००४ मन्त्रन्यासविधिः

॥ श्रीः ॥
चतुर्थोऽध्यायः

विश्वास-प्रस्तुतिः - 1

संशुद्धविग्रहो मन्त्री मन्त्रन्यासं समाचरेत्।
येन विन्यस्तमात्रेण देवदेवसमो भवेत् ॥ 1 ॥

मूलम् - 1

संशुद्धविग्रहो मन्त्री मन्त्रन्यासं समाचरेत्।
येन विन्यस्तमात्रेण देवदेवसमो भवेत् ॥ 1 ॥

विश्वास-प्रस्तुतिः - 2

पूजादिसर्वकार्याणामधिकारी(रः) च जायते।
भवेद्वै सर्वसिद्धीनामाविर्भावस्तु येन च ॥ 2 ॥

मूलम् - 2

पूजादिसर्वकार्याणामधिकारी(रः) च जायते।
भवेद्वै सर्वसिद्धीनामाविर्भावस्तु येन च ॥ 2 ॥

विश्वास-प्रस्तुतिः - 3

यं कृत्वा निर्भयस्तिष्ठेद्देशे दुष्टसमाकुले।
विजयश्चापमृत्यूनां स्याद्येन विहितेन च ॥ 3 ॥

मूलम् - 3

यं कृत्वा निर्भयस्तिष्ठेद्देशे दुष्टसमाकुले।
विजयश्चापमृत्यूनां स्याद्येन विहितेन च ॥ 3 ॥

विश्वास-प्रस्तुतिः - 4

व्यापारो मानसो ह्येष न्यासाख्यो यद्यपि स्मृतः।
न बध्नाति स्थितिं सम्यक् तथाऽपि क्रियया विना ॥ 4 ॥

मूलम् - 4

विश्वास-प्रस्तुतिः - 5

कराधीना पुनस्सा तु प्राङ्न्यासस्तु तयोः स्थितः।
अथ हस्तद्वये न्यस्य दीप्तिमद्‌द्वादशाक्षरम् ॥ 5 ॥

मूलम् - 5

विश्वास-प्रस्तुतिः - 6

मणिबन्धान्नखाग्रान्तं त्वादित्यातपवत्ततः।
सृष्टिसंस्थितिसंहारन्यासं कुर्याद्यथाविधि ॥ 6 ॥

मूलम् - 6

मणिबन्धान्नखाग्रान्तं त्वादित्यातपवत्ततः।
सृष्टिसंस्थितिसंहारन्यासं कुर्याद्यथाविधि ॥ 6 ॥

विश्वास-प्रस्तुतिः - 7

दक्षहस्ततलारम्भो वामान्तः सृष्टिसंज्ञितः।
दक्षाङ्गुष्ठादिको वामतलान्तः स्थितिसंज्ञितः ॥ 7 ॥

मूलम् - 7

विश्वास-प्रस्तुतिः - 8

वामहस्ततलारम्भो दक्षान्त इतरः स्मृतः।
सृष्टौ दक्षतले तारं तदङ्गुष्ठादिके क्रमात् ॥ 8 ॥

मूलम् - 8

वामहस्ततलारम्भो दक्षान्त इतरः स्मृतः।
सृष्टौ दक्षतले तारं तदङ्गुष्ठादिके क्रमात् ॥ 8 ॥

विश्वास-प्रस्तुतिः - 9

अङ्गुलीनां तु दशके यावद्वामकनिष्ठिका।
विन्यस्य दशवर्णांस्तु न्यसेद्वामतलेऽन्तिमम् ॥ 9 ॥

मूलम् - 9

अङ्गुलीनां तु दशके यावद्वामकनिष्ठिका।
विन्यस्य दशवर्णांस्तु न्यसेद्वामतलेऽन्तिमम् ॥ 9 ॥

विश्वास-प्रस्तुतिः - 10

स्थित्याख्ये दक्षिणाङ्गुष्ठादारभ्याङ्गुलिपञ्चके।
तत्तलान्तं तु ताराद्यं वर्णषट्‌कं तु विन्यसेत् ॥ 10 ॥

