॥ श्रीः ॥
तृतीयोऽध्यायः
विश्वास-प्रस्तुतिः - 1
सास्त्रं दूर्वाङ्कुरं दत्वा पत्रं पुष्पं तिलांस्तु वा।
सोदकानात्मनो मूर्ध्नि शिखास्थाने च सत्तम! ॥ 1 ॥
मूलम् - 1

विश्वास-प्रस्तुतिः - 2
ततः कलशपूर्वं तु अम्बुपूर्णं तु भाजनम्।
समादायाम्बरच्छन्नं पाणिना भगवद्गृहम् ॥ 2 ॥
मूलम् - 2
ततः कलशपूर्वं तु अम्बुपूर्णं तु भाजनम्।
समादायाम्बरच्छन्नं पाणिना भगवद्गृहम् ॥ 2 ॥
विश्वास-प्रस्तुतिः - 3
एकान्तं निर्जनं यायान्मनोज्ञं दोषवर्जितम्।
अनुकूलं शुचिं दक्षं संयतं समये स्थितम् ॥ 3 ॥
मूलम् - 3
एकान्तं निर्जनं यायान्मनोज्ञं दोषवर्जितम्।
अनुकूलं शुचिं दक्षं संयतं समये स्थितम् ॥ 3 ॥
विश्वास-प्रस्तुतिः - 4
एकायनं वैदिकं वा ब्राह्मणं चार्ध्यवाहकम्।
हृन्मध्यस्थं स्मरन्मन्त्रं प्रबुद्धानन्दविग्रहम् ॥ 4 ॥
मूलम् - 4

विश्वास-प्रस्तुतिः - 5
दिगन्तरमवीक्षन् वै मौनी संरोधितानिलः।
प्राप्य स्थानं स्वमन्त्रं तं नासाग्रेण विरेचयेत् ॥ 5 ॥
मूलम् - 5

विश्वास-प्रस्तुतिः - 6
उच्चरन्द्वादशार्णं तु प्रविश्यान्तः प्रदक्षिणम्।
प्रासादोद्देशमखिलं मार्जयेत् प्रोक्षयेत्ततः ॥ 6 ॥
मूलम् - 6

विश्वास-प्रस्तुतिः - 7
परिचारैस्तु कर्तव्यं बलिपीठान्तमेव हि।
द्वाराद्बाह्ये यथाशास्त्रं शुद्धेन सलिलेन च ॥ 7 ॥
मूलम् - 7
परिचारैस्तु कर्तव्यं बलिपीठान्तमेव हि।
द्वाराद्बाह्ये यथाशास्त्रं शुद्धेन सलिलेन च ॥ 7 ॥
विश्वास-प्रस्तुतिः - 8
आजानुपादौ प्रक्षल्य हस्तौ चामणिबन्धनात्।
पूर्वोक्तेन विधानेन समाचम्योर्ध्वुण्ड्रकैः ॥ 8 ॥
मूलम् - 8
आजानुपादौ प्रक्षल्य हस्तौ चामणिबन्धनात्।
पूर्वोक्तेन विधानेन समाचम्योर्ध्वुण्ड्रकैः ॥ 8 ॥
विश्वास-प्रस्तुतिः - 9
चन्दनाद्यैः सुगन्धैर्वा धर्मक्षेत्रे विशेषतः।
पर्वताग्रे नदीतीरे सिन्धुतीरे तथैव च ॥ 9 ॥
मूलम् - 9
चन्दनाद्यैः सुगन्धैर्वा धर्मक्षेत्रे विशेषतः।
पर्वताग्रे नदीतीरे सिन्धुतीरे तथैव च ॥ 9 ॥
विश्वास-प्रस्तुतिः - 10
वल्मीके तुलसीमूले प्रशस्ता मृत्तिका द्विज!।
वश्यार्थी रक्तया श्रीच्छन् पीतया शान्तिकामिकः ॥ 10 ॥
मूलम् - 10
वल्मीके तुलसीमूले प्रशस्ता मृत्तिका द्विज!।
वश्यार्थी रक्तया श्रीच्छन् पीतया शान्तिकामिकः ॥ 10 ॥
विश्वास-प्रस्तुतिः - 11
श्यामया मोक्षकामी च श्वेतया चोर्ध्वपुण्ड्रकम्।
वर्तिदीपाकृतिं चैव वेणुपत्राकृतिं यथा ॥ 11 ॥
मूलम् - 11
श्यामया मोक्षकामी च श्वेतया चोर्ध्वपुण्ड्रकम्।
वर्तिदीपाकृतिं चैव वेणुपत्राकृतिं यथा ॥ 11 ॥
विश्वास-प्रस्तुतिः - 12
पद्मस्य मुकुलाकारमुत्पलं मुकुलाकृति।
मत्स्यकूर्माकृतिं चैव शङ्खाकारमतः परम् ॥ 12 ॥
मूलम् - 12
पद्मस्य मुकुलाकारमुत्पलं मुकुलाकृति।
मत्स्यकूर्माकृतिं चैव शङ्खाकारमतः परम् ॥ 12 ॥
विश्वास-प्रस्तुतिः - 13
पुष्टिप्रदेनाङ्गुष्ठेन तर्जन्या मुक्तिसिद्धये।
वाञ्छितार्थप्रदायिन्या मुनेऽनामिकयाऽथ वा ॥ 13 ॥
मूलम् - 13
पुष्टिप्रदेनाङ्गुष्ठेन तर्जन्या मुक्तिसिद्धये।
वाञ्छितार्थप्रदायिन्या मुनेऽनामिकयाऽथ वा ॥ 13 ॥
विश्वास-प्रस्तुतिः - 14
आयुष्कामी मध्यमया अङ्गुल्या च—अथ देवता।
एताभिरङ्गुलीभिस्तु कारयेन्न नखैः स्पृशेत् ॥ 14 ॥
मूलम् - 14
आयुष्कामी मध्यमया अङ्गुल्या च—अथ देवता।
एताभिरङ्गुलीभिस्तु कारयेन्न नखैः स्पृशेत् ॥ 14 ॥
विश्वास-प्रस्तुतिः - 15
ललाटे वासुदेवं च हृदि संकर्षणं न्यसेत्।
प्रद्युम्नं दक्षिणे चांसे अनिरुद्धोत्तरांसके ॥ 15 ॥
मूलम् - 15
ललाटे वासुदेवं च हृदि संकर्षणं न्यसेत्।
प्रद्युम्नं दक्षिणे चांसे अनिरुद्धोत्तरांसके ॥ 15 ॥
विश्वास-प्रस्तुतिः - 16
जलनिर्मथितेनैव ह्यूर्ध्वपुण्ड्रचतुष्टयम्।
ललाटे केशवं विद्यान्नारायणमथोदरे ॥ 16 ॥
मूलम् - 16
जलनिर्मथितेनैव ह्यूर्ध्वपुण्ड्रचतुष्टयम्।
ललाटे केशवं विद्यान्नारायणमथोदरे ॥ 16 ॥
विश्वास-प्रस्तुतिः - 17
माधवं हृदये कुर्याद्गोविन्दं कण्ठकूपके।
उदरे दक्षिणे पार्श्वे विष्णुरित्यभिधीयते ॥ 17 ॥
मूलम् - 17
माधवं हृदये कुर्याद्गोविन्दं कण्ठकूपके।
उदरे दक्षिणे पार्श्वे विष्णुरित्यभिधीयते ॥ 17 ॥
विश्वास-प्रस्तुतिः - 18
तत्पार्श्वे बाहुमध्ये तु मधुसूदन इष्यते।
त्रिविक्रमं काण्ठकूपे वामे कुक्षौ तु वामनम् ॥ 18 ॥
मूलम् - 18
तत्पार्श्वे बाहुमध्ये तु मधुसूदन इष्यते।
त्रिविक्रमं काण्ठकूपे वामे कुक्षौ तु वामनम् ॥ 18 ॥
विश्वास-प्रस्तुतिः - 19
श्रीधरं वामबाहौ च हृषीकेशं तु कण्ठके।
अपरे पद्मनाभं तु ककुद्दामोदरं स्मरेत् ॥ 19 ॥
मूलम् - 19
श्रीधरं वामबाहौ च हृषीकेशं तु कण्ठके।
अपरे पद्मनाभं तु ककुद्दामोदरं स्मरेत् ॥ 19 ॥
विश्वास-प्रस्तुतिः - 20
एवं द्वादशनामं(मानि) तु वासुदेवं तु मूर्धनि।
यज्ञो दानं तपो होमो भोजनं पितृकर्म च ॥ 20 ॥
मूलम् - 20
एवं द्वादशनामं(मानि) तु वासुदेवं तु मूर्धनि।
यज्ञो दानं तपो होमो भोजनं पितृकर्म च ॥ 20 ॥
विश्वास-प्रस्तुतिः - 21
तत्सर्वं निष्फलं प्रोक्तमूर्ध्वपुण्ड्रविनाकृतम्।
तस्मात्सर्वप्रयत्नेन धारयेत्सर्वसिद्धिदम् ॥ 21 ॥
मूलम् - 21
तत्सर्वं निष्फलं प्रोक्तमूर्ध्वपुण्ड्रविनाकृतम्।
तस्मात्सर्वप्रयत्नेन धारयेत्सर्वसिद्धिदम् ॥ 21 ॥
विश्वास-प्रस्तुतिः - 22
चतुरङ्गुलमग्रं तु सदाविष्ण्वधिदैवतम्।
महाविष्ण्वधिदैवस्तु ग्रन्थिरेकाङ्गुलो भवेत् ॥ 22 ॥
मूलम् - 22
चतुरङ्गुलमग्रं तु सदाविष्ण्वधिदैवतम्।
महाविष्ण्वधिदैवस्तु ग्रन्थिरेकाङ्गुलो भवेत् ॥ 22 ॥
विश्वास-प्रस्तुतिः - 23
विष्ण्व(वा)धिदैवं वलयं द्वयमङ्गुलमुच्यते।
पवित्रं हस्तयुग्मे चानामिकायां नियोजयेत् ॥ 23 ॥
मूलम् - 23
विष्ण्व(वा)धिदैवं वलयं द्वयमङ्गुलमुच्यते।
पवित्रं हस्तयुग्मे चानामिकायां नियोजयेत् ॥ 23 ॥
विश्वास-प्रस्तुतिः - 24
दर्भैर्विना तु यत्स्नानं विना नैवेद्यमर्चनम्।
विनोदकं तु यद्दानं तत्सर्वं निष्फलं भवेत् ॥ 24 ॥
मूलम् - 24
दर्भैर्विना तु यत्स्नानं विना नैवेद्यमर्चनम्।
विनोदकं तु यद्दानं तत्सर्वं निष्फलं भवेत् ॥ 24 ॥
विश्वास-प्रस्तुतिः - 25
अर्चनं जपहोमौ च दानं च पितृतर्पणम्।
अपवित्रानुपाणिश्चेत् तत्सर्वं च विनश्यति ॥ 25 ॥
मूलम् - 25
अर्चनं जपहोमौ च दानं च पितृतर्पणम्।
अपवित्रानुपाणिश्चेत् तत्सर्वं च विनश्यति ॥ 25 ॥
विश्वास-प्रस्तुतिः - 26
तस्मात् सर्वप्रयत्नेन सदा धार्यं पवित्रकम्।
गन्धैः स्रग्भिरलङ्कारै सोत्तरीयैश्च भूषितः ॥ 26 ॥
मूलम् - 26
तस्मात् सर्वप्रयत्नेन सदा धार्यं पवित्रकम्।
गन्धैः स्रग्भिरलङ्कारै सोत्तरीयैश्च भूषितः ॥ 26 ॥
विश्वास-प्रस्तुतिः - 27
कर्णभूषणहाराद्यैः कटकैरङ्गुलीयकैः।
अलाभे त्वङ्गुलीयेन अलङ्कृत्य तु साधकः ॥ 27 ॥
मूलम् - 27
कर्णभूषणहाराद्यैः कटकैरङ्गुलीयकैः।
अलाभे त्वङ्गुलीयेन अलङ्कृत्य तु साधकः ॥ 27 ॥
विश्वास-प्रस्तुतिः - 28
वदनं नासिकारन्ध्रे स्थगयित्वाऽम्बरेण तु।
स्वश्वासोपहतं चैव न भवेच्च यथा द्विज! ॥ 28 ॥
मूलम् - 28
वदनं नासिकारन्ध्रे स्थगयित्वाऽम्बरेण तु।
स्वश्वासोपहतं चैव न भवेच्च यथा द्विज! ॥ 28 ॥
विश्वास-प्रस्तुतिः - 29
शुक्लवासाः सुवेषश्च शुक्लदन्तः शुचिव्रतः।
ताम्बूलशुद्धवदनो ललाटे चाक्षतैर्युतः ॥ 29 ॥
मूलम् - 29
शुक्लवासाः सुवेषश्च शुक्लदन्तः शुचिव्रतः।
ताम्बूलशुद्धवदनो ललाटे चाक्षतैर्युतः ॥ 29 ॥
विश्वास-प्रस्तुतिः - 30
एवमुक्तगुणैर्युक्तो बोधयेत् पुरुषोत्तमम्।
शङ्खध्वनिसमोपेतं दुन्दुभीपटहस्वनैः ॥ 30 ॥
मूलम् - 30
एवमुक्तगुणैर्युक्तो बोधयेत् पुरुषोत्तमम्।
शङ्खध्वनिसमोपेतं दुन्दुभीपटहस्वनैः ॥ 30 ॥
विश्वास-प्रस्तुतिः - 31
वन्दिबृन्दोत्थितोच्चाबिर्नानावाग्भिर्महामते!।
महाजयजयारावैः पुनःपुनरुदीरितैः ॥ 31 ॥
