॥ श्रीः ॥
षष्ठोऽध्यायः
विश्वास-प्रस्तुतिः - 1
पुराऽनेन विधानेन कृत्वा यागं तु मानसम्।
कर्मणा भक्तियुक्तेन बहिर्वृत्तौ यजेत्ततः ॥ 1 ॥
मूलम् - 1
पुराऽनेन विधानेन कृत्वा यागं तु मानसम्।
कर्मणा भक्तियुक्तेन बहिर्वृत्तौ यजेत्ततः ॥ 1 ॥
विश्वास-प्रस्तुतिः - 2
भगवंस्त्वत्प्रसादेन ज्ञातो ह्यज्ञाननाशनः।
ज्ञानविज्ञानसहितो हृद्यागः सर्वसिद्धिदः ॥ 2 ॥
मूलम् - 2
भगवंस्त्वत्प्रसादेन ज्ञातो ह्यज्ञाननाशनः।
ज्ञानविज्ञानसहितो हृद्यागः सर्वसिद्धिदः ॥ 2 ॥
विश्वास-प्रस्तुतिः - 3
किमर्थं बाह्यतः पूजा कार्या वै प्रतिमादिषु।
एतदाचक्ष्व भगवन्नत्र मे संशयो महान् ॥ 3 ॥
मूलम् - 3
किमर्थं बाह्यतः पूजा कार्या वै प्रतिमादिषु।
एतदाचक्ष्व भगवन्नत्र मे संशयो महान् ॥ 3 ॥
विश्वास-प्रस्तुतिः - 4
बाह्योत्था वासना विप्र! बहुजन्मार्जिता दृढा।
लोलीकृतोऽनया ह्यात्मा शुद्धोऽशुद्धस्वरूपया ॥ 4 ॥
मूलम् - 4

विश्वास-प्रस्तुतिः - 5
या मन्त्रविषया शुद्धा क्रियाशान्तस्वरूपदा।
समुत्थानविनाशार्थं तस्याः संपरिकीर्तिता ॥ 5 ॥
मूलम् - 5
या मन्त्रविषया शुद्धा क्रियाशान्तस्वरूपदा।
समुत्थानविनाशार्थं तस्याः संपरिकीर्तिता ॥ 5 ॥
विश्वास-प्रस्तुतिः - 6
स बाह्याभ्यन्तराभ्यां च क्रियाभ्यां तन्मयो भवेत्।
दृढोत्थवासनानां च तानवं स्याच्छनैः शनैः ॥ 6 ॥
मूलम् - 6

विश्वास-प्रस्तुतिः - 7
यन्मयः साधको विप्र! देहस्थः सांप्रतं भवेत्।
तन्मयो देहपातात् स्यादित्येतत् कथितं मया ॥ 7 ॥
मूलम् - 7
यन्मयः साधको विप्र! देहस्थः सांप्रतं भवेत्।
तन्मयो देहपातात् स्यादित्येतत् कथितं मया ॥ 7 ॥
विश्वास-प्रस्तुतिः - 8
अथ बाह्योत्थयागस्य विधानमवधारय।
देवं हृत्कमलाकाशे तेजोरूपतया स्थितम् ॥ 8 ॥
मूलम् - 8
अथ बाह्योत्थयागस्य विधानमवधारय।
देवं हृत्कमलाकाशे तेजोरूपतया स्थितम् ॥ 8 ॥
विश्वास-प्रस्तुतिः - 9
तस्मात् स्थानात् समानीय तं कुर्यान्नेत्रमद्यगम्।
वासुदेवाभिधानं तु प्रागुक्तं च समाश्रयेत् ॥ 9 ॥
मूलम् - 9

विश्वास-प्रस्तुतिः - 10
ततो लोचनयुग्मेन स्तब्धेन द्विजसत्तम!।
जपन् लोचनमन्त्रं तु अवलोक्याखिलं तु तम् ॥ 10 ॥
मूलम् - 10
ततो लोचनयुग्मेन स्तब्धेन द्विजसत्तम!।
जपन् लोचनमन्त्रं तु अवलोक्याखिलं तु तम् ॥ 10 ॥
विश्वास-प्रस्तुतिः - 11
स्थापितो य उपार्जित्य संभारो ह्युदकादिकः।
ध्यायेद्दक्षिणपाणौ तु अस्त्रमादित्यसन्निभम् ॥ 11 ॥
मूलम् - 11
स्थापितो य उपार्जित्य संभारो ह्युदकादिकः।
ध्यायेद्दक्षिणपाणौ तु अस्त्रमादित्यसन्निभम् ॥ 11 ॥
विश्वास-प्रस्तुतिः - 12
द्रव्यदोषगणं तेन दग्ध्वा तन्मन्त्रमुच्चरन्।
संचिन्त्य भस्मभूतं तु तं सर्वं द्विजसत्तम! ॥ 12 ॥
मूलम् - 12
द्रव्यदोषगणं तेन दग्ध्वा तन्मन्त्रमुच्चरन्।
संचिन्त्य भस्मभूतं तु तं सर्वं द्विजसत्तम! ॥ 12 ॥
विश्वास-प्रस्तुतिः - 13
दग्धदोषमथाप्याय्य वामहस्त (तलेन) गतेन तु।
हृदा पूर्णेन्दुतुल्येन अमृतासारवर्षिणा ॥ 13 ॥
मूलम् - 13
दग्धदोषमथाप्याय्य वामहस्त (तलेन) गतेन तु।
हृदा पूर्णेन्दुतुल्येन अमृतासारवर्षिणा ॥ 13 ॥
विश्वास-प्रस्तुतिः - 14
तन्मन्त्रमुच्चरन् पश्चात् कान्तिमन्तं विचिन्तयेत्।
दग्धमाप्यायितं सर्वमथ चैवं समाचरेत् ॥ 14 ॥
मूलम् - 14
तन्मन्त्रमुच्चरन् पश्चात् कान्तिमन्तं विचिन्तयेत्।
दग्धमाप्यायितं सर्वमथ चैवं समाचरेत् ॥ 14 ॥
विश्वास-प्रस्तुतिः - 15
प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत् पुरा।
संचिन्त्य भस्मभूतं तं ततः पूर्णेन्दुरश्मिभिः ॥ 15 ॥
मूलम् - 15
प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत् पुरा।
संचिन्त्य भस्मभूतं तं ततः पूर्णेन्दुरश्मिभिः ॥ 15 ॥
विश्वास-प्रस्तुतिः - 16
आप्याय्यामृतकल्लोलधारापातेन सत्तम!।
कान्तिमच्चिन्तयेद्भूयो यद्दग्धं भानुना ततः ॥ 16 ॥
मूलम् - 16
आप्याय्यामृतकल्लोलधारापातेन सत्तम!।
कान्तिमच्चिन्तयेद्भूयो यद्दग्धं भानुना ततः ॥ 16 ॥
विश्वास-प्रस्तुतिः - 17
बध्द्वा कामदुघां मुद्रां स्रवन्तीं मन्त्रसंयुताम्।
गोरूपां हिमशैलाभां निराधारपदे स्थिताम् ॥ 17 ॥
मूलम् - 17
बध्द्वा कामदुघां मुद्रां स्रवन्तीं मन्त्रसंयुताम्।
गोरूपां हिमशैलाभां निराधारपदे स्थिताम् ॥ 17 ॥
विश्वास-प्रस्तुतिः - 18
तया तदमृतीकुर्याद्भोगजालं यथास्थितम्।
निर्मलो द्रव्यसङ्घश्च यागयोग्यो भवेत्तदा ॥ 18 ॥
मूलम् - 18
तया तदमृतीकुर्याद्भोगजालं यथास्थितम्।
निर्मलो द्रव्यसङ्घश्च यागयोग्यो भवेत्तदा ॥ 18 ॥
विश्वास-प्रस्तुतिः - 19
गालितेनाम्बुना पूर्णं स्वाहृतेनाम्बुना सह।
स्वोत्तरे वर्मणा स्थाप्य कुम्भं सर्वोपयोगि यत् ॥ 19 ॥
मूलम् - 19
गालितेनाम्बुना पूर्णं स्वाहृतेनाम्बुना सह।
स्वोत्तरे वर्मणा स्थाप्य कुम्भं सर्वोपयोगि यत् ॥ 19 ॥
विश्वास-प्रस्तुतिः - 20
उपार्जितं पुरा यद्वै यागोपकरणं महत्।
तत् सर्वं दक्षिणे कृत्वा मध्ये भद्रासनं न्यसेत् ॥ 20 ॥
मूलम् - 20
उपार्जितं पुरा यद्वै यागोपकरणं महत्।
तत् सर्वं दक्षिणे कृत्वा मध्ये भद्रासनं न्यसेत् ॥ 20 ॥
विश्वास-प्रस्तुतिः - 21
प्रतिमालक्षणाध्याये वक्ष्यते तस्य लक्षणम्।
यत्किञ्चित् पत्रपुष्पाद्यं परिदृश्येत पीठगम् ॥ 21 ॥
मूलम् - 21
प्रतिमालक्षणाध्याये वक्ष्यते तस्य लक्षणम्।
यत्किञ्चित् पत्रपुष्पाद्यं परिदृश्येत पीठगम् ॥ 21 ॥
विश्वास-प्रस्तुतिः - 22
पाणिना तत् समाहृत्य शुचिस्थाने निधाय वै।
गव्यैर्वा चामरैर्वालैः शिखिपक्षैः कुशैरथ (पि) ॥ 22 ॥
मूलम् - 22
पाणिना तत् समाहृत्य शुचिस्थाने निधाय वै।
गव्यैर्वा चामरैर्वालैः शिखिपक्षैः कुशैरथ (पि) ॥ 22 ॥
विश्वास-प्रस्तुतिः - 23
संमार्ज्य भद्रपीठं तु वाससा सुसितेन वा।
बहुना वस्त्रपूतेन वारिणा तदनन्तरम् ॥ 23 ॥
मूलम् - 23
संमार्ज्य भद्रपीठं तु वाससा सुसितेन वा।
बहुना वस्त्रपूतेन वारिणा तदनन्तरम् ॥ 23 ॥
विश्वास-प्रस्तुतिः - 24
प्रक्षाल्य द्वादशार्णेन प्रणवाद्यन्तगेन तु।
एवमाराधनाधारं क्षालयित्वा च वारिणा ॥ 24 ॥
मूलम् - 24
प्रक्षाल्य द्वादशार्णेन प्रणवाद्यन्तगेन तु।
एवमाराधनाधारं क्षालयित्वा च वारिणा ॥ 24 ॥
विश्वास-प्रस्तुतिः - 25
तत्तावदस्त्रपुष्पेण कुर्याद्विघ्नगणोज्झितम्।
आराध्योऽयमथारोप्य तत्र मन्त्रमयीं शुभाम् ॥ 25 ॥
मूलम् - 25
तत्तावदस्त्रपुष्पेण कुर्याद्विघ्नगणोज्झितम्।
आराध्योऽयमथारोप्य तत्र मन्त्रमयीं शुभाम् ॥ 25 ॥
विश्वास-प्रस्तुतिः - 26
सर्वोपकरणोपेतां सर्वलक्षणसंयुताम्।
प्रतिमां धातुपाषाणनिर्मितामात्मसिद्धये ॥ 26 ॥
मूलम् - 26
सर्वोपकरणोपेतां सर्वलक्षणसंयुताम्।
प्रतिमां धातुपाषाणनिर्मितामात्मसिद्धये ॥ 26 ॥
विश्वास-प्रस्तुतिः - 27
अष्टाङ्गेन नमस्कृत्य दद्यादर्घ्यं तु मूर्धनि।
अनुलेपनसंयुक्तं ततः पुष्पाञ्जलिं शुभम् ॥ 27 ॥
मूलम् - 27
अष्टाङ्गेन नमस्कृत्य दद्यादर्घ्यं तु मूर्धनि।
अनुलेपनसंयुक्तं ततः पुष्पाञ्जलिं शुभम् ॥ 27 ॥
विश्वास-प्रस्तुतिः - 28
साङ्गं सावरणं भक्त्या पूजयेत् पुरुषोत्तमम्।
यद्वार्घ्यपाद्याचमनैर्देवमभ्यर्च्य वै ततः ॥ 28 ॥
मूलम् - 28
साङ्गं सावरणं भक्त्या पूजयेत् पुरुषोत्तमम्।
यद्वार्घ्यपाद्याचमनैर्देवमभ्यर्च्य वै ततः ॥ 28 ॥
विश्वास-प्रस्तुतिः - 29
भुक्तमर्घ्यादिकं तस्मादपनीयाभिवाद्य च।
समर्प्य विष्वक्सेनस्य, संशोध्य मृदुना द्विज! ॥ 29 ॥
मूलम् - 29
भुक्तमर्घ्यादिकं तस्मादपनीयाभिवाद्य च।
समर्प्य विष्वक्सेनस्य, संशोध्य मृदुना द्विज! ॥ 29 ॥
विश्वास-प्रस्तुतिः - 30
उशीरवंशकूर्चेन क्षालयेद्गन्धवारिणा।
उच्चरन् मूलमन्त्रं वा कुर्यान्मार्गत्रयं विभो! ॥ 30 ॥
मूलम् - 30
उशीरवंशकूर्चेन क्षालयेद्गन्धवारिणा।
उच्चरन् मूलमन्त्रं वा कुर्यान्मार्गत्रयं विभो! ॥ 30 ॥
विश्वास-प्रस्तुतिः - 31
सुधौते देवदेवस्य वाससी परिधापयेत्।
चित्रस्थाद्भगवद्बिम्बाद्भुक्तपुष्पादिकं हि यत् ॥ 31 ॥
मूलम् - 31
सुधौते देवदेवस्य वाससी परिधापयेत्।
चित्रस्थाद्भगवद्बिम्बाद्भुक्तपुष्पादिकं हि यत् ॥ 31 ॥
विश्वास-प्रस्तुतिः - 32
अपनीय तु तत् कुर्याद्वाससा रेणुमार्जनम्।
यद्वा प्राग्यागभवनप्रवेशानन्तरं द्विज! ॥ 32 ॥
मूलम् - 32
अपनीय तु तत् कुर्याद्वाससा रेणुमार्जनम्।
यद्वा प्राग्यागभवनप्रवेशानन्तरं द्विज! ॥ 32 ॥
विश्वास-प्रस्तुतिः - 33
न्यस्य भद्रासनाद्यं तदन्यदन्यत् समाचरेत्।
यद्वा तदातने काले न्यस्य भद्रासनादिकम् ॥ 33 ॥
मूलम् - 33
न्यस्य भद्रासनाद्यं तदन्यदन्यत् समाचरेत्।
यद्वा तदातने काले न्यस्य भद्रासनादिकम् ॥ 33 ॥
विश्वास-प्रस्तुतिः - 34
आद्यं मार्गत्रयं कृत्वा यथोक्तविधिना ततः।
योगपीठार्चनारम्भे बिम्बोक्तं सर्वमाचरे (रभे)त् ॥ 34 ॥
मूलम् - 34
आद्यं मार्गत्रयं कृत्वा यथोक्तविधिना ततः।
योगपीठार्चनारम्भे बिम्बोक्तं सर्वमाचरे (रभे)त् ॥ 34 ॥
विश्वास-प्रस्तुतिः - 35
अथार्घ्यादीनि पात्राणि प्रक्षाल्यास्त्रेण वारिणा।
समापूर्य सुगन्धेन जलेन हृदयेन तु ॥ 35 ॥
मूलम् - 35
अथार्घ्यादीनि पात्राणि प्रक्षाल्यास्त्रेण वारिणा।
समापूर्य सुगन्धेन जलेन हृदयेन तु ॥ 35 ॥
विश्वास-प्रस्तुतिः - 36
द्रव्याणि निक्षिपेत्तेषु यथोक्तक्रमयोगतः।
भद्रासनस्य कोणेषु पुरतो वाससास्तृते ॥ 36 ॥
मूलम् - 36
द्रव्याणि निक्षिपेत्तेषु यथोक्तक्रमयोगतः।
भद्रासनस्य कोणेषु पुरतो वाससास्तृते ॥ 36 ॥
विश्वास-प्रस्तुतिः - 37
भूतले वाऽथ पात्राणि आधारोपरि विन्यसेत्।
स्वपूर्वनियमेनैव उदक्पश्चिमकोणगम् ॥ 37 ॥
मूलम् - 37
भूतले वाऽथ पात्राणि आधारोपरि विन्यसेत्।
स्वपूर्वनियमेनैव उदक्पश्चिमकोणगम् ॥ 37 ॥
विश्वास-प्रस्तुतिः - 38
अर्घ्याम्बुकलशं न्यस्य ततः प्रागुत्तरान्तरे।
न्यसेदाचमनीयाख्यमाग्नेये स्नानसंज्ञितम् ॥ 38 ॥
मूलम् - 38
अर्घ्याम्बुकलशं न्यस्य ततः प्रागुत्तरान्तरे।
न्यसेदाचमनीयाख्यमाग्नेये स्नानसंज्ञितम् ॥ 38 ॥
विश्वास-प्रस्तुतिः - 39
विन्यस्य पाद्यसंज्ञं तु पदे दक्षिणपश्चिमे।
अग्रतो वापि तन्मद्ये न्यसेदर्घ्यं द्वितीयकम् ॥ 39 ॥
मूलम् - 39
विन्यस्य पाद्यसंज्ञं तु पदे दक्षिणपश्चिमे।
अग्रतो वापि तन्मद्ये न्यसेदर्घ्यं द्वितीयकम् ॥ 39 ॥
विश्वास-प्रस्तुतिः - 40
अग्निकोणे त्वर्घ्यपात्रं पाद्यमैशानकोणके।
आचामं नैऋते भागे स्नानार्थं वायवे तथा ॥ 40 ॥
मूलम् - 40
अग्निकोणे त्वर्घ्यपात्रं पाद्यमैशानकोणके।
आचामं नैऋते भागे स्नानार्थं वायवे तथा ॥ 40 ॥
विश्वास-प्रस्तुतिः - 41
ईश्वरप्राग्वशादर्घ्यमाग्नेयादिषु कोणके।
मुख्यामुख्यार्घ्यपाद्यादिक्रमाद्द्रव्याणि निक्षिपेत् ॥ 41 ॥
मूलम् - 41
ईश्वरप्राग्वशादर्घ्यमाग्नेयादिषु कोणके।
मुख्यामुख्यार्घ्यपाद्यादिक्रमाद्द्रव्याणि निक्षिपेत् ॥ 41 ॥
विश्वास-प्रस्तुतिः - 42
चन्दनं शशिबाह्लीकदूर्वासिद्धार्थकानि च।
साक्षतानि कुशाग्रणि तण्डुलानि तिलानि च ॥ 42 ॥
मूलम् - 42
चन्दनं शशिबाह्लीकदूर्वासिद्धार्थकानि च।
साक्षतानि कुशाग्रणि तण्डुलानि तिलानि च ॥ 42 ॥
विश्वास-प्रस्तुतिः - 43
काञ्चनं रजतं ताम्रं रत्नानि च फलानि च।
कदलीफलपूर्वाणि प्रधानेऽर्घ्ये विनिक्षिपेत् ॥ 43 ॥
मूलम् - 43
काञ्चनं रजतं ताम्रं रत्नानि च फलानि च।
कदलीफलपूर्वाणि प्रधानेऽर्घ्ये विनिक्षिपेत् ॥ 43 ॥
विश्वास-प्रस्तुतिः - 44
द्वितीये दधिमध्वाज्यक्षीरबिन्दुचतुष्टयम्।
कुशाग्रेण सबाह्लीकं सपुष्पं तिल(सित)तण्डुलम् ॥ 44 ॥
मूलम् - 44
द्वितीये दधिमध्वाज्यक्षीरबिन्दुचतुष्टयम्।
कुशाग्रेण सबाह्लीकं सपुष्पं तिल(सित)तण्डुलम् ॥ 44 ॥
विश्वास-प्रस्तुतिः - 45
दूर्वां च विष्णुकान्तां च श्यामाकं शङ्खपुष्पकम्।
पद्मकं कुन्दरेणुं च पाद्यपात्रे विनिक्षिपेत् ॥ 45 ॥
मूलम् - 45
दूर्वां च विष्णुकान्तां च श्यामाकं शङ्खपुष्पकम्।
पद्मकं कुन्दरेणुं च पाद्यपात्रे विनिक्षिपेत् ॥ 45 ॥
विश्वास-प्रस्तुतिः - 46
एलालवङ्गतक्कोलैः सहजातिफलानि च।
चन्दनं च सकर्पूरं क्षिपेदाचमनीयके ॥ 46 ॥
मूलम् - 46
एलालवङ्गतक्कोलैः सहजातिफलानि च।
चन्दनं च सकर्पूरं क्षिपेदाचमनीयके ॥ 46 ॥
विश्वास-प्रस्तुतिः - 47
कुष्टं मांसीं हरिद्रे द्वे मुरा शैलेयचम्पकान्।
वचाकच्चोरमुस्ताश्च स्नानीये तु विनिक्षिपेत् ॥ 47 ॥
मूलम् - 47
कुष्टं मांसीं हरिद्रे द्वे मुरा शैलेयचम्पकान्।
वचाकच्चोरमुस्ताश्च स्नानीये तु विनिक्षिपेत् ॥ 47 ॥
विश्वास-प्रस्तुतिः - 48
पात्रन्यासक्रमेणैव तानि पात्राणि कल्पयेत्।
तत्तत्कल्पनमन्त्रैस्तु यद्वा प्रागेव तानि तु ॥ 48 ॥
मूलम् - 48
पात्रन्यासक्रमेणैव तानि पात्राणि कल्पयेत्।
तत्तत्कल्पनमन्त्रैस्तु यद्वा प्रागेव तानि तु ॥ 48 ॥
विश्वास-प्रस्तुतिः - 49
तोयैः संपूर्य निक्षिप्य द्रव्याण्यपि यथाक्रमम्।
तत्तत्कल्पनमन्त्रैस्तु स्वाधारेषु निवेशयेत् ॥ 49 ॥
मूलम् - 49
तोयैः संपूर्य निक्षिप्य द्रव्याण्यपि यथाक्रमम्।
तत्तत्कल्पनमन्त्रैस्तु स्वाधारेषु निवेशयेत् ॥ 49 ॥
विश्वास-प्रस्तुतिः - 50
यथास्थानं ततः कुर्याद्दहनाप्यायनादिकम्।
पात्राणां तु तदानीं वा भोगानामपि तत् त्रयम् ॥ 50 ॥
मूलम् - 50
यथास्थानं ततः कुर्याद्दहनाप्यायनादिकम्।
पात्राणां तु तदानीं वा भोगानामपि तत् त्रयम् ॥ 50 ॥
विश्वास-प्रस्तुतिः - 51
दक्षिणेन तु हस्तेन पुष्पमादाय तत्र वै।
ध्यात्वा निष्कलरूपं तु मूलमन्त्रमनन्यधीः ॥ 51 ॥
मूलम् - 51
दक्षिणेन तु हस्तेन पुष्पमादाय तत्र वै।
ध्यात्वा निष्कलरूपं तु मूलमन्त्रमनन्यधीः ॥ 51 ॥
विश्वास-प्रस्तुतिः - 52
तत्प्रोक्षणार्घ्ये निक्षिप्य चतुरावर्त्य तं तथा।
जपन् पुनस्तदुद्धृत्य तस्मात् स्थानाद्बहिः क्षिपेत् ॥ 52 ॥
मूलम् - 52

विश्वास-प्रस्तुतिः - 53
ततस्तदम्भसास्त्रेण वेदिं भोगानुपार्जितान्।
आत्मानं चापि संप्रोक्ष्य ह्यर्घ्यादीनभिमन्त्रयेत् ॥ 53 ॥
मूलम् - 53
ततस्तदम्भसास्त्रेण वेदिं भोगानुपार्जितान्।
आत्मानं चापि संप्रोक्ष्य ह्यर्घ्यादीनभिमन्त्रयेत् ॥ 53 ॥
विश्वास-प्रस्तुतिः - 54
सास्त्रेण मूलमन्त्रेण तानभ्यर्च्य प्रसूनकैः।
साङ्गेन मूलमन्त्रेण ततोऽभ्यर्च्य यथाविधि ॥ 54 ॥
मूलम् - 54
सास्त्रेण मूलमन्त्रेण तानभ्यर्च्य प्रसूनकैः।
साङ्गेन मूलमन्त्रेण ततोऽभ्यर्च्य यथाविधि ॥ 54 ॥
विश्वास-प्रस्तुतिः - 55
