प्रथमानुबन्धः
द्वितीयाध्याये भगवदुपचार निरूपणे
(श्लोकं 62 1/2 आरभ्य पठितव्याः)
पादुकौशिरसाव धाकणे
भगवत्पादुकौयस्तु शिरसानच धारयेत्।
तस्यभूयान्महापापं रौरवन्नरकम्भुवि॥ 1
ग्राम प्रदक्षणे पादुकधारण विधिः
ग्राम प्रदक्षिणेकाले देवस्यमधुविद्विषः।
सन्निधिम्प्राप्य सर्वेपि पादुकौशिर सावहेत्॥ 2
पादुकौगृहागम नमिच्छेत्प्रत्यवायः
यस्तुमत्तोधनादिभ्यः अधीकारेण गर्वितः।
श्रीहरेःपादुकौस्वीय गृहागमन मिच्छते॥ 3
तस्यवंशक्षयम्भूया तद्त्ग्रामस्यक्षयन्धृवम्।
शठकोप निरूपणं
शठकोप यितिख्यातःश्रीहरेः पादुकाद्वयम्॥ 4
साक्षाच्छ्रीपतिभावेनशिरोधार्यं सदाभवेत्।
भगवद्दर्शने पादुक धारण कधनं तदभावे प्रत्यवायः
यस्तुगच्छेद्ध रेर्गेहं हरिदर्शन काम्यया॥ 5
फलपुष्पादि कैर्युक्तो यधाशक्ति बुधोत्तमाः।
सतुनिर्मल भक्त्यावै पादुकौ शिरसावहेत्॥ 6
विनातत्पादवहना त्सर्वंस्यान्निष्फलम्भुवि।
तस्मात्प्रत्य हमेतौश्री पादुकौशिरसावहेत्॥ 7
देवालये आचार्य पुरुष सार्वभौमादीनां सम्मानविधिः
यदाश्रीहरि सेवार्थ मागच्छन्ति महात्मनः।
श्रीवैष्णव मतस्थाप नाचार्याद्यास्तधैवच॥ 8
सार्वभौमाश्चराजाधि राजाश्चैव धरातले।
तद्गौरवार्धमेतौश्रीपादुकौसर्वलाञ्छनैः॥ 9
छत्रचामर वाद्यैश्च नीत्वाद्वाराद्ब हिस्तधा।
प्रधमावर णेवापिद्वितीयावरणेपिवा॥ 10
तृतीयावरणेवाधआगतस्याधि कारतः।
सम्मानमाचरेद्गन्ध पुष्पमाल्याम्ब रादिकैः॥ 11
देवालये सम्मानितानां कर्तव्य निरूपणं
तधासम्मानिताश्चैव यधाविभवविस्तरम्।
थनभूषण वस्त्रादीन् श्रीहरेश्च समर्पयेत्॥ 12
अर्चकाञ्च यधाशक्ति तोषयेद्भगवत्प्रियम्।
तदात्वितरभक्तानां सन्तृप्तिञ्च समाचरेत्॥ 13
प्रतिनित्यम् आराधनां तीर्ध प्रसादादिक विनियोग विधिः
प्रत्यहन्देव देवस्य अर्चनानन्तरम्भुवि।
नित्येनैमित्ति केचैव प्रातस्सायञ्चभूतले॥ 14
तत्रस्थ वैष्णवादीनां सर्वेषाञ्च बुधोत्तमाः।
हरितीर्ध प्रसादादीन् दद्याच्छ्रीहरि पादुकौ॥ 15
विनियोग कालेतिष्टन्नेव प्रसादादि स्वीकरणं वर्णाश्रमादि भेद निरूपणं
तदासर्वे महाभक्त्या तिष्टन्नेव हरेर्गृहे।
वर्णाश्रमादि भेदेन स्त्रीपुम्भेदेनचद्विजाः॥ 16
हरिनाम सङ्कीर्तनम् अन्यसम्भाषण त्यागः विनियोग क्रम निरूपणं
हरिनामानि सङ्कीर्त्य मनसाश्रर्ध यान्विताः।
अन्यसम्भाषण त्यक्त्वा स्वीकरेत्तीर्ध मादिकान्॥ 17
त्यागःस्थानादिपंस मारभ्य अर्चकाध्यापकान् तधा।
