००१ शास्त्रावतारः

॥श्रीः॥
॥ श्रीमते रामानुजाय नमः ॥
॥ श्रीरङ्गनाथपरब्रह्मणे नमः॥

॥ प्रथमोऽध्यायः ॥

विश्वास-प्रस्तुतिः - 1

ॐ॥ नमः सकलकल्याणदायिने चक्रपाणये।
विषयार्णवमग्नानां समुद्धरणहेतवे ॥ 1 ॥

मूलम् - 1

ॐ॥ नमः सकलकल्याणदायिने चक्रपाणये।
विषयार्णवमग्नानां समुद्धरणहेतवे ॥ 1 ॥

विश्वास-प्रस्तुतिः - 2

तोताद्रिशिखरक्षेत्रे देवगन्धर्वसेविते।
पुण्यतीर्थसमायुक्ते सर्वर्तुकुसुमान्विते ॥ 2 ॥

मूलम् - 2

तोताद्रिशिखरक्षेत्रे देवगन्धर्वसेविते।
पुण्यतीर्थसमायुक्ते सर्वर्तुकुसुमान्विते ॥ 2 ॥

विश्वास-प्रस्तुतिः - 3

प्रशस्ताश्रमसंयुक्ते पुण्यक्षेत्रोपशोभिते।
वेदवेदान्तनिष्ठैस्तु तपोनिष्ठैर्महर्षिभिः ॥ 3 ॥

मूलम् - 3

प्रशस्ताश्रमसंयुक्ते पुण्यक्षेत्रोपशोभिते।
वेदवेदान्तनिष्ठैस्तु तपोनिष्ठैर्महर्षिभिः ॥ 3 ॥

विश्वास-प्रस्तुतिः - 4

सांख्यसिद्धान्तसंयुक्तैः योगसिद्धान्तवेदिभिः।
इतिहासपुराणज्ञैर्धर्मशास्त्रार्थकोविदैः ॥ 4 ॥

मूलम् - 4

विश्वास-प्रस्तुतिः - 5

वेदाङ्गज्ञानकुशलैर्युक्ते देवर्षिभिस्तथा।
राजर्षिभिः समायुक्ते मन्त्रसिद्धैर्महात्मभिः ॥ 5 ॥

मूलम् - 5

विश्वास-प्रस्तुतिः - 6

सनको नाम योगर्षिर्ब्रह्मपुत्रो महातपाः।
भगवज्ज्ञानसिद्ध्यर्थं तपस्तेपे सुदुश्चरम् ॥ 6 ॥

मूलम् - 6

सनको नाम योगर्षिर्ब्रह्मपुत्रो महातपाः।
भगवज्ज्ञानसिद्ध्यर्थं तपस्तेपे सुदुश्चरम् ॥ 6 ॥

विश्वास-प्रस्तुतिः - 7

शतवर्षं ध्यायमाने परमात्मानमात्मनि।
न लेभेऽभि(सं)मतं सोऽपि तप्त्वा घोरतरं तपः ॥ 7 ॥

मूलम् - 7

शतवर्षं ध्यायमाने परमात्मानमात्मनि।
न लेभेऽभि(सं)मतं सोऽपि तप्त्वा घोरतरं तपः ॥ 7 ॥

शोकेन महताऽऽविष्टो बभूव स मुनिस्तदा।

ततः शोकार्णवे मग्नं जितक्रोधं जितेन्द्रियम् ॥ 8 ॥

विश्वास-प्रस्तुतिः - 9

दान्तं योगाङ्गनिरतं तं भक्तं भक्तवत्सलः।
वाक्यमेतज्जगद्धाता जगाद जगतो हितम् ॥ 9 ॥

मूलम् - 9

दान्तं योगाङ्गनिरतं तं भक्तं भक्तवत्सलः।
वाक्यमेतज्जगद्धाता जगाद जगतो हितम् ॥ 9 ॥

वासुदेवः परंज्योतिरदृश्यः पुरुषोत्तमः। श्रीभगवानुवाच ----------- त्वया योगीश्वरेणेह सुतप्तं तप उत्तमम् ॥ 10 ॥
विश्वास-प्रस्तुतिः - 11

प्राप्स्यसे न चिराद्ब्रह्मन्! महतस्तपसः फलम्।
समाश्वसिहि भद्रं ते मा विषीद महामते! ॥ 11 ॥

मूलम् - 11

प्राप्स्यसे न चिराद्ब्रह्मन्! महतस्तपसः फलम्।
समाश्वसिहि भद्रं ते मा विषीद महामते! ॥ 11 ॥

विश्वास-प्रस्तुतिः - 12

कृतकृत्यो जगत्यस्मिन् शाण्‍डिल्यः श्रूयते महान्।
तमाश्रयस्व भद्रं ते भगवद्धर्मसिद्धये ॥ 12 ॥

मूलम् - 12

कृतकृत्यो जगत्यस्मिन् शाण्‍डिल्यः श्रूयते महान्।
तमाश्रयस्व भद्रं ते भगवद्धर्मसिद्धये ॥ 12 ॥

विश्वास-प्रस्तुतिः - 13

एतस्मिन् पर्वतश्रेष्ठे(वरे) पुराऽनेन महात्मना।
साक्षाद्भगवतो व्यक्तादच्युतादच्युताभिधात् ॥ 13 ॥

मूलम् - 13

एतस्मिन् पर्वतश्रेष्ठे(वरे) पुराऽनेन महात्मना।
साक्षाद्भगवतो व्यक्तादच्युतादच्युताभिधात् ॥ 13 ॥

विश्वास-प्रस्तुतिः - 14

अधीतास्त्रिसुपर्णाद्याः साक्षात्सद्ब्रह्मवाचकाः।
शाखाश्च निषदः सर्वाः संहिता ब्राह्मणाभिधाः ॥ 14 ॥

मूलम् - 14

अधीतास्त्रिसुपर्णाद्याः साक्षात्सद्ब्रह्मवाचकाः।
शाखाश्च निषदः सर्वाः संहिता ब्राह्मणाभिधाः ॥ 14 ॥

विश्वास-प्रस्तुतिः - 15

निरुक्तानि ततो ज्ञाताः पदार्थाः सप्त च क्रमात्।
ज्ञानं च द्विविधं ज्ञातं शास्त्राणि विविधानि च ॥ 15 ॥