मूलम् - 31
वन्दिबृन्दोत्थितोच्चाबिर्नानावाग्भिर्महामते!।
महाजयजयारावैः पुनःपुनरुदीरितैः ॥ 31 ॥
विश्वास-प्रस्तुतिः - 32
प्रवोधलक्षणैः स्तोत्रैरुत्थाप्य शयनात्ततः।
द्वारमासाद्य तत्रस्थो दशदिग्बन्धपूर्वकम् ॥ 32 ॥
मूलम् - 32
प्रवोधलक्षणैः स्तोत्रैरुत्थाप्य शयनात्ततः।
द्वारमासाद्य तत्रस्थो दशदिग्बन्धपूर्वकम् ॥ 32 ॥
विश्वास-प्रस्तुतिः - 33
अवकुण्ठ्याथ तर्जन्या मन्त्रं कवचमुच्चरन्।
स्थिते वा कल्पिते तत्र पूजयेद्बलिमण्डले ॥ 33 ॥
मूलम् - 33
अवकुण्ठ्याथ तर्जन्या मन्त्रं कवचमुच्चरन्।
स्थिते वा कल्पिते तत्र पूजयेद्बलिमण्डले ॥ 33 ॥
विश्वास-प्रस्तुतिः - 34
सर्वं खगेशपूर्वं तु परिवारं हि साच्युतम्।
नमसा प्रणवाद्येन पुष्पमादाय कीर्तयेत् ॥ 34 ॥
मूलम् - 34
सर्वं खगेशपूर्वं तु परिवारं हि साच्युतम्।
नमसा प्रणवाद्येन पुष्पमादाय कीर्तयेत् ॥ 34 ॥
विश्वास-प्रस्तुतिः - 35
समस्तपरिवाराय अच्युताय नमो नमः।
वास्तुपूरुषमन्यांश्च समभ्यर्च्य यथाक्रमम् ॥ 35 ॥
मूलम् - 35
समस्तपरिवाराय अच्युताय नमो नमः।
वास्तुपूरुषमन्यांश्च समभ्यर्च्य यथाक्रमम् ॥ 35 ॥
विश्वास-प्रस्तुतिः - 36
मूलमन्त्रेण साङ्गेन निरङ्गेनाथवा ततः।
न्यासं कगृत्वा त्रिराचार्यो हस्ततालं हृदा ततः ॥ 36 ॥
मूलम् - 36
मूलमन्त्रेण साङ्गेन निरङ्गेनाथवा ततः।
न्यासं कगृत्वा त्रिराचार्यो हस्ततालं हृदा ततः ॥ 36 ॥
विश्वास-प्रस्तुतिः - 37
मूलमन्त्रेण चोद्धाट्य कवाटं नेत्रमन्त्रतः।
नित्यदीपांस्ततोज्ज्वाल्य हस्तौ प्रक्षाल्य वारिणा ॥ 37 ॥
मूलम् - 37
मूलमन्त्रेण चोद्धाट्य कवाटं नेत्रमन्त्रतः।
नित्यदीपांस्ततोज्ज्वाल्य हस्तौ प्रक्षाल्य वारिणा ॥ 37 ॥
विश्वास-प्रस्तुतिः - 38
प्रासादादि यदा न स्यात्तदा देशं मनोहरम्।
आसाद्य कल्पयेन्मान्त्रं गृहं तदधुनोच्यते ॥ 38 ॥
मूलम् - 38
प्रासादादि यदा न स्यात्तदा देशं मनोहरम्।
आसाद्य कल्पयेन्मान्त्रं गृहं तदधुनोच्यते ॥ 38 ॥
विश्वास-प्रस्तुतिः - 39
मूलमन्त्रं पुरा ध्यायेद्ब्रह्मवत् सर्वगं ततः।
विदिक्षु दिक्षु मध्ये च ज्वलन्तं भानुकोटिवत् ॥ 39 ॥
मूलम् - 39
मूलमन्त्रं पुरा ध्यायेद्ब्रह्मवत् सर्वगं ततः।
विदिक्षु दिक्षु मध्ये च ज्वलन्तं भानुकोटिवत् ॥ 39 ॥
विश्वास-प्रस्तुतिः - 40
हृन्मन्त्रं च तदन्तस्थमाक्रम्याखिलमात्मना।
शिरोमन्त्रं च तन्मध्ये ब्रह्मनाडीस्वरूपिणम् ॥ 40 ॥
मूलम् - 40
हृन्मन्त्रं च तदन्तस्थमाक्रम्याखिलमात्मना।
शिरोमन्त्रं च तन्मध्ये ब्रह्मनाडीस्वरूपिणम् ॥ 40 ॥
विश्वास-प्रस्तुतिः - 41
स्तम्भभूतं तु विश्वस्य संचाराध्ववदुज्ज्वलम्।
शिखामन्त्रं च सर्वस्माद्बहिः प्रकारवत् स्थितम् ॥ 41 ॥
मूलम् - 41
स्तम्भभूतं तु विश्वस्य संचाराध्ववदुज्ज्वलम्।
शिखामन्त्रं च सर्वस्माद्बहिः प्रकारवत् स्थितम् ॥ 41 ॥
विश्वास-प्रस्तुतिः - 42
वर्ममन्त्रं तु कर्मात्मा(त्म)परमात्मानुवेधयेत्।
गवाक्षद्वारभूतं च नेत्रमन्त्रं च भावयेत् ॥ 42 ॥
मूलम् - 42
वर्ममन्त्रं तु कर्मात्मा(त्म)परमात्मानुवेधयेत्।
गवाक्षद्वारभूतं च नेत्रमन्त्रं च भावयेत् ॥ 42 ॥
विश्वास-प्रस्तुतिः - 43
स्फुरद्वह्निस्फुलिङ्गोर्मिसहस्रपरिराजितम्।
सर्वविघ्नप्रशमनं बहिरस्त्रं च भावयेत् ॥ 43 ॥
मूलम् - 43
स्फुरद्वह्निस्फुलिङ्गोर्मिसहस्रपरिराजितम्।
सर्वविघ्नप्रशमनं बहिरस्त्रं च भावयेत् ॥ 43 ॥
विश्वास-प्रस्तुतिः - 44
एवं (म)मान्त्रगृहं ध्यात्वा ततो द्वारं तु चेतसा।
त्रिभागीकृत्य तन्मध्ये भागमेकं द्विधा पुनः ॥ 44 ॥
मूलम् - 44
एवं (म)मान्त्रगृहं ध्यात्वा ततो द्वारं तु चेतसा।
त्रिभागीकृत्य तन्मध्ये भागमेकं द्विधा पुनः ॥ 44 ॥
विश्वास-प्रस्तुतिः - 45
विभज्य वामदेशेन दक्षिणेनाङ्घ्रिणा ततः।
शनैः शनै प्रविश्यान्तः सास्त्रमन्त्रेण तेन वै ॥ 45 ॥
मूलम् - 45
विभज्य वामदेशेन दक्षिणेनाङ्घ्रिणा ततः।
शनैः शनै प्रविश्यान्तः सास्त्रमन्त्रेण तेन वै ॥ 45 ॥
विश्वास-प्रस्तुतिः - 46
धरणीहननं कृत्वा भगवन्तं प्रणम्य च।
मनसा गुरुवंशं च तदाज्ञां मानसीमथ ॥ 46 ॥
मूलम् - 46
धरणीहननं कृत्वा भगवन्तं प्रणम्य च।
मनसा गुरुवंशं च तदाज्ञां मानसीमथ ॥ 46 ॥
विश्वास-प्रस्तुतिः - 47
शिरसा धारयेत् स्वेष्टं फलं संकल्प्य चेतसा।
देवाय च निवेद्यै(तान्) तत् यागागारस्य मध्यतः ॥ 47 ॥
मूलम् - 47
शिरसा धारयेत् स्वेष्टं फलं संकल्प्य चेतसा।
देवाय च निवेद्यै(तान्) तत् यागागारस्य मध्यतः ॥ 47 ॥
विश्वास-प्रस्तुतिः - 48
प्रासादं विग्रहं क्लृप्त्वा वर्ममन्त्रं सविग्रहम्।
तज्जीवं भगवन्तं च ध्यात्वा यागगृहं ततः ॥ 48 ॥
मूलम् - 48
प्रासादं विग्रहं क्लृप्त्वा वर्ममन्त्रं सविग्रहम्।
तज्जीवं भगवन्तं च ध्यात्वा यागगृहं ततः ॥ 48 ॥
विश्वास-प्रस्तुतिः - 49
सशलाकैस्ततो दर्भैः सहदेवीविमिश्रितैः।
संमार्ज्य बहुतोयेन प्रक्षाल्याऽऽलिप्य गोमयैः ॥ 49 ॥
मूलम् - 49
सशलाकैस्ततो दर्भैः सहदेवीविमिश्रितैः।
संमार्ज्य बहुतोयेन प्रक्षाल्याऽऽलिप्य गोमयैः ॥ 49 ॥
विश्वास-प्रस्तुतिः - 50
गोमयं च नवं ग्राह्यं भूमिष्ठं धेनुसंभवम्।
सजलं शिथिलं शुष्कं कीठवच्च विवर्जयेत् ॥ 50 ॥
मूलम् - 50
गोमयं च नवं ग्राह्यं भूमिष्ठं धेनुसंभवम्।
सजलं शिथिलं शुष्कं कीठवच्च विवर्जयेत् ॥ 50 ॥
विश्वास-प्रस्तुतिः - 51
उपलिप्तमथास्त्रेण संविध्य शकलं त्यजेत्।
पञ्चगव्येन सास्त्रेण वारा(रिणा)वा प्रोक्ष्य चन्दनैः ॥ 51 ॥
मूलम् - 51
उपलिप्तमथास्त्रेण संविध्य शकलं त्यजेत्।
पञ्चगव्येन सास्त्रेण वारा(रिणा)वा प्रोक्ष्य चन्दनैः ॥ 51 ॥
विश्वास-प्रस्तुतिः - 52
कुङ्कुमागरुकर्पूरैः समालिप्य समन्ततः।
कुशदूर्वाक्षतांश्चैव विकिरेत् स्थानशुद्धये ॥ 52 ॥
मूलम् - 52
कुङ्कुमागरुकर्पूरैः समालिप्य समन्ततः।
कुशदूर्वाक्षतांश्चैव विकिरेत् स्थानशुद्धये ॥ 52 ॥
विश्वास-प्रस्तुतिः - 53
प्रासादं शोधयित्वा तु ततो मौनपरो द्विज!।
देवेशस्याग्रतो वाऽपि दक्षिणं भागमाश्रयेत् ॥ 53 ॥
मूलम् - 53
प्रासादं शोधयित्वा तु ततो मौनपरो द्विज!।
देवेशस्याग्रतो वाऽपि दक्षिणं भागमाश्रयेत् ॥ 53 ॥
विश्वास-प्रस्तुतिः - 54
दर्भे चर्मणि वस्त्रे वा फलके यज्ञकाष्ठजे।
स्वासनं न्यस्यनं वार्भि(चाद्भि)श्च मूलमन्त्राभिमन्त्रितैः ॥ 54 ॥
मूलम् - 54

विश्वास-प्रस्तुतिः - 55
प्रोक्ष्य छोटिकयाऽस्त्रेण दद्यात्तच्छुद्धये पुनः।
तुर्यादीनां तु तत्रैकं भावयेदासनं त्वथ ॥ 55 ॥
मूलम् - 55
प्रोक्ष्य छोटिकयाऽस्त्रेण दद्यात्तच्छुद्धये पुनः।
तुर्यादीनां तु तत्रैकं भावयेदासनं त्वथ ॥ 55 ॥
विश्वास-प्रस्तुतिः - 56
तुर्यं नामऽऽसनं पूर्वं कारणप्रणवा(न्वयः)न्वितम्।
सुषुप्तिर्नाम तद्व्याप्ताव्यक्तपङ्कजसंस्थितिः ॥ 56 ॥
मूलम् - 56

विश्वास-प्रस्तुतिः - 57
स्वप्नः शेषाहिपूर्वं तु वह्निपर्यन्तमासनम्।
क्षीरार्णवादितो भावासनान्तं जाग्रदासनम् ॥ 57 ॥
मूलम् - 57
स्वप्नः शेषाहिपूर्वं तु वह्निपर्यन्तमासनम्।
क्षीरार्णवादितो भावासनान्तं जाग्रदासनम् ॥ 57 ॥
विश्वास-प्रस्तुतिः - 58
तत्र सुप्तं(प्तिं) तुरीयं वा करशुद्धेः पुरा स्मरेत्।
स्वप्नं मानसयागात्तु पूर्वं तुर्योक्तकालतः ॥ 58 ॥
मूलम् - 58

विश्वास-प्रस्तुतिः - 59
जाग्रदासनकल्पे तु विशेषो गृह्यतामयम्।
स्वदेहमन्त्रविन्यासात् पूर्वमब्ध्यादिकं त्रयम् ॥ 59 ॥
मूलम् - 59
जाग्रदासनकल्पे तु विशेषो गृह्यतामयम्।
स्वदेहमन्त्रविन्यासात् पूर्वमब्ध्यादिकं त्रयम् ॥ 59 ॥
विश्वास-प्रस्तुतिः - 60
न्यसेदस्त्राम्बुना प्रोक्ष्य ताडयित्वाऽस्त्रपुष्पतः।
तत्रैव भगवद्योगपीठार्चायाः पुरोत्तिरम् ॥ 60 ॥
मूलम् - 60
न्यसेदस्त्राम्बुना प्रोक्ष्य ताडयित्वाऽस्त्रपुष्पतः।
