००५ मानसयागः

॥ श्रीः ॥
पञ्चमोऽध्यायः

विश्वास-प्रस्तुतिः - 1

कृत्वैवं तु ततः पश्चान्मानसं यागमारभेत्।
पद्मासनादिकं बध्वा नाभौ ब्रह्माञ्चलिं दृढम् ॥ 1 ॥

मूलम् - 1

कृत्वैवं तु ततः पश्चान्मानसं यागमारभेत्।
पद्मासनादिकं बध्वा नाभौ ब्रह्माञ्चलिं दृढम् ॥ 1 ॥

विश्वास-प्रस्तुतिः - 2

मनस्युपरतं कुर्यादक्षग्रामं बहिः स्थितम्।
चित्तं बुद्धौ विनिक्षिप्य तां बुद्धिं ज्ञानगोचरे ॥ 2 ॥

मूलम् - 2

विश्वास-प्रस्तुतिः - 3

ज्ञानभावनया कर्म कुर्याद्वै पारमार्थिकम्।
चतुश्चक्रे नवद्वारे देहे देवगृहे पुरे ॥ 3 ॥

मूलम् - 3

ज्ञानभावनया कर्म कुर्याद्वै पारमार्थिकम्।
चतुश्चक्रे नवद्वारे देहे देवगृहे पुरे ॥ 3 ॥

विश्वास-प्रस्तुतिः - 4

कण्ठकूपधरारूढं हृत्पद्मं यदधोमुखम्।
तत्कर्णिकावनेर्मध्यदे(ह)शमाश्रित्य भावयेत् ॥ 4 ॥

मूलम् - 4

कण्ठकूपधरारूढं हृत्पद्मं यदधोमुखम्।
तत्कर्णिकावनेर्मध्यदे(ह)शमाश्रित्य भावयेत् ॥ 4 ॥

विश्वास-प्रस्तुतिः - 5

नाभिमेढ्रान्तरे ध्यायेच्छक्तिं चाधाररूपिणीम्।
कालाग्निं च तदुर्ध्वे तु अनन्तं तस्य चोपरि ॥ 5 ॥

मूलम् - 5

विश्वास-प्रस्तुतिः - 6

तदूर्ध्वे वसुधां देवीं चतुर्भिः पूरितं(तां) स्मरेत्।
कन्द(ात्)नाभ्यवसानं च चतुर्धा भाजितैः पदैः ॥ 6 ॥

मूलम् - 6

विश्वास-प्रस्तुतिः - 7

नाभौ क्षीरार्णवं ध्यात्वा ततः पद्मं समुत्थितम्।
सहस्रदलसंयुक्तं सहस्रकिरणावृतम् ॥ 7 ॥

मूलम् - 7

नाभौ क्षीरार्णवं ध्यात्वा ततः पद्मं समुत्थितम्।
सहस्रदलसंयुक्तं सहस्रकिरणावृतम् ॥ 7 ॥

विश्वास-प्रस्तुतिः - 8

सहस्ररश्मिसंकाशं तत्पृष्ठे चासनं न्यसेत्।
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च चतुर्थकम् ॥ 8 ॥

मूलम् - 8

विश्वास-प्रस्तुतिः - 9

अवतार्य स्वमन्त्रेण आग्नोयाद्ये चतुष्टये।
चतुष्कमेतद्विन्यस्य यावदीशानगोचरम् ॥ 9 ॥

मूलम् - 9

अवतार्य स्वमन्त्रेण आग्नोयाद्ये चतुष्टये।
चतुष्कमेतद्विन्यस्य यावदीशानगोचरम् ॥ 9 ॥

विश्वास-प्रस्तुतिः - 10

तत्पूर्वदिग्विभागादि यावदुत्तरगोचरम्।
न्यस्याधर्मं तथाऽज्ञानमवैराग्यमनैश्वरम् ॥ 10 ॥

मूलम् - 10

तत्पूर्वदिग्विभागादि यावदुत्तरगोचरम्।
न्यस्याधर्मं तथाऽज्ञानमवैराग्यमनैश्वरम् ॥ 10 ॥

विश्वास-प्रस्तुतिः - 11

पुरुषाकृतयस्त्वेते बन्धूककुसुमोज्ज्वलाः।
प्रागीशानदिगन्ते तु प्रागाग्नेयदिगन्तरे ॥ 11 ॥

मूलम् - 11

पुरुषाकृतयस्त्वेते बन्धूककुसुमोज्ज्वलाः।
प्रागीशानदिगन्ते तु प्रागाग्नेयदिगन्तरे ॥ 11 ॥

विश्वास-प्रस्तुतिः - 12

यातुवारुणमध्ये तु वायव्यवरुणान्तरे।
ऋग्वेदाद्यं चतुष्कं तु कृताद्यं युगसङ्‌घकम् ॥ 12 ॥

मूलम् - 12

यातुवारुणमध्ये तु वायव्यवरुणान्तरे।
ऋग्वेदाद्यं चतुष्कं तु कृताद्यं युगसङ्‌घकम् ॥ 12 ॥

विश्वास-प्रस्तुतिः - 13

ईशानसोमदिङ्‌मध्ये अन्तकाग्निदिगन्तरे।
याम्यराक्षसमध्ये तु सोमसामीरणान्तरे ॥ 13 ॥

मूलम् - 13

ईशानसोमदिङ्‌मध्ये अन्तकाग्निदिगन्तरे।
याम्यराक्षसमध्ये तु सोमसामीरणान्तरे ॥ 13 ॥

विश्वास-प्रस्तुतिः - 14

तन्मूर्ध्नि कालचक्रं तु तन्मध्येऽव्यक्तपङ्कजम्।
वायव्योद्भूतनालं तु विकाराधारसंस्थितम् ॥ 14 ॥

मूलम् - 14

तन्मूर्ध्नि कालचक्रं तु तन्मध्येऽव्यक्तपङ्कजम्।
वायव्योद्भूतनालं तु विकाराधारसंस्थितम् ॥ 14 ॥

विश्वास-प्रस्तुतिः - 15

भूतान्याधारशक्तौ तु तन्मात्राः कालपावके।
वागादिकं तथैवाक्षमनन्तं व्याप्त संस्थितम् ॥ 15 ॥

मूलम् - 15

भूतान्याधारशक्तौ तु तन्मात्राः कालपावके।
वागादिकं तथैवाक्षमनन्तं व्याप्त संस्थितम् ॥ 15 ॥

श्रोत्रादिकं धरण्यां च मनः क्षीरार्णवे द्विज! अनन्तदलपद्मे तु अहङ्कारः समाश्रितः ॥ 16 ॥
विश्वास-प्रस्तुतिः - 17

द्विरष्टकं च धर्माद्यमधिष्टाय च धी(:)स्थिता।
तदूर्ध्वपझे प्रकृतिर्गुणसाम्यविभागिनी ॥ 17 ॥

मूलम् - 17

द्विरष्टकं च धर्माद्यमधिष्टाय च धी(:)स्थिता।
तदूर्ध्वपझे प्रकृतिर्गुणसाम्यविभागिनी ॥ 17 ॥

विश्वास-प्रस्तुतिः - 18

धामत्रयाश्रितः कालो भावाख्ये पुरुषस्थितिः।
आधेयमब्जसंभूत! स्वे विकारे स्वरूपिणि ॥ 18 ॥

मूलम् - 18

धामत्रयाश्रितः कालो भावाख्ये पुरुषस्थितिः।
आधेयमब्जसंभूत! स्वे विकारे स्वरूपिणि ॥ 18 ॥

विश्वास-प्रस्तुतिः - 19

स्वयमाद्यन्तयो रुद्धं सूत्रे (त्रं) मणिगणो (णे) यथा।
प्रागाधारात्मना चैव विश्वाकारतया ततः ॥ 19 ॥

मूलम् - 19

स्वयमाद्यन्तयो रुद्धं सूत्रे (त्रं) मणिगणो (णे) यथा।
प्रागाधारात्मना चैव विश्वाकारतया ततः ॥ 19 ॥

विश्वास-प्रस्तुतिः - 20

नानामन्त्रात्मना ह्यूर्ध्वे निस्तरङ्गो हि तत्वतः।
अभ्यस्तवासनानां च कर्मिणां कर्मशान्तये ॥ 20 ॥

मूलम् - 20

नानामन्त्रात्मना ह्यूर्ध्वे निस्तरङ्गो हि तत्वतः।
अभ्यस्तवासनानां च कर्मिणां कर्मशान्तये ॥ 20 ॥

विश्वास-प्रस्तुतिः - 21

तदिच्छाविष्कृतानां च भोगकैवल्यसिद्धये।
अनाद्यविद्याविद्धानामियत्तैषा(त्तेषां) ह्यवस्तुनि ॥ 21 ॥

मूलम् - 21

तदिच्छाविष्कृतानां च भोगकैवल्यसिद्धये।
अनाद्यविद्याविद्धानामियत्तैषा(त्तेषां) ह्यवस्तुनि ॥ 21 ॥

विश्वास-प्रस्तुतिः - 22

नातोर्ध्वे तत्वदृष्टीनां तत्वतो वाऽस्ति पौष्कर!।
न तिर्यक्‌पृष्ठपूर्वे च न हेयादिविकल्पना ॥ 22 ॥

मूलम् - 22

नातोर्ध्वे तत्वदृष्टीनां तत्वतो वाऽस्ति पौष्कर!।
न तिर्यक्‌पृष्ठपूर्वे च न हेयादिविकल्पना ॥ 22 ॥

विश्वास-प्रस्तुतिः - 23

या विशेषविकल्पैस्तु प्रत्यस्तमितलक्षणा।
शक्तिर्भगवतो विष्णोः साधाराख्याऽभिधीयते ॥ 23 ॥

मूलम् - 23

या विशेषविकल्पैस्तु प्रत्यस्तमितलक्षणा।
शक्तिर्भगवतो विष्णोः साधाराख्याऽभिधीयते ॥ 23 ॥

विश्वास-प्रस्तुतिः - 24

प्राग्वदासनसामर्थ्यं बीजमादाय चेच्छया।
अव्यक्तव्यक्तरूपा च यथादित्यकदम्बकम् ॥ 24 ॥

मूलम् - 24

प्राग्वदासनसामर्थ्यं बीजमादाय चेच्छया।
अव्यक्तव्यक्तरूपा च यथादित्यकदम्बकम् ॥ 24 ॥

विश्वास-प्रस्तुतिः - 25

भाविप्रसरधर्मित्वाद्विश्वबीजचयस्य च।
सांप्रतं संहृताङ्गस्य कूर्मसंज्ञा विधीयते ॥ 25 ॥