मूलम् - 15

विश्वास-प्रस्तुतिः - 16

त्रयोदशविधं कर्म द्वादशाद्यात्मसंयुतम्।
श्रुत्वैवं प्रथमं शास्त्रं रहस्याम्नायसंज्ञितम् ॥ 16 ॥

मूलम् - 16

त्रयोदशविधं कर्म द्वादशाद्यात्मसंयुतम्।
श्रुत्वैवं प्रथमं शास्त्रं रहस्याम्नायसंज्ञितम् ॥ 16 ॥

विश्वास-प्रस्तुतिः - 17

दिव्यमन्त्रक्रमोपेतं मोक्षैकफललक्षणम्।
भूयः संचोदितात्तस्मात्तेन लोकहितैषिणा ॥ 17 ॥

मूलम् - 17

दिव्यमन्त्रक्रमोपेतं मोक्षैकफललक्षणम्।
भूयः संचोदितात्तस्मात्तेन लोकहितैषिणा ॥ 17 ॥

विश्वास-प्रस्तुतिः - 18

श्रुतं विस्तरतः शास्त्रं भोगमोक्षप्रदं हि यत्।
अनुष्टुप्छन्दोब(न्धे)द्धेन प्रोक्तं भगवता स्वयम् ॥ 18 ॥

मूलम् - 18

विश्वास-प्रस्तुतिः - 19

सात्वतं पौष्करं चैव जयाख्येत्येवमादिकम्।
तत्सर्वं विदितं सम्यक् शाण्डिल्यस्य महात्मनः ॥ 19 ॥

मूलम् - 19

सात्वतं पौष्करं चैव जयाख्येत्येवमादिकम्।
तत्सर्वं विदितं सम्यक् शाण्डिल्यस्य महात्मनः ॥ 19 ॥

विश्वास-प्रस्तुतिः - 20

एवं सकलशास्त्रज्ञः शाण्डिल्यः परमो गुरुः।
आस्ते शिष्यैः परिवृतः स्वाश्रमे श्रमनाशने ॥ 20 ॥

मूलम् - 20

एवं सकलशास्त्रज्ञः शाण्डिल्यः परमो गुरुः।
आस्ते शिष्यैः परिवृतः स्वाश्रमे श्रमनाशने ॥ 20 ॥

विश्वास-प्रस्तुतिः - 21

पाञ्चकाल्यं परं यज्ञं कुर्वाणः सर्वदा वशी।
स ते वक्ष्यति धर्मज्ञो धर्मं भागवतं मुने! ॥ 21 ॥

मूलम् - 21

पाञ्चकाल्यं परं यज्ञं कुर्वाणः सर्वदा वशी।
स ते वक्ष्यति धर्मज्ञो धर्मं भागवतं मुने! ॥ 21 ॥

विश्वास-प्रस्तुतिः - 22

तमाश्रयस्व भद्रं ते भगवज्ज्ञानसिद्धये।
इत्युक्त्वाऽस्तमिता वाणी वासुदेवसमीरिता ॥ 22 ॥

मूलम् - 22

तमाश्रयस्व भद्रं ते भगवज्ज्ञानसिद्धये।
इत्युक्त्वाऽस्तमिता वाणी वासुदेवसमीरिता ॥ 22 ॥

विश्वास-प्रस्तुतिः - 23

इत्यद्भुततमं वाक्यं श्रुत्वा हृष्टतनूरुहः।
तदा कृतार्थमात्मानं मन्यमानो महामुनिः ॥ 23 ॥

मूलम् - 23

इत्यद्भुततमं वाक्यं श्रुत्वा हृष्टतनूरुहः।
तदा कृतार्थमात्मानं मन्यमानो महामुनिः ॥ 23 ॥

विश्वास-प्रस्तुतिः - 24

शाण्डिल्यदर्शनाकाङ्क्षी संचचाराचलाधिपम्।
अपश्यदाश्रमश्रेष्ठं शाण्डिल्यस्य महात्मनः ॥ 24 ॥

मूलम् - 24

शाण्डिल्यदर्शनाकाङ्क्षी संचचाराचलाधिपम्।
अपश्यदाश्रमश्रेष्ठं शाण्डिल्यस्य महात्मनः ॥ 24 ॥

विश्वास-प्रस्तुतिः - 25

नानापुष्पसमाकीर्णं नानाफलसमन्वितम्।
नानापक्षिगणैर्जुष्टं नानामृगनिषेवितम् ॥ 25 ॥

मूलम् - 25

नानापुष्पसमाकीर्णं नानाफलसमन्वितम्।
नानापक्षिगणैर्जुष्टं नानामृगनिषेवितम् ॥ 25 ॥

विश्वास-प्रस्तुतिः - 26

कमलोत्पलसंकी(पू)र्णैः शोभितं कमलाकरैः।
भगवद्धर्मजिज्ञासापरैः शान्तैरमत्सरैः ॥ 26 ॥

मूलम् - 26

कमलोत्पलसंकी(पू)र्णैः शोभितं कमलाकरैः।
भगवद्धर्मजिज्ञासापरैः शान्तैरमत्सरैः ॥ 26 ॥

विश्वास-प्रस्तुतिः - 27

मुनिमुख्यैः समाकीर्णं सर्वत्र च मुमुक्षुभिः।
सप्रविश्य तमद्राक्षीन्मुनिमुख्यैरुपासितम् ॥ 27 ॥

मूलम् - 27

मुनिमुख्यैः समाकीर्णं सर्वत्र च मुमुक्षुभिः।
सप्रविश्य तमद्राक्षीन्मुनिमुख्यैरुपासितम् ॥ 27 ॥

विश्वास-प्रस्तुतिः - 28

शिष्यैः परिवृतं शान्तैरात्मनिष्ठं दयापरम्।
दिव्यज्ञानोपपन्नं तं दृष्ट्वा दिव्यक्रियापरम् ॥ 28 ॥

मूलम् - 28

शिष्यैः परिवृतं शान्तैरात्मनिष्ठं दयापरम्।
दिव्यज्ञानोपपन्नं तं दृष्ट्वा दिव्यक्रियापरम् ॥ 28 ॥

विश्वास-प्रस्तुतिः - 29

उद्वहन्तं परां भक्तिं वासुदेवे परात्परे।
अभ्यवन्दिष्ट सनको विनयात्तस्य पादयोः ॥ 29 ॥

मूलम् - 29

उद्वहन्तं परां भक्तिं वासुदेवे परात्परे।
अभ्यवन्दिष्ट सनको विनयात्तस्य पादयोः ॥ 29 ॥