धूपपात्रं च घण्टां च तानि धूपेन पूजयेत्।
धूपपात्रस्य घण्टायाः पूजनं चावधारय ॥ 55 ॥
मूलम् - 55
धूपपात्रं च घण्टां च तानि धूपेन पूजयेत्।
धूपपात्रस्य घण्टायाः पूजनं चावधारय ॥ 55 ॥
विश्वास-प्रस्तुतिः - 56
धूपपात्रस्य मूले तु क्ष्मातत्वं कमले जलम्।
चक्रेऽग्निं किङ्किणीजाले वायुं खं कर्णिकोपरि ॥ 56 ॥
मूलम् - 56
धूपपात्रस्य मूले तु क्ष्मातत्वं कमले जलम्।
चक्रेऽग्निं किङ्किणीजाले वायुं खं कर्णिकोपरि ॥ 56 ॥
विश्वास-प्रस्तुतिः - 57
एवं ध्यात्वार्च्य तन्मन्त्रैस्तन्मन्त्रेणार्चयेत्तु वा।
यच्चक्रं तच्च हृदयं पद्मं हृत्कोटरं विदुः ॥ 57 ॥
मूलम् - 57

विश्वास-प्रस्तुतिः - 58
चक्रे याश्च अराख्यास्ता नाड्यो वै द्वादश स्मृताः।
किङ्किण्यो याः स्थिता विप्र! ज्ञेयास्ताः सूक्ष्मनाडयः ॥ 58 ॥
मूलम् - 58

विश्वास-प्रस्तुतिः - 59
यासां वै मध्यमा शक्तिर्भुजङ्गकुटिलोपमा।
धूमधूसरवर्णाभा अण्डं भित्वा विनिर्गता ॥ 59 ॥
मूलम् - 59
यासां वै मध्यमा शक्तिर्भुजङ्गकुटिलोपमा।
धूमधूसरवर्णाभा अण्डं भित्वा विनिर्गता ॥ 59 ॥
विश्वास-प्रस्तुतिः - 60
कालाग्निहृदयोत्था सा सत्यान्ते तु लयं गता।
तया संबोधितो ह्यात्मा मन्त्रमूर्तिधरः प्रभुः ॥ 60 ॥
मूलम् - 60
कालाग्निहृदयोत्था सा सत्यान्ते तु लयं गता।
तया संबोधितो ह्यात्मा मन्त्रमूर्तिधरः प्रभुः ॥ 60 ॥
विश्वास-प्रस्तुतिः - 61
सन्निधौ भवति क्षिप्रमव्युच्छिन्नं दहेत्तथा।
अथ स्वरूपं घण्टाया यथावदवधारय ॥ 61 ॥
मूलम् - 61
सन्निधौ भवति क्षिप्रमव्युच्छिन्नं दहेत्तथा।
अथ स्वरूपं घण्टाया यथावदवधारय ॥ 61 ॥
विश्वास-प्रस्तुतिः - 62
व्यक्तं तत्राश्रिता नित्यं मातृकावर्णविग्रहा।
तत्र चाक्रमराबृन्दं स्वरद्वादशकं स्मृतम् ॥ 62 ॥
मूलम् - 62
व्यक्तं तत्राश्रिता नित्यं मातृकावर्णविग्रहा।
तत्र चाक्रमराबृन्दं स्वरद्वादशकं स्मृतम् ॥ 62 ॥
विश्वास-प्रस्तुतिः - 63
तदेव षोडशारे च वर्णैः सह नपुंसकैः।
वर्णानां त्रिविधं रूपं सर्वेषां द्विजसत्तम! ॥ 63 ॥
मूलम् - 63
तदेव षोडशारे च वर्णैः सह नपुंसकैः।
वर्णानां त्रिविधं रूपं सर्वेषां द्विजसत्तम! ॥ 63 ॥
विश्वास-प्रस्तुतिः - 64
संस्थितं वैखरीनिष्ठं पस्यन्ती पूर्वकं क्रमात्।
अराश्रितं द्विषट्कारे वाक्स्वरूपं परं हि यत् ॥ 64 ॥
मूलम् - 64
संस्थितं वैखरीनिष्ठं पस्यन्ती पूर्वकं क्रमात्।
अराश्रितं द्विषट्कारे वाक्स्वरूपं परं हि यत् ॥ 64 ॥
विश्वास-प्रस्तुतिः - 65
तदेव षोडशारे च तत्र वैकर्तने(री)षु च।
मध्यमाख्यस्वरूपेण नित्यमेव हि वर्तते ॥ 65 ॥
मूलम् - 65
तदेव षोडशारे च तत्र वैकर्तने(री)षु च।
मध्यमाख्यस्वरूपेण नित्यमेव हि वर्तते ॥ 65 ॥
विश्वास-प्रस्तुतिः - 66
अत ऊर्ध्वं चतुर्विंशत्संख्यं वर्णगणं हि यत्।
दलजालं हि तत् पद्मं परिज्ञेयं महामते! ॥ 66 ॥
मूलम् - 66
अत ऊर्ध्वं चतुर्विंशत्संख्यं वर्णगणं हि यत्।
दलजालं हि तत् पद्मं परिज्ञेयं महामते! ॥ 66 ॥
विश्वास-प्रस्तुतिः - 67
मकारसंज्ञं यद्वर्णं विद्धि तत् पद्मकर्णिकाम्।
शङ्खं यकारवर्णं च समुष्टीके सदा गृहे ॥ 67 ॥
मूलम् - 67
मकारसंज्ञं यद्वर्णं विद्धि तत् पद्मकर्णिकाम्।
शङ्खं यकारवर्णं च समुष्टीके सदा गृहे ॥ 67 ॥
विश्वास-प्रस्तुतिः - 68
रादयः सप्त ये वर्णा हान्ताः पर्वगदात्मकाः।
क्षार्णं पतत्रिराजाद्यमेवं ध्यात्वा ततो द्विज! ॥ 68 ॥
मूलम् - 68
रादयः सप्त ये वर्णा हान्ताः पर्वगदात्मकाः।
क्षार्णं पतत्रिराजाद्यमेवं ध्यात्वा ततो द्विज! ॥ 68 ॥
विश्वास-प्रस्तुतिः - 69
शब्दब्रह्मस्वरूपा च घण्टाविग्रहलक्षणा।
विज्ञेया भगवच्छक्तिः षाड्गुण्यान्तर्गता हि सा ॥ 69 ॥
मूलम् - 69
शब्दब्रह्मस्वरूपा च घण्टाविग्रहलक्षणा।
विज्ञेया भगवच्छक्तिः षाड्गुण्यान्तर्गता हि सा ॥ 69 ॥
विश्वास-प्रस्तुतिः - 70
तेजोगुणसमोपेता तैजसद्रव्यरूपधृक्।
घण्टाख्यमेतद्वै विद्धि आध्यक्षीयं गुणद्वयम् ॥ 70 ॥
मूलम् - 70
तेजोगुणसमोपेता तैजसद्रव्यरूपधृक्।
घण्टाख्यमेतद्वै विद्धि आध्यक्षीयं गुणद्वयम् ॥ 70 ॥
विश्वास-प्रस्तुतिः - 71
अस्यामाश्रित्य ये वर्णा ज्ञातव्यास्ते सदैव हि।
नित्यमर्चनकाले तु साधकैः सिद्धिलालसैः ॥ 71 ॥
मूलम् - 71
अस्यामाश्रित्य ये वर्णा ज्ञातव्यास्ते सदैव हि।
नित्यमर्चनकाले तु साधकैः सिद्धिलालसैः ॥ 71 ॥
विश्वास-प्रस्तुतिः - 72
कालवैश्वानरोपेतमनन्तं शब्दचोदके।
मुक्ताहाराश्रितं शङ्खं घण्टाया वदने स्थितम् ॥ 72 ॥
मूलम् - 72
कालवैश्वानरोपेतमनन्तं शब्दचोदके।
मुक्ताहाराश्रितं शङ्खं घण्टाया वदने स्थितम् ॥ 72 ॥
विश्वास-प्रस्तुतिः - 73
संस्थितं च महाबुद्धे! तदूर्ध्वे गगनाश्रितम्।
चक्रं यस्मिन्नरोद्देशे द्वादशात्मा स्थितो रविः ॥ 73 ॥
मूलम् - 73
संस्थितं च महाबुद्धे! तदूर्ध्वे गगनाश्रितम्।
चक्रं यस्मिन्नरोद्देशे द्वादशात्मा स्थितो रविः ॥ 73 ॥
विश्वास-प्रस्तुतिः - 74
मासात्मना पुनः सो वैकर्तनेष्ववतिष्ठते।
षोडशारेऽमृतात्मा वै कलादेहस्तु चन्द्रमाः ॥ 74 ॥
मूलम् - 74
मासात्मना पुनः सो वैकर्तनेष्ववतिष्ठते।
षोडशारेऽमृतात्मा वै कलादेहस्तु चन्द्रमाः ॥ 74 ॥
विश्वास-प्रस्तुतिः - 75
सर्वेषु वृत्तक्षेत्रेषु नभस्वान् स्वयमेव हि।
तत्वसङ्घं हि चाव्यक्तं पद्मपत्राश्रितं तु वै ॥ 75 ॥
मूलम् - 75
सर्वेषु वृत्तक्षेत्रेषु नभस्वान् स्वयमेव हि।
तत्वसङ्घं हि चाव्यक्तं पद्मपत्राश्रितं तु वै ॥ 75 ॥
विश्वास-प्रस्तुतिः - 76
जीवः कमलकिञ्जल्के कर्णिकाश्रित ईश्वरः।
शङ्खाश्रितश्च प्रणवो विद्यां विद्धि गदाश्रिताम् ॥ 76 ॥
मूलम् - 76
जीवः कमलकिञ्जल्के कर्णिकाश्रित ईश्वरः।
शङ्खाश्रितश्च प्रणवो विद्यां विद्धि गदाश्रिताम् ॥ 76 ॥
विश्वास-प्रस्तुतिः - 77
प्राणाधिदैवं गरुडमित्येवं देवतागणम्।
ध्यात्वार्चयेत् पुरार्घ्याद्यैर्धूपान्तैरथवा द्विज! ॥ 77 ॥
मूलम् - 77
प्राणाधिदैवं गरुडमित्येवं देवतागणम्।
ध्यात्वार्चयेत् पुरार्घ्याद्यैर्धूपान्तैरथवा द्विज! ॥ 77 ॥
विश्वास-प्रस्तुतिः - 78
अधोमुखं तु ब्रह्माण्डं ध्यायेज्जनरवाकुलम्।
सनालं च तदुर्ध्वे तु पद्ममष्टदलं स्मरेत् ॥ 78 ॥
मूलम् - 78
अधोमुखं तु ब्रह्माण्डं ध्यायेज्जनरवाकुलम्।
सनालं च तदुर्ध्वे तु पद्ममष्टदलं स्मरेत् ॥ 78 ॥
विश्वास-प्रस्तुतिः - 79
प्रकीर्णपत्रं सुसितं केसरालिसुकर्णिकम्।
तन्मध्ये चिन्तयेद्देवीं वर्गाष्टकभुजान्विताम् ॥ 79 ॥
मूलम् - 79
प्रकीर्णपत्रं सुसितं केसरालिसुकर्णिकम्।
तन्मध्ये चिन्तयेद्देवीं वर्गाष्टकभुजान्विताम् ॥ 79 ॥
विश्वास-प्रस्तुतिः - 80
मुख्ये हस्तचतुष्के तु लाञ्छनं कमलादिकम्।
स्फाटिकं चाक्षसूत्रं च तथा विज्ञानपुस्तकम् ॥ 80 ॥
मूलम् - 80
मुख्ये हस्तचतुष्के तु लाञ्छनं कमलादिकम्।
स्फाटिकं चाक्षसूत्रं च तथा विज्ञानपुस्तकम् ॥ 80 ॥
विश्वास-प्रस्तुतिः - 81
अभयं वरदं चैव हस्तद्विद्वितये परे।
पद्मासने चोपविष्टां पद्मपत्रायतेक्षणाम् ॥ 81 ॥
मूलम् - 81
अभयं वरदं चैव हस्तद्विद्वितये परे।
पद्मासने चोपविष्टां पद्मपत्रायतेक्षणाम् ॥ 81 ॥
विश्वास-प्रस्तुतिः - 82
पद्मगर्भप्रतीकाशां पद्ममालाविभूषिताम्।
सिताभरणसञ्छन्नां पीतवस्त्रविवेष्टिताम् ॥ 82 ॥
मूलम् - 82
पद्मगर्भप्रतीकाशां पद्ममालाविभूषिताम्।
सिताभरणसञ्छन्नां पीतवस्त्रविवेष्टिताम् ॥ 82 ॥
विश्वास-प्रस्तुतिः - 83
मन्त्रौघमुद्गिरन्तीं च मन्त्रज्वालाप्रभान्विताम्।
देवैः संस्तूयमानां च ब्रह्माद्यैर्ब्रह्मवादिभिः ॥ 83 ॥
मूलम् - 83

विश्वास-प्रस्तुतिः - 84
ऋषिभिर्मुनिभिः सिद्धैर्लोकानुग्रहकारिभिः।
नम्यमानां स्मरेत् सम्यक् पूजाकाले सदैव हि ॥ 84 ॥
मूलम् - 84
ऋषिभिर्मुनिभिः सिद्धैर्लोकानुग्रहकारिभिः।
नम्यमानां स्मरेत् सम्यक् पूजाकाले सदैव हि ॥ 84 ॥
विश्वास-प्रस्तुतिः - 85
योऽनया पूजयेन्मन्त्रं तस्य सिद्धिर्नदूरतः।
एवं ध्यात्वार्चयेत् सम्यगर्घ्याद्यैस्तु ततः स्मरेत् ॥ 85 ॥
मूलम् - 85

विश्वास-प्रस्तुतिः - 86
शब्दब्रह्ममहो यद्यद्धृदब्जाकाशमध्यगम्।
नित्योदितमनौपम्यमनभ्यासादगोचरम् ॥ 86 ॥
मूलम् - 86
शब्दब्रह्ममहो यद्यद्धृदब्जाकाशमध्यगम्।
नित्योदितमनौपम्यमनभ्यासादगोचरम् ॥ 86 ॥
विश्वास-प्रस्तुतिः - 87
उपदेष्टुमतोऽन्येषामभक्तानां न युज्यते।
परस्वरूपमन्त्राणामेतल्लक्षणमब्जज! ॥ 87 ॥
मूलम् - 87
उपदेष्टुमतोऽन्येषामभक्तानां न युज्यते।
परस्वरूपमन्त्राणामेतल्लक्षणमब्जज! ॥ 87 ॥
विश्वास-प्रस्तुतिः - 88
दशप्रकारे यच्छब्दे विसर्गान्तेऽक्षरादिके।
नानामन्त्रस्वरूपेण वर्तते वर्णविग्रहे ॥ 88 ॥
मूलम् - 88
दशप्रकारे यच्छब्दे विसर्गान्तेऽक्षरादिके।
नानामन्त्रस्वरूपेण वर्तते वर्णविग्रहे ॥ 88 ॥
विश्वास-प्रस्तुतिः - 89
भोगमोक्षप्रदो मन्त्रो य आप्तः सद्गुरोर्मुखात्।
पञ्चस्थानगतो ज्ञेयो भक्तैर्दिव्यक्रियापरैः ॥ 89 ॥
मूलम् - 89
भोगमोक्षप्रदो मन्त्रो य आप्तः सद्गुरोर्मुखात्।
पञ्चस्थानगतो ज्ञेयो भक्तैर्दिव्यक्रियापरैः ॥ 89 ॥
विश्वास-प्रस्तुतिः - 90
बहिःस्थप्रतिमादौ तु जिह्वाग्रे हृत्कुशेशये।
धूपधूमशिखायां च घण्टाशब्दे सुलक्षणे ॥ 90 ॥
मूलम् - 90
बहिःस्थप्रतिमादौ तु जिह्वाग्रे हृत्कुशेशये।
धूपधूमशिखायां च घण्टाशब्दे सुलक्षणे ॥ 90 ॥
विश्वास-प्रस्तुतिः - 91
स्वरूपज्योतिरेवान्तर्भावयेत् संस्थितं हृदि।
मध्यमेन स्वरूपेण अव्युच्छिन्नं महामते! ॥ 91 ॥
मूलम् - 91
स्वरूपज्योतिरेवान्तर्भावयेत् संस्थितं हृदि।
मध्यमेन स्वरूपेण अव्युच्छिन्नं महामते! ॥ 91 ॥
विश्वास-प्रस्तुतिः - 92
धूपधूमाश्रितं विद्धि वैखरीविग्रहं पुनः।
घण्टायां चाल्यमानायामच्छिन्नमनुभूयते ॥ 92 ॥
मूलम् - 92
धूपधूमाश्रितं विद्धि वैखरीविग्रहं पुनः।
घण्टायां चाल्यमानायामच्छिन्नमनुभूयते ॥ 92 ॥
विश्वास-प्रस्तुतिः - 93
एवं स्मृत्वा ततस्तां तु सुमन्त्रन्यस्तविग्रहाम्।
अर्चितां ध्यानसंयुक्तामर्घ्याद्यैर्धूपसंयुतैः ॥ 93 ॥
मूलम् - 93

विश्वास-प्रस्तुतिः - 94
सञ्चालयेत्ततः सम्यक् सुशब्दां मन्त्रबोधिनीम्।
त्रैलोक्यद्राविणीं घण्टां सर्वदुष्टनिबर्हिणीम् ॥ 94 ॥
मूलम् - 94
सञ्चालयेत्ततः सम्यक् सुशब्दां मन्त्रबोधिनीम्।
त्रैलोक्यद्राविणीं घण्टां सर्वदुष्टनिबर्हिणीम् ॥ 94 ॥
विश्वास-प्रस्तुतिः - 95
एषा द्रुतिर्हि मन्त्राणां सुप्तानां च प्रबोधिनी।
वारणी सर्वविघ्नानां सर्वमन्त्रप्रसादिनी ॥ 95 ॥
मूलम् - 95
एषा द्रुतिर्हि मन्त्राणां सुप्तानां च प्रबोधिनी।
वारणी सर्वविघ्नानां सर्वमन्त्रप्रसादिनी ॥ 95 ॥
विश्वास-प्रस्तुतिः - 96
प्रणवान्ते ध्वनिर्ह्येषा शब्दशक्तौ लयं गता।
वर्णदेहाः स्मृता मन्त्रा मन्त्रदेहाश्च देवताः ॥ 96 ॥
मूलम् - 96
प्रणवान्ते ध्वनिर्ह्येषा शब्दशक्तौ लयं गता।
वर्णदेहाः स्मृता मन्त्रा मन्त्रदेहाश्च देवताः ॥ 96 ॥
विश्वास-प्रस्तुतिः - 97
घण्टास्तनितमूलास्ते प्रबुद्धाः कर्मसिद्धिदाः।
परशब्दोत्थिता शक्तिर्घण्टास्तनितरूपिणी ॥ 97 ॥
मूलम् - 97
घण्टास्तनितमूलास्ते प्रबुद्धाः कर्मसिद्धिदाः।
परशब्दोत्थिता शक्तिर्घण्टास्तनितरूपिणी ॥ 97 ॥
विश्वास-प्रस्तुतिः - 98
वर्णत्वं समनुप्राप्ता तैर्वर्णैर्मुनिसत्तम!।
मन्त्राणां कल्पिता देहा नानाकाराः सहस्रशः ॥ 98 ॥
मूलम् - 98
वर्णत्वं समनुप्राप्ता तैर्वर्णैर्मुनिसत्तम!।
मन्त्राणां कल्पिता देहा नानाकाराः सहस्रशः ॥ 98 ॥
विश्वास-प्रस्तुतिः - 99
स्वेच्छया त्वनया शक्त्या सामर्थ्यात् स्वात्मनः स्वयम्।
अनुग्रहार्थं भविनां भक्तानां भावितात्मनाम् ॥ 99 ॥
मूलम् - 99

विश्वास-प्रस्तुतिः - 100
मननान्मुनिशार्दूल! त्राणं कुर्वन्ति वै यतः।
ददते पदमात्मीयं तस्मान्मन्त्राः प्रकीर्तिताः ॥ 100 ॥
मूलम् - 100
मननान्मुनिशार्दूल! त्राणं कुर्वन्ति वै यतः।
ददते पदमात्मीयं तस्मान्मन्त्राः प्रकीर्तिताः ॥ 100 ॥
विश्वास-प्रस्तुतिः - 101
अनभिव्यक्तशब्दास्ते निराकारास्तथैव च।
घण्टायां चाल्यमानायां निर्यान्ति च सहस्रशः ॥ 101 ॥
मूलम् - 101
अनभिव्यक्तशब्दास्ते निराकारास्तथैव च।
घण्टायां चाल्यमानायां निर्यान्ति च सहस्रशः ॥ 101 ॥
विश्वास-प्रस्तुतिः - 102
अत एव मुनिश्रेष्ठ! मन्त्रमाता प्रकीर्तिता।
एषा घण्टाभिधा शक्तिर्वागीशा च सरस्वती ॥ 102 ॥
मूलम् - 102
अत एव मुनिश्रेष्ठ! मन्त्रमाता प्रकीर्तिता।
एषा घण्टाभिधा शक्तिर्वागीशा च सरस्वती ॥ 102 ॥
विश्वास-प्रस्तुतिः - 103
वाचि मन्त्राः स्थिताः सर्वे वाच्यं मन्त्रे प्रतिष्ठितम्।
मन्त्ररूपात्मकं विश्वं सबाह्याभ्यन्तरं ततः ॥ 103 ॥
मूलम् - 103
वाचि मन्त्राः स्थिताः सर्वे वाच्यं मन्त्रे प्रतिष्ठितम्।
मन्त्ररूपात्मकं विश्वं सबाह्याभ्यन्तरं ततः ॥ 103 ॥
विश्वास-प्रस्तुतिः - 104
घण्टाशब्दगतं सर्वं तस्मात्तां चालयेत् पुरा।
स्वेषु चोक्तेषु कालेषु–तांस्तु मे गदतः श्रृणु ॥ 104 ॥
मूलम् - 104
घण्टाशब्दगतं सर्वं तस्मात्तां चालयेत् पुरा।
स्वेषु चोक्तेषु कालेषु–तांस्तु मे गदतः श्रृणु ॥ 104 ॥
विश्वास-प्रस्तुतिः - 105
गणेशपीठद्वारस्थदेवानामर्चने ततः।
आहूतिकाले मन्त्राणां धूपदाने विशेषतः ॥ 105 ॥
मूलम् - 105
गणेशपीठद्वारस्थदेवानामर्चने ततः।
आहूतिकाले मन्त्राणां धूपदाने विशेषतः ॥ 105 ॥
विश्वास-प्रस्तुतिः - 106
दीपदानेऽर्घ्यदाने च तथा नैवेद्यजोषणे।
जपस्तुत्यवसानाभ्यां प्रवृत्ते चाग्नितर्पणे ॥ 106 ॥
मूलम् - 106
दीपदानेऽर्घ्यदाने च तथा नैवेद्यजोषणे।
जपस्तुत्यवसानाभ्यां प्रवृत्ते चाग्नितर्पणे ॥ 106 ॥
विश्वास-प्रस्तुतिः - 107
पूर्णाहुतिप्रदाने च मन्त्राणां तु विसर्जने।
विष्वक्सेनार्चने चैव तत्पूजाप्रतिपादने ॥ 107 ॥
मूलम् - 107
पूर्णाहुतिप्रदाने च मन्त्राणां तु विसर्जने।
विष्वक्सेनार्चने चैव तत्पूजाप्रतिपादने ॥ 107 ॥
विश्वास-प्रस्तुतिः - 108
बलिप्रदानकाले तु देवतानां विशेषतः।
नातोऽन्यदा स्याद्विहितं चालनं सिद्धिमिच्छिताम् ॥ 108 ॥
मूलम् - 108
बलिप्रदानकाले तु देवतानां विशेषतः।
नातोऽन्यदा स्याद्विहितं चालनं सिद्धिमिच्छिताम् ॥ 108 ॥
विश्वास-प्रस्तुतिः - 109
धूपं दत्वाऽथ पात्राणां घण्टाशब्दसमन्वितम्।
धूपं दद्याद्यथाकालं यद्वार्घ्यादौ सकृत् सकृत् ॥ 109 ॥
मूलम् - 109
धूपं दत्वाऽथ पात्राणां घण्टाशब्दसमन्वितम्।
