००२ साधकस्नानविधिः

॥ श्रीः ॥
क्रियाकाण्डे द्वितीयोऽध्यायः
शाण्डिल्यः –

विश्वास-प्रस्तुतिः - 1

अथाधिकारसिद्ध्यर्थं स्नानं वक्ष्यामि पूर्वतः।
येन भक्तोऽभिषिक्तस्तु स्यादर्हो यागहोमयोः ॥ 1 ॥

मूलम् - 1

विश्वास-प्रस्तुतिः - 2

स्नानं तु द्विविधं कुर्यान्मलसंकरशुद्धये।
सामान्यविधिना स्नात्वा विशेषविधिना ततः ॥ 2 ॥

मूलम् - 2

स्नानं तु द्विविधं कुर्यान्मलसंकरशुद्धये।
सामान्यविधिना स्नात्वा विशेषविधिना ततः ॥ 2 ॥

विश्वास-प्रस्तुतिः - 3

सामान्यं लौकिकं स्नानं विशिष्टं मन्त्रसंस्कृतम्।
तच्चापि शौचपूर्वं स्यात्तदादौ कथयामि ते ॥ 3 ॥

मूलम् - 3

विश्वास-प्रस्तुतिः - 4

ब्राह्मं मुहूर्तमासाद्य उदयात्पूर्वमेव च।
मन्त्रज्ञः प्रयतः कुर्याद्विधिदृष्टेन कर्मणा ॥ 4 ॥

मूलम् - 4

विश्वास-प्रस्तुतिः - 5

संप्रबुद्धः प्रभाते तु उत्थाय शयने स्थितः।
नाम्नां संकीर्तनं कुर्यात् षोडशानां प्रयत्नतः ॥ 5 ॥

मूलम् - 5

विश्वास-प्रस्तुतिः - 14

यथास्थितक्रमेणैव भेदांस्त्वेतान् हरेर्विभोः।
नमस्कुर्यात् प्रभाते तु यागान्ते तु दिनक्षये ॥ 14 ॥

मूलम् - 14

यथास्थितक्रमेणैव भेदांस्त्वेतान् हरेर्विभोः।
नमस्कुर्यात् प्रभाते तु यागान्ते तु दिनक्षये ॥ 14 ॥

विश्वास-प्रस्तुतिः - 15

शब्देनोच्चतरेणैव संहृ(तु)ष्टिजननेन तु।
स्तोत्राणि चाथ मन्त्राणि उदीर्यान्यानि वै ततः ॥ 15 ॥

मूलम् - 15

शब्देनोच्चतरेणैव संहृ(तु)ष्टिजननेन तु।
स्तोत्राणि चाथ मन्त्राणि उदीर्यान्यानि वै ततः ॥ 15 ॥

विश्वास-प्रस्तुतिः - 16

इत्येवमादिभिः स्तोत्रैरभिष्टूय श्रियः पतिम्।
इदं विज्ञापयामास हरये वरदायिने ॥ 16 ॥

मूलम् - 16

इत्येवमादिभिः स्तोत्रैरभिष्टूय श्रियः पतिम्।
इदं विज्ञापयामास हरये वरदायिने ॥ 16 ॥

विश्वास-प्रस्तुतिः - 17

हरिर्हरिर्ब्रुवंस्तल्पादुत्थाय भुवि विन्यसेत्।
नमः क्षितिधरायोक्त्वा वामपादं महामते! ॥ 17 ॥

मूलम् - 17

हरिर्हरिर्ब्रुवंस्तल्पादुत्थाय भुवि विन्यसेत्।
नमः क्षितिधरायोक्त्वा वामपादं महामते! ॥ 17 ॥

विश्वास-प्रस्तुतिः - 18

बहिर्निर्गमनार्थं तु सञ्चाल्यादौ तमेव हि।
जलसंपूर्णपात्रं च अस्त्रमन्त्रोद्धृतं मुने! ॥ 18 ॥

मूलम् - 18

बहिर्निर्गमनार्थं तु सञ्चाल्यादौ तमेव हि।
जलसंपूर्णपात्रं च अस्त्रमन्त्रोद्धृतं मुने! ॥ 18 ॥

विश्वास-प्रस्तुतिः - 19

देवाग्निगिरिगोष्ठेषु नद्यां वा न श्मशानके।
वल्मीके मूषिकास्थाने वृक्षमूले सुरालये ॥ 19 ॥

मूलम् - 19

देवाग्निगिरिगोष्ठेषु नद्यां वा न श्मशानके।
वल्मीके मूषिकास्थाने वृक्षमूले सुरालये ॥ 19 ॥

विश्वास-प्रस्तुतिः - 20

जलान्तरे च मार्गे च न गृह्णीयात् कदाचन।
देशे मनोरमे ग्राह्या विहाय चतुरङ्गुलम् ॥ 20 ॥

मूलम् - 20

जलान्तरे च मार्गे च न गृह्णीयात् कदाचन।
देशे मनोरमे ग्राह्या विहाय चतुरङ्गुलम् ॥ 20 ॥

विश्वास-प्रस्तुतिः - 21

प्राण्यङ्गतुषभस्मास्थिकाष्ठलोष्टविवर्जितम्।
परशौचावशिष्टं यच्छ्रेयःकामैः सदा नरैः ॥ 21 ॥

मूलम् - 21

प्राण्यङ्गतुषभस्मास्थिकाष्ठलोष्टविवर्जितम्।
परशौचावशिष्टं यच्छ्रेयःकामैः सदा नरैः ॥ 21 ॥

विश्वास-प्रस्तुतिः - 22

अनङ्गारामनूषारां तथा कृष्णामवालुकाम्।
शस्त्रादिनाऽस्त्रजप्तेन निखनेच्छुभदेशगाम् ॥ 22 ॥

मूलम् - 22

अनङ्गारामनूषारां तथा कृष्णामवालुकाम्।
शस्त्रादिनाऽस्त्रजप्तेन निखनेच्छुभदेशगाम् ॥ 22 ॥

विश्वास-प्रस्तुतिः - 23

मृदं दोषविनिर्मुक्तां ततस्तेनैव चाहरेत्।
स्नानोपकरणं चान्यच्छमीशाखाः सपल्लवाः ॥ 23 ॥

मूलम् - 23

मृदं दोषविनिर्मुक्तां ततस्तेनैव चाहरेत्।
स्नानोपकरणं चान्यच्छमीशाखाः सपल्लवाः ॥ 23 ॥

विश्वास-प्रस्तुतिः - 24

अर्कन्यग्रोधखदिरकरञ्जककुभादिकम्।
शरजोदुम्बराश्वत्थप्लक्षदर्भांश्च वैणवान् ॥ 24 ॥

मूलम् - 24

अर्कन्यग्रोधखदिरकरञ्जककुभादिकम्।
शरजोदुम्बराश्वत्थप्लक्षदर्भांश्च वैणवान् ॥ 24 ॥

विश्वास-प्रस्तुतिः - 25

आम्राङ्कुरमपामार्गमर्जुनं धातकीं शमीम्।
अन्यानि च पवित्राणि तेषु संपन्नमाहरेत् ॥ 25 ॥

मूलम् - 25

आम्राङ्कुरमपामार्गमर्जुनं धातकीं शमीम्।
अन्यानि च पवित्राणि तेषु संपन्नमाहरेत् ॥ 25 ॥

