयाः सन्निकृष्टा मनोगताः।
सन्निकृष्ठाः स्थानकृताश्चित्तोत्था वासनाकृताः ॥ 466 ॥

विश्वास-प्रस्तुतिः - 467

न दंशमशकाकीर्णे निश्शब्दे गन्धवर्जिते।
निमीलिताक्षः सन्तिष्ठेत् सर्वेन्द्रियविवर्जितः ॥ 467 ॥

मूलम् - 467

न दंशमशकाकीर्णे निश्शब्दे गन्धवर्जिते।
निमीलिताक्षः सन्तिष्ठेत् सर्वेन्द्रियविवर्जितः ॥ 467 ॥

विश्वास-प्रस्तुतिः - 468

एवं परित्यजेत् सर्वानुपाधीन् सन्निकर्षजान्।
वासनोत्थांश्च विविधान् सम्यक् लक्ष्यं समास्थिः ॥ 468 ॥

मूलम् - 468

एवं परित्यजेत् सर्वानुपाधीन् सन्निकर्षजान्।
वासनोत्थांश्च विविधान् सम्यक् लक्ष्यं समास्थिः ॥ 468 ॥

विश्वास-प्रस्तुतिः - 469

प्रत्याहरेत् सदा चित्तं विक्षिप्तं सर्ववस्तुषु।
तामसं तत्तु बोद्धव्यं चित्तं सर्वगतं तदा ॥ 469 ॥

मूलम् - 469

प्रत्याहरेत् सदा चित्तं विक्षिप्तं सर्ववस्तुषु।
तामसं तत्तु बोद्धव्यं चित्तं सर्वगतं तदा ॥ 469 ॥

विश्वास-प्रस्तुतिः - 470

गतं रागादितो ज्ञेयमभ्यासाद्राजसं तु तत्।
तत् साधु कथ्यते चित्तं संश्लिष्टं लक्ष्यगोचरे ॥ 470 ॥

मूलम् - 470

गतं रागादितो ज्ञेयमभ्यासाद्राजसं तु तत्।
तत् साधु कथ्यते चित्तं संश्लिष्टं लक्ष्यगोचरे ॥ 470 ॥

विश्वास-प्रस्तुतिः - 471

सुलीनं च ततो ज्ञेयं गुणातीतं तपोधन!।
ध्यानमेवंविधं कुर्यात् सगर्भं प्राणनिग्रहे ॥ 471 ॥

मूलम् - 471

सुलीनं च ततो ज्ञेयं गुणातीतं तपोधन!।
ध्यानमेवंविधं कुर्यात् सगर्भं प्राणनिग्रहे ॥ 471 ॥

विश्वास-प्रस्तुतिः - 472

उच्यते च ततो भूयस्त्रिविधा योगिनां गतिः।
सकलं निष्कलं विष्णुं तृतीयं पररूपि च ॥ 472 ॥

मूलम् - 472

उच्यते च ततो भूयस्त्रिविधा योगिनां गतिः।
सकलं निष्कलं विष्णुं तृतीयं पररूपि च ॥ 472 ॥

विश्वास-प्रस्तुतिः - 473

अन्यत्तत् त्रिविधं ज्ञेयं शब्दं व्योमसविग्रह्णम्।
विग्रहं देवदेवस्य लक्ष्यरूपं विचिन्तयेत् ॥ 473 ॥

मूलम् - 473

अन्यत्तत् त्रिविधं ज्ञेयं शब्दं व्योमसविग्रह्णम्।
विग्रहं देवदेवस्य लक्ष्यरूपं विचिन्तयेत् ॥ 473 ॥

विश्वास-प्रस्तुतिः - 474

ध्यानमेवं समुद्दिष्टं यावद्व्योमान्तिकं भवेत्।
तावच्च भावयेल्लक्ष्यं यावल्लक्ष्यं न भावयेत् ॥ 474 ॥

मूलम् - 474

ध्यानमेवं समुद्दिष्टं यावद्व्योमान्तिकं भवेत्।
तावच्च भावयेल्लक्ष्यं यावल्लक्ष्यं न भावयेत् ॥ 474 ॥