विश्वास-प्रस्तुतिः - 30

तिष्ठन्तं भगवद्धर्मे दृष्ट्वा दिव्येन चक्षुषा।
शाण्डिल्यो मुनिशार्दूलः सनकं ब्रह्मसंभवम् ॥ 30 ॥

मूलम् - 30

तिष्ठन्तं भगवद्धर्मे दृष्ट्वा दिव्येन चक्षुषा।
शाण्डिल्यो मुनिशार्दूलः सनकं ब्रह्मसंभवम् ॥ 30 ॥

विश्वास-प्रस्तुतिः - 31

अब्रवीन्मधुरं वाक्यं कृतार्थोऽसि महामुने!।
भगवान् सुप्रसन्नस्ते सुतप्तं तप उत्तमम् ॥ 31 ॥

मूलम् - 31

अब्रवीन्मधुरं वाक्यं कृतार्थोऽसि महामुने!।
भगवान् सुप्रसन्नस्ते सुतप्तं तप उत्तमम् ॥ 31 ॥

विश्वास-प्रस्तुतिः - 32

आदिष्टोऽहं भगवता भवदर्थे तपोनिधे!।
इत्युक्त्वाऽध्यापयामास वेदमेकायनाभिधम् ॥ 32 ॥

मूलम् - 32

आदिष्टोऽहं भगवता भवदर्थे तपोनिधे!।
इत्युक्त्वाऽध्यापयामास वेदमेकायनाभिधम् ॥ 32 ॥

विश्वास-प्रस्तुतिः - 33

मूलभूतस्तु महतो वेदवृक्षस्य यो महान्।
सद्ब्रह्मवासुदेवाख्य(ख्यं)परतत्वैकसंश्रयम् ॥ 33 ॥

मूलम् - 33

मूलभूतस्तु महतो वेदवृक्षस्य यो महान्।
सद्ब्रह्मवासुदेवाख्य(ख्यं)परतत्वैकसंश्रयम् ॥ 33 ॥

विश्वास-प्रस्तुतिः - 34

दिव्यैर्बलादिकैर्मन्त्रैः साक्षात्तत्प्रतिपादकैः।
अलङ्कृतमसन्दिग्धमविद्यातिमिरापहम् ॥ 34 ॥

मूलम् - 34

दिव्यैर्बलादिकैर्मन्त्रैः साक्षात्तत्प्रतिपादकैः।
अलङ्कृतमसन्दिग्धमविद्यातिमिरापहम् ॥ 34 ॥

अध्याप्य संजगादास्य स्वरूपं च समागति(त)म्। शाण्डिल्यः ---------- एष कार्तयुगो धर्मो निराशीःकर्मसंज्ञितः ॥ 35 ॥
विश्वास-प्रस्तुतिः - 36

योगाख्यो योगधर्माख्यः शास्त्राख्यश्च समागमः।
प्रवर्त्यते भगवता प्रथमे प्रथमे युगे ॥ 36 ॥

मूलम् - 36

योगाख्यो योगधर्माख्यः शास्त्राख्यश्च समागमः।
प्रवर्त्यते भगवता प्रथमे प्रथमे युगे ॥ 36 ॥

विश्वास-प्रस्तुतिः - 37

युगेषु मन्दसञ्चार इतरेष्वितरेष्वपि।
अनन्तचेष्टादध्यक्षादनिरुद्धात् सनातनात् ॥ 37 ॥

मूलम् - 37

युगेषु मन्दसञ्चार इतरेष्वितरेष्वपि।
अनन्तचेष्टादध्यक्षादनिरुद्धात् सनातनात् ॥ 37 ॥

विश्वास-प्रस्तुतिः - 38

ब्रह्मणो मानसं जन्म प्रथमं चाक्षुषं स्मृतम्।
द्वितीयं वाचिकं चान्यच्चतुर्थं श्रोत्रसंभवम् ॥ 38 ॥

मूलम् - 38

ब्रह्मणो मानसं जन्म प्रथमं चाक्षुषं स्मृतम्।
द्वितीयं वाचिकं चान्यच्चतुर्थं श्रोत्रसंभवम् ॥ 38 ॥

विश्वास-प्रस्तुतिः - 39

नासिक्यमपरं चान्यदण्डजं पद्मजं तथा।
एतेष्वपि च सर्वेषु साक्षाद्भगवतो विभोः ॥ 39 ॥

मूलम् - 39

नासिक्यमपरं चान्यदण्डजं पद्मजं तथा।
एतेष्वपि च सर्वेषु साक्षाद्भगवतो विभोः ॥ 39 ॥

विश्वास-प्रस्तुतिः - 40

ब्रह्मणा मुनिमुख्यैश्च सुपर्णाद्यैर्महर्षिभिः।
वालखिल्यमुखैश्चान्यैः क्रमाद्राजर्षिभिस्तथा ॥ 40 ॥

मूलम् - 40

ब्रह्मणा मुनिमुख्यैश्च सुपर्णाद्यैर्महर्षिभिः।
वालखिल्यमुखैश्चान्यैः क्रमाद्राजर्षिभिस्तथा ॥ 40 ॥

विश्वास-प्रस्तुतिः - 41

एष प्रकृतिधर्माख्यः प्राधीतः प्रथमो द्विज!।
सप्तमे पद्मजे सर्गे प्राप्तो भगवतस्तथा ॥ 41 ॥

मूलम् - 41

एष प्रकृतिधर्माख्यः प्राधीतः प्रथमो द्विज!।
सप्तमे पद्मजे सर्गे प्राप्तो भगवतस्तथा ॥ 41 ॥

विश्वास-प्रस्तुतिः - 42

विवस्वता ततः प्राप्तो मनुनेक्ष्वाकुणा ततः।
इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः ॥ 42 ॥

मूलम् - 42

विवस्वता ततः प्राप्तो मनुनेक्ष्वाकुणा ततः।
इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः ॥ 42 ॥

एष एव महान् धर्म आद्यो विप्र! सनातनः।

दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा ॥ 43 ॥

विश्वास-प्रस्तुतिः - 44

चातुरात्म्यपरैर्नित्यं पञ्चकालपरायणैः।
बलादिमन्त्रनिरतैर्देवतान्तरवर्जितैः ॥ 44 ॥