धूपं दद्याद्यथाकालं यद्वार्घ्यादौ सकृत् सकृत् ॥ 109 ॥
विश्वास-प्रस्तुतिः - 110
अनुकल्पे तु हृन्मन्त्रं कुर्यादावर्तनं बुधः।
आवाहने सन्निधाने सन्निरोधे तथाऽर्चने ॥ 110 ॥
मूलम् - 110
अनुकल्पे तु हृन्मन्त्रं कुर्यादावर्तनं बुधः।
आवाहने सन्निधाने सन्निरोधे तथाऽर्चने ॥ 110 ॥
विश्वास-प्रस्तुतिः - 111
विसर्जनेऽर्घ्यदानं तु प्राक्पात्रान्नित्यमाचरेत्।
तदम्भसा चार्हणं तु तथैव परिषेचनम् ॥ 111 ॥
मूलम् - 111
विसर्जनेऽर्घ्यदानं तु प्राक्पात्रान्नित्यमाचरेत्।
तदम्भसा चार्हणं तु तथैव परिषेचनम् ॥ 111 ॥
विश्वास-प्रस्तुतिः - 112
कुर्यात् प्रणयनादानं प्रीणनं प्रीतिकर्मणि।
प्रोक्षणं सर्ववस्तूनामन्यस्मादुदकेन तु ॥ 112 ॥
मूलम् - 112
कुर्यात् प्रणयनादानं प्रीणनं प्रीतिकर्मणि।
प्रोक्षणं सर्ववस्तूनामन्यस्मादुदकेन तु ॥ 112 ॥
विश्वास-प्रस्तुतिः - 113
आरम्भे सर्वकार्याणां तत्समाप्तौ सदैवहि।
न्यूनाधिकानां शान्त्यै तु ज्ञानव्यत्ययशान्तये ॥ 113 ॥
मूलम् - 113
आरम्भे सर्वकार्याणां तत्समाप्तौ सदैवहि।
न्यूनाधिकानां शान्त्यै तु ज्ञानव्यत्ययशान्तये ॥ 113 ॥
विश्वास-प्रस्तुतिः - 114
कार्यं तदर्घ्यदानं च नित्यं मन्त्रात्मनो विभोः।
कुम्भोपकुम्भकुण्डानां मन्त्रास्त्रकलशार्चने ॥ 114 ॥
मूलम् - 114
कार्यं तदर्घ्यदानं च नित्यं मन्त्रात्मनो विभोः।
कुम्भोपकुम्भकुण्डानां मन्त्रास्त्रकलशार्चने ॥ 114 ॥
विश्वास-प्रस्तुतिः - 115
संपूजने च भोगानां गुर्वादीनां महामते!।
दक्षशिष्यात्मपूजार्थं द्वार्स्थानामर्चनं प्रति ॥ 115 ॥
मूलम् - 115
संपूजने च भोगानां गुर्वादीनां महामते!।
दक्षशिष्यात्मपूजार्थं द्वार्स्थानामर्चनं प्रति ॥ 115 ॥
विश्वास-प्रस्तुतिः - 116
प्रासादासनदेवानां गुरूणां सन्ततेस्तथा।
लाञ्छनाङ्गपरीवारशक्तिभूषणरूपिणाम् ॥ 116 ॥
मूलम् - 116
प्रासादासनदेवानां गुरूणां सन्ततेस्तथा।
लाञ्छनाङ्गपरीवारशक्तिभूषणरूपिणाम् ॥ 116 ॥
विश्वास-प्रस्तुतिः - 117
मण्डलावरणस्थानां देवानां चार्चनं तथा।
मुद्राबन्धे कराभ्युक्षां तदर्चाक्षालनं तथा ॥ 117 ॥
मूलम् - 117
मण्डलावरणस्थानां देवानां चार्चनं तथा।
मुद्राबन्धे कराभ्युक्षां तदर्चाक्षालनं तथा ॥ 117 ॥
विश्वास-प्रस्तुतिः - 118
जपकालेऽक्षसूत्रस्य कुर्यात्तत्पूजनं तथा।
पाद्यदानं तृतीयात्तु नित्यं पात्रात् समाचरेत् ॥ 118 ॥
मूलम् - 118
जपकालेऽक्षसूत्रस्य कुर्यात्तत्पूजनं तथा।
पाद्यदानं तृतीयात्तु नित्यं पात्रात् समाचरेत् ॥ 118 ॥
विश्वास-प्रस्तुतिः - 119
चतुर्थात्तु यथाकालं दद्यादाचमनं पुनः।
हस्तप्रक्षालनं चैव गण्डूषं मुखधावनम् ॥ 119 ॥
मूलम् - 119
चतुर्थात्तु यथाकालं दद्यादाचमनं पुनः।
हस्तप्रक्षालनं चैव गण्डूषं मुखधावनम् ॥ 119 ॥
विश्वास-प्रस्तुतिः - 120
स्नानीयाच्चाचरेत् स्नानं प्रयोजकविधिस्त्वयम्।
अर्ध्यपात्रात् द्वितीयात्तु किञ्चिदुद्धृत्य वै जलम् ॥ 120 ॥
मूलम् - 120
स्नानीयाच्चाचरेत् स्नानं प्रयोजकविधिस्त्वयम्।
अर्ध्यपात्रात् द्वितीयात्तु किञ्चिदुद्धृत्य वै जलम् ॥ 120 ॥
विश्वास-प्रस्तुतिः - 121
तेन स्वदेहविन्यस्तान् मन्त्रानिष्ट्वा यथाक्रमम्।
अनुलेपनपुष्पेण धूपेन च ततो मुने! ॥ 121 ॥
मूलम् - 121
तेन स्वदेहविन्यस्तान् मन्त्रानिष्ट्वा यथाक्रमम्।
अनुलेपनपुष्पेण धूपेन च ततो मुने! ॥ 121 ॥
विश्वास-प्रस्तुतिः - 122
मत्पूजार्थं प्रक्लृप्तानि गन्धपुष्पाणि यानि च।
तानि सर्वाण्यथाचार्यो धारयेन्न कदाचन ॥ 122 ॥
मूलम् - 122
मत्पूजार्थं प्रक्लृप्तानि गन्धपुष्पाणि यानि च।
तानि सर्वाण्यथाचार्यो धारयेन्न कदाचन ॥ 122 ॥
विश्वास-प्रस्तुतिः - 123
धारयेद्यदि संमोहाल्लोभाद्वा तानि देशिकः।
गन्धादीन्यर्चनार्थानि सा पूजा निष्फला भवेत् ॥ 123 ॥
मूलम् - 123
धारयेद्यदि संमोहाल्लोभाद्वा तानि देशिकः।
गन्धादीन्यर्चनार्थानि सा पूजा निष्फला भवेत् ॥ 123 ॥
विश्वास-प्रस्तुतिः - 124
तस्मात् सर्वप्रयत्नेन पृथक्कुर्याद्यथाविधि।
अर्घ्यादिकं समादाय द्वार्स्थदेवान् समर्चयेत् ॥ 124 ॥
मूलम् - 124
तस्मात् सर्वप्रयत्नेन पृथक्कुर्याद्यथाविधि।
अर्घ्यादिकं समादाय द्वार्स्थदेवान् समर्चयेत् ॥ 124 ॥
विश्वास-प्रस्तुतिः - 125
निर्गत्य द्वारबाह्ये तु
स्थितो वासीन एव वा।
वास्तुक्षेत्रेश-गरुड-
द्वार्-श्री-चण्ड-प्रचण्डकान् ॥ 125 ॥
English
After worshipping Vastu (or ‘Vāstvīśa’ i.e. Vāstupurușa, the guardian deity of the temple), Kṣetreśa, Garuda, Dvārśrī (also known as Dvāralakṣmī), Canda and Pracanda
मूलम् - 125
निर्गत्य द्वारबाह्ये तु स्थितो वासीन एव वा।
वास्तुक्षेत्रेशगरुडद्वार्श्रीचण्डप्रचण्डकान् ॥ 125 ॥
विश्वास-प्रस्तुतिः - 126
अभ्यर्च्यार्घ्यादिभिर्देवान्
प्रासादस्थांश्च पूजयेत्।
प्रासादेऽथ चतुर्द्वारे
मण्डपे चेतरेषु च ॥ 126 ॥
English
with arghya and so on, one should worship the temple gods in the temple, and the others in the pavillion at [each of] the four [entrance-]gates.
मूलम् - 126
अभ्यर्च्यार्घ्यादिभिर्देवान् प्रासादस्थांश्च पूजयेत्।
प्रासादेऽथ चतुर्द्वारे मण्डपे चेतरेषु च ॥ 126 ॥
विश्वास-प्रस्तुतिः - 127
द्वारत्रयेऽथ धातारं
विधातारं जयं तथा।
विजयं चापि भद्रं च
सुभद्रं च गणेश्वरम् ॥ 127 ॥
English
Then, at the three gates [one should worship] Dhātṛ and Vidhātṛ, and also Jaya and Vijaya, and Bhadra and Subhadra, and the Lord of the Gaņas (i.e. Visvaksena].
मूलम् - 127
द्वारत्रयेऽथ धातारं विधातारं जयं तथा।
विजयं चापि भद्रं च सुभद्रं च गणेश्वरम् ॥ 127 ॥
विश्वास-प्रस्तुतिः - 128
यद्-अङ्गभावम् अभ्येति
द्वार्-स्थाद्यं देवता-गणम्।
विष्वक्सेनावसानं च
नराणाम् अल्प–मेधसाम् ॥ 128 ॥
English
Worship which is directed towards the subordinate class of deities who form God’s retinue, beginning with the gatekeepers and ending with Visvaksena, to the minds of men who have little understanding.
मूलम् - 128
यदङ्गभावमभ्येति द्वार्स्थाद्यं देवतागणम्।
विष्वक्सेनावसानं च नराणामल्पमेधसाम् ॥ 128 ॥
विश्वास-प्रस्तुतिः - 129
जन्तोर् एकान्तिनस् तद् वै
चित्त-खेद-कृद्-अर्चनम्।
विघ्न-कृत् प्रकृतस्यापि
शिष्याणां तद्-अनर्चनम् ॥ 129 ॥
English
causes distress, from (i.e. by)372 a man [who is] an Ekantin .
[But] not worshipping them, even if it is done [only] for (or by?) the pupils [of the priest], causes obstacles.
372 The use of the ablative/genitive case here (jantor ekantinaḥ) seems strange. In his commentary on the IS, Alasingabhatta is unsure of how to interpret this, and one of his suggestions is to take it as an ablative absolutive (lyablope pañcami) - see Satvatarthaprakāśikā on IS 4.3. However, this is not convincing.
मूलम् - 129
जन्तोरेकान्तिनस्तद्वै चित्तखेदकृदर्चनम्।
विघ्नकृत् प्रकृतस्यापि शिष्याणां तदनर्चनम् ॥ 129 ॥
विश्वास-प्रस्तुतिः - 130
अतस् तद्-अनुकम्पार्थं
देव-भृत्य-धियाऽर्चनम्।
भक्ति-श्रद्धोज्झितं चैव
विहितं त्व् एवम् एव हि ॥ 130 ॥
English
Therefore, worship with [one’s] thought [directed upon] the [deities who are the] servants of god is enjoined in order to elicit their compassion, though [it should be done] without devotion and loyalty…
मूलम् - 130
अतस्तदनुकम्पार्थं देवभृत्यधियाऽर्चनम्।
भक्तिश्रद्धोज्झितं चैव विहितं त्वेवमेव हि ॥ 130 ॥
विश्वास-प्रस्तुतिः - 131
ते तत्-प्राणि-च्युतं प्रह्वा
दत्तम् अप्य् अवहेलया।
गृह्णन्ति मनसा श्रेयः
परं ध्यात्वा धिया हृदि ॥ 131 ॥
English
.. Thus, from the worship of these [subordinate deities] by an Ekantin guru, strife will be cast out, since they are the servants of Hari.
मूलम् - 131
ते तत्प्राणिच्युतं प्रह्वा दत्तमप्यवहेलया।
गृह्णन्ति मनसा श्रेयः परं ध्यात्वा धिया हृदि ॥ 131 ॥
विश्वास-प्रस्तुतिः - 132
यतः सर्वे ऽच्युतमयास्
तच्-चित्तार्पित-मानसाः।
एतावद् अर्चनात् तेषां
गुरोर् एकान्तिनस् तु वै ॥ 132 ॥
मूलम् - 132
यतः सर्वेऽच्युतमयास्तच्चित्तार्पितमानसाः।
एतावदर्चनात्तेषां गुरोरेकान्तिनस्तु वै ॥ 132 ॥
विश्वास-प्रस्तुतिः - 133
स्याद् विरोध-निरासस् तु
यतो भृत्यास् तु ते हरेः।
कृत्वैवं द्वार-यागं तु
ततः पुष्पं च संमुखम् ॥ 133 ॥
मूलम् - 133
स्याद्विरोधनिरासस्तु यतो भृत्यास्तु ते हरेः।
कृत्वैवं द्वारयागं तु ततः पुष्पं च संमुखम् ॥ 133 ॥
विश्वास-प्रस्तुतिः - 134
गृहीत्वाङ्गुष्ठ-पूर्वेण
स्वाङ्गुलि-त्रितयेन तु।
अभिमन्त्र्य तदस्त्रेण
चक्रं तदुपरि स्मरेत् ॥ 134 ॥
मूलम् - 134
गृहीत्वाङ्गुष्ठपूर्वेण स्वाङ्गुलित्रितयेन तु।
अभिमन्त्र्य तदस्त्रेण चक्रं तदुपरि स्मरेत् ॥ 134 ॥
विश्वास-प्रस्तुतिः - 135
निशितारं ज्वलद्रूपं वर्षन्तमनलाशनिम्।
क्षयकृद्विघ्नजालानां क्षिपेद्यागगृहान्तरे ॥ 135 ॥
मूलम् - 135
निशितारं ज्वलद्रूपं वर्षन्तमनलाशनिम्।
क्षयकृद्विघ्नजालानां क्षिपेद्यागगृहान्तरे ॥ 135 ॥
विश्वास-प्रस्तुतिः - 136
ततस्तत्तेजसा विघ्नजालं निष्कासयेन्महत्।
बहिर्भवनमध्यात्तु ततस्तदनुकम्पया ॥ 136 ॥
मूलम् - 136
ततस्तत्तेजसा विघ्नजालं निष्कासयेन्महत्।
बहिर्भवनमध्यात्तु ततस्तदनुकम्पया ॥ 136 ॥
विश्वास-प्रस्तुतिः - 137
स्वदेहादामृतं(हवामगं) भागममृतांशुसमं स्मरेत्।
प्राङ्मन्त्रमात्रविन्यासात् स तेषामनलप्रभः ॥ 137 ॥
मूलम् - 137
स्वदेहादामृतं(हवामगं) भागममृतांशुसमं स्मरेत्।
प्राङ्मन्त्रमात्रविन्यासात् स तेषामनलप्रभः ॥ 137 ॥
विश्वास-प्रस्तुतिः - 138
प्रतिभाति यतस्तेन मन्त्रपुष्पसमाश्रयात्।
निर्गच्छन्ति तमाश्रित्य वामभागमतस्तु ते ॥ 138 ॥
मूलम् - 138
प्रतिभाति यतस्तेन मन्त्रपुष्पसमाश्रयात्।
निर्गच्छन्ति तमाश्रित्य वामभागमतस्तु ते ॥ 138 ॥
विश्वास-प्रस्तुतिः - 139
दक्षिणां तर्जनीं विप्र! कुर्यादूर्ध्वमुखीं ततः।
शिखामन्त्रेण संयुक्तां विद्युद्विलसितप्रभाम् ॥ 139 ॥
मूलम् - 139
दक्षिणां तर्जनीं विप्र! कुर्यादूर्ध्वमुखीं ततः।
शिखामन्त्रेण संयुक्तां विद्युद्विलसितप्रभाम् ॥ 139 ॥
विश्वास-प्रस्तुतिः - 140
स्मृत्वा स्वां विघ्नशान्त्यर्थं भ्रामयन्नन्तराविशेत्।
स्वासनं च ततः प्रोक्ष्य अर्घ्यपात्रोदकेन च ॥ 140 ॥
मूलम् - 140
स्मृत्वा स्वां विघ्नशान्त्यर्थं भ्रामयन्नन्तराविशेत्।
स्वासनं च ततः प्रोक्ष्य अर्घ्यपात्रोदकेन च ॥ 140 ॥
विश्वास-प्रस्तुतिः - 141
सास्त्रेण ताड्य पुष्पेण तत्पृष्ठे क्रमशो द्विज!।
आधारशक्तिपूर्वं तु मन्त्रसङ्घं प्रपूजयेत् ॥ 141 ॥
मूलम् - 141
सास्त्रेण ताड्य पुष्पेण तत्पृष्ठे क्रमशो द्विज!।
आधारशक्तिपूर्वं तु मन्त्रसङ्घं प्रपूजयेत् ॥ 141 ॥
विश्वास-प्रस्तुतिः - 142
उपविश्यासने यागमारभेत समाहितः।
समये वात्र कुर्वीत सर्वभोगनिरीक्षणम् ॥ 142 ॥
मूलम् - 142
उपविश्यासने यागमारभेत समाहितः।
समये वात्र कुर्वीत सर्वभोगनिरीक्षणम् ॥ 142 ॥
विश्वास-प्रस्तुतिः - 143
न्यस्य भद्रासनं मूलात् प्रोक्षणार्घ्यप्लुतेन तु।
पाणिनाऽप्यथ कूर्चेन तज्जलेन तु मार्जयेत् ॥ 143 ॥
मूलम् - 143
न्यस्य भद्रासनं मूलात् प्रोक्षणार्घ्यप्लुतेन तु।
पाणिनाऽप्यथ कूर्चेन तज्जलेन तु मार्जयेत् ॥ 143 ॥
विश्वास-प्रस्तुतिः - 144
तत्तावदस्त्रपुष्पेण कुर्याद्विघ्नगणोज्झितम्।
सर्वलोकमयं तत्र सर्वदेवसमाश्रयम् ॥ 144 ॥
मूलम् - 144
तत्तावदस्त्रपुष्पेण कुर्याद्विघ्नगणोज्झितम्।
सर्वलोकमयं तत्र सर्वदेवसमाश्रयम् ॥ 144 ॥
विश्वास-प्रस्तुतिः - 145
सर्वाधारमयं ध्यायेदन्तर्लीनं तु चक्रराट्।
प्रणवेन स्वनाम्नाऽथ नमोऽन्तेनार्चयेच्च तम् ॥ 145 ॥
मूलम् - 145
सर्वाधारमयं ध्यायेदन्तर्लीनं तु चक्रराट्।
प्रणवेन स्वनाम्नाऽथ नमोऽन्तेनार्चयेच्च तम् ॥ 145 ॥
विश्वास-प्रस्तुतिः - 146
ततस्तु सर्वमन्त्राणां विन्यासं तत्र चेतसा।
समाचरेद्यथायोगं पुष्पदानपुरस्सरम् ॥ 146 ॥
मूलम् - 146
ततस्तु सर्वमन्त्राणां विन्यासं तत्र चेतसा।
समाचरेद्यथायोगं पुष्पदानपुरस्सरम् ॥ 146 ॥
विश्वास-प्रस्तुतिः - 147
अर्घ्यालभनधूपैस्तु माल्यैर्नानास्रगुद्भवैः।
योगपीठार्चनं कुर्याद्यथावदवधारय ॥ 147 ॥
मूलम् - 147
अर्घ्यालभनधूपैस्तु माल्यैर्नानास्रगुद्भवैः।
योगपीठार्चनं कुर्याद्यथावदवधारय ॥ 147 ॥
विश्वास-प्रस्तुतिः - 148
बिम्बेन सहितं पीठं योगपीठमुदाहृतम्।
अनुसन्धानयागे तु योगपीठं प्रकल्पयेत् ॥ 148 ॥
मूलम् - 148
बिम्बेन सहितं पीठं योगपीठमुदाहृतम्।
अनुसन्धानयागे तु योगपीठं प्रकल्पयेत् ॥ 148 ॥
विश्वास-प्रस्तुतिः - 149
तन्मन्त्रासनमित्युक्तं, मन्त्रन्यासं तु सर्वतः।
कुर्यात्तत्स्थस्य देवस्य पीठस्याधो निवेशयेत् ॥ 149 ॥
मूलम् - 149
तन्मन्त्रासनमित्युक्तं, मन्त्रन्यासं तु सर्वतः।
कुर्यात्तत्स्थस्य देवस्य पीठस्याधो निवेशयेत् ॥ 149 ॥
विश्वास-प्रस्तुतिः - 150
आधारशक्तिं तस्योर्ध्वे कूर्मं कालाग्निसंज्ञिकम्।
तन्मूर्ध्नि शेषसंज्ञं तु योगपीठपदोपरि ॥ 150 ॥
मूलम् - 150
आधारशक्तिं तस्योर्ध्वे कूर्मं कालाग्निसंज्ञिकम्।
तन्मूर्ध्नि शेषसंज्ञं तु योगपीठपदोपरि ॥ 150 ॥
विश्वास-प्रस्तुतिः - 151
भुवं न्यस्य तदूर्ध्वे तु जङ्घायां क्षीरसागरम्।
आधारपद्मं कुमुदे तदूर्ध्वे कण्ठमूलतः ॥ 151 ॥
मूलम् - 151
भुवं न्यस्य तदूर्ध्वे तु जङ्घायां क्षीरसागरम्।
आधारपद्मं कुमुदे तदूर्ध्वे कण्ठमूलतः ॥ 151 ॥
विश्वास-प्रस्तुतिः - 152
आग्नेय्यादौ तु धर्माद्यमैशान्तं तच्चतुष्टयम्।
प्रागाशादौ त्वधर्माद्यमुत्तरान्तं न्यसेत् परम् ॥ 152 ॥
मूलम् - 152
आग्नेय्यादौ तु धर्माद्यमैशान्तं तच्चतुष्टयम्।
प्रागाशादौ त्वधर्माद्यमुत्तरान्तं न्यसेत् परम् ॥ 152 ॥
विश्वास-प्रस्तुतिः - 153
ऋग्वेदं कल्पयेदेवं प्रागीशानदिगन्तरे।
यजुःप्राग्वह्निदिङ्मध्ये सामान्तर्यातुवारुणे ॥ 153 ॥
मूलम् - 153
ऋग्वेदं कल्पयेदेवं प्रागीशानदिगन्तरे।