मूलम् - 25

भाविप्रसरधर्मित्वाद्विश्वबीजचयस्य च।
सांप्रतं संहृताङ्गस्य कूर्मसंज्ञा विधीयते ॥ 25 ॥

विश्वास-प्रस्तुतिः - 26

यो विश्वं निर्दहत्यन्ते कालवैश्वानरात्मना।
दैवतं यस्य भगवान् कूर्मात्मा लोकपूजितः ॥ 26 ॥

मूलम् - 26

यो विश्वं निर्दहत्यन्ते कालवैश्वानरात्मना।
दैवतं यस्य भगवान् कूर्मात्मा लोकपूजितः ॥ 26 ॥

विश्वास-प्रस्तुतिः - 27

अजहद्भगवच्छक्ति(:)सामर्थ्यं पुनरेव तत्।
अनन्तं सविकल्पानां यद्विश्वाङ्‌कुरमव्ययम् ॥ 27 ॥

मूलम् - 27

अजहद्भगवच्छक्ति(:)सामर्थ्यं पुनरेव तत्।
अनन्तं सविकल्पानां यद्विश्वाङ्‌कुरमव्ययम् ॥ 27 ॥

विश्वास-प्रस्तुतिः - 28

नयत्यूर्ध्वं यथा कूर्मो ग्रीवां स्वात्मनि संवृ(हृ)ताम्।
शेषाक्यफणिदैवत्यं तदनन्तं हि गीयते ॥ 28 ॥

मूलम् - 28

नयत्यूर्ध्वं यथा कूर्मो ग्रीवां स्वात्मनि संवृ(हृ)ताम्।
शेषाक्यफणिदैवत्यं तदनन्तं हि गीयते ॥ 28 ॥

विश्वास-प्रस्तुतिः - 29

आश्रयं बीजभूतानां चतुर्णां यन्महामते!।
तद्गन्धविटपस्तस्माद्व्यक्तिमब्येति पूर्ववत् ॥ 29 ॥

मूलम् - 29

आश्रयं बीजभूतानां चतुर्णां यन्महामते!।
तद्गन्धविटपस्तस्माद्व्यक्तिमब्येति पूर्ववत् ॥ 29 ॥

विश्वास-प्रस्तुतिः - 30

भूरात्मा भगवान् यस्मिन्नभिमानाख्यदेवता।
फलं रसात्मकं तस्माद्व्यज्यत्यमृतलक्षणम् ॥ 30 ॥

मूलम् - 30

भूरात्मा भगवान् यस्मिन्नभिमानाख्यदेवता।
फलं रसात्मकं तस्माद्व्यज्यत्यमृतलक्षणम् ॥ 30 ॥

विश्वास-प्रस्तुतिः - 31

यस्याभिमानिकं रूपं क्षीरार्णवमनश्वरम्।
तस्मादनन्तरत्नोत्थकान्तिं कमलमब्जज! ॥ 31 ॥

मूलम् - 31

यस्याभिमानिकं रूपं क्षीरार्णवमनश्वरम्।
तस्मादनन्तरत्नोत्थकान्तिं कमलमब्जज! ॥ 31 ॥

विश्वास-प्रस्तुतिः - 32

व्यक्तं यस्य च वै शक्तिर्नित्या दहनलक्षणा।
तदनन्तदलं विद्धि दिव्यं विकसितं सितम् ॥ 32 ॥

मूलम् - 32

व्यक्तं यस्य च वै शक्तिर्नित्या दहनलक्षणा।
तदनन्तदलं विद्धि दिव्यं विकसितं सितम् ॥ 32 ॥

विश्वास-प्रस्तुतिः - 33

परपूर्वेण भेदेन एकद्वित्रिगुणात्मना।
स्थिता बुद्धिर्विकारैस्तु सह चाष्टाभिरब्जज! ॥ 33 ॥

मूलम् - 33

परपूर्वेण भेदेन एकद्वित्रिगुणात्मना।
स्थिता बुद्धिर्विकारैस्तु सह चाष्टाभिरब्जज! ॥ 33 ॥

विश्वास-प्रस्तुतिः - 34

यत्राधिदेवतात्वेन वाग्विकारा ऋगादयः।
तथा कालविकारा ये चत्वारः कृतपूर्वकाः ॥ 34 ॥

मूलम् - 34

यत्राधिदेवतात्वेन वाग्विकारा ऋगादयः।
तथा कालविकारा ये चत्वारः कृतपूर्वकाः ॥ 34 ॥

विश्वास-प्रस्तुतिः - 35

तत्र रूपं हि सर्वेषां सत्तामात्रं परं स्मृतम्।
व्यक्तिकारणधानाभिः साङ्गाभिरपरं तु तत् ॥ 35 ॥

मूलम् - 35

तत्र रूपं हि सर्वेषां सत्तामात्रं परं स्मृतम्।
व्यक्तिकारणधानाभिः साङ्गाभिरपरं तु तत् ॥ 35 ॥

विश्वास-प्रस्तुतिः - 36

तृतीयमभिमानाक्यदेवतादेहलक्षणम्।
तस्माद्वै वायुदैवत्यं स्पर्शतन्मात्रमेव च ॥ 36 ॥

मूलम् - 36

तृतीयमभिमानाक्यदेवतादेहलक्षणम्।
तस्माद्वै वायुदैवत्यं स्पर्शतन्मात्रमेव च ॥ 36 ॥

विश्वास-प्रस्तुतिः - 37

जाता यस्य स्फुटा व्यक्तिर्नानाचक्राङ्गलक्षणा।
तस्मादाकाशदैवत्यं शब्दमुत्पन्नमब्जज! ॥ 37 ॥

मूलम् - 37

जाता यस्य स्फुटा व्यक्तिर्नानाचक्राङ्गलक्षणा।
तस्मादाकाशदैवत्यं शब्दमुत्पन्नमब्जज! ॥ 37 ॥

विश्वास-प्रस्तुतिः - 38

सर्वाङ्गसंहृता चक्रव्यक्तिर्यस्यामलं वपुः।
गीयते व्योमवृत्तं तत् प्रधानकमलालयम् ॥ 38 ॥

मूलम् - 38

सर्वाङ्गसंहृता चक्रव्यक्तिर्यस्यामलं वपुः।
गीयते व्योमवृत्तं तत् प्रधानकमलालयम् ॥ 38 ॥

विश्वास-प्रस्तुतिः - 39

यस्यान्तस्थानि भूतानि यस्मिन् सर्वं प्रतिष्ठितम्।
यस्मादुन्मेषपूर्वं हि महत्प्रलयपश्चिमम् ॥ 39 ॥

मूलम् - 39

यस्यान्तस्थानि भूतानि यस्मिन् सर्वं प्रतिष्ठितम्।
यस्मादुन्मेषपूर्वं हि महत्प्रलयपश्चिमम् ॥ 39 ॥

विश्वास-प्रस्तुतिः - 40

प्रवर्तते कालतानं भेदकृत् सर्ववस्तुषु।
वाङ्भात्रेणैव भिन्नस्य अभिन्नस्यैव तत्वतः ॥ 40 ॥

मूलम् - 40

प्रवर्तते कालतानं भेदकृत् सर्ववस्तुषु।
वाङ्भात्रेणैव भिन्नस्य अभिन्नस्यैव तत्वतः ॥ 40 ॥

विश्वास-प्रस्तुतिः - 41

ज्ञानादिगुणबृन्दस्य ब्रह्नणश्चतुरात्मनः।
नित्योदितत्वान्नित्यत्वाद्व्यापकत्वात् परं पदम् ॥ 41 ॥

मूलम् - 41

ज्ञानादिगुणबृन्दस्य ब्रह्नणश्चतुरात्मनः।
नित्योदितत्वान्नित्यत्वाद्व्यापकत्वात् परं पदम् ॥ 41 ॥

विश्वास-प्रस्तुतिः - 42

पूर्णत्वात् षड्‌गुणत्वाच्च न कालो लब्धगोचरः।
शब्दादादित्यदैवत्यमहङ्कारं महामते! ॥ 42 ॥

मूलम् - 42

पूर्णत्वात् षड्‌गुणत्वाच्च न कालो लब्धगोचरः।
शब्दादादित्यदैवत्यमहङ्कारं महामते! ॥ 42 ॥

विश्वास-प्रस्तुतिः - 43

मनश्च चन्द्रदैवत्यमहङ्कारादभूत्ततः।
बुद्धिः प्रकाशदैवत्या व्यक्तानन्दात्मनो विभोः ॥ 43 ॥

मूलम् - 43

मनश्च चन्द्रदैवत्यमहङ्कारादभूत्ततः।
बुद्धिः प्रकाशदैवत्या व्यक्तानन्दात्मनो विभोः ॥ 43 ॥

विश्वास-प्रस्तुतिः - 44

दलादिकर्णिकान्तायाः सूर्यपूर्वादिकल्पना।
प्रधानकमलस्यैषा मूर्तिर्गुणमयी स्मृता ॥ 44 ॥

मूलम् - 44

दलादिकर्णिकान्तायाः सूर्यपूर्वादिकल्पना।
प्रधानकमलस्यैषा मूर्तिर्गुणमयी स्मृता ॥ 44 ॥

विश्वास-प्रस्तुतिः - 45

बुद्ध्यादीनां च तत्वानां कारणं यदनश्वरम्।
अव्यक्ताख्यं महाबुद्धे! ह्यभिन्नगुणमूर्तिभृत् ॥ 45 ॥

मूलम् - 45

बुद्ध्यादीनां च तत्वानां कारणं यदनश्वरम्।
अव्यक्ताख्यं महाबुद्धे! ह्यभिन्नगुणमूर्तिभृत् ॥ 45 ॥

विश्वास-प्रस्तुतिः - 46

स्वगुणानधरीकृत्य स्वप्रतिष्ठं प्रवर्तते।
अद्यात्मलक्षणावृत्तिः सर्वाः संहृत्य वै हृदि ॥ 46 ॥

मूलम् - 46

स्वगुणानधरीकृत्य स्वप्रतिष्ठं प्रवर्तते।
अद्यात्मलक्षणावृत्तिः सर्वाः संहृत्य वै हृदि ॥ 46 ॥

विश्वास-प्रस्तुतिः - 47

उत्पद्यन्ते हि चैतस्माद्भावाः सर्वे द्विजोत्तम!।
विपद्यन्तेऽत्र वै भूयस्तस्मात्पझं परं त्विदम् ॥ 47 ॥

मूलम् - 47

विश्वास-प्रस्तुतिः - 48

चिदादित्यकलाजालं ग्राह्यग्राहकलक्षणम्।
संक्रान्तं यत्र स्वं धाम स्वसामर्थ्यं च वेत्यपि ॥ 48 ॥