मूलम् - 10

विश्वास-प्रस्तुतिः - 11

वामाङ्गुष्ठात्तत्तलान्तं विन्यसेत् षट्‌कमुत्तरम्।
संहाराख्येऽक्षरं न्यस्य वामहस्ततलेऽन्तिमम् ॥ 11 ॥

मूलम् - 11

वामाङ्गुष्ठात्तत्तलान्तं विन्यसेत् षट्‌कमुत्तरम्।
संहाराख्येऽक्षरं न्यस्य वामहस्ततलेऽन्तिमम् ॥ 11 ॥

विश्वास-प्रस्तुतिः - 12

अप्ययाख्यक्रमेणैव दक्षहस्ततलावधि।
ततो वर्णगणं शेषं न्यसेत् प्रणवपश्चिमम् ॥ 12 ॥

मूलम् - 12

अप्ययाख्यक्रमेणैव दक्षहस्ततलावधि।
ततो वर्णगणं शेषं न्यसेत् प्रणवपश्चिमम् ॥ 12 ॥

विश्वास-प्रस्तुतिः - 13

तर्जन्या तत्तदङ्गुष्ठे तत्तदङ्गुष्ठकेन च।
तर्जन्यादिषु शाखासु तत्तन्मध्यमया तले ॥ 13 ॥

मूलम् - 13

तर्जन्या तत्तदङ्गुष्ठे तत्तदङ्गुष्ठकेन च।
तर्जन्यादिषु शाखासु तत्तन्मध्यमया तले ॥ 13 ॥

विश्वास-प्रस्तुतिः - 14

न्यासं कुर्याद्यथायोगं ततोऽङ्गन्यासमाचरेत्।
आरभ्य दक्षिणाङ्गुष्ठाच्छाखासु दशसु द्विज! ॥ 14 ॥

मूलम् - 14

न्यासं कुर्याद्यथायोगं ततोऽङ्गन्यासमाचरेत्।
आरभ्य दक्षिणाङ्गुष्ठाच्छाखासु दशसु द्विज! ॥ 14 ॥

विश्वास-प्रस्तुतिः - 15

क्रमाद्वामकनिष्ठान्तं दक्षिणादि तलद्वये।
हृदादिद्वादशाङ्गानि भास्वद्रूपाणि विन्यसेत् ॥ 15 ॥

मूलम् - 15

क्रमाद्वामकनिष्ठान्तं दक्षिणादि तलद्वये।
हृदादिद्वादशाङ्गानि भास्वद्रूपाणि विन्यसेत् ॥ 15 ॥

विश्वास-प्रस्तुतिः - 16

दक्षिणे मध्यतः पझं प्रस्फुरत्किरणोज्ज्वलम्।
गदां वामतले न्यस्येज्ज्वलन्तीं स्वेन तेजसा ॥ 16 ॥

मूलम् - 16

दक्षिणे मध्यतः पझं प्रस्फुरत्किरणोज्ज्वलम्।
गदां वामतले न्यस्येज्ज्वलन्तीं स्वेन तेजसा ॥ 16 ॥

विश्वास-प्रस्तुतिः - 17

दक्षे महाप्रभं चक्रं शङ्खं वामतले न्यसेत्।
किरीटं दक्षिणे हस्ते श्रीवत्सं वाममध्मतः ॥ 17 ॥

मूलम् - 17

दक्षे महाप्रभं चक्रं शङ्खं वामतले न्यसेत्।
किरीटं दक्षिणे हस्ते श्रीवत्सं वाममध्मतः ॥ 17 ॥

विश्वास-प्रस्तुतिः - 18

कौस्तुभं दक्षिणतले वनमालां तथाऽपरे।
श्रियं दक्षिणहस्ते तु पुष्टिं वामतले न्यसेत् ॥ 18 ॥

मूलम् - 18

कौस्तुभं दक्षिणतले वनमालां तथाऽपरे।
श्रियं दक्षिणहस्ते तु पुष्टिं वामतले न्यसेत् ॥ 18 ॥