तत्रैव भगवद्योगपीठार्चायाः पुरोत्तिरम् ॥ 60 ॥
विश्वास-प्रस्तुतिः - 61
न्यसेदाधारशक्त्यादि भावपीठान्तमासनम्।
प्रणवेनाथ तद्व्याप्तिं स्मृत्वा स्वार्णेन तेन वै ॥ 61 ॥
मूलम् - 61
न्यसेदाधारशक्त्यादि भावपीठान्तमासनम्।
प्रणवेनाथ तद्व्याप्तिं स्मृत्वा स्वार्णेन तेन वै ॥ 61 ॥
विश्वास-प्रस्तुतिः - 62
अभ्यर्च्य तदुपर्यास्यपद्माद्येकतमान्वितम्।
यागोपस्करसंभूतौ भगवन्तमनुस्मरन् ॥ 62 ॥
मूलम् - 62
अभ्यर्च्य तदुपर्यास्यपद्माद्येकतमान्वितम्।
यागोपस्करसंभूतौ भगवन्तमनुस्मरन् ॥ 62 ॥
विश्वास-प्रस्तुतिः - 63
विनीतान् शिष्यपुत्रादीन् स्नातानाज्ञापयेत्तदा।
पात्रशुद्धिं ततः कुर्याद्यथा तच्छृणु सत्तम! ॥ 63 ॥
मूलम् - 63
विनीतान् शिष्यपुत्रादीन् स्नातानाज्ञापयेत्तदा।
पात्रशुद्धिं ततः कुर्याद्यथा तच्छृणु सत्तम! ॥ 63 ॥
विश्वास-प्रस्तुतिः - 64
अम्लकल्केन तोयेन हेमं ताम्रं च शोधयेत्।
राजतं गृहधूमेन शान्ताङ्गारेण वा पुनः ॥ 64 ॥
मूलम् - 64
अम्लकल्केन तोयेन हेमं ताम्रं च शोधयेत्।
राजतं गृहधूमेन शान्ताङ्गारेण वा पुनः ॥ 64 ॥
विश्वास-प्रस्तुतिः - 65
भस्ममिश्रेण तोयेन लोहयुक्तं बिशोधयेत्।
शङ्खशुक्तिमयानां च लवणेव विशोधयेत् ॥ 65 ॥
मूलम् - 65
भस्ममिश्रेण तोयेन लोहयुक्तं बिशोधयेत्।
शङ्खशुक्तिमयानां च लवणेव विशोधयेत् ॥ 65 ॥
विश्वास-प्रस्तुतिः - 66
फलपत्रमयानां च मृद्भिरद्भिश्च शोधयेत्।
लेपगन्धापनोदेन शुद्धिर्भवति कारयेत् ॥ 66 ॥
मूलम् - 66
फलपत्रमयानां च मृद्भिरद्भिश्च शोधयेत्।
लेपगन्धापनोदेन शुद्धिर्भवति कारयेत् ॥ 66 ॥
विश्वास-प्रस्तुतिः - 67
द्रव्यशुद्धिर्भवत्येवं यथावद्विधि चोदिता।
अथार्कोदयकालस्य पूर्वं कर्म समारभेत् ॥ 67 ॥
मूलम् - 67
द्रव्यशुद्धिर्भवत्येवं यथावद्विधि चोदिता।
अथार्कोदयकालस्य पूर्वं कर्म समारभेत् ॥ 67 ॥
विश्वास-प्रस्तुतिः - 68
प्रच्छन्नपटसंयुक्तं पूजाकाले प्रपूजयेत्।
पापिष्ठानाश्रमभ्रष्टान्नास्तिकान् वै न दर्शयेत् ॥ 68 ॥
मूलम् - 68
प्रच्छन्नपटसंयुक्तं पूजाकाले प्रपूजयेत्।
पापिष्ठानाश्रमभ्रष्टान्नास्तिकान् वै न दर्शयेत् ॥ 68 ॥
विश्वास-प्रस्तुतिः - 69
आगमार्थं च देवानां गमनार्थं च रक्षसाम्।
कुर्याद्घण्टारवं तत्र देवताह्वानलाञ्छनम् ॥ 69 ॥
मूलम् - 69
आगमार्थं च देवानां गमनार्थं च रक्षसाम्।
कुर्याद्घण्टारवं तत्र देवताह्वानलाञ्छनम् ॥ 69 ॥
विश्वास-प्रस्तुतिः - 70
शङ्खादिघोषसंयुक्तं गेयवाद्यसमन्वितम्।
आवाहने तथाऽभ्यङ्गे स्नानारम्भावसानयोः ॥ 70 ॥
मूलम् - 70
शङ्खादिघोषसंयुक्तं गेयवाद्यसमन्वितम्।
आवाहने तथाऽभ्यङ्गे स्नानारम्भावसानयोः ॥ 70 ॥
विश्वास-प्रस्तुतिः - 71
तथा तिलकदाने च दीपे मात्रानिवेदने।
नीराजने त्वाहरणे नैवेद्यस्य महानसात् ॥ 71 ॥
मूलम् - 71
तथा तिलकदाने च दीपे मात्रानिवेदने।
नीराजने त्वाहरणे नैवेद्यस्य महानसात् ॥ 71 ॥
विश्वास-प्रस्तुतिः - 72
तन्निवेदनकाले तु पूर्णाहुत्यवसानके।
जलाहरणकाले च यानारोहावरोहयोः ॥ 72 ॥
मूलम् - 72
तन्निवेदनकाले तु पूर्णाहुत्यवसानके।
जलाहरणकाले च यानारोहावरोहयोः ॥ 72 ॥
विश्वास-प्रस्तुतिः - 73
कवाटयोर्विघटने तथा बन्धे द्विजोत्तम!।
एतेषु नित्यकालेषु शङ्खमापूरयेत् त्रिधा ॥ 73 ॥
मूलम् - 73
कवाटयोर्विघटने तथा बन्धे द्विजोत्तम!।
एतेषु नित्यकालेषु शङ्खमापूरयेत् त्रिधा ॥ 73 ॥
विश्वास-प्रस्तुतिः - 74
प्रवृत्तस्यार्चने विष्णोः कृतमौनस्य तत्वतः।
तस्याविक्षिप्तबुद्धेर्वै वाग्दानं सुविरोधकृत् ॥ 74 ॥
मूलम् - 74
प्रवृत्तस्यार्चने विष्णोः कृतमौनस्य तत्वतः।
तस्याविक्षिप्तबुद्धेर्वै वाग्दानं सुविरोधकृत् ॥ 74 ॥
विश्वास-प्रस्तुतिः - 75
अतः सव्यभिचारं तु मौनं वर्ज्यं क्रियापरैः।
शुभमव्यभिचारं यत्तत्कार्यं सर्ववस्तुषु ॥ 75 ॥
मूलम् - 75
अतः सव्यभिचारं तु मौनं वर्ज्यं क्रियापरैः।
शुभमव्यभिचारं यत्तत्कार्यं सर्ववस्तुषु ॥ 75 ॥
विश्वास-प्रस्तुतिः - 76
यदङ्गसंकेतमयैरव्यक्तैर्नासिकाक्षरैः।
कृतमोष्ठपुटैर्बद्धैर्मौनं तत्सिद्धिहानिकृत् ॥ 76 ॥
मूलम् - 76
यदङ्गसंकेतमयैरव्यक्तैर्नासिकाक्षरैः।
कृतमोष्ठपुटैर्बद्धैर्मौनं तत्सिद्धिहानिकृत् ॥ 76 ॥
विश्वास-प्रस्तुतिः - 77
स्वयमेव स्वबुद्ध्या यत्सर्ववस्तुषु वर्तते।
शब्दैरनुपदिष्टैस्तु तन्मौनं सर्वसिद्धिदम् ॥ 77 ॥
मूलम् - 77
स्वयमेव स्वबुद्ध्या यत्सर्ववस्तुषु वर्तते।
शब्दैरनुपदिष्टैस्तु तन्मौनं सर्वसिद्धिदम् ॥ 77 ॥
विश्वास-प्रस्तुतिः - 78
करशुद्धिं ततः कुर्याद्यथाव(त)दवधारय।
द्वे तले हस्तपृष्ठे द्वे सर्वाश्चाङ्गुलयस्तथा ॥ 78 ॥
मूलम् - 78
करशुद्धिं ततः कुर्याद्यथाव(त)दवधारय।
द्वे तले हस्तपृष्ठे द्वे सर्वाश्चाङ्गुलयस्तथा ॥ 78 ॥
विश्वास-प्रस्तुतिः - 79
अस्त्रमन्त्रेण संशोध्य ध्यानमुद्रान्वितेन तु।
कृत्वैवं करशुद्धिं च स्थानशुद्धिं समाचरेत् ॥ 79 ॥
मूलम् - 79
अस्त्रमन्त्रेण संशोध्य ध्यानमुद्रान्वितेन तु।
कृत्वैवं करशुद्धिं च स्थानशुद्धिं समाचरेत् ॥ 79 ॥
विश्वास-प्रस्तुतिः - 80
ध्यात्वा देवं ज्वलद्रपं सहस्रार्कसमप्रभम्।
ज्वालाकोटिसमाकीर्णं वमन्तं ज्वलनं मुखात् ॥ 80 ॥
मूलम् - 80
ध्यात्वा देवं ज्वलद्रपं सहस्रार्कसमप्रभम्।
ज्वालाकोटिसमाकीर्णं वमन्तं ज्वलनं मुखात् ॥ 80 ॥
विश्वास-प्रस्तुतिः - 81
तेन संपूरयेत् सर्वमाब्रह्मभवनान्तिमम्।
दिगोघं प्रज्वलन्तं च भावयेन्मन्त्रतेजसा ॥ 81 ॥
मूलम् - 81
तेन संपूरयेत् सर्वमाब्रह्मभवनान्तिमम्।
दिगोघं प्रज्वलन्तं च भावयेन्मन्त्रतेजसा ॥ 81 ॥
विश्वास-प्रस्तुतिः - 82
क्ष्मामण्डलमिदं सर्वं स्मरेत् पक्वं च वह्निना।
मन्त्रजेन द्विजश्रेष्ठ! मृण्मयं भाजनं यथा ॥ 82 ॥
मूलम् - 82
क्ष्मामण्डलमिदं सर्वं स्मरेत् पक्वं च वह्निना।
मन्त्रजेन द्विजश्रेष्ठ! मृण्मयं भाजनं यथा ॥ 82 ॥
विश्वास-प्रस्तुतिः - 83
स्थानशुद्धिर्भवत्येवं सुधाकल्लोलसेचनात्।
भावयेदथ दिग्बन्धं कुर्यादास्ये तु पावकम् ॥ 83 ॥
मूलम् - 83
स्थानशुद्धिर्भवत्येवं सुधाकल्लोलसेचनात्।
भावयेदथ दिग्बन्धं कुर्यादास्ये तु पावकम् ॥ 83 ॥
विश्वास-प्रस्तुतिः - 84
किरन्तमस्त्रमन्त्रं च बाहुभ्यां दक्षिणेन वा।
दिग्विदिक्षु च सर्वत्र विरेच्य स्वासनाद्बहिः ॥ 84 ॥
मूलम् - 84
किरन्तमस्त्रमन्त्रं च बाहुभ्यां दक्षिणेन वा।
दिग्विदिक्षु च सर्वत्र विरेच्य स्वासनाद्बहिः ॥ 84 ॥
विश्वास-प्रस्तुतिः - 85
शरजालचिताकारं प्राकारं बन्धयेद्बुधः।
यद्वा तु पूर्ववत् कुर्याद्दिग्बन्धं हृदयादिकैः ॥ 85 ॥
मूलम् - 85
शरजालचिताकारं प्राकारं बन्धयेद्बुधः।
यद्वा तु पूर्ववत् कुर्याद्दिग्बन्धं हृदयादिकैः ॥ 85 ॥
विश्वास-प्रस्तुतिः - 86
अस्त्रेण वै विदिग्बन्धं नेत्रेण तु अथोर्ध्वतः।
आदित्यायुतदीप्तेन ज्वलत्कञ्चुकरूपिणा ॥ 86 ॥
मूलम् - 86
अस्त्रेण वै विदिग्बन्धं नेत्रेण तु अथोर्ध्वतः।
आदित्यायुतदीप्तेन ज्वलत्कञ्चुकरूपिणा ॥ 86 ॥
विश्वास-प्रस्तुतिः - 87
कवचेन तु तर्जन्या रक्षार्थमवकुण्ठयेत्।
एवं कृत्वा तु दिग्बन्धं प्राणायाममथारभेत् ॥ 87 ॥
मूलम् - 87
कवचेन तु तर्जन्या रक्षार्थमवकुण्ठयेत्।
एवं कृत्वा तु दिग्बन्धं प्राणायाममथारभेत् ॥ 87 ॥
विश्वास-प्रस्तुतिः - 88
प्रमाथिनो दृढस्याथ चञ्चलस्य तु चेतसः।
समाधियोग्यतासिद्ध्यै प्राणादिविजयाय च ॥ 88 ॥
मूलम् - 88
प्रमाथिनो दृढस्याथ चञ्चलस्य तु चेतसः।
समाधियोग्यतासिद्ध्यै प्राणादिविजयाय च ॥ 88 ॥
विश्वास-प्रस्तुतिः - 89
तमोनि(बर्हणार्थं च)र्हरणार्थाश्च कुर्यात् प्राणायतीरथ।
शरीरे नाडिसंस्थानं तथा प्राणादिसंस्थितम् ॥ 89 ॥
मूलम् - 89

विश्वास-प्रस्तुतिः - 90