मूलम् - 48

चिदादित्यकलाजालं ग्राह्यग्राहकलक्षणम्।
संक्रान्तं यत्र स्वं धाम स्वसामर्थ्यं च वेत्यपि ॥ 48 ॥

विश्वास-प्रस्तुतिः - 49

विमलाख्या विमलता ज्ञानशक्ति(ज्ञ)र्ज्ञताब्जज!।
प्रभ्व्याख्या प्रभुता चैव सत्यसंज्ञा च सत्यता ॥ 49 ॥

मूलम् - 49

विमलाख्या विमलता ज्ञानशक्ति(ज्ञ)र्ज्ञताब्जज!।
प्रभ्व्याख्या प्रभुता चैव सत्यसंज्ञा च सत्यता ॥ 49 ॥

विश्वास-प्रस्तुतिः - 50

नित्याख्या नित्यता चैव प्रकाशाख्या प्रकाशता।
अनन्तता ह्यनन्ताख्या कला कमलसंभव! ॥ 50 ॥

मूलम् - 50

नित्याख्या नित्यता चैव प्रकाशाख्या प्रकाशता।
अनन्तता ह्यनन्ताख्या कला कमलसंभव! ॥ 50 ॥

विश्वास-प्रस्तुतिः - 51

सहानुग्रहशक्त्या वै ज्ञेयाऽनुग्रहता परा।
द्विचतुष्कं कलानां यत् स्वप्रतिष्ठं हि वर्तते ॥ 51 ॥

मूलम् - 51

सहानुग्रहशक्त्या वै ज्ञेयाऽनुग्रहता परा।
द्विचतुष्कं कलानां यत् स्वप्रतिष्ठं हि वर्तते ॥ 51 ॥

विश्वास-प्रस्तुतिः - 52

संवर्तते परं चैव पुनरेव निवर्तते।
परापरविभागेन कलास्त्वेताश्चिदात्मनः ॥ 52 ॥

मूलम् - 52

संवर्तते परं चैव पुनरेव निवर्तते।
परापरविभागेन कलास्त्वेताश्चिदात्मनः ॥ 52 ॥

विश्वास-प्रस्तुतिः - 53

प्रोक्ताः कमलसंभूत! यासामानन्त्यमुत्तमम्।
यथाक्रमेण सर्वेषां ध्यानमाकर्णयामलम् ॥ 53 ॥

मूलम् - 53

प्रोक्ताः कमलसंभूत! यासामानन्त्यमुत्तमम्।
यथाक्रमेण सर्वेषां ध्यानमाकर्णयामलम् ॥ 53 ॥

विश्वास-प्रस्तुतिः - 54

शानत्मुज्झितचेष्टं च सितमन्तर्मुखं स्थितम्।
आधेयोल्लिङ्गिताकारमाधाराख्यं स्मरेत् प्रभुम् ॥ 54 ॥

मूलम् - 54

शानत्मुज्झितचेष्टं च सितमन्तर्मुखं स्थितम्।
आधेयोल्लिङ्गिताकारमाधाराख्यं स्मरेत् प्रभुम् ॥ 54 ॥

विश्वास-प्रस्तुतिः - 55

कूर्ममुद्रान्वितं कूर्मवक्त्रं निष्ठप्तरुक्मभम्।
शह्खपझधरं कूर्मं स्वस्तिकेन स्थितं स्मरेत् ॥ 55 ॥

मूलम् - 55

कूर्ममुद्रान्वितं कूर्मवक्त्रं निष्ठप्तरुक्मभम्।
शह्खपझधरं कूर्मं स्वस्तिकेन स्थितं स्मरेत् ॥ 55 ॥

विश्वास-प्रस्तुतिः - 56

मुञ्चन्तमनिशं तेजो देहाद्भीषणमुत्कटम्।
तिर्यगूर्ध्वं च धातारं ज्वालाजालमिवोच्च्वलम् ॥ 56 ॥

मूलम् - 56

मुञ्चन्तमनिशं तेजो देहाद्भीषणमुत्कटम्।
तिर्यगूर्ध्वं च धातारं ज्वालाजालमिवोच्च्वलम् ॥ 56 ॥

विश्वास-प्रस्तुतिः - 57

अनन्तशशिसंकाशमनन्तमथ संस्मरेत्।
सहस्रफणमालाढ्यं सहस्रभुजभूषितम् ॥ 57 ॥

मूलम् - 57

अनन्तशशिसंकाशमनन्तमथ संस्मरेत्।
सहस्रफणमालाढ्यं सहस्रभुजभूषितम् ॥ 57 ॥

विश्वास-प्रस्तुतिः - 58

स्वपाणिसंपुटेनैव शोभयन् स्वान्तभूस्थलम्।
सितारविन्दशङ्खाक्षसूत्रचक्रकरान्वितम् ॥ 58 ॥

मूलम् - 58

स्वपाणिसंपुटेनैव शोभयन् स्वान्तभूस्थलम्।
सितारविन्दशङ्खाक्षसूत्रचक्रकरान्वितम् ॥ 58 ॥

विश्वास-प्रस्तुतिः - 59

पतनाशङ्किबुद्धेर्वै वित्रस्तमनसस्तु च।
मा भैरित्यभयं यच्छन्नाब्रह्नभवनस्य च ॥ 59 ॥

मूलम् - 59

पतनाशङ्किबुद्धेर्वै वित्रस्तमनसस्तु च।
मा भैरित्यभयं यच्छन्नाब्रह्नभवनस्य च ॥ 59 ॥

विश्वास-प्रस्तुतिः - 60

निःशेषरत्नहेमाङ्गां प्राबृट्‌छ्रियमिवोच्च्वलाम्।
पझासनेनोपविष्टां ध्यायेत् पझाञ्जलिं धराम् ॥ 60 ॥

मूलम् - 60

निःशेषरत्नहेमाङ्गां प्राबृट्‌छ्रियमिवोच्च्वलाम्।
पझासनेनोपविष्टां ध्यायेत् पझाञ्जलिं धराम् ॥ 60 ॥

विश्वास-प्रस्तुतिः - 61

फुल्लकुन्दावदातं च सितस्निग्धजटाधरम्।
ध्मायमानं सितं शङ्खं मुक्तादामैरलङ्‌कृतम् ॥ 61 ॥

मूलम् - 61

फुल्लकुन्दावदातं च सितस्निग्धजटाधरम्।
ध्मायमानं सितं शङ्खं मुक्तादामैरलङ्‌कृतम् ॥ 61 ॥

विश्वास-प्रस्तुतिः - 62

विस्तीर्णसर्वावयवं विक्षिप्तोरुद्वयं स्थितम्।
विक्षिप्तजानुपादं च संस्मर्तव्यं पयोनिधिम् ॥ 62 ॥

मूलम् - 62

विस्तीर्णसर्वावयवं विक्षिप्तोरुद्वयं स्थितम्।
विक्षिप्तजानुपादं च संस्मर्तव्यं पयोनिधिम् ॥ 62 ॥

विश्वास-प्रस्तुतिः - 63

सुपव्काम्रफलश्यामपाणिपादतलोज्ज्वलम्।
रक्ताक्षं च तथा विप्रकीर्णकेशं स्मिताननम् ॥ 63 ॥

मूलम् - 63

सुपव्काम्रफलश्यामपाणिपादतलोज्ज्वलम्।
रक्ताक्षं च तथा विप्रकीर्णकेशं स्मिताननम् ॥ 63 ॥

विश्वास-प्रस्तुतिः - 64

पझासनेनोपविष्टमलिमालाशताकुलम्।
पझमुद्रान्वितं पझं सुदीर्घचरणं स्मरेत् ॥ 64 ॥

मूलम् - 64

पझासनेनोपविष्टमलिमालाशताकुलम्।
पझमुद्रान्वितं पझं सुदीर्घचरणं स्मरेत् ॥ 64 ॥

विश्वास-प्रस्तुतिः - 65

तुहिनाच्छोपलस्वच्छमुक्ताफलशशिप्रभाः।
मृगेन्द्रस्कन्धवदना धर्मज्ञानादयश्चतुः ॥ 65 ॥

मूलम् - 65

तुहिनाच्छोपलस्वच्छमुक्ताफलशशिप्रभाः।
मृगेन्द्रस्कन्धवदना धर्मज्ञानादयश्चतुः ॥ 65 ॥

विश्वास-प्रस्तुतिः - 66

पझरागप्रवालाग्निसद्दाडिमफलोज्ज्वलाः।
अन्तर्दयोपरक्ताश्च राजराजेश्वरोपमाः ॥ 66 ॥

मूलम् - 66

पझरागप्रवालाग्निसद्दाडिमफलोज्ज्वलाः।
अन्तर्दयोपरक्ताश्च राजराजेश्वरोपमाः ॥ 66 ॥

विश्वास-प्रस्तुतिः - 67

द्विरष्टवर्षवद्विद्धि चत्वारो ऽधर्मपूर्वकाः।
हेमचम्पकखद्योतहरितालदलोज्ज्वलाः ॥ 67 ॥

मूलम् - 67

द्विरष्टवर्षवद्विद्धि चत्वारो ऽधर्मपूर्वकाः।
हेमचम्पकखद्योतहरितालदलोज्ज्वलाः ॥ 67 ॥

विश्वास-प्रस्तुतिः - 68

वाजिवक्त्राः स्मृता वेदाः संपूर्णनरलक्षणाः।
एवं वृषेन्द्रवदना युगा ब्रह्नन्! कृतादयः ॥ 68 ॥

मूलम् - 68

वाजिवक्त्राः स्मृता वेदाः संपूर्णनरलक्षणाः।
एवं वृषेन्द्रवदना युगा ब्रह्नन्! कृतादयः ॥ 68 ॥

विश्वास-प्रस्तुतिः - 69

सुपव्काम्रातसीपुष्पनीलाब्जशुकसन्निभाः।
सर्वे सद्वस्त्रसत्पुष्पसदलङ्करणान्विताः ॥ 69 ॥

मूलम् - 69

सुपव्काम्रातसीपुष्पनीलाब्जशुकसन्निभाः।
सर्वे सद्वस्त्रसत्पुष्पसदलङ्करणान्विताः ॥ 69 ॥

विश्वास-प्रस्तुतिः - 70

शङ्खपझधराः सर्वे वराभयकरास्तु वै।
आधेयचक्रविन्यस्तमस्तका स्वात्मसिद्धये ॥ 70 ॥

मूलम् - 70

शङ्खपझधराः सर्वे वराभयकरास्तु वै।
आधेयचक्रविन्यस्तमस्तका स्वात्मसिद्धये ॥ 70 ॥

विश्वास-प्रस्तुतिः - 71

समर्पितान्तःकरणाः परस्मिन् मन्त्रकारणे।
युगान्तार्काग्निसङ्काशस्वगोमण्डलमध्यगम् ॥ 71 ॥