विश्वास-प्रस्तुतिः - 475

भावे ह्यभावमापन्ने सस्वभावः परः स्मृतः।
स्थूलं पूर्वं समब्यस्य ततः सूक्ष्मं ततः परम् ॥ 475 ॥

मूलम् - 475

भावे ह्यभावमापन्ने सस्वभावः परः स्मृतः।
स्थूलं पूर्वं समब्यस्य ततः सूक्ष्मं ततः परम् ॥ 475 ॥

विश्वास-प्रस्तुतिः - 476

एवं विलीयते चित्तं लक्ष्यं चोपाधिभिः सह।
विग्रंह देवदेवस्य ध्यायेद्धृत्पझगोचरे ॥ 476 ॥

मूलम् - 476

एवं विलीयते चित्तं लक्ष्यं चोपाधिभिः सह।
विग्रंह देवदेवस्य ध्यायेद्धृत्पझगोचरे ॥ 476 ॥

विश्वास-प्रस्तुतिः - 477

ततोऽन्यं चिन्तयेल्लक्ष्यं स्थूलं सूक्ष्मं ततः परम्।
एवमभ्यस्यमानस्य गुणोत्कर्षः प्रजायते ॥ 477 ॥

मूलम् - 477

ततोऽन्यं चिन्तयेल्लक्ष्यं स्थूलं सूक्ष्मं ततः परम्।
एवमभ्यस्यमानस्य गुणोत्कर्षः प्रजायते ॥ 477 ॥

विश्वास-प्रस्तुतिः - 478

योगोऽयं मुनिशार्ढूल! सामान्यः समुदाहृतः।
परात्पराद्वासुदेवात् प्रकाशानन्दलक्षणात् ॥ 478 ॥

मूलम् - 478

योगोऽयं मुनिशार्ढूल! सामान्यः समुदाहृतः।
परात्पराद्वासुदेवात् प्रकाशानन्दलक्षणात् ॥ 478 ॥

विश्वास-प्रस्तुतिः - 479

अतीन्द्रियादनौपम्यात् सच्चिद्रूपात् सदोदितात्।
द्विभुजादेकमूर्तेश्च वरदाभयपाणिकात् ॥ 479 ॥

मूलम् - 479

अतीन्द्रियादनौपम्यात् सच्चिद्रूपात् सदोदितात्।
द्विभुजादेकमूर्तेश्च वरदाभयपाणिकात् ॥ 479 ॥

विश्वास-प्रस्तुतिः - 480

स्वास्तेः षाड्‌गुण्यसंसिद्धाच्चातुरात्म्यस्वभाविनः।
संशान्तपरमानन्दस्वरूपाद्ब्रह्नणः सतः ॥ 480 ॥

मूलम् - 480

स्वास्तेः षाड्‌गुण्यसंसिद्धाच्चातुरात्म्यस्वभाविनः।
संशान्तपरमानन्दस्वरूपाद्ब्रह्नणः सतः ॥ 480 ॥

विश्वास-प्रस्तुतिः - 481

अनुग्रहार्थं भक्तानामवतीर्णस्य चेच्छया।
परव्यूहादिरूपस्य दीपाद्दीपवदुज्ज्वलात् ॥ 481 ॥

मूलम् - 481

अनुग्रहार्थं भक्तानामवतीर्णस्य चेच्छया।
परव्यूहादिरूपस्य दीपाद्दीपवदुज्ज्वलात् ॥ 481 ॥

विश्वास-प्रस्तुतिः - 482

एकाद्यनेकरूपस्य विग्रहोऽयं प्रकाशितः।
तत्र चित्तं समाधाय योगी विज्ञानभावनाम् ॥ 482 ॥

मूलम् - 482

एकाद्यनेकरूपस्य विग्रहोऽयं प्रकाशितः।
तत्र चित्तं समाधाय योगी विज्ञानभावनाम् ॥ 482 ॥

विश्वास-प्रस्तुतिः - 483

तत्तन्मन्त्रपदेनैव योगाभ्यासं समाचरेत्।
एवं यः कुरुते याति स कालेन परात्परम् ॥ 483 ॥