यजुःप्राग्वह्निदिङ्मध्ये सामान्तर्यातुवारुणे ॥ 153 ॥
विश्वास-प्रस्तुतिः - 154
वारुणानिलदिङ्मध्येऽथर्ववेदं ततःपरम्।
ईशानसोमदिङ्मध्ये कृतं याम्यानलान्तरे ॥ 154 ॥
मूलम् - 154
वारुणानिलदिङ्मध्येऽथर्ववेदं ततःपरम्।
ईशानसोमदिङ्मध्ये कृतं याम्यानलान्तरे ॥ 154 ॥
विश्वास-प्रस्तुतिः - 155
त्रेतायुगं यातुयाम्यदिङ्मध्ये द्वापारं युगम्।
सोमवाय्वन्तरोद्देशे कलिसंज्ञं युगं क्रमात् ॥ 155 ॥
मूलम् - 155
त्रेतायुगं यातुयाम्यदिङ्मध्ये द्वापारं युगम्।
सोमवाय्वन्तरोद्देशे कलिसंज्ञं युगं क्रमात् ॥ 155 ॥
विश्वास-प्रस्तुतिः - 156
आधारशक्तेरारभ्य अनुसन्धानपूर्वकम्।
युगावसानं प्राग्दत्वा स्थूलं मन्त्रासनासनम् ॥ 156 ॥
मूलम् - 156
आधारशक्तेरारभ्य अनुसन्धानपूर्वकम्।
युगावसानं प्राग्दत्वा स्थूलं मन्त्रासनासनम् ॥ 156 ॥
विश्वास-प्रस्तुतिः - 157
तच्च षोडशकं न्यस्य भूयो भूयो दिगष्टके।
सूक्ष्मरूपधरं विप्र! प्राक्पदादीशगोचरम् ॥ 157 ॥
मूलम् - 157
तच्च षोडशकं न्यस्य भूयो भूयो दिगष्टके।
सूक्ष्मरूपधरं विप्र! प्राक्पदादीशगोचरम् ॥ 157 ॥
विश्वास-प्रस्तुतिः - 158
तत्रोर्ध्वे मध्यदेशे वै प्रागुक्तविधिना न्यसेत्।
द्विरष्टकं तु धर्माद्यं कान्तिमत् पररूपधृत् ॥ 158 ॥
मूलम् - 158
तत्रोर्ध्वे मध्यदेशे वै प्रागुक्तविधिना न्यसेत्।
द्विरष्टकं तु धर्माद्यं कान्तिमत् पररूपधृत् ॥ 158 ॥
विश्वास-प्रस्तुतिः - 159
तन्मूर्ध्नि कालचक्रं तु व्योमवत्पट्टिकागतम्।
तन्मध्येऽव्यक्तपद्मं तु गुणत्रयसमन्वितम् ॥ 159 ॥
मूलम् - 159
तन्मूर्ध्नि कालचक्रं तु व्योमवत्पट्टिकागतम्।
तन्मध्येऽव्यक्तपद्मं तु गुणत्रयसमन्वितम् ॥ 159 ॥
विश्वास-प्रस्तुतिः - 160
तद्दले सूर्यपरिधिं केसरे सोममण्डलम्।
कर्णिकायामग्निचक्रं तद्बीजे चित्प्रभाकरम् ॥ 160 ॥
मूलम् - 160
तद्दले सूर्यपरिधिं केसरे सोममण्डलम्।
कर्णिकायामग्निचक्रं तद्बीजे चित्प्रभाकरम् ॥ 160 ॥
विश्वास-प्रस्तुतिः - 161
स्मरेच्च विमलां शक्तिं तत्समीपे दिगष्टके।
ज्ञानशक्तिं विभोः शक्तिं सत्यशक्तिमनश्वरीम् ॥ 161 ॥
मूलम् - 161
स्मरेच्च विमलां शक्तिं तत्समीपे दिगष्टके।
ज्ञानशक्तिं विभोः शक्तिं सत्यशक्तिमनश्वरीम् ॥ 161 ॥
विश्वास-प्रस्तुतिः - 162
प्रकाशशक्तिं चानन्तामीशानुग्रहशक्तिके।
यथोक्तरूपान् ध्यात्वैतान् विभवं च यथाक्रमम् ॥ 162 ॥
मूलम् - 162
प्रकाशशक्तिं चानन्तामीशानुग्रहशक्तिके।
यथोक्तरूपान् ध्यात्वैतान् विभवं च यथाक्रमम् ॥ 162 ॥
विश्वास-प्रस्तुतिः - 163
स्वस्वतत्वानि विन्यस्य कुर्यादर्घ्यादिनार्चनम्।
प्रदर्शयेच्च तन्मुद्रां पीठे वै सुस्थिरे सदा ॥ 163 ॥
मूलम् - 163
स्वस्वतत्वानि विन्यस्य कुर्यादर्घ्यादिनार्चनम्।
प्रदर्शयेच्च तन्मुद्रां पीठे वै सुस्थिरे सदा ॥ 163 ॥
विश्वास-प्रस्तुतिः - 164
आधारशक्तेरारभ्य मन्त्रग्रामस्य पौष्कर!।
सुस्थिरे सन्निरोधश्च सर्वेषां विहितः सदा ॥ 164 ॥
मूलम् - 164
आधारशक्तेरारभ्य मन्त्रग्रामस्य पौष्कर!।
सुस्थिरे सन्निरोधश्च सर्वेषां विहितः सदा ॥ 164 ॥
विश्वास-प्रस्तुतिः - 165
यत्र यत्रानुरूपं यत्तत्र तन्न्यासमाचरेत्।
ईशानुग्रहशक्त्यन्तमाक्षितेः कमलोद्भव! ॥ 165 ॥
मूलम् - 165
यत्र यत्रानुरूपं यत्तत्र तन्न्यासमाचरेत्।
ईशानुग्रहशक्त्यन्तमाक्षितेः कमलोद्भव! ॥ 165 ॥
विश्वास-प्रस्तुतिः - 166
मन्त्राणां सान्निधिः कार्या चलपीठे तु केवले।
तात्कालिकस्तु विहितो निरोधस्तत्र सार्चनः ॥ 166 ॥
मूलम् - 166
मन्त्राणां सान्निधिः कार्या चलपीठे तु केवले।
तात्कालिकस्तु विहितो निरोधस्तत्र सार्चनः ॥ 166 ॥
विश्वास-प्रस्तुतिः - 167
आहूतोपविशेद्यत्र मन्त्रनाथोऽभिसंमुखः।
तत्प्रागपेक्षया कुर्याद्धर्मादीनां निवेशनम् ॥ 167 ॥
मूलम् - 167
आहूतोपविशेद्यत्र मन्त्रनाथोऽभिसंमुखः।
तत्प्रागपेक्षया कुर्याद्धर्मादीनां निवेशनम् ॥ 167 ॥
विश्वास-प्रस्तुतिः - 168
सांमुख्यं भजते यस्मात् साधकं परमेश्वरः।
तदासनं हि चिद्रूपं सिद्धमेतस्य वाहनात् ॥ 168 ॥
मूलम् - 168
सांमुख्यं भजते यस्मात् साधकं परमेश्वरः।
तदासनं हि चिद्रूपं सिद्धमेतस्य वाहनात् ॥ 168 ॥
विश्वास-प्रस्तुतिः - 169
चलबिम्बेन सह वै एकीभावगतस्य च।
पीठस्य मन्त्रविन्यासो विहितश्चलपीठवत् ॥ 169 ॥
मूलम् - 169
चलबिम्बेन सह वै एकीभावगतस्य च।
पीठस्य मन्त्रविन्यासो विहितश्चलपीठवत् ॥ 169 ॥
विश्वास-प्रस्तुतिः - 170
सुस्थिरस्यैकयोनेर्वै वियोनौ सुस्थिरस्य च।
मन्त्राणां विहितो न्यासः स्थिरपीठोदितस्तु वै ॥ 170 ॥
मूलम् - 170
सुस्थिरस्यैकयोनेर्वै वियोनौ सुस्थिरस्य च।
मन्त्राणां विहितो न्यासः स्थिरपीठोदितस्तु वै ॥ 170 ॥
विश्वास-प्रस्तुतिः - 171
पीठोपपीठयुक्तानां साङ्गानां केवलात्मनाम्।
एकादिगात्रपादानां सबिम्बानां यथाक्रमम् ॥ 171 ॥
मूलम् - 171
पीठोपपीठयुक्तानां साङ्गानां केवलात्मनाम्।
एकादिगात्रपादानां सबिम्बानां यथाक्रमम् ॥ 171 ॥
विश्वास-प्रस्तुतिः - 172
मण्डलोक्तविधानेन समभ्यूह्य समाचरेत्।
एवं चास्याचले पीठे शयानस्य विभोस्त्वथ ॥ 172 ॥
मूलम् - 172
मण्डलोक्तविधानेन समभ्यूह्य समाचरेत्।
एवं चास्याचले पीठे शयानस्य विभोस्त्वथ ॥ 172 ॥
विश्वास-प्रस्तुतिः - 173
सशक्तिकाच्चितो भानोरूर्ध्वेऽनन्तं समर्चयेत्।
यानारूढे त्वनन्तस्य स्थाने तार्क्ष्यं समर्चयेत् ॥ 173 ॥
मूलम् - 173
सशक्तिकाच्चितो भानोरूर्ध्वेऽनन्तं समर्चयेत्।
यानारूढे त्वनन्तस्य स्थाने तार्क्ष्यं समर्चयेत् ॥ 173 ॥
विश्वास-प्रस्तुतिः - 174
लक्ष्म्यादीनां तु देवीनां पीठस्याधः फणीश्वरम्।
तत्कोणेषु च धर्मादींस्तदूर्ध्वेऽव्यक्तपङ्कजम् ॥ 174 ॥
मूलम् - 174
लक्ष्म्यादीनां तु देवीनां पीठस्याधः फणीश्वरम्।
तत्कोणेषु च धर्मादींस्तदूर्ध्वेऽव्यक्तपङ्कजम् ॥ 174 ॥
विश्वास-प्रस्तुतिः - 175
धामत्रयं ततस्तस्मिन् विन्यसेत् पूर्ववर्त्मना।
व्योमबाह्ये त्वपीठानामग्निकोणादितो न्यसेत् ॥ 175 ॥
मूलम् - 175
धामत्रयं ततस्तस्मिन् विन्यसेत् पूर्ववर्त्मना।
व्योमबाह्ये त्वपीठानामग्निकोणादितो न्यसेत् ॥ 175 ॥
विश्वास-प्रस्तुतिः - 176
ज्ञान(युग)स्वभावमूर्तं च धर्माद्यं यच्चतुष्टयम्।
तन्निविष्टं तथाभूतं तद्व्यत्ययगणं हि यत् ॥ 176 ॥
मूलम् - 176
ज्ञान(युग)स्वभावमूर्तं च धर्माद्यं यच्चतुष्टयम्।
तन्निविष्टं तथाभूतं तद्व्यत्ययगणं हि यत् ॥ 176 ॥
विश्वास-प्रस्तुतिः - 177
सह ऋक्पूर्वसामान्तकालभेदेन चान्वितम्।
तत्पीठवसुधोद्देशे मण्डलादिषु वृत्तिषु ॥ 177 ॥
मूलम् - 177
सह ऋक्पूर्वसामान्तकालभेदेन चान्वितम्।
तत्पीठवसुधोद्देशे मण्डलादिषु वृत्तिषु ॥ 177 ॥
विश्वास-प्रस्तुतिः - 178
आत्मनः प्राग्वशाद्वायुकोणादारभ्य पूजनम्।
कार्यं विघ्नेशपूर्वाणां, तत्पदाद्वाग्रभूः पदम् ॥ 178 ॥
मूलम् - 178
आत्मनः प्राग्वशाद्वायुकोणादारभ्य पूजनम्।
कार्यं विघ्नेशपूर्वाणां, तत्पदाद्वाग्रभूः पदम् ॥ 178 ॥
विश्वास-प्रस्तुतिः - 179
स्वोत्तरात् पश्चिमद्वारदेशाद्वायुपदावधि।
वीथौ सवीथिकानां तु यागानामेतदाचरेत् ॥ 179 ॥
मूलम् - 179
स्वोत्तरात् पश्चिमद्वारदेशाद्वायुपदावधि।
वीथौ सवीथिकानां तु यागानामेतदाचरेत् ॥ 179 ॥
विश्वास-प्रस्तुतिः - 180
बहिर्वारणरेखाणां तन्मुक्तानां महामते!।
युक्तानां न बहिर्दोषस्तिर्यक्त्वेनार्चने सति ॥ 180 ॥
मूलम् - 180
बहिर्वारणरेखाणां तन्मुक्तानां महामते!।
युक्तानां न बहिर्दोषस्तिर्यक्त्वेनार्चने सति ॥ 180 ॥
विश्वास-प्रस्तुतिः - 181
विन्यस्य विष्टरान् दार्भान् कुसुमस्तबकानि च।
बिन्दून् वा सर्वरोगोत्थान् क्रमात्तदुपरि न्यसेत् ॥ 181 ॥
मूलम् - 181
विन्यस्य विष्टरान् दार्भान् कुसुमस्तबकानि च।
बिन्दून् वा सर्वरोगोत्थान् क्रमात्तदुपरि न्यसेत् ॥ 181 ॥
विश्वास-प्रस्तुतिः - 182
गणनाथं च वागीशां गुरुं च तदनन्तरम्।
पूजयेच्च ततो भक्त्या गुरुं परमसंज्ञितम् ॥ 182 ॥
मूलम् - 182
गणनाथं च वागीशां गुरुं च तदनन्तरम्।
पूजयेच्च ततो भक्त्या गुरुं परमसंज्ञितम् ॥ 182 ॥
विश्वास-प्रस्तुतिः - 183
आदिसिद्धसमूहं तु भगवद्ध्यानतत्परम्।
नित्याधिकारिणश्चाप्तान् भगवत्तत्ववेदिनः ॥ 183 ॥
मूलम् - 183
आदिसिद्धसमूहं तु भगवद्ध्यानतत्परम्।
नित्याधिकारिणश्चाप्तान् भगवत्तत्ववेदिनः ॥ 183 ॥
विश्वास-प्रस्तुतिः - 184
चत्वारो मनवश्चान्ये ऋषयः सप्तपूर्वकाः।
एतेषां क्रमशो ध्यानं समाकर्णय सांप्रतम् ॥ 184 ॥
मूलम् - 184
चत्वारो मनवश्चान्ये ऋषयः सप्तपूर्वकाः।
एतेषां क्रमशो ध्यानं समाकर्णय सांप्रतम् ॥ 184 ॥
विश्वास-प्रस्तुतिः - 185
ध्यायेच्चम्पकवर्णाभं बद्धपद्मासनं द्विज!।
स्थूलाङ्गमेकदंष्ट्रं च लम्बक्रोडं गजाननम् ॥ 185 ॥
मूलम् - 185
ध्यायेच्चम्पकवर्णाभं बद्धपद्मासनं द्विज!।
स्थूलाङ्गमेकदंष्ट्रं च लम्बक्रोडं गजाननम् ॥ 185 ॥
विश्वास-प्रस्तुतिः - 186
वरदाभयहस्तं च दक्षिणेऽस्याक्षसूत्रकम्।
विश्रान्तं चिन्तयेद्वामं चतुर्थं परशूपरि ॥ 186 ॥
मूलम् - 186
वरदाभयहस्तं च दक्षिणेऽस्याक्षसूत्रकम्।
विश्रान्तं चिन्तयेद्वामं चतुर्थं परशूपरि ॥ 186 ॥
विश्वास-प्रस्तुतिः - 187
वरदाभयहस्ताभ्यामस्य मुद्राद्वयं स्मरेत्।
तर्जन्यङ्गुष्ठसंघट्टाज्जायते यदयत्नतः ॥ 187 ॥
मूलम् - 187
वरदाभयहस्ताभ्यामस्य मुद्राद्वयं स्मरेत्।
तर्जन्यङ्गुष्ठसंघट्टाज्जायते यदयत्नतः ॥ 187 ॥
विश्वास-प्रस्तुतिः - 188
सितकुन्देन्दुधवलां शङ्खपद्मकरोद्यताम्।
वरदाभयहस्तां वा विलिखन्तीं च पुस्तकम् ॥ 188 ॥
मूलम् - 188
सितकुन्देन्दुधवलां शङ्खपद्मकरोद्यताम्।
वरदाभयहस्तां वा विलिखन्तीं च पुस्तकम् ॥ 188 ॥
विश्वास-प्रस्तुतिः - 189
द्विनेत्रामेकवक्त्रां च हेमकुण्डलभूषिताम्।
ध्यात्वा भगवती ह्येषा शक्तिः शब्दात्मनो विभोः ॥ 189 ॥
मूलम् - 189
द्विनेत्रामेकवक्त्रां च हेमकुण्डलभूषिताम्।
ध्यात्वा भगवती ह्येषा शक्तिः शब्दात्मनो विभोः ॥ 189 ॥
विश्वास-प्रस्तुतिः - 190
समभ्यस्ता ददात्याशु साधकानामभीप्सितम्।
गणनाथं विना चान्ये सुस्थिताः शान्तविग्रहाः ॥ 190 ॥
मूलम् - 190
समभ्यस्ता ददात्याशु साधकानामभीप्सितम्।
गणनाथं विना चान्ये सुस्थिताः शान्तविग्रहाः ॥ 190 ॥
विश्वास-प्रस्तुतिः - 191
गणित्राभयहस्ताश्च सर्वानुग्रहकारकाः।
सर्वे पद्मासना वाथ जटामण्डलभूषिताः ॥ 191 ॥
मूलम् - 191
गणित्राभयहस्ताश्च सर्वानुग्रहकारकाः।
सर्वे पद्मासना वाथ जटामण्डलभूषिताः ॥ 191 ॥
विश्वास-प्रस्तुतिः - 192
एवं ध्यात्वा समभ्यर्च्य मुद्राः संदृश्य तत्क्रमात्।
अनुज्ञां प्रार्थयेत्तेभ्यो यथानुक्रममेव च ॥ 192 ॥
मूलम् - 192
एवं ध्यात्वा समभ्यर्च्य मुद्राः संदृश्य तत्क्रमात्।
अनुज्ञां प्रार्थयेत्तेभ्यो यथानुक्रममेव च ॥ 192 ॥
विश्वास-प्रस्तुतिः - 193
गृहीत्वा शिरसा तां च तत आवाहयेत् प्रभुम्।
अभ्यन्तरे विमानस्य गर्भभूमौ तु मध्यतः ॥ 193 ॥
मूलम् - 193
गृहीत्वा शिरसा तां च तत आवाहयेत् प्रभुम्।
अभ्यन्तरे विमानस्य गर्भभूमौ तु मध्यतः ॥ 193 ॥
विश्वास-प्रस्तुतिः - 195
फणामण्डलमध्यस्थैर्मणिभिर्दीपिते तथा।
अनन्तभोगशयने शयानं पीतवाससम् ॥ 195 ॥)
मूलम् - 195
फणामण्डलमध्यस्थैर्मणिभिर्दीपिते तथा।
अनन्तभोगशयने शयानं पीतवाससम् ॥ 195 ॥)
विश्वास-प्रस्तुतिः - 196
सन्ध्याजलदसन्दोहसन्देहकरणक्षमम्।
सरसीरुहमास्थाय सहस्रदलसंकुलम् ॥ 196 ॥
मूलम् - 196
सन्ध्याजलदसन्दोहसन्देहकरणक्षमम्।
सरसीरुहमास्थाय सहस्रदलसंकुलम् ॥ 196 ॥
विश्वास-प्रस्तुतिः - 197
शयानं स्थितमासीनं यानारूढमथापि वा।
निष्केवलेन सत्त्वेन संपन्नं रुचिरप्रभम् ॥ 197 ॥
मूलम् - 197
शयानं स्थितमासीनं यानारूढमथापि वा।
निष्केवलेन सत्त्वेन संपन्नं रुचिरप्रभम् ॥ 197 ॥
विश्वास-प्रस्तुतिः - 198
वपुषा सुन्दरेणैव दिव्येनाविकृतेन च।
मुञ्चन्तमनिशं देहादालोकं ज्ञानलक्षणम् ॥ 198 ॥
मूलम् - 198
वपुषा सुन्दरेणैव दिव्येनाविकृतेन च।
मुञ्चन्तमनिशं देहादालोकं ज्ञानलक्षणम् ॥ 198 ॥
विश्वास-प्रस्तुतिः - 199
प्रयत्नेन विनाऽज्ञाननाशकृद्ध्यायिनां महत्।
स्रग्वस्त्राभरणैर्दिव्यैः स्वानुरूपैरनूपमैः ॥ 199 ॥
मूलम् - 199
प्रयत्नेन विनाऽज्ञाननाशकृद्ध्यायिनां महत्।
स्रग्वस्त्राभरणैर्दिव्यैः स्वानुरूपैरनूपमैः ॥ 199 ॥
विश्वास-प्रस्तुतिः - 200
चिन्मयैः स्वप्रकाशैश्च अन्योन्यरुचिरञ्जितैः।
दन्तज्योत्स्नावितानैस्तु प्रकटीकृतदिङ्मुखम् ॥ 200 ॥
मूलम् - 200
चिन्मयैः स्वप्रकाशैश्च अन्योन्यरुचिरञ्जितैः।
दन्तज्योत्स्नावितानैस्तु प्रकटीकृतदिङ्मुखम् ॥ 200 ॥
विश्वास-प्रस्तुतिः - 201
रेखोत्थितैस्तु कल्हारैः पादपद्मतलेऽङ्कितम्।
निमग्नजनसन्तापशमनव्यापृताननम् ॥ 201 ॥
मूलम् - 201
रेखोत्थितैस्तु कल्हारैः पादपद्मतलेऽङ्कितम्।
निमग्नजनसन्तापशमनव्यापृताननम् ॥ 201 ॥
विश्वास-प्रस्तुतिः - 202
करुणापूर्णहृदयं जगदुद्धरणोद्यतम्।
स्वदेहतेजःसंभूतज्वालामण्डलमध्यगम् ॥ 202 ॥
मूलम् - 202
करुणापूर्णहृदयं जगदुद्धरणोद्यतम्।
स्वदेहतेजःसंभूतज्वालामण्डलमध्यगम् ॥ 202 ॥
विश्वास-प्रस्तुतिः - 203
घनकुञ्चितनीलालिगलिताञ्जनसन्निभैः।
कर्पूरधूसरैर्दिव्यैः पुष्पसंवलितान्तरैः ॥ 203 ॥
मूलम् - 203
घनकुञ्चितनीलालिगलिताञ्जनसन्निभैः।
कर्पूरधूसरैर्दिव्यैः पुष्पसंवलितान्तरैः ॥ 203 ॥
विश्वास-प्रस्तुतिः - 204
किरीटमकुटाक्रान्तैः शोभितं सुशिरोरुहैः।
ईषदारक्तगोक्षीरशुद्धनीलाब्जलोचनम् ॥ 204 ॥
मूलम् - 204
किरीटमकुटाक्रान्तैः शोभितं सुशिरोरुहैः।
ईषदारक्तगोक्षीरशुद्धनीलाब्जलोचनम् ॥ 204 ॥
विश्वास-प्रस्तुतिः - 205
शीतलैर्दृष्टिपातैस्तु जगदाप्यायकारिणम्।
सुभ्रूललाटं सुनसं सुस्मिताधरविद्रुमम् ॥ 205 ॥
मूलम् - 205
शीतलैर्दृष्टिपातैस्तु जगदाप्यायकारिणम्।
सुभ्रूललाटं सुनसं सुस्मिताधरविद्रुमम् ॥ 205 ॥
विश्वास-प्रस्तुतिः - 206
सौन्दर्यचन्द्रसंकाशविलसद्गण्डमण्डलम्।
पूर्वकर्मानलार्तानां ध्यायिनां खेदशान्तये ॥ 206 ॥
मूलम् - 206
सौन्दर्यचन्द्रसंकाशविलसद्गण्डमण्डलम्।
पूर्वकर्मानलार्तानां ध्यायिनां खेदशान्तये ॥ 206 ॥
विश्वास-प्रस्तुतिः - 207
स्वदन्तेन्दुचयोत्थेन ह्लादयन् गोगणेन तु।
मुखसौन्दर्यनिष्यन्दचिबुकस्थलशोभितम् ॥ 207 ॥
मूलम् - 207
स्वदन्तेन्दुचयोत्थेन ह्लादयन् गोगणेन तु।