तदनुर्वैष्णवादीञ्च तधान्यमतब्राह्मणान्॥ 18
अर्चकाद्यापकादि देवालय सेवकानां श्रीवैष्णवादीनां ब्राह्मणादि वर्णाणम् आधिक्य निरूपणं
क्षत्रियादिक भक्तान्च वैश्यान्शूद्रान् तधैवच।
एतेषुचमहोविष्णु मतस्धान् प्रधमम्भुवि॥ 19
तत्तद्वर्णेष्वाश्रमेषु संवीक्ष्य विबुधोत्तमाः।
तेषुचैव चदेवस्य सेवकादीन्तुवैपुरा॥ 20
सन्तर्पयेत्प्र सादाद्यैर्यधाविधि मुनीश्वराः।
श्रीवैष्णवादीनां राज्ञान्तवस्वीनां तीर्धप्रसादादिषु अधिक भाग निरूपणं
श्रीवैष्णवद्विजानाञ्च राज्ञाञ्चापितधैवच॥ 21
मताथ्यक्षादिकानाञ्च यतीनाञ्च तपस्विनाम्।
तत्तद्योग्यादिकंवीक्ष्य त्रिवारं हरितीर्धकम्॥ 22
तीर्धशठकोपादिषु गौरवकरणाच
द्विवारन्तु प्रसादञ्च त्रिवारं वाधपञ्चवा।
श्रीहरेश्शठ कोपञ्च दद्याद्वै मुनिपुङ्गवाः॥ 23
प्रसादादिषु सम्प्राप्त शिलादिकं नपरित्याज्यं
श्रीहरेस्तु प्रसादेषु प्रमादाद्यदिभूतले।
शिलादिकन्तुदृष्टंस्यात्तदपिर्न विसर्जयेत्॥ 24
भगवद्दर्शनार्धमागत भक्तानां तीर्धशठकोपाशीर्वादादिक प्रधानविधिः
यदातुहरि सेवार्धं महाभक्तास्समागताः।
तेषान्तु श्रीहरेस्सेवा नन्तरं पूजकस्स्वयम्॥ 25
गर्भालये स्धितश्शौरे स्सन्निधा वेवकेवलम्।
तीर्थञ्च शठकोपञ्च दत्वाशीर्वाद माचरेत्॥ 26
शठगोपङ्गर्भागृहाद्बहिरानीते कर्तव्यविधिः
भगवत्पादु कौयस्मिन् कालेगर्भ गृहाद्बहिः।
समानीतौभवेत्तस्मिन् कालेतु मुनिसत्तमाः॥ 27
सर्वमङ्गळ वाद्यादीन् अन्यान् श्रीहरिलाञ्छनान्।
करदीपादि सकलान् वेदघोषादिकान् तधा॥ 28
प्रकल्पयेद्द्विजश्रेष्ठा यधाशौरेरिवद्विजाः।
तन्नकरणेप्रत्यवाय निरूपणम्
अन्यधा कुरुतेयस्तु क्रोधलोभादि हेतुभिः॥ 29
तद्राष्ट्रञ्चादिपोराजा नरास्सर्वेनशन्तिच।
तस्यभूयात्सर्वनाशं सर्वदाचमुनीश्वराः॥ 30
द्वितीयानुबन्धः
तृतीयाध्याये अर्चकाधिक्य निरूपणे
अधिकपोठश्रोकाः
(श्लोकसङ्ख्या 93 समारभ्य पठनीयाः)
अर्चक मरणे देवालयात्तीर्धादि प्रदानम्
अर्चकस्यान्त्यकालेतु सम्प्राप्ते यदिभूसुराः।
भकवत्पादतीर्ध तु कर्वैर्वाद्यादि कैस्तधा॥ 1
देवालयात्समादाय तुलशीदळ संयुतम्।
दद्याद्वै विबुध श्रेष्टास्तस्य वैकुण्ठसिद्धये॥ 2
अवसानकाते तीर्धपाल महिमा
अर्चकोवाप्यन्ययेव अवसानेतु योभुवि।
भगवत्पाद तीर्धन्तु पिचेच्चेन्मोक्ष माप्नुयात्॥ 3
अर्चक मृत शरीरस्य देवालयाग्निना दहनविधिः अर्चक मरणे भगवन्निर्माल्यादिक प्रदानम्