मूलम् - 71

समर्पितान्तःकरणाः परस्मिन् मन्त्रकारणे।
युगान्तार्काग्निसङ्काशस्वगोमण्डलमध्यगम् ॥ 71 ॥

विश्वास-प्रस्तुतिः - 72

स्वमुद्रान्वितपाणिं च वल्गन्तं हेतिराट् स्मरेत्।
चिन्त्यमव्यक्तपझं च हिमहेमाग्निभास्वरम् ॥ 72 ॥

मूलम् - 72

स्वमुद्रान्वितपाणिं च वल्गन्तं हेतिराट् स्मरेत्।
चिन्त्यमव्यक्तपझं च हिमहेमाग्निभास्वरम् ॥ 72 ॥

विश्वास-प्रस्तुतिः - 73

शान्तमष्टभुजं सौम्यं संस्थितं स्वस्तिकेन तु।
स्फटिकोपलकान्तिं च चिद्धनं ध्रुवमव्ययम् ॥ 73 ॥

मूलम् - 73

शान्तमष्टभुजं सौम्यं संस्थितं स्वस्तिकेन तु।
स्फटिकोपलकान्तिं च चिद्धनं ध्रुवमव्ययम् ॥ 73 ॥

विश्वास-प्रस्तुतिः - 74

सर्वशक्तिनिधिं ध्यायेदमूर्तं चित्प्रभाकरम्।
सर्वे स्वविभवान्तस्थास्तत्राधारात्मनो विभोः ॥ 74 ॥

मूलम् - 74

सर्वशक्तिनिधिं ध्यायेदमूर्तं चित्प्रभाकरम्।
सर्वे स्वविभवान्तस्थास्तत्राधारात्मनो विभोः ॥ 74 ॥

विश्वास-प्रस्तुतिः - 75

स्वसत्ताभासितं सत्वं गुणसत्वाद्विलक्षणम्।
विभवं विद्धि विप्रेन्द्र! ज्वालौघं कच्छपात्मनः ॥ 75 ॥

मूलम् - 75

स्वसत्ताभासितं सत्वं गुणसत्वाद्विलक्षणम्।
विभवं विद्धि विप्रेन्द्र! ज्वालौघं कच्छपात्मनः ॥ 75 ॥

विश्वास-प्रस्तुतिः - 76

स्वभोगं नागनाथस्य भूः क्षितेः काञ्चनी तथा।
आसारमामृतं दिव्यं वीच्योघैस्तु समन्वितम् ॥ 76 ॥

मूलम् - 76

स्वभोगं नागनाथस्य भूः क्षितेः काञ्चनी तथा।
आसारमामृतं दिव्यं वीच्योघैस्तु समन्वितम् ॥ 76 ॥

विश्वास-प्रस्तुतिः - 77

क्षीरोदकीयविभवं परिज्ञेयमनश्वरम्।
बीजकोशं सकिञ्जल्कं कमलस्य दलान्वितम् ॥ 77 ॥

मूलम् - 77

क्षीरोदकीयविभवं परिज्ञेयमनश्वरम्।
बीजकोशं सकिञ्जल्कं कमलस्य दलान्वितम् ॥ 77 ॥

विश्वास-प्रस्तुतिः - 78

धर्माद्यस्य चतुष्कस्य सद्विवेकं सुनिर्मलम्।
द्वि(क)द्विकस्या(त्व)धर्मादेरविद्याविभवं महत् ॥ 78 ॥

मूलम् - 78

धर्माद्यस्य चतुष्कस्य सद्विवेकं सुनिर्मलम्।
द्वि(क)द्विकस्या(त्व)धर्मादेरविद्याविभवं महत् ॥ 78 ॥

विश्वास-प्रस्तुतिः - 79

वाक्प्रपञ्चमहेयं यत् तदृगादिगणस्य च।
विभवं च कृतादीनां महत्कल्पान्तमात्रुटेः ॥ 79 ॥

मूलम् - 79

वाक्प्रपञ्चमहेयं यत् तदृगादिगणस्य च।
विभवं च कृतादीनां महत्कल्पान्तमात्रुटेः ॥ 79 ॥

विश्वास-प्रस्तुतिः - 80

चक्रस्य विभवं विद्धि भ्रमं मायाश्रयं हि यत्।
गौणीवृत्तिरमेया या विभवं प्राकृतं हि तम् ॥ 80 ॥

मूलम् - 80

चक्रस्य विभवं विद्धि भ्रमं मायाश्रयं हि यत्।
गौणीवृत्तिरमेया या विभवं प्राकृतं हि तम् ॥ 80 ॥

विश्वास-प्रस्तुतिः - 81

विमलादिकलाजालं पौरुषं विभवं स्मृतम्।
विभोर्मन्त्रात्मनस्चेदमशेषममरार्चितम् ॥ 81 ॥

मूलम् - 81

विमलादिकलाजालं पौरुषं विभवं स्मृतम्।
विभोर्मन्त्रात्मनस्चेदमशेषममरार्चितम् ॥ 81 ॥

विश्वास-प्रस्तुतिः - 82

आमहन्मन्त्रनाथेब्यो नानामन्त्रगणं हि यत्।
स्वशक्तिनिचयोपेतं तद्विष्णोः परमात्मनः ॥ 82 ॥

मूलम् - 82

आमहन्मन्त्रनाथेब्यो नानामन्त्रगणं हि यत्।
स्वशक्तिनिचयोपेतं तद्विष्णोः परमात्मनः ॥ 82 ॥

विश्वास-प्रस्तुतिः - 83

विभवं कमलोद्‌भूत! ज्ञात्वैवं संयजेत् सदा।
शब्दव्यक्तिस्तदूर्ध्वे तु स्थितार्केन्द्वग्निलक्षणा ॥ 83 ॥

मूलम् - 83

विभवं कमलोद्‌भूत! ज्ञात्वैवं संयजेत् सदा।
शब्दव्यक्तिस्तदूर्ध्वे तु स्थितार्केन्द्वग्निलक्षणा ॥ 83 ॥

विश्वास-प्रस्तुतिः - 84

त्रिदीप्तिभास्वरा नाडी त्वव्यक्तध्वनिविग्रहा।
व्यक्तचक्रत्रयस्योर्ध्वे वर्तते या महामते! ॥ 84 ॥

मूलम् - 84

त्रिदीप्तिभास्वरा नाडी त्वव्यक्तध्वनिविग्रहा।
व्यक्तचक्रत्रयस्योर्ध्वे वर्तते या महामते! ॥ 84 ॥

विश्वास-प्रस्तुतिः - 85

निःसृता ब्रह्नरन्ध्रेण गता सूर्यपथात् परम्।
वायुद्वारेण पातालं भित्वा याता स्वगोचरम् ॥ 85 ॥

मूलम् - 85

निःसृता ब्रह्नरन्ध्रेण गता सूर्यपथात् परम्।
वायुद्वारेण पातालं भित्वा याता स्वगोचरम् ॥ 85 ॥

विश्वास-प्रस्तुतिः - 86

सङ्कल्पविषयः सर्वस्तद्बद्धः प्रतितिष्ठति।
सूत्रे मणिगणो यद्वन्मध्यनाडी ह्यतः स्मृता ॥ 86 ॥

मूलम् - 86

सङ्कल्पविषयः सर्वस्तद्बद्धः प्रतितिष्ठति।
सूत्रे मणिगणो यद्वन्मध्यनाडी ह्यतः स्मृता ॥ 86 ॥

विश्वास-प्रस्तुतिः - 87

लक्ष्यस्थाने तु पूर्वोक्ते तस्यामभ्यन्तरे तु वै।
संपुटे शशिसूर्याख्ये निमेषोन्मेषलक्षणे ॥ 87 ॥

मूलम् - 87

लक्ष्यस्थाने तु पूर्वोक्ते तस्यामभ्यन्तरे तु वै।
संपुटे शशिसूर्याख्ये निमेषोन्मेषलक्षणे ॥ 87 ॥

विश्वास-प्रस्तुतिः - 88

तत्राब्जं चार्कमालम्ब्य परा वाग्भ्रमरी स्थिता।
या सर्वमन्त्रजननी शक्तिः शान्तात्मनो विभोः ॥ 88 ॥

मूलम् - 88

तत्राब्जं चार्कमालम्ब्य परा वाग्भ्रमरी स्थिता।
या सर्वमन्त्रजननी शक्तिः शान्तात्मनो विभोः ॥ 88 ॥

विश्वास-प्रस्तुतिः - 89

नदन्ती वर्णजं नादं शब्दव्रह्नेति यः स्मृतः।
अकारपूर्वो हान्तश्च धारा सन्तानरूपधृक् ॥ 89 ॥

मूलम् - 89

नदन्ती वर्णजं नादं शब्दव्रह्नेति यः स्मृतः।
अकारपूर्वो हान्तश्च धारा सन्तानरूपधृक् ॥ 89 ॥

विश्वास-प्रस्तुतिः - 90

नादावसानगगने देवोऽनन्तः सनातनः।
वरदाभयदेनैव शङ्कचक्राह्कितेन तु ॥ 90 ॥

मूलम् - 90

नादावसानगगने देवोऽनन्तः सनातनः।
वरदाभयदेनैव शङ्कचक्राह्कितेन तु ॥ 90 ॥

विश्वास-प्रस्तुतिः - 91

त्रैलोक्यधृतिदक्षेण युक्तः पाणिद्वयेन तु।
शान्तः संवित्स्वरूपस्तु भक्तानुग्रहकाम्यया ॥ 91 ॥

मूलम् - 91

त्रैलोक्यधृतिदक्षेण युक्तः पाणिद्वयेन तु।
शान्तः संवित्स्वरूपस्तु भक्तानुग्रहकाम्यया ॥ 91 ॥

विश्वास-प्रस्तुतिः - 92

अनौपम्येन वपुषा ह्यमूर्तो मूर्ततां गतः।
तस्मादावाहनं कुर्याद्यथा तदवधारय ॥ 92 ॥

मूलम् - 92

अनौपम्येन वपुषा ह्यमूर्तो मूर्ततां गतः।
तस्मादावाहनं कुर्याद्यथा तदवधारय ॥ 92 ॥

विश्वास-प्रस्तुतिः - 93

स्वशक्त्याधिष्ठितं कृत्वा स्वस्वभावस्वभावया।
ग्राह्यग्राहकरूपाया एवमव्यक्तपुष्करम् ॥ 93 ॥

मूलम् - 93

स्वशक्त्याधिष्ठितं कृत्वा स्वस्वभावस्वभावया।
ग्राह्यग्राहकरूपाया एवमव्यक्तपुष्करम् ॥ 93 ॥