प्राणायामस्वरूपं च ज्ञात्वा यामान् समाचरेत्।
नाडीचक्रं प्रवक्ष्यामि यथावन्मुनिपुङ्गव! ॥ 90 ॥
मूलम् - 90
प्राणायामस्वरूपं च ज्ञात्वा यामान् समाचरेत्।
नाडीचक्रं प्रवक्ष्यामि यथावन्मुनिपुङ्गव! ॥ 90 ॥
विश्वास-प्रस्तुतिः - 91
नाडीनां कन्दनाभिः स्यादुत्पत्तिस्थानमुत्तमम्।
द्विसप्ततिसहस्राणि नाडयोऽन्तर्व्यवस्थिताः ॥ 91 ॥
मूलम् - 91
नाडीनां कन्दनाभिः स्यादुत्पत्तिस्थानमुत्तमम्।
द्विसप्ततिसहस्राणि नाडयोऽन्तर्व्यवस्थिताः ॥ 91 ॥
विश्वास-प्रस्तुतिः - 92
तिर्यगूर्ध्वमधश्चैव देहं व्याप्य व्यवस्थिताः।
आग्नेयाः सौम्यरूपाश्च सौम्याग्नेयास्तथैव च ॥ 92 ॥
मूलम् - 92
तिर्यगूर्ध्वमधश्चैव देहं व्याप्य व्यवस्थिताः।
आग्नेयाः सौम्यरूपाश्च सौम्याग्नेयास्तथैव च ॥ 92 ॥
विश्वास-प्रस्तुतिः - 93
आग्नेया ऊर्ध्ववदनाः सौम्यसंज्ञा अधोमुखाः।
तिर्यग्गता नाडयस्तु सौम्याग्नेया उदाहृताः ॥ 93 ॥
मूलम् - 93
आग्नेया ऊर्ध्ववदनाः सौम्यसंज्ञा अधोमुखाः।
तिर्यग्गता नाडयस्तु सौम्याग्नेया उदाहृताः ॥ 93 ॥
विश्वास-प्रस्तुतिः - 94
नाडीनामपि सर्वासां प्रधाना दश नाडयः।
इडा च पिङ्गला चैव सुषुम्ना चोर्ध्वगामिनी ॥ 94 ॥
मूलम् - 94
नाडीनामपि सर्वासां प्रधाना दश नाडयः।
इडा च पिङ्गला चैव सुषुम्ना चोर्ध्वगामिनी ॥ 94 ॥
विश्वास-प्रस्तुतिः - 95
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी।
अलम्बुसा कुहूश्चैव को(के)शिनी दशमी स्मृता ॥ 95 ॥
मूलम् - 95
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी।
अलम्बुसा कुहूश्चैव को(के)शिनी दशमी स्मृता ॥ 95 ॥
विश्वास-प्रस्तुतिः - 96
सुषुम्नाख्या मध्यनाडी कन्दादूर्ध्वप्रवाहिनी।
मध्यनाड्याः सुषुम्नाया वामदक्षिणतः स्थिते ॥ 96 ॥
मूलम् - 96
सुषुम्नाख्या मध्यनाडी कन्दादूर्ध्वप्रवाहिनी।
मध्यनाड्याः सुषुम्नाया वामदक्षिणतः स्थिते ॥ 96 ॥
विश्वास-प्रस्तुतिः - 97
इडपिङ्गलसंज्ञे द्वे ते तु नासापुटावधी।
पुरतः पृष्ठतस्तस्या गान्धारी हस्तिजिह्वके ॥ 97 ॥
मूलम् - 97
इडपिङ्गलसंज्ञे द्वे ते तु नासापुटावधी।
पुरतः पृष्ठतस्तस्या गान्धारी हस्तिजिह्वके ॥ 97 ॥
विश्वास-प्रस्तुतिः - 98
वामेतराक्ष्यवधिके कन्ददेशात् समुत्थिते।
पूषायशस्विन्याख्ये द्वे सव्यान्यश्रोत्रनिष्ठिते ॥ 98 ॥
मूलम् - 98
वामेतराक्ष्यवधिके कन्ददेशात् समुत्थिते।
पूषायशस्विन्याख्ये द्वे सव्यान्यश्रोत्रनिष्ठिते ॥ 98 ॥
विश्वास-प्रस्तुतिः - 99
कन्दाद्वै पादमूलान्ता संस्थिता स्यादलम्बुसा।
कुहूर्मेढ्रान्तपर्यन्ता पादाङ्गुष्ठे तु कोशिनी ॥ 99 ॥
मूलम् - 99
कन्दाद्वै पादमूलान्ता संस्थिता स्यादलम्बुसा।
कुहूर्मेढ्रान्तपर्यन्ता पादाङ्गुष्ठे तु कोशिनी ॥ 99 ॥
विश्वास-प्रस्तुतिः - 100
शुक्लेडा पिङ्गला रक्ता गान्धारी पीतवर्णका।
हस्तिजिह्वा कृष्णरूपा पूषा स्यात् कृष्णपीतका ॥ 100 ॥
मूलम् - 100
शुक्लेडा पिङ्गला रक्ता गान्धारी पीतवर्णका।
हस्तिजिह्वा कृष्णरूपा पूषा स्यात् कृष्णपीतका ॥ 100 ॥
विश्वास-प्रस्तुतिः - 101
यशस्विनी श्यामवर्णा बभ्रुवर्णा ह्यलम्बुसा।
कुहूररुणसंकाशा कोशिनी ह्यञ्जनप्रभा ॥ 101 ॥
मूलम् - 101
यशस्विनी श्यामवर्णा बभ्रुवर्णा ह्यलम्बुसा।
कुहूररुणसंकाशा कोशिनी ह्यञ्जनप्रभा ॥ 101 ॥
विश्वास-प्रस्तुतिः - 102
एवं दशप्रधानास्तु नाडयः परिकीर्तिताः।
वायवो दश संप्रोक्ताः शरीरे नाडिषु स्थिताः ॥ 102 ॥
मूलम् - 102
एवं दशप्रधानास्तु नाडयः परिकीर्तिताः।
वायवो दश संप्रोक्ताः शरीरे नाडिषु स्थिताः ॥ 102 ॥
विश्वास-प्रस्तुतिः - 103
प्राणोऽपानः समानश्च उदानो व्यान एव च।
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ 103 ॥
मूलम् - 103
प्राणोऽपानः समानश्च उदानो व्यान एव च।
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ 103 ॥
विश्वास-प्रस्तुतिः - 104
इडाख्या वहति प्राणं गान्धार्याख्या अपानकम्।
अलम्बुसा समानं तु कुहूर्व्यानं द्विजोत्तम! ॥ 104 ॥
मूलम् - 104
इडाख्या वहति प्राणं गान्धार्याख्या अपानकम्।
अलम्बुसा समानं तु कुहूर्व्यानं द्विजोत्तम! ॥ 104 ॥
विश्वास-प्रस्तुतिः - 105
उदानं तु सुषुम्नाख्या पिङ्गला नागसंज्ञितम्।
पूषा वायुं तु कूर्माख्यं कृकरं तु यशस्विनी ॥ 105 ॥
मूलम् - 105
उदानं तु सुषुम्नाख्या पिङ्गला नागसंज्ञितम्।
पूषा वायुं तु कूर्माख्यं कृकरं तु यशस्विनी ॥ 105 ॥
विश्वास-प्रस्तुतिः - 106
हस्तिजिह्वा देवदत्तं कोशिनी तु धनञ्जयम्।
विद्रुमाभौ प्राणनागाविन्द्रकोपोपमावुभौ ॥ 106 ॥
मूलम् - 106
हस्तिजिह्वा देवदत्तं कोशिनी तु धनञ्जयम्।
विद्रुमाभौ प्राणनागाविन्द्रकोपोपमावुभौ ॥ 106 ॥
विश्वास-प्रस्तुतिः - 107
कूर्मापानौ खसंकाशौ समानकृकरावुभौ।
कॢञ्जल्कसदृशौ देवदत्तोदानौ धनंजयः ॥ 107 ॥
मूलम् - 107
कूर्मापानौ खसंकाशौ समानकृकरावुभौ।
कॢञ्जल्कसदृशौ देवदत्तोदानौ धनंजयः ॥ 107 ॥
विश्वास-प्रस्तुतिः - 108
व्यानश्च फेनवर्णाभः सर्वशास्त्रेषु निश्चयः।
अथ प्राणायतिः–सा च निश्वासोच्छ्वासयोर्गतेः ॥ 108 ॥
मूलम् - 108
व्यानश्च फेनवर्णाभः सर्वशास्त्रेषु निश्चयः।
अथ प्राणायतिः–सा च निश्वासोच्छ्वासयोर्गतेः ॥ 108 ॥
विश्वास-प्रस्तुतिः - 109
स्तम्भनं तत्र निश्वासो बाह्यवातोपयोगिना।
घ्राणेनानयनं वायोरन्तः कोष्ठानिलस्य च ॥ 109 ॥
मूलम् - 109
स्तम्भनं तत्र निश्वासो बाह्यवातोपयोगिना।
घ्राणेनानयनं वायोरन्तः कोष्ठानिलस्य च ॥ 109 ॥
विश्वास-प्रस्तुतिः - 110
बहिर्निष्कासनं नास्या उच्छ्वासो बुद्धिपूर्वकम्।
अभ्यन्तरा स्तम्भवृत्तिर्वायोरन्तः प्रपूरणम् ॥ 110 ॥
मूलम् - 110
बहिर्निष्कासनं नास्या उच्छ्वासो बुद्धिपूर्वकम्।
अभ्यन्तरा स्तम्भवृत्तिर्वायोरन्तः प्रपूरणम् ॥ 110 ॥
विश्वास-प्रस्तुतिः - 111
बाह्यं तु तद्वत् प्रथमं प्राणसंरोधनं विदुः।
अभ्यन्तराद्द्वितीयस्तु स्तम्भवृत्तिस्तृतीयकम् ॥ 111 ॥
मूलम् - 111
बाह्यं तु तद्वत् प्रथमं प्राणसंरोधनं विदुः।
अभ्यन्तराद्द्वितीयस्तु स्तम्भवृत्तिस्तृतीयकम् ॥ 111 ॥
विश्वास-प्रस्तुतिः - 112
बाह्या तत्राधमा प्राणधारणा मध्यमा मता।
अभ्यन्तरा स्तम्भवृत्तिरुत्तमा धारणा मता ॥ 112 ॥
मूलम् - 112
बाह्या तत्राधमा प्राणधारणा मध्यमा मता।
अभ्यन्तरा स्तम्भवृत्तिरुत्तमा धारणा मता ॥ 112 ॥
विश्वास-प्रस्तुतिः - 113
सदा निश्वासरूपा तु बाह्या रेचकमुच्यते।
अभ्यन्तरा समुच्छ्वासरूपा संपूरकस्तथा ॥ 113 ॥
मूलम् - 113
सदा निश्वासरूपा तु बाह्या रेचकमुच्यते।
अभ्यन्तरा समुच्छ्वासरूपा संपूरकस्तथा ॥ 113 ॥
विश्वास-प्रस्तुतिः - 114
श्वासोच्छ्वासनिरोधात्मा स्तम्भवृत्तिस्तु कुम्भकः।
एकद्वित्रिभिरुद्घातैर्मृदुमध्यमतीक्ष्णकाः ॥ 114 ॥
मूलम् - 114
श्वासोच्छ्वासनिरोधात्मा स्तम्भवृत्तिस्तु कुम्भकः।
एकद्वित्रिभिरुद्घातैर्मृदुमध्यमतीक्ष्णकाः ॥ 114 ॥
विश्वास-प्रस्तुतिः - 115
क्रमेणैते भवन्त्यत्र प्राणादेर्नाभिदेशतः।
उद्गतस्याहतिः पूर्वमुद्घातः स्याद्द्वितीयकम् ॥ 115 ॥
मूलम् - 115
क्रमेणैते भवन्त्यत्र प्राणादेर्नाभिदेशतः।
उद्गतस्याहतिः पूर्वमुद्घातः स्याद्द्वितीयकम् ॥ 115 ॥
विश्वास-प्रस्तुतिः - 116
निवृत्तिरुदरादूर्ध्वं तस्य चाथ तृतीयकम्।
अन्यत्र निग्रहोऽस्येह(स्यैव) मृदुः पूर्वोऽथ मध्यमः ॥ 116 ॥
मूलम् - 116
निवृत्तिरुदरादूर्ध्वं तस्य चाथ तृतीयकम्।
अन्यत्र निग्रहोऽस्येह(स्यैव) मृदुः पूर्वोऽथ मध्यमः ॥ 116 ॥
विश्वास-प्रस्तुतिः - 117
द्वितीयस्तु तृतीयोऽथ तीक्ष्णस्स्वेदादिकारणम्।
प्राणायामगणं कुर्यात् पूर्वमस्त्रेण रेचकम् ॥ 117 ॥
मूलम् - 117
द्वितीयस्तु तृतीयोऽथ तीक्ष्णस्स्वेदादिकारणम्।
प्राणायामगणं कुर्यात् पूर्वमस्त्रेण रेचकम् ॥ 117 ॥