अर्चकस्ययदाभूया स्मरणन्तु द्विजोत्तमाः।
देवालयाग्निनातस्यदहनं समप्यगाचरेत्॥ 4
तस्यवैमृतदेहस्य गौरवार्धं श्रियःपते।
गन्धपुष्पादि निर्माल्यै रलङ्कुर्यान्मुनीश्वराः॥ 5
अष्टाक्षरादि मन्त्राणां वर्णास्सर्वेपि भूतले।
अर्चक देह प्रभावः
अर्चकं देहमाश्रित्य वर्तन्ते सर्वदापिच॥ 6
तस्मात्तन्मृतदेहञ्च दिव्यमित्येव भावयेत्।
भगवच्छत्रवाद्यादिकैर्ग्राम प्रदक्षिणं
तद्देहन्तु महाविष्णोत्सर्ववाद्यादि कैस्सह॥ 7
छत्रादिकैश्च तद्ग्राम प्रादक्षिण्येन भूसुराः।
स्मशानन्तु समासाद्य दहनं समप्यगाचरेत्॥ 8
दहन पर्यन्तं देहालयकूट बन्धनं
यावद्दहनपर्यन्तं विष्णोद्देवालयेपिच।
नित्योत्सवादिकान्त्यक्त्वा कवाटं नविमोचयेत्॥ 9
अर्चकस्यशरीरेतु मृतेचापि मुनीश्वराः।
अर्चक देहे भगवत्कळा प्रशस्तिः मृतदेहस्यस्नपनादिकं ब्रह्ममेधसंस्कारं दहन पर्यन्तं नाशौचः
श्रीमन्नारायणकळा किञ्चिन्मात्रं प्रवर्तते॥ 10
तस्मात्तस्य शरीरस्य यधाशाश्त्रन्धरातले।
पौरुषेणैव सूक्तेन स्नपनादिक माचरेत्॥ 11
ब्रह्ममेधविधानेन संस्कारादिक मुच्यते।
यावद्दहनकालञ्च नमृताशौचमीरितम्॥ 12
दहनानन्तरं देवालये सम्प्रोक्षण स्नपन होमादि तन्नकरणे कळालोप कधनं
दहनानन्तर तस्य भगवत्सन्निधावपि।
प्रोक्षनादीन्च कृत्वादौ विशेषन्नपनञ्चरेत्॥ 13
शान्तिहोमं प्रकृर्वीत कळासम्पूर्णसिद्धये।
एवं नकुरुतेयत्र लाकेस्मिन् मुनिपुङ्गवा॥ 14
तत्रदेवालयेबिम्बे कळालोपोभवेद्धृवम्।
कळावाहनं
तस्मात्सर्व प्रयत्नेन कळावाहन माचरेत्॥ 15
दहनानन्तरन्त्वेत च्चरीरस्धहरेःकळाम्।
बिम्बे समर्पितम्भाव्य तदन्वा राधनञ्चरेत्॥ 16
प्रत्यब्दम् अर्चक मृत दिवसे विशेषाराधनं
तदारभ्यचप्रत्यचब्दम् एतस्मिन् दिवसेद्विजाः।
विशेषस्नान होमाद्यैर्हरिमभ्यर्चयेद्भुवि॥ 17
यजमान सेवकादिक मरणे भगवन्मालादिक प्रदानं
यजमानादि सर्वेषां सेवकानान्द्विजोत्तमाः।
सम्प्राप्तेमरणेचैवतदापिहरिमन्दिरात्॥ 18
पुष्पमाल्यानु लेपादीन् दत्वासम्मानमाचरेत्।
स्थानाधिप यजमानादीनाम्पचनालयाग्निना दहन कर्तव्यं
स्थानाचार्य द्यापकानां पाचकानान्त धैवच॥ 19
यजमानस्य वैभूमौ मरणे सम्भवेद्यदि।
पचनाल याग्निनावै दहनादिक माचरेत्॥ 20
यजमान स्धानपतयो र्मरणादिक सम्भवे।
तेषां मरणे दहन पर्यन्तं नित्यपूजादिक परित्यागं देवालयस्य अर्थक्रोशान्तरे द्विजादिक मरण सम्भवे