विश्वास-प्रस्तुतिः - 94

समास्ते केवलं शुद्धमीषत्काललवं द्विज!।
सामान्यचिन्मयो भूत्वा सांप्रतं शक्तयः कलाः ॥ 94 ॥

मूलम् - 94

समास्ते केवलं शुद्धमीषत्काललवं द्विज!।
सामान्यचिन्मयो भूत्वा सांप्रतं शक्तयः कलाः ॥ 94 ॥

विश्वास-प्रस्तुतिः - 95

अस्मिता लक्षणं धर्मं स्वकं सम्यङ्‌निरस्य च।
मवर्तते तन्निरासात् आनन्दमतुलं द्विज! ॥ 95 ॥

मूलम् - 95

अस्मिता लक्षणं धर्मं स्वकं सम्यङ्‌निरस्य च।
मवर्तते तन्निरासात् आनन्दमतुलं द्विज! ॥ 95 ॥

विश्वास-प्रस्तुतिः - 96

स्वप्रकाशमनौपम्यं तमिच्छेन्मन्त्रमव्ययम्।
परिच्छेद्यां दिगाद्यैस्तु प्रकाशाकाशवर्तिनीम् ॥ 96 ॥

मूलम् - 96

स्वप्रकाशमनौपम्यं तमिच्छेन्मन्त्रमव्ययम्।
परिच्छेद्यां दिगाद्यैस्तु प्रकाशाकाशवर्तिनीम् ॥ 96 ॥

विश्वास-प्रस्तुतिः - 97

कृत्वाश्रित्य कलामूर्तिं समनन्तरमब्जज!।
विहायोमध्यदेशं च प्रकाशगहनात्ततः ॥ 97 ॥

मूलम् - 97

कृत्वाश्रित्य कलामूर्तिं समनन्तरमब्जज!।
विहायोमध्यदेशं च प्रकाशगहनात्ततः ॥ 97 ॥

विश्वास-प्रस्तुतिः - 98

धृतिशक्त्यासने स्वेऽथ उपविश्य यथासुखम्।
विद्यादेहेन सूक्ष्मेण भूतदेहानुकारिणा ॥ 98 ॥

मूलम् - 98

धृतिशक्त्यासने स्वेऽथ उपविश्य यथासुखम्।
विद्यादेहेन सूक्ष्मेण भूतदेहानुकारिणा ॥ 98 ॥

विश्वास-प्रस्तुतिः - 99

अथानन्दकदम्बं (स्य स्वस्वरूपात्) तद्यत्स्वरूपंपृथक् स्थितम्।
रञ्जयेच्छास्त्रदृष्टेन व्यवहारगतेन च ॥ 99 ॥

मूलम् - 99

विश्वास-प्रस्तुतिः - 100

स्वकेनालम्बनेनैव देवतालक्षणेन च।
मणिर्यथा विभागेन नीलपीतादिभिर्युतः ॥ 100 ॥

मूलम् - 100

स्वकेनालम्बनेनैव देवतालक्षणेन च।
मणिर्यथा विभागेन नीलपीतादिभिर्युतः ॥ 100 ॥

विश्वास-प्रस्तुतिः - 101

रूपभेदमवाप्नोति ध्यानभेदात्तथा विभुः।
एवं प्रवर्तते सम्यङ्भन्त्ररूपं परात्मकम् ॥ 101 ॥

मूलम् - 101

रूपभेदमवाप्नोति ध्यानभेदात्तथा विभुः।
एवं प्रवर्तते सम्यङ्भन्त्ररूपं परात्मकम् ॥ 101 ॥

विश्वास-प्रस्तुतिः - 102

हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम्।
कदम्बगोलकाकारं विश्वरूपं मणिप्रभम् ॥ 102 ॥

मूलम् - 102

हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम्।
कदम्बगोलकाकारं विश्वरूपं मणिप्रभम् ॥ 102 ॥

विश्वास-प्रस्तुतिः - 103

रत्नदीपसमाकारमच्छिन्नप्रसरं महत्।
श्रोत्रपूर्वैः खरन्ध्रैस्तु रश्मयस्तस्य निर्गताः ॥ 103 ॥

मूलम् - 103

रत्नदीपसमाकारमच्छिन्नप्रसरं महत्।
श्रोत्रपूर्वैः खरन्ध्रैस्तु रश्मयस्तस्य निर्गताः ॥ 103 ॥

विश्वास-प्रस्तुतिः - 104

छेद्रपूर्णाद्यथा कुम्भान्महादीपयुताद्‌द्विज!।
याति भासां गणो बाह्ये शरीरादेवमेव हि ॥ 104 ॥

मूलम् - 104

छेद्रपूर्णाद्यथा कुम्भान्महादीपयुताद्‌द्विज!।
याति भासां गणो बाह्ये शरीरादेवमेव हि ॥ 104 ॥

विश्वास-प्रस्तुतिः - 105

मान्त्रो रश्मिसमूहस्तु नाडीभिः प्रसरेद्वहिः।
अप्रत्यक्षः सदाक्षाणां मन्त्रात्मा यद्यपि द्विज! ॥ 105 ॥

मूलम् - 105

मान्त्रो रश्मिसमूहस्तु नाडीभिः प्रसरेद्वहिः।
अप्रत्यक्षः सदाक्षाणां मन्त्रात्मा यद्यपि द्विज! ॥ 105 ॥

विश्वास-प्रस्तुतिः - 106

तथाऽप्यनेन न्यायेन प्रत्यक्षमुपलभ्यते।
बहिः स्थितं यद्‌भूतानां क्ष्मादीनां गुणपञ्चकम् ॥ 106 ॥

मूलम् - 106

तथाऽप्यनेन न्यायेन प्रत्यक्षमुपलभ्यते।
बहिः स्थितं यद्‌भूतानां क्ष्मादीनां गुणपञ्चकम् ॥ 106 ॥

विश्वास-प्रस्तुतिः - 107

तेन तच्चोपलब्धव्यं प्रत्यक्षेण परोक्षकम्।
तस्य भौमो गुणस्थैर्यं तद्‌गुणेन हि सा स्थिरा ॥ 107 ॥

मूलम् - 107

तेन तच्चोपलब्धव्यं प्रत्यक्षेण परोक्षकम्।
तस्य भौमो गुणस्थैर्यं तद्‌गुणेन हि सा स्थिरा ॥ 107 ॥

विश्वास-प्रस्तुतिः - 108

परस्परानुभावेन संवित्तौ तदुपारुहेत्।
आह्‌लादो यस्तदीयो हि स तोये चोपलभ्यते ॥ 108 ॥

मूलम् - 108

परस्परानुभावेन संवित्तौ तदुपारुहेत्।
आह्‌लादो यस्तदीयो हि स तोये चोपलभ्यते ॥ 108 ॥

विश्वास-प्रस्तुतिः - 109

तौयो गुणस्तु तस्यास्ति कथं स्यादन्यथा मुने!।
स्मृतमात्रेण मन्त्रेण आहलादो मनसो महान् ॥ 109 ॥

मूलम् - 109

तौयो गुणस्तु तस्यास्ति कथं स्यादन्यथा मुने!।
स्मृतमात्रेण मन्त्रेण आहलादो मनसो महान् ॥ 109 ॥

विश्वास-प्रस्तुतिः - 110

रूपात्मना परिणतः स चाग्नौ पारमेश्वरः।
यो रूपाख्यो गुणश्चाग्नेः स मन्त्रात्मनि तिष्ठति ॥ 110 ॥

मूलम् - 110

रूपात्मना परिणतः स चाग्नौ पारमेश्वरः।
यो रूपाख्यो गुणश्चाग्नेः स मन्त्रात्मनि तिष्ठति ॥ 110 ॥

विश्वास-प्रस्तुतिः - 111

तेजो विना यतो द्यानं कुत्रचिन्नोपपद्यते।
स्पर्शधर्मो हि यो वायोः स तदीयो महामुने! ॥ 111 ॥

मूलम् - 111

तेजो विना यतो द्यानं कुत्रचिन्नोपपद्यते।
स्पर्शधर्मो हि यो वायोः स तदीयो महामुने! ॥ 111 ॥

विश्वास-प्रस्तुतिः - 112

यो वायव्यो गुणः सूक्ष्मः स च मन्त्रतनौ स्थितः।
स चान्तःकरणेनैव संयमे स्यात्तदुत्थितः ॥ 112 ॥

मूलम् - 112

यो वायव्यो गुणः सूक्ष्मः स च मन्त्रतनौ स्थितः।
स चान्तःकरणेनैव संयमे स्यात्तदुत्थितः ॥ 112 ॥

विश्वास-प्रस्तुतिः - 113

यदाकाशस्य शून्यत्वमस्ति तत् स्यात्तदुद्भवम्।
स मन्त्रात्मनि संश्लिष्टो गुणो ह्यस्ति महामते! ॥ 113 ॥

मूलम् - 113

यदाकाशस्य शून्यत्वमस्ति तत् स्यात्तदुद्भवम्।
स मन्त्रात्मनि संश्लिष्टो गुणो ह्यस्ति महामते! ॥ 113 ॥

विश्वास-प्रस्तुतिः - 114

अग्राह्यत्वाच्च करणैः प्राकृतैर्भावनां विना।
इत्येवं मन्त्रसामर्थ्यं पुरा ज्ञात्वा यथार्थतः ॥ 114 ॥

मूलम् - 114

अग्राह्यत्वाच्च करणैः प्राकृतैर्भावनां विना।
इत्येवं मन्त्रसामर्थ्यं पुरा ज्ञात्वा यथार्थतः ॥ 114 ॥

विश्वास-प्रस्तुतिः - 115

सन्निधानं भवेद्येन पूजाकाले ह्युपस्थिते।
तस्मिन्नङ्गानि विन्यस्य प्राक्‌ संपूर्णगुणानि च ॥ 115 ॥

मूलम् - 115

सन्निधानं भवेद्येन पूजाकाले ह्युपस्थिते।
तस्मिन्नङ्गानि विन्यस्य प्राक्‌ संपूर्णगुणानि च ॥ 115 ॥

विश्वास-प्रस्तुतिः - 116

स्वमन्त्रैरर्चयेदेव स्थानभेदं विना ततः।
तस्मिन् कदम्बकुसुमसदृशे मन्त्रगोलके ॥ 116 ॥

मूलम् - 116

स्वमन्त्रैरर्चयेदेव स्थानभेदं विना ततः।
तस्मिन् कदम्बकुसुमसदृशे मन्त्रगोलके ॥ 116 ॥

विश्वास-प्रस्तुतिः - 117

द्वादशाक्षरमन्त्रेण अभिन्नेन तु सांप्रतम्।
व्यक्तिमापद्यते तस्माद्ध्येया हृत्पझमध्यगा ॥ 117 ॥