विश्वास-प्रस्तुतिः - 118
तत्र द्वादशमात्रस्तु रेचकः पूरकः स्मृतः।
चतुर्विशतिमात्रस्तु षट्त्रिंशन्मात्रकं विदुः ॥ 118 ॥
मूलम् - 118
तत्र द्वादशमात्रस्तु रेचकः पूरकः स्मृतः।
चतुर्विशतिमात्रस्तु षट्त्रिंशन्मात्रकं विदुः ॥ 118 ॥
विश्वास-प्रस्तुतिः - 119
कुम्भकं चाथ भूयोऽपि केवलानिलनिःसृतिः।
या सा प्राणायतिः साऽपि रेचकाख्या विधीयते ॥ 119 ॥
मूलम् - 119
कुम्भकं चाथ भूयोऽपि केवलानिलनिःसृतिः।
या सा प्राणायतिः साऽपि रेचकाख्या विधीयते ॥ 119 ॥
विश्वास-प्रस्तुतिः - 120
मात्राव्यतिक्रमान्न्यूना विपर्यासे तु साऽस(ध)मा।
तस्मान्मात्राविशेषेण ज्ञातव्या प्राणजिष्णुना ॥ 120 ॥
मूलम् - 120
मात्राव्यतिक्रमान्न्यूना विपर्यासे तु साऽस(ध)मा।
तस्मान्मात्राविशेषेण ज्ञातव्या प्राणजिष्णुना ॥ 120 ॥
विश्वास-प्रस्तुतिः - 121
जानुं प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम्।
कुर्यादङ्गुलिविस्फोटं सा मात्रा परिकीर्तिता ॥ 121 ॥
मूलम् - 121
जानुं प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम्।
कुर्यादङ्गुलिविस्फोटं सा मात्रा परिकीर्तिता ॥ 121 ॥
विश्वास-प्रस्तुतिः - 122
प्राणायमगणं कुर्यात् पूर्वमस्त्रेण रेचकम्।
पूरकं हृदयेनाथ नेत्रमन्त्रेण कुम्भकम् ॥ 122 ॥
मूलम् - 122
प्राणायमगणं कुर्यात् पूर्वमस्त्रेण रेचकम्।
पूरकं हृदयेनाथ नेत्रमन्त्रेण कुम्भकम् ॥ 122 ॥
विश्वास-प्रस्तुतिः - 123
प्रागुक्तेनाचरेद्भूयो रेचकं द्विजसत्तम!।
वामेतराङ्गुलीभ्यां तु पिदधद्वामनासिकाम् ॥ 123 ॥
मूलम् - 123
प्रागुक्तेनाचरेद्भूयो रेचकं द्विजसत्तम!।
वामेतराङ्गुलीभ्यां तु पिदधद्वामनासिकाम् ॥ 123 ॥
विश्वास-प्रस्तुतिः - 124
नाभिदेशस्थितं ध्यायेन्मूलमन्त्रेण वै हरिम्।
वासनादोषसंमिश्रान् दशप्राणान् सगर्भकान् ॥ 124 ॥
मूलम् - 124
नाभिदेशस्थितं ध्यायेन्मूलमन्त्रेण वै हरिम्।
वासनादोषसंमिश्रान् दशप्राणान् सगर्भकान् ॥ 124 ॥
विश्वास-प्रस्तुतिः - 125
अगर्भश्च सगर्भश्च प्राणायामो द्विधा मतः।
जपध्यानं विनाऽगर्भः सगर्भस्तद्युत(त्सम)श्च यः ॥ 125 ॥
मूलम् - 125
अगर्भश्च सगर्भश्च प्राणायामो द्विधा मतः।
जपध्यानं विनाऽगर्भः सगर्भस्तद्युत(त्सम)श्च यः ॥ 125 ॥
विश्वास-प्रस्तुतिः - 126
अगर्भाद्गर्भसंयुक्तः प्राणायामः शताधिकः।
आकृष्यास्त्रं समुच्चार्य दक्षिणघ्राणतो बहिः ॥ 126 ॥
मूलम् - 126
अगर्भाद्गर्भसंयुक्तः प्राणायामः शताधिकः।
आकृष्यास्त्रं समुच्चार्य दक्षिणघ्राणतो बहिः ॥ 126 ॥
विश्वास-प्रस्तुतिः - 127
रेचयेद्वातचक्रं तु दशनाडीष्ववस्थितम्।
मात्रयैकैकयाऽन्योन्यं मोचयित्वाऽत्र पूषि(र्वि)काम् ॥ 127 ॥
मूलम् - 127
रेचयेद्वातचक्रं तु दशनाडीष्ववस्थितम्।
मात्रयैकैकयाऽन्योन्यं मोचयित्वाऽत्र पूषि(र्वि)काम् ॥ 127 ॥
विश्वास-प्रस्तुतिः - 128
द्वाभ्यां तु पिङ्गलां द्वाभ्यां बहिर्नाभ्यास्तु रेचयेत्।
विरेच्यैवं हरिं तावत् संस्थाप्यादाय पावकम् ॥ 128 ॥
मूलम् - 128
द्वाभ्यां तु पिङ्गलां द्वाभ्यां बहिर्नाभ्यास्तु रेचयेत्।
विरेच्यैवं हरिं तावत् संस्थाप्यादाय पावकम् ॥ 128 ॥
विश्वास-प्रस्तुतिः - 129
वातचक्रस्थितं ध्यायेत्तमेवान्तः प्रवेशयेत्।
दक्षिणाङ्गुष्ठतो द्वारं पिदधद्वामनासया(सिकाम्) ॥ 129 ॥
मूलम् - 129
वातचक्रस्थितं ध्यायेत्तमेवान्तः प्रवेशयेत्।
दक्षिणाङ्गुष्ठतो द्वारं पिदधद्वामनासया(सिकाम्) ॥ 129 ॥
विश्वास-प्रस्तुतिः - 130
हरिं सवातचक्रं तं मात्राभ्यामिडयोच्चरन्।
हृन्मन्त्रमन्तः संवेश्य तं ध्यात्वा हृदये स्थितम् ॥ 130 ॥
मूलम् - 130
हरिं सवातचक्रं तं मात्राभ्यामिडयोच्चरन्।
हृन्मन्त्रमन्तः संवेश्य तं ध्यात्वा हृदये स्थितम् ॥ 130 ॥
विश्वास-प्रस्तुतिः - 131
मात्राचतुष्टयेनाथ तेन वातेन पिङ्गलाम्।
द्वाभ्यां सुषुम्नां गान्धारीं द्विद्विकाभिस्तु पूषिकाम् ॥ 131 ॥
मूलम् - 131
मात्राचतुष्टयेनाथ तेन वातेन पिङ्गलाम्।
द्वाभ्यां सुषुम्नां गान्धारीं द्विद्विकाभिस्तु पूषिकाम् ॥ 131 ॥
विश्वास-प्रस्तुतिः - 132
द्वाभ्यां द्वाभ्यां हस्तिजिह्वालम्बुसे च यशस्विनीम्।
कोशिनीं च कुहूं चैव क्रमात् संपूरयेत् (यन्) गतीः ॥ 132 ॥
मूलम् - 132
द्वाभ्यां द्वाभ्यां हस्तिजिह्वालम्बुसे च यशस्विनीम्।
कोशिनीं च कुहूं चैव क्रमात् संपूरयेत् (यन्) गतीः ॥ 132 ॥
विश्वास-प्रस्तुतिः - 133
नासापुटादिकादूर्ध्वं नेत्रेणासीत कुम्भवत्।
षट्त्रिंशद्भिस्तु मात्राभिरथ नाभ्यग्निमिश्रितैः ॥ 133 ॥
मूलम् - 133
नासापुटादिकादूर्ध्वं नेत्रेणासीत कुम्भवत्।
षट्त्रिंशद्भिस्तु मात्राभिरथ नाभ्यग्निमिश्रितैः ॥ 133 ॥
विश्वास-प्रस्तुतिः - 134
परिभ्रमद्भिः सर्वत्र तैर्वातैर्दोषसंहतीः।
ध्यात्वा निरस्ता नाडीश्च शोधितास्तु शनैः शनैः ॥ 134 ॥
मूलम् - 134
परिभ्रमद्भिः सर्वत्र तैर्वातैर्दोषसंहतीः।
ध्यात्वा निरस्ता नाडीश्च शोधितास्तु शनैः शनैः ॥ 134 ॥
विश्वास-प्रस्तुतिः - 135
केवलं वातचक्रं तु बहिः प्राग्वद्विरेचयेत्।
यद्वा षोडशमात्रा स्याद्रेचके द्विगुणः स्मृतः ॥ 135 ॥
मूलम् - 135
केवलं वातचक्रं तु बहिः प्राग्वद्विरेचयेत्।
यद्वा षोडशमात्रा स्याद्रेचके द्विगुणः स्मृतः ॥ 135 ॥
विश्वास-प्रस्तुतिः - 136
पूरकः कुम्भकोऽपि स्यात् सचतुःषष्टिमात्रकः।
नाडीस्ता मोचयेत् प्राग्वत् षण्मात्राभिस्तु पिङ्गलाम् ॥ 136 ॥
मूलम् - 136
पूरकः कुम्भकोऽपि स्यात् सचतुःषष्टिमात्रकः।
नाडीस्ता मोचयेत् प्राग्वत् षण्मात्राभिस्तु पिङ्गलाम् ॥ 136 ॥
विश्वास-प्रस्तुतिः - 137
नाडीस्तु दश तन्त्रीभिः पञ्चमात्राभिरर्जयेत्।
प्राणायाममिदं प्रोक्तमुत्तमादिविभेदतः ॥ 137 ॥
मूलम् - 137
नाडीस्तु दश तन्त्रीभिः पञ्चमात्राभिरर्जयेत्।
प्राणायाममिदं प्रोक्तमुत्तमादिविभेदतः ॥ 137 ॥
विश्वास-प्रस्तुतिः - 138
त्रिप्रकारे विधानेऽत्र यथासंभवमाचरेत्।
प्राणायामत्रयं कृत्वा पञ्च वा सप्त वाऽथवा ॥ 138 ॥
मूलम् - 138
त्रिप्रकारे विधानेऽत्र यथासंभवमाचरेत्।
प्राणायामत्रयं कृत्वा पञ्च वा सप्त वाऽथवा ॥ 138 ॥
विश्वास-प्रस्तुतिः - 139
भवेत् प्राणजयः पुंसः प्राणायामः स उच्यते।
ततस्तु कायशुद्ध्यर्थं वर्णं भौमादि विन्यसेत् । 139 ॥
मूलम् - 139
भवेत् प्राणजयः पुंसः प्राणायामः स उच्यते।
ततस्तु कायशुद्ध्यर्थं वर्णं भौमादि विन्यसेत् । 139 ॥
विश्वास-प्रस्तुतिः - 140
भूतशुद्धिं श्रृणु मुने! यथावदनुपूर्वशः।
पृथ्व्यप्तेजोनिलाकाशं शरीरं भूतपञ्चकम् ॥ 140 ॥
मूलम् - 140
भूतशुद्धिं श्रृणु मुने! यथावदनुपूर्वशः।
पृथ्व्यप्तेजोनिलाकाशं शरीरं भूतपञ्चकम् ॥ 140 ॥
विश्वास-प्रस्तुतिः - 141
इन्द्रजालोपमं विद्धि ज्ञानाद्यैरुज्ज्ञितं गुणैः।
मलिनं चास्वतन्त्रं च रेतोरक्तोद्भवं क्षयि ॥ 141 ॥
मूलम् - 141
इन्द्रजालोपमं विद्धि ज्ञानाद्यैरुज्ज्ञितं गुणैः।
मलिनं चास्वतन्त्रं च रेतोरक्तोद्भवं क्षयि ॥ 141 ॥
विश्वास-प्रस्तुतिः - 142
यावन्न शोधितं सम्यग्धारणाभिर्निरन्तरम्।
तावदेतदयोग्यं स्यान्मन्त्रन्यासादिवस्तुषु ॥ 142 ॥
मूलम् - 142
यावन्न शोधितं सम्यग्धारणाभिर्निरन्तरम्।
तावदेतदयोग्यं स्यान्मन्त्रन्यासादिवस्तुषु ॥ 142 ॥
विश्वास-प्रस्तुतिः - 143
पञ्चभिर्धारणाभिर्वा द्वाभ्या वा शोधयेत्तनुम्।
सुषुम्नादक्षिणद्वारान्निर्गमय्य हरिं बहिः ॥ 143 ॥
मूलम् - 143
पञ्चभिर्धारणाभिर्वा द्वाभ्या वा शोधयेत्तनुम्।
सुषुम्नादक्षिणद्वारान्निर्गमय्य हरिं बहिः ॥ 143 ॥
विश्वास-प्रस्तुतिः - 144
सहस्ररविसङ्काशं वृत्तमण्डलमध्यगम्।
तप्तकाञ्चनवर्णाभमासीनं परमे पदे ॥ 144 ॥
मूलम् - 144
सहस्ररविसङ्काशं वृत्तमण्डलमध्यगम्।