मूलम् - 483

तत्तन्मन्त्रपदेनैव योगाभ्यासं समाचरेत्।
एवं यः कुरुते याति स कालेन परात्परम् ॥ 483 ॥

विश्वास-प्रस्तुतिः - 484

प्राप्तुमिच्छति यः शीघ्रं तस्य योगः समुच्यते।
नित्योदितं परं ब्र्हन यत् पुरा ते प्रकाशितम् ॥ 484 ॥

मूलम् - 484

प्राप्तुमिच्छति यः शीघ्रं तस्य योगः समुच्यते।
नित्योदितं परं ब्र्हन यत् पुरा ते प्रकाशितम् ॥ 484 ॥

विश्वास-प्रस्तुतिः - 485

वाच्यं तद्‌द्वादशार्णस्य ध्यात्वा युञ्जीत बुद्धिमान्।
नासाग्रे भुवि सद्ब्रह्न ध्यायन् कुर्याज्जपं द्विधा ॥ 485 ॥

मूलम् - 485

विश्वास-प्रस्तुतिः - 486

जिह्वाग्रे तु चतुर्धाप्सु तालुन्यग्नौ तथा च षट्।
जिह्वामध्ये तथा वायावष्टधावर्तयेन्मनुम् ॥ 486 ॥

मूलम् - 486

जिह्वाग्रे तु चतुर्धाप्सु तालुन्यग्नौ तथा च षट्।
जिह्वामध्ये तथा वायावष्टधावर्तयेन्मनुम् ॥ 486 ॥

विश्वास-प्रस्तुतिः - 487

जिह्वामूले तथा व्योम्नि दशधा द्वादशाक्षरम्।
कण्ठकूपे तु मनसि ध्यात्वा षोडशधा जपेत् ॥ 487 ॥

मूलम् - 487

जिह्वामूले तथा व्योम्नि दशधा द्वादशाक्षरम्।
कण्ठकूपे तु मनसि ध्यात्वा षोडशधा जपेत् ॥ 487 ॥

विश्वास-प्रस्तुतिः - 488

उरोदेशे बुद्धितत्वे चतुर्विंशतिधा जपेत्।
उरोन्तेऽहङ्कतौ द्यायञ्जपेच्चाशीतिधा पुनः ॥ 488 ॥

मूलम् - 488

उरोदेशे बुद्धितत्वे चतुर्विंशतिधा जपेत्।
उरोन्तेऽहङ्कतौ द्यायञ्जपेच्चाशीतिधा पुनः ॥ 488 ॥

विश्वास-प्रस्तुतिः - 489

शतं कर्मणि कालेऽब्जज! अर्धयुक्तं शतं जपेत्।
ततः पुष्करनाड्यां वै शतद्वयमनाकुलः ॥ 489 ॥

मूलम् - 489

शतं कर्मणि कालेऽब्जज! अर्धयुक्तं शतं जपेत्।
ततः पुष्करनाड्यां वै शतद्वयमनाकुलः ॥ 489 ॥

विश्वास-प्रस्तुतिः - 490

अध्यक्षाद्वासुदेवान्तं हृद्याकाशे चतुःशतम्।
हृदि नादावसानोर्ध्वं गगने योजयेत्तु वा ॥ 490 ॥

मूलम् - 490

अध्यक्षाद्वासुदेवान्तं हृद्याकाशे चतुःशतम्।
हृदि नादावसानोर्ध्वं गगने योजयेत्तु वा ॥ 490 ॥

विश्वास-प्रस्तुतिः - 491

एवं वा प्रणवेनाड्यां प्रणवार्णेन वाचरेत्।
एवं मन्त्रविशेषेण बहुधा योग ईरितः ॥ 491 ॥

मूलम् - 491

एवं वा प्रणवेनाड्यां प्रणवार्णेन वाचरेत्।
एवं मन्त्रविशेषेण बहुधा योग ईरितः ॥ 491 ॥

विश्वास-प्रस्तुतिः - 492

इति यः कुरुते योगं नित्ययुक्तः समाहितः।
प्राप्नोति परमं स्थानं नित्योदितमनामयम् ॥ 492 ॥