तधान्येषाञ्च विप्राणां सेवकानाञ्च भूसुराः॥ 21
यावद्दहनपर्यन्तं नित्यपूजादिकन्त्यजेत्।
देवालय समीपेतु अर्धक्रोशान्तरेभुवि॥ 22
द्विजादीनान्तु मरणं यदासम्भवतेद्विजारि।
तदातद्दहनात्पूर्वं नित्यपूजादि नाचरेत्॥ 23
तद्दहनानन्तरं स्वत्तिपुण्याहादि प्रार्पनविधीः
तेषान्तु दहनङ्कृत्वा स्वस्तिपुण्याह पूर्वकम्।
पुष्पाञ्जस्नपनंविष्णोः कृत्वापूजादिकञ्चरेत्॥ 24
देवालयश्यशतहस्तान्तरे ब्राह्मणेतर मरणेपि नित्यपूजा परित्याः
देवालयसमीपेतु शतहस्तान्त रेभुवि।
ब्राह्मणेतर वर्णानां मरणंयदिसम्भवेत्॥ 25
तदापिदहनात्पूर्वं नित्यपूजाञ्च नाचरेत्।
मरणेत्वर्चकादीनां प्रपन्नानाञ्चभूसुराः॥ 26
अर्चकादि मरणे दशाहानन्तरं तत्प्राणादिरं भगवत्समर्पण प्रकारः तत्करणे फल निरूपणं
दशाहनन्तरम्भूमौ कर्मजालं समाप्त्यच।
सर्वमङ्गळ वाद्यैश्च महाभक्त्रेश्चवैष्णवैः॥ 27
वेदघोषादिकैस्तस्य मृतस्य प्राणपञ्चकम्।
पुत्राद्यस्तु समादाय अर्पयेद्देव सन्निधौ॥ 28
तदादिसमृतश्शौरे स्सायुज्य प्राप्यमोदते।
पुनरावृत्तिवैतस्य नभवेन्निश्चयम्बुधाः॥ 29
तृतीयानुबन्धः
अधिकपाठ श्लोकाः
द्वितीयाध्याये अर्चकपरिचारकादिसङ्ख्या निर्णये
अर्चक निर्माणानन्तरं नित्यनैमित्तिकोत्सवादीनाम्भू समर्पणविधिः
अर्चकादिक निर्माणानन्तर तुश्रियःपतेः।
नित्यनैमित्ति कादीना मुत्सवादिक कर्मणाम्॥ 1
आराधनार्हवस्तूनां नैवेद्यानां यधावसु।
यजमानस्तगर्हाणि भूदानानि समाचरेत्॥ 2
एतद्दान पत्राणामर्चक प्रदान विधिः यजमानस्य शक्तितो बहुजनै रेतद्भूदानादिककर्तव्यत्व निरूपणम्
एतानि दानपत्राणा यद्वातच्छासनानिच।
सेसविवरं समालिख्य अर्चकाय प्रदापयेत्॥ 3
दानेष्वेतेषु वैयत्रकर्तारो बहवस्मृताः।
तत्तन्नाम्नादिकैरेव तत्तत्पूजादि कञ्चरेत्॥ 4
तदातत्तन्नामभिरेव उत्सवादिकरणं तद्दानादिकनकरणे
यदाकर्तात्व शक्तस्या त्तदार्चक समर्पितम्।
तत्कुटुम्बाभि वृद्द्यर्धं भूदानं यत्समीरितम्॥ 5
तम्मिन्नेवतुदेवस्य नित्यपूजादिकञ्चरेत्। 5 1/2
तृतीयाध्याये अर्चकादिक्य निरूपणे
भगवदलङ्करण योग्यवस्त्राभरणादीनाम् अर्चकस्य स्वीकारानर्हता
भगवत्स मर्पितान्सर्व वस्त्रभूषादिकान्भुवि।
स्वीकर्तुञ्च समर्धोपि अर्चकोभग वत्सुतः॥ 1
स्वमातृ पितृभावेन देवी देवञ्च भावयन्।
तयोश्चपरिवारादि बिम्बानाञ्च बुधोत्तमाः॥ 2
अमूल्यान्य ब रादीनि भूषणाणिच सःपुनः।