विश्वास-प्रस्तुतिः - 19

अङ्गुष्ठाद्दक्षिणादादौ वामान्तं मूलदेशतः।
गारुडं विन्यसेन्मन्त्रं दशस्वङ्‌गुलिषु क्रमात् ॥ 19 ॥

मूलम् - 19

अङ्गुष्ठाद्दक्षिणादादौ वामान्तं मूलदेशतः।
गारुडं विन्यसेन्मन्त्रं दशस्वङ्‌गुलिषु क्रमात् ॥ 19 ॥

विश्वास-प्रस्तुतिः - 20

अनेन विधिना पूर्वं हस्तन्यासं समाचरेत्।
या विभोः परमा शक्तिर्हृत्पझकुहरान्तगा ॥ 20 ॥

मूलम् - 20

अनेन विधिना पूर्वं हस्तन्यासं समाचरेत्।
या विभोः परमा शक्तिर्हृत्पझकुहरान्तगा ॥ 20 ॥

विश्वास-प्रस्तुतिः - 21

वायव्यं रूपमास्थाय दशधा संव्यवस्थिता।
इच्छया स्वप्रवाहेण पाणिमार्गेण निर्गता ॥ 21 ॥

मूलम् - 21

वायव्यं रूपमास्थाय दशधा संव्यवस्थिता।
इच्छया स्वप्रवाहेण पाणिमार्गेण निर्गता ॥ 21 ॥

विश्वास-प्रस्तुतिः - 22

नाडीदशकमाश्रित्य ता एवाङ्‌गुलयो मताः।
अत एव द्विजश्रेष्ठ! शक्त्याख्ये प्रभुविग्रहे ॥ 22 ॥

मूलम् - 22

नाडीदशकमाश्रित्य ता एवाङ्‌गुलयो मताः।
अत एव द्विजश्रेष्ठ! शक्त्याख्ये प्रभुविग्रहे ॥ 22 ॥

विश्वास-प्रस्तुतिः - 23

पूर्वं मन्त्रगणं न्यस्य ततो भूतमये न्यसेत्।
विग्रहे मन्त्रसंघातं यथा तदवधारय ॥ 23 ॥

मूलम् - 23

पूर्वं मन्त्रगणं न्यस्य ततो भूतमये न्यसेत्।
विग्रहे मन्त्रसंघातं यथा तदवधारय ॥ 23 ॥

विश्वास-प्रस्तुतिः - 24

आमूर्ध्नश्चरणान्तं च द्वादशार्णं न्यसेत्तनौ।
व्यापकत्वेन विन्यस्य पादाद्‌भूयः शिरोऽन्तिमम् ॥ 24 ॥

मूलम् - 24

आमूर्ध्नश्चरणान्तं च द्वादशार्णं न्यसेत्तनौ।
व्यापकत्वेन विन्यस्य पादाद्‌भूयः शिरोऽन्तिमम् ॥ 24 ॥

विश्वास-प्रस्तुतिः - 25

सृष्टिसंस्थितिसंहारन्यासं कुर्यात्ततः परम्।
मूर्धादिपादपर्यन्तः सृष्टिन्यासः प्रकीर्तितः ॥ 25 ॥

मूलम् - 25

सृष्टिसंस्थितिसंहारन्यासं कुर्यात्ततः परम्।
मूर्धादिपादपर्यन्तः सृष्टिन्यासः प्रकीर्तितः ॥ 25 ॥

विश्वास-प्रस्तुतिः - 26

पादादिश्च शिरोऽन्तस्तु संहृतिन्यास उच्यते।
यथाऽभिलषितं कुर्यात् सर्वथा कर्तुरिच्छया ॥ 26 ॥

मूलम् - 26

पादादिश्च शिरोऽन्तस्तु संहृतिन्यास उच्यते।
यथाऽभिलषितं कुर्यात् सर्वथा कर्तुरिच्छया ॥ 26 ॥

विश्वास-प्रस्तुतिः - 27

मूर्ध्नि वक्त्रेंऽसयुग्मे च क्रमात् सव्येतरे हृदि।
पृष्ठे नाभौ तथा कट्यां जानुनोरथ पादयोः ॥ 27 ॥