मूलम् - 492

इति यः कुरुते योगं नित्ययुक्तः समाहितः।
प्राप्नोति परमं स्थानं नित्योदितमनामयम् ॥ 492 ॥

विश्वास-प्रस्तुतिः - 493

समाधायात्मना ऽऽत्मानमेवं जप्त्वा जपक्रियाम्।
ज्ञातृज्ञेयाविभागेन यावत्तन्मयतां व्रजेत् ॥ 493 ॥

मूलम् - 493

समाधायात्मना ऽऽत्मानमेवं जप्त्वा जपक्रियाम्।
ज्ञातृज्ञेयाविभागेन यावत्तन्मयतां व्रजेत् ॥ 493 ॥

विश्वास-प्रस्तुतिः - 494

यथा संवेद्यनिर्मुक्ते समाधौ लभते स्थितिम्।
अब्यासाद्भववद्योगी ब्रह्न सम्पद्यते तदा ॥ 494 ॥

मूलम् - 494

यथा संवेद्यनिर्मुक्ते समाधौ लभते स्थितिम्।
अब्यासाद्भववद्योगी ब्रह्न सम्पद्यते तदा ॥ 494 ॥

विश्वास-प्रस्तुतिः - 495

ततः श्रमजयं कुर्यात् त्यक्त्वा ध्यानासनक्रमान्।
शय्यासनं निवेद्याथ मूलमूर्तेरनन्तरम् ॥ 495 ॥

मूलम् - 495

ततः श्रमजयं कुर्यात् त्यक्त्वा ध्यानासनक्रमान्।
शय्यासनं निवेद्याथ मूलमूर्तेरनन्तरम् ॥ 495 ॥

विश्वास-प्रस्तुतिः - 496

लक्ष्म्यादिशक्तियुक्तस्य यागमूर्तिगतस्य च।
तस्मिन्नारोपयेद्देवं सर्वाङ्गपरिशोभिते ॥ 496 ॥

मूलम् - 496

लक्ष्म्यादिशक्तियुक्तस्य यागमूर्तिगतस्य च।
तस्मिन्नारोपयेद्देवं सर्वाङ्गपरिशोभिते ॥ 496 ॥

विश्वास-प्रस्तुतिः - 497

अर्घ्यं पाद्यं तथाचामं प्रतिग्रहसमन्वितम्।
दत्वा समालभेत् पश्चाच्चन्दनाद्यनुलेपनैः ॥ 497 ॥

मूलम् - 497

अर्घ्यं पाद्यं तथाचामं प्रतिग्रहसमन्वितम्।
दत्वा समालभेत् पश्चाच्चन्दनाद्यनुलेपनैः ॥ 497 ॥

विश्वास-प्रस्तुतिः - 498

सुगन्धपुष्पमाल्यादि दीपधूपे निवेद्य च।
भक्ष्याण्यपूपपूर्वाणि सक्षीराणि फलानि च ॥ 498 ॥

मूलम् - 498

सुगन्धपुष्पमाल्यादि दीपधूपे निवेद्य च।
भक्ष्याण्यपूपपूर्वाणि सक्षीराणि फलानि च ॥ 498 ॥

विश्वास-प्रस्तुतिः - 499

तर्पणाम्भश्च ताम्बूलं साङ्गं सद्गन्धभावितम्।
निवेद्य देवदेवाय विभवानुगुणं ततः ॥ 499 ॥

मूलम् - 499

तर्पणाम्भश्च ताम्बूलं साङ्गं सद्गन्धभावितम्।
निवेद्य देवदेवाय विभवानुगुणं ततः ॥ 499 ॥

विश्वास-प्रस्तुतिः - 500

सर्वं तु विन्यसेत् पश्चात्तस्मिन् कर्मकृतं च यत्।
तुष्टं गृहीतं तत् पूर्णं भावयेद्दक्षिणं करम् ॥ 500 ॥

मूलम् - 500

सर्वं तु विन्यसेत् पश्चात्तस्मिन् कर्मकृतं च यत्।
तुष्टं गृहीतं तत् पूर्णं भावयेद्दक्षिणं करम् ॥ 500 ॥