विश्वास-प्रस्तुतिः - 26

यथावसरमेतद्वै नृपवत् संप्रयोज्य च।
कूपस्नानं न कुर्वीत तटाकादिषु सत्सु च ॥ 26 ॥

मूलम् - 26

यथावसरमेतद्वै नृपवत् संप्रयोज्य च।
कूपस्नानं न कुर्वीत तटाकादिषु सत्सु च ॥ 26 ॥

विश्वास-प्रस्तुतिः - 27

तेषु नाल्पोदके स्नायात्तीर्थेषु बहुवारिषु।
एतेष्वपि तु न स्नायात् सत्यां सरिति साधकः ॥ 27 ॥

मूलम् - 27

तेषु नाल्पोदके स्नायात्तीर्थेषु बहुवारिषु।
एतेष्वपि तु न स्नायात् सत्यां सरिति साधकः ॥ 27 ॥

विश्वास-प्रस्तुतिः - 28

सरित्स्वपि च सर्वासु विशिष्टाः स्युः समुद्रगाः।
तासामपि विशिष्टाः स्युः सर्वाः प्राक्स्रोतसः सदा ॥ 28 ॥

मूलम् - 28

विश्वास-प्रस्तुतिः - 29

नदीनामपि सर्वासां दक्षिणं तीरमुत्तमम्।
प्राक्स्रोतसः स्रवन्त्यस्तु यत्र चोदङ्मुखस्थिताः ॥ 29 ॥

मूलम् - 29

नदीनामपि सर्वासां दक्षिणं तीरमुत्तमम्।
प्राक्स्रोतसः स्रवन्त्यस्तु यत्र चोदङ्मुखस्थिताः ॥ 29 ॥

विश्वास-प्रस्तुतिः - 30

प्राक्तीरं तत्र तीर्थं स्यात् सर्वपापप्रणाशनम्।
कूपाद्दशगुणा वापी वाप्या दशगुणा नदी ॥ 30 ॥

मूलम् - 30

प्राक्तीरं तत्र तीर्थं स्यात् सर्वपापप्रणाशनम्।
कूपाद्दशगुणा वापी वाप्या दशगुणा नदी ॥ 30 ॥

विश्वास-प्रस्तुतिः - 31

नद्यां स्नानफलं स्नातुस्तथा तस्याः समुद्रगाः।
तथा दशगुणं तस्याः प्राक्स्रोताः कुरुते फलम् ॥ 31 ॥

मूलम् - 31

नद्यां स्नानफलं स्नातुस्तथा तस्याः समुद्रगाः।
तथा दशगुणं तस्याः प्राक्स्रोताः कुरुते फलम् ॥ 31 ॥

विश्वास-प्रस्तुतिः - 32

प्राक्स्रोतसोदङ्‌मुखायाः प्राक्तीरेऽनन्तकं फलम्।
पूर्वं तु क्षालिते तीरे संप्रोक्ष्य स्थापयेत् पृथक् ॥ 32 ॥

मूलम् - 32

विश्वास-प्रस्तुतिः - 33

जलसंपूर्णपात्रं च अस्त्रमन्त्रोद्धृतं मुने!।
शौचार्थं मृदमाहृत्य जलकूले निधाय वै ॥ 33 ॥

मूलम् - 33

जलसंपूर्णपात्रं च अस्त्रमन्त्रोद्धृतं मुने!।
शौचार्थं मृदमाहृत्य जलकूले निधाय वै ॥ 33 ॥

विश्वास-प्रस्तुतिः - 34

मनोरमे शुचौ देशे तृणान्निक्षिप्य भूतले।
दिवासन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ॥ 34 ॥

मूलम् - 34

मनोरमे शुचौ देशे तृणान्निक्षिप्य भूतले।
दिवासन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ॥ 34 ॥

विश्वास-प्रस्तुतिः - 35

कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः।
न कुर्याद्भुवि विण्मूत्रे संभवद्दीर्घजन्तुषु ॥ 35 ॥

मूलम् - 35

कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः।
न कुर्याद्भुवि विण्मूत्रे संभवद्दीर्घजन्तुषु ॥ 35 ॥

विश्वास-प्रस्तुतिः - 36

न चाप्सु न गिरौ चापि चत्वरेषु चतुष्पथे।
न राजमार्गे नो वीथ्यां न देवायतने क्वचित् ॥ 36 ॥

मूलम् - 36

न चाप्सु न गिरौ चापि चत्वरेषु चतुष्पथे।
न राजमार्गे नो वीथ्यां न देवायतने क्वचित् ॥ 36 ॥

विश्वास-प्रस्तुतिः - 37

न श्मशाने न चैत्ये च न भस्मनि न गोव्रजे।
न ग्राममध्ये विप्रेन्द्र! कुर्वीताप्यन्यथाविधि ॥ 37 ॥

मूलम् - 37

न श्मशाने न चैत्ये च न भस्मनि न गोव्रजे।
न ग्राममध्ये विप्रेन्द्र! कुर्वीताप्यन्यथाविधि ॥ 37 ॥

विश्वास-प्रस्तुतिः - 38

आत्मच्छायां तरुच्छायां न मेहेत कदाचन।
अवकुण्ठ्योत्तमाङ्गं तु न पश्येद्दिग्गणं मलम् ॥ 38 ॥

मूलम् - 38

आत्मच्छायां तरुच्छायां न मेहेत कदाचन।
अवकुण्ठ्योत्तमाङ्गं तु न पश्येद्दिग्गणं मलम् ॥ 38 ॥

विश्वास-प्रस्तुतिः - 39

तथा ज्योतींष्यपश्यंश्च देवतायतनानि च।
पुरीषं गुदसंयुक्तं काष्ठपर्णतृणादिभिः ॥ 39 ॥

मूलम् - 39

तथा ज्योतींष्यपश्यंश्च देवतायतनानि च।
पुरीषं गुदसंयुक्तं काष्ठपर्णतृणादिभिः ॥ 39 ॥

विश्वास-प्रस्तुतिः - 40

वामहस्तेन सम्मार्ज्य तेन हस्ततलेन तु।
गृहीतशिश्नश्चोत्थाय जलकूलं समाश्रयेत् ॥ 40 ॥

मूलम् - 40

वामहस्तेन सम्मार्ज्य तेन हस्ततलेन तु।
गृहीतशिश्नश्चोत्थाय जलकूलं समाश्रयेत् ॥ 40 ॥

विश्वास-प्रस्तुतिः - 41

ऊरुद्वयान्तरस्थेन गुदं मृद्दायिनाऽपि च।
दाक्षिण्यजानोर्बाह्यं च दीयमानजलेन च ॥ 41 ॥

मूलम् - 41

ऊरुद्वयान्तरस्थेन गुदं मृद्दायिनाऽपि च।
दाक्षिण्यजानोर्बाह्यं च दीयमानजलेन च ॥ 41 ॥

विश्वास-प्रस्तुतिः - 42

वामेन दक्षिणेनैव पाणिना कुक्कुटासनी।
अस्पृष्टतीर्थः शौचार्थं मृद्भिरभ्युद्धृतैर्जलैः ॥ 42 ॥

मूलम् - 42

वामेन दक्षिणेनैव पाणिना कुक्कुटासनी।
अस्पृष्टतीर्थः शौचार्थं मृद्भिरभ्युद्धृतैर्जलैः ॥ 42 ॥

विश्वास-प्रस्तुतिः - 43

गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः।
तिस्रो लिङ्गे मृदो देया एकैकान्तरमृत्तिकाः ॥ 43 ॥

मूलम् - 43

गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः।
तिस्रो लिङ्गे मृदो देया एकैकान्तरमृत्तिकाः ॥ 43 ॥