तप्तकाञ्चनवर्णाभमासीनं परमे पदे ॥ 144 ॥
विश्वास-प्रस्तुतिः - 145
मन्त्रात्मानं तु तं ध्यात्वा ह्युपरि द्वादशाङ्गुले।
प्रभाचक्रं तु तदधस्तत्वाधिष्ठातृसंयुतम् ॥ 145 ॥
मूलम् - 145
मन्त्रात्मानं तु तं ध्यात्वा ह्युपरि द्वादशाङ्गुले।
प्रभाचक्रं तु तदधस्तत्वाधिष्ठातृसंयुतम् ॥ 145 ॥
विश्वास-प्रस्तुतिः - 146
निष्कलं मन्त्रदेहं तु ध्यात्वा तु तदधःक्रमात्।
तुर्यश्रां पीतलां भूमिं चिन्तयेद्वज्रलाञ्छिताम् ॥ 146 ॥
मूलम् - 146
निष्कलं मन्त्रदेहं तु ध्यात्वा तु तदधःक्रमात्।
तुर्यश्रां पीतलां भूमिं चिन्तयेद्वज्रलाञ्छिताम् ॥ 146 ॥
विश्वास-प्रस्तुतिः - 147
शब्दाद्यैः पञ्चभिर्युक्तां नगद्रुमसमाकुलाम्।
पुरप्राकारसुसरिद्द्वीपार्णवपरिष्कृताम् ॥ 147 ॥
मूलम् - 147
शब्दाद्यैः पञ्चभिर्युक्तां नगद्रुमसमाकुलाम्।
पुरप्राकारसुसरिद्द्वीपार्णवपरिष्कृताम् ॥ 147 ॥
विश्वास-प्रस्तुतिः - 148
संविशन्तीं स्मरेद्बाह्यात् पूरकेण स्वविग्रहे।
प्रोच्चरंश्चैव तन्मन्त्रं विश्रान्तामथ चिन्तयेत् ॥ 148 ॥
मूलम् - 148
संविशन्तीं स्मरेद्बाह्यात् पूरकेण स्वविग्रहे।
प्रोच्चरंश्चैव तन्मन्त्रं विश्रान्तामथ चिन्तयेत् ॥ 148 ॥
विश्वास-प्रस्तुतिः - 149
जान्वोः पादतलं यावत्तया व्याप्तं क्रमेण तु।
कुम्भकेन द्विजश्रेष्ठ! मन्त्रमूर्तौ स्वके ततः ॥ 149 ॥
मूलम् - 149
जान्वोः पादतलं यावत्तया व्याप्तं क्रमेण तु।
कुम्भकेन द्विजश्रेष्ठ! मन्त्रमूर्तौ स्वके ततः ॥ 149 ॥
विश्वास-प्रस्तुतिः - 150
शनैः शनैर्लयं यातां गन्धशक्तौ च मन्त्रराट्।
गन्धशक्तिं च तां पश्चाद्रेचकेन बहिः क्षिपेत् ॥ 150 ॥
मूलम् - 150
शनैः शनैर्लयं यातां गन्धशक्तौ च मन्त्रराट्।
गन्धशक्तिं च तां पश्चाद्रेचकेन बहिः क्षिपेत् ॥ 150 ॥
विश्वास-प्रस्तुतिः - 151
तोयाख्ये च महाधारे, ततस्तोयं च वैभवम्।
ससमुद्रसरित्स्रोतोरसषटकं च सौषधिम् ॥ 151 ॥
मूलम् - 151
तोयाख्ये च महाधारे, ततस्तोयं च वैभवम्।
ससमुद्रसरित्स्रोतोरसषटकं च सौषधिम् ॥ 151 ॥
विश्वास-प्रस्तुतिः - 152
यान्यन्यान्यम्बुभूतानि भूतानि भुवनान्तरे।
अर्धचन्द्रसमाकारं कमलध्वजशोभितम् ॥ 152 ॥
मूलम् - 152
यान्यन्यान्यम्बुभूतानि भूतानि भुवनान्तरे।
अर्धचन्द्रसमाकारं कमलध्वजशोभितम् ॥ 152 ॥
विश्वास-प्रस्तुतिः - 153
वारुणं विभवं बाह्ये ध्यात्वा तेनाथ विग्रहम्।
संपूर्य पूरकाख्येन करणेन शनैः शनैः ॥ 153 ॥
मूलम् - 153
वारुणं विभवं बाह्ये ध्यात्वा तेनाथ विग्रहम्।
संपूर्य पूरकाख्येन करणेन शनैः शनैः ॥ 153 ॥
विश्वास-प्रस्तुतिः - 154
ऊरुमूलाच्च जान्वन्तं शारीरं मण्डलं स्वकम्।
तेनाखिलं तु संव्याप्तं कुम्भकेन स्मरेद्द्विज! ॥ 154 ॥
मूलम् - 154
ऊरुमूलाच्च जान्वन्तं शारीरं मण्डलं स्वकम्।
तेनाखिलं तु संव्याप्तं कुम्भकेन स्मरेद्द्विज! ॥ 154 ॥
विश्वास-प्रस्तुतिः - 155
तन्मध्ये वारुणं मन्त्रं धारणाख्यं विचिन्त्य च।
अम्मयं विभवं सर्वं तन्मन्त्रे विलयं गतम् ॥ 155 ॥
मूलम् - 155
तन्मध्ये वारुणं मन्त्रं धारणाख्यं विचिन्त्य च।
अम्मयं विभवं सर्वं तन्मन्त्रे विलयं गतम् ॥ 155 ॥
विश्वास-प्रस्तुतिः - 156
ततस्तं रसशक्तौ च सा शक्तिर्वह्निमण्डले।
रेचकेन विनिक्षिप्य ततो वाह्नं च वैभवम् ॥ 156 ॥
मूलम् - 156
ततस्तं रसशक्तौ च सा शक्तिर्वह्निमण्डले।
रेचकेन विनिक्षिप्य ततो वाह्नं च वैभवम् ॥ 156 ॥
विश्वास-प्रस्तुतिः - 157
त्रिकोणभुवनाकारं दीप्तिमद्भिर्विभूषितम्।
विद्युच्चन्द्रार्कनक्षत्रमणिरत्नैश्च धातुभिः ॥ 157 ॥
मूलम् - 157
त्रिकोणभुवनाकारं दीप्तिमद्भिर्विभूषितम्।
विद्युच्चन्द्रार्कनक्षत्रमणिरत्नैश्च धातुभिः ॥ 157 ॥
विश्वास-प्रस्तुतिः - 158
स्वप्रकाशशरीरैस्तु अशरीरैश्च खेचरैः।
चिह्नितं स्वस्तिकैर्दीप्तैर्ध्यात्वैवं विभवं महत् ॥ 158 ॥
मूलम् - 158
स्वप्रकाशशरीरैस्तु अशरीरैश्च खेचरैः।
चिह्नितं स्वस्तिकैर्दीप्तैर्ध्यात्वैवं विभवं महत् ॥ 158 ॥
विश्वास-प्रस्तुतिः - 159
तैजसं मुनिशार्दूल! तन्मन्त्रं चाथ संस्मरेत्।
तन्मण्डलान्तरस्थं तु प्रोच्चरन् वै तमेव हि ॥ 159 ॥
मूलम् - 159
तैजसं मुनिशार्दूल! तन्मन्त्रं चाथ संस्मरेत्।
तन्मण्डलान्तरस्थं तु प्रोच्चरन् वै तमेव हि ॥ 159 ॥
विश्वास-प्रस्तुतिः - 160
प्रविष्टं पूर्ववद्ध्यायेत्तेनैव करणेन तु।
आनाभेः पायुपर्यन्तं व्याप्तं कृत्वाऽवधार्य च ॥ 160 ॥
मूलम् - 160
प्रविष्टं पूर्ववद्ध्यायेत्तेनैव करणेन तु।
आनाभेः पायुपर्यन्तं व्याप्तं कृत्वाऽवधार्य च ॥ 160 ॥
विश्वास-प्रस्तुतिः - 161
तं विप्र! विभवं सर्वं तैजसं परिभावयेत्।
तन्मन्त्रविग्रहे शान्तं तन्मत्रं चानलात्मकम् ॥ 161 ॥
मूलम् - 161
तं विप्र! विभवं सर्वं तैजसं परिभावयेत्।
तन्मन्त्रविग्रहे शान्तं तन्मत्रं चानलात्मकम् ॥ 161 ॥
विश्वास-प्रस्तुतिः - 162
रूपशक्तौ लयं यातं शक्तिः संविन्मयी च सा।
तया मन्त्रशरीरं स्वं स्वशक्त्या विलयीकृतम् ॥ 162 ॥
मूलम् - 162
रूपशक्तौ लयं यातं शक्तिः संविन्मयी च सा।
तया मन्त्रशरीरं स्वं स्वशक्त्या विलयीकृतम् ॥ 162 ॥
विश्वास-प्रस्तुतिः - 163
रेचकेन तु तां शक्तिं वाय्वाधारे बहिः क्षिपेत्।
ततस्तु वायवीयं वै विभवं बाह्यतः स्मरेत् ॥ 163 ॥
मूलम् - 163
रेचकेन तु तां शक्तिं वाय्वाधारे बहिः क्षिपेत्।
ततस्तु वायवीयं वै विभवं बाह्यतः स्मरेत् ॥ 163 ॥
विश्वास-प्रस्तुतिः - 164
वृत्तं राजोपलाभं तु बिम्बैर्युक्तं तु(स्व)तैजसैः।
पूर्णं नानाविधैर्गन्धैरनेकैस्तद्गुणैस्तथा ॥ 164 ॥
मूलम् - 164
वृत्तं राजोपलाभं तु बिम्बैर्युक्तं तु(स्व)तैजसैः।
पूर्णं नानाविधैर्गन्धैरनेकैस्तद्गुणैस्तथा ॥ 164 ॥
विश्वास-प्रस्तुतिः - 165
स्वमन्त्रेण समाक्रान्तं धारणाख्येन संस्मरेत्।
तथा स्वरूपं तन्मन्त्रं ध्यात्वोच्चार्य समाहरेत् ॥ 165 ॥
मूलम् - 165
स्वमन्त्रेण समाक्रान्तं धारणाख्येन संस्मरेत्।
तथा स्वरूपं तन्मन्त्रं ध्यात्वोच्चार्य समाहरेत् ॥ 165 ॥
विश्वास-प्रस्तुतिः - 166
पूर्वोक्तकरणेनैवं घ्राणाग्रेण शनैः शनैः।
आकण्ठं नाभिदेशान्तं तेन व्याप्तं तु भावयेत् ॥ 166 ॥
मूलम् - 166
पूर्वोक्तकरणेनैवं घ्राणाग्रेण शनैः शनैः।
आकण्ठं नाभिदेशान्तं तेन व्याप्तं तु भावयेत् ॥ 166 ॥
विश्वास-प्रस्तुतिः - 167
प्रागुक्तकरणेनैव वायव्यं विभवं तु तम्।
अधिष्ठातृलयं यातं स्मृत्वा तं च महामते! ॥ 167 ॥
मूलम् - 167
प्रागुक्तकरणेनैव वायव्यं विभवं तु तम्।
अधिष्ठातृलयं यातं स्मृत्वा तं च महामते! ॥ 167 ॥
विश्वास-प्रस्तुतिः - 168
स्पर्शाख्यायां महाशक्तौ तां शक्तिमविनश्वरीम्।
व्याप्तिं नित्यामनित्यां च स्वशक्तिविभावान्विताम् ॥ 168 ॥
मूलम् - 168
स्पर्शाख्यायां महाशक्तौ तां शक्तिमविनश्वरीम्।
व्याप्तिं नित्यामनित्यां च स्वशक्तिविभावान्विताम् ॥ 168 ॥
विश्वास-प्रस्तुतिः - 169
शब्दाख्ये तु महाधारे निक्षिपेद्व्योममण्डले।
ध्यात्वाऽथ विभवं सर्वं व्योमाख्यं विग्रहाद्वहिः ॥ 169 ॥
मूलम् - 169
शब्दाख्ये तु महाधारे निक्षिपेद्व्योममण्डले।
ध्यात्वाऽथ विभवं सर्वं व्योमाख्यं विग्रहाद्वहिः ॥ 169 ॥
विश्वास-प्रस्तुतिः - 170
नानाशब्दसमाकीर्णं नीरूपं चाञ्जनप्रभम्।
अविग्रहैः शब्दमयैः पूर्णं सिद्धैरसंख्यकैः ॥ 170 ॥
मूलम् - 170
नानाशब्दसमाकीर्णं नीरूपं चाञ्जनप्रभम्।
अविग्रहैः शब्दमयैः पूर्णं सिद्धैरसंख्यकैः ॥ 170 ॥
विश्वास-प्रस्तुतिः - 171
तन्मध्ये धारणामन्त्रं व्योमाख्यं संस्मरेद्द्विज!।
धारयन्तं स्वमात्मानं स्वसामार्थ्येन सवदा ॥ 171 ॥
मूलम् - 171
तन्मध्ये धारणामन्त्रं व्योमाख्यं संस्मरेद्द्विज!।
धारयन्तं स्वमात्मानं स्वसामार्थ्येन सवदा ॥ 171 ॥