विश्वास-प्रस्तुतिः - 501

तन्मध्ये निष्कलं मन्त्रं सर्वं यत् किरणाकुलम्।
योगोत्थां फलसम्पत्तिं लक्ष्मीरूपां विचिन्त्य च ॥ 501 ॥

मूलम् - 501

तन्मध्ये निष्कलं मन्त्रं सर्वं यत् किरणाकुलम्।
योगोत्थां फलसम्पत्तिं लक्ष्मीरूपां विचिन्त्य च ॥ 501 ॥

विश्वास-प्रस्तुतिः - 502

मूलमन्त्रं समुच्चार्य पाणिमध्ये तथा स्मरेत्।
भूयश्च निष्कलं मन्त्रं तस्मादुपरि भावयेत् ॥ 502 ॥

मूलम् - 502

मूलमन्त्रं समुच्चार्य पाणिमध्ये तथा स्मरेत्।
भूयश्च निष्कलं मन्त्रं तस्मादुपरि भावयेत् ॥ 502 ॥

विश्वास-प्रस्तुतिः - 503

सशीर्षे जानुनी भूमौ कृत्वा विष्णोर्निवेदयेत्।
प्रसादाभिमुखेनाथ तेन तच्चात्मसात् कतम् ॥ 503 ॥

मूलम् - 503

सशीर्षे जानुनी भूमौ कृत्वा विष्णोर्निवेदयेत्।
प्रसादाभिमुखेनाथ तेन तच्चात्मसात् कतम् ॥ 503 ॥

विश्वास-प्रस्तुतिः - 504

भावनीयं द्विजश्रेष्ठ! परितुष्टेन चादरात्।
सन्यासं सञ्चयं वाथ कृत्वा सम्यक्कृतस्य च ॥ 504 ॥

मूलम् - 504

भावनीयं द्विजश्रेष्ठ! परितुष्टेन चादरात्।
सन्यासं सञ्चयं वाथ कृत्वा सम्यक्कृतस्य च ॥ 504 ॥

विश्वास-प्रस्तुतिः - 505

मन्त्ररूपानुकारिण्या मुद्रणीयं च मुद्रया।
फलार्थं प्रसवं येन नैति सन्यासकारिणा ॥ 505 ॥

मूलम् - 505

मन्त्ररूपानुकारिण्या मुद्रणीयं च मुद्रया।
फलार्थं प्रसवं येन नैति सन्यासकारिणा ॥ 505 ॥

विश्वास-प्रस्तुतिः - 506

फलपर्यावसाने च कालमागमचोदितम्।
भर्तुर्नो युज्यते येन सिद्धार्थैस्तु फलार्थिनाम् ॥ 506 ॥

मूलम् - 506

फलपर्यावसाने च कालमागमचोदितम्।
भर्तुर्नो युज्यते येन सिद्धार्थैस्तु फलार्थिनाम् ॥ 506 ॥

विश्वास-प्रस्तुतिः - 507

नित्यं प्रतिष्ठितं बिम्बं विना स्थलजलादिकान्।
विसर्जनं ततः कुर्याद्दत्वार्घ्यं धूपसंयुतम् ॥ 507 ॥

मूलम् - 507

नित्यं प्रतिष्ठितं बिम्बं विना स्थलजलादिकान्।
विसर्जनं ततः कुर्याद्दत्वार्घ्यं धूपसंयुतम् ॥ 507 ॥

विश्वास-प्रस्तुतिः - 508

भोगस्थानगता मन्त्राः पूजिता ये यथाक्रमम्।
मुख्यमन्त्रशरीरं तु संप्रविष्टांश्च संस्मरेत् ॥ 508 ॥

मूलम् - 508

भोगस्थानगता मन्त्राः पूजिता ये यथाक्रमम्।
मुख्यमन्त्रशरीरं तु संप्रविष्टांश्च संस्मरेत् ॥ 508 ॥

विश्वास-प्रस्तुतिः - 509

ज्वालाज्वालान्तरे यद्वत् समुद्रेष्विव निम्नगाः।
तन्मन्त्रविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज! ॥ 509 ॥