विश्वास-प्रस्तुतिः - 44

पञ्च वामकरे देयास्तिस्रः पाण्योर्विशुद्धये।
मूत्रोत्सर्गे शुद्धिरेषा पुरीषस्याप्यनन्तरम् ॥ 44 ॥

मूलम् - 44

पञ्च वामकरे देयास्तिस्रः पाण्योर्विशुद्धये।
मूत्रोत्सर्गे शुद्धिरेषा पुरीषस्याप्यनन्तरम् ॥ 44 ॥

विश्वास-प्रस्तुतिः - 45

अर्धप्रसृतिमात्रं तु प्रथमा मृत्तिका स्मृता।
द्वितीया च तृतीया च तदर्धा परिकीर्तिता ॥ 45 ॥

मूलम् - 45

अर्धप्रसृतिमात्रं तु प्रथमा मृत्तिका स्मृता।
द्वितीया च तृतीया च तदर्धा परिकीर्तिता ॥ 45 ॥

विश्वास-प्रस्तुतिः - 46

बिडालपदमात्रं तु तदूर्ध्वा परिकीर्तिता।
पञ्चापाने मृत्तिकाः स्युस्तथैवान्तरमृत्तिकाः ॥ 46 ॥

मूलम् - 46

बिडालपदमात्रं तु तदूर्ध्वा परिकीर्तिता।
पञ्चापाने मृत्तिकाः स्युस्तथैवान्तरमृत्तिकाः ॥ 46 ॥

विश्वास-प्रस्तुतिः - 47

दश वामकरे देयाः सप्त तूभयहस्तयोः।
पादाभ्यां तिसृभिः शुद्धिर्जङ्घाशुद्धिश्च पञ्चभिः ॥ 47 ॥

मूलम् - 47

दश वामकरे देयाः सप्त तूभयहस्तयोः।
पादाभ्यां तिसृभिः शुद्धिर्जङ्घाशुद्धिश्च पञ्चभिः ॥ 47 ॥

विश्वास-प्रस्तुतिः - 48

नियोजयेत्ततो विप्र! कट्यां वै सप्त मृत्तिकाः।
स्वदेहस्वेददोषघ्ना बाह्यकर्दमशान्तये ॥ 48 ॥

मूलम् - 48

नियोजयेत्ततो विप्र! कट्यां वै सप्त मृत्तिकाः।
स्वदेहस्वेददोषघ्ना बाह्यकर्दमशान्तये ॥ 48 ॥

विश्वास-प्रस्तुतिः - 49

भक्तानां श्रोत्रियाणां च वर्षास्वेवं निरूपितम्।
प्रावृ(ट्‌सू)डुक्तात्तु वै तस्मादेकमृद्व्यपनोदनम् ॥ 49 ॥

मूलम् - 49

विश्वास-प्रस्तुतिः - 50

शरद्ग्रीष्मवसन्तेषु नित्यं कार्यं क्रियापरैः।
एतस्मादपि चैकैका परिलोप्या तु मृत्तिका ॥ 50 ॥

मूलम् - 50

शरद्ग्रीष्मवसन्तेषु नित्यं कार्यं क्रियापरैः।
एतस्मादपि चैकैका परिलोप्या तु मृत्तिका ॥ 50 ॥

विश्वास-प्रस्तुतिः - 51

हेमन्ते शिशिरे विप्र! श्रोत्रियैः संयमस्थितैः।
पथि शौचं प्रकर्तव्यं देशकालानुरूपतः ॥ 51 ॥

मूलम् - 51

हेमन्ते शिशिरे विप्र! श्रोत्रियैः संयमस्थितैः।
पथि शौचं प्रकर्तव्यं देशकालानुरूपतः ॥ 51 ॥

विश्वास-प्रस्तुतिः - 52

गन्धलेपमपास्यैवं मनः शुद्ध्या विशुध्यति।
विहिताः पादशौचे तु बिडालपदसंमिताः ॥ 52 ॥

मूलम् - 52

गन्धलेपमपास्यैवं मनः शुद्ध्या विशुध्यति।
विहिताः पादशौचे तु बिडालपदसंमिताः ॥ 52 ॥

विश्वास-प्रस्तुतिः - 53

मृदश्चतुर्द्विजेन्द्राणां त्रिर्द्विरेका क्रमात्ततः।
वर्णानां शूद्रनिष्ठानां कटिशौचे तथैव हि ॥ 53 ॥

मूलम् - 53

मृदश्चतुर्द्विजेन्द्राणां त्रिर्द्विरेका क्रमात्ततः।
वर्णानां शूद्रनिष्ठानां कटिशौचे तथैव हि ॥ 53 ॥

विश्वास-प्रस्तुतिः - 54

सप्त सप्त च ऊरुभ्यां कराभ्यां त्रितयं पुनः।
सर्वेषामेव सामान्यं पाणिशौचमुदाहृतम् ॥ 54 ॥

मूलम् - 54

सप्त सप्त च ऊरुभ्यां कराभ्यां त्रितयं पुनः।
सर्वेषामेव सामान्यं पाणिशौचमुदाहृतम् ॥ 54 ॥

विश्वास-प्रस्तुतिः - 55

अन्तर्जानुगतं कृत्वा भुजयुग्मं द्विजोत्तम!।
चतुर्धा मणिबन्धस्थं तोयं कृत्वा सुनिर्मलम् ॥ 55 ॥

मूलम् - 55

अन्तर्जानुगतं कृत्वा भुजयुग्मं द्विजोत्तम!।
चतुर्धा मणिबन्धस्थं तोयं कृत्वा सुनिर्मलम् ॥ 55 ॥

विश्वास-प्रस्तुतिः - 56

बुद्बुदाद्यैर्विनिर्मुक्तं पिबेद्विप्रो हृदा ततः।
एकैकां ह्रासयेन्मात्रां वर्णत्रयमनुक्रमात् ॥ 56 ॥

मूलम् - 56

बुद्बुदाद्यैर्विनिर्मुक्तं पिबेद्विप्रो हृदा ततः।
एकैकां ह्रासयेन्मात्रां वर्णत्रयमनुक्रमात् ॥ 56 ॥

विश्वास-प्रस्तुतिः - 57

पाणिना क्षालितेनैव पुनराचामयेद्बुधः।
एवं प्रक्षाल्य विधिवदाचम्य प्रयतः शुचिः ॥ 57 ॥

मूलम् - 57

पाणिना क्षालितेनैव पुनराचामयेद्बुधः।
एवं प्रक्षाल्य विधिवदाचम्य प्रयतः शुचिः ॥ 57 ॥

विश्वास-प्रस्तुतिः - 58

प्राङ्मुखोदङ्मुखो वाऽपि उपविश्यासनं(ने) ततः।
अर्कादिभिरपामार्गैः कारयेद्दन्तधावनम् ॥ 58 ॥

मूलम् - 58

प्राङ्मुखोदङ्मुखो वाऽपि उपविश्यासनं(ने) ततः।
अर्कादिभिरपामार्गैः कारयेद्दन्तधावनम् ॥ 58 ॥

विश्वास-प्रस्तुतिः - 59

प्रातर्भुक्त्वा च मृद्वग्रं कषायकटुतिक्तकम्।
भक्षयेद्दन्तधवनं दन्तमांसान्यबाधयन् ॥ 59 ॥

मूलम् - 59

प्रातर्भुक्त्वा च मृद्वग्रं कषायकटुतिक्तकम्।
भक्षयेद्दन्तधवनं दन्तमांसान्यबाधयन् ॥ 59 ॥