विश्वास-प्रस्तुतिः - 172
शब्दमात्रमरूपं तु व्यापकं विभवेष्वपि।
धिया च संपरिच्छिन्नं कृत्वा विन्यस्य विग्रहे ॥ 172 ॥
मूलम् - 172
शब्दमात्रमरूपं तु व्यापकं विभवेष्वपि।
धिया च संपरिच्छिन्नं कृत्वा विन्यस्य विग्रहे ॥ 172 ॥
विश्वास-प्रस्तुतिः - 173
प्रागुक्तकरणेनैव तेन व्याप्तं च भावयेत्।
आकण्ठाद्ब्रह्नरन्ध्रान्तं व्योमाख्यविभवेन च ॥ 173 ॥
मूलम् - 173
प्रागुक्तकरणेनैव तेन व्याप्तं च भावयेत्।
आकण्ठाद्ब्रह्नरन्ध्रान्तं व्योमाख्यविभवेन च ॥ 173 ॥
विश्वास-प्रस्तुतिः - 174
सन्धार्य कुम्भकेनैव यावत्कालं तु योगिना।
ध्यायेत् परिणतं पश्चात् स्वमन्त्रे तु महामुने! ॥ 174 ॥
मूलम् - 174
सन्धार्य कुम्भकेनैव यावत्कालं तु योगिना।
ध्यायेत् परिणतं पश्चात् स्वमन्त्रे तु महामुने! ॥ 174 ॥
विश्वास-प्रस्तुतिः - 176
दृष्टिपादौ हुतवहे त्वक्करौ वायुमण्डले।
वाक्च्छ्रुती व्योमतत्वे तु लयस्यादौ सह स्मरेत्) ॥ 176 ॥
मूलम् - 176
दृष्टिपादौ हुतवहे त्वक्करौ वायुमण्डले।
वाक्च्छ्रुती व्योमतत्वे तु लयस्यादौ सह स्मरेत्) ॥ 176 ॥
विश्वास-प्रस्तुतिः - 177
तां शक्तिं ब्रह्मरन्ध्रेण प्रयान्तीमनुभावयेत्।
युक्तां शक्तिचतुष्केण गन्धाद्येनाविनश्वरीम् ॥ 177 ॥
मूलम् - 177
तां शक्तिं ब्रह्मरन्ध्रेण प्रयान्तीमनुभावयेत्।
युक्तां शक्तिचतुष्केण गन्धाद्येनाविनश्वरीम् ॥ 177 ॥
विश्वास-प्रस्तुतिः - 178
आश्रयेन्निष्कलं मन्त्रं तत्वाधिष्ठातृसंयुतम्।
समन्त्रं विभवं भौतमेवमस्तं नयेत् क्रमात् ॥ 178 ॥
मूलम् - 178
आश्रयेन्निष्कलं मन्त्रं तत्वाधिष्ठातृसंयुतम्।
समन्त्रं विभवं भौतमेवमस्तं नयेत् क्रमात् ॥ 178 ॥
विश्वास-प्रस्तुतिः - 179
चैतन्यं जीवभूतं यत् प्रस्फुरत्तारकोपमम्।
भावनीयं तु विश्रान्तं निःसृतं भूतपञ्जरात् ॥ 179 ॥
मूलम् - 179
चैतन्यं जीवभूतं यत् प्रस्फुरत्तारकोपमम्।
भावनीयं तु विश्रान्तं निःसृतं भूतपञ्जरात् ॥ 179 ॥
विश्वास-प्रस्तुतिः - 180
निष्प्रपञ्चे परे मन्त्रे पञ्चशक्त्याख्यविग्रहे।
अनेन क्रमयोगेन जीव आत्मानमात्मना(म्) ॥ 180 ॥
मूलम् - 180
निष्प्रपञ्चे परे मन्त्रे पञ्चशक्त्याख्यविग्रहे।
अनेन क्रमयोगेन जीव आत्मानमात्मना(म्) ॥ 180 ॥
विश्वास-प्रस्तुतिः - 181
ईक्षेत तद्धृदाकाशे अचलं सूर्यवर्चसम्।
स्फुरद्द्युतिभिराकीर्णमीश्वरं व्यापकं परम् ॥ 181 ॥
मूलम् - 181
ईक्षेत तद्धृदाकाशे अचलं सूर्यवर्चसम्।
स्फुरद्द्युतिभिराकीर्णमीश्वरं व्यापकं परम् ॥ 181 ॥
विश्वास-प्रस्तुतिः - 182
ततो मन्त्रशरीरस्थः समाधिं चाभ्यसेत् परम्।
गन्धतन्मात्र पूर्वाभिर्युक्तत्वात् पञ्चशक्तिभिः ॥ 182 ॥
मूलम् - 182
ततो मन्त्रशरीरस्थः समाधिं चाभ्यसेत् परम्।
गन्धतन्मात्र पूर्वाभिर्युक्तत्वात् पञ्चशक्तिभिः ॥ 182 ॥
विश्वास-प्रस्तुतिः - 183
हेयं चेत्थमिदं बुद्ध्वा यदा तत्स्थानबृंहितः।
अतृप्तोऽकृतकृत्यश्च मन्त्रहृत्पद्मसेवनात् ॥ 183 ॥
मूलम् - 183
हेयं चेत्थमिदं बुद्ध्वा यदा तत्स्थानबृंहितः।
अतृप्तोऽकृतकृत्यश्च मन्त्रहृत्पद्मसेवनात् ॥ 183 ॥
विश्वास-प्रस्तुतिः - 184
षट्पदो ह्यात्मतत्वश्च ज्ञानरज्ज्ववलम्ब्य च।
हृत्कोटरोर्ध्वान्निर्यान्तं स्वात्मानं स्वात्मना स्मरेत् ॥ 184 ॥
मूलम् - 184
षट्पदो ह्यात्मतत्वश्च ज्ञानरज्ज्ववलम्ब्य च।
हृत्कोटरोर्ध्वान्निर्यान्तं स्वात्मानं स्वात्मना स्मरेत् ॥ 184 ॥
विश्वास-प्रस्तुतिः - 185
भारूपनाडिमार्गेण मन्त्रवह्नेः शिखा हि सा।
पद्मसूत्रप्रतिकाशा सुषुम्ना चोर्ध्वगामिनी ॥ 185 ॥
मूलम् - 185
भारूपनाडिमार्गेण मन्त्रवह्नेः शिखा हि सा।
पद्मसूत्रप्रतिकाशा सुषुम्ना चोर्ध्वगामिनी ॥ 185 ॥
विश्वास-प्रस्तुतिः - 186
तद्ब्रह्मरन्ध्रगां स्मृत्वा सुपथा तेन सत्तम!।
शनैःशनैःस्वमात्मानं रेचयेज्ज्ञानवायुना ॥ 186 ॥
मूलम् - 186
तद्ब्रह्मरन्ध्रगां स्मृत्वा सुपथा तेन सत्तम!।
शनैःशनैःस्वमात्मानं रेचयेज्ज्ञानवायुना ॥ 186 ॥
विश्वास-प्रस्तुतिः - 187
मान्त्रं करणषट्कं च एवमव्यापकं त्यजेत्।
प्राप्नुयाच्च तदूर्ध्वात्तु यः परात् प्रभुविग्रहात् ॥ 187 ॥
मूलम् - 187
मान्त्रं करणषट्कं च एवमव्यापकं त्यजेत्।
प्राप्नुयाच्च तदूर्ध्वात्तु यः परात् प्रभुविग्रहात् ॥ 187 ॥
विश्वास-प्रस्तुतिः - 188
उदितो द्विजशार्दूल! तेजः पुञ्जो ह्यनूपमः।
तत्प्रभाचक्रनाभिस्थस्वानन्दानन्दनन्दितः ॥ 188 ॥
मूलम् - 188
उदितो द्विजशार्दूल! तेजः पुञ्जो ह्यनूपमः।
तत्प्रभाचक्रनाभिस्थस्वानन्दानन्दनन्दितः ॥ 188 ॥
विश्वास-प्रस्तुतिः - 189
एवं पदात्पदस्थस्य ह्यात्मतत्वस्य वै ततः।
तत्वनिर्मुक्तदेहस्य केवलस्य चिदात्मनः ॥ 189 ॥
मूलम् - 189
एवं पदात्पदस्थस्य ह्यात्मतत्वस्य वै ततः।
तत्वनिर्मुक्तदेहस्य केवलस्य चिदात्मनः ॥ 189 ॥
विश्वास-प्रस्तुतिः - 190
उदेति महदानन्दः सा शक्तिर्वैष्णवी परा।
अलुप्तकर्मकर्तारं जीवं कृत्वा तमात्मसात् ॥ 190 ॥
मूलम् - 190
उदेति महदानन्दः सा शक्तिर्वैष्णवी परा।
अलुप्तकर्मकर्तारं जीवं कृत्वा तमात्मसात् ॥ 190 ॥
विश्वास-प्रस्तुतिः - 191
यत्रोदिता च तत्रैव पुनरेवावतिष्ठते।
तच्च संकल्पनिर्मुक्तमवाच्यं विद्धि सत्तम! ॥ 191 ॥
मूलम् - 191
यत्रोदिता च तत्रैव पुनरेवावतिष्ठते।
तच्च संकल्पनिर्मुक्तमवाच्यं विद्धि सत्तम! ॥ 191 ॥
विश्वास-प्रस्तुतिः - 192
एवं स्वस्थानमासाद्य त्यक्त्वा भौतं च विग्रहम्।
तत्र स्थितो दहेत् पिण्डं शक्तितन्मात्रवर्जितम् ॥ 192 ॥
मूलम् - 192
एवं स्वस्थानमासाद्य त्यक्त्वा भौतं च विग्रहम्।
तत्र स्थितो दहेत् पिण्डं शक्तितन्मात्रवर्जितम् ॥ 192 ॥
विश्वास-प्रस्तुतिः - 193
षाट्कौशिकमसारं च निर्दण्ड(ग्ध)तृणरूपिणम्।
इच्छानिर्मथनोत्थेन मन्त्रजेन तु वह्निना ॥ 193 ॥
मूलम् - 193
षाट्कौशिकमसारं च निर्दण्ड(ग्ध)तृणरूपिणम्।
इच्छानिर्मथनोत्थेन मन्त्रजेन तु वह्निना ॥ 193 ॥
विश्वास-प्रस्तुतिः - 194
तेनाङ्घ्रिदेशादारभ्य तं पिण्डं ज्वलितं स्मरेत्।
दक्षिणाङ्घ्रेरथाङ्गुष्ठप्रान्तदेशे शिखाक्षरम् ॥ 194 ॥
मूलम् - 194
तेनाङ्घ्रिदेशादारभ्य तं पिण्डं ज्वलितं स्मरेत्।
दक्षिणाङ्घ्रेरथाङ्गुष्ठप्रान्तदेशे शिखाक्षरम् ॥ 194 ॥
विश्वास-प्रस्तुतिः - 195
ध्यात्वा युगान्तहुतभुग्रूपज्वालाशतावृतं।
तेन स्वविग्रहं ध्यायेत् प्रज्वलन्तं समन्ततः ॥ 195 ॥
मूलम् - 195
ध्यात्वा युगान्तहुतभुग्रूपज्वालाशतावृतं।
तेन स्वविग्रहं ध्यायेत् प्रज्वलन्तं समन्ततः ॥ 195 ॥
विश्वास-प्रस्तुतिः - 196
नाभिकन्दान्तरोद्देशे नेत्रमन्त्रेण पावकम्।
ध्यायेज्ज्वालागणोपेतं निनयेत्तेन भस्मसात् ॥ 196 ॥
मूलम् - 196
नाभिकन्दान्तरोद्देशे नेत्रमन्त्रेण पावकम्।
ध्यायेज्ज्वालागणोपेतं निनयेत्तेन भस्मसात् ॥ 196 ॥
विश्वास-प्रस्तुतिः - 197
दहनेन स्वकं देह हृन्मन्त्रं भावयंस्ततः।
देहजां भावयेज्ज्वालां मन्त्रनाथे लयं गताम् ॥ 197 ॥
मूलम् - 197
दहनेन स्वकं देह हृन्मन्त्रं भावयंस्ततः।
देहजां भावयेज्ज्वालां मन्त्रनाथे लयं गताम् ॥ 197 ॥
विश्वास-प्रस्तुतिः - 200
ततः समन्त्रं तद्बिम्बं पूर्णचन्द्रायुतोपमम्।
ध्यात्वा तन्निःसृतेनैव त्वमृतौघेन चाम्बरात् ॥ 200 ॥
मूलम् - 200
ततः समन्त्रं तद्बिम्बं पूर्णचन्द्रायुतोपमम्।
ध्यात्वा तन्निःसृतेनैव त्वमृतौघेन चाम्बरात् ॥ 200 ॥
विश्वास-प्रस्तुतिः - 201
प्लावयेद्देहजां भूतिं सर्वं ध्यायेत् सुधात्मकम्।
तत्राधारमयीं शक्तिं मध्ये विन्यस्य वैष्णवीम् ॥ 201 ॥
मूलम् - 201
प्लावयेद्देहजां भूतिं सर्वं ध्यायेत् सुधात्मकम्।
तत्राधारमयीं शक्तिं मध्ये विन्यस्य वैष्णवीम् ॥ 201 ॥
विश्वास-प्रस्तुतिः - 202
बीजभूतां च सर्वस्य तदुत्थं चाम्बुजं स्मरेत्।