मूलम् - 509

ज्वालाज्वालान्तरे यद्वत् समुद्रेष्विव निम्नगाः।
तन्मन्त्रविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज! ॥ 509 ॥

विश्वास-प्रस्तुतिः - 510

प्रविष्टं भावयेत् सूक्ष्मे ह्यध्यक्षे ह्युभयात्मके।
परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम् ॥ 510 ॥

मूलम् - 510

प्रविष्टं भावयेत् सूक्ष्मे ह्यध्यक्षे ह्युभयात्मके।
परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम् ॥ 510 ॥

विश्वास-प्रस्तुतिः - 511

तस्मात् परं स्फुरद्रूपं निराधारपदाश्रितम्।
दर्पणं दर्शयित्वा तु निर्मलं तस्य चाग्रतः ॥ 511 ॥

मूलम् - 511

तस्मात् परं स्फुरद्रूपं निराधारपदाश्रितम्।
दर्पणं दर्शयित्वा तु निर्मलं तस्य चाग्रतः ॥ 511 ॥

विश्वास-प्रस्तुतिः - 512

सन्धिमार्गेण हृत्पझे संप्रविष्टं तु भावयेत्।
स्मृत्वा परात्मना तं च स्वसंविद्गगने हृदि ॥ 512 ॥

मूलम् - 512

सन्धिमार्गेण हृत्पझे संप्रविष्टं तु भावयेत्।
स्मृत्वा परात्मना तं च स्वसंविद्गगने हृदि ॥ 512 ॥

विश्वास-प्रस्तुतिः - 513

विश्रान्तं भावयेद्देवं स्वभावेन समन्वितम्।
कर्मार्चादिषु बिम्बेषु षट्‌सु नित्यादिसिद्धये ॥ 513 ॥

मूलम् - 513

विश्रान्तं भावयेद्देवं स्वभावेन समन्वितम्।
कर्मार्चादिषु बिम्बेषु षट्‌सु नित्यादिसिद्धये ॥ 513 ॥

विश्वास-प्रस्तुतिः - 514

प्रतिष्ठितेषु विधिवन्नित्यं प्राभातिकेऽर्चने।
तच्छक्त्या योजितां शक्तिं मूलबिम्बाद्यथापुरा ॥ 514 ॥

मूलम् - 514

प्रतिष्ठितेषु विधिवन्नित्यं प्राभातिकेऽर्चने।
तच्छक्त्या योजितां शक्तिं मूलबिम्बाद्यथापुरा ॥ 514 ॥

विश्वास-प्रस्तुतिः - 515

समभ्यर्च्यार्घ्यपुष्पाद्यैस्ताम्बूलान्तैः पुरोदितैः।
पुनरारोपयेन्मूले तत्र तत्र नियोजिताम् ॥ 515 ॥

मूलम् - 515

समभ्यर्च्यार्घ्यपुष्पाद्यैस्ताम्बूलान्तैः पुरोदितैः।
पुनरारोपयेन्मूले तत्र तत्र नियोजिताम् ॥ 515 ॥

विश्वास-प्रस्तुतिः - 516

पूजार्थं कर्मबिम्बादौ नित्यनैमित्तिकादिषु।
प्राप्तेषु तत्तत्कर्मादौ मूलादावाह्य मन्त्रवित् ॥ 516 ॥

मूलम् - 516

पूजार्थं कर्मबिम्बादौ नित्यनैमित्तिकादिषु।
प्राप्तेषु तत्तत्कर्मादौ मूलादावाह्य मन्त्रवित् ॥ 516 ॥

विश्वास-प्रस्तुतिः - 517

समाप्य तेषु तत्कर्माण्रारब्धानि यथार्थतः।
समर्प्य मूलबिम्बे तु तेभ्यस्तत्र विसर्जयेत् ॥ 517 ॥

मूलम् - 517

समाप्य तेषु तत्कर्माण्रारब्धानि यथार्थतः।
समर्प्य मूलबिम्बे तु तेभ्यस्तत्र विसर्जयेत् ॥ 517 ॥