विश्वास-प्रस्तुतिः - 60

द्वादशाङ्गुलमात्रं तु वक्रग्रन्थिविवर्जितम्।
पयोभिः सह तर्जन्या ब्रह्म(न्‌)द्वादशसंख्यया ॥ 60 ॥

मूलम् - 60

द्वादशाङ्गुलमात्रं तु वक्रग्रन्थिविवर्जितम्।
पयोभिः सह तर्जन्या ब्रह्म(न्‌)द्वादशसंख्यया ॥ 60 ॥

विश्वास-प्रस्तुतिः - 61

काष्ठालाभे तु रोगे वा कर्तव्यं दन्तधावनम्।
षोडशाङ्गुलदीर्घैस्तु वक्रग्रन्थिविवर्जितैः ॥ 61 ॥

मूलम् - 61

काष्ठालाभे तु रोगे वा कर्तव्यं दन्तधावनम्।
षोडशाङ्गुलदीर्घैस्तु वक्रग्रन्थिविवर्जितैः ॥ 61 ॥

विश्वास-प्रस्तुतिः - 62

हेमादिनिर्मितैर्वाऽपि कुशदर्भादिभिस्तथा।
जिह्वानिर्लेहनं चैव गण्डूषं मुखधावनम् ॥ 62 ॥

मूलम् - 62

हेमादिनिर्मितैर्वाऽपि कुशदर्भादिभिस्तथा।
जिह्वानिर्लेहनं चैव गण्डूषं मुखधावनम् ॥ 62 ॥

विश्वास-प्रस्तुतिः - 63

कुर्यादाचमनं विप्र! शुद्धेन सलिलेन च।
विना विविधसंपर्कैः पञ्चाङ्गस्नानमाचरेत् ॥ 63 ॥

मूलम् - 63

कुर्यादाचमनं विप्र! शुद्धेन सलिलेन च।
विना विविधसंपर्कैः पञ्चाङ्गस्नानमाचरेत् ॥ 63 ॥

विश्वास-प्रस्तुतिः - 64

मुखं करद्वयोपेतं पादौ कटितलावधि।
स्त्रीसङ्गाद्युपघातेषु स्नानं कुर्याद्यथाविधि ॥ 64 ॥

मूलम् - 64

मुखं करद्वयोपेतं पादौ कटितलावधि।
स्त्रीसङ्गाद्युपघातेषु स्नानं कुर्याद्यथाविधि ॥ 64 ॥

विश्वास-प्रस्तुतिः - 65

अधोत्तमाङ्गात् पादान्तं शिरसाऽभ्यञ्जयेद्द्विज!।
अङ्गान्युद्वर्त्य चास्त्रेण चरणान्तान्यनुक्रमात् ॥ 65 ॥

मूलम् - 65

विश्वास-प्रस्तुतिः - 66

गोमयेन मृदा विप्र! निर्मलीकृत्य विग्रहम्।
नरामरप्रयुक्तां प्राक् स्नानार्थं चाहरेत् खलीम् ॥ 66 ॥

मूलम् - 66

गोमयेन मृदा विप्र! निर्मलीकृत्य विग्रहम्।
नरामरप्रयुक्तां प्राक् स्नानार्थं चाहरेत् खलीम् ॥ 66 ॥

विश्वास-प्रस्तुतिः - 67

माषचूर्णादिना देहं निर्हृत्य कवचं स्मरन्।
शुद्ध्यर्थं प्रथमं स्नात्वा मन्त्रस्नानं समाचरेत् ॥ 67 ॥

मूलम् - 67

माषचूर्णादिना देहं निर्हृत्य कवचं स्मरन्।
शुद्ध्यर्थं प्रथमं स्नात्वा मन्त्रस्नानं समाचरेत् ॥ 67 ॥

विश्वास-प्रस्तुतिः - 68

स्नायाद्राजोपचारेण दिव्यैर्गन्धैः पुराऽऽहृतैः।
हृन्मन्त्रेण च विप्रेन्द्र! वामहस्ततले ततः ॥ 68 ॥

मूलम् - 68

स्नायाद्राजोपचारेण दिव्यैर्गन्धैः पुराऽऽहृतैः।
हृन्मन्त्रेण च विप्रेन्द्र! वामहस्ततले ततः ॥ 68 ॥

विश्वास-प्रस्तुतिः - 69

मृदाऽऽमलकमानेन क्रमशोऽभिनिधाय च।
प्रान्तपर्वावधौ मध्ये मणिबन्धसमीपतः ॥ 69 ॥

मूलम् - 69

मृदाऽऽमलकमानेन क्रमशोऽभिनिधाय च।
प्रान्तपर्वावधौ मध्ये मणिबन्धसमीपतः ॥ 69 ॥

विश्वास-प्रस्तुतिः - 70

अस्त्रमन्त्रेण मूलेन क्रमात् पञ्चाङ्गमन्त्रितम्।
कृत्वा नियोज्य दिक्ष्वप्सु सर्वाङ्गालेपनं क्रमात् ॥ 70 ॥

मूलम् - 70

विश्वास-प्रस्तुतिः - 71

अध ऊर्ध्वे च तन्मन्त्रं मुद्राबन्धेन संयुतम्।
तेन स्नानहरा विघ्ना दिग्विदिक्परिसंस्थिताः ॥ 71 ॥

मूलम् - 71

अध ऊर्ध्वे च तन्मन्त्रं मुद्राबन्धेन संयुतम्।
तेन स्नानहरा विघ्ना दिग्विदिक्परिसंस्थिताः ॥ 71 ॥

विश्वास-प्रस्तुतिः - 72

प्रयान्ति विह्वलीभूता यावत्तन्नोपसंहृतम्।
मृद्भागो मूल्मन्त्रेण मन्त्रितो यः पुरा स्थितः ॥ 72 ॥

मूलम् - 72

प्रयान्ति विह्वलीभूता यावत्तन्नोपसंहृतम्।
मृद्भागो मूल्मन्त्रेण मन्त्रितो यः पुरा स्थितः ॥ 72 ॥

विश्वास-प्रस्तुतिः - 73

तमुच्चरन् समादाय तोयमध्ये विनिक्षिपेत्।
तेन तद्‌द्विजशार्दूल! तत्क्षणादेव जायते ॥ 73 ॥

मूलम् - 73

तमुच्चरन् समादाय तोयमध्ये विनिक्षिपेत्।
तेन तद्‌द्विजशार्दूल! तत्क्षणादेव जायते ॥ 73 ॥

विश्वास-प्रस्तुतिः - 74

गङ्गातोयेन संपूर्णं यामुनेन शुभेन च।
प्रयागं चक्रतीर्थं च प्रभासं पुष्कराणि च ॥ 74 ॥

मूलम् - 74

गङ्गातोयेन संपूर्णं यामुनेन शुभेन च।
प्रयागं चक्रतीर्थं च प्रभासं पुष्कराणि च ॥ 74 ॥

विश्वास-प्रस्तुतिः - 75

भवन्ति सन्निधीभूता मन्त्रस्यास्य प्रभावतः।
ततो वै विष्णुतीर्थाय मन्त्रान्ते पदमुच्चरेत्(रन्)॥ 75 ॥

मूलम् - 75

भवन्ति सन्निधीभूता मन्त्रस्यास्य प्रभावतः।
ततो वै विष्णुतीर्थाय मन्त्रान्ते पदमुच्चरेत्(रन्)॥ 75 ॥