मूलम् - 117

द्वादशाक्षरमन्त्रेण अभिन्नेन तु सांप्रतम्।
व्यक्तिमापद्यते तस्माद्ध्येया हृत्पझमध्यगा ॥ 117 ॥

विश्वास-प्रस्तुतिः - 118

या परा प्रकृतिर्वाणी चिद्रपा निर्मलात्मिका(परा)।
पूरिताध्यक्षभावेन निष्कलेन महात्मना ॥ 118 ॥

मूलम् - 118

या परा प्रकृतिर्वाणी चिद्रपा निर्मलात्मिका(परा)।
पूरिताध्यक्षभावेन निष्कलेन महात्मना ॥ 118 ॥

विश्वास-प्रस्तुतिः - 119

शरीरमिव जीवेन स्थूलं सूक्ष्मं द्विलक्षणम्।
मूलमन्त्रादितः प्राग्वत् सर्वमन्त्रगणस्य च ॥ 119 ॥

मूलम् - 119

शरीरमिव जीवेन स्थूलं सूक्ष्मं द्विलक्षणम्।
मूलमन्त्रादितः प्राग्वत् सर्वमन्त्रगणस्य च ॥ 119 ॥

विश्वास-प्रस्तुतिः - 120

करन्यासं विना देहे न्यासं तस्य च संस्मरेत्।
सृष्टिसंस्थितिसंहारन्यासं चापि तथाऽऽचरेत् ॥ 120 ॥

मूलम् - 120

करन्यासं विना देहे न्यासं तस्य च संस्मरेत्।
सृष्टिसंस्थितिसंहारन्यासं चापि तथाऽऽचरेत् ॥ 120 ॥

विश्वास-प्रस्तुतिः - 121

ततः खाब्जखमध्यात्त्वप्यूर्ध्वस्थात् संस्मरेच्च्युताम्।
गङ्गां भगवतो मूर्ध्नि तेनामृतजलेन तु ॥ 121 ॥

मूलम् - 121

ततः खाब्जखमध्यात्त्वप्यूर्ध्वस्थात् संस्मरेच्च्युताम्।
गङ्गां भगवतो मूर्ध्नि तेनामृतजलेन तु ॥ 121 ॥

विश्वास-प्रस्तुतिः - 122

अर्घ्याद्यखिलभोगानां कार्या वै शुभकल्पना।
यं यं संकल्पयेद्भोगं तं तं भाव्यसुधामयम् ॥ 122 ॥

मूलम् - 122

अर्घ्याद्यखिलभोगानां कार्या वै शुभकल्पना।
यं यं संकल्पयेद्भोगं तं तं भाव्यसुधामयम् ॥ 122 ॥

विश्वास-प्रस्तुतिः - 123

पतन्तमम्बराद्वेगादमृतांशुपरिप्लुतम्।
साक्षादमृतरूपैस्तु तैस्तैरमृतसंभवैः ॥ 123 ॥

मूलम् - 123

पतन्तमम्बराद्वेगादमृतांशुपरिप्लुतम्।
साक्षादमृतरूपैस्तु तैस्तैरमृतसंभवैः ॥ 123 ॥

विश्वास-प्रस्तुतिः - 124

बृंहितं मुदितं मग्नं(सम्प्लुतं)मन्त्रराट् स्मरेत्।
ततस्तु देवदेवस्य अर्ध्यं दत्वा यथाविधि ॥ 124 ॥

मूलम् - 124

बृंहितं मुदितं मग्नं(सम्प्लुतं)मन्त्रराट् स्मरेत्।
ततस्तु देवदेवस्य अर्ध्यं दत्वा यथाविधि ॥ 124 ॥

विश्वास-प्रस्तुतिः - 125

सन्निधिं सन्निरोधं च सांमुख्यं च समाचरेत्।
हृदयादीनि चाङ्गानि लाञ्छनं कमलादिकम् ॥ 125 ॥

मूलम् - 125

सन्निधिं सन्निरोधं च सांमुख्यं च समाचरेत्।
हृदयादीनि चाङ्गानि लाञ्छनं कमलादिकम् ॥ 125 ॥

विश्वास-प्रस्तुतिः - 126

भूषणं च किरीटाद्यं लक्ष्म्याद्याः शक्तयस्तथा।
गरुडो मूर्तयो वान्या देहे देवस्य याः स्थिताः ॥ 126 ॥

मूलम् - 126

भूषणं च किरीटाद्यं लक्ष्म्याद्याः शक्तयस्तथा।
गरुडो मूर्तयो वान्या देहे देवस्य याः स्थिताः ॥ 126 ॥

विश्वास-प्रस्तुतिः - 127

व्यापकस्य तथात्वेन स्वे स्वे स्थाने प्रभात्मकाः।
तद्देहसंस्थिताः सर्वे पूजनीयाः क्रमेण तु ॥ 127 ॥

मूलम् - 127

व्यापकस्य तथात्वेन स्वे स्वे स्थाने प्रभात्मकाः।
तद्देहसंस्थिताः सर्वे पूजनीयाः क्रमेण तु ॥ 127 ॥

विश्वास-प्रस्तुतिः - 128

परिवारं विना मन्त्रैः स्वैः स्वैरर्घ्यादिभिर्द्विज!।
लययागो ह्ययं विप्र! हृदादिष्वनुकीर्तितः ॥ 128 ॥

मूलम् - 128

परिवारं विना मन्त्रैः स्वैः स्वैरर्घ्यादिभिर्द्विज!।
लययागो ह्ययं विप्र! हृदादिष्वनुकीर्तितः ॥ 128 ॥

विश्वास-प्रस्तुतिः - 129

तस्माद्धत्कर्णिकाधारे मूर्तौ वा यत्र कुत्रचित्।
मूलमन्त्रशरीरस्थं परिवारं यजेत् सदा ॥ 129 ॥

मूलम् - 129

तस्माद्धत्कर्णिकाधारे मूर्तौ वा यत्र कुत्रचित्।
मूलमन्त्रशरीरस्थं परिवारं यजेत् सदा ॥ 129 ॥

विश्वास-प्रस्तुतिः - 130

याग एष लयाख्यस्तु संक्षिप्तः सर्वसिद्धिदः।
मन्त्रराट् कर्णिकामध्ये लक्ष्म्याद्याः केसरादिषु ॥ 130 ॥

मूलम् - 130

याग एष लयाख्यस्तु संक्षिप्तः सर्वसिद्धिदः।
मन्त्रराट् कर्णिकामध्ये लक्ष्म्याद्याः केसरादिषु ॥ 130 ॥

विश्वास-प्रस्तुतिः - 131

साकाराः केवलाः सर्वे यत्र भोगाभिधः स तु।
केवलेन च यागेन पृथग्भूतेन नारद! ॥ 131 ॥

मूलम् - 131

साकाराः केवलाः सर्वे यत्र भोगाभिधः स तु।
केवलेन च यागेन पृथग्भूतेन नारद! ॥ 131 ॥

विश्वास-प्रस्तुतिः - 132

पूजनं कमलादीनामधिकाराभिधः स तु।
एवं कृत्वा लयाख्यं तु यागं भोगाभिधं तथा ॥ 132 ॥

मूलम् - 132

पूजनं कमलादीनामधिकाराभिधः स तु।
एवं कृत्वा लयाख्यं तु यागं भोगाभिधं तथा ॥ 132 ॥

विश्वास-प्रस्तुतिः - 133

ततः क्रमाद्यजेद्देवं भोगैरमृतसंभवैः।
सुसमस्तादिभिः सम्यक्ताम्बूलान्तैर्यथोदितैः ॥ 133 ॥

मूलम् - 133

ततः क्रमाद्यजेद्देवं भोगैरमृतसंभवैः।
सुसमस्तादिभिः सम्यक्ताम्बूलान्तैर्यथोदितैः ॥ 133 ॥

विश्वास-प्रस्तुतिः - 134

सर्वं कृत्वा यथायोगं यावदात्मनिवेदनम्।
मानसान् जयशब्दांश्च कृत्वा विज्ञापयेदिदम् ॥ 134 ॥

मूलम् - 134

सर्वं कृत्वा यथायोगं यावदात्मनिवेदनम्।
मानसान् जयशब्दांश्च कृत्वा विज्ञापयेदिदम् ॥ 134 ॥

विश्वास-प्रस्तुतिः - 135

स्वागतं तव देवेश! सन्निधिं भज मेऽच्युत!।
गृहाण मानसीं पूजा यथार्थपरिभाविताम् ॥ 135 ॥

मूलम् - 135

स्वागतं तव देवेश! सन्निधिं भज मेऽच्युत!।
गृहाण मानसीं पूजा यथार्थपरिभाविताम् ॥ 135 ॥

विश्वास-प्रस्तुतिः - 136

ज्ञात्वा तु सुप्रसन्नं त प्रसादाभिमुखं प्रभुम्।
विस्तरेण द्विजश्रेष्ठ! मानसं यागमारभेत् ॥ 136 ॥

मूलम् - 136

ज्ञात्वा तु सुप्रसन्नं त प्रसादाभिमुखं प्रभुम्।
विस्तरेण द्विजश्रेष्ठ! मानसं यागमारभेत् ॥ 136 ॥

विश्वास-प्रस्तुतिः - 137

संकल्पजनितैर्भोगैः पवित्रैरक्षयैः शुभैः।
सांस्पर्शैरौपचाराख्यैस्तथा चाभ्यवहारिकैः ॥ 137 ॥

मूलम् - 137

संकल्पजनितैर्भोगैः पवित्रैरक्षयैः शुभैः।
सांस्पर्शैरौपचाराख्यैस्तथा चाभ्यवहारिकैः ॥ 137 ॥

विश्वास-प्रस्तुतिः - 138

महद्रपैः प्रभूतैस्तु सप्तलोकसमुद्भवैः।
यथोदितैस्तु विधिवदुत्कृष्टतरलक्षणैः ॥ 138 ॥

मूलम् - 138

महद्रपैः प्रभूतैस्तु सप्तलोकसमुद्भवैः।
यथोदितैस्तु विधिवदुत्कृष्टतरलक्षणैः ॥ 138 ॥

विश्वास-प्रस्तुतिः - 139

एवंविधांस्तु तान् भोगान् सद्भक्त्या विनिवेद्य च।
समुच्चरन् धिया मन्त्रं प्रसन्नेनान्तरात्मना ॥ 139 ॥

मूलम् - 139

एवंविधांस्तु तान् भोगान् सद्भक्त्या विनिवेद्य च।
समुच्चरन् धिया मन्त्रं प्रसन्नेनान्तरात्मना ॥ 139 ॥