मूलम् - 44

चातुरात्म्यपरैर्नित्यं पञ्चकालपरायणैः।
बलादिमन्त्रनिरतैर्देवतान्तरवर्जितैः ॥ 44 ॥

विश्वास-प्रस्तुतिः - 45

एष धर्मो यथा प्राप्तो मया तद्ग(निग)दतः श्रृणु।
साङ्गोपनिषदा वेदाः समधीता मया पुरा ॥ 45 ॥

मूलम् - 45

एष धर्मो यथा प्राप्तो मया तद्ग(निग)दतः श्रृणु।
साङ्गोपनिषदा वेदाः समधीता मया पुरा ॥ 45 ॥

विश्वास-प्रस्तुतिः - 46

ऋग्यजुस्सामसंज्ञास्तु संकीर्णा देवतान्तरैः।
व्यामिश्रयागसंयुक्ताः प्रवृत्तिफलदायिनः ॥ 46 ॥

मूलम् - 46

ऋग्यजुस्सामसंज्ञास्तु संकीर्णा देवतान्तरैः।
व्यामिश्रयागसंयुक्ताः प्रवृत्तिफलदायिनः ॥ 46 ॥

विश्वास-प्रस्तुतिः - 47

तदर्थाश्च परिज्ञाता यथान्यायं यथाविधि।
क्वचित् क्वचित् प्रदेशेषु भगवन्तं जगत्पतिम् ॥ 47 ॥

मूलम् - 47

तदर्थाश्च परिज्ञाता यथान्यायं यथाविधि।
क्वचित् क्वचित् प्रदेशेषु भगवन्तं जगत्पतिम् ॥ 47 ॥

विश्वास-प्रस्तुतिः - 48

तदीयं कर्म च ज्ञानमप्रणाड्या वदन्ति हि।
तथा तदतिसंक्षिप्तमनभिव्यक्तलक्षणम् ॥ 48 ॥

मूलम् - 48

तदीयं कर्म च ज्ञानमप्रणाड्या वदन्ति हि।
तथा तदतिसंक्षिप्तमनभिव्यक्तलक्षणम् ॥ 48 ॥

विश्वास-प्रस्तुतिः - 49

अग्नीन्द्रादिप्रणाड्यैव प्रदेशेषु बहुष्वपि।
प्रवदन्ति जगन्नाथं तथा च सकलाः क्रियाः ॥ 49 ॥

मूलम् - 49

अग्नीन्द्रादिप्रणाड्यैव प्रदेशेषु बहुष्वपि।
प्रवदन्ति जगन्नाथं तथा च सकलाः क्रियाः ॥ 49 ॥

विश्वास-प्रस्तुतिः - 50

नित्यादिका मुनिश्रेष्ठ! प्रवृत्तिफलसंयुताः।
देवतान्तरनाड्यैव प्रब्रुवन्ति सुविस्तरात् ॥ 50 ॥

मूलम् - 50

नित्यादिका मुनिश्रेष्ठ! प्रवृत्तिफलसंयुताः।
देवतान्तरनाड्यैव प्रब्रुवन्ति सुविस्तरात् ॥ 50 ॥

विश्वास-प्रस्तुतिः - 51

तथा क्वचित् क्वचिद्विप्र! प्रवदन्ति च केवलम्।
इन्द्रादिदेवतावर्जं तत्कर्माऽपि सुविस्तरम् ॥ 51 ॥

मूलम् - 51

तथा क्वचित् क्वचिद्विप्र! प्रवदन्ति च केवलम्।
इन्द्रादिदेवतावर्जं तत्कर्माऽपि सुविस्तरम् ॥ 51 ॥

विश्वास-प्रस्तुतिः - 52

मन्त्राः प्राचुर्यतस्तत्र फलसङ्गसमन्विताः।
एवं व्यामिश्ररूपत्वात्तेषु निष्ठां न लब्धवान् ॥ 52 ॥

मूलम् - 52

मन्त्राः प्राचुर्यतस्तत्र फलसङ्गसमन्विताः।
एवं व्यामिश्ररूपत्वात्तेषु निष्ठां न लब्धवान् ॥ 52 ॥

विश्वास-प्रस्तुतिः - 53

यस्तु सर्वपरो धर्मो यस्मान्नास्ति महत्तरः।
वासुदेवैकनिष्ठस्तु देवतान्तरवर्जितः ॥ 53 ॥

मूलम् - 53

यस्तु सर्वपरो धर्मो यस्मान्नास्ति महत्तरः।
वासुदेवैकनिष्ठस्तु देवतान्तरवर्जितः ॥ 53 ॥

विश्वास-प्रस्तुतिः - 54

तज्जिज्ञासा बलवती तदा त्वाविरभून्मम।
ततोऽत्र पर्वतश्रेष्ठे तपस्तप्तं मयोत्तमम् ॥ 54 ॥

मूलम् - 54

तज्जिज्ञासा बलवती तदा त्वाविरभून्मम।
ततोऽत्र पर्वतश्रेष्ठे तपस्तप्तं मयोत्तमम् ॥ 54 ॥

अनेकानि सहस्राणि वर्षाणां तपसोऽन्ततः।

द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ॥ 55 ॥

विश्वास-प्रस्तुतिः - 56

साक्षात्सङ्कर्षणाद्व्यक्तात् प्राप्त एव महत्तरः।
एष एकायनो वेदः प्रख्यातः सात्वतो विधिः ॥ 56 ॥

मूलम् - 56

साक्षात्सङ्कर्षणाद्व्यक्तात् प्राप्त एव महत्तरः।
एष एकायनो वेदः प्रख्यातः सात्वतो विधिः ॥ 56 ॥

विश्वास-प्रस्तुतिः - 57

दुर्विज्ञेयो दुष्करश्च प्रतिबुद्धैर्निषेव्यते।
मोक्षायनाय वैपन्था एतदन्यो न विद्यते ॥ 57 ॥

मूलम् - 57

दुर्विज्ञेयो दुष्करश्च प्रतिबुद्धैर्निषेव्यते।
मोक्षायनाय वैपन्था एतदन्यो न विद्यते ॥ 57 ॥

विश्वास-प्रस्तुतिः - 58

तस्मादेकायनं नाम प्रवदन्ति मनीषिणः।
श्वेतद्वीपे पुराऽधीतो नारदेन सुरर्षिणा ॥ 58 ॥

मूलम् - 58

तस्मादेकायनं नाम प्रवदन्ति मनीषिणः।
श्वेतद्वीपे पुराऽधीतो नारदेन सुरर्षिणा ॥ 58 ॥