मुखसौन्दर्यनिष्यन्दचिबुकस्थलशोभितम् ॥ 207 ॥
विश्वास-प्रस्तुतिः - 208
सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम्।
कम्बुग्रीवं महाबाहुं श्रीवत्साङ्कितवक्षसम् ॥ 208 ॥
मूलम् - 208
सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम्।
कम्बुग्रीवं महाबाहुं श्रीवत्साङ्कितवक्षसम् ॥ 208 ॥
विश्वास-प्रस्तुतिः - 209
सिंहस्क्तन्धं विशालाक्षं दीर्घबाहुं महोरसम्।
शङ्खचक्राङ्कितारक्तकरद्वयविभूषितम् ॥ 209 ॥
मूलम् - 209
सिंहस्क्तन्धं विशालाक्षं दीर्घबाहुं महोरसम्।
शङ्खचक्राङ्कितारक्तकरद्वयविभूषितम् ॥ 209 ॥
विश्वास-प्रस्तुतिः - 210
दक्षिणं भोगिभोगाभमुपधाय महाभुजम्।
प्रसारितोत्तरकरं कटिदेशस्य पार्श्वतः ॥ 210 ॥
मूलम् - 210
दक्षिणं भोगिभोगाभमुपधाय महाभुजम्।
प्रसारितोत्तरकरं कटिदेशस्य पार्श्वतः ॥ 210 ॥
विश्वास-प्रस्तुतिः - 211
कौस्तुभेनाङ्कितोरस्कं लक्ष्मीश्रीवत्सभूषितम्।
आब्रह्मस्तम्बपर्यन्तजगद्वासतनूदरम् ॥ 211 ॥
मूलम् - 211
कौस्तुभेनाङ्कितोरस्कं लक्ष्मीश्रीवत्सभूषितम्।
आब्रह्मस्तम्बपर्यन्तजगद्वासतनूदरम् ॥ 211 ॥
विश्वास-प्रस्तुतिः - 212
ईषत्कुञ्चितवामाङ्घ्रिपङ्कजं पङ्कजेक्षणम्।
प्रसार्य दक्षिणं पादमीषदुत्तानशायिनम् ॥ 212 ॥
मूलम् - 212
ईषत्कुञ्चितवामाङ्घ्रिपङ्कजं पङ्कजेक्षणम्।
प्रसार्य दक्षिणं पादमीषदुत्तानशायिनम् ॥ 212 ॥
विश्वास-प्रस्तुतिः - 213
अनेकरत्नरचितकिरीटमकुटोज्ज्वलम्।
उद्यदादित्यसंकाशैर्विचित्रैर्मणिसंचयैः ॥ 213 ॥
मूलम् - 213
अनेकरत्नरचितकिरीटमकुटोज्ज्वलम्।
उद्यदादित्यसंकाशैर्विचित्रैर्मणिसंचयैः ॥ 213 ॥
विश्वास-प्रस्तुतिः - 214
विराजमानया सम्यक्स्फुरच्चूलिकयोज्ज्वलम्।
रत्नावतंसप्रभया दीप्तश्रवणशेखरम् ॥ 214 ॥
मूलम् - 214
विराजमानया सम्यक्स्फुरच्चूलिकयोज्ज्वलम्।
रत्नावतंसप्रभया दीप्तश्रवणशेखरम् ॥ 214 ॥
विश्वास-प्रस्तुतिः - 215
ललाटान्तसमालम्बिबालालङ्कारभूषितम्।
ललाटतिलकेनैव सुन्दरेण विराजितम् ॥ 215 ॥
मूलम् - 215
ललाटान्तसमालम्बिबालालङ्कारभूषितम्।
ललाटतिलकेनैव सुन्दरेण विराजितम् ॥ 215 ॥
विश्वास-प्रस्तुतिः - 216
अनेकरविसङ्काशलसन्मकरकुण्डलम्।
प्रभूतमणिमुक्ताढ्यग्रैवेयकविराजितम् ॥ 216 ॥
मूलम् - 216
अनेकरविसङ्काशलसन्मकरकुण्डलम्।
प्रभूतमणिमुक्ताढ्यग्रैवेयकविराजितम् ॥ 216 ॥
विश्वास-प्रस्तुतिः - 217
वज्रवैढूर्यमाणिक्यपद्मरागादिशोभितैः।
हारैरनेकैर्विविधैरुपशोभितवक्षसम् ॥ 217 ॥
मूलम् - 217
वज्रवैढूर्यमाणिक्यपद्मरागादिशोभितैः।
हारैरनेकैर्विविधैरुपशोभितवक्षसम् ॥ 217 ॥
विश्वास-प्रस्तुतिः - 218
उदयादित्यसंकाशकौस्तुभेन विराजितम्।
भ्राजयन्त्या जगत् सर्वं स्वतेजोभिर्निरन्तरम् ॥ 218 ॥
मूलम् - 218
उदयादित्यसंकाशकौस्तुभेन विराजितम्।
भ्राजयन्त्या जगत् सर्वं स्वतेजोभिर्निरन्तरम् ॥ 218 ॥
विश्वास-प्रस्तुतिः - 219
मालया वैजयन्त्या च भ्राजमानमहोरसम्।
नानादामविचित्रेण मुक्तादामविलम्बिना ॥ 219 ॥
मूलम् - 219
मालया वैजयन्त्या च भ्राजमानमहोरसम्।
नानादामविचित्रेण मुक्तादामविलम्बिना ॥ 219 ॥
विश्वास-प्रस्तुतिः - 220
स्फुरता ब्रह्मसूत्रेण काञ्चनेन सुशोभितम्।
द्युतिमद्भिर्महारत्नै राजितेन सुवर्चसा ॥ 220 ॥
मूलम् - 220
स्फुरता ब्रह्मसूत्रेण काञ्चनेन सुशोभितम्।
द्युतिमद्भिर्महारत्नै राजितेन सुवर्चसा ॥ 220 ॥
विश्वास-प्रस्तुतिः - 221
काञ्चनेनाथ सूत्रेण उदरे कृतबन्धनम्।
नाभिदेशं तथा पद्मं जगछृङ्खलया स्वया ॥ 221 ॥
मूलम् - 221
काञ्चनेनाथ सूत्रेण उदरे कृतबन्धनम्।
नाभिदेशं तथा पद्मं जगछृङ्खलया स्वया ॥ 221 ॥
विश्वास-प्रस्तुतिः - 222
नानामाणिक्यविलसत्कटिसूत्रेण भूषितम्।
अनेकरत्नसन्दर्भरशनादाममण्डितम् ॥ 222 ॥
मूलम् - 222
नानामाणिक्यविलसत्कटिसूत्रेण भूषितम्।
अनेकरत्नसन्दर्भरशनादाममण्डितम् ॥ 222 ॥
विश्वास-प्रस्तुतिः - 223
अनेककोटिमार्ताण्डविलसत्पीतवाससम्।
अनेकरत्नसंभिन्ननूपुरादिविभूषितम् ॥ 223 ॥
मूलम् - 223
अनेककोटिमार्ताण्डविलसत्पीतवाससम्।
अनेकरत्नसंभिन्ननूपुरादिविभूषितम् ॥ 223 ॥
विश्वास-प्रस्तुतिः - 224
एवमन्यैश्च विविधैः केयूरकटकादिकैः।
यथार्हभूषणै रम्यैर्ज्वलद्भिः परिभूषितम् ॥ 224 ॥
मूलम् - 224
एवमन्यैश्च विविधैः केयूरकटकादिकैः।
यथार्हभूषणै रम्यैर्ज्वलद्भिः परिभूषितम् ॥ 224 ॥
विश्वास-प्रस्तुतिः - 225
प्रावृड्जलदसङ्काशं भिन्नाञ्जनगिरिप्रभम्।
अभिन्नपूर्णषाड्गुण्यविभवेनोपबृंहितम् ॥ 225 ॥
मूलम् - 225
प्रावृड्जलदसङ्काशं भिन्नाञ्जनगिरिप्रभम्।
अभिन्नपूर्णषाड्गुण्यविभवेनोपबृंहितम् ॥ 225 ॥
विश्वास-प्रस्तुतिः - 226
योगिध्येयमजं नित्यं जगज्जन्मादिकारणम्।
अनादिनिधनं देवं साक्षाल्लक्ष्मीपतिं विभुम् ॥ 226 ॥
मूलम् - 226
योगिध्येयमजं नित्यं जगज्जन्मादिकारणम्।
अनादिनिधनं देवं साक्षाल्लक्ष्मीपतिं विभुम् ॥ 226 ॥
विश्वास-प्रस्तुतिः - 227
अप्राकृततनुं शान्तं वासुदेवं परात्परम्।
चतुर्भुजमनुध्यायेच्छुद्धस्फटिकनिर्मलम् ॥ 227 ॥
मूलम् - 227
अप्राकृततनुं शान्तं वासुदेवं परात्परम्।
चतुर्भुजमनुध्यायेच्छुद्धस्फटिकनिर्मलम् ॥ 227 ॥
विश्वास-प्रस्तुतिः - 228
शङ्खचक्रगदापद्मैश्चतुर्भिः कृतलक्षणम्।
तस्मिन्नावाहनं कुर्यात् कृत्वा हस्तौ सुगन्धिनौ ॥ 228 ॥
मूलम् - 228
शङ्खचक्रगदापद्मैश्चतुर्भिः कृतलक्षणम्।
तस्मिन्नावाहनं कुर्यात् कृत्वा हस्तौ सुगन्धिनौ ॥ 228 ॥
विश्वास-प्रस्तुतिः - 229
गन्धार्घ्यपुष्पैः संपूर्य मूलमन्त्रं समुच्चरन्।
पीठोपरि हरेरग्रे मूर्ध्नि पुष्पाञ्जलिं क्षिपेत् ॥ 229 ॥
मूलम् - 229
गन्धार्घ्यपुष्पैः संपूर्य मूलमन्त्रं समुच्चरन्।
पीठोपरि हरेरग्रे मूर्ध्नि पुष्पाञ्जलिं क्षिपेत् ॥ 229 ॥
विश्वास-प्रस्तुतिः - 230
स्वं प्रत्यभिमुखं शान्तं सुप्रबुद्धं स्मरेच्च तम्।
करन्यासं विना तत्र सृष्टिन्यासादिकं त्रयम् ॥ 230 ॥
मूलम् - 230
स्वं प्रत्यभिमुखं शान्तं सुप्रबुद्धं स्मरेच्च तम्।
करन्यासं विना तत्र सृष्टिन्यासादिकं त्रयम् ॥ 230 ॥
विश्वास-प्रस्तुतिः - 231
मूलमन्त्रादितार्क्ष्यान्तमन्त्राणां न्यासमेव च।
दीपयेद्बिम्बतोऽन्यत्र तस्मिन् पुष्पाञ्जलौ हरिम् ॥ 231 ॥
मूलम् - 231
मूलमन्त्रादितार्क्ष्यान्तमन्त्राणां न्यासमेव च।
दीपयेद्बिम्बतोऽन्यत्र तस्मिन् पुष्पाञ्जलौ हरिम् ॥ 231 ॥
विश्वास-प्रस्तुतिः - 232
आगच्छपदयुक्तेन मूलमन्त्रेण हृत्कजात्।
एवं तेजोमयं देवं नाडीदक्षिणमार्गतः ॥ 232 ॥
मूलम् - 232
आगच्छपदयुक्तेन मूलमन्त्रेण हृत्कजात्।
एवं तेजोमयं देवं नाडीदक्षिणमार्गतः ॥ 232 ॥
विश्वास-प्रस्तुतिः - 233
तन्नासाग्रेण चावाह्य पीठकुम्भादिषु क्षिपेत्।
तत्कदम्बप्रसूनाभे तस्मिन् मन्त्रात्मगोलके ॥ 233 ॥
मूलम् - 233
तन्नासाग्रेण चावाह्य पीठकुम्भादिषु क्षिपेत्।
तत्कदम्बप्रसूनाभे तस्मिन् मन्त्रात्मगोलके ॥ 233 ॥
विश्वास-प्रस्तुतिः - 234
स्थानभेदं विनाङ्गानि न्यस्याभ्यर्च्येह देहतः।
सकलीकृत्य देवेशं तं ध्यायेद्व्यक्ततां गतम् ॥ 234 ॥
मूलम् - 234
स्थानभेदं विनाङ्गानि न्यस्याभ्यर्च्येह देहतः।
सकलीकृत्य देवेशं तं ध्यायेद्व्यक्ततां गतम् ॥ 234 ॥
विश्वास-प्रस्तुतिः - 235
प्राग्वदङ्गादिकांस्तत्र तत्तन्मन्त्रैस्तु निक्षिपेत्।
एवमाहूय देवेशं दत्वार्घ्यं सन्निधित्सया ॥ 235 ॥
मूलम् - 235
प्राग्वदङ्गादिकांस्तत्र तत्तन्मन्त्रैस्तु निक्षिपेत्।
एवमाहूय देवेशं दत्वार्घ्यं सन्निधित्सया ॥ 235 ॥
विश्वास-प्रस्तुतिः - 236
भूयोऽप्यर्घ्यं प्रदायास्मै हृदा मुद्रापुरस्सरम्।
सन्निधाप्यार्घ्यदानेन मुद्रापूर्वं च वर्मणा ॥ 236 ॥
मूलम् - 236
भूयोऽप्यर्घ्यं प्रदायास्मै हृदा मुद्रापुरस्सरम्।
सन्निधाप्यार्घ्यदानेन मुद्रापूर्वं च वर्मणा ॥ 236 ॥
विश्वास-प्रस्तुतिः - 237
सन्निरोध्य तु मूलेन तन्मुद्रासहितेन तु।
संमुखीकृत्य मूलादीन् मन्त्रांस्तत्र समुच्चरन् ॥ 237 ॥
मूलम् - 237
सन्निरोध्य तु मूलेन तन्मुद्रासहितेन तु।
संमुखीकृत्य मूलादीन् मन्त्रांस्तत्र समुच्चरन् ॥ 237 ॥
विश्वास-प्रस्तुतिः - 238
प्रदर्शयंस्तथा मुद्रास्त्वष्टाङ्गेनाभिवादयेत्।
अनेकमूर्तियागे तु प्रधानावाहनादिकान्(म्) ॥ 238 ॥
मूलम् - 238
प्रदर्शयंस्तथा मुद्रास्त्वष्टाङ्गेनाभिवादयेत्।
अनेकमूर्तियागे तु प्रधानावाहनादिकान्(म्) ॥ 238 ॥
विश्वास-प्रस्तुतिः - 239
आहूतदेवश्रान्त्यर्थं गन्धादीनेवमेव च।
व्यूहानां विभवानां प्राङ्मूलादङ्गगणार्चनम् ॥ 239 ॥
मूलम् - 239
आहूतदेवश्रान्त्यर्थं गन्धादीनेवमेव च।
व्यूहानां विभवानां प्राङ्मूलादङ्गगणार्चनम् ॥ 239 ॥
विश्वास-प्रस्तुतिः - 240
पश्चादन्येषु कुर्वीत क्रमेणावाहनादिकान्।
स्थितमायतने वाथ साकारं परमेश्वरम् ॥ 240 ॥
मूलम् - 240
पश्चादन्येषु कुर्वीत क्रमेणावाहनादिकान्।
स्थितमायतने वाथ साकारं परमेश्वरम् ॥ 240 ॥
विश्वास-प्रस्तुतिः - 241
शङ्खचक्रधरं विष्णुं सुरसिद्धावतारितम्।
ऋषिभिर्मनुजैर्वाथ भक्तियुक्तैः प्रतिष्ठितम् ॥ 241 ॥
मूलम् - 241
शङ्खचक्रधरं विष्णुं सुरसिद्धावतारितम्।
ऋषिभिर्मनुजैर्वाथ भक्तियुक्तैः प्रतिष्ठितम् ॥ 241 ॥
विश्वास-प्रस्तुतिः - 242
तन्मूर्तौ च स्वमन्त्रेण यजेदावाहनं विना।
प्रत्यहं कर्मबिम्बानां मूलबिम्बहृदब्जकात् ॥ 242 ॥
मूलम् - 242
तन्मूर्तौ च स्वमन्त्रेण यजेदावाहनं विना।
प्रत्यहं कर्मबिम्बानां मूलबिम्बहृदब्जकात् ॥ 242 ॥
विश्वास-प्रस्तुतिः - 243
कुर्यादावाहनं किञ्चित्तीर्थक्षेत्रादिगामिभिः।
नरैरा(स्स्वा)राध्यबिम्बेषु प्रत्यहं स्वहृदब्जतः ॥ 243 ॥
मूलम् - 243
कुर्यादावाहनं किञ्चित्तीर्थक्षेत्रादिगामिभिः।
नरैरा(स्स्वा)राध्यबिम्बेषु प्रत्यहं स्वहृदब्जतः ॥ 243 ॥
विश्वास-प्रस्तुतिः - 244
प्राग्वदावाहनं कुर्यादथ तद्विग्रहस्थितान्।
मन्त्रन्यासादिनाभ्यर्च्य तांस्तद्देहस्फुलिङ्गवत् ॥ 244 ॥
मूलम् - 244
प्राग्वदावाहनं कुर्यादथ तद्विग्रहस्थितान्।
मन्त्रन्यासादिनाभ्यर्च्य तांस्तद्देहस्फुलिङ्गवत् ॥ 244 ॥
विश्वास-प्रस्तुतिः - 245
ध्यात्वावतार्य स्थानेषु स्वेषु भोगावनौ क्रमात्।
सकलीकृत्य चार्घ्याद्यैरर्चयेदत्र तु क्रमः ॥ 245 ॥
मूलम् - 245
ध्यात्वावतार्य स्थानेषु स्वेषु भोगावनौ क्रमात्।
सकलीकृत्य चार्घ्याद्यैरर्चयेदत्र तु क्रमः ॥ 245 ॥
विश्वास-प्रस्तुतिः - 246
द्विषट्स्वब्जदलेष्वत्र मन्त्रेशस्य पुरो दलात्।
तदाराद्दलपर्यन्तं हृदाद्यङ्गानि निक्षिपेत् ॥ 246 ॥
मूलम् - 246
द्विषट्स्वब्जदलेष्वत्र मन्त्रेशस्य पुरो दलात्।
तदाराद्दलपर्यन्तं हृदाद्यङ्गानि निक्षिपेत् ॥ 246 ॥
विश्वास-प्रस्तुतिः - 247
पीठोपरि दलाद्बाह्ये देवस्याग्नेयकोणके।
पद्ममैशे गदां कोणे नैर्ऋते चक्रमुज्ज्वलम् ॥ 247 ॥
मूलम् - 247
पीठोपरि दलाद्बाह्ये देवस्याग्नेयकोणके।
पद्ममैशे गदां कोणे नैर्ऋते चक्रमुज्ज्वलम् ॥ 247 ॥
विश्वास-प्रस्तुतिः - 248
वायव्ये पाञ्चजन्यं च गदायाश्च समीपतः।
किरीटं दक्षिणे पार्श्वे वामे श्रीवत्समेव च ॥ 248 ॥
मूलम् - 248
वायव्ये पाञ्चजन्यं च गदायाश्च समीपतः।
किरीटं दक्षिणे पार्श्वे वामे श्रीवत्समेव च ॥ 248 ॥
विश्वास-प्रस्तुतिः - 249
कौस्तुभं पद्मसामीप्ये वनमालां च दक्षिणे।
देवस्य कर्णिकायां तु श्रियं पुष्टिं ततोऽपरे ॥ 249 ॥
मूलम् - 249
कौस्तुभं पद्मसामीप्ये वनमालां च दक्षिणे।
देवस्य कर्णिकायां तु श्रियं पुष्टिं ततोऽपरे ॥ 249 ॥
विश्वास-प्रस्तुतिः - 250
अग्रतः पीठतो बाह्ये न्यसेच्चारात् पतत्रिपम्।
अङ्गोपाङ्गादिकानां तु सर्वेषां ध्यानमुच्यते ॥ 250 ॥
मूलम् - 250
अग्रतः पीठतो बाह्ये न्यसेच्चारात् पतत्रिपम्।
अङ्गोपाङ्गादिकानां तु सर्वेषां ध्यानमुच्यते ॥ 250 ॥
विश्वास-प्रस्तुतिः - 251
आहूतो मन्त्रनाथस्तु यथा ध्यातः सविग्रहः।
तद्वदेव हि हृन्मन्त्रं ध्यायेत् कुमुदपाण्डरम् ॥ 251 ॥
मूलम् - 251
आहूतो मन्त्रनाथस्तु यथा ध्यातः सविग्रहः।
तद्वदेव हि हृन्मन्त्रं ध्यायेत् कुमुदपाण्डरम् ॥ 251 ॥
विश्वास-प्रस्तुतिः - 252
पद्मरागाचलाकारमारक्तं च शिरः स्मरेत्।
अञ्जनाद्रिप्रतीकाशं शिखामन्त्रं तथाकृतिम् ॥ 252 ॥
मूलम् - 252
पद्मरागाचलाकारमारक्तं च शिरः स्मरेत्।
अञ्जनाद्रिप्रतीकाशं शिखामन्त्रं तथाकृतिम् ॥ 252 ॥
विश्वास-प्रस्तुतिः - 253
परितः सूर्यसन्तप्तं यथा कनकपर्वतम्।
तथा कवचमन्त्रं च ध्यानकाले विचिन्तयेत् ॥ 253 ॥
मूलम् - 253
परितः सूर्यसन्तप्तं यथा कनकपर्वतम्।
तथा कवचमन्त्रं च ध्यानकाले विचिन्तयेत् ॥ 253 ॥
विश्वास-प्रस्तुतिः - 254
वृतं ज्वालासहस्रैस्तु अयस्कान्तसमद्युति।
सर्वास्त्रशक्तिसंपूर्णमस्त्रमन्त्रं प्रकीर्तितम् ॥ 254 ॥
मूलम् - 254
वृतं ज्वालासहस्रैस्तु अयस्कान्तसमद्युति।
सर्वास्त्रशक्तिसंपूर्णमस्त्रमन्त्रं प्रकीर्तितम् ॥ 254 ॥
विश्वास-प्रस्तुतिः - 255
निर्धूमाङ्गारसदृशं भावयेन्नेत्रमन्त्रराट्।
ध्येयाः स्वरुचिसंयुक्ताः द्विभुजाः पुरुषोपमाः ॥ 255 ॥
मूलम् - 255
निर्धूमाङ्गारसदृशं भावयेन्नेत्रमन्त्रराट्।
ध्येयाः स्वरुचिसंयुक्ताः द्विभुजाः पुरुषोपमाः ॥ 255 ॥
विश्वास-प्रस्तुतिः - 256
एवमेव ह्युपाङ्गानां स्मरेद्ध्यानं सुलक्षणम्।
वीक्षमाणान् विभोर्वक्त्रं ध्यायेन्मुनिवरोत्तम! ॥ 256 ॥
मूलम् - 256
एवमेव ह्युपाङ्गानां स्मरेद्ध्यानं सुलक्षणम्।
वीक्षमाणान् विभोर्वक्त्रं ध्यायेन्मुनिवरोत्तम! ॥ 256 ॥
विश्वास-प्रस्तुतिः - 257
स्थितानामादिमूर्तीनां स्थितान् ध्यायेत् सदैव हि।
आसीनानामथासीनान् वाहनस्थे सवाहनान् ॥ 257 ॥
मूलम् - 257
स्थितानामादिमूर्तीनां स्थितान् ध्यायेत् सदैव हि।
आसीनानामथासीनान् वाहनस्थे सवाहनान् ॥ 257 ॥
विश्वास-प्रस्तुतिः - 258
शयितानामथासीनानुत्थितान् वा स्मरेद्धिया।
लाञ्छनाभरणादीनां श्रृणु ध्यानं यथाक्रमम् ॥ 258 ॥
मूलम् - 258
शयितानामथासीनानुत्थितान् वा स्मरेद्धिया।
लाञ्छनाभरणादीनां श्रृणु ध्यानं यथाक्रमम् ॥ 258 ॥
विश्वास-प्रस्तुतिः - 259
कुन्दावदातं कमलं सौम्यमीषत्स्मिताननम्।
रवं रवन्तं मधुरं श्रोत्रेन्द्रियसुखावहम् ॥ 259 ॥
मूलम् - 259
कुन्दावदातं कमलं सौम्यमीषत्स्मिताननम्।
रवं रवन्तं मधुरं श्रोत्रेन्द्रियसुखावहम् ॥ 259 ॥
विश्वास-प्रस्तुतिः - 260