समर्पयेत्तेनलोके अर्चकोवृद्धि माप्नुयात्॥ 3
तच्छ्वीकरणेदोषः भगवदुत्सवादिनां समर्पित प्रव्यस्य अर्चक स्वीकारानर्हता तद्धरणे प्रत्यवायः
देवालङ्कार योग्यान्च पुष्पभूषाम्बरादिकान्।
स्वयं स्वीकरणेदोष स्सर्वदाप्यर्चकं प्रजेत्॥ 4
तधैवभगवत्पूजा वृद्ध्यर्धं चसमर्बितम्।
धनंवाधान्यमेवापि अर्चकोनपरिग्रहेत्॥ 5
एतेषां हरणेचैव वंशनाशन माप्नुयात्। 5 1/2
चतुर्धोध्याये
भगवत्तीर्ध प्रसादादिक महिमाभिवर्णने
(श्लो 163 समारभ्य पठितव्यश्लोकाः)
गरुड मन्त्रजप फलं
श्लो॥ यःपठेत्प्रत्यहम्भक्त्या गरुडस्य महमनुम्।
तस्यसर्पविषादीनि निर्विषानि भवेद्द्विजाः॥ 1
तन्दृष्ट्वा केवलंश्रीम द्वैनतेययि वद्विजाः।
सर्पानाञ्जातयस्सर्वे भीतचित्ताभवेद्भुवि॥ 2
हयग्रीव मन्त्रजप फलं
हयग्रीव महामन्त्र जपेनमुनिसत्तमाः।
विद्याप्राप्तिर्भवेल्लोके नाचिरान्नच संशयः॥ 3
श्रीराम मन्त्रजप फलं
जपेनराममन्त्रस्य यस्यकस्यापि भूतले।
सर्वदाचमरश्शान्ति रन्त्येसायुज्यमीरितम्॥ 4
सुदर्शन मन्त्र जप फलं
सुदर्शनमनुञ्जप्त्वा नरास्सर्वे द्विजोत्तमाः।
विष्वक्सेन मन्त्र पठन फलं
निरामया भवेयुर्वै प्रभावात्तस्यनिश्चयम्॥ 5
विष्वक्सेनमनुञ्जप्त्वा विघ्नशान्ति मवाप्नुयात्।
हनुमन्मन्त्रजप फलं
हनुमन्मन्त्रजपना द्ग्रहबाधाविनस्यति॥ 6
लक्ष्मीमन्त्र जपफलं
दावन्तिदूरतस्तेतु नागच्छन्तिचतेपुनः॥ 6 1/2
श्रीमन्त्रन्तुजपेद्यस्तुसर्पान्कामानवाप्नुयात्॥ 7
श्लो 184 आरभ्यपठितव्याः
श्रीवेष्णव गृहादीनां शङ्ख चक्राद्यलङ्करणं
यद्गृहंशङ्खचक्राद्यैरूर्थ्वपुण्ड्रादिलाञ्छनैः।
अलङ्कृतम्भवेत्तत्स्याक्षात्च्रीहरिमन्दिरम्॥ 7 1/2
श्रीवैष्मवकृहेषु चौर्यादिक करणे दोष प्राप्तिः
तस्मात्तस्यसमीपेतु मलनिष्टीवनादिकम्।
तद्गृहेचौर्यकरणं महापातक मुच्यते॥ 8 1/2
पात्रादीनाञ्च शङ्ख चक्रादिक लाञ्छनं
श्रीवेष्णवोपयोग्यानि पात्रादीनिच भूसुराः।
श्रीविष्णुलाञ्छ नैस्सम्य गलङ्कुर्यान्मुनिश्वराः॥ 9 1/2
तद्वस्तु समुदायेतु यद्येकमपिलोभतः।
तद्पस्तुहरणेदोष निरूपणम्
एनकेनाप्यपहृतन्तस्यनाशोभविष्यति॥ 10 1/2
तद्दोष परिहरणोपायः
प्रमादाद्यः करोत्येवं सपुनस्तान् समर्प्यच।
तेनपापेनमुच्येत नान्यधा मोचनम्भवेत्॥ 11 1/2
पञ्चमोथ्याये
धर्माधीकारि विनिश्चयविधौ
देवादाय व्ययादिषु लोपादिकं पृच्छतुं सर्व भक्तानामधीकारः तत्समाधानादिकववदिने धर्मकर्तृदण्डनविधिः