मूलम् - 27

मूर्ध्नि वक्त्रेंऽसयुग्मे च क्रमात् सव्येतरे हृदि।
पृष्ठे नाभौ तथा कट्यां जानुनोरथ पादयोः ॥ 27 ॥

विश्वास-प्रस्तुतिः - 28

क्रमेण प्रणवाद्यं तु यान्तं द्वादशवर्णकम्।
विन्यसेदेष सृष्ट्याख्यो न्यासः प्रोक्तो यथार्थतः ॥ 28 ॥

मूलम् - 28

क्रमेण प्रणवाद्यं तु यान्तं द्वादशवर्णकम्।
विन्यसेदेष सृष्ट्याख्यो न्यासः प्रोक्तो यथार्थतः ॥ 28 ॥

विश्वास-प्रस्तुतिः - 29

प्रणवाद्यान्न्यसेद्वर्णान् स्थानेषु हृदयादिषु।
अह्गोपाङ्गोक्तमार्गेण स्थितिन्यासः प्रकीर्तितः ॥ 29 ॥

मूलम् - 29

प्रणवाद्यान्न्यसेद्वर्णान् स्थानेषु हृदयादिषु।
अह्गोपाङ्गोक्तमार्गेण स्थितिन्यासः प्रकीर्तितः ॥ 29 ॥

विश्वास-प्रस्तुतिः - 30

पादयोर्जानुनोः कट्यां नाभौ पृष्ठे हृदन्तरे।
सव्येतरेसयुग्मे च वक्त्रे मूल्धनि च न्यसेत् ॥ 30 ॥

मूलम् - 30

पादयोर्जानुनोः कट्यां नाभौ पृष्ठे हृदन्तरे।
सव्येतरेसयुग्मे च वक्त्रे मूल्धनि च न्यसेत् ॥ 30 ॥

विश्वास-प्रस्तुतिः - 31

यादिवर्णांस्तु तारान्तानेष संहारसंज्ञकः।
ततो हृदादिस्थानेषु अङ्गोपाह्गानि विन्यसेत् ॥ 31 ॥

मूलम् - 31

यादिवर्णांस्तु तारान्तानेष संहारसंज्ञकः।
ततो हृदादिस्थानेषु अङ्गोपाह्गानि विन्यसेत् ॥ 31 ॥

विश्वास-प्रस्तुतिः - 32

न्यसेत्तु हृदये ज्ञानं यतो व्यज्येत तत्र तत्।
ऐश्वर्यं शिरसोद्देशे यस्मादुपरि तिष्ठति ॥ 32 ॥

मूलम् - 32

न्यसेत्तु हृदये ज्ञानं यतो व्यज्येत तत्र तत्।
ऐश्वर्यं शिरसोद्देशे यस्मादुपरि तिष्ठति ॥ 32 ॥

विश्वास-प्रस्तुतिः - 33

प्राकृतं तात्विकं वाऽपि सर्वत्र मुनिसत्तम्!।
हृदग्नेरूर्ध्वगायां तु शिखायां शक्तिमन्त्रराट् ॥ 33 ॥

मूलम् - 33

प्राकृतं तात्विकं वाऽपि सर्वत्र मुनिसत्तम्!।
हृदग्नेरूर्ध्वगायां तु शिखायां शक्तिमन्त्रराट् ॥ 33 ॥

विश्वास-प्रस्तुतिः - 34

बलं चाखिलगात्राणां त्वग्गतं वायुना सह।
मूर्छितं सर्वगात्रैर्यत्तद्वीर्यं हस्तयोर्न्यसेत् ॥ 34 ॥

मूलम् - 34

बलं चाखिलगात्राणां त्वग्गतं वायुना सह।
मूर्छितं सर्वगात्रैर्यत्तद्वीर्यं हस्तयोर्न्यसेत् ॥ 34 ॥

विश्वास-प्रस्तुतिः - 35

अन्तर्बोधस्वरूपं यत् प्राकृतध्वान्तशान्तिकृत।
तेजस्तत्तैजसे स्थाने न्यासकाले समस्यते ॥ 35 ॥