षडध्वं तत्वभूतं च सितं तेजोमयं शुभम् ॥ 202 ॥
मूलम् - 202
बीजभूतां च सर्वस्य तदुत्थं चाम्बुजं स्मरेत्।
षडध्वं तत्वभूतं च सितं तेजोमयं शुभम् ॥ 202 ॥
विश्वास-प्रस्तुतिः - 203
मण्डलत्रितयाकीर्णं स्फुरत्किरणभास्वरम्।
मन्त्रात्मानं च तन्मध्ये ध्यायेन्नारायणं प्रभुम् ॥ 203 ॥
मूलम् - 203
मण्डलत्रितयाकीर्णं स्फुरत्किरणभास्वरम्।
मन्त्रात्मानं च तन्मध्ये ध्यायेन्नारायणं प्रभुम् ॥ 203 ॥
विश्वास-प्रस्तुतिः - 204
निष्कलं केवलं शुद्धं पञ्चसन्मन्त्रविग्रहम्।
तन्मन्त्रशक्तिभिर्भूयो भावयेन्मूर्छितं द्विज! ॥ 204 ॥
मूलम् - 204
निष्कलं केवलं शुद्धं पञ्चसन्मन्त्रविग्रहम्।
तन्मन्त्रशक्तिभिर्भूयो भावयेन्मूर्छितं द्विज! ॥ 204 ॥
विश्वास-प्रस्तुतिः - 205
व्योमादिपञ्चभूतीयं मान्त्रमीश्वरपञ्चकम्।
तेभ्योऽथ प्रसरन्तं च व्योमाद्यं विभवं स्मरेत् ॥ 205 ॥
मूलम् - 205
व्योमादिपञ्चभूतीयं मान्त्रमीश्वरपञ्चकम्।
तेभ्योऽथ प्रसरन्तं च व्योमाद्यं विभवं स्मरेत् ॥ 205 ॥
विश्वास-प्रस्तुतिः - 206
संयोगजनितं पिण्डं ध्यायेद्विभवपञ्चकात्।
सहस्रसूर्यसंकाशं शतचन्द्रगभस्तिमत् ॥ 206 ॥
मूलम् - 206
संयोगजनितं पिण्डं ध्यायेद्विभवपञ्चकात्।
सहस्रसूर्यसंकाशं शतचन्द्रगभस्तिमत् ॥ 206 ॥
विश्वास-प्रस्तुतिः - 207
निर्मलस्फटिकप्रख्यं जरामरणवर्जितम्।
जनित्वैवं स्वपिण्डं तु परमं भोगमोक्षयोः ॥ 207 ॥
मूलम् - 207
निर्मलस्फटिकप्रख्यं जरामरणवर्जितम्।
जनित्वैवं स्वपिण्डं तु परमं भोगमोक्षयोः ॥ 207 ॥
विश्वास-प्रस्तुतिः - 208
साधनं मुनिशार्दूल! सहजं सर्वदेहिनाम्।
तमासाद्य क्रमेणैव सिसृक्षालक्षणेन च ॥ 208 ॥
मूलम् - 208
साधनं मुनिशार्दूल! सहजं सर्वदेहिनाम्।
तमासाद्य क्रमेणैव सिसृक्षालक्षणेन च ॥ 208 ॥
विश्वास-प्रस्तुतिः - 209
स्वपदान्निस्तरङ्गाच्च कृत्वा शक्त्या सहोदयम्।
स्वानन्दं च महानन्दात् स्वानन्दस्याप्यपाश्रयात् ॥ 209 ॥
मूलम् - 209
स्वपदान्निस्तरङ्गाच्च कृत्वा शक्त्या सहोदयम्।
स्वानन्दं च महानन्दात् स्वानन्दस्याप्यपाश्रयात् ॥ 209 ॥
विश्वास-प्रस्तुतिः - 210
मारीचं नाभसं चक्रं तस्माद्रूपं स्वकं च यत्।
सूर्यकोटिकराभासं प्रस्फुरन्तं स्वभाससा ॥ 210 ॥
मूलम् - 210
मारीचं नाभसं चक्रं तस्माद्रूपं स्वकं च यत्।
सूर्यकोटिकराभासं प्रस्फुरन्तं स्वभाससा ॥ 210 ॥
विश्वास-प्रस्तुतिः - 211
कदम्बगोलका(आ)कारं निशाम्बुकणनिर्मलम्।
एवमात्मानमानीय स्वस्थानात् स्वात्मना द्विज! ॥ 211 ॥
मूलम् - 211
कदम्बगोलका(आ)कारं निशाम्बुकणनिर्मलम्।
एवमात्मानमानीय स्वस्थानात् स्वात्मना द्विज! ॥ 211 ॥
विश्वास-प्रस्तुतिः - 212
विशेन्मन्त्रशरीरं स्वं ब्रह्मरन्ध्रेण पूर्ववत्।
ज्योत्स्नानाडीपथेनैव पुर्यष्टककजान्तरम् ॥ 212 ॥
मूलम् - 212
विशेन्मन्त्रशरीरं स्वं ब्रह्मरन्ध्रेण पूर्ववत्।
ज्योत्स्नानाडीपथेनैव पुर्यष्टककजान्तरम् ॥ 212 ॥
विश्वास-प्रस्तुतिः - 213
स्ववाचकं भावयन् वै ध्वनिना निष्कलेन तु।
ततस्तु निष्कलान्मन्त्राद्यावद्भौतं च विग्रहम् ॥ 213 ॥
मूलम् - 213
स्ववाचकं भावयन् वै ध्वनिना निष्कलेन तु।
ततस्तु निष्कलान्मन्त्राद्यावद्भौतं च विग्रहम् ॥ 213 ॥
विश्वास-प्रस्तुतिः - 214
पञ्चकं चाभिमानं तु आसाद्यालोकविग्रहम्।
स्वमन्त्रादमृतौघेन सेचयेद्विग्रहं स्वकम् ॥ 214 ॥
मूलम् - 214
पञ्चकं चाभिमानं तु आसाद्यालोकविग्रहम्।
स्वमन्त्रादमृतौघेन सेचयेद्विग्रहं स्वकम् ॥ 214 ॥
विश्वास-प्रस्तुतिः - 215
ततः स्वमन्त्रं तद्बिम्बमाकृष्य हृदि विन्यसेत्।
निस्तरङ्गा परा शक्तिर्महानन्दमयी च सा ॥ 215 ॥
मूलम् - 215
ततः स्वमन्त्रं तद्बिम्बमाकृष्य हृदि विन्यसेत्।
निस्तरङ्गा परा शक्तिर्महानन्दमयी च सा ॥ 215 ॥
विश्वास-प्रस्तुतिः - 216
स्वानन्दाच्च प्रभाचक्रं रूपमात्मीयभास्वरम्।
सौषुम्नस्तादृशो मार्गः पिण्डमन्त्रश्च निष्कलः ॥ 216 ॥
मूलम् - 216
स्वानन्दाच्च प्रभाचक्रं रूपमात्मीयभास्वरम्।
सौषुम्नस्तादृशो मार्गः पिण्डमन्त्रश्च निष्कलः ॥ 216 ॥
विश्वास-प्रस्तुतिः - 217
सत्याद्यो मन्त्रशक्त्योघो धारणेश्वरपञ्चकम्।
तेषां विभवसङ्घो यः पिण्डस्तत्सामुदायिकः ॥ 217 ॥
मूलम् - 217
सत्याद्यो मन्त्रशक्त्योघो धारणेश्वरपञ्चकम्।
तेषां विभवसङ्घो यः पिण्डस्तत्सामुदायिकः ॥ 217 ॥
विश्वास-प्रस्तुतिः - 218
स्मरेल्लोलीकृतं सर्वमपृथक् च पृथक् स्थितम्।
स्थूलसूक्ष्मपराख्येन त्रिविधेन तु सत्तम! ॥ 218 ॥
मूलम् - 218
स्मरेल्लोलीकृतं सर्वमपृथक् च पृथक् स्थितम्।
स्थूलसूक्ष्मपराख्येन त्रिविधेन तु सत्तम! ॥ 218 ॥
विश्वास-प्रस्तुतिः - 219
करणेनोदिता सम्यक् शुद्धिरेषा च भौतिकी।
शोधितैः पञ्चभिर्भूतैः पृथिव्याद्यैः खपश्चिमैः ॥ 219 ॥
मूलम् - 219
करणेनोदिता सम्यक् शुद्धिरेषा च भौतिकी।
शोधितैः पञ्चभिर्भूतैः पृथिव्याद्यैः खपश्चिमैः ॥ 219 ॥
विश्वास-प्रस्तुतिः - 220
घ्राणजिह्वाक्षित्वक्छ्रोत्ररूपज्ञानेन्द्रियाणि च।
उपस्थपायुपादाख्यपाणिवागात्मकानि च ॥ 220 ॥
मूलम् - 220
घ्राणजिह्वाक्षित्वक्छ्रोत्ररूपज्ञानेन्द्रियाणि च।
उपस्थपायुपादाख्यपाणिवागात्मकानि च ॥ 220 ॥
विश्वास-प्रस्तुतिः - 221
कर्मेन्द्रियाणि पञ्चैव शोधितानि भवन्ति हि।
तत्रापि पूरकादीनां काल आयामवत्स्मृतः ॥ 221 ॥
मूलम् - 221
कर्मेन्द्रियाणि पञ्चैव शोधितानि भवन्ति हि।
तत्रापि पूरकादीनां काल आयामवत्स्मृतः ॥ 221 ॥
विश्वास-प्रस्तुतिः - 222
धारणापञ्चकेनैवं मुख्यकल्पे प्रकीर्तिता।
अनुकल्पे तु तां वक्ष्ये यथावद्विनिबोध मे ॥ 222 ॥
मूलम् - 222
धारणापञ्चकेनैवं मुख्यकल्पे प्रकीर्तिता।
अनुकल्पे तु तां वक्ष्ये यथावद्विनिबोध मे ॥ 222 ॥
विश्वास-प्रस्तुतिः - 223
क्ष्माजलानलवाय्वाख्यनाभसीयं महामते!।
धारणापञ्चकं चैव संक्षिप्तं विहितं द्वयम् ॥ 223 ॥
मूलम् - 223
क्ष्माजलानलवाय्वाख्यनाभसीयं महामते!।
धारणापञ्चकं चैव संक्षिप्तं विहितं द्वयम् ॥ 223 ॥
विश्वास-प्रस्तुतिः - 224
दहनाप्यायनाच्चैव यदा देहात् स्वशुद्धये।
नाभिक्षेत्रगतं ध्यायेन्मारुतं कवचेन तु ॥ 224 ॥
मूलम् - 224
दहनाप्यायनाच्चैव यदा देहात् स्वशुद्धये।
नाभिक्षेत्रगतं ध्यायेन्मारुतं कवचेन तु ॥ 224 ॥
विश्वास-प्रस्तुतिः - 225
नयेद्देहगतं तेन शोषभावं रसं द्विज!।
नाभिकन्दान्तरोद्देशे नेत्रमन्त्रेण पावकम् ॥ 225 ॥
मूलम् - 225
नयेद्देहगतं तेन शोषभावं रसं द्विज!।
नाभिकन्दान्तरोद्देशे नेत्रमन्त्रेण पावकम् ॥ 225 ॥
विश्वास-प्रस्तुतिः - 226
ध्यायेज्ज्वालागणोपेतं निनयेत्तेन भस्मसात्।
दहनेन स्वकं देहं हृन्मन्त्रं भावयंस्ततः ॥ 226 ॥
मूलम् - 226
ध्यायेज्ज्वालागणोपेतं निनयेत्तेन भस्मसात्।
दहनेन स्वकं देहं हृन्मन्त्रं भावयंस्ततः ॥ 226 ॥
विश्वास-प्रस्तुतिः - 227
तिष्ठेद्गगनमाश्रित्य शिरोमन्त्रेण भावयेत्।
जलं मुक्ताफलस्वच्छं तदुद्भूतमथ स्मरेत् ॥ 227 ॥
मूलम् - 227
तिष्ठेद्गगनमाश्रित्य शिरोमन्त्रेण भावयेत्।
जलं मुक्ताफलस्वच्छं तदुद्भूतमथ स्मरेत् ॥ 227 ॥
विश्वास-प्रस्तुतिः - 228
शिखामन्त्रेण कमलं वसुधागुणलक्षणम्।
तदधिष्ठातृभावेन नयेदात्मनि सत्तम! ॥ 228 ॥
मूलम् - 228
शिखामन्त्रेण कमलं वसुधागुणलक्षणम्।
तदधिष्ठातृभावेन नयेदात्मनि सत्तम! ॥ 228 ॥
विश्वास-प्रस्तुतिः - 229
ध्यायेत्तदुत्थितं कोशं भूततत्वमयं वपुः।
हृदयादीन् स्मरन् पञ्चतत्वानां कारणात्मनाम् ॥ 229 ॥
मूलम् - 229
ध्यायेत्तदुत्थितं कोशं भूततत्वमयं वपुः।
हृदयादीन् स्मरन् पञ्चतत्वानां कारणात्मनाम् ॥ 229 ॥
विश्वास-प्रस्तुतिः - 230
ततः समाचरेन्न्यासं तस्मिन् ध्यानोत्थिते पुरे।
मुख्यानुकल्पभेदेन भूतशुद्धिः प्रक्रीर्तिता ॥ 230 ॥
मूलम् - 230