देवादायव्ययादीनां लोपोलोपोदिकम्भुवि।
पृच्छतुं सर्वभक्ताश्च समर्थायितिबोदितः॥ 1
चतेषांसमाधानं धर्मकर्तान दीयते।
यदितस्मिन् तुसमयेराजातन्दण्ड येद्द्विजाः॥ 2
देवद्रव्यादिक हरणे राज्ञोकर्तव्यता निरूपणं
धर्मकर्तादि कैर्यत्र देवद्रव्यं हरिष्यति।
तद्युक्तवर्त्मनाराजा तमाकृष्य जगत्बतेः॥ 3
पुनस्समर्पणङ्कुर्यातस्माद्वृद्थिममाप्नुयात्।
देवालयधर्मसंरक्षणे राज्ञामधीकारः
सर्वाण्यालयधर्माणि सर्वदाधरणीश्वरः॥ 4
अर्चकादिभिरन्यैश्च चोदितोपरिशीलयेत्।
शिक्षार्हान्दण्डयेच्चैव नोचेत्तत्पतनं भवेत्॥ 5
षष्ठोध्याये
सम्प्रोक्षणादिक समय निरूपणे
महाकुम्भादिक नष्टादिषु
महाकुम्भस्य नष्ठेच पतनेचापि भूसुराः।
क्रिमिकीटादि भिस्पृष्टे सम्प्रोक्षण माचरेत्॥ 1
नित्यहोम बलिदानादिकलोपे
नित्यहोमादिलोपेच बलिदानविहीनके।
लघुसम्प्रोक्षणङ्कृत्वा पुनस्तान्सर्वमाचरेत्॥ 2
प्रतिष्ठादिषु अथिवासादिकलोपे
प्रतिष्ठादिककार्येषु अधिवासादिलोपने।
सम्प्रोक्षणन्तुविधिव त्कृत्वासर्वं समाचरेत्॥ 3
चक्राब्डमण्डल विनाशे
चक्राब्जस्य विनाशेच यधाशास्त्रंश्रियःपतेः।
सम्प्रोक्षणन्तुकृत्वाच पुनस्तन्मण्डलंलिखेत्॥ 4
सप्तमोध्याये
भगवदपचार निरूपणे (श्लो 57 समारभ्य)
अश्वादि वाहनेषु भगवदालया ग्रभागगमनं रिक्तहस्तेन विष्ण्वालय गमनम्
अश्वादिकंसमारोह्ययस्तुगच्छेब्जदोनरः।
देवालयाग्र भागेतु तस्यनाशोभवेद्धृवम्॥ 1
रिक्तहस्तैस्तुयोविष्णोद्दर्शनार्धं हरिगृहम्।
प्रविशेत्तस्यचैश्वर्यं सर्वंस्यान्निष्फलम्बुधाः॥ 2
विवाहादिशुभ कार्येषु भगवदाराधनं
विवाहादिकसर्वेषु शभकार्येषुश्रीपतिम्।
धनभूषाम्बरैश्चैव भोगरागैर्य धावसु॥ 3
तद्फलप्राप्तिः तन्नकरणेदोष निरूपणं
समर्चयेत्तेनलोके मह्वृद्थिं लभेन्नराः।
योनकुर्यात्तधाभूमौ अलक्ष्यादिक हेतुभिः॥ 4
तस्यश्रेयस्तुनकदासम्भवेद्द्विज पुङ्गवाः।
तस्मात्सर्व प्रयत्नेन सर्वदाहरि मर्चयेत्॥ 5
(प्रधमानु बन्धान्तरे पठनीयाः)
शठकोप प्रदाने त्रिवार निरूपणं
शठकोप प्रदानेतु त्रिवारंयदिदीयते।
प्रधमं शिरसाधृत्वा तदनुर्दक्षिणेभुजे॥ 6
पुनश्चशिरसाचैव त्रिवारन्धारयेद्द्विजाः।
शठकोपप्रदानेतु पञ्चवारं यदाभवेत्॥ 7
पञ्चवार निरूपणं
तदाचाग्रेतुशिरसा तदमर्दक्षिणेभुजे।
वामेचाञ्जलिनाचैव ततस्तुशिरसापुनः॥ 8
एवङ्क्रमेणवैपञ्च वारन्तद्थारयेद्भुवि॥ 8 1/2
अष्टमोथ्याये