विश्वास-प्रस्तुतिः - 59

सनः सनत्सुजातश्च भवानपि सनन्द(क)नः।
सनत्कुमारः कपिलः सप्तमश्च सनातनः ॥ 59 ॥

मूलम् - 59

सनः सनत्सुजातश्च भवानपि सनन्द(क)नः।
सनत्कुमारः कपिलः सप्तमश्च सनातनः ॥ 59 ॥

विश्वास-प्रस्तुतिः - 60

एते एकान्तिधर्मस्य आचार्याश्च प्रवर्तकाः।
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥ 60 ॥

मूलम् - 60

एते एकान्तिधर्मस्य आचार्याश्च प्रवर्तकाः।
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥ 60 ॥

विश्वास-प्रस्तुतिः - 61

वसिष्ठश्च महातेजा एते चित्रशिखण्डिनः।
मनुः स्वायभ्भुवश्चापि समाराध्य जगत्पतिम् ॥ 61 ॥

मूलम् - 61

वसिष्ठश्च महातेजा एते चित्रशिखण्डिनः।
मनुः स्वायभ्भुवश्चापि समाराध्य जगत्पतिम् ॥ 61 ॥

विश्वास-प्रस्तुतिः - 62

महता तपसा चैव देवं नारायणं प्रभुम्।
दिव्यं वर्षसहस्रं तु तदन्ते समधीत्य च ॥ 62 ॥

मूलम् - 62

महता तपसा चैव देवं नारायणं प्रभुम्।
दिव्यं वर्षसहस्रं तु तदन्ते समधीत्य च ॥ 62 ॥

विश्वास-प्रस्तुतिः - 63

मूलश्रुतिं यथावच्चा ऋषयोऽध्यापितास्तु तैः।
ततस्ते ऋषयस्त्वष्टौ लोकानां हितकाम्यया ॥ 63 ॥

मूलम् - 63

मूलश्रुतिं यथावच्चा ऋषयोऽध्यापितास्तु तैः।
ततस्ते ऋषयस्त्वष्टौ लोकानां हितकाम्यया ॥ 63 ॥

विश्वास-प्रस्तुतिः - 64

श्लोकानां शतसाहस्रैर्मूलवेदं निरीक्ष्य च।
तथा दिव्यानि तन्त्राणि सात्वतादीनि चक्रिरे ॥ 64 ॥

मूलम् - 64

श्लोकानां शतसाहस्रैर्मूलवेदं निरीक्ष्य च।
तथा दिव्यानि तन्त्राणि सात्वतादीनि चक्रिरे ॥ 64 ॥

विश्वास-प्रस्तुतिः - 65

अन्यच्छास्त्रं तु तन्त्राख्यमस्मान्मन्वादयोऽपि च।
धर्मशास्त्राण्यनेकानि करिष्यन्ति यथातथम् ॥ 65 ॥

मूलम् - 65

अन्यच्छास्त्रं तु तन्त्राख्यमस्मान्मन्वादयोऽपि च।
धर्मशास्त्राण्यनेकानि करिष्यन्ति यथातथम् ॥ 65 ॥

विश्वास-प्रस्तुतिः - 66

अन्येषामपि शास्त्राणां योनिरेतद्भविष्यति।
अस्मिन् धर्मश्च अर्थश्चोक्तः सुविस्तरम् ॥ 66 ॥

मूलम् - 66

अन्येषामपि शास्त्राणां योनिरेतद्भविष्यति।
अस्मिन् धर्मश्च अर्थश्चोक्तः सुविस्तरम् ॥ 66 ॥

मोक्षश्च सूचितः पश्चादत्रोक्तश्च यथातथम्।

अश्वमेधादयो यज्ञा अधिकृत्याच्युतं हरिम् ॥ 67 ॥

विश्वास-प्रस्तुतिः - 68

यथा क्रियन्ते च तथा द्विषट्‌कार्णपुरस्सरैः।
निवृत्तिफलदैर्मन्त्रैस्तस्यासाधारणैर्हरेः ॥ 68 ॥

मूलम् - 68

यथा क्रियन्ते च तथा द्विषट्‌कार्णपुरस्सरैः।
निवृत्तिफलदैर्मन्त्रैस्तस्यासाधारणैर्हरेः ॥ 68 ॥

विश्वास-प्रस्तुतिः - 69

पूजिता विनियुज्यन्ते तस्मिंस्तस्मिंश्च कर्मणि।
ऋगादिमन्त्राः सर्वेऽपि तथा चास्मिन् प्रकीर्तिताः॥69

मूलम् - 69

पूजिता विनियुज्यन्ते तस्मिंस्तस्मिंश्च कर्मणि।
ऋगादिमन्त्राः सर्वेऽपि तथा चास्मिन् प्रकीर्तिताः॥69

विश्वास-प्रस्तुतिः - 70

वसूराजोपरिचरो मूलवेदेन संस्कृतः।
स्वर्गलोकाधिकारार्थमेतदुक्तप्रकारतः ॥ 70 ॥

मूलम् - 70

वसूराजोपरिचरो मूलवेदेन संस्कृतः।
स्वर्गलोकाधिकारार्थमेतदुक्तप्रकारतः ॥ 70 ॥

विश्वास-प्रस्तुतिः - 71

अश्वमेधादिकान् यज्ञानन्वशिष्टद्यथाविधि।
अन्यांश्च भगवद्यागान् खिन्नवृत्त्यधिकारतः ॥ 71 ॥

मूलम् - 71

अश्वमेधादिकान् यज्ञानन्वशिष्टद्यथाविधि।
अन्यांश्च भगवद्यागान् खिन्नवृत्त्यधिकारतः ॥ 71 ॥

विश्वास-प्रस्तुतिः - 72

इति श्रुत मया पूर्वं स चार्थः प्रतिभाति मे।
सुमन्तुर्जैमिनिर्ब्रह्मन्! भृगुश्चैवौपगायनः ॥ 72 ॥

मूलम् - 72

इति श्रुत मया पूर्वं स चार्थः प्रतिभाति मे।
सुमन्तुर्जैमिनिर्ब्रह्मन्! भृगुश्चैवौपगायनः ॥ 72 ॥

विश्वास-प्रस्तुतिः - 73

मौञ्ज्यायनश्च तत्सर्वं सम्यगध्यापिता मया।
नरनारायणाभ्यां तु जगतो हितकाम्यया ॥ 73 ॥