मूलम् - 35

अन्तर्बोधस्वरूपं यत् प्राकृतध्वान्तशान्तिकृत।
तेजस्तत्तैजसे स्थाने न्यासकाले समस्यते ॥ 35 ॥

विश्वास-प्रस्तुतिः - 36

यथोक्तविधिना सोऽयं विधिरूर्ध्वं प्रवक्ष्यते।
ततः पझगदाचक्रशङ्खान् प्राग्वत्तु विन्यसेत् ॥ 36 ॥

मूलम् - 36

यथोक्तविधिना सोऽयं विधिरूर्ध्वं प्रवक्ष्यते।
ततः पझगदाचक्रशङ्खान् प्राग्वत्तु विन्यसेत् ॥ 36 ॥

विश्वास-प्रस्तुतिः - 37

किरीटं मूर्ध्नि विन्यस्य(स्येत्) वह्न्यर्कायुतदीधितिम्।
श्रीवत्सं वक्षसोऽवामे पूर्णेन्दुसदृशद्युतिम् ॥ 37 ॥

मूलम् - 37

विश्वास-प्रस्तुतिः - 38

कौस्तुभं हृदये न्यस्य चण्डदीधितिलक्षणम्।
नानाब्जवनपुष्पोत्थां वनमालां च कण्ठतः ॥ 38 ॥

मूलम् - 38

कौस्तुभं हृदये न्यस्य चण्डदीधितिलक्षणम्।
नानाब्जवनपुष्पोत्थां वनमालां च कण्ठतः ॥ 38 ॥

विश्वास-प्रस्तुतिः - 39

आचांसाद्धक्षिणे भागे न्यस्या श्रीरुत्तरे तथा।
पुष्टिं गुल्फावसाने च गरुडं चोरुमूलतः ॥ 39 ॥

मूलम् - 39

आचांसाद्धक्षिणे भागे न्यस्या श्रीरुत्तरे तथा।
पुष्टिं गुल्फावसाने च गरुडं चोरुमूलतः ॥ 39 ॥

विश्वास-प्रस्तुतिः - 40

भास्वद्रूपाणि चाङ्गानि चिदेकविभवानि च।
किरीटादीनि चान्यानि सर्वाण्याभरणानि च ॥ 40 ॥

मूलम् - 40

भास्वद्रूपाणि चाङ्गानि चिदेकविभवानि च।
किरीटादीनि चान्यानि सर्वाण्याभरणानि च ॥ 40 ॥

विश्वास-प्रस्तुतिः - 41

यथा प्रसिद्धरूपाणि स्वस्वकान्तिधराणि च।
मन्त्रन्यासं तु कृत्वैवं यथोद्दिष्टकमेण तु ॥ 41 ॥

मूलम् - 41

यथा प्रसिद्धरूपाणि स्वस्वकान्तिधराणि च।
मन्त्रन्यासं तु कृत्वैवं यथोद्दिष्टकमेण तु ॥ 41 ॥

विश्वास-प्रस्तुतिः - 42

आमूलमन्त्रात् सर्वासां मुद्राणां बन्धमाचरेत्।
स्वं स्वं(चो) उदीरयन्मन्त्रं परमेश्वरवत्ततः ॥ 42 ॥

मूलम् - 42

आमूलमन्त्रात् सर्वासां मुद्राणां बन्धमाचरेत्।
स्वं स्वं(चो) उदीरयन्मन्त्रं परमेश्वरवत्ततः ॥ 42 ॥

संचिन्त्य रूपमात्मीयं साभिमानं महामते!।
विश्वास-प्रस्तुतिः - 43

मूलमन्त्राभिजप्तं च कुसुमं च शिखावधौ।
स्वविग्रहे तु शिरसा दद्याद्गन्धाम्बुभावितम् ॥ 43 ॥

मूलम् - 43

मूलमन्त्राभिजप्तं च कुसुमं च शिखावधौ।
स्वविग्रहे तु शिरसा दद्याद्गन्धाम्बुभावितम् ॥ 43 ॥

इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे मन्त्रन्यासविधिर्नाम चतुर्थोऽध्यायः ॥ ****************