विश्वास-प्रस्तुतिः - 76

सनमस्कं भवेत्तेन विष्णुतीर्थस्य सन्निधौ।
अन्यतीर्थे यदा स्नानं कुर्यात्तत्र च योजयेत् ॥ 76 ॥

मूलम् - 76

सनमस्कं भवेत्तेन विष्णुतीर्थस्य सन्निधौ।
अन्यतीर्थे यदा स्नानं कुर्यात्तत्र च योजयेत् ॥ 76 ॥

विश्वास-प्रस्तुतिः - 77

केवलं मूलमन्त्रं तु विष्णुतीर्थपदं विना।
तीर्थान्तरेष्विदं नाम न संकीर्तयते सुधीः ॥ 77 ॥

मूलम् - 77

केवलं मूलमन्त्रं तु विष्णुतीर्थपदं विना।
तीर्थान्तरेष्विदं नाम न संकीर्तयते सुधीः ॥ 77 ॥

नित्यसन्निधितीर्थस्य यद्यन्यस्याभिधां स्मरेत्। स्नातस्य तत्र तीर्थं तदभिशापं क्षणं(णात्) सृजेत्॥
विश्वास-प्रस्तुतिः - 79

निर्झराम्बुतटाकादौ सामान्यस्नानकर्मणि।
गङ्गादीनां नदीनां च तीर्थानां च प्रकीर्तनम् ॥ 79 ॥

मूलम् - 79

निर्झराम्बुतटाकादौ सामान्यस्नानकर्मणि।
गङ्गादीनां नदीनां च तीर्थानां च प्रकीर्तनम् ॥ 79 ॥

विश्वास-प्रस्तुतिः - 80

मन्त्रस्नानं(न) क्रमैः सम्यग्विष्णुतीर्थाय कीर्तयेत्।
ततोऽङ्गमन्त्रजप्तं च भागं पाणितले स्थितम् ॥ 80 ॥

मूलम् - 80

विश्वास-प्रस्तुतिः - 81

तोयेनालोड्य मसृणं तापयेदर्करश्मिभिः।
मेघच्छन्ने स्वकं मन्त्रं सूर्यवत् खस्थितं स्मरेत् ॥ 81 ॥

मूलम् - 81

तोयेनालोड्य मसृणं तापयेदर्करश्मिभिः।
मेघच्छन्ने स्वकं मन्त्रं सूर्यवत् खस्थितं स्मरेत् ॥ 81 ॥

विश्वास-प्रस्तुतिः - 82

दर्शयित्वा करौ तस्य ताभ्यां सर्वाऽङ्गकं स्पृशेत्।
अपास्य प्रोच्चरन् वर्म मृल्लेपं वारिणाऽङ्गगम् ॥ 82 ॥

मूलम् - 82

विश्वास-प्रस्तुतिः - 83

दर्भपुञ्जीलमादाय दक्षिणेन करेण तु।
जले त्वावर्त्य तन्मन्त्रं सकृद्वा बहुशो द्विधा ॥ 83 ॥

मूलम् - 83

दर्भपुञ्जीलमादाय दक्षिणेन करेण तु।
जले त्वावर्त्य तन्मन्त्रं सकृद्वा बहुशो द्विधा ॥ 83 ॥

विश्वास-प्रस्तुतिः - 84

ततः कुम्भाभिषेकं वा पाणिकुम्भोदराम्बुना।
स(सं)हिता(कृदा)वर्तितेनैव अभिषेकं तु मूर्धनि ॥ 84 ॥

मूलम् - 84

ततः कुम्भाभिषेकं वा पाणिकुम्भोदराम्बुना।
स(सं)हिता(कृदा)वर्तितेनैव अभिषेकं तु मूर्धनि ॥ 84 ॥

विश्वास-प्रस्तुतिः - 85

श्रोत्रदृग्वदनं नासां स्वकराङ्गुलिभिः क्रमात्।
स्थगयित्वा निमज्याथ साङ्गं मन्त्रमथोच्चरन् ॥ 85 ॥

मूलम् - 85

श्रोत्रदृग्वदनं नासां स्वकराङ्गुलिभिः क्रमात्।
स्थगयित्वा निमज्याथ साङ्गं मन्त्रमथोच्चरन् ॥ 85 ॥

विश्वास-प्रस्तुतिः - 86

सकृद्वा बहुशः शक्त्या ध्यायेज्ज्योतिर्मयं हरिम्।
देवं हृत्पुष्करान्तस्थं नेत्रयोरथ चान्तरे ॥ 86 ॥

मूलम् - 86

सकृद्वा बहुशः शक्त्या ध्यायेज्ज्योतिर्मयं हरिम्।
देवं हृत्पुष्करान्तस्थं नेत्रयोरथ चान्तरे ॥ 86 ॥

विश्वास-प्रस्तुतिः - 87

सर्वपापनिरासार्थं कृत्वैवमघमर्षणम्।
प्राणायामैस्त्रिभिर्द्वाभ्यामेकेन नियतेन वा ॥ 87 ॥

मूलम् - 87

सर्वपापनिरासार्थं कृत्वैवमघमर्षणम्।
प्राणायामैस्त्रिभिर्द्वाभ्यामेकेन नियतेन वा ॥ 87 ॥

विश्वास-प्रस्तुतिः - 88

समुत्थायाचरेत् पश्चात् सन्निरीक्ष्यार्कमण्डलम्।
मन्त्रमूर्तिर्महातेजाः समुत्तीर्य जलान्तरात् ॥ 88 ॥

मूलम् - 88

समुत्थायाचरेत् पश्चात् सन्निरीक्ष्यार्कमण्डलम्।
मन्त्रमूर्तिर्महातेजाः समुत्तीर्य जलान्तरात् ॥ 88 ॥

विश्वास-प्रस्तुतिः - 89

स्नानवस्त्रं परित्यज्य परिधायाम्बरान्तरम्।
शिखयाऽथ शिखाबन्धं कृत्वाऽऽचम्य यथाविधि ॥ 89 ॥

मूलम् - 89

स्नानवस्त्रं परित्यज्य परिधायाम्बरान्तरम्।
शिखयाऽथ शिखाबन्धं कृत्वाऽऽचम्य यथाविधि ॥ 89 ॥

विश्वास-प्रस्तुतिः - 90

अङ्गुष्ठमूलं ब्राह्मं तु अङ्गुल्यग्रं तु दैविकम्।
पैतृकं हस्तमध्यं तु तीर्थं दक्षिणहस्तजम् ॥ 90 ॥

मूलम् - 90

अङ्गुष्ठमूलं ब्राह्मं तु अङ्गुल्यग्रं तु दैविकम्।
पैतृकं हस्तमध्यं तु तीर्थं दक्षिणहस्तजम् ॥ 90 ॥

विश्वास-प्रस्तुतिः - 91

ब्राह्मेण तु पिबेत्तोयं पैतृकेन तु मार्ज्रयेत्।
दैविकेन स्पृशेदङ्गान् येषां तृप्तिं यदीच्छति ॥ 91 ॥

मूलम् - 91

ब्राह्मेण तु पिबेत्तोयं पैतृकेन तु मार्ज्रयेत्।
दैविकेन स्पृशेदङ्गान् येषां तृप्तिं यदीच्छति ॥ 91 ॥

विश्वास-प्रस्तुतिः - 92

त्रिधा चतुर्धा वा विप्र! द्विरामृज्य मुखं पुनः।
वामहस्ततलं प्रोक्ष्य पादयोश्च तले शुभे ॥ 92 ॥