विश्वास-प्रस्तुतिः - 140

गजाश्वधेनुयानानि सुवस्त्रालङ्कतानि च।
निवेद्यचान्त(तं)र्मानानि ग्राहयन्तं स्मरेत्ततः ॥ 140 ॥

मूलम् - 140

गजाश्वधेनुयानानि सुवस्त्रालङ्कतानि च।
निवेद्यचान्त(तं)र्मानानि ग्राहयन्तं स्मरेत्ततः ॥ 140 ॥

विश्वास-प्रस्तुतिः - 141

आत्मानं ससुतान् दारान् सर्वस्वेन समायुतान्।
निवेद्य प्रणतो मूर्ध्ना आनन्दाश्रुसमन्वितः ॥ 141 ॥

मूलम् - 141

आत्मानं ससुतान् दारान् सर्वस्वेन समायुतान्।
निवेद्य प्रणतो मूर्ध्ना आनन्दाश्रुसमन्वितः ॥ 141 ॥

विश्वास-प्रस्तुतिः - 142

कामधेनुमयीं मुद्रां मनसा मन्त्रसंयुताम्।
बध्वा संचिन्तयेद्विष्णोः सर्वकामप्रपूरणीम् ॥ 142 ॥

मूलम् - 142

कामधेनुमयीं मुद्रां मनसा मन्त्रसंयुताम्।
बध्वा संचिन्तयेद्विष्णोः सर्वकामप्रपूरणीम् ॥ 142 ॥

विश्वास-प्रस्तुतिः - 143

ततो विशेषयजनं कल्पयेदच्युतस्य तु।
सौवर्णपुष्पसंपूर्णमञ्जलिं संप्रसार्य च ॥ 143 ॥

मूलम् - 143

ततो विशेषयजनं कल्पयेदच्युतस्य तु।
सौवर्णपुष्पसंपूर्णमञ्जलिं संप्रसार्य च ॥ 143 ॥

विश्वास-प्रस्तुतिः - 144

मूलमन्त्रं समुच्चार्य प्रयत्नैः पूरकादिकैः।
दीर्घघण्टारवप्रख्यं यावत्तत्संभवावधि ॥ 144 ॥

मूलम् - 144

मूलमन्त्रं समुच्चार्य प्रयत्नैः पूरकादिकैः।
दीर्घघण्टारवप्रख्यं यावत्तत्संभवावधि ॥ 144 ॥

विश्वास-प्रस्तुतिः - 145

स्फुरद्रश्मिचयाकीर्णं वह्न्यर्केन्दुशतप्रभम्।
ध्यात्वा नारायणं देवमञ्जलौ सन्निरोधयेत् ॥ 145 ॥

मूलम् - 145

स्फुरद्रश्मिचयाकीर्णं वह्न्यर्केन्दुशतप्रभम्।
ध्यात्वा नारायणं देवमञ्जलौ सन्निरोधयेत् ॥ 145 ॥

विश्वास-प्रस्तुतिः - 146

तमञ्जलिं क्षिपेन्मूर्ध्नि तस्मिन् वै मन्त्रविग्रहे।
अर्ध्यं निवेदयेद्‌भूयः पुनः पुष्पाञ्जलिं शुभम् ॥ 146 ॥

मूलम् - 146

तमञ्जलिं क्षिपेन्मूर्ध्नि तस्मिन् वै मन्त्रविग्रहे।
अर्ध्यं निवेदयेद्‌भूयः पुनः पुष्पाञ्जलिं शुभम् ॥ 146 ॥

विश्वास-प्रस्तुतिः - 147

मुद्रां सन्दर्श्य मूलाख्यां मानसीं जपमारभेत्।
संख्याहीनं यथाशक्ति घण्टाख्यकरणेन च ॥ 147 ॥

मूलम् - 147

मुद्रां सन्दर्श्य मूलाख्यां मानसीं जपमारभेत्।
संख्याहीनं यथाशक्ति घण्टाख्यकरणेन च ॥ 147 ॥

विश्वास-प्रस्तुतिः - 148

भोगस्थानगतानां च लक्ष्म्यादीनां क्रमेण तु।
मनसा दर्शयेन्मुद्रां जपं कुर्यात् सकृत् सकृते ॥ 148 ॥

मूलम् - 148

भोगस्थानगतानां च लक्ष्म्यादीनां क्रमेण तु।
मनसा दर्शयेन्मुद्रां जपं कुर्यात् सकृत् सकृते ॥ 148 ॥

विश्वास-प्रस्तुतिः - 149

स्तोत्रमन्त्रैः पवित्रैश्च स्तुत्वा सम्यक् प्रसादयेत्।
एवं क्रमेण विप्रेन्द्र! कृत्वा यागं तु मानसम् ॥ 149 ॥

मूलम् - 149

स्तोत्रमन्त्रैः पवित्रैश्च स्तुत्वा सम्यक् प्रसादयेत्।
एवं क्रमेण विप्रेन्द्र! कृत्वा यागं तु मानसम् ॥ 149 ॥

विश्वास-प्रस्तुतिः - 150

होमं तथाविधं कुर्यान्मोक्षलक्ष्मीप्रदं शुभम्।
नाभिचक्रान्तरस्थं तु ध्यायेद्वह्निगृहं मुने! ॥ 150 ॥

मूलम् - 150

होमं तथाविधं कुर्यान्मोक्षलक्ष्मीप्रदं शुभम्।
नाभिचक्रान्तरस्थं तु ध्यायेद्वह्निगृहं मुने! ॥ 150 ॥

विश्वास-प्रस्तुतिः - 151

त्रिकोणं त्रिगुणेनैव अव्यक्तेनावृतं परि।
ध्यानारणिं तु निर्मथ्य चिदग्निमवतार्य च ॥ 151 ॥

मूलम् - 151

त्रिकोणं त्रिगुणेनैव अव्यक्तेनावृतं परि।
ध्यानारणिं तु निर्मथ्य चिदग्निमवतार्य च ॥ 151 ॥

विश्वास-प्रस्तुतिः - 152

सुशुद्धं संस्कृतं दीप्तं सदैवोर्ध्वशिख द्विज!।
वासुदेवात्मकं यस्मात् स वसत्यन्तरात्मसु ॥ 152 ॥

मूलम् - 152

सुशुद्धं संस्कृतं दीप्तं सदैवोर्ध्वशिख द्विज!।
वासुदेवात्मकं यस्मात् स वसत्यन्तरात्मसु ॥ 152 ॥

विश्वास-प्रस्तुतिः - 153

प्रोच्चरेन्मूलमन्त्रं तु यावच्छब्दस्य गोचरः।
तत्रस्थमाहरेद्दिव्यमाह्‌लादाज्यामृतं परम् ॥ 153 ॥

मूलम् - 153

प्रोच्चरेन्मूलमन्त्रं तु यावच्छब्दस्य गोचरः।
तत्रस्थमाहरेद्दिव्यमाह्‌लादाज्यामृतं परम् ॥ 153 ॥

विश्वास-प्रस्तुतिः - 154

ब्रह्नसर्पिस्समुद्राद्यन्निस्तरङ्गात् परिच्युतम्।
गृहीत्वाऽमृतमार्गेण ब्रह्यरन्ध्रेण संविशेत् ॥ 154 ॥

मूलम् - 154

ब्रह्नसर्पिस्समुद्राद्यन्निस्तरङ्गात् परिच्युतम्।
गृहीत्वाऽमृतमार्गेण ब्रह्यरन्ध्रेण संविशेत् ॥ 154 ॥

विश्वास-प्रस्तुतिः - 155

हृदयान्मध्य(न्त्र)मार्गेण चिन्मयेन सदीप्तिना।
प्रोल्लसन्तं स्मरेन्मन्त्रं व्रह्नशक्त्युपबृंहितम् ॥ 155 ॥

मूलम् - 155

हृदयान्मध्य(न्त्र)मार्गेण चिन्मयेन सदीप्तिना।
प्रोल्लसन्तं स्मरेन्मन्त्रं व्रह्नशक्त्युपबृंहितम् ॥ 155 ॥

विश्वास-प्रस्तुतिः - 156

स्वकारणाग्नौ नाभिस्थे य ऊर्ध्वेन्धनवत् स्थितः।
स्वभावदीप्तब्रह्नाग्नौ परितश्चोदरोज्ज्वलम् ॥ 156 ॥

मूलम् - 156

स्वकारणाग्नौ नाभिस्थे य ऊर्ध्वेन्धनवत् स्थितः।
स्वभावदीप्तब्रह्नाग्नौ परितश्चोदरोज्ज्वलम् ॥ 156 ॥

विश्वास-प्रस्तुतिः - 157

स्मृत्वा यन्त्रं तु तन्मूर्ध्नि पतमानं द्विजाम्बरात्।
चिन्तयेदा(द)मृतं त्वाज्यं पुरावच्चाहृतं द्विज! ॥ 157 ॥

मूलम् - 157

स्मृत्वा यन्त्रं तु तन्मूर्ध्नि पतमानं द्विजाम्बरात्।
चिन्तयेदा(द)मृतं त्वाज्यं पुरावच्चाहृतं द्विज! ॥ 157 ॥

विश्वास-प्रस्तुतिः - 158

चिदग्निमेवं सन्तर्प्य नाभौ मन्त्रस्वरूपिणम्।
ज्वालाग्रावस्थितं चैव भूयो हृत्पङ्कजे स्मरेत् ॥ 158 ॥

मूलम् - 158

चिदग्निमेवं सन्तर्प्य नाभौ मन्त्रस्वरूपिणम्।
ज्वालाग्रावस्थितं चैव भूयो हृत्पङ्कजे स्मरेत् ॥ 158 ॥

विश्वास-प्रस्तुतिः - 159

प्रोच्चारयंश्च मन्त्रेशं प्लुतं ध्यानसमन्वितम्।
कृत्वैवमेकसन्धानं स्थानद्वयगतस्य च ॥ 159 ॥

मूलम् - 159

प्रोच्चारयंश्च मन्त्रेशं प्लुतं ध्यानसमन्वितम्।
कृत्वैवमेकसन्धानं स्थानद्वयगतस्य च ॥ 159 ॥

विश्वास-प्रस्तुतिः - 160

विण्णोर्मन्त्रस्वरूपस्य नानामन्त्रात्मकस्य च।
सर्वं तु विन्यसेत् पश्चात्तस्मिन् कर्मकृतं च यत् ॥ 160 ॥

मूलम् - 160

विण्णोर्मन्त्रस्वरूपस्य नानामन्त्रात्मकस्य च।
सर्वं तु विन्यसेत् पश्चात्तस्मिन् कर्मकृतं च यत् ॥ 160 ॥