विश्वास-प्रस्तुतिः - 518

मन्त्रानर्घ्यादिपात्रस्थान् विसृज्य प्राक् प्रयोगतः।
शेषमर्घ्यादिकं सर्वं भुक्तपूर्वेण वै सह ॥ 518 ॥

मूलम् - 518

मन्त्रानर्घ्यादिपात्रस्थान् विसृज्य प्राक् प्रयोगतः।
शेषमर्घ्यादिकं सर्वं भुक्तपूर्वेण वै सह ॥ 518 ॥

विश्वास-प्रस्तुतिः - 519

पाणिना तोयपूतेन विष्वक्‌सेनाय चार्प्य च।
न्यासद्वयं च संहृत्य मनसा च स्वविग्रहात् ॥ 519 ॥

मूलम् - 519

पाणिना तोयपूतेन विष्वक्‌सेनाय चार्प्य च।
न्यासद्वयं च संहृत्य मनसा च स्वविग्रहात् ॥ 519 ॥

विश्वास-प्रस्तुतिः - 520

निश्शेषस्योपसंहारं कुर्यादर्घ्यादिकस्य च।
यागोद्देशात्तथा कुण्डात्स्तराद्यस्याखिलस्य च ॥ 520 ॥

मूलम् - 520

निश्शेषस्योपसंहारं कुर्यादर्घ्यादिकस्य च।
यागोद्देशात्तथा कुण्डात्स्तराद्यस्याखिलस्य च ॥ 520 ॥

विश्वास-प्रस्तुतिः - 521

सहोपलेपनेनैव सर्वमंभसि निक्षिपेत्।
धर्तव्यं न चिरं चाग्रे यत् पुरा विनिवेदितम् ॥ 521 ॥

मूलम् - 521

सहोपलेपनेनैव सर्वमंभसि निक्षिपेत्।
धर्तव्यं न चिरं चाग्रे यत् पुरा विनिवेदितम् ॥ 521 ॥

विश्वास-प्रस्तुतिः - 522

नैवेद्यं मन्त्रमूर्तीनां किञ्चित् पुष्पफलादृते।
कवाटबन्धनं कुर्यान्मन्त्रं कवचमुच्चरन् ॥ 522 ॥

मूलम् - 522

नैवेद्यं मन्त्रमूर्तीनां किञ्चित् पुष्पफलादृते।
कवाटबन्धनं कुर्यान्मन्त्रं कवचमुच्चरन् ॥ 522 ॥

विश्वास-प्रस्तुतिः - 523

नियोज्य तत्र रक्षार्थं चक्रं च विहगेश्वरम्।
स्वपेच्छय्यागतो मन्त्री प्रातरुत्थाय पूर्ववत् ॥ 523 ॥

मूलम् - 523

नियोज्य तत्र रक्षार्थं चक्रं च विहगेश्वरम्।
स्वपेच्छय्यागतो मन्त्री प्रातरुत्थाय पूर्ववत् ॥ 523 ॥

विश्वास-प्रस्तुतिः - 524

यथोक्तं सकलं कुर्यात् प्रबोधयजनादिकम्।
सकृत् त्रयहं च सप्ताहं पक्षं मासमथापि वा ॥ 524 ॥

मूलम् - 524

यथोक्तं सकलं कुर्यात् प्रबोधयजनादिकम्।
सकृत् त्रयहं च सप्ताहं पक्षं मासमथापि वा ॥ 524 ॥

विश्वास-प्रस्तुतिः - 525

योयजेद्विधिनानेन भक्तिश्रद्धासमन्वितः।
सोऽपि यायात् परं स्थानं किंपुनर्योऽत्र संस्थितः ॥ 525 ॥

मूलम् - 525

योयजेद्विधिनानेन भक्तिश्रद्धासमन्वितः।
सोऽपि यायात् परं स्थानं किंपुनर्योऽत्र संस्थितः ॥ 525 ॥

इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे अग्निकार्य पितृसंविभाग नित्योत्सवादि-विधानं नाम सप्तमोऽध्यायः ॥ **************