मूलम् - 92

त्रिधा चतुर्धा वा विप्र! द्विरामृज्य मुखं पुनः।
वामहस्ततलं प्रोक्ष्य पादयोश्च तले शुभे ॥ 92 ॥

विश्वास-प्रस्तुतिः - 93

तलेन हृदयं स्पृष्ट्वा मुखमङ्गुलिभिस्तथा।
अङ्गुष्ठानामिकां कृत्वा नेत्रे स्पृष्ट्वा च वारिणा ॥ 93 ॥

मूलम् - 93

तलेन हृदयं स्पृष्ट्वा मुखमङ्गुलिभिस्तथा।
अङ्गुष्ठानामिकां कृत्वा नेत्रे स्पृष्ट्वा च वारिणा ॥ 93 ॥

विश्वास-प्रस्तुतिः - 94

तेनैव तर्जनीं कृत्वा तथा द्वे नासिकापुटे।
कनिष्ठिकां तथा कृत्वा तेनैव श्रवणं स्पृशेत् ॥ 94 ॥

मूलम् - 94

तेनैव तर्जनीं कृत्वा तथा द्वे नासिकापुटे।
कनिष्ठिकां तथा कृत्वा तेनैव श्रवणं स्पृशेत् ॥ 94 ॥

विश्वास-प्रस्तुतिः - 95

तथैव मध्यमां कृत्वा बाहुदेशावुभौ स्पृशेत्।
तेनैव नाभिदेशं च सवैर्युक्तैः शिरः स्पृशेत्॥ 95 ॥

मूलम् - 95

तथैव मध्यमां कृत्वा बाहुदेशावुभौ स्पृशेत्।
तेनैव नाभिदेशं च सवैर्युक्तैः शिरः स्पृशेत्॥ 95 ॥

विश्वास-प्रस्तुतिः - 96

एतदाचमनं प्रोक्तं सर्वकर्मसु सर्वदा।
सजलं दक्षिणं हस्तं कृत्वा घ्राणाग्रगं मुने!॥ 96 ॥

मूलम् - 96

एतदाचमनं प्रोक्तं सर्वकर्मसु सर्वदा।
सजलं दक्षिणं हस्तं कृत्वा घ्राणाग्रगं मुने!॥ 96 ॥

विश्वास-प्रस्तुतिः - 97

स्मरन् हृन्मन्त्रमाघ्राय सन्धार्य कवचं लपन्।
विरेच्य समुदीर्यास्त्रं तोयक्षेपेण वै सह ॥ 97 ॥

मूलम् - 97

स्मरन् हृन्मन्त्रमाघ्राय सन्धार्य कवचं लपन्।
विरेच्य समुदीर्यास्त्रं तोयक्षेपेण वै सह ॥ 97 ॥

विश्वास-प्रस्तुतिः - 98

ततस्तु हस्तयोर्देहे न्यासं कुर्याद्यथाग(क्र)मम्।
हृदा वामकरे तोयमादाय गलितं च तत् ॥ 98 ॥

मूलम् - 98

ततस्तु हस्तयोर्देहे न्यासं कुर्याद्यथाग(क्र)मम्।
हृदा वामकरे तोयमादाय गलितं च तत् ॥ 98 ॥

विश्वास-प्रस्तुतिः - 99

विबुधानूर्ध्वदेहस्थान् ह्लादयेच्छिखया क्षिपन्।
स्मरन्नस्त्रं क्षिपेद्भूमौ दुष्टदोषप्रशान्तये ॥ 99 ॥

मूलम् - 99

विबुधानूर्ध्वदेहस्थान् ह्लादयेच्छिखया क्षिपन्।
स्मरन्नस्त्रं क्षिपेद्भूमौ दुष्टदोषप्रशान्तये ॥ 99 ॥

विश्वास-प्रस्तुतिः - 100

अन्तरान्तरयोगेन ह्यूर्ध्वान्तं प्रागधस्ततः।
जलाञ्जलिमथादाय स(स्व)मन्त्रेण हरिं स्मरन् ॥ 100 ॥

मूलम् - 100

अन्तरान्तरयोगेन ह्यूर्ध्वान्तं प्रागधस्ततः।
जलाञ्जलिमथादाय स(स्व)मन्त्रेण हरिं स्मरन् ॥ 100 ॥

विश्वास-प्रस्तुतिः - 101

सूर्यमण्डलमध्यस्थं तर्पयेत्तेन वारिणा।
सकुशोर्ध्वकरश्चाथ विनिमीलितदृग्जपन् ॥ 101 ॥

मूलम् - 101

सूर्यमण्डलमध्यस्थं तर्पयेत्तेन वारिणा।
सकुशोर्ध्वकरश्चाथ विनिमीलितदृग्जपन् ॥ 101 ॥

विश्वास-प्रस्तुतिः - 102

सूर्यं निरीक्षयेन्मन्त्रं यदर्ध्येणार्चितं पुरा।
ततोपविश्य सन्तर्प्य आ(सा)धारासनपूर्वकम् ॥ 102 ॥

मूलम् - 102

सूर्यं निरीक्षयेन्मन्त्रं यदर्ध्येणार्चितं पुरा।
ततोपविश्य सन्तर्प्य आ(सा)धारासनपूर्वकम् ॥ 102 ॥

विश्वास-प्रस्तुतिः - 103

साङ्गं सपरिवारं च मन्त्रं तदनु वै क्रमात्।
इन्द्रादीन् विष्णुपूर्वांश्च वासुदेवादिकानपि ॥ 103 ॥

मूलम् - 103

साङ्गं सपरिवारं च मन्त्रं तदनु वै क्रमात्।
इन्द्रादीन् विष्णुपूर्वांश्च वासुदेवादिकानपि ॥ 103 ॥

विश्वास-प्रस्तुतिः - 104

मूर्तीर्द्वादशशक्तीश्च परमात्मानमेव च।
पृथिव्यादीनि भूतानि ऋषींश्च पितृभिस्सह ॥ 104 ॥

मूलम् - 104

मूर्तीर्द्वादशशक्तीश्च परमात्मानमेव च।
पृथिव्यादीनि भूतानि ऋषींश्च पितृभिस्सह ॥ 104 ॥

विश्वास-प्रस्तुतिः - 105

आदौ नाम द्वितीयान्तं तर्पयामीति चोच्चरन्।
एष मन्त्रस्तु निर्दिष्टस्तर्पणेषु यथाक्रमम् ॥ 105 ॥

मूलम् - 105

आदौ नाम द्वितीयान्तं तर्पयामीति चोच्चरन्।
एष मन्त्रस्तु निर्दिष्टस्तर्पणेषु यथाक्रमम् ॥ 105 ॥

विश्वास-प्रस्तुतिः - 106

तिलोदकैस्तर्पयित्वा स्वपितॄंश्च पितामहान्।
प्रपितामहसंज्ञांश्च सदाराननुतर्पयेत् ॥ 106 ॥

मूलम् - 106

तिलोदकैस्तर्पयित्वा स्वपितॄंश्च पितामहान्।
प्रपितामहसंज्ञांश्च सदाराननुतर्पयेत् ॥ 106 ॥

विश्वास-प्रस्तुतिः - 107

तर्पयेत्सर्वपितॄणां दक्षिणाभिमुखेन तु।
देवानां च तदन्येषां प्राङ्मुखो वाऽप्युदङ्मुखः ॥ 107 ॥