गदां हेमाद्रिसंकाशां तन्वीं कुवलयेक्षणाम्।
द्विरष्टवर्षवत्कान्तां कुमारीं नवयौवनाम् ॥ 260 ॥
मूलम् - 260
गदां हेमाद्रिसंकाशां तन्वीं कुवलयेक्षणाम्।
द्विरष्टवर्षवत्कान्तां कुमारीं नवयौवनाम् ॥ 260 ॥
विश्वास-प्रस्तुतिः - 261
स्वोत्थेन रश्मिजालेन भासयन्तीं नभःस्थलम्।
स्वरश्मिमण्डलान्तरःस्थं वल्गन्तं हेतिराट् स्मरेत् ॥ 261 ॥
मूलम् - 261
स्वोत्थेन रश्मिजालेन भासयन्तीं नभःस्थलम्।
स्वरश्मिमण्डलान्तरःस्थं वल्गन्तं हेतिराट् स्मरेत् ॥ 261 ॥
विश्वास-प्रस्तुतिः - 262
विभोराज्ञां प्रतीक्षन्तं ह्रस्वाङ्गं रक्तलोचनम्।
तुहिनाचलसंकाशं शङ्खं कमललोचनम् ॥ 262 ॥
मूलम् - 262
विभोराज्ञां प्रतीक्षन्तं ह्रस्वाङ्गं रक्तलोचनम्।
तुहिनाचलसंकाशं शङ्खं कमललोचनम् ॥ 262 ॥
विश्वास-प्रस्तुतिः - 263
सदागमादिसामान्तमुद्गिरन्तं स्वकैर्मुखैः।
किरीटः सौम्यवदनः काञ्चनाभो महातनुः ॥ 263 ॥
मूलम् - 263
सदागमादिसामान्तमुद्गिरन्तं स्वकैर्मुखैः।
किरीटः सौम्यवदनः काञ्चनाभो महातनुः ॥ 263 ॥
विश्वास-प्रस्तुतिः - 264
भाभिराकृतियुक्ताभिर्नानारूपाभिरावृतः।
स्थितो वैद्याधरीयेण स्थानकेनान्तरिक्षगः ॥ 264 ॥
मूलम् - 264
भाभिराकृतियुक्ताभिर्नानारूपाभिरावृतः।
स्थितो वैद्याधरीयेण स्थानकेनान्तरिक्षगः ॥ 264 ॥
विश्वास-प्रस्तुतिः - 265
स्फाटिकाद्रिप्रतीकाशं श्रीवत्समथ भावयेत्।
बद्धपद्मासनासीनं न्यस्तहस्तं स्वपार्श्वयोः ॥ 265 ॥
मूलम् - 265
स्फाटिकाद्रिप्रतीकाशं श्रीवत्समथ भावयेत्।
बद्धपद्मासनासीनं न्यस्तहस्तं स्वपार्श्वयोः ॥ 265 ॥
विश्वास-प्रस्तुतिः - 266
वहन्तं कूर्ममुद्रां च मुख्यहस्तद्वयेन च।
पद्मरागाचलाकारं कौस्तुभं रत्रनायकम् ॥ 266 ॥
मूलम् - 266
वहन्तं कूर्ममुद्रां च मुख्यहस्तद्वयेन च।
पद्मरागाचलाकारं कौस्तुभं रत्रनायकम् ॥ 266 ॥
विश्वास-प्रस्तुतिः - 267
दिशो दश द्योतयन्तं संलग्नाङ्घ्रिस्थितं स्मरेत्।
वहन्तं चोरसो मध्ये स्वहस्तकृतसंपुटम् ॥ 267 ॥
मूलम् - 267
दिशो दश द्योतयन्तं संलग्नाङ्घ्रिस्थितं स्मरेत्।
वहन्तं चोरसो मध्ये स्वहस्तकृतसंपुटम् ॥ 267 ॥
विश्वास-प्रस्तुतिः - 268
सन्धारयन्तमपरं तथा वै शिरसि स्फुटम्।
ध्येया भगवती माला चित्रवर्णा मनोरमा ॥ 268 ॥
मूलम् - 268
सन्धारयन्तमपरं तथा वै शिरसि स्फुटम्।
ध्येया भगवती माला चित्रवर्णा मनोरमा ॥ 268 ॥
विश्वास-प्रस्तुतिः - 269
सर्वगन्धान्विता सौम्या ईषद्विह(क)सितानना।
ध्येयाः स्वरुचिसंयुक्ता द्विभुजाः पुरुषोपमाः ॥ 269 ॥
मूलम् - 269
सर्वगन्धान्विता सौम्या ईषद्विह(क)सितानना।
ध्येयाः स्वरुचिसंयुक्ता द्विभुजाः पुरुषोपमाः ॥ 269 ॥
विश्वास-प्रस्तुतिः - 270
सास्त्राः किरीटपूर्वा ये गदामालाङ्गनाकृती।
एतेऽस्त्रनायकाः सर्वे विभोराज्ञाप्रतीक्षकाः ॥ 270 ॥
मूलम् - 270
सास्त्राः किरीटपूर्वा ये गदामालाङ्गनाकृती।
एतेऽस्त्रनायकाः सर्वे विभोराज्ञाप्रतीक्षकाः ॥ 270 ॥
विश्वास-प्रस्तुतिः - 271
प्रोत्थिता विचलन्तश्च सुसमैः स्थानकैः स्थिताः।
श्रोणीतटार्पितकराश्चामरव्यजनोद्यताः ॥ 271 ॥
मूलम् - 271
प्रोत्थिता विचलन्तश्च सुसमैः स्थानकैः स्थिताः।
श्रोणीतटार्पितकराश्चामरव्यजनोद्यताः ॥ 271 ॥
विश्वास-प्रस्तुतिः - 272
सपद्मं तु किरीटाद्यं वर्जयित्वा चतुष्टयम्।
तर्जयन्तं च दुष्टौघमन्येषां दक्षिणं करम् ॥ 272 ॥
मूलम् - 272
सपद्मं तु किरीटाद्यं वर्जयित्वा चतुष्टयम्।
तर्जयन्तं च दुष्टौघमन्येषां दक्षिणं करम् ॥ 272 ॥
विश्वास-प्रस्तुतिः - 273
स्मरेद्वै ध्यानकाले च सर्वेषामथ मस्तके।
ध्येयं स्वकं स्वकं चिह्नं सुप्रसिद्धं निराकृति ॥ 273 ॥
मूलम् - 273
स्मरेद्वै ध्यानकाले च सर्वेषामथ मस्तके।
ध्येयं स्वकं स्वकं चिह्नं सुप्रसिद्धं निराकृति ॥ 273 ॥
विश्वास-प्रस्तुतिः - 274
रक्तपङ्कजवर्णाभा लक्ष्मीर्नीलाम्बुजेक्षणा।
दुग्धौघधवला पुष्टिरानन्दाकुलितानना(तेक्षणा) ॥ 274 ॥
मूलम् - 274
रक्तपङ्कजवर्णाभा लक्ष्मीर्नीलाम्बुजेक्षणा।
दुग्धौघधवला पुष्टिरानन्दाकुलितानना(तेक्षणा) ॥ 274 ॥
विश्वास-प्रस्तुतिः - 275
भोक्तृशक्तिः स्मृता लक्ष्मीः पुष्टिर्वै कर्तृसंज्ञिता।
भोगार्थमवतीर्णस्य तस्य लोकानुकम्पया ॥ 275 ॥
मूलम् - 275
भोक्तृशक्तिः स्मृता लक्ष्मीः पुष्टिर्वै कर्तृसंज्ञिता।
भोगार्थमवतीर्णस्य तस्य लोकानुकम्पया ॥ 275 ॥
विश्वास-प्रस्तुतिः - 276
उदितं सह तेनैव शक्तिद्वितयमव्ययम्।
रक्ततुण्डं महाप्राणं भीमभ्रुकुटिलोचनम् ॥ 276 ॥
मूलम् - 276
उदितं सह तेनैव शक्तिद्वितयमव्ययम्।
रक्ततुण्डं महाप्राणं भीमभ्रुकुटिलोचनम् ॥ 276 ॥
विश्वास-प्रस्तुतिः - 277
द्रवच्चामीकराकारं पक्षमण्डलमण्डितम्।
संस्मरेद्गरुडं विप्र! गृध्रवक्त्रं पृथूदरम् ॥ 277 ॥
मूलम् - 277
द्रवच्चामीकराकारं पक्षमण्डलमण्डितम्।
संस्मरेद्गरुडं विप्र! गृध्रवक्त्रं पृथूदरम् ॥ 277 ॥
विश्वास-प्रस्तुतिः - 279
यथोक्तमूर्तियुक्तांश्च ततो ध्यायेद्यथाक्रमम्।
अपांपतिर्वै कमलं गदादेवी सरस्वती ॥ 279 ॥
मूलम् - 279
यथोक्तमूर्तियुक्तांश्च ततो ध्यायेद्यथाक्रमम्।
अपांपतिर्वै कमलं गदादेवी सरस्वती ॥ 279 ॥
विश्वास-प्रस्तुतिः - 280
स्वयं शशाङ्कः श्रीवत्सो मालाषण्माधवादयः।
प्राणं पतत्रिपं विद्यादेवं तत्त्वेषु संस्थितान् ॥ 280 ॥
मूलम् - 280
स्वयं शशाङ्कः श्रीवत्सो मालाषण्माधवादयः।
प्राणं पतत्रिपं विद्यादेवं तत्त्वेषु संस्थितान् ॥ 280 ॥
विश्वास-प्रस्तुतिः - 281
अधिष्टातृ(तॄन्)क्रमाच्चैतानर्चयेदर्घ्यपुष्पकैः।
अष्टपत्राम्बुजे पूर्वदले हृन्मन्त्रपं शिरः ॥ 281 ॥
मूलम् - 281
अधिष्टातृ(तॄन्)क्रमाच्चैतानर्चयेदर्घ्यपुष्पकैः।
अष्टपत्राम्बुजे पूर्वदले हृन्मन्त्रपं शिरः ॥ 281 ॥
विश्वास-प्रस्तुतिः - 282
शिखामाग्नेयपत्रे तु कवचं चास्त्रमन्त्रपम्।
दक्षिणे पत्रमध्ये तु नैर्ऋते पत्रमध्यतः ॥ 282 ॥
मूलम् - 282
शिखामाग्नेयपत्रे तु कवचं चास्त्रमन्त्रपम्।
दक्षिणे पत्रमध्ये तु नैर्ऋते पत्रमध्यतः ॥ 282 ॥
विश्वास-प्रस्तुतिः - 283
नेत्रं पश्चिमपत्रे तु उदरं पृष्ठमन्त्रपम्।
वायन्ये बाहुमन्त्रं तु ऊरू जानू तथोत्तरे ॥ 283 ॥
मूलम् - 283
नेत्रं पश्चिमपत्रे तु उदरं पृष्ठमन्त्रपम्।
वायन्ये बाहुमन्त्रं तु ऊरू जानू तथोत्तरे ॥ 283 ॥
विश्वास-प्रस्तुतिः - 284
ईशानपत्रमध्ये तु पादमन्त्रं तु विन्यसेत्।
दलोपदलसंयुक्तेऽप्येवमेवाम्बुजे क्रमः ॥ 284 ॥
मूलम् - 284
ईशानपत्रमध्ये तु पादमन्त्रं तु विन्यसेत्।
दलोपदलसंयुक्तेऽप्येवमेवाम्बुजे क्रमः ॥ 284 ॥
विश्वास-प्रस्तुतिः - 285
अथवा दिग्दलेष्वत्र हृदाद्यं यच्चतुष्टयम्।
अस्त्रं विदिग्दलेषु स्यान्नेत्रं केसरगं पुनः ॥ 285 ॥
मूलम् - 285
अथवा दिग्दलेष्वत्र हृदाद्यं यच्चतुष्टयम्।
अस्त्रं विदिग्दलेषु स्यान्नेत्रं केसरगं पुनः ॥ 285 ॥
विश्वास-प्रस्तुतिः - 286
उपाङ्गं स्यादुपदले तद्विधानमतः श्रृणु।
पूर्वपत्रसमीपस्थतलयोरुदरं न्यसेत् ॥ 286 ॥
मूलम् - 286
उपाङ्गं स्यादुपदले तद्विधानमतः श्रृणु।
पूर्वपत्रसमीपस्थतलयोरुदरं न्यसेत् ॥ 286 ॥
विश्वास-प्रस्तुतिः - 287
पृष्ठमन्त्रं न्यसेत्तद्वद्दलयोः पश्चिमस्थयोः।
बाहूरू मन्त्रपौ न्यस्यौ दलयोर्दक्षिणस्थयोः ॥ 287 ॥
मूलम् - 287
पृष्ठमन्त्रं न्यसेत्तद्वद्दलयोः पश्चिमस्थयोः।
बाहूरू मन्त्रपौ न्यस्यौ दलयोर्दक्षिणस्थयोः ॥ 287 ॥
विश्वास-प्रस्तुतिः - 288
जानू पादौ तथा न्यस्यौ दलयोरुत्तरस्थयोः।
मन्त्ररूपे षडङ्गे तु पद्मस्याष्टदलस्य तु ॥ 288 ॥
मूलम् - 288
जानू पादौ तथा न्यस्यौ दलयोरुत्तरस्थयोः।
मन्त्ररूपे षडङ्गे तु पद्मस्याष्टदलस्य तु ॥ 288 ॥
विश्वास-प्रस्तुतिः - 289
पूर्वस्मिन् हृदयं वामे कवचं दक्षिणे शिरः।
पश्चिमे तु शिखां न्यस्येत् परे दलचतुष्टये ॥ 289 ॥
मूलम् - 289
पूर्वस्मिन् हृदयं वामे कवचं दक्षिणे शिरः।
पश्चिमे तु शिखां न्यस्येत् परे दलचतुष्टये ॥ 289 ॥
विश्वास-प्रस्तुतिः - 290
अग्रतोऽस्त्रं कर्णिकायां केसरे च पुरोदले।
नेत्रं न्यस्यार्चयेत् प्राग्वत् पद्मादिन्यासमाचरेत् ॥ 290 ॥
मूलम् - 290
अग्रतोऽस्त्रं कर्णिकायां केसरे च पुरोदले।
नेत्रं न्यस्यार्चयेत् प्राग्वत् पद्मादिन्यासमाचरेत् ॥ 290 ॥
विश्वास-प्रस्तुतिः - 291
त्रिदलादिषु पद्मेषु दलमूले यथोदितम्।
बुद्ध्या स्थानं विभज्यात्र पञ्च षड्द्वादशाथवा ॥ 291 ॥
मूलम् - 291
त्रिदलादिषु पद्मेषु दलमूले यथोदितम्।
बुद्ध्या स्थानं विभज्यात्र पञ्च षड्द्वादशाथवा ॥ 291 ॥
विश्वास-प्रस्तुतिः - 292
न्यसेदङ्गान्यथादृष्टपृष्ठभागस्य वै विभोः।
परिवारसमेतस्य त्वङ्गं न्यस्येत्तु दक्षिणे ॥ 292 ॥
मूलम् - 292
न्यसेदङ्गान्यथादृष्टपृष्ठभागस्य वै विभोः।
परिवारसमेतस्य त्वङ्गं न्यस्येत्तु दक्षिणे ॥ 292 ॥
विश्वास-प्रस्तुतिः - 293
भागं कृत्वा प्रकृत्याग्रात् क्रमात् प्रागादि कल्पयेत्।
आश्रित्य वामभागं तु प्रोक्तमारभ्य चैश्वरीम् ॥ 293 ॥
मूलम् - 293
भागं कृत्वा प्रकृत्याग्रात् क्रमात् प्रागादि कल्पयेत्।
आश्रित्य वामभागं तु प्रोक्तमारभ्य चैश्वरीम् ॥ 293 ॥
विश्वास-प्रस्तुतिः - 294
चान्द्रं वात्यं वारुणं च दिग्विभागं प्रकल्पयेत्।
तयोः षट्कक्रमात् कुर्याद्द्वादशस्थानकल्पनम् ॥ 294 ॥
मूलम् - 294
चान्द्रं वात्यं वारुणं च दिग्विभागं प्रकल्पयेत्।
तयोः षट्कक्रमात् कुर्याद्द्वादशस्थानकल्पनम् ॥ 294 ॥
विश्वास-प्रस्तुतिः - 295
धर्मादिदेवता न्यस्य ह्येवं दिग्विदिगाश्रयाः।
श्रीपुष्ट्योस्तु य(स)दा यागे पृथक् पद्मोपरि स्थितम् ॥ 295 ॥
मूलम् - 295
धर्मादिदेवता न्यस्य ह्येवं दिग्विदिगाश्रयाः।
श्रीपुष्ट्योस्तु य(स)दा यागे पृथक् पद्मोपरि स्थितम् ॥ 295 ॥
विश्वास-प्रस्तुतिः - 296
तदाधिकारयागेऽपि पृथगेवासनादिकम्।
वाहानां लाञ्छनादीनां विहीने वाथ पार्श्वतः ॥ 296 ॥
मूलम् - 296
तदाधिकारयागेऽपि पृथगेवासनादिकम्।
वाहानां लाञ्छनादीनां विहीने वाथ पार्श्वतः ॥ 296 ॥
विश्वास-प्रस्तुतिः - 297
कल्पयेदथ तं भोगैर्यजेत सुसमस्तकैः।
विनिवेद्यासनवरं समाहूतस्य वै विभोः ॥ 297 ॥
मूलम् - 297
कल्पयेदथ तं भोगैर्यजेत सुसमस्तकैः।
विनिवेद्यासनवरं समाहूतस्य वै विभोः ॥ 297 ॥
विश्वास-प्रस्तुतिः - 298
पादपीठं तु सामान्यं मृद्वास्तरणभूषितम्।
घण्टाशब्दसमोपेतं दत्वार्घ्यं मन्त्रमूर्धनि ॥ 298 ॥
मूलम् - 298
पादपीठं तु सामान्यं मृद्वास्तरणभूषितम्।
घण्टाशब्दसमोपेतं दत्वार्घ्यं मन्त्रमूर्धनि ॥ 298 ॥
विश्वास-प्रस्तुतिः - 299
पाद्यप्रतिग्रहं हैमं विभोर्दद्यात् सरत्नकम्।
पाद्यं पादोदकाकर्षशाटकेनानुलेपनम् ॥ 299 ॥
मूलम् - 299
पाद्यप्रतिग्रहं हैमं विभोर्दद्यात् सरत्नकम्।
पाद्यं पादोदकाकर्षशाटकेनानुलेपनम् ॥ 299 ॥
विश्वास-प्रस्तुतिः - 300
सप्रतिग्रहमाचामं सानुलेपं च मालिकाम्।
घृतादिकैर्महादीपैरच्छिन्नैरर्चयेद्धरिम् ॥ 300 ॥
मूलम् - 300
सप्रतिग्रहमाचामं सानुलेपं च मालिकाम्।
घृतादिकैर्महादीपैरच्छिन्नैरर्चयेद्धरिम् ॥ 300 ॥
विश्वास-प्रस्तुतिः - 301
सुगन्धैर्मधुरैर्धूपैः प्रभूतैरर्चयेद्विभुम्।
अर्हणं मधुपर्कं च दर्पणं तदनन्तरम् ॥ 301 ॥
मूलम् - 301
सुगन्धैर्मधुरैर्धूपैः प्रभूतैरर्चयेद्विभुम्।
अर्हणं मधुपर्कं च दर्पणं तदनन्तरम् ॥ 301 ॥
विश्वास-प्रस्तुतिः - 302
ततः स्नानासनादीनां भोगानां सन्निधापनम्।
कृत्वाभ्यर्च्यापि देवस्य पाणिना दक्षिणं पदम् ॥ 302 ॥
मूलम् - 302
ततः स्नानासनादीनां भोगानां सन्निधापनम्।
कृत्वाभ्यर्च्यापि देवस्य पाणिना दक्षिणं पदम् ॥ 302 ॥
विश्वास-प्रस्तुतिः - 303
दक्षिणेनाथ वामेन वामं संगृह्य मन्त्रतः।
विज्ञाप्य मज्जनार्थं तु कृत्वा मार्गत्रयं ततः ॥ 303 ॥
मूलम् - 303
दक्षिणेनाथ वामेन वामं संगृह्य मन्त्रतः।
विज्ञाप्य मज्जनार्थं तु कृत्वा मार्गत्रयं ततः ॥ 303 ॥
विश्वास-प्रस्तुतिः - 305
भक्तिनम्रेण शिरसा दद्यादर्घ्यं तु मूर्धनि।
विनिवेद्य ततो हैमं सरत्नं च प्रतिग्रहम् ॥ 305 ॥
मूलम् - 305
भक्तिनम्रेण शिरसा दद्यादर्घ्यं तु मूर्धनि।
विनिवेद्य ततो हैमं सरत्नं च प्रतिग्रहम् ॥ 305 ॥
विश्वास-प्रस्तुतिः - 306
दद्याद्वै पाद्यकलशात् पाद्यं पादाम्बुजद्वये।
शुभे च पादुके चाथ तदन्ते स्नानशाटकम् ॥ 306 ॥
मूलम् - 306
दद्याद्वै पाद्यकलशात् पाद्यं पादाम्बुजद्वये।
शुभे च पादुके चाथ तदन्ते स्नानशाटकम् ॥ 306 ॥
विश्वास-प्रस्तुतिः - 307
सुगन्धशालिसंपूर्णं मात्रार्थं पात्रमुत्तमम्।
दर्पणं पूर्णचन्द्राभं गन्धतोयमनन्तरम् ॥ 307 ॥
मूलम् - 307
सुगन्धशालिसंपूर्णं मात्रार्थं पात्रमुत्तमम्।
दर्पणं पूर्णचन्द्राभं गन्धतोयमनन्तरम् ॥ 307 ॥
विश्वास-प्रस्तुतिः - 309
मुखधावनपात्रं च जिह्वानिर्लेहनं तथा।
गण्डूषाचामसलिले ताम्बूलं गन्धभावितम् ॥ 309 ॥
मूलम् - 309
मुखधावनपात्रं च जिह्वानिर्लेहनं तथा।
गण्डूषाचामसलिले ताम्बूलं गन्धभावितम् ॥ 309 ॥
विश्वास-प्रस्तुतिः - 310
स्नानारम्भानुवृत्तांश्च(म्भं तु विज्ञाप्य) तैलादीन् संनिधाप्य च।
तत्पात्राभ्यर्चनं कृत्वा ततस्तैलं समर्चयेत् ॥ 310 ॥
मूलम् - 310

विश्वास-प्रस्तुतिः - 311
स्कन्धो संछाद्य वस्त्रेण सुकेशान् विकिरेत् प्रभोः।
मध्ये शिरसि देवस्य सेचयेत्तैलमुत्तमम् ॥ 311 ॥
मूलम् - 311
स्कन्धो संछाद्य वस्त्रेण सुकेशान् विकिरेत् प्रभोः।
मध्ये शिरसि देवस्य सेचयेत्तैलमुत्तमम् ॥ 311 ॥
विश्वास-प्रस्तुतिः - 312
आवृत्यावृत्य निष्पीड्य तथा कण्डूयनं नखैः।
बहूपचारसंयुक्तं संमार्ज्यं तैलजं लवम् ॥ 312 ॥
मूलम् - 312
आवृत्यावृत्य निष्पीड्य तथा कण्डूयनं नखैः।
बहूपचारसंयुक्तं संमार्ज्यं तैलजं लवम् ॥ 312 ॥
विश्वास-प्रस्तुतिः - 313
केतकोत्पलमालाश्च दत्वा केशांश्च बन्धयेत्।
हस्तौ प्रक्षाल्य तोयेन स्कन्धवस्त्रं विमुच्य च ॥ 313 ॥
मूलम् - 313
केतकोत्पलमालाश्च दत्वा केशांश्च बन्धयेत्।
हस्तौ प्रक्षाल्य तोयेन स्कन्धवस्त्रं विमुच्य च ॥ 313 ॥
विश्वास-प्रस्तुतिः - 314
स्पृष्ट्वा तैलं तथाङ्गानि उपाङ्गानि च मर्दयेत्।
ततो बहुसुगन्धं तु चूर्णं गोधूमशालिजम् ॥ 314 ॥
मूलम् - 314
स्पृष्ट्वा तैलं तथाङ्गानि उपाङ्गानि च मर्दयेत्।
ततो बहुसुगन्धं तु चूर्णं गोधूमशालिजम् ॥ 314 ॥
विश्वास-प्रस्तुतिः - 315