मूलम् - 73

मौञ्ज्यायनश्च तत्सर्वं सम्यगध्यापिता मया।
नरनारायणाभ्यां तु जगतो हितकाम्यया ॥ 73 ॥

विश्वास-प्रस्तुतिः - 74

तथाऽनुष्ठीयते मूल-
धर्मो बदरिकाश्रमे।
एष प्रकृतिधर्माख्यो
वासुदेवैकगोचरः ॥ 74 ॥

मूलम् - 74

तथाऽनुष्ठीयते मूलधर्मो बदरिकाश्रमे।
एष प्रकृतिधर्माख्यो वासुदेवैकगोचरः ॥ 74 ॥

विश्वास-प्रस्तुतिः - 75

प्रवर्तते कृतयुगे
ततस्त्रेतायुगादिषु।
विकारवेदाः सर्वत्र
देवतान्तरगोचराः ॥ 75 ॥

मूलम् - 75

प्रवर्तते कृतयुगे ततस्त्रेतायुगादिषु।
विकारवेदाः सर्वत्र देवतान्तरगोचराः ॥ 75 ॥

विश्वास-प्रस्तुतिः - 76

महतो वेदवृक्षस्य
मूलभूतो महान् अयम्।
स्कन्धभूता ऋगाद्यास्ते
शाखाभूतास् तथा मुने! ॥ 76 ॥

मूलम् - 76

महतो वेदवृक्षस्य मूलभूतो महानयम्।
स्कन्धभूता ऋगाद्यास्ते शाखाभूतास्तथा मुने! ॥ 76 ॥

विश्वास-प्रस्तुतिः - 77

जगन्-मूलस्य देवस्य
वासुदेवस्य मुख्यतः।
प्रतिपादकता-सिद्धा
मूलवेदाख्यता द्विज! ॥ 77 ॥

मूलम् - 77

जगन्मूलस्य देवस्य वासुदेवस्य मुख्यतः।
प्रतिपादकतासिद्धा मूलवेदाख्यता द्विज! ॥ 77 ॥

विश्वास-प्रस्तुतिः - 78

आद्यं भागवतं धर्मम्
आदिभूते कृते युगे।
मानवा योग्यभूतास्तु
अनुतिष्ठन्ति नित्यशः ॥ 78 ॥

मूलम् - 78

आद्यं भागवतं धर्ममादिभूते कृते युगे।
मानवा योग्यभूतास्तु अनुतिष्ठन्ति नित्यशः ॥ 78 ॥

विश्वास-प्रस्तुतिः

ततस् त्रेतायुगे सर्वे
नानाकाम-समन्विताः।
व्यामिश्र-याजिनो भूत्वा
त्यजन्त्य् आद्यं सनातनम् ॥ 79 ॥

मूलम्

ततस्त्रेतायुगे सर्वे नानाकामसमन्विताः।
व्यामिश्रयाजिनो भूत्वा त्यजन्त्याद्यं सनातनम् ॥ 79 ॥

विश्वास-प्रस्तुतिः - 80

अन्तर्दधाति (धर्मो)सर्वोऽयं
वासुदेवसमाहृतः।
ततो योग्याय भगवान्
प्रादुर्भावयति स्वयम् ॥ 80 ॥

मूलम् - 80

अन्तर्दधाति (धर्मो)सर्वोऽयं वासुदेवसमाहृतः।
ततो योग्याय भगवान् प्रादुर्भावयति स्वयम् ॥ 80 ॥

विश्वास-प्रस्तुतिः - 81

यथा पुरा मया प्राप्तो
देवाद्‌ ज्ञानबलात्मनः।
तथा प्रकाशितो वेदः
सरहस्यो महामुने! ॥ 81 ॥

मूलम् - 81

यथा पुरा मया प्राप्तो देवाद्‌ ज्ञानबलात्मनः।
तथा प्रकाशितो वेदः सरहस्यो महामुने! ॥ 81 ॥

विश्वास-प्रस्तुतिः - 82

एवं निगदिते सम्यक्
शाण्डिल्येन महात्मना।
ततः कृतार्थमात्मानं
मन्यमानः कृताञ्जलिः ॥ 82 ॥

मूलम् - 82

एवं निगदिते सम्यक् शाण्डिल्येन महात्मना।
ततः कृतार्थमात्मानं मन्यमानः कृताञ्जलिः ॥ 82 ॥

विश्वास-प्रस्तुतिः

सनकः प्रश्रितं वाक्यं शाण्डिल्यं मुनिमब्रवीत्। भगवन्! सर्वधर्मज्ञ! सर्वशास्त्रार्थपारग! ॥ 83 ॥

मूलम्

सनकः प्रश्रितं वाक्यं शाण्डिल्यं मुनिमब्रवीत्।
सनकः ———
भगवन्! सर्वधर्मज्ञ! सर्वशास्त्रार्थपारग! ॥ 83 ॥

विश्वास-प्रस्तुतिः - 84

त्वत्प्रसादेन संप्राप्तो मया धर्मवरो महान्।
निवृत्तिलक्षणाख्योऽयं प्रतिबुद्धैर्निषेवितः ॥ 84 ॥

मूलम् - 84

त्वत्प्रसादेन संप्राप्तो मया धर्मवरो महान्।
निवृत्तिलक्षणाख्योऽयं प्रतिबुद्धैर्निषेवितः ॥ 84 ॥

विश्वास-प्रस्तुतिः - 85

कथमप्रतिबुद्धैस्तैर्मग्नैर्भवमहाम्बुधौ।
प्राप्यते भगवद्धर्म एकान्तिभिरनुष्ठितः ॥ 85 ॥

मूलम् - 85

कथमप्रतिबुद्धैस्तैर्मग्नैर्भवमहाम्बुधौ।
प्राप्यते भगवद्धर्म एकान्तिभिरनुष्ठितः ॥ 85 ॥

शाण्डिल्यः ---------
विश्वास-प्रस्तुतिः - 86

श्रूयतामभिधास्यामि यदहं चोदितस्त्वया।
एतदर्थं मया पृष्टः पुरा सङ्कर्षणः प्रभुः ॥ 86 ॥

मूलम् - 86

श्रूयतामभिधास्यामि यदहं चोदितस्त्वया।
एतदर्थं मया पृष्टः पुरा सङ्कर्षणः प्रभुः ॥ 86 ॥