भक्तभाव विलक्षणकधने
(श्लो 21 समारभ्य पठितव्याः)
कूपादिक जलस्नाने भगवद्भागवत पादोदक भावन फलं
श्लो॥ नदीतीर्थादिकेचैव कूपादिकजलेपिवा।
भगवद्भागवताचार्य पादतीर्धन्तु भावयन्॥ 1
यस्स्नायार्भक्तिभावेन तस्यतद्भलमुच्यते॥ 1 1/2
भूमौकिमपिकार्यञ्च कर्तुङ्कोपि नशक्त्यते।
सर्वकार्याणां भगवदिच्छामात्र भावनं
सर्वञ्च श्रीहरेरिच्छा मात्रेणहिभवेन्नराः॥ 2 1/2
यधाशौरेर भीष्टंस्यात्तधायेवतु तद्भवेत्।
तस्मादेव प्रपन्नस्तु यस्यकस्यापि कर्मणः॥ 3 1/2
कार्यारम्भेकर्तृकन्दैवेनिवेशिनकधनं
त्वादिप्रारम्भेतच्छिद्थिमेकं निश्चयं नविभावयेत्।
कर्तृत्वमपिसर्वञ्च श्रीहरौविन्यसेत्तदा॥ 4 1/2
एवंयःकुरुतेभूमौ तस्यतत्कार्य नाशने।
तद्पलितञ्च तदभावेदुःख प्राप्ति निरूपणं
नकदापिभवेद्दुःखं सिद्धौसन्तोषमुच्यते॥ 5 1/2
यस्तुभाव्यविमूढात्मा प्रारम्भेकार्यसिद्धिच।
तस्य सिद्धौनमोदंस्यान्ना शेदुःखम्महद्भवेत्॥ 6 1/2
नवमोथ्याये
श्रीजयन्त्याद्युत्सवनिर्णये
श्रीराम नवमी निर्णये(श्लो 7 1/2 समारभ्य)
नवमी शेषस्यन सम्भवेदशम्यामेव उत्सवकर्तव्य निरूपणं
श्लो॥ यदातु पूर्वदिवसे नवमीदूषितं भवेत्।
परस्मीन् तुकलामात्रं नवमीयदि नास्तिचेत्॥ 1
केवलन्दशमीमेव उत्सवार्धं प्राकल्पयेत्।
(नृसिंहजयन्ती निर्णये)
चतुर्दशी शेषन सम्भवे पौर्णमास्यामेव नृसिंह जयन्ती निरूपणं
यदाचतुर्दशीभूयात्कामविद्धादि दूषितम्।
परस्मिन् दिवसेचैत न्मुहूर्तमपिनास्तिच॥ 2
तदातु पौर्णमास्यांवै कुर्यादेतन्महोत्सवम्॥ 3
(श्रीमहानवमी निर्णये)
शेष नवमीन सम्भवे दशम्या मेव महा नवमी निरूपणं
यदातुनवमीभूया दष्टमीविद्धयायुता।
परतस्तुकलामात्र मपिनस्याद्यदिद्विजाः॥ 4
केवलन्तुदशम्यांवै कुर्याद्देवीमहोत्सवम्॥ 4 1/2
किन्त्वेतत्तु भवेत्बूर्व विद्धायां नकदापिच॥ 5
दशमोध्याये
एकादशीव्रतमहिमाभि वर्णने
(श्लोक (8) समारभ्य पठितव्याः)
दूर्वास शापेन सुराणां भगवद्दर्शनानर्हत्वा कथनं
श्लो॥किन्त्वेतेगर्वभूयिष्टाः दूर्वासेनमहात्मना।
घोरशापादुपहताः महापातकसंयुताः॥ 1
तस्मात्तु भगवत्सेवा नर्हायेवत दासुराः।
बभूपुस्तद्देतुनावै निष्फलं तत्तपो भवेत्॥ 2
तस्मादेव हरिस्तेषां प्रत्यक्षं नाभवन्द्विजाः।
(श्लोक (13 1/2 समारभ्य)
एकादशी व्रताचरणत फलेन शापोवशमनं
द्व्रतस्यप्रभावेन मौनिशाप महाफलम्॥ 3
सर्वञ्चो पशमत्तेन सुरास्स्यान्निर्मलाभुवि। 3 1/2