विश्वास-प्रस्तुतिः - 161

तोयपुष्पाक्षतैः पूर्णं भावयेद्दक्षिणं करम्।
तन्मध्ये निष्कलं मन्त्रं संस्मरेत् किरणाकुलम् ॥ 161 ॥

मूलम् - 161

तोयपुष्पाक्षतैः पूर्णं भावयेद्दक्षिणं करम्।
तन्मध्ये निष्कलं मन्त्रं संस्मरेत् किरणाकुलम् ॥ 161 ॥

विश्वास-प्रस्तुतिः - 162

यागोत्थां फलसंपत्तिं लक्ष्मीरूपां विचिन्त्य च।
मूलमन्त्रं समुच्चार्य पाणिमध्ये तथा स्मरेत् ॥ 162 ॥

मूलम् - 162

यागोत्थां फलसंपत्तिं लक्ष्मीरूपां विचिन्त्य च।
मूलमन्त्रं समुच्चार्य पाणिमध्ये तथा स्मरेत् ॥ 162 ॥

विश्वास-प्रस्तुतिः - 163

भूयश्च निष्कलं मन्त्रं तस्यामुपरि भावयेत्।
सशीर्षे जानुनी भूमौ कृत्वा विष्णोर्निवेदयेत् । 163 ॥

मूलम् - 163

भूयश्च निष्कलं मन्त्रं तस्यामुपरि भावयेत्।
सशीर्षे जानुनी भूमौ कृत्वा विष्णोर्निवेदयेत् । 163 ॥

विश्वास-प्रस्तुतिः - 164

प्रसादाभिमुखेनाथ तेन तच्चात्मसात्कृतम्।
भावनीयं द्विजश्रेष्ठ! परितुष्टेन चादरात् ॥ 164 ॥

मूलम् - 164

प्रसादाभिमुखेनाथ तेन तच्चात्मसात्कृतम्।
भावनीयं द्विजश्रेष्ठ! परितुष्टेन चादरात् ॥ 164 ॥

विश्वास-प्रस्तुतिः - 165

निर्वृत्ते पुरुषार्थे तु हृदये बाह्यतोऽपि वा।
क्रमान्मन्त्रगणं स्मृत्वा यातं मन्त्रेश्वरे लयम् ॥ 165 ॥

मूलम् - 165

निर्वृत्ते पुरुषार्थे तु हृदये बाह्यतोऽपि वा।
क्रमान्मन्त्रगणं स्मृत्वा यातं मन्त्रेश्वरे लयम् ॥ 165 ॥

विश्वास-प्रस्तुतिः - 166

मन्त्रव्यक्तिं स्वसंकल्पशक्तावथ शमं नयेत्।
सह संकल्पशक्त्या वै विद्यामूर्तिं स्वकां ततः ॥ 166 ॥

मूलम् - 166

मन्त्रव्यक्तिं स्वसंकल्पशक्तावथ शमं नयेत्।
सह संकल्पशक्त्या वै विद्यामूर्तिं स्वकां ततः ॥ 166 ॥

विश्वास-प्रस्तुतिः - 167

स्वकलासु लयीकुर्यात् कलाजातं तथाऽऽत्मनि।
प्राग्वदानन्दसन्दोहपरिपूर्णं तु जायते ॥ 167 ॥

मूलम् - 167

स्वकलासु लयीकुर्यात् कलाजातं तथाऽऽत्मनि।
प्राग्वदानन्दसन्दोहपरिपूर्णं तु जायते ॥ 167 ॥

विश्वास-प्रस्तुतिः - 168

बहिर्यजामीति यदा संकल्पं मनसा कृतम्।
तदा संहृत्य तां व्यक्तिमास्ते मध्याह्नसूर्यवात् ॥ 168 ॥

मूलम् - 168

बहिर्यजामीति यदा संकल्पं मनसा कृतम्।
तदा संहृत्य तां व्यक्तिमास्ते मध्याह्नसूर्यवात् ॥ 168 ॥

विश्वास-प्रस्तुतिः - 169

विसर्जयेन्नतं यावन्न कृता बाह्यतः क्रियाः ।
न्यसनीयो ह्यसौ यस्मान्मण्डलादिषु वस्तु(वृत्ति)षु ॥ 169 ॥

मूलम् - 169

विसर्जयेन्नतं यावन्न कृता बाह्यतः क्रियाः ।
न्यसनीयो ह्यसौ यस्मान्मण्डलादिषु वस्तु(वृत्ति)षु ॥ 169 ॥

विश्वास-प्रस्तुतिः - 170

सृष्टिकमेण संहृत्य आधारं यत् पुरोदितम्।
ज्ञानिनां विगलत्येष स्वभावात्तत्ववेदिनाम् ॥ 170 ॥

मूलम् - 170

सृष्टिकमेण संहृत्य आधारं यत् पुरोदितम्।
ज्ञानिनां विगलत्येष स्वभावात्तत्ववेदिनाम् ॥ 170 ॥

विश्वास-प्रस्तुतिः - 171

निष्कियाणां महाबुद्धे! निष्पन्नानां स्वकर्मणा।
विकासमेति चान्येषां नित्याकाररतात्मनाम् ॥ 171 ॥

मूलम् - 171

निष्कियाणां महाबुद्धे! निष्पन्नानां स्वकर्मणा।
विकासमेति चान्येषां नित्याकाररतात्मनाम् ॥ 171 ॥

विश्वास-प्रस्तुतिः - 172

मन्त्रक्रियारतानां च नानात्वेना(न)समात्मनाम्।
धृतमच्युतशक्त्या वै ह्यपरिच्युतसत्तया ॥ 172 ॥

मूलम् - 172

मन्त्रक्रियारतानां च नानात्वेना(न)समात्मनाम्।
धृतमच्युतशक्त्या वै ह्यपरिच्युतसत्तया ॥ 172 ॥

विश्वास-प्रस्तुतिः - 173

सद्वि(वि)कल्पस्वरूपं च विश्वासनमिदं द्विज!।
विधृतं विभुना व्याप्तं स्वसामर्थ्येन यद्यपि ॥ 173 ॥

मूलम् - 173

सद्वि(वि)कल्पस्वरूपं च विश्वासनमिदं द्विज!।
विधृतं विभुना व्याप्तं स्वसामर्थ्येन यद्यपि ॥ 173 ॥

विश्वास-प्रस्तुतिः - 174

तत्रापि तच्छरीराणां जीवानां तन्निवासिनाम्।
स्वशक्त्यानुगृहीतानां तमाक्रम्य महामते! ॥ 174 ॥

मूलम् - 174

तत्रापि तच्छरीराणां जीवानां तन्निवासिनाम्।
स्वशक्त्यानुगृहीतानां तमाक्रम्य महामते! ॥ 174 ॥

विश्वास-प्रस्तुतिः - 175

नानामन्त्रात्मना त्वास्ते तस्मिन्नानाविधात्मनि।
इत्येवमुक्तमाधारस्वरूपं हि यथा स्थितम् ॥ 175 ॥

मूलम् - 175

नानामन्त्रात्मना त्वास्ते तस्मिन्नानाविधात्मनि।
इत्येवमुक्तमाधारस्वरूपं हि यथा स्थितम् ॥ 175 ॥

विश्वास-प्रस्तुतिः - 176

जायते यत्परिज्ञानात् कर्मिणां कर्मसंक्षयः।
अयं यो मानसो यागो ज्वरव्याधिलयापहः ॥ 176 ॥

मूलम् - 176

जायते यत्परिज्ञानात् कर्मिणां कर्मसंक्षयः।
अयं यो मानसो यागो ज्वरव्याधिलयापहः ॥ 176 ॥

विश्वास-प्रस्तुतिः - 177

पापोपसर्गशमनो भवाभावकरो द्विज!।
सतताभ्यासयोगेन देहपातात् प्रमोचयेत् ॥ 177 ॥

मूलम् - 177

पापोपसर्गशमनो भवाभावकरो द्विज!।
सतताभ्यासयोगेन देहपातात् प्रमोचयेत् ॥ 177 ॥

विश्वास-प्रस्तुतिः - 178

यस्त्वेवं परया भक्त्या सकृदाचरते नरः।
क्रमोदितेन विधिना तस्य तुष्याम्यहं मुने! ॥ 178 ॥

मूलम् - 178

यस्त्वेवं परया भक्त्या सकृदाचरते नरः।
क्रमोदितेन विधिना तस्य तुष्याम्यहं मुने! ॥ 178 ॥

विश्वास-प्रस्तुतिः - 179

याजकानां च सर्वेषां प्रधानत्वेन वर्तते।
तारयेत् स्वपितॄन् सर्वान् यातानेष्यांश्च साम्प्रतम् ॥ 179 ॥

मूलम् - 179

याजकानां च सर्वेषां प्रधानत्वेन वर्तते।
तारयेत् स्वपितॄन् सर्वान् यातानेष्यांश्च साम्प्रतम् ॥ 179 ॥

विश्वास-प्रस्तुतिः - 180

किं पुनर्नित्ययुक्तो यस्तद्भावगतमानसः।
मन्त्राराधनमार्गस्थः श्रद्धाभक्तिसमन्वितः ॥ 180 ॥

मूलम् - 180

किं पुनर्नित्ययुक्तो यस्तद्भावगतमानसः।
मन्त्राराधनमार्गस्थः श्रद्धाभक्तिसमन्वितः ॥ 180 ॥

विश्वास-प्रस्तुतिः - 181

न तस्य पुनरावृत्तिः स याति परमं पदम्।
ज्ञात्वैवं यत्नतो नित्यं कुर्याद्यागं तु मानसम् ॥ 181 ॥

मूलम् - 181

न तस्य पुनरावृत्तिः स याति परमं पदम्।
ज्ञात्वैवं यत्नतो नित्यं कुर्याद्यागं तु मानसम् ॥ 181 ॥

विश्वास-प्रस्तुतिः - 182

इदं रहस्यं परमं मयोक्तं तेऽद्य नारद!।
नाशिष्याणां च वक्तव्यं नाभक्तानां कथंचन ॥ 182 ॥

मूलम् - 182

इदं रहस्यं परमं मयोक्तं तेऽद्य नारद!।
नाशिष्याणां च वक्तव्यं नाभक्तानां कथंचन ॥ 182 ॥

विश्वास-प्रस्तुतिः - 183

अत्यन्तभवभीतानां भक्तानां भावितात्मनाम्।
इदं रहस्यं वक्तव्यं सम्यग्भावं परीक्ष्य च ॥ 183 ॥

मूलम् - 183

अत्यन्तभवभीतानां भक्तानां भावितात्मनाम्।
इदं रहस्यं वक्तव्यं सम्यग्भावं परीक्ष्य च ॥ 183 ॥

इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे मानसयागो नाम पञ्चमोऽध्यायः ॥ *****************