मूलम् - 107

तर्पयेत्सर्वपितॄणां दक्षिणाभिमुखेन तु।
देवानां च तदन्येषां प्राङ्मुखो वाऽप्युदङ्मुखः ॥ 107 ॥

विश्वास-प्रस्तुतिः - 108

पवित्रकं त्यजेत् पश्चात् पुनराचम्य मन्त्रवित्।
सायं प्रातर्दिशो वन्द्याद्ध्यात्वा नारायणं प्रभुम् ॥ 108 ॥

मूलम् - 108

पवित्रकं त्यजेत् पश्चात् पुनराचम्य मन्त्रवित्।
सायं प्रातर्दिशो वन्द्याद्ध्यात्वा नारायणं प्रभुम् ॥ 108 ॥

विश्वास-प्रस्तुतिः - 109

करशुद्धिसमोपेतं दिग्बन्धं चावकुण्ठनम्।
प्राणायामादिकं कुर्याद्भुतशुद्धिसमन्वितम् ॥ 109 ॥

मूलम् - 109

करशुद्धिसमोपेतं दिग्बन्धं चावकुण्ठनम्।
प्राणायामादिकं कुर्याद्भुतशुद्धिसमन्वितम् ॥ 109 ॥

विश्वास-प्रस्तुतिः - 110

मन्त्रन्यासं ततः कृत्वा मुद्रां बध्वा स्मरेद्धरिम्।
जलमध्येऽपि यागस्य भोगैश्चैवासनादिकैः ॥ 110 ॥

मूलम् - 110

मन्त्रन्यासं ततः कृत्वा मुद्रां बध्वा स्मरेद्धरिम्।
जलमध्येऽपि यागस्य भोगैश्चैवासनादिकैः ॥ 110 ॥

विश्वास-प्रस्तुतिः - 111

ततो मन्त्री समभ्यर्च्य पत्रपुष्पफलैर्विभुम्।
संभवे सति पुष्पाणां विहितं तत्र चार्चनम् ॥ 111 ॥

मूलम् - 111

ततो मन्त्री समभ्यर्च्य पत्रपुष्पफलैर्विभुम्।
संभवे सति पुष्पाणां विहितं तत्र चार्चनम् ॥ 111 ॥

विश्वास-प्रस्तुतिः - 112

औदकेनोपचारेण भावनाभावितेन च।
तर्पयेदम्भसा प्राग्वद्धोमभावनयाऽखिलम् ॥ 112 ॥

मूलम् - 112

औदकेनोपचारेण भावनाभावितेन च।
तर्पयेदम्भसा प्राग्वद्धोमभावनयाऽखिलम् ॥ 112 ॥

विश्वास-प्रस्तुतिः - 113

एवं कृत्वा जगन्नाथं समिद्दानं समाचरेत्।
जुहुयाच्च यथाशक्ति ततस्तिलघृतादि यत्‌ ॥ 113 ॥

मूलम् - 113

एवं कृत्वा जगन्नाथं समिद्दानं समाचरेत्।
जुहुयाच्च यथाशक्ति ततस्तिलघृतादि यत्‌ ॥ 113 ॥

विश्वास-प्रस्तुतिः - 114

न्यूनातिरिक्तशान्त्यर्थं सर्वकर्मसमाप्तये।
पूर्णाहुत्यवसानान्तं कुर्याद्वै जलतर्पणे ॥ 114 ॥

मूलम् - 114

न्यूनातिरिक्तशान्त्यर्थं सर्वकर्मसमाप्तये।
पूर्णाहुत्यवसानान्तं कुर्याद्वै जलतर्पणे ॥ 114 ॥

विश्वास-प्रस्तुतिः - 115

स्तुत्वा च प्रणमेद्विप्र! अष्टाङ्गेनाथ दण्डवत्।
दूर्वां सिद्धार्थकोपेतां शिखामन्त्राभिमन्त्रिताम् ॥ 115 ॥

मूलम् - 115

स्तुत्वा च प्रणमेद्विप्र! अष्टाङ्गेनाथ दण्डवत्।
दूर्वां सिद्धार्थकोपेतां शिखामन्त्राभिमन्त्रिताम् ॥ 115 ॥

विश्वास-प्रस्तुतिः - 116

चूड्योत्तमाङ्गे शिरसा उपसंहृत्य सासनम्।
वाच्यं जलात् स्वहृद्व्योम्नि मनसा निष्कलात्मना ॥ 116 ॥

मूलम् - 116

चूड्योत्तमाङ्गे शिरसा उपसंहृत्य सासनम्।
वाच्यं जलात् स्वहृद्व्योम्नि मनसा निष्कलात्मना ॥ 116 ॥

विश्वास-प्रस्तुतिः - 117

कृत्वाभिगमनं कृत्यं सन्यसेच्च विचक्षणः।
कुर्याद्भोगार्जनं पश्चान्यायोपायसमार्जितम् ॥ 117 ॥

मूलम् - 117

कृत्वाभिगमनं कृत्यं सन्यसेच्च विचक्षणः।
कुर्याद्भोगार्जनं पश्चान्यायोपायसमार्जितम् ॥ 117 ॥

विश्वास-प्रस्तुतिः - 118

मूलेन वाऽस्त्रमन्त्रेण पुष्पमूलफलादिकम्।
अवपन्नं त्वभिमतमनाप्तं भावदूषितम् ॥ 118 ॥

मूलम् - 118

मूलेन वाऽस्त्रमन्त्रेण पुष्पमूलफलादिकम्।
अवपन्नं त्वभिमतमनाप्तं भावदूषितम् ॥ 118 ॥

विश्वास-प्रस्तुतिः - 119

व्यामिश्रहीनसंस्पृष्टं शुक्तं लीढं च वर्जयेत्।
सम्यक् पूरकयुक्त्या तु धिया वाचकमुच्चरन् ॥ 119 ॥

मूलम् - 119

व्यामिश्रहीनसंस्पृष्टं शुक्तं लीढं च वर्जयेत्।
सम्यक् पूरकयुक्त्या तु धिया वाचकमुच्चरन् ॥ 119 ॥

विश्वास-प्रस्तुतिः - 120

अपामार्गशमीशाखायुग्मं संभ्राम्य मूर्धनि।
सव्यापसव्ययोगेन पृष्ठतोऽस्त्रं पठन्‌ क्षिपेत् ॥ 120 ॥

मूलम् - 120

अपामार्गशमीशाखायुग्मं संभ्राम्य मूर्धनि।
सव्यापसव्ययोगेन पृष्ठतोऽस्त्रं पठन्‌ क्षिपेत् ॥ 120 ॥

विश्वास-प्रस्तुतिः - 121

स्नानवस्त्रं च निष्पीड्य ततश्चाचम्य वाग्यतः।
इत्युक्तमौदकं स्नानमथ मान्त्रं निबोध मे ॥ 121 ॥

मूलम् - 121

स्नानवस्त्रं च निष्पीड्य ततश्चाचम्य वाग्यतः।
इत्युक्तमौदकं स्नानमथ मान्त्रं निबोध मे ॥ 121 ॥

विश्वास-प्रस्तुतिः - 122

तोयाभावे च यत्कुर्याद्दुर्गे(ष्टे)काले तु शीतले।
गमने क्षिप्रसिद्धौ वा गुरुकार्येऽस्वतन्त्रताम् ॥ 122 ॥

मूलम् - 122

तोयाभावे च यत्कुर्याद्दुर्गे(ष्टे)काले तु शीतले।
गमने क्षिप्रसिद्धौ वा गुरुकार्येऽस्वतन्त्रताम् ॥ 122 ॥