रजनीचूर्णसंमिश्रमीषत्पद्मकभावितम्।
देयमुद्वर्तनार्थं तु माषीं च(चमषीं)तदनन्तरम् ॥ 315 ॥
मूलम् - 315
रजनीचूर्णसंमिश्रमीषत्पद्मकभावितम्।
देयमुद्वर्तनार्थं तु माषीं च(चमषीं)तदनन्तरम् ॥ 315 ॥
विश्वास-प्रस्तुतिः - 316
स्नानार्थं खलिसंयुक्तं तोयमुष्णमनन्तरम्।
चन्दनं मुखलेपार्थं घृष्टं कर्पूरभावितम् ॥ 316 ॥
मूलम् - 316
स्नानार्थं खलिसंयुक्तं तोयमुष्णमनन्तरम्।
चन्दनं मुखलेपार्थं घृष्टं कर्पूरभावितम् ॥ 316 ॥
विश्वास-प्रस्तुतिः - 317
तत आमलकस्नानं लोध्रं कालेयकं तथा।
वर्णकं केयूरकं च तगरूणि प्रियङ्गवः ॥ 317 ॥
मूलम् - 317
तत आमलकस्नानं लोध्रं कालेयकं तथा।
वर्णकं केयूरकं च तगरूणि प्रियङ्गवः ॥ 317 ॥
विश्वास-प्रस्तुतिः - 318
सुगन्धं चैव सिद्धार्थं सर्वौषधिसरत्नकम्।
सहस्रधारया विष्णोर्दद्याच्छुद्धोदकं तथा ॥ 318 ॥
मूलम् - 318
सुगन्धं चैव सिद्धार्थं सर्वौषधिसरत्नकम्।
सहस्रधारया विष्णोर्दद्याच्छुद्धोदकं तथा ॥ 318 ॥
विश्वास-प्रस्तुतिः - 319
कालेयकं च तदनु लोध्रस्नानं तु वर्णकम्।
शरीरार्थानि चान्यानि शिरोर्थानि तु सत्तम! ॥ 319 ॥
मूलम् - 319
कालेयकं च तदनु लोध्रस्नानं तु वर्णकम्।
शरीरार्थानि चान्यानि शिरोर्थानि तु सत्तम! ॥ 319 ॥
विश्वास-प्रस्तुतिः - 320
यद्वा क्षीरादिसंपूर्णकुम्भैः संस्नानपयेद्विभुम्।
गव्यं प्रभूतं स्नानार्थं क्षीरं दधि घृतं मधु ॥ 320 ॥
मूलम् - 320
यद्वा क्षीरादिसंपूर्णकुम्भैः संस्नानपयेद्विभुम्।
गव्यं प्रभूतं स्नानार्थं क्षीरं दधि घृतं मधु ॥ 320 ॥
विश्वास-प्रस्तुतिः - 321
ऐक्षवं तु रसं हृद्यमभावाच्छर्करोदकम्।
धात्रीफलोदकं चैव लोध्रतोयमनन्तरम् ॥ 321 ॥
मूलम् - 321
ऐक्षवं तु रसं हृद्यमभावाच्छर्करोदकम्।
धात्रीफलोदकं चैव लोध्रतोयमनन्तरम् ॥ 321 ॥
विश्वास-प्रस्तुतिः - 322
रक्तचन्दनतोयं च रजनीनीरमुत्तमम्।
ग्रन्थिपल्लववार्येव ततस्तु तगरोदकम् ॥ 322 ॥
मूलम् - 322
रक्तचन्दनतोयं च रजनीनीरमुत्तमम्।
ग्रन्थिपल्लववार्येव ततस्तु तगरोदकम् ॥ 322 ॥
विश्वास-प्रस्तुतिः - 323
प्रियङ्गुवारि तदनु मांसीजलमतः परम्।
सिद्धार्थकोदकं चाथ सर्वौषधिजलं ततः ॥ 323 ॥
मूलम् - 323
प्रियङ्गुवारि तदनु मांसीजलमतः परम्।
सिद्धार्थकोदकं चाथ सर्वौषधिजलं ततः ॥ 323 ॥
विश्वास-प्रस्तुतिः - 324
पत्रपुष्पोदके चैव फलबीजोदके त्वथ।
गन्धोदकं च तदनु हेमरत्नजले ततः ॥ 324 ॥
मूलम् - 324
पत्रपुष्पोदके चैव फलबीजोदके त्वथ।
गन्धोदकं च तदनु हेमरत्नजले ततः ॥ 324 ॥
विश्वास-प्रस्तुतिः - 325
पुण्यतीर्थसरित्तोये केवलं तदनन्तरम्।
स्नानार्थं कल्पितेनैव तूदकेन विमिश्रितम् ॥ 325 ॥
मूलम् - 325
पुण्यतीर्थसरित्तोये केवलं तदनन्तरम्।
स्नानार्थं कल्पितेनैव तूदकेन विमिश्रितम् ॥ 325 ॥
विश्वास-प्रस्तुतिः - 326
योक्तव्यं क्रमशो ह्येतदर्घ्यपुष्पसमन्वितम्।
अन्तरान्तरयोगेन स्नानानां च महामते! ॥ 326 ॥
मूलम् - 326
योक्तव्यं क्रमशो ह्येतदर्घ्यपुष्पसमन्वितम्।
अन्तरान्तरयोगेन स्नानानां च महामते! ॥ 326 ॥
विश्वास-प्रस्तुतिः - 327
क्षालनं चार्घ्यकलशादर्घ्यदानसमन्वितम्।
ततः स्नानीयशेषेण हेमादिद्रव्यनिर्मितम् ॥ 327 ॥
मूलम् - 327
क्षालनं चार्घ्यकलशादर्घ्यदानसमन्वितम्।
ततः स्नानीयशेषेण हेमादिद्रव्यनिर्मितम् ॥ 327 ॥
विश्वास-प्रस्तुतिः - 328
संपूर्णमम्भसा कुम्भं हरिद्राशालितण्डुलैः।
सुपिष्टैरुपरिष्टाच्च लिप्तं युक्तं स्रगादिना ॥ 328 ॥
मूलम् - 328
संपूर्णमम्भसा कुम्भं हरिद्राशालितण्डुलैः।
सुपिष्टैरुपरिष्टाच्च लिप्तं युक्तं स्रगादिना ॥ 328 ॥
विश्वास-प्रस्तुतिः - 329
पाणौ कृत्वा तमेकस्मिन्नपरस्मिंस्तु मल्लकम्।
धूमायमानं सिद्धार्थैर्भ्राम्य मूर्ध्नि बहिः क्षिपेत् ॥ 329 ॥
मूलम् - 329
पाणौ कृत्वा तमेकस्मिन्नपरस्मिंस्तु मल्लकम्।
धूमायमानं सिद्धार्थैर्भ्राम्य मूर्ध्नि बहिः क्षिपेत् ॥ 329 ॥
विश्वास-प्रस्तुतिः - 330
सुधौतमहतं चाथ शाटकं विनिवेद्य च।
कचोदकापकर्षार्थमपरं देहवारिहृत् ॥ 330 ॥
मूलम् - 330
सुधौतमहतं चाथ शाटकं विनिवेद्य च।
कचोदकापकर्षार्थमपरं देहवारिहृत् ॥ 330 ॥
विश्वास-प्रस्तुतिः - 331
अधरोत्तरवस्त्रे द्वे गन्धधूपाधिवासिते।
स्कन्धप्लोतं निवेद्याथ सुसूक्ष्ममहतं सितम् ॥ 331 ॥
मूलम् - 331
अधरोत्तरवस्त्रे द्वे गन्धधूपाधिवासिते।
स्कन्धप्लोतं निवेद्याथ सुसूक्ष्ममहतं सितम् ॥ 331 ॥
विश्वास-प्रस्तुतिः - 332
शिरःश्यानं ततः कुर्याच्छशिधूपसमन्वितम्।
कर्पूरचूर्णसंमिश्रं कुर्याद्देवस्य मूर्धजम् ॥ 332 ॥
मूलम् - 332
शिरःश्यानं ततः कुर्याच्छशिधूपसमन्वितम्।
कर्पूरचूर्णसंमिश्रं कुर्याद्देवस्य मूर्धजम् ॥ 332 ॥
विश्वास-प्रस्तुतिः - 333
विभाव्यालङ्कृतं भक्त्या भोगैः स्रक्चन्दनादिभिः।
एवं हि चित्रपूर्वाणामन्येषां कमलासन! ॥ 333 ॥
मूलम् - 333
विभाव्यालङ्कृतं भक्त्या भोगैः स्रक्चन्दनादिभिः।
एवं हि चित्रपूर्वाणामन्येषां कमलासन! ॥ 333 ॥
विश्वास-प्रस्तुतिः - 334
सद्रत्नब्रह्मपाषाणवर्जितानां समाचरेत्।
स्नानाद्यं कर्मबिम्बे तु तत्समीपेऽथ दर्पणे ॥ 334 ॥
मूलम् - 334
सद्रत्नब्रह्मपाषाणवर्जितानां समाचरेत्।
स्नानाद्यं कर्मबिम्बे तु तत्समीपेऽथ दर्पणे ॥ 334 ॥
विश्वास-प्रस्तुतिः - 335
स्नानविज्ञापनं कृत्वा कर्मार्चां तस्य सन्निधौ।
स्नानासने समारोप्य तस्यां सर्वं समाचरेत् ॥ 335 ॥
मूलम् - 335
स्नानविज्ञापनं कृत्वा कर्मार्चां तस्य सन्निधौ।
स्नानासने समारोप्य तस्यां सर्वं समाचरेत् ॥ 335 ॥
विश्वास-प्रस्तुतिः - 336
तदभावे दर्पणे तु स्नानभोगानि चार्पयेत्।
चित्रस्थ एव दद्याच्च भोगानन्यान् यथाक्रमम् ॥ 336 ॥
मूलम् - 336
तदभावे दर्पणे तु स्नानभोगानि चार्पयेत्।
चित्रस्थ एव दद्याच्च भोगानन्यान् यथाक्रमम् ॥ 336 ॥
विश्वास-प्रस्तुतिः - 337
तदभावे च तान् सर्वान् पाणिनादाय चेतसा।
निवेदयेन्मण्डलादिष्वेवं भोगनिवेदनम् ॥ 337 ॥
मूलम् - 337
तदभावे च तान् सर्वान् पाणिनादाय चेतसा।
निवेदयेन्मण्डलादिष्वेवं भोगनिवेदनम् ॥ 337 ॥
विश्वास-प्रस्तुतिः - 338
प्रोक्षणं यदि वा कुर्यादर्घ्याद्यैरवशिष्टकैः।
प्रणालभागादपरं स्थानं भद्रासनात्तु(नं तु) वै ॥ 338 ॥
मूलम् - 338
प्रोक्षणं यदि वा कुर्यादर्घ्याद्यैरवशिष्टकैः।
प्रणालभागादपरं स्थानं भद्रासनात्तु(नं तु) वै ॥ 338 ॥
विश्वास-प्रस्तुतिः - 339
भूरिनीरघटैः शुद्धं कृत्वा तत्रावतार्य च।
सपीठं भगवद्बिम्बं तद्विना वार्चितं यदि ॥ 339 ॥
मूलम् - 339
भूरिनीरघटैः शुद्धं कृत्वा तत्रावतार्य च।
सपीठं भगवद्बिम्बं तद्विना वार्चितं यदि ॥ 339 ॥
विश्वास-प्रस्तुतिः - 340
खप्लुतं भावयेद्देवं निश्शेषं क्षालयेत्ततः।
भूयो गन्धोदकेनैव पूर्यं कुम्भचतुष्टयम् ॥ 340 ॥
मूलम् - 340
खप्लुतं भावयेद्देवं निश्शेषं क्षालयेत्ततः।
भूयो गन्धोदकेनैव पूर्यं कुम्भचतुष्टयम् ॥ 340 ॥
विश्वास-प्रस्तुतिः - 341
स्नानकुम्भं विनान्येषां प्राग्वत् कार्या च कल्पना।
हृन्मन्त्रेण चतुर्णां तु कुर्याद्वै द्रव्ययोजनम् ॥ 341 ॥
मूलम् - 341
स्नानकुम्भं विनान्येषां प्राग्वत् कार्या च कल्पना।
हृन्मन्त्रेण चतुर्णां तु कुर्याद्वै द्रव्ययोजनम् ॥ 341 ॥
विश्वास-प्रस्तुतिः - 342
सास्त्रेण मूलमन्त्रेण सर्वं तच्चाभिमन्त्र्य तु।
मार्गत्रयं क्रमात् कृत्वा विनिवेद्यासनं ततः ॥ 342 ॥
मूलम् - 342
सास्त्रेण मूलमन्त्रेण सर्वं तच्चाभिमन्त्र्य तु।
मार्गत्रयं क्रमात् कृत्वा विनिवेद्यासनं ततः ॥ 342 ॥
विश्वास-प्रस्तुतिः - 343
तृतीयं रत्नखचितं तत्रस्थं परमेश्वरम्।
समभ्यर्च्यार्घ्यपाद्येन पादुकाभ्यामनन्तरम् ॥ 343 ॥
मूलम् - 343
तृतीयं रत्नखचितं तत्रस्थं परमेश्वरम्।
समभ्यर्च्यार्घ्यपाद्येन पादुकाभ्यामनन्तरम् ॥ 343 ॥
विश्वास-प्रस्तुतिः - 344
देयमाचमनं भूयः पादपीठं तथैव च।
समालभ्य सुगन्धेन भक्तितश्चन्दनादिना ॥ 344 ॥
मूलम् - 344
देयमाचमनं भूयः पादपीठं तथैव च।
समालभ्य सुगन्धेन भक्तितश्चन्दनादिना ॥ 344 ॥
विश्वास-प्रस्तुतिः - 345
संवीज्य व्यजनेनैव मायूरेण तथेन च??।
ततोऽप्यचटनं हैमं राजतं दारुजं तु वा ॥ 345 ॥
मूलम् - 345
संवीज्य व्यजनेनैव मायूरेण तथेन च??।
ततोऽप्यचटनं हैमं राजतं दारुजं तु वा ॥ 345 ॥
विश्वास-प्रस्तुतिः - 346
केशप्रसादकृत्कूर्चं पुष्पताम्बूलकर्तरीम्।
निवेद्यदेवदेवाय दुकूलवसने सिते ॥ 346 ॥
मूलम् - 346
केशप्रसादकृत्कूर्चं पुष्पताम्बूलकर्तरीम्।
निवेद्यदेवदेवाय दुकूलवसने सिते ॥ 346 ॥
विश्वास-प्रस्तुतिः - 347
घृष्टकुङ्कुमकस्तूरीमृगस्नेहानुलेपनम्।
उपवीतं सोत्तरीयं मकुटाद्यमननन्तरम् ॥ 347 ॥
मूलम् - 347
घृष्टकुङ्कुमकस्तूरीमृगस्नेहानुलेपनम्।
उपवीतं सोत्तरीयं मकुटाद्यमननन्तरम् ॥ 347 ॥
विश्वास-प्रस्तुतिः - 348
पादनूपुरपर्यन्तमलङ्करणमुत्तमम्।
विचित्रं हि शिरोमाल्यं वेष्टनेन समन्वितम् ॥ 348 ॥
मूलम् - 348
पादनूपुरपर्यन्तमलङ्करणमुत्तमम्।
विचित्रं हि शिरोमाल्यं वेष्टनेन समन्वितम् ॥ 348 ॥
विश्वास-प्रस्तुतिः - 349
स्रग्दामसूत्रसंबद्धमाकर्णा(ण्ठा)च्चरणावधि।
मुक्तपुष्पं ततो दद्याद्यथाकालसमुद्भवम् ॥ 349 ॥
मूलम् - 349
स्रग्दामसूत्रसंबद्धमाकर्णा(ण्ठा)च्चरणावधि।
मुक्तपुष्पं ततो दद्याद्यथाकालसमुद्भवम् ॥ 349 ॥
विश्वास-प्रस्तुतिः - 350
रुचिरं कङ्कणं चाद्य दद्यात् प्रतिसरं ततः।
धातुभिः कुङ्कुमाद्यैर्वा विचित्रं सितसूत्रजम् ॥ 350 ॥
मूलम् - 350
रुचिरं कङ्कणं चाद्य दद्यात् प्रतिसरं ततः।
धातुभिः कुङ्कुमाद्यैर्वा विचित्रं सितसूत्रजम् ॥ 350 ॥
विश्वास-प्रस्तुतिः - 351
पूरितं मृदुतूलेन ग्रथितं चान्तरान्तरा।
अञ्जनं सशलाकं च ताम्बूलं गन्धभावितम् ॥ 351 ॥
मूलम् - 351
पूरितं मृदुतूलेन ग्रथितं चान्तरान्तरा।
अञ्जनं सशलाकं च ताम्बूलं गन्धभावितम् ॥ 351 ॥
विश्वास-प्रस्तुतिः - 352
ललाटतिलकं हैमं मुखवासं सरोचनम्।
कर्णावतंसके पुष्पे मण्डनं दर्पणं महत् ॥ 352 ॥
मूलम् - 352
ललाटतिलकं हैमं मुखवासं सरोचनम्।
कर्णावतंसके पुष्पे मण्डनं दर्पणं महत् ॥ 352 ॥
विश्वास-प्रस्तुतिः - 353
प्रकिरन् चित्रकुसुमैर्दी(मदी)प्तरत्नप्रभोज्ज्वलैः।
प्रदीप्तैस्तु महाज्वालै(दीपै)स्तिलतैलाज्यपूरितैः ॥ 353 ॥
मूलम् - 353
प्रकिरन् चित्रकुसुमैर्दी(मदी)प्तरत्नप्रभोज्ज्वलैः।
प्रदीप्तैस्तु महाज्वालै(दीपै)स्तिलतैलाज्यपूरितैः ॥ 353 ॥
विश्वास-प्रस्तुतिः - 354
अभुक्ताहतसुश्वेतरञ्जि(चि)तैर्वस्त्र(र्ति)वेष्टितैः।
गर्भीकृतत्वगेलाद्यैः पूजयेत्तदनन्तरम् ॥ 354 ॥
मूलम् - 354
अभुक्ताहतसुश्वेतरञ्जि(चि)तैर्वस्त्र(र्ति)वेष्टितैः।
गर्भीकृतत्वगेलाद्यैः पूजयेत्तदनन्तरम् ॥ 354 ॥
विश्वास-प्रस्तुतिः - 355
कर्पूरचूर्णसंमिश्रं सुगन्धिमधुरं बहु।
मृष्टधूपसमायुक्तं गुग्गुलुं धूपयेच्छूभम् ॥ 355 ॥
मूलम् - 355
कर्पूरचूर्णसंमिश्रं सुगन्धिमधुरं बहु।
मृष्टधूपसमायुक्तं गुग्गुलुं धूपयेच्छूभम् ॥ 355 ॥
विश्वास-प्रस्तुतिः - 356
सहघण्टारवै रम्यैश्चाल्यमानेन बाहुना।
उपानहौ सितच्छत्रं शिबिकां च रथादि यत् ॥ 356 ॥
मूलम् - 356
सहघण्टारवै रम्यैश्चाल्यमानेन बाहुना।
उपानहौ सितच्छत्रं शिबिकां च रथादि यत् ॥ 356 ॥
विश्वास-प्रस्तुतिः - 357
वाहनं गजपर्यन्तं सपताकं खगध्वजम्।
सितासितौ तु चमरौ मात्रावित्तमनन्तरम् ॥ 357 ॥
मूलम् - 357
वाहनं गजपर्यन्तं सपताकं खगध्वजम्।
सितासितौ तु चमरौ मात्रावित्तमनन्तरम् ॥ 357 ॥
विश्वास-प्रस्तुतिः - 358
जानुनी भूगते कृत्वा शिरसावनतेन तु।
आदायोत्तानपाणिभ्यां विनिवेद्य जगत्प्रभोः ॥ 358 ॥
मूलम् - 358
जानुनी भूगते कृत्वा शिरसावनतेन तु।
आदायोत्तानपाणिभ्यां विनिवेद्य जगत्प्रभोः ॥ 358 ॥
विश्वास-प्रस्तुतिः - 359
संपूरणार्थं भोगानां सर्वेषां द्विजसत्तम!।
भेरीमृदङ्गशब्दार्द्यैजयशब्दसमन्वितैः ॥ 359 ॥
मूलम् - 359
संपूरणार्थं भोगानां सर्वेषां द्विजसत्तम!।
भेरीमृदङ्गशब्दार्द्यैजयशब्दसमन्वितैः ॥ 359 ॥
विश्वास-प्रस्तुतिः - 360
गीतकैर्विविधैर्नृत्तैस्तन्त्रीवाद्यसमन्वितैः।
वंशैः श्रृङ्गैस्तथा वाद्यैरन्यैः श्राव्यैश्च पूजयेत् ॥ 360 ॥
मूलम् - 360
गीतकैर्विविधैर्नृत्तैस्तन्त्रीवाद्यसमन्वितैः।
वंशैः श्रृङ्गैस्तथा वाद्यैरन्यैः श्राव्यैश्च पूजयेत् ॥ 360 ॥
विश्वास-प्रस्तुतिः - 361
स्तोत्रमन्त्रजपं कुर्याज्जितन्ताद्यं महामते!।
व्यस्तं चैव समस्तं च वाक्ययुक्तं विशेषतः ॥ 361 ॥
मूलम् - 361
स्तोत्रमन्त्रजपं कुर्याज्जितन्ताद्यं महामते!।
व्यस्तं चैव समस्तं च वाक्ययुक्तं विशेषतः ॥ 361 ॥
विश्वास-प्रस्तुतिः - 362
ततः प्रदक्षिणं कुर्याच्चत्वारि द्विजसत्तम!।
कुसुमक्षेपसंयुक्तं चतुर्दिक्षु समं तु वै ॥ 362 ॥
मूलम् - 362
ततः प्रदक्षिणं कुर्याच्चत्वारि द्विजसत्तम!।
कुसुमक्षेपसंयुक्तं चतुर्दिक्षु समं तु वै ॥ 362 ॥
विश्वास-प्रस्तुतिः - 363
सहान्तःकरणेनैव भक्तियुक्तेन चेतसा।
नतपृष्ठशिरोजानुललाटतटहृत्करः ॥ 363 ॥
मूलम् - 363
सहान्तःकरणेनैव भक्तियुक्तेन चेतसा।
नतपृष्ठशिरोजानुललाटतटहृत्करः ॥ 363 ॥
विश्वास-प्रस्तुतिः - 364
गृहस्थ आचरेन्नित्यं प्रणामं सप्रदक्षिणम्।
सन्यासी दण्डवत् कुर्यात् प्रणिपातं च सर्वदिक् ॥ 364 ॥
मूलम् - 364
गृहस्थ आचरेन्नित्यं प्रणामं सप्रदक्षिणम्।
सन्यासी दण्डवत् कुर्यात् प्रणिपातं च सर्वदिक् ॥ 364 ॥
विश्वास-प्रस्तुतिः - 365
विहितं स्नातकादीनामन्येषामेवमेव हि।
स्मरन् सर्वेश्वरं बुद्ध्या सकृत् प्रवितते क्षितौ ॥ 365 ॥
मूलम् - 365
विहितं स्नातकादीनामन्येषामेवमेव हि।
स्मरन् सर्वेश्वरं बुद्ध्या सकृत् प्रवितते क्षितौ ॥ 365 ॥
विश्वास-प्रस्तुतिः - 366
संकटे सति भूभागे भगवत्यग्रतः स्थितः।
धिया तु भक्तितः कुर्याद्बध्वा तु करसंपुटम् ॥ 366 ॥
मूलम् - 366
संकटे सति भूभागे भगवत्यग्रतः स्थितः।
धिया तु भक्तितः कुर्याद्बध्वा तु करसंपुटम् ॥ 366 ॥
विश्वास-प्रस्तुतिः - 367
हृद्देशे मूर्ध्नि कम्पैस्तु स्मरन् सर्वेश्वरं हरिम्।
अन्तर्गर्भगृहे विष्णोर्गर्भद्वारार्धमण्टपे ॥ 367 ॥
मूलम् - 367
हृद्देशे मूर्ध्नि कम्पैस्तु स्मरन् सर्वेश्वरं हरिम्।
अन्तर्गर्भगृहे विष्णोर्गर्भद्वारार्धमण्टपे ॥ 367 ॥
विश्वास-प्रस्तुतिः - 368