विश्वास-प्रस्तुतिः - 87

परित्यज्य परं धर्मं मिश्रधर्ममुपेयुषाम्।
भूयस्तत्पदकाङ्क्षाणां श्रद्धाभक्ती उपेयुषाम् ॥ 87 ॥

मूलम् - 87

परित्यज्य परं धर्मं मिश्रधर्ममुपेयुषाम्।
भूयस्तत्पदकाङ्क्षाणां श्रद्धाभक्ती उपेयुषाम् ॥ 87 ॥

विश्वास-प्रस्तुतिः - 88

अनुग्रहार्थं वर्णाणां योग्यतापाद(का)नाय च।
तथा जनानां सर्वेषामभीष्टफलसिद्धये ॥ 88 ॥

मूलम् - 88

अनुग्रहार्थं वर्णाणां योग्यतापाद(का)नाय च।
तथा जनानां सर्वेषामभीष्टफलसिद्धये ॥ 88 ॥

विश्वास-प्रस्तुतिः - 89

सात्वतादीनि शास्त्राणि भोगमोक्षप्रदानि च।
उपदिश्य तु दिव्यानि शास्त्राणि तदनन्तरम् ॥ 89 ॥

मूलम् - 89

सात्वतादीनि शास्त्राणि भोगमोक्षप्रदानि च।
उपदिश्य तु दिव्यानि शास्त्राणि तदनन्तरम् ॥ 89 ॥

विश्वास-प्रस्तुतिः

पारमेश्वरशास्त्राणां सर्वेषां मुनिपुङ्गव!।
सारभूतं विशेषेण पौष्करार्थोपपादकम् ॥ 90 ॥

विश्वास-प्रस्तुतिः - 91

मूलवेदानुसारेण छन्दसाऽऽनुष्टुभेन च।
लक्षग्रन्थेन सर्वार्थक्रियाज्ञानोपलब्धये ॥ 91 ॥

मूलम् - 91

मूलवेदानुसारेण छन्दसाऽऽनुष्टुभेन च।
लक्षग्रन्थेन सर्वार्थक्रियाज्ञानोपलब्धये ॥ 91 ॥

विश्वास-प्रस्तुतिः - 92

स मेऽब्रवीन्म(हच्छा)हाशास्त्रं पारमेश्वरसंज्ञया।
तस्मात्तु सारमुद्धृत्य सर्वशास्त्रोपयोगिनम् ॥ 92 ॥

मूलम् - 92

स मेऽब्रवीन्म(हच्छा)हाशास्त्रं पारमेश्वरसंज्ञया।
तस्मात्तु सारमुद्धृत्य सर्वशास्त्रोपयोगिनम् ॥ 92 ॥

विश्वास-प्रस्तुतिः - 93

श्लोकैः षोडशसाहस्रैः पारमेश्वरसंज्ञया।
संप्रवक्ष्यामि ते शास्त्रमिदानीमवधारय ॥ 93 ॥

मूलम् - 93

श्लोकैः षोडशसाहस्रैः पारमेश्वरसंज्ञया।
संप्रवक्ष्यामि ते शास्त्रमिदानीमवधारय ॥ 93 ॥

विश्वास-प्रस्तुतिः - 94

नारदोऽपि पुरा चैतदपि संक्षेपतो विभोः।
क्षीरोदशायिनो देवात् साक्षात् संश्रुतवान् द्विज! ॥ 94 ॥

मूलम् - 94

नारदोऽपि पुरा चैतदपि संक्षेपतो विभोः।
क्षीरोदशायिनो देवात् साक्षात् संश्रुतवान् द्विज! ॥ 94 ॥

विश्वास-प्रस्तुतिः - 95

ज्ञानकाण्डक्रियाकाण्डभेदेनै(तद्‌)व द्विधाकृतम्।
यत्र संकीर्त्यते सम्यग्वासुदेवस्य वै विभोः ॥ 95 ॥

मूलम् - 95

ज्ञानकाण्डक्रियाकाण्डभेदेनै(तद्‌)व द्विधाकृतम्।
यत्र संकीर्त्यते सम्यग्वासुदेवस्य वै विभोः ॥ 95 ॥

विश्वास-प्रस्तुतिः - 96

दिव्यमात्मस्वरूपं च नित्या ज्ञानादयो गुणाः।
प्रधाना षट्‌ समस्ताश्च व्यस्ता युग्मत्रयेण हि ॥ 96 ॥

मूलम् - 96

दिव्यमात्मस्वरूपं च नित्या ज्ञानादयो गुणाः।
प्रधाना षट्‌ समस्ताश्च व्यस्ता युग्मत्रयेण हि ॥ 96 ॥

विश्वास-प्रस्तुतिः - 97

कीर्त्यादयो गुणाश्चान्ये आकृतिश्च परात्परा।
नित्यैका वासुदेवाख्या ततः सृष्ट्यादिहेतुना ॥ 97 ॥

मूलम् - 97

कीर्त्यादयो गुणाश्चान्ये आकृतिश्च परात्परा।
नित्यैका वासुदेवाख्या ततः सृष्ट्यादिहेतुना ॥ 97 ॥

विश्वास-प्रस्तुतिः - 98

सङ्ककर्षणादिव्यूहश्च जगज्जन्मादयोऽपि च।
उपासनार्थं भक्तानामास्तिकानां महात्मनाम् ॥ 98 ॥

मूलम् - 98

सङ्ककर्षणादिव्यूहश्च जगज्जन्मादयोऽपि च।
उपासनार्थं भक्तानामास्तिकानां महात्मनाम् ॥ 98 ॥

विश्वास-प्रस्तुतिः - 99

जगतामुपकारार्थं वासुदेवस्य वै विभोः।
परात्परस्वरूपस्य चतुर्व्यूहस्तुरीयकः ॥ 99 ॥

मूलम् - 99

जगतामुपकारार्थं वासुदेवस्य वै विभोः।
परात्परस्वरूपस्य चतुर्व्यूहस्तुरीयकः ॥ 99 ॥

विश्वास-प्रस्तुतिः - 100

व्यूहः सुषुप्तिसंज्ञश्च स्वप्नव्यूहस्तथैव च।
जाग्रद्व्यूहस्तथाऽन्ये च व्यूहा मूर्त्यन्तरा अपि ॥ 100 ॥