विश्वास-प्रस्तुतिः - 123

प्राप्तां वा वीक्ष्य विप्रेन्द्र! निशाभागे दिनस्य वा।
प्रक्षाल्य पादावाचम्य प्रोद्धृतेन च वारिणा ॥ 123 ॥

मूलम् - 123

प्राप्तां वा वीक्ष्य विप्रेन्द्र! निशाभागे दिनस्य वा।
प्रक्षाल्य पादावाचम्य प्रोद्धृतेन च वारिणा ॥ 123 ॥

विश्वास-प्रस्तुतिः - 124

स्थानं दश दिशः प्राग्वत् संशोध्योपविशेत्ततः।
प्राणायामगणं कुर्याद्भुतशुद्धिं ततस्तनौ ॥ 124 ॥

मूलम् - 124

स्थानं दश दिशः प्राग्वत् संशोध्योपविशेत्ततः।
प्राणायामगणं कुर्याद्भुतशुद्धिं ततस्तनौ ॥ 124 ॥

विश्वास-प्रस्तुतिः - 125

मूलमन्त्रादितः कुर्यात् सर्वमन्त्रगणेन तु।
केवलादुदकस्नानात् संस्कारपरिवर्जितात् ॥ 125 ॥

मूलम् - 125

मूलमन्त्रादितः कुर्यात् सर्वमन्त्रगणेन तु।
केवलादुदकस्नानात् संस्कारपरिवर्जितात् ॥ 125 ॥

विश्वास-प्रस्तुतिः - 126

प्रयागादिषु तीर्थेषु यत्फलं कुरुते द्विज!।
स्नानाच्छतगुणं तस्मान्मन्त्रस्नानस्य सत्तम्! ॥ 126 ॥

मूलम् - 126

प्रयागादिषु तीर्थेषु यत्फलं कुरुते द्विज!।
स्नानाच्छतगुणं तस्मान्मन्त्रस्नानस्य सत्तम्! ॥ 126 ॥

विश्वास-प्रस्तुतिः - 127

ध्यानस्नानमथो वक्ष्ये द्वाभ्यामपि परं तु यत्।
खस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं प्रभुं स्मरेत् ॥ 127 ॥

मूलम् - 127

ध्यानस्नानमथो वक्ष्ये द्वाभ्यामपि परं तु यत्।
खस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं प्रभुं स्मरेत् ॥ 127 ॥

विश्वास-प्रस्तुतिः - 128

तत्पादोदकजां धारां पतमानां हि मूर्धनि।
चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् ॥ 128 ॥

मूलम् - 128

तत्पादोदकजां धारां पतमानां हि मूर्धनि।
चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् ॥ 128 ॥

विश्वास-प्रस्तुतिः - 129

तया संक्षालयेत् सर्वमन्तर्देहगतं मलम्।
तत्क्षणाद्विरजा मन्त्रीजायते स्फटिकोपमः ॥ 129 ॥

मूलम् - 129

तया संक्षालयेत् सर्वमन्तर्देहगतं मलम्।
तत्क्षणाद्विरजा मन्त्रीजायते स्फटिकोपमः ॥ 129 ॥

विश्वास-प्रस्तुतिः - 130

ध्यानस्नानं परं मन्त्रस्नानाच्छतगुणं स्मृतम्।
सध्यानस्नानमित्युक्तं दिव्यस्नानादिकं श्रृणु ॥ 130 ॥

मूलम् - 130

ध्यानस्नानं परं मन्त्रस्नानाच्छतगुणं स्मृतम्।
सध्यानस्नानमित्युक्तं दिव्यस्नानादिकं श्रृणु ॥ 130 ॥

विश्वास-प्रस्तुतिः - 131

सहातपेन वर्षेण स्नानं दिव्यमनन्तरम्।
समिधां दीपितानां च गोमयस्य हुत(शुभ)स्य च ॥ 131 ॥

मूलम् - 131

सहातपेन वर्षेण स्नानं दिव्यमनन्तरम्।
समिधां दीपितानां च गोमयस्य हुत(शुभ)स्य च ॥ 131 ॥

विश्वास-प्रस्तुतिः - 132

सितेन भस्मनाऽङ्गेषु ललाटादिषु च क्रमात्।
यदूर्ध्वपुण्ड्रकरणं मन्त्रोच्चारणपूर्वकम् ॥ 132 ॥

मूलम् - 132

सितेन भस्मनाऽङ्गेषु ललाटादिषु च क्रमात्।
यदूर्ध्वपुण्ड्रकरणं मन्त्रोच्चारणपूर्वकम् ॥ 132 ॥

विश्वास-प्रस्तुतिः - 133

दाहनं तु भवेत्स्नानं शोधनं परमं स्मृतम्।
गच्छत्सु गोषु वातोत्थै रजोभिर्भूमिसंभवैः ॥ 133 ॥

मूलम् - 133

दाहनं तु भवेत्स्नानं शोधनं परमं स्मृतम्।
गच्छत्सु गोषु वातोत्थै रजोभिर्भूमिसंभवैः ॥ 133 ॥

विश्वास-प्रस्तुतिः - 134

स्पर्शनं वपुषः स्नानं वायव्यं तदुदाहृतम्।
प्रशस्ते पर्वताग्रादौ जातया श्वेतमृत्स्नया ॥ 134 ॥

मूलम् - 134

स्पर्शनं वपुषः स्नानं वायव्यं तदुदाहृतम्।
प्रशस्ते पर्वताग्रादौ जातया श्वेतमृत्स्नया ॥ 134 ॥

विश्वास-प्रस्तुतिः - 135

उच्चार्य केशवादीनि नामान्यङ्गे यथाक्रमम्।
ललाटादौ यद्विधानमूर्ध्वपुण्ड्रस्य तत्स(त्क्ष)मम् ॥ 135 ॥

मूलम् - 135

उच्चार्य केशवादीनि नामान्यङ्गे यथाक्रमम्।
ललाटादौ यद्विधानमूर्ध्वपुण्ड्रस्य तत्स(त्क्ष)मम् ॥ 135 ॥

विश्वास-प्रस्तुतिः - 136

पार्थिवस्नानमित्येवं सर्वपापहरं शुभम्।
तस्मादेकतमं कार्यं स्नानं श्रद्धापरेण तु ॥ 136 ॥

मूलम् - 136

पार्थिवस्नानमित्येवं सर्वपापहरं शुभम्।
तस्मादेकतमं कार्यं स्नानं श्रद्धापरेण तु ॥ 136 ॥

विश्वास-प्रस्तुतिः - 137

स्नानाचमनशौचेन प्राणायामेन देशिकः।
अन्तर्बहिः शरीरस्य साधकस्तु विशुध्यति ॥ 137 ॥

मूलम् - 137

स्नानाचमनशौचेन प्राणायामेन देशिकः।
अन्तर्बहिः शरीरस्य साधकस्तु विशुध्यति ॥ 137 ॥

विश्वास-प्रस्तुतिः - 138

स्नानपूर्वाः क्रियाः सर्वाः फलसंसिद्धिहेतवः।
तस्मात्स्नानं प्रकुर्वीत देवर्षिपितृतर्पणम् ॥ 138 ॥

मूलम् - 138

स्नानपूर्वाः क्रियाः सर्वाः फलसंसिद्धिहेतवः।
तस्मात्स्नानं प्रकुर्वीत देवर्षिपितृतर्पणम् ॥ 138 ॥

इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे साधकस्नानविधिर्नाम द्वितीयोऽध्यायः ॥