प्रणिपातगणं कुर्यात् प्रदक्षिणगणं विना।
चक्रवद्भ्रामयेन्नाङ्गं पृष्ठभागं न दर्शयेत् ॥ 368 ॥
मूलम् - 368
प्रणिपातगणं कुर्यात् प्रदक्षिणगणं विना।
चक्रवद्भ्रामयेन्नाङ्गं पृष्ठभागं न दर्शयेत् ॥ 368 ॥
विश्वास-प्रस्तुतिः - 369
पश्चाद्भागेन निर्गच्छेद्देवाग्निगुरुसन्निधौ।
वह्निस्थस्य विभोर्यस्मात् पाणिपृष्ठस्य दर्शनम् ॥ 369 ॥
मूलम् - 369
पश्चाद्भागेन निर्गच्छेद्देवाग्निगुरुसन्निधौ।
वह्निस्थस्य विभोर्यस्मात् पाणिपृष्ठस्य दर्शनम् ॥ 369 ॥
विश्वास-प्रस्तुतिः - 370
बहुष्वपि च भोगेषु प्रधानं प्रापणं तथा।
पश्चादुत्सवबिम्बं तत्क्रमेणैव तु पूजयेत् ॥ 370 ॥
मूलम् - 370
बहुष्वपि च भोगेषु प्रधानं प्रापणं तथा।
पश्चादुत्सवबिम्बं तत्क्रमेणैव तु पूजयेत् ॥ 370 ॥
विश्वास-प्रस्तुतिः - 371
जानुभ्यां सह पाणिभ्यां पाणिभ्यां वा समाचरेत्।
जानुप्रदक्षिणं मुक्त्वा अन्तः सन्निकटे विभोः ॥ 371 ॥
मूलम् - 371
जानुभ्यां सह पाणिभ्यां पाणिभ्यां वा समाचरेत्।
जानुप्रदक्षिणं मुक्त्वा अन्तः सन्निकटे विभोः ॥ 371 ॥
विश्वास-प्रस्तुतिः - 372
विरुद्धमपरं चैव भक्तानां चरणभ्रमम्।
एवं प्रदक्षिणीकृत्वा क्षिप्त्वा पुष्पाञ्जलिं ततः ॥ 372 ॥
मूलम् - 372
विरुद्धमपरं चैव भक्तानां चरणभ्रमम्।
एवं प्रदक्षिणीकृत्वा क्षिप्त्वा पुष्पाञ्जलिं ततः ॥ 372 ॥
विश्वास-प्रस्तुतिः - 373
सुस्नाना(ता)दित्रयं पृच्छेद्भगवन्तं तदापि च।
सार्घ्याचामे(न) तु वा चार्घ्यगन्धपुष्पप्रधूपकैः ॥ 373 ॥
मूलम् - 373
सुस्नाना(ता)दित्रयं पृच्छेद्भगवन्तं तदापि च।
सार्घ्याचामे(न) तु वा चार्घ्यगन्धपुष्पप्रधूपकैः ॥ 373 ॥
विश्वास-प्रस्तुतिः - 374
इष्ट्वा नीराजयेद्देवं विभोरर्घ्यं समर्पयेत्।
भोज्यासनं निवेद्याथ मार्गत्रयपुरस्सरम् ॥ 374 ॥
मूलम् - 374
इष्ट्वा नीराजयेद्देवं विभोरर्घ्यं समर्पयेत्।
भोज्यासनं निवेद्याथ मार्गत्रयपुरस्सरम् ॥ 374 ॥
विश्वास-प्रस्तुतिः - 375
छन्नं दुकूलतूलोत्थमसूरकवरेण तु।
अर्घ्यं पाद्याचमे दद्यात् प्रतिग्रहसमन्विते ॥ 375 ॥
मूलम् - 375
छन्नं दुकूलतूलोत्थमसूरकवरेण तु।
अर्घ्यं पाद्याचमे दद्यात् प्रतिग्रहसमन्विते ॥ 375 ॥
विश्वास-प्रस्तुतिः - 376
तर्पणं संप्रतिष्ठाप्य वासितं चार्घ्यवारिणा।
अथार्हणजलं स्वच्छं सुगन्धं पात्रतः कृतम् ॥ 376 ॥
मूलम् - 376
तर्पणं संप्रतिष्ठाप्य वासितं चार्घ्यवारिणा।
अथार्हणजलं स्वच्छं सुगन्धं पात्रतः कृतम् ॥ 376 ॥
विश्वास-प्रस्तुतिः - 377
मधुपर्कं दधिघृतं मधुयुक्तमनन्तरम्।
समस्तमेवमेकाङ्गं दधि वापि निवेदयेत् ॥ 377 ॥
मूलम् - 377
मधुपर्कं दधिघृतं मधुयुक्तमनन्तरम्।
समस्तमेवमेकाङ्गं दधि वापि निवेदयेत् ॥ 377 ॥
विश्वास-प्रस्तुतिः - 378
शीतलं तर्पणजलं अथ चूर्णं पुरोदितम्।
देयं निष्पुंसनार्थं च पुनराचमनं विभोः ॥ 378 ॥
मूलम् - 378
शीतलं तर्पणजलं अथ चूर्णं पुरोदितम्।
देयं निष्पुंसनार्थं च पुनराचमनं विभोः ॥ 378 ॥
विश्वास-प्रस्तुतिः - 379
स्वलङ्कतां सुरूपां च स्रग्युक्तां विनिवेद्य गाम्।
ओषधीः शालिपूर्णाश्च स्रक्फलाढ्यं वनस्पतिम् ॥ 379 ॥
मूलम् - 379
स्वलङ्कतां सुरूपां च स्रग्युक्तां विनिवेद्य गाम्।
ओषधीः शालिपूर्णाश्च स्रक्फलाढ्यं वनस्पतिम् ॥ 379 ॥
विश्वास-प्रस्तुतिः - 380
मूर्तिं(र्तं)निवेदयेत् पूर्वं ततः संस्थाप्य तर्पणम्।
प्रच्छादनाम्बरं चैव प्रदद्यादर्हणोदकम् ॥ 380 ॥
मूलम् - 380
मूर्तिं(र्तं)निवेदयेत् पूर्वं ततः संस्थाप्य तर्पणम्।
प्रच्छादनाम्बरं चैव प्रदद्यादर्हणोदकम् ॥ 380 ॥
विश्वास-प्रस्तुतिः - 381
षड्रसप्रभवैर्दिव्यैर्नैवेद्यैः पावनैः फलैः।
गुडखण्डचितैर्भर्क्ष्यैबहुर्भिघृतपाचितैः ॥ 381 ॥
मूलम् - 381
षड्रसप्रभवैर्दिव्यैर्नैवेद्यैः पावनैः फलैः।
गुडखण्डचितैर्भर्क्ष्यैबहुर्भिघृतपाचितैः ॥ 381 ॥
विश्वास-प्रस्तुतिः - 382
गुडमुद्गपयोमिश्रैर्निशाज्यतिलमिश्रितैः।
दधिमिश्रैस्सर्वमिश्रैर्मधुस्वादुयुतैः फलैः ॥ 382 ॥
मूलम् - 382
गुडमुद्गपयोमिश्रैर्निशाज्यतिलमिश्रितैः।
दधिमिश्रैस्सर्वमिश्रैर्मधुस्वादुयुतैः फलैः ॥ 382 ॥
विश्वास-प्रस्तुतिः - 383
क्रमादन्नैरष्टविधैरपूपान् विनिवेदयेत्।
सरसाभी रसालाभिः पयसा सुश्रृतेन च ॥ 383 ॥
मूलम् - 383
क्रमादन्नैरष्टविधैरपूपान् विनिवेदयेत्।
सरसाभी रसालाभिः पयसा सुश्रृतेन च ॥ 383 ॥
विश्वास-प्रस्तुतिः - 384
पवित्रैः शीतलैः स्वादुरसगन्धैश्च पानकैः।
भक्ष्यैर्भोज्यैस्तथा लेह्यैः पेयैरन्यैरनेकशः ॥ 384 ॥
मूलम् - 384
पवित्रैः शीतलैः स्वादुरसगन्धैश्च पानकैः।
भक्ष्यैर्भोज्यैस्तथा लेह्यैः पेयैरन्यैरनेकशः ॥ 384 ॥
विश्वास-प्रस्तुतिः - 385
श्रद्धापूतेन मनसा यष्टव्य(जेत्त)मजमव्ययम्।
एकैकस्मिंस्तु वै भोगे प्रोक्षयेदर्घ्यवारिणा ॥ 385 ॥
मूलम् - 385
श्रद्धापूतेन मनसा यष्टव्य(जेत्त)मजमव्ययम्।
एकैकस्मिंस्तु वै भोगे प्रोक्षयेदर्घ्यवारिणा ॥ 385 ॥
विश्वास-प्रस्तुतिः - 386
छोटिकां मन्त्रसंयुक्तां कृत्वा पाणिद्वयेन तु।
धारणाद्वितयेनैव अर्कसोममयेन तु ॥ 386 ॥
मूलम् - 386
छोटिकां मन्त्रसंयुक्तां कृत्वा पाणिद्वयेन तु।
धारणाद्वितयेनैव अर्कसोममयेन तु ॥ 386 ॥
विश्वास-प्रस्तुतिः - 387
सम्यक् सर्वं तु संस्कुर्याद्यथा तदवधारय।
प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत् पुरा ॥ 387 ॥
मूलम् - 387
सम्यक् सर्वं तु संस्कुर्याद्यथा तदवधारय।
प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत् पुरा ॥ 387 ॥
विश्वास-प्रस्तुतिः - 388
संचिन्त्य भस्मभूताहं(तं तु) ततः पूर्णेन्दुरश्मिभिः।
आप्याय्यामृतकल्लोलधारापातेन नारद! ॥ 388 ॥
मूलम् - 388
संचिन्त्य भस्मभूताहं(तं तु) ततः पूर्णेन्दुरश्मिभिः।
आप्याय्यामृतकल्लोलधारापातेन नारद! ॥ 388 ॥
विश्वास-प्रस्तुतिः - 389
कान्तिमच्चिन्तयेद्भूयो यद्दग्धं भानुना तु वै।
वध्वा कामदुघां मुद्रां स्रवन्तीं मन्त्रसंयुताम् ॥ 389 ॥
मूलम् - 389
कान्तिमच्चिन्तयेद्भूयो यद्दग्धं भानुना तु वै।
वध्वा कामदुघां मुद्रां स्रवन्तीं मन्त्रसंयुताम् ॥ 389 ॥
विश्वास-प्रस्तुतिः - 390
गोरूपां हिमशैलाभां निराधारपथे स्थिताम्।
दत्वा पुष्पार्घ्यमुपरि संस्पृशेद्विष्णुपाणिना ॥ 390 ॥
मूलम् - 390
गोरूपां हिमशैलाभां निराधारपथे स्थिताम्।
दत्वा पुष्पार्घ्यमुपरि संस्पृशेद्विष्णुपाणिना ॥ 390 ॥
विश्वास-प्रस्तुतिः - 391
सव्येन पाणिना स्पृश्य प्रकोष्ठं दक्षिणस्य तु।
तेन दक्षिणहस्तेन अग्रसंकुचितेन तु ॥ 391 ॥
मूलम् - 391
सव्येन पाणिना स्पृश्य प्रकोष्ठं दक्षिणस्य तु।
तेन दक्षिणहस्तेन अग्रसंकुचितेन तु ॥ 391 ॥
विश्वास-प्रस्तुतिः - 392
निवेदयेत्ततो विप्र! शिरसाऽवनतेन तत्।
पावनैः पानकैः स्वच्छैः शीतलेर्मधुरादिकैः ॥ 392 ॥
मूलम् - 392
निवेदयेत्ततो विप्र! शिरसाऽवनतेन तत्।
पावनैः पानकैः स्वच्छैः शीतलेर्मधुरादिकैः ॥ 392 ॥
विश्वास-प्रस्तुतिः - 393
त्वगेलाद्यन्वितैर्मृष्टधूपकर्पूरवासितैः।
नालिकेरोदकोपेतैस्तर्पणीयमनन्तरम् ॥ 393 ॥
मूलम् - 393
त्वगेलाद्यन्वितैर्मृष्टधूपकर्पूरवासितैः।
नालिकेरोदकोपेतैस्तर्पणीयमनन्तरम् ॥ 393 ॥
विश्वास-प्रस्तुतिः - 394
मसूरमाषचूर्णेन रजनीशालिजेन च।
समुद्वर्त्य च संक्षाल्य शीतलैर्बहुवारिभिः ॥ 394 ॥
मूलम् - 394
मसूरमाषचूर्णेन रजनीशालिजेन च।
समुद्वर्त्य च संक्षाल्य शीतलैर्बहुवारिभिः ॥ 394 ॥
विश्वास-प्रस्तुतिः - 395
नैवेद्याचमनार्थं तु गन्धोदकमनुत्तमम्।
वाससा निर्मलं कृत्वा चन्दनेन सितेन च ॥ 395 ॥
मूलम् - 395
नैवेद्याचमनार्थं तु गन्धोदकमनुत्तमम्।
वाससा निर्मलं कृत्वा चन्दनेन सितेन च ॥ 395 ॥
विश्वास-प्रस्तुतिः - 396
समालभ्य सुघृष्टेन कर्पूरसहितेन च।
तिलान्यथ स रत्नानि सौवर्णे वाथ राजते ॥ 396 ॥
मूलम् - 396
समालभ्य सुघृष्टेन कर्पूरसहितेन च।
तिलान्यथ स रत्नानि सौवर्णे वाथ राजते ॥ 396 ॥
विश्वास-प्रस्तुतिः - 397
पात्रे कृत्वाथ मात्रार्थं देवाय विनिवेदयेत्।
लवङ्गतक्कोलैलात्वक्कर्पूरपरिभावितम् ॥ 397 ॥
मूलम् - 397
पात्रे कृत्वाथ मात्रार्थं देवाय विनिवेदयेत्।
लवङ्गतक्कोलैलात्वक्कर्पूरपरिभावितम् ॥ 397 ॥
विश्वास-प्रस्तुतिः - 398
जातिपूगफलोपेतं ससुगन्धच्छदं बहु।
कर्पूरचूर्णसंमिश्रं मुक्ताचूर्णसमन्वितम् ॥ 398 ॥
मूलम् - 398
जातिपूगफलोपेतं ससुगन्धच्छदं बहु।
कर्पूरचूर्णसंमिश्रं मुक्ताचूर्णसमन्वितम् ॥ 398 ॥
विश्वास-प्रस्तुतिः - 399
मातुलुङ्गफलोपेतं नालिकेरफलान्वितम्।
प्रदद्यात् प्रणतश्चान्ते ताम्बूलं जगतःपतेः ॥ 399 ॥
मूलम् - 399
मातुलुङ्गफलोपेतं नालिकेरफलान्वितम्।
प्रदद्यात् प्रणतश्चान्ते ताम्बूलं जगतःपतेः ॥ 399 ॥
विश्वास-प्रस्तुतिः - 400
प्रक्षाल्य गन्धतोयेन अर्घ्यपात्रोद्धृतेन वै।
पाणियुग्मं यथा वै स्यात् स्वच्छमत्यन्तनिर्मलम् ॥ 400 ॥
मूलम् - 400
प्रक्षाल्य गन्धतोयेन अर्घ्यपात्रोद्धृतेन वै।
पाणियुग्मं यथा वै स्यात् स्वच्छमत्यन्तनिर्मलम् ॥ 400 ॥
विश्वास-प्रस्तुतिः - 401
नैवेद्यधूपपात्राद्यैः पात्रैश्चानिर्मलीकृतम्।
कृत्वा तु गन्धदिग्धौ तौ अर्घ्येणार्च्य परस्परम् ॥ 401 ॥
मूलम् - 401
नैवेद्यधूपपात्राद्यैः पात्रैश्चानिर्मलीकृतम्।
कृत्वा तु गन्धदिग्धौ तौ अर्घ्येणार्च्य परस्परम् ॥ 401 ॥
विश्वास-प्रस्तुतिः - 402
मुद्रामूलादिमन्त्राणां दर्शयित्वा यथाक्रमम्।
भूयोऽर्घ्यगन्धपुष्पेण धूपान्तेन समर्च्य च ॥ 402 ॥
मूलम् - 402
मुद्रामूलादिमन्त्राणां दर्शयित्वा यथाक्रमम्।
भूयोऽर्घ्यगन्धपुष्पेण धूपान्तेन समर्च्य च ॥ 402 ॥
विश्वास-प्रस्तुतिः - 403
जपयज्ञविधानेन देवं सन्तर्पयेत्ततः।
स्फाटिकेनाक्षसूत्रेण स्वकैर्वा करपर्वभिः ॥ 403 ॥
मूलम् - 403
जपयज्ञविधानेन देवं सन्तर्पयेत्ततः।
स्फाटिकेनाक्षसूत्रेण स्वकैर्वा करपर्वभिः ॥ 403 ॥
विश्वास-प्रस्तुतिः - 404
पात्रं संस्थापयेत् पश्चादर्घ्यपात्राच्च वारिणा।
विलिप्य चन्दनाद्यैस्तु स्थापयेद्भाजने शुभे ॥ 404 ॥
मूलम् - 404
पात्रं संस्थापयेत् पश्चादर्घ्यपात्राच्च वारिणा।
विलिप्य चन्दनाद्यैस्तु स्थापयेद्भाजने शुभे ॥ 404 ॥
विश्वास-प्रस्तुतिः - 405
संपूज्य पुष्पधूपाद्यैर्मन्त्रं तत्र च विन्यसेत्।
साधारमासनं चैव शक्तिपूर्वैः समावृतम् ॥ 405 ॥
मूलम् - 405
संपूज्य पुष्पधूपाद्यैर्मन्त्रं तत्र च विन्यसेत्।
साधारमासनं चैव शक्तिपूर्वैः समावृतम् ॥ 405 ॥
विश्वास-प्रस्तुतिः - 406
चतुर्भुजं तु विरजो नारायणमिवापरम्।
वरदाभयहस्तं च बद्धाञ्जलिधरं स्मरेत् ॥ 406 ॥
मूलम् - 406
चतुर्भुजं तु विरजो नारायणमिवापरम्।
वरदाभयहस्तं च बद्धाञ्जलिधरं स्मरेत् ॥ 406 ॥
विश्वास-प्रस्तुतिः - 407
ब्रह्मस्थानस्थितं तं च सूत्रं ध्यायेच्छिखोपमम्।
सन्निधौ भव देवेश! संनिरुद्धो भवाच्युत! ॥ 407 ॥
मूलम् - 407
ब्रह्मस्थानस्थितं तं च सूत्रं ध्यायेच्छिखोपमम्।
सन्निधौ भव देवेश! संनिरुद्धो भवाच्युत! ॥ 407 ॥
विश्वास-प्रस्तुतिः - 408
सूत्राख्यमणिजालेऽस्मिन् यावच्चन्द्रार्कतारकम्।
एवं मुने! प्रतिष्ठाप्य मन्त्रं सूत्रेऽक्षसंज्ञिके ॥ 408 ॥
मूलम् - 408
सूत्राख्यमणिजालेऽस्मिन् यावच्चन्द्रार्कतारकम्।
एवं मुने! प्रतिष्ठाप्य मन्त्रं सूत्रेऽक्षसंज्ञिके ॥ 408 ॥
विश्वास-प्रस्तुतिः - 409
प्रतिष्ठितस्य वै पश्चान्मुद्रां स्वां च प्रदर्शयेत्।
यथाशक्ति जपं कुर्याच्छतमष्टाधिकं तु वा ॥ 409 ॥
मूलम् - 409
प्रतिष्ठितस्य वै पश्चान्मुद्रां स्वां च प्रदर्शयेत्।
यथाशक्ति जपं कुर्याच्छतमष्टाधिकं तु वा ॥ 409 ॥
विश्वास-प्रस्तुतिः - 410
तन्निवेद्य विभोः पश्चाद्वाक्कर्ममनसान्वितम्।
“पुण्डरीकाक्ष! विश्वात्मन्! मन्त्रमूर्ते! जनार्दन! ॥ 410 ॥
मूलम् - 410
तन्निवेद्य विभोः पश्चाद्वाक्कर्ममनसान्वितम्।
“पुण्डरीकाक्ष! विश्वात्मन्! मन्त्रमूर्ते! जनार्दन! ॥ 410 ॥
विश्वास-प्रस्तुतिः - 411
गृहाणेदं जपं नाथ! मम दीनस्य शाश्वत!"।
इत्युक्त्वार्घ्योदकं पश्चात् पुष्पं दक्षिणपाणिगम् ॥ 411 ॥
मूलम् - 411
गृहाणेदं जपं नाथ! मम दीनस्य शाश्वत!"।
इत्युक्त्वार्घ्योदकं पश्चात् पुष्पं दक्षिणपाणिगम् ॥ 411 ॥
विश्वास-प्रस्तुतिः - 412
अग्रतो निक्षिंपेद्विष्णोर्मूलमन्त्रेण नारद!।
भावयेच्च ततस्सम्यक्स्फुरन्तीं तारकावलिम् ॥ 412 ॥
मूलम् - 412
अग्रतो निक्षिंपेद्विष्णोर्मूलमन्त्रेण नारद!।
भावयेच्च ततस्सम्यक्स्फुरन्तीं तारकावलिम् ॥ 412 ॥
विश्वास-प्रस्तुतिः - 413
प्रविष्टां भगवद्वक्त्रे वक्त्रात्तां हृद्गतां पुनः।
हृदयाद्द्विजशार्दूल! संहाराख्यक्रमेण तु ॥ 413 ॥
मूलम् - 413
प्रविष्टां भगवद्वक्त्रे वक्त्रात्तां हृद्गतां पुनः।
हृदयाद्द्विजशार्दूल! संहाराख्यक्रमेण तु ॥ 413 ॥
विश्वास-प्रस्तुतिः - 414
पूर्ववद्ब्रह्मरन्ध्रेण परेण सह योजयेत्।
एकैकं हृदयादीनां सर्वेषां विहितं त्वथ ॥ 414 ॥
मूलम् - 414
पूर्ववद्ब्रह्मरन्ध्रेण परेण सह योजयेत्।
एकैकं हृदयादीनां सर्वेषां विहितं त्वथ ॥ 414 ॥
विश्वास-प्रस्तुतिः - 415
क्रियाङ्गत्वान्न दोषोऽस्ति अन्यथा तज्ज्पं विना।
धूपं दत्वा प्रणम्याथ स्तु(श्रु)त्वा मन्त्रेश्वरं ततः ॥ 415 ॥
मूलम् - 415
क्रियाङ्गत्वान्न दोषोऽस्ति अन्यथा तज्ज्पं विना।
धूपं दत्वा प्रणम्याथ स्तु(श्रु)त्वा मन्त्रेश्वरं ततः ॥ 415 ॥
विश्वास-प्रस्तुतिः - 416
द्विधा प्रदक्षिणं कुर्यात् प्रणामं च तथाविधम्।
नैकत्रिपञ्चसप्ताख्यगणनाविषमं च यत् ॥ 416 ॥
मूलम् - 416
द्विधा प्रदक्षिणं कुर्यात् प्रणामं च तथाविधम्।
नैकत्रिपञ्चसप्ताख्यगणनाविषमं च यत् ॥ 416 ॥
विश्वास-प्रस्तुतिः - 417
यतः समो हि भगवान् देवः सर्वस्य वै हरिः।
संपूज्य गन्धधूपैश्च ततस्तु भगवन्मयान् ॥ 417 ॥
मूलम् - 417
यतः समो हि भगवान् देवः सर्वस्य वै हरिः।
संपूज्य गन्धधूपैश्च ततस्तु भगवन्मयान् ॥ 417 ॥
विश्वास-प्रस्तुतिः - 418
यथाक्रमं समभ्यर्च्य नैवेद्यं प्रतिपाद्य च।
तेषां मात्रावसानं च आसनाद्यं निवेदयेत् ॥ 418 ॥
मूलम् - 418
यथाक्रमं समभ्यर्च्य नैवेद्यं प्रतिपाद्य च।
तेषां मात्रावसानं च आसनाद्यं निवेदयेत् ॥ 418 ॥
विश्वास-प्रस्तुतिः - 419
अस्मिन् कालेऽर्हणाद्यं तु ताम्बूलान्तं समर्पयेत्।
शय्यासनं ततो दद्यादग्नौ सन्तर्पयेत्ततः ॥ 419 ॥
मूलम् - 419