मूलम् - 100

व्यूहः सुषुप्तिसंज्ञश्च स्वप्नव्यूहस्तथैव च।
जाग्रद्व्यूहस्तथाऽन्ये च व्यूहा मूर्त्यन्तरा अपि ॥ 100 ॥

विश्वास-प्रस्तुतिः - 101

मूर्तयो विभवाख्याश्च प्रादुर्भावान्तराण्यपि।
लक्ष्मीपुष्ट्योः स्वरूपे च नित्ये भगवता सह ॥ 101 ॥

मूलम् - 101

मूर्तयो विभवाख्याश्च प्रादुर्भावान्तराण्यपि।
लक्ष्मीपुष्ट्योः स्वरूपे च नित्ये भगवता सह ॥ 101 ॥

विश्वास-प्रस्तुतिः - 102

कान्त्यादयोऽवताराश्च भूषणानां तु विग्रहाः।
नित्याः किरीटपूर्वाणामनित्याश्च पृथग्विधाः ॥ 102 ॥

मूलम् - 102

कान्त्यादयोऽवताराश्च भूषणानां तु विग्रहाः।
नित्याः किरीटपूर्वाणामनित्याश्च पृथग्विधाः ॥ 102 ॥

विश्वास-प्रस्तुतिः - 103

चक्रादीनां स्वरूपं च नित्यानित्योभयात्मकम्।
गरुडप्रमुखानां तु अन्येषामात्मनामपि ॥ 103 ॥

मूलम् - 103

चक्रादीनां स्वरूपं च नित्यानित्योभयात्मकम्।
गरुडप्रमुखानां तु अन्येषामात्मनामपि ॥ 103 ॥

विश्वास-प्रस्तुतिः - 104

विभोः साधनभूतानां स्वं स्वं नित्यं स्वरूपिणाम्।
एतेषां मूर्तयो नित्या अनित्याश्च पृथग्विधाः ॥ 104 ॥

मूलम् - 104

विभोः साधनभूतानां स्वं स्वं नित्यं स्वरूपिणाम्।
एतेषां मूर्तयो नित्या अनित्याश्च पृथग्विधाः ॥ 104 ॥

विश्वास-प्रस्तुतिः - 105

विभोर्वै वासुदेवस्य स्थानं नित्यं(त्यात्) परात्परम्।
अन्येषां व्यूहरूपाणां विभवानां तथैव च ॥ 105 ॥

मूलम् - 105

विभोर्वै वासुदेवस्य स्थानं नित्यं(त्यात्) परात्परम्।
अन्येषां व्यूहरूपाणां विभवानां तथैव च ॥ 105 ॥

विश्वास-प्रस्तुतिः - 106

नानाविधानि स्थानानि विरजांसि बहूनि च।
तेषां विस्तारमानं च तथा स्वं स्वं व्यवस्थितम् ॥ 106 ॥

मूलम् - 106

नानाविधानि स्थानानि विरजांसि बहूनि च।
तेषां विस्तारमानं च तथा स्वं स्वं व्यवस्थितम् ॥ 106 ॥

विश्वास-प्रस्तुतिः - 107

तत्सालानां प्रतोलीनां संख्यामानं च लक्षणम्।
जीवात्मनां स्वरूप च मुक्तामुक्तोभयात्मकम् ॥ 107 ॥

मूलम् - 107

तत्सालानां प्रतोलीनां संख्यामानं च लक्षणम्।
जीवात्मनां स्वरूप च मुक्तामुक्तोभयात्मकम् ॥ 107 ॥

विश्वास-प्रस्तुतिः - 108

तेषां गतिविशेषाश्च प्रोच्यन्ते यत्र विस्तरात्।
भगवन्मन्त्रमूर्तीनां तथाऽन्येषां क्रमेण तु ॥ 108 ॥

मूलम् - 108

तेषां गतिविशेषाश्च प्रोच्यन्ते यत्र विस्तरात्।
भगवन्मन्त्रमूर्तीनां तथाऽन्येषां क्रमेण तु ॥ 108 ॥

विश्वास-प्रस्तुतिः - 109

म(न्त्रा)न्त्रध्यानं तथा मुद्रा योगरूपं च कीर्तितम्।
ज्ञानकाण्डाभिधानेन तदेतत् परिकीर्तितम् ॥ 109 ॥

मूलम् - 109

म(न्त्रा)न्त्रध्यानं तथा मुद्रा योगरूपं च कीर्तितम्।
ज्ञानकाण्डाभिधानेन तदेतत् परिकीर्तितम् ॥ 109 ॥

विश्वास-प्रस्तुतिः - 110

यत्र नित्यानि कर्माणि स्नानादीन्यखिलानि च।
नैमित्तिकानि काम्यानि प्रायश्चित्तानि विस्तरात् ॥ 110 ॥

मूलम् - 110

यत्र नित्यानि कर्माणि स्नानादीन्यखिलानि च।
नैमित्तिकानि काम्यानि प्रायश्चित्तानि विस्तरात् ॥ 110 ॥

विश्वास-प्रस्तुतिः - 111

तुलाभारादिकादीनि कर्माणि विविधान्यपि।
तथा च कर्षणादीनि स्थापनान्तान्यशेषतः ॥ 111 ॥

मूलम् - 111

तुलाभारादिकादीनि कर्माणि विविधान्यपि।
तथा च कर्षणादीनि स्थापनान्तान्यशेषतः ॥ 111 ॥

विश्वास-प्रस्तुतिः - 112

प्रासादप्रतिमाभद्रपीठादीनां च लक्षणम्।
एवमादीनि चान्यानि देवेशयजनार्थतः ॥ 112 ॥

मूलम् - 112

प्रासादप्रतिमाभद्रपीठादीनां च लक्षणम्।
एवमादीनि चान्यानि देवेशयजनार्थतः ॥ 112 ॥

विश्वास-प्रस्तुतिः - 113

कीर्त्यन्ते विस्तराद्यत्र क्रियाकाण्डं तु विद्धि तत्।
एवं द्विविधरूपं तु शास्त्रं वक्ष्येऽवधारय ॥ 113 ॥

मूलम् - 113

कीर्त्यन्ते विस्तराद्यत्र क्रियाकाण्डं तु विद्धि तत्।
एवं द्विविधरूपं तु शास्त्रं वक्ष्येऽवधारय ॥ 113 ॥

इति श्रीपाञ्चरात्रे पारमेस्वरसंहितायां ज्ञानकाण्डे शास्त्रावतारो नाम
प्रथमोऽध्यायः ॥